मोघदूतम्

मोघदूतम्

Moghaduta (not Meghaduta), a humorous poetry ridiculing love (written in mandakranta metre) Moghadūta Author: Jagannath Description: Considered the best parody of Meghadūtam, where a politician uses a Gāndhī-ṭopi (political cap) as a futile messenger to convey a message. Characteristics: Uses Kālidāsa’s words verbatim for ironic effect, with beautiful language, structure, and sharp parody. Example verse provided in the article highlights a politician’s failed attempt, mocked by barking dogs at the destination. Theme: Political satire with a humorous take on ineffective communication.

पूर्वमोघः

कश्चिन्मार्गे क्वचन तरुणीं दृष्टवान् काञ्चिदात्त प्रेमभ्रान्तिः परमकुतुकात् प्राह तस्याः पुरस्तात् । बाले प्रेष्ठे त्वमसि मम हृत्सन्निविष्टेति रुष्टा सादादस्मै बत शिव शिव द्राक् कपोले चपेटाम् ॥ १॥ स्रष्टुं प्रेम्णि प्रभवतु कथं सा जडा दार्व्यहानिम् । किं जानाति प्रकृतिकठिनं प्रेमिणस्तावतैव । नैव द्वैधीभवति हृदयं खण्डशो भव्यरूपं यस्मिन्नस्ति प्रणयकणिकाश्रेणियुग् रागरोगः ॥ २॥ चूते फुल्लत्वखिलजनताविस्मयः कोविदारः प्राचीं त्यक्त्वा दिशमितरदिक्ष्वर्यमाऽऽप्नोतु जन्म । पञ्चप्राणान् प्रणयपिटके स्थापयन् आत्तनिद्रः स्पप्नानेष त्यजतु किममून् प्रीतिकूटाधिरूढान् ॥ ३॥ वेतण्डास्यप्रणयनरतो वानरस्येव कर्ता शुण्डास्थानभ्रमबहुलताहेतुतो रक्तिमाणम् । क्लृप्तस्वान्तः किल कलयितुं कन्यकायाः कपोले लब्धोद्योगोऽसृजदहह तं स्वे विधिर्दुष्टवर्मा ॥ ४॥ प्रेमिस्वान्तं हृदयमधुरोद्गारभावानभिज्ञा जानात्वेषा कथमतिरुषा दूषिता बन्धुराङ्गी । प्रेमज्वालानलकलुषिते कापथे पातिताऽस्याश् चित्ताकारा द्रवतु हि शिला कार्ययुक्त्या कया वा ॥ ५॥ एवं चिन्ताजलधिपतितः स्वोद्धृतौ बद्धदीक्षं कञ्चित् कोलं भृशमत इतोऽन्विष्य मिथ्याख्यरङ्गे । नित्यं नृत्यं किल विदधतीं बाह्यशुभ्रां तथाऽन्तर् गालीहिंसाकुसृतिमलिनां गान्धिटोपीं ददर्श ॥ ६॥ टोपीं दृष्ट्वा हृदयकमलब्रध्नकल्पामनल्पां प्रीतिं यातः सपदि युवकभ्रान्तिमार्गस्य पान्थः । टोप्यालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतो मर्त्यः किं स प्रणयजपकृत् कन्यया ताडितो यः ॥ ७॥ हस्तद्वन्द्वं स्वहृदयसमैरश्मभिः पूरयित्वा व्यादायास्यं सपदि कुतुकी स्वागतं प्राह टोप्यै । अस्तव्यस्तैः कथनमथ चारब्धवानर्थहीनैर् मूढस्तुत्यैः पदसमुदयैर्वक्ष्यमाणप्रकारम् ॥ ८॥ खादीवस्त्रैर्जननपदवीं प्रापिता कुत्र टोपी संदेशाः क्व प्रणयजडधीजन्तुभिः प्रेषणीयाः । इत्यौत्सुक्यादपरिगणयन् तां स मूर्खो ययाचे प्रेमोन्मत्ता मननमलिनाश्चेतनाचेतनेषु ॥ ९॥ निर्मस्तिष्कव्रजशिरसि सद्रत्नभूषायमाणे टोपि प्रापि प्रचुरसुकृतैर्दर्शनं ते मदीयैः । कुड्यं काष्ठां बधिरपुरुषं वीक्ष्य यद् भाषणाश्म प्रक्षेपेण व्यथयसि भुवं कण्ठशोषैः कृतेन ॥ १०॥ पादैर्हीने नयनरहिते श्रोत्रनासावियुक्ते टोपि श्रीमान् सकलमहिमा श्वेतिमा केवलस्ते । आक्रान्तुं यं कुसृतिविषये धूर्ततायां च शक्तं स्वप्नेऽप्यन्यत् किमपि सकले भूतले वस्तु नेक्षे ॥ ११॥ पूर्वं पद्यासदनगृहिणी यस्य कस्याप्यशुद्धे पादद्वन्द्वेऽनवधि विहितामर्शना त्वं ततश्च । कस्याप्यास्ये विरचितघृता सांप्रतं याऽसि साऽसि क्लेशे सत्यप्यवरयतनैः सिद्धिरासादनीया ॥ १२॥ स्वीयप्रज्ञाश्रयणजनितध्येयमार्गप्रकाशाः केचिद् धन्या अविहितपरप्रार्थनाः सिद्धसाध्याः । मन्दप्रज्ञोऽहमिह भवतीं प्रार्थये भव्यबुद्धिं हृन्मीनं ते वचनबडिशैराकृषन् मन्दमन्दम् ॥ १३॥ एष स्तौमि स्फुटमभिनयन् नाटकं प्रीतिसंज्ञं स्तुत्या तोषं यदि भजसि संदर्शितस्वीयदन्ता । निर्विद्या अप्युरुमधिगताः शिक्षणामात्यभावं भावत्काब्जद्वयजयिपदद्वन्द्वभृङ्गीभवन्तः ॥ १४॥ त्वत्पादाब्जभ्रमरितपरोपायवेण्यां श्रुतायां स्थानप्राप्तौ भवति विशये शीर्षकीटायमाने । भक्तस्य स्यात् किमिह शरणं त्वत्कटाक्षाद् ऋतेऽन्यत् कान्तिश्रेणीजनितजनतानेत्रसौभाग्यपाकात् ॥ १५॥ जानामि त्वां विफलकरणे जल्पने च प्रसक्तां कापेयानामनितरसमां संपदं किञ्च पूर्णाम् । तेनार्थित्वं त्वयि कुतरुणीताडितः सन् गतोऽहं याच्ञा मोघा वरमगुणिषु प्राप्तकामा न सत्सु ॥ १६॥ वक्रैः कार्यैरवमतिजुषां टोपि चूडाऽसि तस्मात् संदेशं मे हर विलपतः क्रुद्धकन्याऽऽहतस्य । गन्तव्यं ते गृहमतिकटुस्वान्तवत्याः सदाऽपि श्वानौ द्वारि श्रवणपरुषं बुक्कतो यत्र बद्धौ ॥ १७॥ श्रुत्वा मार्गं तव कथयतो मे चल त्वं विशुद्धं पन्थास्ते स्यात् युवककपिभिर्वावदूकैरुपेतः । प्रायो येषु प्रभवति चलच्चित्रगानां नटानां भूषावेषैरमितमहिमा नव्यरूपो विकारः ॥ १८॥ सख्युः कार्यं कलयितुमितष्टोपि यान्त्यां भवन्त्यां कञ्चिन्मुग्धं छलयितुमियं गच्छतीति स्वदृष्टीः । अग्रे कृत्वा स्तिमितनयना उन्नतभूविकाराः प्रेक्षिष्यन्ते सपदि भवतीं मानुषा राजकीयाः ॥ १९॥ त्वामीक्षित्वा सपदि मुदिता घोषणाक्रोशनाभ्यां स्वीयोन्मादप्रकटनपरा उज्झितस्वस्वकार्याः । आक्रामेयुर्झटिति भवतीमाशु ते भुग्नभावाश् चोरो दृष्ट्वा न मुदमयते पश्यतोहारकं किम् ॥ २०॥ स्वस्तीत्युक्त्वा त्वमपि ककुभां मण्डलं पूरयित्वा दन्तान् सर्वान् मुखपिटकगान् तत्पुरो दर्शयित्वा । तेषां शीर्षे गलबिलततैः सत्यनीत्यादिशब्दैः सर्वप्राणिश्रवणगरलं भाषणं वर्षयाशु ॥ २१॥ मस्तिष्कान्धान् लसदभिनयान् नाटके शोकनाम्नि प्राज्ये राष्ट्रे करणविरतिप्रार्थनाधन्यजीवान् । वीक्षस्वाग्रे यमपुरगते मानुषे राजकीये यस्मिन् कस्मिंश्चिदपि सहसा सांसदांस्त्यक्तकार्यान् ॥ २२॥ आसन्निर्वाचनसमयगाष्टोपि काश्चित् प्रतिज्ञास् त्रायस्वास्मान् किल तदननुष्ठानरुडूः प्रजाभ्यः । एवं भीत्या विलपनपरान् राजकीयान् प्रपन्नान् दृष्ट्वा धैर्यं जनय तव धीः खल्वसद्रक्षणोत्का ॥ २३॥ श्वव्रातीयं कलहमथ धिङ् मल्लजातं नियुद्धं युद्धं पूर्वं कुरुभुवि कृतं हा महाभारतीयम् । पर्यायेणाप्यनुविदधती सांसदी कार्यशैली रीतिस्फूर्जत्कवनकरणे स्फूर्तिदात्री तव स्यात् ॥ २४॥ यद्वा तद्वा नियमरहितं शासनं त्वं करोषि क्लेशानस्मद्विधजनगतान् प्रच्छकः कोऽपि नास्ति । क्रोशन्नेवं विदधति यदि त्वय्यनल्पाश्मवर्षं लोकः शीघ्रं ककुभमपरां प्राणनार्थं गृहाण ॥ २५॥ कश्चिज्ज्ञ्जानन् स्वमतिविभवस्योपयोगप्रकारं जानन्नित्थं कवयति नुवन् तन्मुदाऽऽकर्णय त्वम् । श्वेता सत्यप्यससि बहुधा वर्णवैविध्यपूर्णा गर्वासूयामिलितकुहनाजातनानाविकारा ॥ २६॥ औचित्यं नैत्ययि कमलिनीकल्पना किं भवत्यां यस्या भानुर्भवति वितरद्रूप्यकः क्षुद्रचेताः । आहोस्वित् त्वय्यथ कुमुदिनीधर्मदर्शी विपश्चित् कोऽपि स्याद्यः प्रकटयति न द्रव्यदे किं शशित्वम् ॥ २७॥ सत्यप्यन्धा त्वमथ बधिरा हन्त चक्षुष्मती त्वं दिव्यश्रोत्राऽप्यसि मम कृते टोपि भक्तस्य नन्तुः । श्रीवत्साङ्कोरसि कृतपदे ब्रह्मपत्नीशकान्ते मत्कायां ते लसतु पतितो दक्षिणायां कटाक्षः ॥ २८॥ एतादृग्भिः श्रुतियुगकलस्तोत्रपाठप्रवीणैर् गाढक्ष्वेडैः स्वहृदि वचनोद्धृतपीयूषसारैः । न प्लाव्येस्त्वं विहितनतिभिष्टोपि लब्धावकाशैर् कर्षिष्यद्भिस्तव पदयुगं पातयिष्यद्भिरग्रे ॥ २९॥ यद्याक्षेपाः श्रुतिपथगता मन्त्रिणां कार्यवैखर्य आसम्बद्ध्ये स्मितवरमुखी यच्छ मिथ्योत्तराणि । क्रुद्धा सत्यप्यननृतवचोजाग्रदुद्वेगलोकाद् आत्मत्राणप्रणिहितमतिर्विस्मृतान्यावनेच्छा ॥ ३०॥ कर्णद्वन्द्वे सकलमितरच्छृण्वती त्वं पुराणं मा भूर्विघ्रप्रतिहतमतिर्मत्क्रियासत्क्रियामाम् । कार्ये मुख्ये कुतुकविरहो गाढनिष्ठा च गौणे स्वक्षेमार्थं खलु सखि खलै राजकीयैः क्रियेते ॥ ३१॥ आहोस्वित् संविदपि भवतादावयोष्टोपि काचित् कार्यं मे त्वं जनयसि शुभं मत्प्रियागेहगन्त्री । कुर्वे यत्नं तव जयकृते भाविनिर्वाचनेऽहं मित्रे लाभं परमिह मिथो वाञ्छतः क्षुद्रबुद्धी ॥ ३२॥ मा भैषीर्यत् प्रति जिगमिषुस्त्वं गृहं तन्निकृष्टां मा मन्यस्व प्रचुरभयदां संसदं मन्त्रिपूर्णाम् । युद्धे त्वं चेञ्जयसि न सखि ब्रूहि निर्वाचनाख्ये कस्याग्रे स्वं विरुचि वदनं दर्शयिष्यस्यविज्ञे ॥ ३३॥ अग्रे त्यक्ताध्ययनसुरुचि स्वीकृतासभ्यरीति क्षीणज्ञानार्जनफलगति च्छात्रवृन्दं यदि स्यात् । तज्जानीथाः समुचितपथे यान्तमात्मानमेवं साधुर्मार्गो नृभिरनुसृतः सिद्धिशङ्कां विधत्ते ॥ ३४॥ यच्छेतर्हि श्रवणयुगलं विश्वविद्यालयीयं वृत्तं ज्ञातुं कुतुकलहरीपूरितं भूरि यत्र । गम्भीरत्वं जहति लघुतां लान्ति वाक्यानि यूनां प्रीते रीतौ किमपि समयाकुर्वतां व्यर्थमेव ॥ ३५॥ द्रष्टुं धूर्तान् गुरुतरगुरून् विश्वविद्यालयस्थान् त्वत्के नेत्रे प्रयतनवशाट्टोपि दीर्घाक्रियेताम् । वैधेयानां कपटकृतिनां गालिदाने रतानां येषां चित्तं प्रसितमनिशं कर्मसु क्षुल्लकेषु ॥ ३६॥ पश्यन्त्यास्ते किमिदमिति भीसंहितस्वान्तवृत्तेर् जैजैकारो गमनमयितुं यत्नवाञ्च्छ्रयमाणः । श्ब्दो विद्यानिलयचलितच्छात्रनिर्वाचनस्येत्य् एवं बोधे धरतु पटुतां कर्णबाधिर्यधीरः ॥ ३७॥ त्वत्सख्यार्हान् भरतकुलजान् वीक्ष्य शिष्यान् गुरूंश्च स्फोटं यायाद् हृदयकमलं प्राप्य ते भूरिहर्षम् । तस्माद् रज्जून् बलवदुरसि स्थापयित्वा बधान प्रागेवापद्धरणकरणं पद्धतिर्धीनिधीनाम् ॥ ३८॥ दृष्ट्वेष्र्ष्याल्वोरपतितधियो द्राग् विवाहाख्यगर्ते तद्दम्पत्योरनितरसमं मौढ्यमुद्वीक्षमाणा । घोराक्रोशैर्भषकयुगलं स्मारयित्रोः श‍ृणु त्वं नित्यं वादान् कठिनवचनव्रातजाताननल्पान् ॥ ३९॥ धर्मोऽस्माकं जनयति मिथः प्रेमभव्यं प्रपञ्चं दिव्यो धर्मः परिणयकृतोर्हन्त यूनोर्विवाहः । एवंभूतप्रवचनचणैश्छिन्नलाङ्गुलफेरु स्निग्धस्वान्तैस्त्वरितमतिसंधीयसे धूर्तवृद्धैः ॥ ४०॥ अद्य श्वो वा भवति कनकस्फूर्जदुद्योगलाभस् तस्मात् पुत्रा उपयमयते त्यज्ञगीःश्रद्धयाऽज्ञाः । हीनोद्योगाः कृतपरिणया अर्थलेशेन हीना नूत्नाः पत्न्योऽभिनवपतयश्चानुकम्प्या भृशं ते ॥ ४१॥ त्वत्कां कान्तिं विकसितमुखो मेलयन् दन्तपङ्क्तौ द्रष्टव्योऽग्रे निजवदनतो धूनयन् वेदमन्त्रान् । काले यूनोः परिणयविधेश्चित्तचातुर्यभास्वत् पौरोहित्यद्रविणविसरो धन्यजन्मा पुरोधाः ॥ ४२॥ तत्तत् क्रेयं धनवदभिधास्तोत्रपात्रत्वसिद्ध्यै यद्यद् वस्तु स्फुरति बहुधा टीविविज्ञापिकासु । एवं लोभातिशयविलयीभूतवित्तैः प्रमत्तैर् जायेयातां हसितरुदिते द्रागुभे मानसे ते ॥ ४३॥ हीनज्ञानां प्रगतिपदवीपान्थतामादधानान् आस्ये केशेष्वधरनखयोर्हस्तयोः पादयोश्च । पश्यन्नग्रे किमपि किमपि स्त्रीजनान् लिम्पतस्त्वं गच्छेः शोकं द्युतिविरहितानुज्झितारोग्यभाग्यान् ॥ ४४॥ अग्रे पश्येः कवनकलया जीविकाऽवाप्तिमिच्छोर् लोकज्ञानाभ्यसनविरहातङ्कशङ्काकुलस्य । कोशैः प्राच्यैरपि च कवनैराददानस्य शब्दान् संयोज्याहो किमपि वयतो दुष्कवेः साहसानि ॥ ४५॥ पक्षिप्रेक्षाकुतुकहृदयाः केऽपि विद्यावरिष्ठाः पश्यन्तस्त्वां नभसि डयते शोभना श्वेतकाकी । एवं ब्रूयुः प्रमुदितमनोवृत्तयः संलपन्तो द्योतग्राहैद्युतियुतकृतीः किञ्च गृह्णीयुराशु ॥ ४६॥ अन्तःशून्यां बहिरतितमां श्वेतिमानं दधानां षष्ठीचन्द्राकृतिसमतनुं त्वां विधायाम्बकेषु । नृत्यान्यङ्गैर्विदधति समैरेजमाना द्रुतं ते क्षिप्तस्वान्तप्रकटनपटुब्रह्मसृष्टिप्रधानम् ॥ ४७॥ आमोदस्तेऽध्वनि बहुविधोऽन्यायतः पान्थमार्गेष् उद्यानेष्वप्यविधि नगरे निर्मितैरापणैर्द्राक् । एतद्वीक्ष्याप्यजगणसमैः सज्जनैः क्षोभहीनैः कुर्यां चिन्तां जहिहि मुदिता वञ्चनाभिः स्थिरायाम् ॥ ४८॥ पद्येन त्वद्विषयकनुतिश्रेणिगण्येन पुण्यं वाञ्छन्त्येके विदधति च धीलड्डुकप्राशनाशाम् । कैश्चिद् दत्त्वा किमपि किमपि प्रार्थ्यसे वीतशङ्कं गूढस्वार्थेर्विहितविनयैः कामनां व्यञ्जयद्भिः ॥ ४९॥ मध्येपद्यं प्रकृतिगमनक्लेशकारैः फलाद्यं विक्रीणद्भिः प्रतनफलके हस्तनुन्ने सचक्रे । तद्रोधाय प्रयतनपरे रक्षिणि प्रात्तलञ्चैः स्नेहं गच्छेर्मतिगतजया भाविनिर्वाचनेषु ॥ ५०॥ सृत्याः पार्यौ हरितदलयुग्नेत्ररम्यद्रुमाली छायाशीतौ निशितपरशुक्रीडनार्था स्थलीति । भावं भूयो मनसि दधतीं पालिकां नागरीमप्य् अग्रे पश्य द्रुमसमुदयत्राणने भाषणोत्काम् ॥ ५१॥ व्याजान्वेषी सुनिपुणमदन् सर्वकारीयवित्तं मेयर्नामा बहुलमयते यो विमाने विदेशान् । ऊर्ध्वग्रीवा नयनपदवीं तं प्रहृष्टा नय त्वं मृत्वा स्वर्गं तव जिगमिषा पुण्यसंपत्तितश्चेत् ॥ ५२॥ अन्धान् एडानपि रचयतां वाहनैर्धूमभूम्ना पौरानुच्चध्वनिभिरभितोऽनल्पसंमर्दितानाम् । भीतिक्षोभे सपदि सृजतां कच्चरैर्दूषितानां मोदस्व त्वं पुरि सखि पथां वीक्षमाणा विकारान् ॥ ५३॥ रज्यन्मौढ्ये न किमति चलस्यादराज्जन्मनाऽन्धा कायस्थानां नयसि न हला याऽक्षिमार्गे कुकृत्यम् । टोपि स्वासम्मतजनकृतं प्रार्थनापत्रराशिं कुर्वाणानामधिकृतनृदृक्पातविन्यासदूरम् ॥ ५४॥ आधिक्येन स्फुटति जनता भूरिसंख्यानि यानान्य् अध्वानः संकुचितरचनाः सर्वमेतद् विलोक्य । नेत्रद्वन्द्वे सखि दृढतरं टोपि वस्त्रं बधान व्यङ्गान् पङ्गुनपि बत कुणीन् द्रष्टुमिच्छा न चेत्ते ॥ ५५॥ हंहो लब्धाकृतिरतितमां वञ्चनाञ्श‍ृङ्खलेयं मूर्तीभूता किमुत कुहना मस्तकं शाकुनं वा । एवम्भूता सपदि विशयाः सञ्जनिष्यन्त एव त्वद्र्ष्टृणां मनसि गहना ये समाधानहीनाः ॥ ५६॥ एतावन्तं समयमुपलप्रायमार्गे चरित्वा घोरक्ष्वेडानिलमयपुरप्रान्तभागे डयित्वा । श्रान्तं ते विश्रमय करणं टोपि शाखोटकोर्ध्वं वृक्षोन्मीलद्विशदकमलश्रीभ्रमोत्पादयित्री ॥ ५७॥ आस्माकीना सितपटसुता स्पन्दते जीवनाडी संचिन्त्यैवं विहितविरतौ त्वय्यगाग्रे मिलत्सु । पीयूषार्द्रा तव सचिवताकाङ्किषु ध्वेडधारा मित्रा दृक् ते पततु पदवीत्यागपत्रेच्छुकेषु ॥ ५८॥ कार्यानेन द्रुततरगतिर्दर्शनीयोऽथ रागी संपत्पुञ्जप्रचितविभवो राजकीयेऽपि विज्ञः । संन्यासी यद्वसनविगलत्कान्तितस्तेऽपि किञ्चित् काषायत्वं भवति वपुषि स्वान्तवैचित्र्यकारि ॥ ५९॥ एतावत्या वचनभवया प्रेरणानां सरण्या धाविष्यन्ती झटिति कशया शालिहोत्रीव विद्धा । उत्कर्णा त्वं श‍ृणु वरगते टोपि कौतूहलाढ्या प्रेयस्या मे सदनमधुना वर्णयन्तीर्ममोक्तीः ॥ ६०॥

उत्तरमोघः

पश्चात्तापं न वहति कृतेऽप्यागसि श्रीमदाद् या यस्याः कर्णाध्वनि मम गिरामध्वनीनत्वमिष्टम् । तस्या गेहान्नयनपथगाट्टोपि रोमाञ्चिता स्या व्योमव्यापिश्वयुगभषणश्रोत्रभङ्गातिघोरात् ॥ १॥ तूर्णं त्वं मा प्रविश सदनं हर्षतो ज्ञानहीना पश्येतां चेज्झटिति भलुहौ त्वद्भविष्यं न वेद्मि । प्रागेवैतद् विशदितमतो दुष्ठु जाते ततोऽग्रे क्षेपेषूणां तव न भविता लक्ष्यता मय्यमन्दम् ॥ २॥ श्वानौ तौ स्तां तरणिजपुरीगृह्यकौ क्रूरदंष्ट्रौ त्वं चाप्येधि प्रियसखि महावञ्चनाम्भोधिनक्रा । कम्पं ते हृद्यनुचितमहं भावये वस्तुतस्तु त्वत्प्रेष्ठौ तौ खलसुजनयोर्भेदनिर्धननेन ॥ ३॥ विश्वासाय प्रभवति महाकूटकार्ये तदेव प्रायः श्वाग्रे नतिविरचनास्वान्तलीलाविनोदे । मिथ्यानीतिं यदिह भवती नाटकार्थं बिभर्ति प्रत्यादिष्टाखिलवरगुणा गाढमाक्रान्तपीठा ॥ ४॥ सेत्स्यत्कार्या विहितविनया प्रारभस्व स्तुतीनां श्रेणीं यावद्भषणविरतिं न श्रयेते किलामू । त्वद्बोधाय त्रिचतुरनुतीः श्रावये दर्शितायां अङ्गुल्यां त्वं गिलसि हि करं लोकसम्मोहनीतौ ॥ ५॥ पूर्वं वाणी त्रिदशसमितौ वल्लकीमस्पृशन्ती हेतुं पृष्टा हृदयवरमुत्कारिणि श्वप्रलापे । कस्य श्रोत्रे सृजतु निनदैः शर्म वीणेत्यवादीद् वन्दे तादृङ्गहिमनिबिडध्वानकृद्धयां युवाभ्याम् ॥ ६॥ बद्धस्पर्धा मृदुतररवे कोकिलोऽयं युवाभ्यां हन्त प्राप्तुं जयमसफलः संकुचन् मानसेन । जातोद्वेगः कृतबहुविधह्रीक उत्पन्नशोकः शाखापत्रस्थपुटितखले क्लृप्तवान् स्वीयवासम् ॥ ७॥ रूक्षं ध्वानं जलधिसरणिर्वां समाकर्ण्य हर्षाच् छिष्या भूत्वा सपदि सफला या यशो लाति गुर्वोः । प्राप्येदानीमतिभयभरस्फूर्जथुत्वं हि सैव श्रुत्योरध्वन्यविरलमलं पूरयत्यश्मवर्षम् ॥ ८॥ शुण्डाया अप्यमरकरिणः पुच्छ्योर्वां वरत्वे सुज्ञाते सत्यपि जलपशुं वाहनीकृत्य कञ्चित् । प्रायः पश्चात्तपनजशुचा स्वर्गगेहाधिपेन क्लिन्नाक्षेण क्षितितलपतद्दृष्टिमूर्त्याऽश्रु सृष्टम् ॥ ९॥ सत्यब्जह्रीपटुनि युवयोरक्षिणीड्यौ स्फुरन्त्यां दन्तश्रेण्यामपि बहुमिलद्दाडिमीबीजपङ्कयौ । नासायां चम्पकविलयनप्रेमवत्यां च सत्यां बर्दी कश्चिज्जडमतिभिरन्विष्यतेऽन्वेष्यशोभैः ॥ १०॥ शैलीं वामाक्रमणसमयभ्राजितामेकवारं वीक्ष्यात्यन्तं शिशिरबहुले हीनपानीयलेशे । अप्राप्यान्ने हिमनिबिडताजीविकाभूरिकष्टे कैलासे द्रागभजत हरिः पार्वतीवाहनत्वम् ॥ ११॥ मेघानां खे जयति चलनं यौवयो विक्रमोऽयं कामासूयाजनिपटुतरा यौवयी रूपसंपत् । हृद्ये गाने पिकजयवरं यौवयं भुक्कणं च क्षीणा गीर्मे मितपदजुषो भूतयोर्वर्णने वाम् ॥ १२॥ बन्धू श्वानौ पशुसमजसद्रत्नभूतौ नरेड्यौ साष्टाङ्गेयं प्रणतिरधुना नम्रभावा पुरो वाम् । पादौ मूर्ध्ना स्वकृतिसमये गार्दभौ मत्कराभ्यां नम्रं नत्यां किमुत धनिकप्रीतिकृद्धयां पशुभ्याम् ॥ १३॥ धूर्तस्वामी कृपणगणराट् कोऽप्यदत्त्वा धनं मे स्वान्ते नूनं प्रहसति मया कारयन् दूत्यकार्यम् । तस्माद् द्रष्टुं लषति तनुजां स्वामिनो यौवयस्य स्वान्तं मे किञ्चिदपि लभतामित्थमाशां दधानम् ॥ १४॥ दन्तैर्मा मा सपदि दशतं पण्डितौ मांसलोभाद् वस्त्रैर्जातां चतुरहृदयौ यच्छतं मार्गमन्तः । श्वेतां शोभां धरतु सदनं श्वेतया शोभया मे पीठार्थित्वं भवतु युवयोर्भाविनिर्वाचनेषु ॥ १५॥ एवंरूपं नटनपटुतां दर्शयित्वा वशं ताव् आनीयाशु प्रकटय निजां बुद्धिमत्ताममोघाम् । नीतिं कोऽपि श्रवसि न हरिश्चन्द्रदत्तां विधत्ते लोकः सर्वोऽप्यभिनयवतां मुह्यते पाटवेन ॥ १६॥ वाक्यैरेतैरुदितहृदयामोदभूम्ना सखायौ त्वत्कौ पद्यां झटिति जहितस्त्वत्कृते तौ दयालू । सद्मान्तर्द्राक् प्रविशसुदृढं मानुषीयं न चित्तं स्वान्तं काले किमु कलिगते हन्त कौलेयकीयम् ॥ १७॥ गेहस्यान्तर्लघुशशनिभे पादविन्यासतः प्राक् सम्यग् गच्छेः पथि विलसितैर्वृक्षकैश्च क्षुपैश्च । प्रत्यग्राणां भरतजनृणां दम्भभूमा स्थितो यैर् अस्मद्देशप्रथितलपितश्रेण्यलब्धाभिधानैः ॥ १८॥ अग्रे भव्यं नयनयुगलीपर्वकृद् राजसौधं वीक्ष्याश्चर्यं तव भवतु मा शस्तवस्तुव्रजाढ्यम् । उद्योगेऽनुन्नतपदवता तादृशी सिद्धिरात्ता गूढं ज्ञात्री त्वमिह न किमत्यूर्ध्वधी राजकीये ॥ १९॥ यस्याः कस्या अपि किल पुरा धिक् पिशाच्याः पुरस्तान् नत्यैवाद्य प्रचुरधनकृत् पीठमारूढवत्याः । प्रत्यूहोऽन्यः स्थित इति न किं द्वारपालेऽथ दृष्टे चिन्तोत्थास्यत्युरुतरपथस्तत्र किं ते न भाति ॥ २०॥ आहोस्विच्चेत् तमभिलषसि प्रीतिमन्तं त्वयि द्राक् तस्योष्णीषं वद वरतरं दैवराज्यात् किरीटात् । नीरूपं तं सखि कथय वा मन्मथप्राणनाशं टोप्येतादृग्विषयविसरेष्वस्ति ते देशिकात्वम् ॥ २१॥ पर्याप्तिर्न स्फुरति यदि ते तस्य चाप्येतयोक्त्या मित्र ब्राह्मीमभिनयझरीं तच्छ्रुतौ पूरयैवम् । आर्य त्वदृष्ट्यनुपदमियं स्नेहधारा हृदुत्था शुद्धं साक्ष्यं प्रकटयति नौ पूर्वजन्मानुबन्धे ॥ २२॥ पूर्वस्यां दिश्युदयमयते द्वादशात्माधुना यद् वर्षत्यब्दो यदपि पृथिवीं सस्यवस्त्रां चिकीर्षन् । एतल्लोकप्रियघटनयोः कारणत्वं भजन्ते सौम्य त्वत्का हृदयसुभगा वृत्तयो लोकभव्याः ॥ २३॥ कश्चिद् बुद्धिप्रसरसहितम्मन्यमानो विशुद्धे त्वत्के कर्मण्यमलचरिते प्रेक्षतां दोषलेशम् । एतत् कृत्वा प्रचुरमतिमान् कृष्णरन्ध्रेषु दृष्टिं स्वीयां बध्वात्वथ स दिनकृन्मण्डलश्रीस्थितेषु ॥ २४॥ मा सूर्यः स्वं रजनिजनितं यात्ववीक्ष्यत्वमभ्रे मापीन्दुः स्वं दिनसमयजं दृश्यताऽभावमेतु । द्वावप्येतावथ सदृशतामार्य यातां त्वयाङ्ग श्राम्यत्येकः स्वगृहमवितुं भूरि नक्तन्दिवं यः ॥ २५॥ ऐन्द्रं वज्रं पतितमिह किं स्वर्गतो हेतवोऽमीः शापाद् भ्रंशश्चिरसमयतः शक्रसेवोत्थजाड्यम् । भूम्यालोके परमकुतुकं हेतुषु त्रिष्वमीषु प्राग्र्यं कस्येत्यतिविशययुग् वीक्ष्य दण्डं जनस्ते ॥ २६॥ राष्ट्राध्यक्षीभवितुमवितुं भारतं क्षेमहीनं योग्यत्वे सत्यपि बत भवान् द्वारपालो यदस्ति । तन्नः स्पष्टीगमयति कलेर्दुष्टजुष्टं प्रभावं काकश्चूते रटतु विरवे कोकिले दीनदीने ॥ २७॥ अन्याय्येऽध्वन्यनुदिनगतिर्भाति सिंहासनस्थः पान्थो न्याय्ये पथि तु वरधीर्द्वारपालत्वमेति । एतद् दृष्ट्वा मम हृदि तथा जायते तीव्र ऊष्मा सर्वोऽम्भोधिः प्रियसख यथा शुष्यति क्ष्मातलीयः ॥ २८॥ विद्याशून्यैर्बहुकलुषिते शिक्षणक्षेत्रपीठे कोषे देशद्रविणनिबिडे केनचिद् भक्ष्यमाणे । विद्वन्स्त्वादृग्वरजनकृते स्थानमेकं दुरापं मित्र स्यात्किं मयि तव हितप्रापयित्र्यां भवन्त्याम् ॥ २९॥ पुत्रीं द्रष्टुं कथयति गृहस्वामिनः कोऽपि विद्या क्षेत्रे जातो य उपमिनुते क्षेत्रियं सस्यमेव । तस्माद्दूरात् पदविरहिताभ्यागताऽहं कदाचिन् मूर्खेण ज्ञो भवति हतधीर्नाशयन् स्वीयकार्यम् ॥ ३०॥ सद्मान्तस्त्वं त्वरय वद मा तां गतां क्वापि कार्यान् नेदं राजव्यवहृतिगृहे राजकीयं कुकर्म । उत्कृष्टे सा जयति न पदे वेतनस्य ग्रहीता त्वं नाप्यन्तर्न हि भवति सा वक्तुमेवं नियुक्तः ॥ ३१॥ एवंरूपां वचनलहरीं निःसृतां त्वन्मुखाब्जाद् आकर्ष्याम्भोनिधिगतसुधाधारया बद्धमैत्रीम् । हृष्टो गेहं विशति स मनाक्स्पृष्टवैधेयभावो तामाह्वातुं युवतिमधुना प्रस्तुतं वस्तु यस्याः ॥ ३२॥ शीघ्रं नेत्रद्वयपथगता काचिदालोकमेष्यत्य् अज्ञव्रातप्रथितकथनप्राप्तरूपा पिशाची । कम्प्रस्यासावथ विटपिनो स्थूलतावान् प्रकाण्डः कोटी एते जहिहि सखि तां निश्चिनुह्यूर्वशीं मे ॥ ३३॥ टोपि श्वेता त्वमिति भुवने सुप्रसिद्धैव वार्ता कान्तिस्त्वत्का किमिति सहसा रक्तरक्ता बभूव । जानीह्यस्या अधरयुगलीलिप्तलिप्स्टिक्प्रभायाः पातान्नष्टस्तव सुरगजस्मारको हन्त वर्णः ॥ ३४॥ पूर्वं स्तोत्रैर्जगदिथ शुनीं सूकरीं वानरीं वा कार्यस्यार्थे रतिहृदि महाक्षोभसंपादयित्रीम् । तादृश्यास्ते न हि गुरुतरं स्तोत्रमस्या जडाया मृद्भक्षित्वं कियदिव शिलाकण्टकाद्यद्मरस्य ॥ ३५॥ आदौ हस्तावभिनययुजा मुद्रया दर्शयित्वा त्वद्दन्तश्रीपतनजनितं श्वेतिमानं दधानैः । केशैर्वृद्धाभ्रमपटुतरां दाम्भिकश्रेष्ठनामं नत्वा कार्यं मम सखि चिराद् वाञ्छितं प्रारभस्व ॥ ३६॥ टोपि द्रष्टुं बहुबलयुतान् प्रस्तरे नावनीत्यं चामुण्डीमप्यतिशयतया सुप्रसन्नीविधातृन् । वर्णान् सम्यग् वद जडमतिश्रोत्रकुल्यामृतोत्सान् कालेविद्यानिबिडहृदयामोदजन्मानुकूलान् ॥ ३७॥ हे स्वर्गोकःकुसुमरुचिरोद्यानखेलानिमग्न स्त्रीसंघातप्रसृमरमहातीक्ष्णमात्सर्यभूमे । सौन्दर्याभ्रस्थितलसद्दिव्यतारे मनोज्ञे लावण्याभोनिधिगतमणिश्रीप्रशस्ते नमस्ते ॥ ३८॥ आयाता त्वामसति च वरे पादनेत्रे चलन्ती नेत्रद्वन्द्वप्रतिहतसुमद्वन्द्वशोभां दिदृक्षुः । सौन्दर्यं ते गुणसमुदयं प्रोन्नतां किञ्च विद्यां सम्यक् स्तोतुं लषितमिह मां प्रापयद् दूरदेशात् ॥ ३९॥ प्रातःकाले विकसितवतः पुण्डरीकस्य बन्धुं नेत्रद्वन्द्वं तरुणि वहसीत्येवमुत्स्तोतुकामा । जोषं तिष्ठाम्यहह कमलज्ञानहीना यतस्त्वं डेराट्यूलिप्प्रभृतिसुमनोदर्शनाद् धन्यजन्मा ॥ ४०॥ हासात् त्वत्काद् वदनरचिताज्जल्पकाले सखीभिर् जृम्भे स्वीये कृतनरभये द्राक्षणे च स्वकीये । लज्जालुः सत्यनिशमधुना सूकरी गर्वहीना घोरारण्यद्द्रुमगणघनच्छायसंचारतृप्ता ॥ ४१॥ कार्तज्ञ्येन प्रणमति मनो नाभिजातं मदीयं काले विश्वप्रकटनपरे यः करेणुं ससर्ज । येन क्लेशः कविसमुदये दैवतो नैव जातस् त्वत्साम्याढ्यं किमपि कुतुकात् वस्त्ववाप्तुं प्रवृत्ते ॥ ४२॥ न्यूनीभूतं कथमिदमये भस्म मत्प्रेतभूमेर् एवं चिन्ताज्वलनशिखया दह्यमानान्तरात्मा । नेत्राणि त्रीण्यपि पशुपतिर्यस्य बाले मुखे ते टाल्कम्पौडर् मुखगतमभिप्रेक्ष्य चिन्तां जहाति ॥ ४३॥ गन्धर्वीयां श्रवणसुखदां गानपीयूषधारां वाणीयामप्यनितरसमां वल्लकीमैच्छमच्छाम् । स्वीयारावद्द्रुततरजितध्वाङ्क्संघे वरे यत् तत्रागस्वाञ्छ्रवणविरहस्त्वत्कगीतस्य बाले ॥ ४४॥ स्वीये श्वैत्येऽप्यतिगमयितुं कान्तिमुग्रां तनोस्ते कृष्णायां यो निशि गगनगः श्वेतभानुः स दर्शे । वैफल्येन क्षपितविभवः पूर्णिमायां पुनश्च श्वेतीभूतो रचितविनयो वाञ्छति त्वत्प्रसादम् ॥ ४५॥ एतावन्तं समयमितरे काव्यकर्मण्यभिज्ञास् त्वत्सौन्दर्यं न निजकवने लान्ति यत् तद् व्यनक्ति । तेषामस्मिञ्जगति जननं पुण्यलेशेन हीनं धन्यं जन्म स्फुरति किल मे त्वामहो वर्णयन्त्याः ॥ ४६॥ द्वित्रान् वर्णान् विलिखितुमपि ज्ञानहीना सती त्वं क्लिश्नासीति त्वयि दृढमधिक्षेपणं कुर्वते ये । दौर्भाग्यात्ते दधति न मतिं त्वत्कवीक्षालहर्यां हस्तक्षेत्रप्रचुरधनवार्षणेऽब्दोपमायाम् ॥ ४७॥ नैरक्षर्यं न भवति पदानर्हताया निदानं राष्ट्रेऽस्माकं तदधिकृतिकृद् योग्यताधिक्यहेतुः । एवं सत्यां वद तव कियान् ज्ञानगेहप्रवेशश् चोरो निन्द्यः सति सुविभवे पश्यतोमारके किम् ॥ ४८॥ यस्याद्य त्वं जनगणपुरः कर्तुकामापमानं खिन्ना हस्ते स न कुपितवान् योगशास्त्राद्यधीती । दुष्टो भावो हृदि सति न किं जन्म धत्ते कदाचित् साधौ मार्गे रचितगतयः पाददोषात् स्खलन्ति ॥ ४९॥ यद्यप्यागः क्वथयति मनस्ते सदा हन्त साधिं तं जानीहि स्थिरतरमतिं क्षान्तिभव्यं तथापि । तस्मात् स त्वामतिकरुणया तत्प्रसादार्थनोत्कां त्वादृग्लोकप्रसदनपटुर्मन्मुखेनेदमाह ॥ ५०॥ अग्नेर्दाहो वपुषि जनितः शोणितस्य प्रवाहः भेदो घोरः शिरसि लगुडैस्ताडनाद्वा कथञ्चित् । कोऽप्येतेषां जयति न महाचण्डिके ताडनं ते ब्रह्मास्त्राग्रे स्फुरति किमिषुप्रासकुन्तादि युद्धे ॥ ५१॥ शश्वद् योगोत्कटदृढमना ध्यानमग्नोऽपि भक्त प्रीत्या लोकप्रणतिजतपोभङ्गमङ्गीकरोमि । तस्मादद्य त्वयि विरचितोऽनुग्रहोऽयं मदीयः स्युर्मत्पादद्वयनखरुचेः पाण्डराः शीर्षजास्ते ॥ ५२॥ प्रेमव्यक्त्यै मृदुलवचनं श्रीयते कैश्चिदज्ञैर् अन्यैर्वाचा बहुलकलहो वाञ्छ्यते भावबन्धे । धन्यैर्घोरप्रकृतिभिरिलाकम्पमुत्पादयद्भिः प्रीत्युन्मादक्षुभितमतिभिः श्रीयते बाहुयुद्धम् ॥ ५३॥ श्वो वीक्ष्य त्वां हृदि मम कृपा जायते प्रायशो यत् कष्टं ते स्यान्मम पदबिसालित्वसंप्राप्तियत्ने । अश्रान्तास्मन्नयनयुगलीदीप्तिरेखावपात स्पर्धालुस्त्रीसमुदयकृतादभ्रसंदर्भभूम्ना ॥ ५४॥ भक्ते मा त्वं बिभिहि कुपितात् क्षिप्यते शापबाणो देवाच्चेत् किं करणमुचितं स्यान्ममेत्युग्रचिन्ता । अस्मत्कीर्तिर्निखिलभुवनव्यापिका नीचकृत्य प्रीतस्वान्तेष्वभयवरदा किं न याता श्रुतिं ते ॥ ५५॥ हे वन्दारो रमणि युवते लञ्चदानैः परीक्षा सूत्तीर्णत्वं तव न हि वयं रक्षिणोऽग्रे भणामः । प्रातः प्राप्स्यस्यभयवचनं बाढमस्मन्मुखाब्जाद् भीरो बाले करजसुषमारञ्जितास्मत्पदाब्जा ॥ ५६॥ अन्यत् कन्ये श‍ृणु तव पितुर्वेतनेऽल्पेऽप्यकष्टं नैकान् गेहान् स किल कुरुते राजराजाभिलष्यान् । एतन्मर्माप्रकटनवरे प्रार्थिते पूरयिष्ये को वा देवो वरनरि वरं सुप्रसन्नो न दद्यात् ॥ ५७॥ प्राप्ते रम्ये वयसि कतिचिच्छैशवं रोचयन्ते लोकज्ञानां सुवचनमिदं चारितार्थ्यं दधाति । आराद् रत्नं स्वयमुपनतं यत्तिरस्कृत्य चित्तं मौढ्योपेतं निखिलदिशमुद्घोषयस्यात्तभेरी ॥ ५८॥ प्रायोऽन्यस्मिन् निहितहृदया त्वं जने प्रीत्यनर्हे प्राक्पापीयं फलमनुभवस्यादरार्हं त्यजन्ती । मोदं याती सकृमिणि जले पूतिगन्धिन्यशुद्धे पीयूषाढ्ये सरसि भवतात् सूकरी सादरा किम् ॥ ५९॥ एवं प्रोच्य द्रुतमपसर क्रोधनायाः करस्थाद् दण्डाच्छीर्षं यदि सखि निजं मन्यसे रक्षणीयम् । आशीर्मेऽयं श्रवणसुभगः श्रूयतां शासकीयान् मा भुष्टोपि क्षणमपि न ते मस्तकाद् विप्रयोगः ॥ ६०॥ इति मोघदूतं सम्पूर्णम् ।

टिप्पणी

पूर्वमोघः १. मोघदूतं मोघो व्यर्थो दूतः आरोपितदूतत्वरूपधर्मः पदार्थष्टोपीरूपो यस्मिन् काव्ये तन्मोघदूतम् । ३. चूते कोविदारस्य जन्म पश्चिमस्यां दिशि सूर्यस्योदयो वा संभवेन्न तु प्रेमातिरेकवति युवके प्रेमभङ्ग इत्यर्थः । अर्यमा सूर्यः । ४. वेतण्डास्यः गजाननो गणेशः । ६. कोलम् उडुपम् । कोलस्तु समुद्रे प्लवते परन्तु नौकेव समुद्रे नात्यन्तमपेक्ष्यते तस्य लघुत्वात् । गाली निन्दा । कुसृतिः वञ्चना । बाह्यशुभ्राम् बाह्यभागे शुभ्राम् । ७. ब्रध्नः सूर्यः । ८. व्यादाय तिर्यगत्यन्तं विस्तृतं यथा स्यात्तथोद्घाट्य । १०. निर्मस्तिष्का इति राजकीयानां जनानां संज्ञा । धूर्तत्वादिदुर्गुणयुक्तानामपि तेषां विद्याबुद्धिहीनत्वान्मस्तिष्कशून्यत्वमत एव संगच्छते । १२. पद्या मार्ग एव सदनं तत्र गृहिणी । भिक्षुकीति यावत् । विहितामर्शना विहितस्पर्शी । अयं भावः भूतपूर्वभिक्षुकी सत्यपि अवैधैः कर्मभिरधुना धनिका संजातासि । सति क्लेशेऽवरैर्यतनैः प्रयत्नैरनुत्कृष्टैः कर्मभिः कथंचिदस्माकं सिद्धिः साधनीया । १३. पूर्वार्धस्यायं भावः प्राज्ञाः स्वकीयां प्रज्ञामाश्रयन्ति । अहं त्वामाश्रयामि मन्दप्रज्ञत्वान्मम । बडिशैः मत्स्यग्रहणार्थैस्तदाकर्षणोपयुज्यमानैर्भक्ष्यवस्तुविशेषैः । १४. एष स्तौमि अधुना स्तोत्रं प्रारभ इत्यर्थे प्राचीनः प्रयोगः । अयमागच्छामि इत्यादिवत् । निर्विद्याः विद्याशून्याः । उरुम् श्रेष्ठम् । भृङ्गीभवन्तः शिक्षणामात्यभावम् अधिगताः । १५. भवति विशये सति संशये । १८. युवककपिभिः युवकाः कपय इव तैः । वावदूकैः वादशीलैः । २०. भुग्नभावाः वक्रबुद्धयः । भुग्नं वक्रम् । पश्यतोहारकः । २१. ककुभां दिशाम् । २२. करणविरतिः शरीरविश्रान्तिः कार्यकरणाभावः । २३. रुड्भ्यः रोषाभ्यः रुट्क्रुधौ स्त्रियामित्यमरः । २४. श्वव्रातीयम् शुनां समूहस्य सम्बन्धि । अनुविदधती अनुकुर्वती । २५. लोकः जनता । प्राणनार्थम् जीवनार्थम् । २६. कश्चित् स्वार्थी स्वबुद्ध्या कार्यसाधनोपायं जानन् । नुवन् स्तुवन् । णु स्तुतौ । अससि शोभसे । अस शोभायाम् । श्वेतापि टोपी विविधमानसिकविकारहेतोर्वर्णानेकत्वं बिभर्तीति भावः । २७. अयि टोपि औचित्यं न एति किम् । त्वं कमलिन्यथवा कुमुदिनी । तव कृते धनदाता सूर्योऽथवा चन्द्रः । २८. श्रीवत्साङ्कस्य विष्णुरुरसि संपादितस्थाने लक्ष्मि ब्रह्मपत्नि सरस्वति ईशकान्ते पार्वति । २९. क्ष्वेडो विषम् । कलो मधुरः । पदयुगं कर्षिष्यद्भिः पातयिष्यद्भिश्च । ३०. आसंबद्धये असंबद्धत्वे । ३१. मुख्यगौणयोर्गौण कार्यसंप्रत्यय इति नवीनो राजकीयो न्यायः । ३२. संवित् परस्परेण व्यावहारिकोऽङ्गीकारः । संविदागूः प्रतिज्ञानमित्यमरः । द्वे शुद्धबुद्धी मित्रे मिथः परस्परेण । अर्थान्तरन्यासालङ्कारः । ३३. निर्वाचनाख्ये युद्ध इत्यन्वयः । विरुचि कान्तिरहितम् । ३५. एतर्हि अधुना । ३६. वैधेयानां मूर्खाणाम् । संशोधनविधौ संशोधनरूपे प्रौढशिक्षणक्षेत्रप्राध्यापकानां वास्तविके कर्तव्ये । केवलं पाठप्रवचनादिषु संलग्ना विश्वविद्यानिलयेषु प्राध्याकत्वपदवीं नार्हन्ति । ३७. जैजै जय जय इत्यस्य हिन्द्यादिप्रान्तभाषास्वपभ्रंशः । ३९. विवाहाख्यगर्ते ये जना न पतितास्तान् दृष्ट्वा असूयायुक्तयोर्दम्पत्योः । भषकयुगलं शुनोर्युगलम् । ४०. छिन्नं लाङ्गुलं यस्य स फेरुः श‍ृगालः । अत्रार्याः पुरातनमुदाहरन्तीममितिहासम् श‍ृगालस्य कस्यचिल्लाङ्गुलं कथञ्चिच्छिन्नमासीत् । स चिन्तितवान् मम लाङ्गलाभावं निमित्तीकृत्य सर्वैरितरैः श‍ृगालैरहं विडम्ब्ये । तन्निवारणाय किमपि कर्तव्यम् । स इतरानुवाच श‍ृगालान् हे श‍ृगालाः लाङ्गुलं श‍ृगालानां भारायते । पश्यत मां यस्य लाङ्गूलभारो नास्ति तस्मादहं शीघ्रं चलितुं शक्नोमि । यूयमपि मद्वद्युष्मदीयानि पुच्छानि कर्तयत । ततोऽन्यैः श‍ृगालैर्बुद्धिलेशमपि अबिभ्राणैस्तदङ्गीकृतम् । तेषु स्वपुच्छानि कर्तयितुमुद्यतेषु युवा बुद्धिमान् कश्चिच्छृगालः पृष्टवान् यदि पुच्छानि न सन्ति देहेऽस्माकं मक्षिकाजातायां कण्ड्डां ता मक्षिका धावयितुं क इवाभ्युपायः । तद्वद्धर्ता वृद्धाश्छिन्नलाङ्गूलेन श‍ृगालेन सादृश्यं वहमाना विनष्टविवेकाः सन्तो युवजनान् युवकान् युवतीश्च एवं दुर्बोधयन्तिः विवेकः शिरोभाराय । तदपवारणेन विवाहं कुरुध्वं शिरःशूलादपि मुक्ता भवत । अतिसंधीयासे वञ्च्यसे । ४२. पुरोधाः पुरोहितः । विवाहेन लाभः केवलं पुरोहितस्येति वास्तविकं सत्यमत्र स्फोरितम् । सत्योक्तिः किल धर्माय कल्पते । एतेन संदेशकर्तुः पुण्यलाभः सूचितः । ४३. हसितरुदिते कर्तृ । मानसे अधिकरणम् । ४४. द्युतिविरहितान् कान्त्या रहितान् । ४६. द्योतग्राहैः । द्युतियुतकृतीः । ४७. अम्बकेषु नेत्रेषु । समैः सर्वैः । एजमानाः कम्पमानाः । ते जनाः । क्षिप्तस्य स्वान्तस्य प्रकटने पटुर्यो ब्रह्मा तस्य सृष्टौ प्रधानम् । नृत्यस्य विशेषणमेतत् । ४८. अक्रमिकानपि दृष्ट्वापणान् क्षोभहीनैः । सज्जनंमन्यमानानाम् एतादृशामेव जाड्याद् भ्रष्टा निर्वाचनेषु जयशीला भवन्ति । ४९. धीलड्डुकं मनोमोदकम् । त्वयि किमपि धनादिकं दीयते । धनादिकं दत्तवद्भिः प्रार्थ्यसे च त्वं विधिविरुद्धान् वरान् । ५०. मध्येपद्यं पद्यायाः मार्गस्य मध्ये । प्रकृतिगमनक्लेशम् जनताया गतागतयोः क्लेशमुत्पादयद्भिः । फलाद्यं फलादिकम् । हस्ताभ्यां नुन्ने प्रेरिते । नुद प्रेरणे । प्रात्तलञ्चैः प्रदत्तोत्कोचैः । ५१. सृत्याः मार्गस्य । दलम् पर्णम् । स्थली स्थलम् । भावं अभिप्रायम् । पालिकां नागरीं नगरपालिकाम् । त्राणने रक्षणविषये । विषयसप्तमी । भाषणोत्काम् भाषणोत्कटाम् । ५२. मेयर्पदवीधारिणः पौनःपुन्येन सर्वकारीयं धनं भक्षयन्तो व्याजविशेषान् निमित्तीकृत्य विदेशान् प्रयान्तीति प्रसिद्धम् । ५३. कीदृशां पथाम् । पौरेषु अन्धत्वमेडत्वं चोत्पादयितॄणां सम्मर्दयुक्तानाम् । भीतिक्षोभयुक्तानां कल्मषयुक्तानां च । पुरि नगरे । पथां मार्गाणां विकारान् वीक्षमाणा । ५४. हला सख्याः संबोधनमिदम् । हण्डे हञ्जे हलाह्वाने नीचां चेटीं सखीं प्रति इत्यमरः । ५७. शाखोटकः भूतावासो वृक्षः । ५८. सितपटस्य श्वेतवस्त्रस्य सुता तन्निर्मितेति यावत् । विहितविरतौ कृत्तविश्रान्तौ । त्वयि अगाग्रे । अगाग्रे वृक्षस्याग्रे । विहितविरतौ त्वयि सत्याम् । सत्सप्तमी । क्ष्वेडः विषम् । तव मन्त्रित्वकाङ्क्षिषु अमृता स्यात्ते दृष्टिः । तव त्यागपत्रप्रदानाकाङ्ङ्क्षिषु च विषमुक् स्यात् । ५९. संपत्पुञ्जेन धनराशिना प्रचितो वृद्धिं गतो विभवो यस्य । तस्य काषायत्वकारणात् तवापि काषायत्वम् । तद्गुणः । ६०. उत्कर्णा ऊर्ध्वकर्णा सती । शालिहोत्री अश्वा । उत्तरमोघः १. आगसि अपराधे । आगोऽपराधो मन्तुश्चेत्यमरः । श्रीमदात् संपत्तिजाताद् गर्वात् । २. भलुहौ श्वानौ । क्षेपेषूणां निन्दारूपबाणानाम् । मयि अमन्दम् द्रुतम् । ३. स्ताम् अस्तेर्लोटि प्रथमद्विवचनम् । तरणिः सूर्यस्तज्जस्तत्सुतो यमः । एधि अस्तेर्लोटि मध्यमैकवचनम् । गृह्यकौ गृहपालितौ । अनुरूपो यौष्माकीणः संसर्गः क्रौर्यवञ्चनापूर्ण इति भावः । निर्धननम् नाशः । प्रेष्ठौ प्रीत्याः पात्रम् । ४. तदेव खलसुजनयोर्भेदस्य नाशनं यदुक्ते पूर्वतने पद्ये तदेव । श्वाग्रे विनतिः । प्रत्यादिष्टाः तिरस्कृताः अखिला वरगुणा यया । पीठमत्र राजकीयम् । ६. त्रिदशानां देवानां समितौ सभायाम् । वरमुत् श्रेष्ठा प्रीतिः । ध्वानः शब्दः । ७. स्थपुटित निम्नोन्नत । खले स्थले । ८. रूक्षं परुषम् । कोमलत्वधर्मप्रतियोगि । लाति आदत्ते । ला आ दाने । गुर्वोः आचार्ययोर्युवयोः शुनोः । प्रियशिष्या ललिते कलाविधौ इत्यादिप्रयोगदर्शनेन शिष्येत्येव साधुः प्रयोग इति प्रतिभाति । अस्मिन्नर्थे छात्रा इति प्रयोगस्तु नवीनः । अश्मवर्ष लक्षणया कर्णभेदकं ध्वनिम् । ९. अमरकरिणः ऐरावतस्य । शुण्डाया अपेक्षयापि युवयोरेव पुच्छं श्रेष्ठम् । एतत् सुविज्ञातम् । तथापि जले जातं पशुविशेषमेव वाहनत्वेन इन्द्रो यत्स्वीकृतवान् तदनु पश्चात्तापवता तेन रुदताश्रु वृष्ट्याकारेण सृष्टम् । १०. अब्जस्य कमलस्यापि ह्रियः लज्जाया उत्पादने पटुनि अक्षिणि चक्षुषि नेत्रे । जात्येकवचनम् । कमलस्य लज्जामुत्पादयत्सु सत्सु । बर्दी मयूरः । यद्यपि पक्षिणां दन्ता न सन्त्येव । परन्तु सौन्दर्यसूचकानि यान्यवयवानि प्रसिद्धानि तैः समुपेतयोः सतोरपि युवयोरन्यः कोऽपि मयूराख्यः पक्षिविशेषो जडैरन्विष्यत इति भावः । ११. वाम् युवयोः । आक्रमण । हरिः सिंहः । १२. भूतयोः जीविनोः । युवयोर्भावः यौवयम् । तस्य लिङ्गत्रये प्रयोगोऽत्र । १३. नराणाम् ईड्यौ स्तुत्यौ । नम्र यथा स्यात्तथा । सांप्रतिकानां धनिकानां प्रीतिकारिणः प्रायः श्वानः । पशुभ्याम् अत्र चतुर्थी । १४. दूत्यं दूतत्वं । दूतशब्दाद् दूतस्य भागकर्मणी इति यत्प्रत्ययः । दूत्याय दैत्यारिपतेः प्रवृत्त नैषधीयचरिते इत्यादयः कविप्रयोगाः । दौत्यमित्यत्र तु ब्राह्मणादेराकृतिगणत्वाद् दूतस्य ब्राह्मणादित्वं ततः गुणवचनब्राह्मणादिभ्यः कर्मणि च इति ष्यञिति रसास्वादिन्याख्यायां वेदान्तदेशिकप्रणीतहंससन्देशस्य व्याख्यायां श्रीकृष्णब्रह्मतन्त्रस्वामी । तस्मात् कुन्तलेश्वरदौत्यमिति साधु । कृते च दूत्यकार्ये ममापि किञ्चिद्धनादिकं लभ्यते । १५. पीठार्थित्वम् अन्तः प्रवेष्टुं मार्ग मे यच्छथश्चेद्भाविनिर्वाचनेषु युवयोः पीठार्थित्वं यथा भवेत्तथाहं करोमि । १७. पद्यां मार्गम् । जहितः त्यजतः । भविष्यद्वृत्त्या वर्तमाने प्रयोग ओदनं पचतीतिवत् । मनुष्याणामेव चित्तं न दृढं किमुत कलिकाले कौलेयकीयं शुनां संबन्धि । १८. लघुशशनिभे इति टोपीसंबोधनम् । शशास्तु यद्वा तद्वा झम्पादि रचयेयुः उद्यानस्य नाशमपि कदाचित् कुर्युः । तन्मा भूदिति । अत्र गूढाकूतगर्भस्य विशेषणस्य सत्त्वात् परिकरालङ्कारः । क्षुपैः ह्रस्वैः वृक्षकैः । प्रत्याग्राणाम् आधुनिकानां भारतीयानां दम्भभूमा गर्वाधिक्यम् । अस्मद्राष्ट्रे प्रथिता या भाषास्तासां श्रेणिषु अलब्धनामभिः अप्राप्तसंज्ञाकैः । १९. राजकीये अति ऊर्ध्वधीः सती त्वं गूढमिह किं न ज्ञात्री ज्ञातवती । तादृशी सिद्धिः राजसौधनिर्माणशक्तिरूपार्हता । २०. प्रत्यूहः विघ्नः । द्वारपाले दृष्टे विघ्नोऽन्य उपस्थित इति चिन्ता नोत्थास्यति किम् । तत्र श्रेष्ठ उपायः किं न भाति ते । २१. विसरेषु समूहेषु । २३. द्वादशात्मा सूर्यः । अब्दः मेघः । २४. बुद्धिप्रसरसहितम्मन्यमानः पण्डितंमन्य इति यावत् । यदि त्वयि दोषलेशोऽस्ति सूर्येऽपि कृष्णरन्ध्राणि सन्ति । यथा सूर्ये कृष्णरन्ध्राणि न सन्ति तथा त्वय्यपि दोषलेशो नास्तीति भावः । निदर्शनासखो मिथ्याध्यवसित्यलङ्कारोऽयम् । अयमलङ्कारो न सिद्ध्यतीति यदुक्तं पण्डितराजेन रसगङ्गाधरे तन्नातीव श्रद्धेयम् । २५. अवीक्ष्यत्वम् अदृश्यत्वं मा यातु । यातां लोट् प्र द्वि व । एकः एकाकी । भूरि अधिकम् । सूर्यो नक्तमपि चन्द्रश्च दिवापि गगने स्वकर्तव्यं भूमिप्रकाशनरूपं कुरुतां तदनन्तरमेव गृहरक्षणरूपं कर्तव्यभारं नक्तमपि दिवापि निर्वहता त्वया सदृशौ भवताम् । २६. प्राग्र्यं प्राशस्त्यम् । तव करे दण्डं वीक्ष्य त्रयः संशया उत्पद्यन्ते जनानां मनसि । अतिविशययुक् अत्यन्तं संशयालुः । २७. दुष्टैः जुष्टं सेवितम् । अनार्यजुष्टमित्यादि भगवद्गीतावाक्यं स्मर्यताम् । विरवे रवरहिते मौनवतीति यावत् । २८. सिंहासनमत्र लक्षणयाधिकारः । अन्याय्ये मार्गे गन्ता उन्नताधिकारी भवति न्याय्ये तु मार्गे गन्ता द्वारपालकः । २९. येन केनापि किमपि किमपि भाग्यं संपाद्यते । एवं सति किं तव कृतेऽधिकारस्थानं प्रापयितुं न शक्यते त्वद्धितकारिण्या मया । ३०. क्षेत्रियच्यरक्षेत्रे चिकित्स्य इति शास्त्रम् । असत्यपि पोषणे क्षेत्रे समुत्पद्यमानं सस्याहारस्य स्वयं भक्षणेन व्रीह्यादिवर्धने क्लेशप्रदं सस्यं यत्तदेव क्षेत्रियंसस्यमिति सर्वगन्धासंपादको दि डा वीरभद्रमिश्र आह स्म । इदं शस्तं प्रतिभाति । ३१. उत्कृष्टे पदे अधिकृते पीठ इति यावत् । जयति विराजते । कार्यान् कार्यात् । अनुनासिकसन्धिः । चतुर्थे कारण इदं वक्तव्यम् सदापि कार्यालये नास्ति मुख्योऽधिकारी इति आगन्तून् जनान् वक्तुमेव केचिद् द्वारपालाः वेतनं गृह्णन्तीति प्रसिद्धम् । ३२. अम्भोनिधौ लवणिमा वर्तते न पुनः सुधेति स्मर्यतामत्र । ३३. अज्ञानामेव व्रातेषु समूहेषु प्राप्तरूपा न वस्तुसती । कम्प्रस्य कम्पनशीलस्य । जङ्गमस्येति यावत् । असौ । विटपिनो वृक्षस्य प्रकाण्डः मूलाच्छाखापर्यन्तो भागः । कोटी विकल्पद्वयम् । कोटी एते प्रकृतिभावः । ३४. लिप्स्टिक् । ३५. तादृश्याः इत्थंभूतलक्षणायाः । अद्मरस्य अतिभक्षणशीलस्य । ३६. वृद्धेति दृष्टृणां भ्रमजनने पटुतरां नत्वेत्यन्वयः । दाम्भिकानां श्रेष्ठो यथा नमति तथा उपमाने कर्मणि च इति णमुल् । ३७. प्रस्तरे लक्षणया कठिने हृदये । नावनीत्यं नवनीतत्वम् । लक्षणया मृदुत्वम् । बलिष्ठान् वशयितुं मृदुला वर्णा उच्चार्यन्ते । तथा कालेज्विद्यार्थिनीमिमां प्रसादयितुं मृदु यथा स्यात्तथा संभाषस्वेत्यर्थः । ३८. स्वर्गोकसो ये देवास्तेषां कुसुमसुन्दरोद्याने खेलन्तीनां स्त्रीणां वृन्देऽसूयां जनयित्रि । ४०. जोषं स्पन्दनं यथा न स्यात्तथा । विदेशादागतानां डेराट्यूलिप्प्रभृतीनां सुमनसां कुसुमानां दर्शनेन धन्यजन्मा । ४२. नाभिजातं ब्रह्माणम् । विश्वप्रकटनपरे विश्वज्ञानस्य सर्वत्र प्रसरणपरे काले सृष्टिसमय इति यावत् । करेणुम् गजस्त्रियम् । ४३. टाल्कम्पौडर् । ४४. हे बाले इति चतुर्थपादे संबुद्धिः । वाणीयाम् वाणीसंबद्धाम् । वल्लकीम् लक्षणया वल्लकीसमुद्भवं नादम् । ध्वाङ्क्षः काकः । आगस्वान् अपराधी । श्रवणविरहः श्रवणाभावः । यदि तव निर्जितकाकरवं गानमश्रोष्यं नाहं गन्दर्वगानवल्लकीनादौ अपैक्षिष्ये । वल्लकीनादश्रवणेच्छायां हेतुस्तव रवश्रवणाभावः । ४५. श्वेतभानुः चन्द्रः । दर्शे अमावस्यायाम् । यद्यपि अमावस्यायां कृष्णां त्वत्कान्तिमतिक्रमितुं चन्द्रः प्रयत्नं करोति परन्तु विफलः सन् पुनः पूर्णिमायां श्वेत एव भवति । ४६. एतावत्कालपर्यन्तमन्यैः कविभिस्त्वस्सौन्दर्यस्य कवितादिरचनास्ववर्णितत्वे हेतुमाह एतावन्तमित्यादिना । न लान्ति न स्वीकुर्वन्ति । ला आदाने । ४७. त्वयि तव विषये । विषयसप्तमी । अधिक्षेपणं निन्दाम् । निरक्षरकुक्षिस्त्वम् । हस्त एव क्षेत्रं तत्र प्रचुरस्य धनरूपस्य वारः वार्शब्दस्य षष्ठ्येकवचने पदरूपम् वारिणः वर्षणे अब्दोपमायां मेघोपमायाम् । तव कटाक्षे निपतिते त्वं यथेच्छम् उत्कोचं दातुं समर्थासीत्यजानानास्ते त्वं निरक्षरकुक्षिरिति निन्दां कुर्वन्ति । उत्कोचं प्राप्य ते निन्दामेतां त्यजन्तु त्वां विद्यावतीं सर्वत्र घोषयन्त्वित्याकूतम् । ४८. निदानं कारणम् । ज्ञानगेहे विद्यालये । पश्यतोमारके विश्वविद्यानिलयेषु यः शैक्षिकः स्तरभङ्गस्तं विरुध्य बुद्धिजीविनः भाग्यवशादद्यत्वे पत्रिकासु भाषणादिषु च क्रोधं प्रदर्शयन्ति । परन्तु क्रोधस्य प्रकाशनं नालम् । अनर्हाणां विश्वविद्यानिलयेषु प्रवेशावकाश एव निषेध्य इति ममाभिप्रायः । ४९. सति वरे । वरेऽपि हृदि कदाचिद् दुष्टभावजननरूपो दोषो भवति । कदाचिदिति मध्यमणिन्यायेन वाक्यद्वयेऽप्यन्वेति । मार्गे शुद्धेऽपि उच्चावचत्वहीने स्खलनहेतुः पाददोषः । ५०. आगः अपराधः । आगोऽपराधो मन्तुश्चेत्यमरः । क्षान्त्या क्षमागुणेन भव्याम् । प्रसादार्थनोत्काम् प्रसन्नताविषयिकायां प्रार्थनायाम् उत्कटमतिं त्वाम् । प्रसदने प्रसादे पटुः सन् । ५१. अग्नेः अग्निङस् । अग्नेर्दाहो वा रुधिरप्रवाहो वा शिरस्ताडनं वा यां वेदनां जनयन्ति सा तव ताडनजाताया वेदनाया अग्रे क्षुल्लकाः अपरिगणनीयाः । प्रासकुन्तौ आयुधविशेषौ । ५२. त्वयि मह्यं प्रणमन्त्यां मम नखकान्तिकारणात् तव कृष्णाः केशाः श्वेता भवन्तु । पाण्डराः श्वेताः । रुचेः रुचिङस् । शीर्षजाः केशाः । तद्गुणानुप्राणिता पर्यायोक्तिः । ५३. प्रेम्णोऽभिव्यक्त्यै त्रयः सन्त्युपायाः मृदुवचनं परुषवचनं बाहुयुद्धं चेति । तत्र बाहुयुद्धं प्रशस्ततमम् एकान्तेन फलदातृत्वात् । शस्ता प्रशस्ता प्रकृतिः । इला भूमिः । ५४. पदमेव बिसम् कमलं तत्रालित्वं भ्रमरत्वम् । अदभ्रम् बहुलम् । ५५. वृत्तिः मनोवृत्तिः । ५६. वन्दारो वन्दनशीले श्वः करिष्यमाणवन्दने इति यावत् । भयदे भयं कुर्वाणे इदं च रक्षिगेहे इत्यस्य विशेषमम् । रक्षिणोऽग्रे । करजाः नखाः । पर्यायोक्त्यङ्कारः । ५७. राजराजः कुबेरः । मर्मणो रहस्यस्य अप्रकटनरूपे वरे । वरनरि वरे नरि नृङि मनुष्ये । लिङ्गमतन्त्रम् । वरं कामनाम् । ५८. आरात् समीपे । आराहूरसमीपयोरित्यमरः । ५९. सकृमिणि कृमिसहिते । नान्तः कृमिन्शब्दः । ६०. क्रोधनायाः अतिक्रोधशीलायाः । शासकीयान् शासकीयात् । Encoded and proofread by samvadah@proton.me Copyright S. Jagannatha
% Text title            : Moghadutam a humorous poetry ridiculing love
% File name             : moghadUtam.itx
% itxtitle              : moghadUtam (es\. jagannATha virachitaM hAsyakAvya)
% engtitle              : moghadUtam
% Category              : misc
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : S. Jagannath
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : samvadah@proton.me
% Proofread by          : samvadah@proton.me
% Indexextra            : (Scan)
% Acknowledge-Permission: Copyright S. Jagannatha
% Latest update         : August 8,, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org