नीतिसारम्

नीतिसारम्

गिरौ कलापी गगणे पयोदा लक्षान्तरेऽर्कश्च जलेषु पद्माः । इन्दुर्द्विलक्षं कुमुदस्य वन्धुर्यो यस्य मित्रं न हि तस्य दूरम् ॥ १॥ माता निन्दति नाभिनन्दति पिता भ्राता न सम्भाषते भृत्यः कुप्यति नानुगच्छति सुतः कान्ता च नालिङ्गते । अर्थप्रार्थनशङ्कया न कुरुतेऽप्यालापमात्रं सुहृत् तस्मादर्थमुपार्जयस्व च सखे स्वार्थस्य सर्वेवशाः ॥ २॥ धनैर्निष्कुलीनाः कुलीना भवन्ति धनैरापदं मानवा निस्तरन्ति । धनेभ्यः परो वान्धवो नास्ति लोके धनान्यर्जयध्वं धनान्यर्जयध्वम् ॥ ३॥ अर्थस्य पुरुषो दासो दासस्त्वर्थो न कस्यचित् । इति सत्यं महाराज बद्धोऽस्मर्थेन कौरवैः ॥ ४॥ त्रिविक्रमोऽभूदपि वामनोऽसौ स सूकरश्चेति स वै नृसिंहः । नीचैरनीचैरतिनीचनीचैः सर्वैरुपायैः फलमेव साध्यम् ॥ ५॥ चलच्चित्तं चलद्वित्तं चलज्जीवनयौवनम् । चलाचलमिदं सर्वं कीर्तिर्यस्य स जीवति ॥ ६॥ स जीवति यशो यस्य कीर्तिर्यस्य स जीवति । अयशोऽकीर्तिसंयुक्तो जीवन्नपि मृतोपमः ॥ ७॥ वृद्धस्य वचनं ग्राह्यमापत्काले ह्युपस्थिते । सर्वत्रैवं विचारेण नाहारे न च मैथुने ॥ ८॥ क्वचिद्रुष्टः क्वचित्तुष्टो रुष्टस्तुष्टः क्षणे क्षणे । अव्यवस्थितचित्तस्य प्रसादोऽपि भयङ्करः ॥ ९॥ निमित्तमुद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति । अकारणद्वेषि मनस्तु यस्य कथं जनस्तं परितोषयिष्यति ॥ १०॥ दश व्याघ्रा जिताः पूर्वं सप्तसिंहास्त्रयो गजाः । पश्यन्तु देवताः सर्वा अद्य युद्धं त्वया मया ॥ ११॥ सिंह उवाच - गच्छ सूकर भद्रन्ते ब्रूहि सिंहो मया जितः । पण्डिता एव जानन्ति सिंहसूकरयोर्बलम् ॥ १२॥ उद्योगिनं पुरूषसिंहमुपैति लक्ष्मी- र्दैवेन देयमिति कापुरुषा वदन्ति । दैवं निहत्य कुरु पौरुषमात्मशक्त्या यत्ने कृते यदि न सिद्ध्यति कोऽत्र दोषः ॥ १३॥ एका भार्या प्रकृतिमुखरा चञ्चला च द्वितीया पूरुस्त्वेको भुवनविजयी मन्मथो दुर्निवारः । शेषः शय्या शयनमुदधौ वाहनं पन्नगारिः स्मारं स्मारं स्वगृहचरितं दारुभूतो मुरारिः ॥ १४॥ अतिदूरपथश्रान्ताश्छायां यान्ति च शीतलाम् । शीतलाश्च पुनर्यान्ति का कस्य परिदेवना ॥ १५॥ अपमानं पुरष्कृत्य मानं कृत्वा च पृष्ठके । स्वकार्यमुद्धरेत् प्राज्ञः कार्यध्वंसो हि मूर्खता ॥ १६॥ एको हि दोषो गुणसन्निपाते निमज्जतीन्दोरिति योऽवभाषे । नूनं न दृष्टं कविनापि तेन दारिद्र्यदोषो गुणराशिनाशी ॥ १७॥ कृतस्य करणं नास्ति मृतस्य मरणं तथा । गतस्य शोचना नास्ति ह्येतद्वेदविदाम्मतम् ॥ १८॥ नाकाले म्रियते जन्तुर्विद्धः शरशतैरपि । कुशकण्टकविविङ्वोऽपि प्राप्तकालो न जीवति ॥ १९॥ निमग्नस्य पयोराशौ पर्वतात् पतितस्य च । तक्षकेनापि दष्टस्य आयुर्मर्माणि रक्षति ॥ २०॥ करोतु नाम नीतिज्ञो व्यवसायमितस्ततः । फलं पुनस्तदेव स्याद्यद्विधेर्मनसि स्थितम् ॥ २१॥ इति श्रीमहाकवि घटकर्पर विरचितं नीतिसारं समाप्तम् ॥ Encoded by Seshadri N Proofread by Seshadri N, PSA Easwaran
% Text title            : Nitisaram
% File name             : nItisAram.itx
% itxtitle              : nItisAram (mahAkavighaTakarparavirachitam)
% engtitle              : nItisAram
% Category              : misc, subhaashita, sahitya
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : mahAkavi ghaTakarpara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Seshadri N, PSA Easwaran
% Description/comments  : Kavyasangraha, Ed. John Haeberlin, 1847, Jibananda Vidyasagara 1888
% Indexextra            : (Scans 1, 2)
% Latest update         : June 12, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org