निरौपम्यस्तवः
निरौपम्य नमस्तुभ्यं निःस्वभावार्थवादिने ।
यस्त्वं दृष्टिविपन्नस्य लोकस्यैव हितोद्यतः ॥ १॥
न च नाम त्वया किञ्चिद् दृष्टं बौद्धेन चक्षुषा ।
अनुत्तरा च ते नाथ दृष्टिस्तत्त्वार्थदर्शिनी ॥ २॥
न बोद्धा न च बोद्धव्यमस्तीह परमार्थतः ।
अहो परमदुर्बोधां धर्मतां बुद्धवानसि ॥ ३॥
न त्वयोत्पादितः कश्चिद् धर्मो नापि निरोधितः ।
समतादर्शनेनैव प्राप्तं पदमनुत्तमम् ॥ ४॥
न संसारात्प्रकर्षेण त्वया निर्वाणमीप्सितम् ।
शान्तिस्तेऽधिगता नाथ संसारानपराधितः ॥ ५॥
त्वं विवेदैकरसतां सङ्क्लेशव्यवदानयोः ।
धर्मधात्वविनिर्भेदाद् विशुद्धश्चासि सर्वतः ॥ ६॥
नोदाहृतं त्वया किञ्चिदेकमप्यक्षरं विभो ।
कृत्स्नश्च वैनेयजनो धर्मवर्षेण तर्पितः ॥ ७॥
न तेऽस्ति सक्तिः स्कन्धेषु न धात्वायतनेषु च ।
आकाशसमचित्तस्त्वं सर्वधर्मेषु निश्रितः ॥ ८॥
सत्त्वसंज्ञा च ते नाथ सर्वथा न प्रवर्तते ।
दुःखार्तेषु च सत्त्वेषु त्वमतीव कृपात्मकः ॥ ९॥
सुखदुःखात्मनैरात्म्यनित्यानित्यादिषु प्रभो ।
इति नानाविकल्पेषु बुद्धिस्तव न सज्जते ॥ १०॥
न गतिर्नागतिः काचिद्धर्माणामिति ते मति ।
न क्वचिद्राशितः प्रोक्तो धर्मार्थपरमार्थवित् ॥ ११॥
सर्वत्रानुगतश्चासि न च यातोऽसि कुत्रचित् ।
जन्मधर्मशरीराभ्यामचिन्त्यस्त्वं महामुने ॥ १२॥
एकत्वान्यत्वरहितं प्रतिश्रुत्कोपमं जगत् ।
सङ्क्रान्तिनाशाय गतं बुद्धवान् त्वमनिन्दित ॥ १३॥
शाश्वतोच्छेदरहितं लक्ष्यलक्षणवर्जितम् ।
संसारमवबुद्धस्त्वं स्वप्नमायादिवत् प्रभो ॥ १४॥
वासनामूलपर्यन्तक्लेशनद्यो विनिर्जिताः ।
क्लेशप्रकृतितश्चैव त्वयामृतमुपार्जितम् ॥ १५॥
अलक्षणं त्वया धीरं दृष्टं रूपमरूपवत् ।
लक्षणोज्ज्वलगात्रश्च दृश्यसे रूपगोचरे ॥ १६॥
न च रूपेण दृष्टेन दृष्ट इत्यभिधीयसे ।
धर्मदृष्ट्या सुदृष्टोऽसि धर्मता न च दृश्यते ॥ १७॥
शौषीर्यो नास्ति ते कायो मांसास्थिरुधिरो न च ।
इन्द्रायुधमिव कायं विना दर्शितवानसि ॥ १८॥
नामयो नाशुचिः काये क्षुत्तृष्णासम्भवो न च ।
त्वया लोकानुवृत्त्यर्थं दर्शिता लौकिकी क्रिया ॥ १९॥
कर्मावरणदोषश्च सर्वथाऽनघ नास्ति ते ।
त्वया लोकानुकम्पायै कर्मप्लोतिः प्रदर्शिता ॥ २०॥
धर्मधातोरसम्भेदाद् यानभेदोऽस्ति न प्रभो ।
यानत्रितयमाख्यातं त्वया सत्त्वावतारतः ॥ २१॥
नित्यो ध्रुवः शिवः कायस्तव धर्ममयो जिन ।
विनेयजनहेतोश्च दर्शिता निर्वृतिस्त्वया ॥ २२॥
लोकधातुष्वसङ्ख्येषु त्वद्भक्तैः पुनरीक्षसे ।
च्युतिजन्माभिसम्बोधिचक्रनिर्वृतिलालसैः ॥ २३॥
न तेऽस्ति मन्यना नाथ न विकल्पो न चेञ्जना ।
अनाभोगेन ते लोके बुद्धकृत्यं प्रवर्तते ॥ २४॥
इति सुगतमचिन्त्यमप्रमेयं गुणकुसुमैरवकीर्य मया प्राप्तम् ।
कुशलमिह भवन्तु तेन सत्त्वाः परमगभीरमुनीन्द्रधर्मभाजनाः ॥ २५॥
इति निरौपम्यस्तवः समाप्तः ॥