पाञ्चालिकृतं कृष्णाय कौरवाणां दुर्व्यवहारं निवेदनम्

पाञ्चालिकृतं कृष्णाय कौरवाणां दुर्व्यवहारं निवेदनम्

पाञ्चाली पुण्डरीकाक्षमासीनं यादवैः सह अभिगम्याब्रवीत्कृष्णा शरण्यं शरणैषिणी ॥ ४२॥ पूर्वे प्रजानिसर्गे त्वामाहुरेकं प्रजापतिम् । स्रष्टारं सर्वभूतानामसितो देवलोऽब्रवीत् ॥ ४३॥ विष्णुस्त्वमसि दुर्धर्ष त्वं यज्ञो मधुसूदन । यष्टा त्वमसि यष्टव्यो जामदग्न्यो यथाब्रवीत् ॥ ४४॥ ऋषयस्त्वां क्षमामाहुः सत्यं च पुरुषोत्तम । सत्याद्यज्ञोऽसि सम्भूतः कश्यपस्त्वां यथाब्रवीत् ॥ ४५॥ साध्यानामपि देवानां वसूनामीश्वरेश्वरः । लोकभावन लोकेश यथा त्वां नारदोऽब्रवीत् ॥ ४६॥ दिवं ते शिरसा व्याप्तं पद्भ्यां च पृथिवी विभो । जठरं ते इमे लोकाः पुरुषोऽसि सनातनः ॥ ४७॥ विद्यातपोऽभितप्तानां तपसा भावितात्मनाम् । आत्मदर्शनसिद्धानामृषीणामृषिसत्तम ॥ ४८॥ राजर्षीणां पुण्यकृतामाहवेष्वनिवर्तिनाम् । सर्वधर्मोपपन्नानां त्वं गतिः पुरुषोत्तम ॥ ४९॥ त्वं प्रभुस्त्वं विभुस्त्वं भूरात्मभूस्त्वं सनातनः लोकपालाश्च लोकाश्च नक्षत्राणि दिशो दश नभश्चन्द्रश्च सूर्यश्च त्वयि सर्वं प्रतिष्ठितम् ॥ ५०॥ मर्त्यता चैव भूतानाममरत्वं दिवौकसाम् । त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम् ॥ ५१॥ सा तेऽहं दुःखमाख्यास्ये प्रणयान्मधुसूदन । ईशस्त्वं सर्वभूतानां ये दिव्या ये च मानुषाः ॥ ५२॥ कथं नु भार्या पार्थानां तव कृष्ण सखी विभो । धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी ॥ ५३॥ स्त्रीधर्मिणी वेपमाना रुधिरेण समुक्षिता । एकवस्त्रा विकृष्टास्मि दुःखिता कुरुसंसदि ॥ ५४॥ राजमध्ये सभायां तु रजसाभिसमीरिताम् । दृष्ट्वा च मां धार्तराष्ट्राः प्राहसन्पापचेतसः ॥ ५५॥ दासीभावेन भोक्तुं मामीषुस्ते मधुसूदन । जीवत्सु पाण्डुपुत्रेषु पाञ्चालेष्वथ वृष्णिषु ॥ ५६॥ नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः । स्नुषा भवामि धर्मेण साहं दासीकृता बलात् ॥ ५७॥ गर्हये पाण्डवांस्त्वेव युधि श्रेष्ठान्महाबलान् । ये क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीं यशस्विनीम् ॥ ५८॥ धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् । यौ मां विप्रकृतां क्षुद्रैर्मर्षयेतां जनार्दन ॥ ५९॥ शाश्वतोऽयं धर्मपथः सद्भिराचरितः सदा । यद्भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि ॥ ६०॥ भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता । प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ॥ ६१॥ आत्मा हि जायते तस्यां तस्माज्जाया भवत्युत । भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे ॥ ६२॥ नन्विमे शरणं प्राप्तान्न त्यजन्ति कदाचन । ते मां शरणमापन्नां नान्वपद्यन्त पाण्डवाः ॥ ६३॥ पञ्चेमे पञ्चभिर्जाताः कुमाराश्चामितौजसः । एतेषामप्यवेक्षार्थं त्रातव्यास्मि जनार्दन ॥ ६४॥ प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् । अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ॥ ६५॥ कनिष्ठाच्छ्रुतकर्मा तु सर्वे सत्यपराक्रमाः । प्रद्युम्नो यादृशः कृष्ण तादृशास्ते महारथाः ॥ ६६॥ नन्विमे धनुषि श्रेष्ठा अजेया युधि शात्रवैः । किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम् ॥ ६७॥ अधर्मेण हृतं राज्यं सर्वे दासाः कृतास्तथा । सभायां परिकृष्टाहमेकवस्त्रा रजस्वला ॥ ६८॥ नाधिज्यमपि यच्छक्यं कर्तुमन्येन गाण्डिवम् । अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन ॥ ६९॥ धिग्भीमसेनस्य बलं धिक्पार्थस्य च गाण्डिवम् । यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति ॥ ७०॥ य एतानाक्षिपद्राष्ट्रात्सह मात्राविहिंसकान् । अधीयानान्पुरा बालान्व्रतस्थान्मधुसूदन ॥ ७१॥ भोजने भीमसेनस्य पापः प्राक्षेपयद्विषम् । कालकूटं नवं तीक्ष्णं सम्भृतं लोमहर्षणम् ॥ ७२॥ तज्जीर्णमविकारेण सहान्नेन जनार्दन । सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम ॥ ७३॥ इति महाभारते आरण्यपर्वणि १३ अध्यायान्तर्गतं पाञ्चालिकृतं कृष्णाय कौरवाणां दुर्व्यवहारं प्रति निवेदनं सम्पूर्णम् । महाभारत । आरण्यकपर्व । अध्याय १३/४३-५२॥ mahAbhArata . AraNyakaparva . adhyAya 13/43-52.. Proofread by PSA Easwaran
% Text title            : Panchalikritam Krishnaya Kauravanam Durvyavaharam Nivedanam
% File name             : pAnchAlikRRitaMkRRiShNAyakauravANAMdurvyavahAraMnivedanam.itx
% itxtitle              : kRiShNAyakauravANAMdurvyavahAraMnivedanam (pAnchAlikRitaM mahAbhAratAntargatam)
% engtitle              : pAnchAlikRRitaM kRRiShNAyakauravANAMdurvyavahAraMnivedanam
% Category              : misc, mahAbhArata
% Location              : doc_z_misc_general
% Sublocation           : misc
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : mahAbhArata | AraNyakaparva | adhyAya 13/43-52||
% Indexextra            : (Scans 1, 2, 3, 4, 5, Gujarati, Bengali, Hindi)
% Latest update         : October 18, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org