पाञ्चालिकृतं कृष्णाय कौरवाणां दुर्व्यवहारं निवेदनम्
पाञ्चाली पुण्डरीकाक्षमासीनं यादवैः सह
अभिगम्याब्रवीत्कृष्णा शरण्यं शरणैषिणी ॥ ४२॥
पूर्वे प्रजानिसर्गे त्वामाहुरेकं प्रजापतिम् ।
स्रष्टारं सर्वभूतानामसितो देवलोऽब्रवीत् ॥ ४३॥
विष्णुस्त्वमसि दुर्धर्ष त्वं यज्ञो मधुसूदन ।
यष्टा त्वमसि यष्टव्यो जामदग्न्यो यथाब्रवीत् ॥ ४४॥
ऋषयस्त्वां क्षमामाहुः सत्यं च पुरुषोत्तम ।
सत्याद्यज्ञोऽसि सम्भूतः कश्यपस्त्वां यथाब्रवीत् ॥ ४५॥
साध्यानामपि देवानां वसूनामीश्वरेश्वरः ।
लोकभावन लोकेश यथा त्वां नारदोऽब्रवीत् ॥ ४६॥
दिवं ते शिरसा व्याप्तं पद्भ्यां च पृथिवी विभो ।
जठरं ते इमे लोकाः पुरुषोऽसि सनातनः ॥ ४७॥
विद्यातपोऽभितप्तानां तपसा भावितात्मनाम् ।
आत्मदर्शनसिद्धानामृषीणामृषिसत्तम ॥ ४८॥
राजर्षीणां पुण्यकृतामाहवेष्वनिवर्तिनाम् ।
सर्वधर्मोपपन्नानां त्वं गतिः पुरुषोत्तम ॥ ४९॥
त्वं प्रभुस्त्वं विभुस्त्वं भूरात्मभूस्त्वं सनातनः
लोकपालाश्च लोकाश्च नक्षत्राणि दिशो दश
नभश्चन्द्रश्च सूर्यश्च त्वयि सर्वं प्रतिष्ठितम् ॥ ५०॥
मर्त्यता चैव भूतानाममरत्वं दिवौकसाम् ।
त्वयि सर्वं महाबाहो लोककार्यं प्रतिष्ठितम् ॥ ५१॥
सा तेऽहं दुःखमाख्यास्ये प्रणयान्मधुसूदन ।
ईशस्त्वं सर्वभूतानां ये दिव्या ये च मानुषाः ॥ ५२॥
कथं नु भार्या पार्थानां तव कृष्ण सखी विभो ।
धृष्टद्युम्नस्य भगिनी सभां कृष्येत मादृशी ॥ ५३॥
स्त्रीधर्मिणी वेपमाना रुधिरेण समुक्षिता ।
एकवस्त्रा विकृष्टास्मि दुःखिता कुरुसंसदि ॥ ५४॥
राजमध्ये सभायां तु रजसाभिसमीरिताम् ।
दृष्ट्वा च मां धार्तराष्ट्राः प्राहसन्पापचेतसः ॥ ५५॥
दासीभावेन भोक्तुं मामीषुस्ते मधुसूदन ।
जीवत्सु पाण्डुपुत्रेषु पाञ्चालेष्वथ वृष्णिषु ॥ ५६॥
नन्वहं कृष्ण भीष्मस्य धृतराष्ट्रस्य चोभयोः ।
स्नुषा भवामि धर्मेण साहं दासीकृता बलात् ॥ ५७॥
गर्हये पाण्डवांस्त्वेव युधि श्रेष्ठान्महाबलान् ।
ये क्लिश्यमानां प्रेक्षन्ते धर्मपत्नीं यशस्विनीम् ॥ ५८॥
धिग्बलं भीमसेनस्य धिक्पार्थस्य धनुष्मताम् ।
यौ मां विप्रकृतां क्षुद्रैर्मर्षयेतां जनार्दन ॥ ५९॥
शाश्वतोऽयं धर्मपथः सद्भिराचरितः सदा ।
यद्भार्यां परिरक्षन्ति भर्तारोऽल्पबला अपि ॥ ६०॥
भार्यायां रक्ष्यमाणायां प्रजा भवति रक्षिता ।
प्रजायां रक्ष्यमाणायामात्मा भवति रक्षितः ॥ ६१॥
आत्मा हि जायते तस्यां तस्माज्जाया भवत्युत ।
भर्ता च भार्यया रक्ष्यः कथं जायान्ममोदरे ॥ ६२॥
नन्विमे शरणं प्राप्तान्न त्यजन्ति कदाचन ।
ते मां शरणमापन्नां नान्वपद्यन्त पाण्डवाः ॥ ६३॥
पञ्चेमे पञ्चभिर्जाताः कुमाराश्चामितौजसः ।
एतेषामप्यवेक्षार्थं त्रातव्यास्मि जनार्दन ॥ ६४॥
प्रतिविन्ध्यो युधिष्ठिरात्सुतसोमो वृकोदरात् ।
अर्जुनाच्छ्रुतकीर्तिस्तु शतानीकस्तु नाकुलिः ॥ ६५॥
कनिष्ठाच्छ्रुतकर्मा तु सर्वे सत्यपराक्रमाः ।
प्रद्युम्नो यादृशः कृष्ण तादृशास्ते महारथाः ॥ ६६॥
नन्विमे धनुषि श्रेष्ठा अजेया युधि शात्रवैः ।
किमर्थं धार्तराष्ट्राणां सहन्ते दुर्बलीयसाम् ॥ ६७॥
अधर्मेण हृतं राज्यं सर्वे दासाः कृतास्तथा ।
सभायां परिकृष्टाहमेकवस्त्रा रजस्वला ॥ ६८॥
नाधिज्यमपि यच्छक्यं कर्तुमन्येन गाण्डिवम् ।
अन्यत्रार्जुनभीमाभ्यां त्वया वा मधुसूदन ॥ ६९॥
धिग्भीमसेनस्य बलं धिक्पार्थस्य च गाण्डिवम् ।
यत्र दुर्योधनः कृष्ण मुहूर्तमपि जीवति ॥ ७०॥
य एतानाक्षिपद्राष्ट्रात्सह मात्राविहिंसकान् ।
अधीयानान्पुरा बालान्व्रतस्थान्मधुसूदन ॥ ७१॥
भोजने भीमसेनस्य पापः प्राक्षेपयद्विषम् ।
कालकूटं नवं तीक्ष्णं सम्भृतं लोमहर्षणम् ॥ ७२॥
तज्जीर्णमविकारेण सहान्नेन जनार्दन ।
सशेषत्वान्महाबाहो भीमस्य पुरुषोत्तम ॥ ७३॥
इति महाभारते आरण्यपर्वणि १३ अध्यायान्तर्गतं
पाञ्चालिकृतं कृष्णाय कौरवाणां दुर्व्यवहारं प्रति निवेदनं सम्पूर्णम् ।
महाभारत । आरण्यकपर्व । अध्याय १३/४३-५२॥
mahAbhArata . AraNyakaparva . adhyAya 13/43-52..
Proofread by PSA Easwaran