पीठस्तवः
१
ब्रह्माणी तत्त्वरूपा विविधघनरवा घोरचण्डी च रौद्री
कौमारी कीर्तिकामा पिबति मधुमदं वैष्णवी गायमाना ।
वाराही वादयन्ती पटुतरपटहान् नृत्यमाना तथैन्द्री
चामुण्डा चापि लक्ष्मीर्हरगणसहिता मातरो वः पुनन्तु ॥ १॥
२
गणपतिं च हेरम्बं विघ्नराजं विनायकम् ।
देवपुत्रं महावीर्यं महाबलपराक्रमम् ॥ २॥
महोदरं महाकायमेकदन्तं गजाननम् ।
श्वेतवर्णं महादीप्तिं त्रिनेत्रं गणनायकम् ॥ ३॥
अक्षमाला(च) वरदं दक्षिणकरसंस्थितम् ।
परशुर्मुण्डपात्रं च वामहस्तविधारणम् ॥ ४॥
नानापुष्परतं देवं नानागन्धावलेपनम् ।
नागयज्ञोपवीताङ्गं नानाविघ्नविनाशनम् ॥ ५॥
देवासुरमनुष्यैश्च सिद्धगन्धर्वकिन्नरैः ।
पूजितं विघ्नहन्तारं मूषकाटं नमाम्यहम् ॥ ६॥
३
ब्रह्माणी ब्रह्मसावित्री ब्रह्मतत्त्वविवेदिनी ।
चतुर्भुजा चतुर्वक्त्रा चतुर्देवपरायणा ॥ ७॥
चतुर्देशे चिरं व्यापी चतुर्युगोपकारिणी ।
हंसयुक्तविमानस्था सौम्यरूपा पितामही ॥ ८॥
पुस्तकं पुष्पमालां च वरदाभयधारिणी ।
पीतपुष्परता देवी पीताङ्गा पीतसन्निभा ॥ ९॥
पीतोपहारसंयुक्ता पीतगन्धानुलेपिनी ।
उदुम्बरद्रुमस्था च प्रयागक्षेत्रवासिनी ॥ १०॥
पूर्वपीठे स्थिता नित्यं ब्रह्मशक्तिर्नमोऽस्तु ते ।
४
माहेश्वरी महादेवी मोहमायानिरञ्ज(कृन्त) नी ॥ ११॥
महावृषसमारूढा महाहुङ्कारनादिनी ।
हेममुक्त(क्ता)निभदेहा कपालशशिशेखरा ॥ १२॥
त्रिलोचना त्रिशुली च अक्षसूत्रकमण्डलू ।
नानालङ्कारसर्वाङ्गी दक्षिणेन वरप्रदा ॥ १३॥
सृष्टिस्थितिविनाशानां सर्वथापीश्वरेश्वरी ।
श्वेतपुष्परता देवी श्वेतगन्धानुलेपिनी ॥ १४॥
श्वेतवस्त्रपरीधाना मुद्राभरणभूषिता ।
वाराणस्यां महाक्षेत्रे तार(ल)वृक्षनिवासिनी ॥ १५॥
उत्तरे संस्थिता पीठे माहेश्वरी नमोऽस्तु ते ।
५
बालभावे महारौद्री कौमारी रक्तलोचनी ॥ १६॥
रक्तवर्णधरा देवी सिन्दूरारूणविग्रहा ।
चतुर्भुजा शक्तिसूत्रसिद्धपात्रधरा शुभा ॥ १७॥
कौमारी परमा शक्तिर्मयूरवरवाहिनी ।
रक्तवस्त्रपरीधाना रक्तमांसावसायिनी ॥ १८॥
कोलापुरमहाक्षेत्रे वटवृक्षनिवासिनी ।
अग्निपीठस्थिता नित्यं कौमारी ते नमो नमः ॥ १९॥
६
वैष्णवी विष्णुमाया च दैत्यदुर्दान्तनाशिनी ।
हरितश्यामवर्णाङ्गी गरुडोपरि संस्थिता ॥ २०॥
शङ्खचक्रगदाहस्ता चतुर्बाहुविभूषिता ।
रक्तज्वाला महाक्रीडा नानाभरणभूषिता ॥ २१॥
हरितपुष्पगन्धा च हरितवस्त्रधारिणी ।
अट्टहासे महाक्षेत्रे कदम्बवृक्षवासिनी ॥ २२ ।
स्वर्गे मर्त्ये च पाताले स्थितिरूपेण संस्थिता ।
तिष्ठन्ती पीठनैरॄत्ये नारायणी नमोऽस्तु ते ॥ २३॥
७
वाराही घोररक्ताङ्गी रक्तकेशी महोदरी ।
दंष्ट्रावादिनी गम्भीरा रक्तनेत्रा त्रिलोचनी ॥ २४॥
कपालमालिका माला विचित्रपुष्पशोभिता ।
महाशूकसमारूढा ज्वलिताग्निसमप्रभा ॥ २५॥
अङ्कुशकर्तिकादण्डहाडाभरणभूषिता ।
त्रिनेत्रा ज्वलितदेहा च दुष्टदर्पविनाशिनी ॥ २६॥
जयन्तीक्षेत्रसंस्थाना निम्बवृक्षसमाश्रिता ।
याम्यपीठे स्थिता नित्यं कोलरूपी नमोऽस्तु ते ॥ २७॥
८
शक्रेश्वरी सहस्राक्षो कुङ्कुमारुणविग्रहा ।
सुरेश्वरी देवदेवी सर्वालङ्कारभूषिता ॥ २८॥
चतुर्भुजा विशालाक्षी छत्रघण्टाविधारणी ।
महावज्रधरा देवी स्थिता चैरावते गजे ॥ २९॥
नानापुष्परता देवी नानारत्नविभूषिणी ।
नानागन्धविलिप्ताङ्गी नानावस्त्रविराजिनी ॥ ३०॥
चीर(न)क्षेत्रे महाक्षेत्रे करञ्जवृक्षसंस्थिता ।
नागपीठस्थिता नित्यं शक्रेश्वरि नमोऽस्तु ते ॥ ३१॥
९
चामुण्डा चण्डिका चण्डी प्रचण्डसुरसुन्दरी ।
चण्डाट्टहासा चण्डाक्षी प्रचण्डचण्डनाशिनी ॥ ३२॥
दंष्ट्राकराला रक्ताङ्गी कपिलकेशी महोदरी ।
कृषा(पा)णी भीषणी रौद्री जिह्वाललनभीषणा ॥ ३३॥
महाप्रेतासनारूढा भुजाष्टकसुशोभिनी ।
असिचर्मयुता हस्तैः डमरुखट्वाङ्गधारिणी ॥ ३४॥
कर्तिकपालहस्ता च वरदाभयभूषिता ।
हाडालङ्कारसर्वाङ्गी अरिप्रत्यसुदा प्रिया ॥ ३५॥
सहस्रसूर्यसङ्काशा रोपकूपं प्रति प्रति ।
ज्वालामालाकुला देहे(सूर्य)कोटिसमप्रभा ॥ ३६॥
भूतवेतालडाकिन्यः परिवाराश्च राक्षसाः ।
एकमक्षमहाक्षेत्रे अश्वत्थवृक्षवासिनी ।
पीठे मरुतसंस्थाने चामुण्डायै नमोऽस्तु ते ॥ ३७॥
१०
महालक्ष्मीर्महादेवी भोगाढ्या गुणसुन्दरी ।
वैदूर्यपादुकारूढा सिंहासनस्थिता सुधीः ॥ ३८॥
चतुर्भुजा विशालाक्षी खड्गखेटकधारिणो ।
पात्रबिन्दुधरा देवी हार्धयुक्(हारार्धयुग)कुण्डली ॥ ३९॥
रत्नखचितसर्वाङ्गी चूडामणिविभूषिता ।
विचित्रपुष्परत्ना च वस्त्रगन्धानुलेपना ॥ ४०॥
त्रैलोक्यव्यापिनी देवी सर्वस्था सचराचरा ।
सिद्धगन्धर्वनमिता विद्याधरसुरार्चिता ॥ ४१॥
देवीकोटमहाक्षेत्रे प्लक्षसंस्था वरा बला ।
ईशानपीठसंस्थाना महालक्ष्मीः नमोऽस्तु ते ॥ ४२॥
११
जननी सर्बबुद्धानां सर्वसन्तोषकारिणी ।
त्वमेव सर्वरूपा च त्वमेव विश्वरूपिणी ॥ ४३॥
भैरवं भीषणं रौद्रं घोरगम्भोररूपिणम् ।
निरञ्जननिभं देहं सर्वकाममहोत्सवम् ॥ ४४॥
नानाभुजसमाकीर्णा नानावस्त्रधरा शुभा ।
बभ्रुरर्धशिरोरूहा दावाग्निसमतेजसा ॥ ४५॥
त्रिलोचना महातेजा अग्निसूर्यसमप्रभा ।
त्रिशूलं मुण्डं खट्वाङ्गं डमरुं तर्जनीं ध्वजम् ॥ ४६॥
१२
प्रज्ञां तत्पुस्तकं चैव खड्गचर्मधरा शुभा ।
पाशाङ्कुशधरं देवं वज्रसूचीमहाधरम् ॥ ४७॥
कपालकर्तिकं चक्रं गजचर्मावगुण्ठितम् ।
दंष्ट्राकरालवदनं व्याघ्रचर्मकटीवृतम् ॥ ४८॥
सालङ्कारेण सर्वाङ्गं नरास्थिपुष्पशोभितम् ।
शीर्षमालाधरा देवी कापालिकोटरं शुभम् ॥ ४९॥
चूडामणिं महातेजं कपालं चन्द्रभूषितम् ।
महाप्रेतासनं नित्यं नीयमाना सदा प्रिया ॥ ५०॥
१३
सहस्रसूर्यसङ्काशा छत्रबिन्दुसमन्विता ।
चतुष्पीठस्थिता नित्यमष्टक्षेत्रनिवासिनी ॥ ५१॥
अष्टमूर्तिस्थिता देवी अष्टकयोगिनीप्रिया ।
भद्रपीठे स्थिता नित्यं भद्रकालीसमावृता ॥ ५२॥
१४
भद्रकारणकर्ता त्वं वीरभद्र नमोऽस्तु ते ।
असिताङ्गो रुरुश्चैव चण्डोऽथ क्रोधभैरवः ॥ ५३॥
उन्मत्तभैरवश्चैव कपाली भीषणस्तथा ।
संहारभैरवञ्चाष्टभैरवाय नमोऽस्तु ते ॥ ५४॥
१५
स्वस्थाना स्वाधिकारा च स्वस्वरूपा स्ववीरका ।
स्वस्वच्छवृक्षतानं न दिव्याक्षं चैव भूमिगाः ॥ ५५॥
दशदिक्क्षेत्रपालं च क्षेत्राणि च चतुर्दश ।
पञ्चाशक्षेत्रपालं च क्षेत्रपाल नमोऽस्तु ते ॥ ५६॥
१६
नाथनाथ महानाथ आदिनाथ महामते ।
श्रीनाथ सिद्धनाथ मीननाथ नमोऽस्तु ते ॥ ५७॥
क्षेत्रनाथ पीठनाथ द्वीपनाथ महात्मने ।
प्रेतनाथ भूतनाथ बढनाथ नमोऽस्तु ते ॥ ५८॥
त्रिनाथं नवनाथं च षोडशनाथमुत्तमम् ।
सप्तविंशतिपञ्चाशचतुरशीति नमोऽस्तु ते ॥ ५९॥
सर्वेषां नाथसिद्धानां मतं चक्षुस्त्वमव्ययम् ।
पोतसद्म तथा वीरस्ततः सर्व नमोऽस्तु ते ॥ ६०॥
१७
एकवारं द्विवारं च त्रिवारं यः पठेन्नरः ।
शतमावर्तयेद् येन प्राप्नोति फलमुत्तमम् ॥ ६१॥
नाशयेच्छोकचिन्तादि नाशयेद् विघ्नमण्डलम् ।
नाशेयेद् रोगकलहान् नाशयेद् दुःखदुष्करम् ॥ ६२॥
नाशयेद् भयदारिद्रयं नाशयेद् रिपुजं भयम् ।
नाशयेदग्निचौरादि नाशयेद् राजकोपजम् ॥ ६३॥
नाशयेद् विग्रहं घोरं परकृताभिचारकम् ।
नाशयेद् द्वेषरागादि नाशयेत् सर्वपातकम् ॥ ६४॥
आयुरारोग्यमैश्वर्यधनधान्यप्रवर्धनम् ।
धर्मार्थकाममोक्षाणां यशःसौभाग्यवर्धनम् ॥ ६५॥
ऋद्धिं सिद्धिं श्रियं लक्ष्मीं विद्यां ज्ञानं सुतादि च ।
बुद्धिं प्रजां सुमित्राणि वर्धयेच्च दिने दिने ॥ ६६॥
नाकाले मरणं चैव उत्पातं नाशयेत् सदा ।
सर्वे रोगाः प्रशाम्यन्ति दीर्घमायुरवाप्यते ॥ ६७॥
इति श्रीपीठस्तवस्तोत्रं सम्पूर्णम् ॥