नीलकण्ठ गोस्वामिविरचितं पञ्चरत्नम्

नीलकण्ठ गोस्वामिविरचितं पञ्चरत्नम्

पञ्चरत्नानि - मातृ-रत्नम् । गुरु-रत्नम् । धर्म-रत्नम् । विवेक-रत्नम् । हरिनाम-रत्नम् ।

मङ्गलाचरणम्

एकात्मानौ स्वरूपेण विभिन्नौ नामरूपतः । भक्तेच्छया द्विधाभूतौ वन्दे श्रीकृष्णशङ्करौ ॥ १॥ नवीननीरदश्यामतुषारसितविग्रहौ । फुल्लमीलितनेत्राब्जौ वन्दे श्रीकृष्णशङ्करौ ॥ २॥ किशोरसुकुमाराङ्गप्रवीणपृथुरूपकौ । श्रीखण्डभस्मलिप्ताङ्गौ वन्दे श्रीकृष्णशङ्करौ ॥ ३॥ रत्नालङ्काररुद्राक्षविभूषितवराङ्गकौ । वनमालास्थिमालाढ्यौ वन्दे श्रीकृष्णशङ्करौ ॥ ४॥ पीताम्बरो ययोरेक इतरश्च दिगम्बरः । समावप्यसमावेतौ वन्दे श्रीकृष्णशङ्करौ ॥ ५॥ ललाटविलसच्छीतचन्दनेन्दुविभूषितौ । सुकेशेजटिलौ नित्यं वन्दे श्रीकृष्णशङ्करौ ॥ ६॥ कौस्तभद्युतिसम्भातगरलाङ्कितकण्ठकौ । पिच्छनागकृतापीडौ वन्दे श्रीकृष्णशङ्करौ ॥ ७॥ राधाधिकृतवामार्द्ध-गिरिजाधिकृतार्द्धकौ । युगले युग्मरूपेण वन्दे श्रीकृष्णशङ्करौ ॥ ८॥ व्रजवाराणसीनित्यधामनित्यविराजितौ । यमुनाजाह्नवीकान्तौ वन्दे श्रीकृष्णशङ्करौ ॥ ९॥ लीलाध्यानपरौ नित्यं नित्यरागिविरागिणौ । आनन्दज्ञानरूपौ च वन्दे श्रीकृष्णशङ्करौ ॥ १०॥ यद्गोचरा ययोर्लीला यल्लीला नान्यगोचरा । तावचिन्त्यमहैश्वर्यौ वन्दे श्रीकृष्णशङ्करौ ॥ ११॥ वन्दे कृष्णं शिवं वन्दे व्यासेन हि पृथक् पृथक् । एकीकृत्य समासेन वन्दे श्रीकृष्णशङ्करौ ॥ १२॥

मातृ-रत्नम्

या देवी मानवीरूपा दृश्यते चर्मचक्षुषा । ईश्वरी भक्तिदृष्ट्या तु तस्यै मात्रे नमो नमः ॥ १॥ या देवी दशमास्यं मां सन्दधार । वसुधाया अधिष्ठात्र्यै तस्यै मात्रे नमो नमः ॥ २॥ या देवी मद्भराक्रान्ता क्लान्ताप्यासीत् सुनिर्वृता । स्वयं धृति-स्वरूपायै तस्यै मात्रे नमो नमः ॥ ३॥ या देवी शयनेऽप्यासीदशक्ता मत्कृते परम् । उदारता-स्वरूपायै तस्यै मात्रे नमो नमः ॥ ४॥ या देवी चक्षमे दोषं कुक्षौ चाञ्चल्यजं मम । क्षमायै रूपधारिण्यै तस्यै मात्रे नमो नमः ॥ ५॥ या देवी मत्कृते सेहे दुःसहां प्रसवव्यथाम् । सहिष्णुता-स्वरूपायै तस्यै मात्रे नमो नमः ॥ ६॥ या देवी परितुष्टासीन् मां प्रसूय शुचिस्मिता । प्रफुल्लता-स्वरूपायै तस्यै मात्रे नमो नमः ॥ ७॥ या देवी मां निधायाङ्के स्तन्यामृतमपाययत् । दयायै रूपधारिण्यै तस्यै मात्रे नमो नमः ॥ ८॥ या देवी मे मलं मूत्रं स्वहस्ताभ्यामपाकरोत् । ममतायाः प्रतिष्ठायै तस्यै मात्रे नमो नमः ॥ ९॥ या देवी मां सदा दध्यौ व्यग्रापि गृहकर्मसु । निष्ठायै रूपधारिण्यै तस्यै मात्रे नमो नमः ॥ १०॥ या देवी मां सदारक्षत् पणीकृत्य स्वजीवनम् । रूपवत्यै प्रतिज्ञायै तस्यै मात्रे नमो नमः ॥ ११॥ या देवी स्वसुखं हित्वा मम शान्तिमवर्द्धयत् । परार्थ-प्राणरूपायै तस्यै मात्रे नमो नमः ॥ १२॥ या देवी निजरक्तं मद्देहपुष्ट्ये ददौ सदा । वदान्यता-स्वरूपायै तस्यै मात्रे नमो नमः ॥ १३॥ या देवी मम दौरात्म्यं सेहे मित्यमकातरम् । निर्विकार-स्वरूपायै तस्यै मात्रे नमो नमः ॥ १४॥ या तुष्टे मयि सन्तुष्टा या रुग्णे मयि रोगिणी । या शान्ते मयि शान्तासीत्तस्यै मात्रे नमो नमः ॥ १५॥ या मत्पीडा-प्रशान्त्यर्थं सिषेवे स्वयमौषधम् । स्नानाशने परित्यज्य तस्यै मात्रे नमो नमः ॥ १६॥ अशक्तस्याङ्ग-चेष्टायां मनोभाव-प्रकाशने । यां विना मे गतिर्नासीत्तस्यै मात्रे नमो नमः ॥ १७॥ अमृतं वचने यस्या हृदये च पवित्रता । करयोश्चन्दनालेपस्तस्यै मात्रे नमो नमः ॥ १८॥ या युक्ता पूजयद्देवान् मम कल्याण-वाञ्छया । सद्भक्त्या भक्तिरूपाये तस्यै मात्रे नमो नमः ॥ १९॥ अहमेव धनं यस्या अहं प्राणा अहं मनः । अहमेव च सर्वस्वं तस्यै मात्रे नमो नमः ॥ २०॥ सर्वेषामेव संसारे स्नेहः स्वार्थ-समन्वितः । निःस्वार्थ-स्नेहपूर्णा या तस्यै मात्रे नमो नमः ॥ २१॥ यां विना सर्वसम्पत्ति-सर्वात्मीय-समन्वितम् । भवनं काननप्रायं तस्यै मात्रे नमो नमः ॥ २२॥ कुपुत्रा बहवः सन्ति कुमाता न कदाचन । इति यस्याः शुभा ख्यातिस्तस्यै मात्रे नमो नमः ॥ २३॥ प्रत्यक्ष-देवता या च प्रत्यक्ष-परमेश्वरी । अप्राकृतस्वरूपायै तस्यै मात्रे नमो नमः ॥ २४॥ अनादृतापि पुत्रेण शुद्धभावेन वाञ्छति । या सदा तस्य कल्याणं तस्यै मात्रे नमो नमः ॥ २५॥ यस्यामनादृतायाञ्च तपोहोम-जपादिकम् । सर्वं विफलतां याति तस्यै मात्रे नमो नमः ॥ २६॥ यस्यां समर्च्चितायां हि सर्वदेवार्च्चनं भवेत् । सर्वदेव-स्वरूपायै तस्यै मात्रे नमो नमः ॥ २७॥ विन्दुमात्रं यदुष्णाश्रु भस्मीकर्त्तुमलङ्कुलम् । अचिन्त्यशक्तिरूपाये तस्यै मात्रे नमो नमः ॥ २८॥ यस्यामपूजितायां हि विविधैरुपचारकैः । विफला देवता-पूजा तस्यै मात्रे नमो नमः ॥ २९॥ यदर्च्चनं विना याग-व्रताद्या विविधाः क्रियाः । स्वर्गदा न भवन्त्येव तस्यै मात्रे नमो नमः ॥ ३०॥ आशीर्वादबलाद् यस्या अयत्नेनैव मानवः । लभते सर्वकल्याणं तस्यै मात्रे नमो नमः ॥ ३१॥ सर्वसत्-कर्मकर्त्तापि यत्सेवाविमुखो नरः । अकीर्त्तिं लभते लोके तस्यै मात्रे नमो नमः ॥ ३२॥ सर्वदुष्कर्मकर्त्तापि यत्सेवानिरतो नरः । लभते विपुलां कीर्त्तिं तस्यै मात्रे नमो नमः ॥ ३३॥ धृतिः क्षमा दमः सत्यं दया दाक्षिण्यमेव च । वसन्ति सर्वदा यस्यां तस्यै मात्रे नमो नमः ॥ ३४॥ यस्याः सुनिर्मलं स्नेहं विना सृष्टिपरम्परा । क्षणेनैव भवेद्रुद्धा तस्यै मात्रे नमो नमः ॥ ३५॥ कटुतिक्तमपि द्रव्यं यया दत्तं सुधायते । अमृताधार-रूपाये तस्यै मात्रे नमो नमः ॥ ३६॥ मा-संज्ञा भूतले यस्या मधुरा मधुरादपि । परमानन्द-रूपायै तस्यै मात्रे नमो नमः ॥ ३७॥ कठोर-क्लेशकालेऽपि यां समाहूय मानवः । क्षणं शान्तिमवाप्नोति तस्यै मात्रे नमो नमः ॥ ३८॥ यत्समो नास्ति संराध्यो यत्समा नास्ति देवता । हितेच्छुर्यत्समो नास्ति तस्यै मात्रे नमो नमः ॥ ३९॥ गुरुश्च यत्समो नास्ति नात्मीयश्चापि यत्समः । अद्वितीय-स्वरूपाये तस्यै मात्रे नमो नमः ॥ ४०॥ गङ्गाया अपि या शुद्धा कोमला कुसुमादपि । निर्मलाकाशतश्चापि तस्यै मात्रे नमो नमः ॥ ४१॥ निःस्वार्थं शुद्धवात्सल्यं भक्ते भगवतो यथा । तथैव तनये यस्यास्तस्यै मात्रे नमो नमः ॥ ४२॥ स्वसृष्टि-रक्षणार्थाय पालनीं शक्तिमात्मनः । भगवान् प्रददौ यस्यै तस्यै मात्रे नमो नमः ॥ ४३॥ स्वयं भगवती किंवा यस्या हृदयमास्थिता । करोति पालनं शश्वत्तस्यै मात्रे नमो नमः ॥ ४४॥ वहिर्या मानवीरूपा मांसास्थि-शोणितान्विता । अन्तस्तु देवता साक्षात्तस्यै मात्रे नमो नमः ॥ ४५॥ यस्यां हि वर्तमानायां तनयस्य व्रतादिकम् । नास्ति किञ्चित् शुभं कार्यं तस्यै मात्रे नमो नमः ॥ ४६॥ सङ्गृह्य सर्वसद्वृत्तीर्भगवानखिलेश्वरः । निर्ममे हृदयं यस्यास्तस्यै मात्रे नमो नमः ॥ ४७॥ यामनादृत्य शक्तोऽपि स्वेच्छातस्तनयाधमः । जीवन्नपि परेतः स्यात्तस्यै मात्रे नमो नमः ॥ ४८॥ अज्ञानादपि यत्सेवामकृत्वा निरयी भवेत् । अवश्य-पूजनीयायै तस्यै मात्रे नमो नमः ॥ ४९॥ अप्यकार्यशतं कृत्वा करणीयं यदर्च्चनम् । मनुना स्पष्टमेवोक्तं तस्यै मात्रे नमो नमः ॥ ५०॥ भगवद्वाक्यवद् यस्याः सक्वदुच्चरिताशिषः । वितथा न भवन्त्येव तस्यै मात्रे नमो नमः ॥ ५१॥ मघास्वपि भवेद् यात्रा यत्पादनतिपूर्विका । सुतस्य शुभदा नित्यं तस्यै मात्रे नमो नमः ॥ ५२॥ शुभा किंवाशुभेत्येवमविचार्य सदा सुतैः । पालनीया यदाज्ञा वै तस्यै मात्रे नमो नमः ॥ ५३॥ विमलानुग्रहाद् यस्या विचित्रं जगदीदृशम् । शक्नोति तनयो द्रष्टुं तस्यै मात्रे नमो नमः ॥ ५४॥ दुर्ब्बले तनये यस्याः स्नेहोऽधिकतरो भवेत् । बलवद्भ्योऽपि पुत्रेभ्यस्तस्यै मात्रे नमो नमः ॥ ५५॥ शिक्षितेभ्यश्च पुत्रेभ्यः स्नेहोऽधिकतरः सदा । अशिक्षिते सुते यस्यात्तस्यै मात्रे नमो नमः ॥ ५६॥ धनवद्भ्योऽपि पुत्रेभ्यः स्नेहोऽधिकतरो भवेत् । निर्धने तनये यस्यात्तस्यै मात्रे नमो नमः ॥ ५७॥ तनयेभ्यो युवभ्योऽपि निःसहाये सुते शिशौ । स्नेहोऽधिकतरो यस्यात्तस्यै मात्रे नमो नमः ॥ ५८॥ सुरूपेभ्यश्च पुत्रेभ्यः स्नेहोऽधिकतरः सदा । कुरूपे तनये यस्यास्तस्यै मात्रे नमो नमः ॥ ५९॥ प्रवासस्थसुतक्लेशमश्रुत्वापि स्वयं हि या । जानाति चित्तमालिन्या त्तस्यै मात्रे नमो नमः ॥ ६०॥ या पश्यति सदा स्नेहात् सुतमप्याप्तयौवनम् । स्थितं बाल्ये वयस्येव तस्यै मात्रे नमो नमः ॥ ६१॥ या पश्यति सदा स्नेहादपि विक्रमशालिनम् । पुत्रं बलविहीनं हि तस्यै मात्रे नमो नमः ॥ ६२॥ पुत्रं बहुभुजञ्चापि स्नेहात् पश्यति या सदा । अत्यल्पमात्रभोक्तारं तस्यै मात्रे नमो नमः ॥ ६३॥ दुर्दान्तमपि या पुत्रं स्नेहात् पश्यति सर्वदा । शान्तं शिष्टं निरीहञ्च तस्यै मात्रे नमो नमः ॥ ६४॥ किम्बहूक्तेन या पश्येदपि दोषशतान्वितम् । पुत्रं गुणालयं स्नेहात्तस्यै मात्रे नमो नमः ॥ ६५॥ अपि हस्तसहस्राणि यां हि सेव्यतमोत्तमाम् । सेवितुं न समर्थानि तस्यै मात्रे नमो नमः ॥ ६६॥ अपि मस्तकसाहस्रेर्न योग्या प्रणतिर्भवेत् । यस्या नम्यतमायाश्च तस्यै मात्रे नमो नमः ॥ ६७॥ अपि श्रवणसाहस्रेः पीते यस्याः कथामृते । कदापि न भवेत्त्वप्तिस्तस्यै मात्रे नमो नमः ॥ ६८॥ यस्याः पादयुगे भक्तिरशेषक्लेशनाशिनी । सौभाग्यदायिनी चैव तस्यै मात्रे नमो नमः ॥ ६९॥ यस्याः पादयुगेऽभक्तिरशेषक्लेशदायिनी । सौभाग्यनाशिनी चैव तस्यै मात्रे नमो नमः ॥ ७०॥ यस्याञ्च परितृप्तायां सुतृप्ताः सर्वदेवताः । असंशयं भवन्त्येव तस्यै मात्रे नमो नमः ॥ ७१॥ यस्यां तृप्तिमयातायामतृप्ताः सर्वदेवताः । असंशयं भवन्त्येव तस्यै मात्रे नमो नमः ॥ ७२॥ त्रिषु लोकेषु या नित्यमतुल्यातिशया गुणैः । सर्वसद्गुणरूपायै तस्यै मात्रे नमो नमः ॥ ७३॥ पुत्रदारसुहृद्भ्रातृ-फलपुष्पादिशोभिनः । या संसारतरोः क्षेत्रं तस्यै मात्रे नमो नमः ॥ ७४॥ मा मेति मधुराह्वानं यस्याः सुखकरं सदा । सुखे वा यदिवा दुःखे तस्यै मात्रे नमो नमः ॥ ७५॥ स्वयं लक्ष्मीस्वरूपेति मेति संज्ञा यया धृता । अप्राकृतस्वरूपाये तस्यै मात्रे नमो नमः ॥ ७६॥ गृह-देह-मनः-प्राण-वित्तानि सकलानि च । पुत्रोपकृतये यस्यास्तस्यै मात्रे नमो नमः ॥ ७७॥ सुधाकरे कलङ्कोऽस्ति पद्मनालेऽपि कण्टकम् । यस्यां न दोषलेशोऽस्ति तस्यै मात्रे नमो नमः ॥ ७८॥ जलमप्यग्निसंयोगादुष्णत्वं याति किन्तु या । न कदापि भवेद्रुष्टा तस्यै मात्रे नमो नमः ॥ ७९॥ भगवानपि विश्वात्मा लीलाविग्रहमाश्रितः । ननाम यत्पदं नित्यं तस्यै मात्रे नमो नमः ॥ ८०॥ इष्टदेवः सदापूज्यः सर्वेषां नास्ति संशयः । तस्मात् पूज्यतरा या च तस्यै मात्रे नमो नमः ॥ ८१॥ शिक्षागुरुः सदापूज्यः सर्वेर्षां नास्ति संशयः । तस्मात् पूज्यतरा या च तस्यै मात्रे नमो नमः ॥ ८२॥ दीक्षागुरुः सदा पूज्यः सर्वेषां नास्ति संशयः । तस्मात् पूज्यतरा याच तस्यै मात्रे नमो नमः ॥ ८३॥ मन्त्रदाता सदा पूज्यः सर्वेषां नास्ति संशयः । तस्मात् पूज्यतरा याच तस्यै मात्रे नमो नमः ॥ ८४॥ किम्बहूक्तेन सर्वेषां पूज्यानां पूज्य ईश्वरः । तस्मात् पूज्यतरा याच तस्यै मात्रे नमो नमः ॥ ८५॥ यदाज्ञैव श्रुतिर्नित्या यदाज्ञैवामला स्मृतिः । यदाज्ञैव पुराणोक्तित्तस्यै मात्रे नमो नमः ॥ ८६॥ यदाज्ञैव महातन्त्रं यदाज्ञैव महान् मनुः । यदाज्ञैव च गायत्त्री तस्यै मात्रे नमो नमः ॥ ८७॥ यदाज्ञैव परोधर्मो यदाज्ञैव परं तपः । यदाज्ञैव परोयोगस्तस्यै मात्रे नमो नमः ॥ ८८॥ यदाज्ञैवाखिला वेदा यदाज्ञैव च भारतम् । रामायणं यदाज्ञैव तस्यै मात्रे नमो नमः ॥ ८९॥ यदाज्ञापालनात् सर्वशास्त्राभ्यासफलं भवेत् । सर्वधर्मफलञ्चैव तस्यै मात्रे नमो नमः ॥ ९०॥ प्राणदायै नमोनित्यं पुष्टिदायै च सर्वदा । देहेन्द्रियप्रदायिन्यै तस्यै मात्रे नमो नमः ॥ ९१॥ धर्मार्थकाममोक्षाप्तिर्यत्पादपूजनाद् भवेत् । सर्वदायै नमस्तस्यै तस्यै मात्रे नमो नमः ॥ ९२॥ या देवी सर्वगेहेषु लक्ष्मीरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै तस्यै मात्रे नमो नमः ॥ ९३॥ या देवी सर्वगेहेषु नीतिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै तस्यै मात्रे नमो नमः ॥ ९४॥ या देवी सर्वगेहेषु रीतिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै तस्यै मात्रे नमो नमः ॥ ९५॥ या देवी सर्वगेहेषु शोभारूपेण संस्थिता । नमस्तस्यै नमस्तस्यै तस्यै मात्रे नमो नमः ॥ १६॥ या देवी सर्वगेहेषु शक्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै तस्यै मात्रे नमो नमः ॥ ९७॥ या देवी सर्वगेहेषु भक्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै तस्यै मात्रे नमो नमः ॥ ९८॥ या देवी सर्वगेहेषु सर्वरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै तस्यै मात्रे नमो नमः ॥ ९९॥ न साध्यते यदानृण्यं नीलकान्तशतैरपि । नमस्तस्यै नमस्तस्यै तस्यै मात्रे नमो नमः ॥ १००॥ इति मातृ-रत्नं सम्पूर्णम् ।

गुरु-रत्नम्

यस्यापारकृपासिन्धोः कृपाविन्दुविशोधितः । नरो देवत्वमाप्नोति तस्मै श्रीगुरवे नमः ॥ १॥ चिदानन्दं वपुर्यस्य चिदानन्दं विभूषणम् । चिदानन्दं तथावासस्तस्मै श्रीगुरवे नमः ॥ २॥ चिदानन्दमये धाम्नि चिदानन्दमयासने । राजते यः सहस्रारे तस्मै श्रीगुरवे नमः ॥ ३॥ प्रसन्नमुखपद्माय प्रसन्ननयनाय च । प्रसन्नहृत्सरोजाय तस्मै श्रीगुरवे नमः ॥ ४॥ मूलाधारादिषट्चक्रं भित्त्वा शुद्धसुषुम्नया । सम्प्राप्यं यत्पदं शुद्धं तस्मै श्रीगुरवे नमः ॥ ५॥ बुद्धीन्द्रिय-मनः-प्राण-देहा यस्य चिता युताः । स्वस्वकर्मसु चेष्टन्ते तस्मै श्रीगुरवे नमः ॥ ६॥ पूर्वाभ्यासबलाद्जीवे दुष्कर्म कर्त्तुमुद्यते ॥ अन्तर्निवार्यते येन तस्मै श्रीगुरवे नमः ॥ ७॥ रजस्तमोविहीनाय शुद्धसत्त्वस्वरूपिणे । लयविक्षेपशून्याय तस्मै श्रीगुरवे नमः ॥ ८॥ उपदेष्टुं सतां मार्गमवतीर्णो महीतले । यो नराकृतिमाश्रित्य तस्मै श्रीगुरवे नमः ॥ ९॥ कर्णधारः सदा योऽसौ दुष्पारे भवसागरे । अगतेर्गतिरूपाय तस्मै श्रीगुरवे नमः ॥ १०॥ यो ददावतिदीनाय कपया करुणानिधिः । हरिनाम महारत्नं तस्मै श्रीगुरवे नमः ॥ ११॥ यत् प्रसादादिदं तुच्छं शरीरं पाञ्चभौतिकम् । पवित्रतां समायाति तस्मै श्रीगुरवे नमः ॥ १२॥ अकृष्टहृदयक्षेत्रमुपदेशहलेन यः । चकर्ष कपया सम्यक् तस्मै श्रीगुरवे नमः ॥ १३॥ ववर्ष प्रचुरं तत्र प्रेमवारि पुनः पुनः । यत्नेन यः कृपासिन्धुत्तस्मै श्रीगुरवे नमः ॥ १४॥ तत्र् वीजं ततश्चोप्तं सत्क्षेत्रज्ञेन येन हि । संविविच्य यथायोग्यं तस्मै श्रीगुरवे नमः ॥ १५॥ पर्यवेक्षणतो यस्य तत्र चित्तमहाक्षितौ । ज्ञानाङ्कुरं ततो जज्ञे तस्मै श्रीगुरवे नमः ॥ १६॥ अक्षयं परमान्द-शस्यं यस्य कृपाबलात् । सुदुर्ल्लभं समालब्धं तस्मै श्रीगुरवे नमः ॥ १७॥ मायानिद्राभिभूतानां संसारस्वप्नदर्शिनाम् । चेतयिता सदा यश्च तस्मै श्रीगुरवे नमः ॥ १८॥ नास्ति यस्य धने लिप्सा न यस्य यशसि स्पृहा । सेवालाभे न यस्येच्छा तस्मै श्रीगुरवे नमः ॥ १९॥ व्रह्मनिष्ठाय शान्ताय सदाचाररताय च । श्रोत्रियायाकलङ्काय तस्मै श्रीगुरवे नमः ॥ २०॥ चतुर्वेदपारगाय वेदान्तार्थप्रदर्शिने । पुराणतन्त्रविज्ञाय तस्मै श्रीगुरवे नमः ॥ २१॥ हरिनामामृते पीते यन्मुखेन्दुविनिःसृते । पलायेते क्षुधातृष्णे तस्मै श्रीगुरवे नमः ॥ २२॥ यस्यानुग्रहमात्रेण किं वस्तु किमवस्तु वा । विजानाति नरः सम्यक् तस्मै श्रीगुरवे नमः ॥ २३॥ यानुग्रहमात्रेण ज्ञानमज्ञानमेव च । विजानाति नरः सम्यक् तस्मै श्रीगुरवे नमः ॥ २४॥ यस्यानुग्रहमात्रेण बन्धनं मुक्तिमेव च । विजानाति नरः सम्यक् तस्मै श्रीगुरवे नमः ॥ २५॥ वर्ज्जितं हृदयं यस्य कामलोभमदादिभिः । शश्वत् प्रशान्तचित्ताय तस्मै श्रीगुरवे नमः ॥ २६॥ गृहान्धकूपमग्नस्य ह्यशक्तस्यात्मरक्षणे । आलम्बनं पदं यस्य तस्मै श्रीगुरवे नमः ॥ २७॥ अहङ्कार-महासर्प-विषवीर्य्यनिवारणे । यद्वाक्यं सुमहामन्त्रस्तस्मै श्रीगुरवे नमः ॥ २८॥ मायानामसुदुश्छेद्यवन्धनस्यविकर्त्तने । यद्वाक्यमेव तीक्ष्णास्त्रं तस्मै श्रीगुरवे नमः ॥ २९॥ पिशाची ममतानाम्नी जीवबुद्धिविनाशिनी । यत्कृपा दमिका तस्यात्तस्मै श्रीगुरवे नमः ॥ ३०॥ निर्वापणं सुदीप्तस्य शोकाग्नेर्दहतः सदा । उपदेशामृतं यस्य तस्मै श्रीगुरवे नमः ॥ ३१॥ विना यच्चरणे भक्तिं नराकृतिपशुर्नरः । भवत्येव भवत्येव तस्मै श्रीगुरवे नमः ॥ ३२॥ संसारनिविडारण्ये कामादिश्वापदाकुले । यं विनान्याश्रयो नास्ति तस्मै श्रीगुरवे नमः ॥ ३३॥ धनेन वा शरीरेण जीवितेन तथात्मना । यस्य सेवा सदा कार्य्या तस्मै श्रीगुरवे नमः ॥ ३४॥ मनोमत्तमतङ्गस्य शासने सततक्षमम् । उपदेशाङ्कुशं यस्य तस्मै श्रीगुरवे नमः ॥ ३५॥ शस्यं विना यथा क्षेत्रं यथा वृक्षः फलं विना । यं विना जीवनं तद्वत्तस्मै श्रीगुरवे नमः ॥ ३६॥ विना चक्षुर्यथा देहो विना वित्तं गृहं यथा । यं विना जीवनं तद्वत्तस्मै श्रीगुरवे नमः ॥ ३७॥ विना वस्त्रं भूषणानि संसारः सन्ततिं विना । यं विना जीवनं तद्वत्तस्मै श्रीगुरवे नमः ॥ ३८॥ पतिं विना यथा नारी नरश्च विद्यया विना । यं विना जीवनं तद्वत्तस्मै श्रीगुरवे नमः ॥ ३९॥ गन्धं विना यथा पुष्पं विना पत्रं लता यथा । यं विना जीवनं तद्वत्तस्मै श्रीगुरवे नमः ॥ ४०॥ रविं विना दिवा यद्वद्रजनी च विधुं विना । यं विना जीवनं तद्वत्तस्मै श्रीगुरवे नमः ॥ ४१॥ कर्णधारं विना नौका यथा राज्यं नृपं विना । यं विना जीवनं तद्वत्तस्मै श्रीगुरवे नमः ॥ ४२॥ यद्दत्तसुमहारत्नज्योतिषा चित्तकन्दरम् । भवत्यालोकितं नित्यं तस्मै श्रीगुरवे नमः ॥ ४३॥ चतुर्वर्गफलप्राप्तिः सुखादल्पधियामपि । यत्कृपालेशमात्रेण तस्मै श्रीगुरवे नमः ॥ ४४॥ यस्य देवे परा भक्तिर्यथा देवे तथागुरौ । इति यद्गौरवं श्रुत्यां तस्मै श्रीगुरवे नमः ॥ ४५॥ आचार्य्यं मां विजनीयादित्युवाच स्वयं हरिः । स्वयं कृष्णस्वरूपाय तस्मै श्रीगुरवे नमः ॥ ४६॥ यत्पादकमले चित्तं भृङ्गवन्निवसत् सदा । दिव्यं मधु समाप्नोति तस्मै श्रीगुरवे नमः ॥ ४७॥ भ्रमेण भ्रमतो नित्यमनन्तभववर्त्मसु । सन्मार्गदर्शको योऽसौ तस्मै श्रीगुरवे नमः ॥ ४८॥ यस्य सन्दर्शनादेव रवेः सरसिजं यथा । हृत्पद्मं फुल्लतामेति तस्मै श्रीगुरवे नमः ॥ ४९॥ श्रीकृष्णः स्वयमेवाह सर्वदेवमयो गुरुः । सर्वदेवस्वरूपाय तस्मै श्रीगुरवे नमः ॥ ५०॥ यत्पादोदकपानेन हृदयस्याखिलं मलम् । अपयाति क्षणादेव तस्मै श्रीगुरवे नमः ॥ ५१॥ भवकारागृहे रुद्धो निबद्धो मोहश‍ृङ्खलैः । यत्प्रसादाद् भवेन्मुक्तस्तस्मै श्रीगुरवे नमः ॥ ५२॥ बहवो गुरवः सन्ति शिष्यवित्तापहारकाः । हृत्तापहारको योऽसौ तस्मै श्रीगुरवे नमः ॥ ५३॥ अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ५४॥ यतो वाचो निवर्तन्ते अप्राप्य मनसा सह । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ५५॥ विचित्राद्भुतविश्वस्य जन्माद्यस्य यतो भवेत् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ५६॥ तत्त्वमस्यादिवाक्येर्यल्लक्ष्यते न समुच्यते । तत्पदं दर्शितं येन तस्मै श्रीगुष्मवे नमः ॥ ५७॥ अपाणिरपि गृह्णाति योऽपादोऽपि च गच्छति । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ५८॥ यः पश्यति सदाचक्षुरकर्णोऽपि श‍ृणोति यः । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ५९॥ पश्यन्ति सूरयः शश्वद् यद् विष्णोः परमं पदम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ६०॥ प्राकृताकारहीनोऽपि यश्चिदानन्दरूपकः । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ६१॥ साधकानां हितार्थाय स्वरूपं येन कल्प्यते । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ६२॥ यद्भासा भाति सूर्योऽयं यद्भासा भाति चन्द्रमाः । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ६३॥ यद्भयात् पवनो वाति वर्षतीन्द्रश्च यद्भयात् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ६४॥ ब्रह्मणो हि प्रतिष्ठा यश्चामृतस्याव्ययस्य च । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ६५॥ विष्टभ्य य इदं कृत्स्नमेकांशेन स्थितो जगत् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ६६॥ संस्कृतैः प्राकृतैर्वापि यः शिष्यमनुरूपतः । बोधयेद् वाक्यविन्यासैस्तस्मै श्रीगुरवे नमः ॥ ६७॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ ६८॥ योजिता कपया येन वृथाशब्दरता श्रुतिः । श्रवणे भगवन्नाम्नस्तस्मै श्रीगुरवे नमः ॥ ६९॥ मृद्विकारे रतं चक्षुः सर्वत्रेश्वरदर्शने । प्रेषितं कपया येन तस्मै श्रीगुरवे नमः ॥ ७०॥ रथालापरता वाणी येन सम्यङ् नियोजिता । भगवन्महिमाख्याने तस्मै श्रीगुरवे नमः ॥ ७१॥ असद्गन्धसमाकॄष्टं घ्राणं येन नियोजितम् । भगवच्चरणाम्भोजे तस्मै श्रीगुरवे नमः ॥ ७२॥ प्रेषितः कृपया येन रथाकार्य्यकरः करः । भगवत्परिचर्य्यायां तस्मै श्रीगुरवे नमः ॥ ७३॥ यत् कपालब्धबोधेन संसारमृगतृष्णिका । विलीयते क्षणेनैव तस्मै श्रीगुरवे नमः ॥ ७४॥ संसारवृक्षमारूढाः पतन्तो नरकार्णवे । येन चोद्धारिताः सर्वे तस्मै श्रीगुरवे नमः ॥ ७५॥ सुगन्धिचन्दनभ्रान्त्या पतन्तो विषयानले । येन संरक्षिताः सर्वे तस्मै श्रीगुरवे नमः ॥ ७६॥ पिबन्तश्च सुधाभ्रान्त्या संसारगरलं सदा । कृपया वारिता येन तस्मै श्रीगुरवे नमः ॥ ७७॥ गुरुपूजां विधायाथ स्वेष्टदेवं प्रपूजयेत् । पूज्याग्र्याय नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ७८॥ यस्य सन्दर्शने जाते नास्त्यन्यदर्च्चनादिकम् । उपास्याय नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ७९॥ अदेयं दीयते येन चादृश्यं सत्प्रदर्श्यते । वदान्याय नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ८०॥ नश्वरं दीयते सर्वैर्यदत्तं याति न क्षयम् । ज्ञानदाय नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ८१॥ यस्मिंस्तुष्टे हरिस्तुष्टो रुष्टे रुष्टः स्वयं हरिः । एकात्मने नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ८२॥ हरिः स्वयं गुरुर्भूत्वा तारयत्यखिलं जगत् । द्विरूपाय नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ८३॥ गुरुर्ब्रह्मा गुरुर्विष्णुगुरुर्देवो महेश्वरः । त्रिरूपाय नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ८४॥ न बलं बलमङ्गानां गुरुदत्तवबलं बलम् । बलदाय नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ८५॥ शेषे गुरुकृपालेशं विना नास्त्यपरा गतिः । रक्षकाय नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ८६॥ सदसच्चाखिलं कर्म गुरुर्वेत्ति न चापरः । साक्षिणेच नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ८७॥ ददाति दर्शनञ्चान्ते गुरुणा प्रेरितो हरिः । मध्यस्थाय नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ८८॥ अन्तर्ध्वान्तविनाशाय ज्ञानालोकप्रदाय च । नमस्तस्मै नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ८९॥ सुशान्ताय सुदान्ताय निरुपाधिहितैषिणे । नमस्तस्मै नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ९०॥ सन्मार्ग-सत्-प्रदीपाय सदाचारपराय च । नमस्तस्मै नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ९१॥ भक्तिदाय च भक्ताय ज्ञानिने ज्ञानदाय च । नमस्तस्मै नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ९२॥ स्वयं ब्रह्मस्वरूपाय ब्रह्मानन्द प्रदायिने । नमस्तस्मै नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ९३॥ नानाशास्त्रविरोधेषु सामञ्जस्यविधायिने । नमस्तस्मै नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ९४॥ संसारासक्तिशून्याय योगिने योगदाय च । नमस्तस्मै नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ९५॥ प्रतिक्षमादमास्तेयशौचादिगुणशालिने । नमस्तस्मै नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ९६॥ सन्दृष्टेऽखिलसन्तापो यस्मिन् प्रशममाप्नुयात् । नमस्तस्मै नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ९७॥ यस्मिन् दृष्टे परानन्दपूर्णं हृन्मन्दिरं भवेत् । नमस्तस्मै नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ९८॥ यस्मिन् दृष्टे मुखे नित्यं हरिनाम स्वयं स्फुरेत् । नमस्तस्मै नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ९९॥ न योग्या दक्षिणा यस्य नीलकान्तशतान्यपि । नमस्तस्मै नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ १००॥ इति गुरु-रत्नं सम्पूर्णम् ।

धर्म-रत्नम्

हरिर्जयति सर्वत्र सर्वदानन्दरूपकः । धर्मस्तस्यापरं रूपं यतो धर्मस्ततो जयः ॥ १॥ रणे वा कानने वापि धर्मवर्म-सुरक्षितः । न नरो निधनं याति यतो धर्मस्ततो जयः । २॥ स्वदेहरक्षणे राजा नियोजयति सैनिकान् । धर्मोहि धार्मिकं पाति यतो धर्मस्ततो जयः ॥ ३॥ पितेव पालको धर्मो मातेव लालकः सदा । सखेव हितकारी च यतो धर्मस्ततो जयः ॥ ४॥ यतो धर्मस्ततः सम्पद् यतो धर्मस्ततः सुखम् । यतो धर्मस्ततो मुक्तिर्यतो धर्मस्ततो जयः ॥ ५॥ यतो धर्मस्ततः सत्यं यतो धर्मस्ततो दया । यतो धर्मस्ततो ज्ञानं यतो धर्मस्ततो जयः ॥ ६॥ यतो धर्मस्ततो नीतिर्यतो धर्मस्ततः क्षमा । यतो धर्मस्ततः शान्ति यतो धर्मस्ततो जयः ॥ ७॥ बन्धुर्धर्मविहीनस्य शत्रुवद् वर्तते सदा । धार्मिकस्य जगन्मित्रं यतो धर्मस्ततो जयः ॥ ८॥ भ्रातापि रावणस्यासौ विपक्षोऽभुद् विभीषणः । वानरा राममित्राणि यतो धर्मस्ततो जयः ॥ ९॥ न तथा सुखमाप्नोति वसुधाविजयी नरः । यथा धर्मरतो जीवो यतो धर्मस्ततो जयः ॥ १०॥ विदुरः परमानन्दं कुटीरस्थः समन्वभूत् । दुर्योधनः सदा तापं यतो धर्मस्ततो जयः ॥ ११॥ नरो धर्मप्रभावेण सम्परेतं स्वबान्धवम् । पुनर्ज्जीवयितुं शक्तो यतो धर्मस्ततो जयः ॥ १२॥ पातिव्रत्येन धर्मेण सावित्री समजीवयत् । पतिं धर्मं पराजित्य यतो धर्मस्ततो जयः ॥ १३॥ एकान्तधर्मनिष्ठस्य सन्देहास्पदवस्तषु । सत्यप्रदर्शको धर्मो यतो धर्मस्ततो जयः ॥ १४॥ नलरूपेषु देवेषु दमयन्ती सुदुःखिता । नलमेव पतिं वव्रे यतो धर्मस्ततो जयः ॥ १५॥ दैवाद्दस्युगृहीतायाः सत्या धर्मं वरस्त्रियाः । रक्षत्येव सदा धर्मो यतो धर्मस्ततो जयः ॥ १६॥ रावणो जानकीं हृत्वा नीत्वापि निजमन्दिरम् । कदर्थितुं न शक्तोऽभुद् यतो धर्मस्ततो जयः ॥ १७॥ दुर्ज्जनो धार्मिकां नारीं विलज्जां कर्त्तुमुद्यतः । न कदापि समर्थः स्याद यतो धर्मस्ततो जयः ॥ १८॥ दुःशासनः सतीं कृष्णां विवस्त्रां कर्त्तुमुद्यतः । लज्जितः स्वयमेवासीद् यतो धर्मस्ततो जयः ॥ १९॥ यश्च धर्मधनो धर्मं न जहाति विपद्यपि । निश्चितं शुभमाप्नोति यतो धर्मस्ततो जयः ॥ २०॥ सत्यं धर्मं समाश्रित्य धर्मराजो युधिष्ठिरः । लेभे शत्रुहृतं राज्यं यतो धर्मस्ततो जयः ॥ २१॥ अनेकेषु विनाशस्य कारणेष्वपि सत्सु च । न विनश्यति धर्मिष्ठो यतो धर्मस्ततो जयः ॥ २२॥ भगवद्धर्ममाश्रित्य विषवह्नि-जलादिषु । प्रह्लादो जीवनं लेभे यतो धर्मस्ततो जयः ॥ २३॥ सम्यग् धर्ममनुष्ठाय मृतोऽपि मानवश्चिरम् । जीवन्निव प्रतीयेत यतो धर्मस्ततो जयः ॥ २४॥ दानधर्मं समाश्रित्य शिविरौशीनरो नृपः । वर्तमान इवाभाति यतो धर्मस्ततो जयः ॥ २५॥ प्रथमं शत्रुतां कृत्वा धर्मिणा सह मानवः । मित्रवद् वर्तते पश्चाद यतो धर्मस्ततो जयः ॥ २६॥ वनात् प्रत्यागतो रामः पालयित्वा पितुर्वचः । कैकेय्याप्यादृतः सम्यग् यतो धर्मस्ततो जयः ॥ २७॥ सुनीचकुलजातोऽपि धार्मिकः साधुभिः समम् । अत्युच्चं पदमाप्नोति यतो धर्मस्ततो जयः ॥ २८॥ विभीषणो राक्षसोऽपि रावणस्यानुजोऽपि सन् । धर्मेणामरतां प्राप यतो धर्मस्ततो जयः ॥ २९॥ ईश्वरः सर्वभूतानां वशे यस्याखिलं जगत् । स धर्मेण वशं याति यतो धर्मस्ततो जयः ॥ ३०॥ धर्मार्थे सकलं हित्वा बलिनातिबलीयसा । द्वारपत्वे कृतो विष्णुर्यतो धर्मस्ततो जयः ॥ ३१॥ दैवात् सर्वस्वहीनोऽपि तत् सर्वं लभते पुनः । धर्मेणैव विना यत्नं यतो धर्मस्ततो जयः ॥ ३२॥ हरिश्चन्द्रश्च राजर्षिर्हृतैश्वर्य्यं मृतं सुतम् । धर्मेणैव पुनर्लेभे यतो धर्मस्ततो जयः ॥ ३३॥ सकामः सुन्दरं भोग्यं धार्मिको यदि वाञ्छति । वाञ्छिताधिकमाप्नोति यतो धर्मस्ततो जयः ॥ ३४॥ पितृसंमानमप्राप्य नगरान्निर्गतो ध्रुवः । सर्वोच्चं स्थानमालेभे यतो धर्मस्ततो जयः ॥ ३५॥ योगक्षेमं वहत्येव सर्वदा स्वयमीश्वरः । धार्मिकस्य मनुष्यस्य यतो धर्मस्ततो जयः ॥ ३६॥ बिल्वमङ्गलमालोक्य नेत्रहीनमनाथकम् । स्वयं कृष्णो ददावन्नं यतो धर्मस्ततो जयः ॥ ३७॥ तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् । इति श्रीभगवद् वाक्यं यतो धर्मस्ततो जयः ॥ ३८॥ एकेनैव सुजातेन धार्मिकेणाखिलं कुलम् । पवित्रीक्रियते सम्यग् यतो धर्मस्ततो जयः ॥ ३९॥ स्वपूर्वपुरुषान् धीर उज्जहार भगीरथः । भागीरथीं समानीय यतो धर्मस्ततो जयः ॥ ४०॥ प्रहृत्य धार्मिकं मत्तो नरः पश्चात् प्रबोधितः । तमेव शरणं याति यतो धर्मस्ततो जयः ॥ ४१॥ आहत्य भग्नकुम्भेन नित्यानन्दं द्विजाधमौ । तमेव शरणं यातौ यतो धर्मस्ततो जयः ॥ ४२॥ जीवा ये जन्मना क्रूरा धर्मनिष्ठस्य सन्निधौ । तेऽपि शान्ता भवन्त्येव यतो धर्मस्ततो जयः ॥ ४३॥ ऋषीणामाश्रमे पुण्ये क्रूराः सर्पवृकादयः । वश्यतां यान्ति सर्वेऽपि यतो धर्मस्ततो जयः ॥ ४४॥ धार्मिकस्य यदा दैवात् काचिद् भ्रान्तिः प्रजायते । धर्मेणैवापनीता स्याद् यतो धर्मस्ततो जयः ॥ ४५॥ शकुन्तलां जहौ भ्रान्त्या दुष्मन्तो धर्मिणां वरः । धर्मस्तां स्मारयामास यतो धर्मस्ततो जयः ॥ ४६॥ धार्मिकं प्रति यः क्रोधं करोति मदगर्वितः । विपदं स्वयमाप्नोति यतो धर्मस्ततो जयः ॥ ४७॥ अम्बरीषं प्रति क्रोधं दुर्वासा मुनिपुङ्गवः । कृत्वा स्वयं विपन्नोऽभुद् यतो धर्मस्ततो जयः ॥ ४८॥ यावत्यः सन्ति सत्शिक्षास्तासां शीर्षविराजिता । इयमेवोत्तमा शिक्षा यतो धर्मस्ततो जयः ॥ ४९॥ विद्या बोधो विवेकश्च सद्भावो विनयो नयः । धर्मस्यानुचरा एते यतो धर्मस्ततो जयः ॥ ५०॥ धर्मस्याति बलं दृष्ट्वा कामक्रोध मदादयः । भयेन प्रपलायन्ते यतो धर्मस्ततो जयः ॥ ५१॥ मातापितृ-सुहृद्-भ्रातृ-बन्धुभिर्गुरुभिस्तथा । इदमेवोपदेष्टव्यं यतो धर्मस्ततो जयः ॥ ५२॥ धर्मकापट्यमालम्ब्य पूज्यते हि नरैर्नरः । किमु धर्मगतप्राणो यतो धर्मस्ततो जयः ॥ ५३॥ सौधायते पर्णशाला शाकान्नममृतायते । धर्मामृतसुतृप्तस्य यतो धर्मस्ततो जयः ॥ ५४॥ इह तस्यामला कीर्त्तिः परत्र सुखमुत्तमम् । यस्य धर्मे स्थिरा बुद्धिर्यतो धर्मस्ततो जयः ॥ ५५॥ एकएव सुहृद्धर्मो निधनेऽप्यनुयाति यः । इति धर्मविदां शिक्षा यतो धर्मस्ततो जयः ॥ ५६॥ तृष्णयाकुलचित्तस्य संसारमरुवर्तिनः । धर्मः सुशीतलं वारि यतो धर्मान्ततो जयः ॥ ५७॥ मोहान्धतमसाच्छन्ने संसारेऽतिभयानके । धर्मनामा विधुर्भाति यतो धर्मस्ततो जयः ॥ ५८॥ श्रेष्ठत्वं सर्वजीवेषु नराणामेव केवलम् । धर्ममात्रविशेषेण यतो धर्मस्ततो जयः ॥ ५९॥ धार्मिकस्य जगन्माता धार्मिकस्य जगत्पिता । धार्मिकस्य जगत्पुत्रो यतो धर्मस्ततो जयः ॥ ६०॥ सदाचाररथारूढो धर्मशस्त्रधरो नरः । इहैव जयति स्वर्गं यतो धर्मस्ततो जयः ॥ ६१॥ सदानन्दमयं राज्यं विजेतुं ब्रह्मणः परम् । धर्म एव बलं विद्धि यतो धर्मस्ततो जयः ॥ ६२॥ अधर्मं चरितुं वक्ति कामलोभयुतं मनः । सदा वदति सद्बुद्धिर्यतो धर्मस्ततो जयः ॥ ६३॥ अभावेन स्वभावेन परस्वं हरतीह यः । सोऽपि स्वमनसा वेत्ति यतो धर्मस्ततो जयः ॥ ६४॥ पशुरेव स मन्तव्यो हृदि यस्य मनागपि । शिक्षेयं न समुत्पन्ना यतो धर्मस्ततो जयः ॥ ६५॥ मनुष्योऽहमिति ज्ञानं हृदये यस्य वर्तते । स्मरणीयं सदा तेन यतो धर्मस्ततो जयः ॥ ६६॥ अभ्यस्यतां सदापाठः स्वःस्वो बालाः परन्त्विदम् । स्मरणीयं हृदा शश्वद् यतो धर्मस्ततो जयः ॥ ६७॥ धनार्ज्जने सदा यत्नो युवानः क्रियतां ध्रुवम् । इदन्तु सर्वदा चिन्त्यं यतो धर्मस्ततो जयः ॥ ६८॥ गतप्रायं विजानीत स्थविरा वत जीवनम् । अतो धर्मे मतिं दत्त यतो धर्मस्ततो जयः ॥ ६९॥ सर्वदेशे सर्वेषु धर्मशास्त्रेषु सर्वदा । पुनःपुनरियं शिक्षा यतो धर्मस्ततो जयः ॥ ७०॥ अस्पृष्ट्वा भोगशम्बूकमपारेऽस्मिन् भवाम्बुधौ । गृह्यतां धर्ममाणिक्यं यतो धर्मस्ततो जयः ॥ ७१॥ धर्मेण बलवान् लोको धर्मेण धनवान् भवेत् । धर्मेण ज्ञानवान् वापि यतो धर्मस्ततो जयः ॥ ७२॥ क्षुधातृष्णादयो ये च सहजाः क्लेशदायिनः । धर्मेण वशमायान्ति यतो धर्मस्ततो जयः ॥ ७३॥ देवत्वं लेभिरे देवा प्राजापत्यं प्रजापतिः । धर्मेणैव न चान्येन यतो धर्मस्ततो जयः ॥ ७४॥ प्रकृतीः स्ववशीकर्त्तुं शक्नोति नृपतिर्यथा । धर्मेण न तथान्येन यतो धर्मस्ततो जयः ॥ ७५॥ अद्यापि नृपतिं रामं स्मृत्वा लोकाः सुदुःखिताः । वाञ्छन्ति रामराज्यं हि यतो धर्मस्ततो जयः ॥ ७६॥ अधर्मिणां विनाशेन रक्षणेन च धर्मिणाम् । धर्म एव जगत् शास्ति यतो धर्मस्ततो जयः ॥ ७७॥ सा विद्या सर्वविद्यानामुत्तमा साधुसम्मता । ययैतज्जायते ज्ञानं यतो धर्मस्ततो जयः ॥ ७८॥ भवेत् सुरपुरीतुल्या वसुधेयमसंशयम् । सर्वेऽपि यदि जानीयुर्यतो धर्मस्ततो जयः ॥ ७९॥ संसारेऽस्मिन् कुरुक्षेत्रे धर्मशस्त्रधरो नरः । विजयी भविता नूनं यतो धर्मस्ततो जयः ॥ ८०॥ स्वदेशे पूज्यते राजा प्रजाभिः स्वाभिरेव च । धार्मिकस्तु जगत्पूज्यो यतो धर्मस्ततो जयः ॥ ८१॥ जय एव जयोऽक्षाणां न जयः पृथिवीजयः । जयन्ति तानि धर्मिष्ठा यतो धर्मस्ततो जयः ॥ ८२॥ वस्त्रालङ्कारहीनोऽपि धूलिलिप्ताङ्गकोऽपिवा । शोभते धार्मिकः शश्वद् यतो धर्मस्ततो जयः ॥ ८३॥ शीतग्रीष्मादयो देहे स्वभावक्लेशदायिनः । धार्मिकं न स्पृशन्त्येव यतो धर्मस्ततो जयः ॥ ८४॥ निदाघांशुपतेरंशुः शरच्चन्द्रविभासमः । धर्मिष्ठसन्निधौ भाति यतो धर्मस्ततो जयः ॥ ८५॥ पित्रा पूज्यतमेनापि पूज्यते धार्मिकः सुतः । मनसा सर्वदा तन्माद् यतो धर्मस्ततो जयः ॥ ८६॥ बालोऽपि धर्मनिष्ठात्मा सम्पूज्यैः स्थविरैरपि । प्रपूज्यते सदा सम्यग् यतो धर्मस्ततो जयः ॥ ८७॥ सेविका धार्मिका जाया सेव्येन स्वामिना सदा । पूज्यते मनसा नित्यं यतो धर्मस्ततो जयः ॥ ८८॥ राज्ञा दण्डधरेणापि पूज्यते धार्मिकप्रजा । धर्ममात्रमपेक्ष्यैव यतो धर्मस्ततो जयः ॥ ८९॥ न तथा पूज्यते वित्तं सम्बन्धो वय एव वा । यथा सम्पूज्यते धर्मो यतो धर्मस्ततो जयः ॥ ९०॥ विजये यदि वाञ्छास्ति श‍ृणु मे परमं वचः । जपसिद्धमिमं मन्त्रं यतो धर्मस्ततो जयः ॥ ९१॥ परस्परमनैक्यं यत् सर्वानर्थकरं नृणाम् । नाशकत्तस्य सद्धर्मो यतो धर्मस्ततो जयः ॥ ९२॥ स्वधर्मे निधनं श्रेयः स्मृत्वेदं भगवद्वचः । स्वं स्वं धर्मं समातिष्ठ यतो धर्मस्ततो जयः ॥ ९३॥ सागराः सरितः शैलाः शशिसूर्यादयो ग्रहाः । वदन्ति सर्वदा सर्वे यतो धर्मस्ततो जयः ॥ ९४॥ गीयतां गीयतां सर्वे गृहस्थानां गृहे गृहे । मिष्ट मिष्टमिदं गानं यतो धर्मस्ततो जयः ॥ ९५॥ लिख्यतां लिख्यतां द्वारि जाम्बूनदरसेन वै । अक्षराष्टकमेतद्धि यतो धर्मस्ततो जयः ॥ ९६॥ वासःप्रान्तेषु छत्रेषु सर्वाङ्गेषु पृथक् पृथक् । लिख्यतां शशिनिर्यासैर्यतो धर्मस्ततो जयः ॥ ९७॥ द्रव्येषु व्यवहार्येषु सर्वेषु कणकद्रवैः । लिख्यतां सम्प्रयत्नेन यतो धर्मस्ततो जयः ॥ १८॥ राजमार्गे सभायाञ्च मन्दिरे हट्ट-गोष्ठयोः । लिख्यतां लिख्यतां सर्वैर्यतो धर्मस्ततो जयः ॥ ९९॥ नीलकान्तशतज्योति स्तिरस्कृत्य विराजते । धर्मस्य विमलं ज्योतिर्यतो धर्मस्ततो जयः ॥ १००॥ इति धर्म-रत्नं सम्पूर्णम् ।

विवेक-रत्नम्

विस्मृत्य जगतां नाथं सदानन्दं चिदात्मकम् । संसारे रमते जीवः किमज्ञानमतः परम् ॥ १॥ अविज्ञायात्मनात्मानं ज्ञानवानहमित्यसौ । अभिमानं करोत्युच्चैः किमज्ञानमतः परम् ॥ २॥ सम्प्राप्य दुर्ल्लभं जन्म मुक्तिद्वारमपावृतम् । पशुवद् वर्तते नित्यं किमज्ञानमतः परम् ॥ ३॥ कोऽहं वा कुत आयातः कर्त्तव्यमिह किं मम । न जानाति न जिज्ञासुः किमज्ञानमतः परम् ॥ ४॥ इन्द्रजालं जगत् सर्वं मायामूलमनर्थकम् । प्रत्येति सत्यवन्नित्यं किमज्ञानमतः परम् ॥ ५॥ गुरुपादाश्रयं हित्वा चाकृत्वा भक्तिमीश्वरे । यतते ज्ञानलाभाय किमज्ञानमतः परम् ॥ ६॥ अविदित्वा सुखं दिव्यं सदात्मस्थं सुनिर्मलम् । सुखार्थं क्रमते विश्वं किमज्ञानमतः परम् ॥ ७॥ रत्नहारं स्वकण्ठस्थं विस्मृत्य सर्वतो दिशम् । विचिनोति दिवानक्तं किमज्ञानमतः परम् ॥ ८॥ चिदानन्द-स्वरूपोऽपि स्वयं देहमचेतनम् । आत्मानं मन्यते शश्वत् किमज्ञानमतः परम् ॥ ९॥ सर्वेऽपि सुखमिच्छन्ति चेष्टन्ते च पुनःपुनः । किं सुखन्तु न जानन्ति किमज्ञानमतः परम् ॥ १०॥ जन्ममृत्यु विहीनोऽपि मन्यते मोहितः सदा । जातं मृतमिवात्मानं किमज्ञानमतः परम् ॥ ११॥ विषयेन्द्रिय-संयोगः शीतोष्ण-सुखदुःखदः । तद्भाजं वेत्ति चात्मानं किमज्ञानमतः परम् ॥ १२॥ अहङ्कारं करोत्युच्चैर्दम्भमान-मदान्वितः । कोऽहन्तु तन्न जानाति किमज्ञानमतः परम् ॥ १३॥ ममैवैतन्नमैवैतत् सदा जल्पति मोहितः । किं ममेति न जानाति किमज्ञानमतः परम् ॥ १४॥ अर्थलाभे सदोन्मत्तः सर्वतः परिधावति । न वेत्त्यर्थस्वरूपन्तु किमज्ञानमतः परम् ॥ १५॥ जयेऽस्ति महती वाञ्छा नास्ति वाञ्छा पराजये । जयाजयौ न जानाति किमज्ञानमतः परम् ॥ १६॥ सर्वदा यत्नवान् जन्तुरात्मदुःखनिवारणे । उपायन्तु न जानाति किमज्ञानमतः परम् ॥ १७॥ नात्मीयो न परश्चापि कश्चिदस्ति हि कस्यचित् । तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ १८॥ मृद एवापरं रूपं मणिमुक्तातृणादिकम् । तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ १९॥ कृमिविड् भस्मशेषाहि सुदरिद्रास्तथा नृपाः । तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ २०॥ जायते जगदेकस्मादेकस्मिँल्लयमेष्यति । तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ २१॥ सर्वे समं समाक्रान्ता जन्ममृत्यु-जरादिकैः । तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ २२॥ कौपीनमपि यन्मूलं तन्मूलञ्चैलमम्बरम् । तथापि विषमा बुद्धिः किमज्ञान मतःपरम् ॥ २३॥ द्विहस्ता द्विपदा भूपा प्रजा अपि तथाविधाः । तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ २४॥ प्राणान्तेऽचेतनो राजा प्राणान्ते चेतनाः प्रजा । तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ २५॥ मातृकुक्षौ यथा राजा मातृकुक्षौ तथा प्रजाः । तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ २६॥ अव्यक्तादीनि भूतानि चाव्यक्तनिधनानि हि । तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ २७॥ करोति कस्यचित् कश्चिदिष्टानिष्टे कदापि न । तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ २८॥ आत्मैव हात्मनो बन्धुरात्मैव रिपुरात्मनः । तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ २९॥ उच्चैर्गायति वेदान्तो नेह नानास्ति किञ्चन । तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ ३०॥ एकमेवाद्वितीयञ्च सिद्धान्तं गायति श्रुतिः । तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ ३१॥ एकएव परोह्यात्मा सर्वजीवेषु शाश्वतः । तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ ३२॥ सर्वेष्वपि शरीरेषु समानाः सप्तधातवः । तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ ३३॥ स्मृतिश्च सर्वदा वक्ति सर्वं विष्णुमयं जगत् । तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ ३४॥ जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च । तथापि कुरुते शोकं किमज्ञानमतः परम् ॥ ३५॥ अद्य यन्मम वस्त्वस्ति पराहे तत् परस्यहि । तथापि ममता घोरा किमज्ञानमतः परम् ॥ ३६॥ वस्त्रवद्देहमादत्ते जहाति वस्त्रवत् पुनः । अहं बुद्धिः सदा तत्र किमज्ञानमतः परम् ॥ ३७॥ य एवासीत् स एवास्ति स एव च भविष्यति । तथापि कुरुते शोकं किमज्ञानमतः परम् ॥ ३८॥ चर्मणाच्छादितो देहो मांसास्थिरुधिराशयः । अहं बुद्धिः सदा तत्र किमज्ञानमतः परम् ॥ ३९॥ चित्स्वरूपं स्वमात्मानं विस्मृत्याचेतनं जडम् । आत्मानं मन्यते शश्वत् किमज्ञानमतः परम् ॥ ४०॥ आनन्दमयमात्मानं विस्मृत्य यन्त्रणालयम् । आत्मानं मन्यते देहं किमज्ञानमतः परम् ॥ ४१॥ नित्यमात्मानमज्ञानं नश्वरं क्षणभङ्गुरम् । आत्मानं मन्यते देहं किमज्ञानमतः परम् ॥ ४२॥ अद्यैकस्य गृहं यत्श्वो भविष्यत्यपरस्यहि । ममेति तद्गृहे बुद्धिः किमज्ञानमतः परम् ॥ ४३॥ स्वकर्म भोक्तुमायाताः सर्वे दारसुतादयः । उच्चकैर्ममता तेषु किमज्ञानमतः परम् ॥ ४४॥ अनिच्छन्तमपि त्यक्त्वा पुनर्यास्यन्ति ये ध्रुवम् । उच्चकैर्ममता तेषु किमज्ञानमतः परम् ॥ ४५॥ आसक्तिः सर्वदुःखानामाकरो नास्ति संशयः । तथापि सुदृढासक्तिः किमज्ञानमतः परम् ॥ ४६॥ अनित्ये नित्यवद् बुद्धिश्चिद्बुद्धिश्च जडे सदा । दुःखे च सुखवद्बुद्धिः किमज्ञानमतः परम् ॥ ४७॥ उदरं वनजातेन शाकेनापि प्रपूर्य्यते । तदर्थं कुरुते पापं किमज्ञानमतः परम् ॥ ४८॥ गुहैवास्ति नगेन्द्रस्य गृहमीश्वरनिर्मितमम् । तदर्थं कुरुते पापं किमज्ञानमतः परम् ॥ ४९॥ धरण्या दत्तमेवास्ति शय्यार्थं वक्ष आत्मनः । तदर्थं कुरुते पापं किमज्ञानमतः परम् ॥ ५०॥ वाक्ये मधु मुखे हास्यं विषं चित्ते दधाति या । प्रत्येति कामिनीमेतां किमज्ञानमतः परम् ॥ ५१॥ श्वभक्ष्ये कामिनीकाये रक्त-मूत्र-मलाशये । सज्यते सुन्दरीबुद्ध्या किमज्ञानमतः परम् ॥ ५२॥ संसारनिगडस्येयं कामिनी मूलबन्धनी । तथापि स्वीकरोत्येतां किमज्ञानमतः परम् ॥ ५३॥ दधाति पादयोः स्वस्य श‍ृङ्खलं स्वयमेवहि । संसाराख्यं सुदुश्छेद्यं किमज्ञानमतः परम् ॥ ५४॥ विहाय विपुलं वित्तमेको यात्यपरस्तथा । करोति विषये लोभं किमज्ञानमतः परम् ॥ ५५॥ अद्य यो भूपतिर्दृप्तः पराहे पथिकः स हि । तथापि कुरुते दम्भं किमज्ञानमतः परम् ॥ ५६॥ गर्वेण यो बलोन्मत्तः पराहे जरया जितः । तथापि कुरुते दम्भं किमज्ञानमतः परम् ॥ ५७॥ पदाद्य कम्पयन् पृथ्वीं पराहे याति पङ्गुताम् । तथापि कुरुते दम्भं किमज्ञानमतः परम् ॥ ५८॥ चक्षुष्मानद्य याति श्वः शरणं करधारिणम् । तथापि कुरुते दम्भं किमज्ञानमतः परम् ॥ ५९॥ अद्य श्रुतिधरो योऽसौ पराहे वधिरः पुनः । तथापि कुरुते दम्भं किमज्ञानमतः परम् ॥ ६०॥ सप्त-पुत्र-पिता योऽद्य पराहे सोऽसहायकः । तथापि कुरुते दम्भं किमज्ञानमतः परम् ॥ ६१॥ हर्षेण यो हसत्यद्य रोदिति श्वः स उच्चकैः । तथापि कुरुते दम्भं किमज्ञानमतः परम् ॥ ६२॥ अद्य दाता यएवासौ पराहे च परान्नभुक् । तथापि करुते दम्भं किमज्ञानमतः परम् ॥ ६३॥ अद्य सुस्थशरीरो यः पराहे पीडयाकुलः । तथापि कुरुते दम्भं किमज्ञानमतः परम् ॥ ६४॥ विषयी विषयश्चैव कालेन लयमेष्यतः । तथापि विषये लोभः किमज्ञानमतः परम् ॥ ६५॥ गतो रक्षःपतिर्दृप्तो गता लङ्का हिरण्मयी । तथापि विषये लोभः किमज्ञानमतः परम् ॥ ६६॥ गतो रामः प्रजारामः सायोध्या नगरी गता । तथापि विषये लोभः किमज्ञानमतः परम् ॥ ६७॥ गतो युधिष्ठिरः सापि हस्तिनानगरी गता । तथापि विषये लोभः किमज्ञानमतः परम् । ६८॥ गतः कंसः सुदुर्द्दान्तो मथुरानगरी गता । तथापि विषये लोभः किमज्ञान मतःपरम् ॥ ६९॥ गतो नलः सुधर्मिष्ठो विदर्भनगरं गतम् । तथापि विषये लोभः किमज्ञानमतः परम् ॥ ७०॥ आशा हि परमं दुःखं नैराश्यं परमं सुखम् । तथापि बलवत्याशा किमज्ञानमतः परम् ॥ ७१॥ दुष्पूरा विषयैराशा शून्यं शब्दैर्यथा तथा । तथापि पूरणे वाञ्छा किमज्ञानमतः परम् ॥ ७२॥ सुखमैन्द्रियकं यत्तच्छूकरे मानवे समम् । तदर्थं यततेऽभीक्ष्णं किमज्ञानमतः परम् ॥ ७३॥ संसार-सुखमेतद्धि सर्वदा दुःखमिश्रितम् । तदर्थं यतते नित्यं किमज्ञानमतः परम् ॥ ७४॥ अयत्नेनैव संलभ्यं दुःखवदैहिकं सुखम् । तदर्थं सुमहान् यत्नः किमज्ञानमतः परम् ॥ ७५॥ भोगेन वर्धते कामो न शान्तिमुपगच्छति । तथापि वासना भोगे किमज्ञानमतः परम् ॥ ७६॥ भगवानुद्धवं प्राह सुखं दुःख-सुखात्ययः । तदर्थं यतते नैव किमज्ञानमतः परम् ॥ ७७॥ क्षुद्रानन्दे सदोन्मत्तः सफरीवाल्पवारिणि । आयुःक्षयं न जानाति किमज्ञानमतः परम् ॥ ७८॥ इदं लब्धमिदं लप्स्य इति चिन्ताकुलः सदा । आयुःक्षयं न जानाति किमज्ञानमतः परम् ॥ ७९॥ आयुर्हरति वै पुंसां कृतान्त-जनकः सदा । जानन्नपि न जानाति किमज्ञानमतः परम् ॥ ८०॥ कालो याति समायाति सर्वदेति प्रजल्पति । यात्यायुरिति नो वेत्ति किमज्ञानमतः परम् ॥ ८१॥ यदर्थं मानुषं जन्म लब्ध्वायातो महीतले । तत्र नास्ति मनाग् दृष्टिः किमज्ञानमतः परम् ॥ ८२॥ दुर्ल्लभं जीवनं दत्त्वा मूल्यरूपेण सर्वदा । क्रीणाति नरकानन्दं किमज्ञानमतः परम् ॥ ८३॥ पतङ्गवज्जुहोत्यध्वा स्वात्मानं विषयानले । आपात-सुन्दरे शश्वत् किमज्ञानमतः परम् ॥ ८४॥ कल-भाषणमाश्रुत्य मोहितः सुतदारयोः । मृगवन्न स्मरेत् कालं किमज्ञानमतः परम् ॥ ८५॥ रसना-वशगः शश्वन् मीनवद् भक्ष्यलोभितः । अत्ति चान्तर्विषं वस्तु किमज्ञानमतः पञ्चम् ॥ ८६॥ गजवद् बन्धनं याति कामिनीस्पर्शलालसः । कालकौशलमज्ञात्वा किमज्ञानमतः परम् ॥ ८७॥ संसारमधुगन्धेन मोहितः षट्पदो यथा । परमापदमाप्नोति किमज्ञानमतः परम् ॥ ८८॥ विषमत्त्य मृतं हित्वा जलं हित्वा मरीचिकाम् । समभ्येति सदा भ्रान्त्या किमज्ञानमतः परम् ॥ ८९॥ सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् । तल्लाभे नहि यत्नोऽस्ति किमज्ञानमतः परम् ॥ ९०॥ यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः । तल्लाभे नहि यत्नोऽस्ति किमज्ञानमतः परम् ॥ ९१॥ मातृकुक्षौ भृशं दुःखं सम्प्राप्य यत् प्रतिश्रुतम् । विस्मृत्य नीयते कालः किमज्ञानमतः परम् ॥ ९२॥ यद्दत्तचक्षुषा सर्वं जगच्चित्रं प्रपश्यति । नाभिवाञ्छति तं द्रष्टुं किमज्ञानमतः परम् । ९३॥ वसन् वारिनिधेस्तीरे जलाभावेन यातना । अतःपरं किमज्ञानं किमज्ञानमतः परम् ॥ ९४॥ सुखाब्धिसन्निधौ स्थित्वा यन्त्रणामेति सर्वदा । अतःपरं किमज्ञानं किमज्ञानमतः परम् ॥ ९५॥ मन्यतेऽहं करोमीति प्रकृतेर्गुणकर्मणि । अतःपरं किमज्ञानं किमज्ञानमतः परम् ॥ ९६॥ हृदि स्थितं सदानन्दं लब्धुं संयतते वहिः । अतःपरं किमज्ञानं किमज्ञानमतः परम् ॥ ९७॥ तत्त्वमसि महावाक्यं विस्मृत्य याति यन्त्रणाम् । किमज्ञानं किमज्ञानं किमज्ञानमतः परम् ॥ ९८॥ भगवन्तं सदा सेव्यं हित्वोपास्ते जडं सदा । किमज्ञानं किमज्ञानं किमज्ञानमतः परम् ॥ ९९॥ मृत्पिण्डो नीलकान्तश्च समौ तयोर्घृणादरौ । किमज्ञानं किमज्ञानं किमज्ञानमतः परम् ॥ १००॥ इति विवेक-रत्नं सम्पूर्णम् ।

हरिनाम-रत्नम्

वेदामर-तरूद्भूतमपूर्वामृत-सम्भृतम् । फलमानन्दचिद्रूपं हरेर्नामैव केवलम् ॥ १॥ वीजं यत् सर्ववेदानां त्रिवृत् प्रणव उच्यते । तस्यापि वीजभूतं हि हरेर्नामैव केवलम् ॥ २॥ गायत्र्या गीयते यत्तद् यो भर्ग इति शब्दतः । तात्पर्य्येण तदेवैतद्धरेर्नामैव केवलम् ॥ ३॥ पुराणे चागमे तन्त्रे मन्त्रे च भारते तथा । सर्वत्र सर्वदा गीतं हरेर्नामैव केवलम् ॥ ४॥ सर्वदेवाभिधाः शश्वत् सरितः सागरं यथा । तथा तदभिधावन्ति हरेर्नामैव केवलम् ॥ ५॥ असारे भवसंसारे सारभूतं सनातनम् । सर्वकामप्रदं पुण्यं हरेर्नामैव केवलम् ॥ ६॥ रञ्जनं सर्वचित्तानां भञ्जनं पापभूभृताम् । गञ्जनं चित्रभोगानां हरेर्नामैव केवलम् ॥ ७॥ शाक्त-वैष्णव-गाणेश-सौर-शैवाश्च साधकाः । नाम-भेदेन गायन्ति हरेर्नामैव केवलम् ॥ ८॥ दारापत्य-सुहृत्-प्राण-देह-गेह-समन्वितम् । विश्वं विनाशि सत्यं हि हरेर्नामैव केवलम् ॥ ९॥ योग-याग-तपोज्ञान-स्नानदान-सुकर्मणाम् । सर्वेषामभिलक्ष्यं हि हरेर्नामैव केवलम् ॥ १०॥ मधुरं मधुरेभ्योऽपि मङ्गलेभ्योऽपि मङ्गलम् । पावनं पावनेभ्योऽपि हरेर्नामैव केवलम् ॥ ११॥ भवबन्ध-विमुक्तोऽपि नारदो मुनिसत्तमः । गायन्नटति हर्षेण हरेर्नामैव केवलम् ॥ १२॥ युक्तमुक्तं सुधीवृन्दैः सारमाहृत्य सर्वतः । हरेर्नाम हरेर्नाम हरेर्नामैव केवलम् ॥ १३॥ प्रबलं बलवद्भ्योऽपि दुर्वलानां परं बलम् । सम्बलं भवपान्थानां हरेर्नामैव केवलम् ॥ १४॥ को वा कस्य भवेद् बन्धुः सर्वः स्वार्थं समीहते । निरुपाधि सुहृन्नित्यं हरेर्नामैव केवलम् ॥ १५॥ सम्पत्सु स्वजनाः सर्वे विपत्सु विमुखाः सदा । सम्पदापत्सु मित्रं हि हरेर्नामैव केवलम् ॥ १६॥ यदि नित्यसुखे वाञ्छा यदि वाञ्छा भवक्षये । सानुरागं तदा गेयं हरेर्नामैव केवलम् ॥ १७॥ बोधकं सर्वतत्त्वानां रोधकं सकलैनसाम् । शोधकं सर्वचित्तानां हरेर्नामैव केवलम् ॥ १८॥ स एव मानवो लोके स एव च सुपण्डितः । रसनायां सदा यस्य हरेर्नामैव केवलम् ॥ १९॥ न पण्डितः पण्डितोऽपि मानवोऽपि न मानवः । रसनायां न यस्यास्ति हरेर्नामैव केवलम् ॥ २०॥ अज्ञान-तमसाच्छन्ने रिपु-चौरावृते भवे । रत्न-दीपायते नित्यं हरेर्नामैव केवलम् ॥ २१॥ विभीषणं भयस्यापि कामस्यापि विमोहनम् । लोभस्य लोभनं चित्रं हरेर्नामैव केवलम् ॥ २२॥ फलं यद्ध्यानतो लभ्यं यज्ञार्च्चाभ्याञ्च यत्फलम् । तत्सर्वं प्रददात्येव हरेर्नामैव केवलम् ॥ २३॥ देशकालाद्यपेक्षास्ति सर्वसत्कर्म-साधने । निरपेक्षमिदं विद्धि हरेर्नामैव केवलम् ॥ २४॥ यस्यां तस्यामवस्थायां यत्र तत्र यदा तदा । प्रजप्तुं शक्यते सर्वै हरेर्नामैव केवलम् ॥ २५॥ श्रवणीयमिदं शश्वत् कीर्त्तनीयमिदं सदा । स्मरणीयमिदं नित्यं हरेर्नामैव केवलम् ॥ २६॥ एकैकविषयो भौम एकैकेन्द्रियतर्पणः । सर्वाक्ष-तर्पणन्त्वेकं हरेर्नामैव केवलम् ॥ २७॥ नास्ति तथाविधो रोगो नास्ति शोकस्तथाविधः । यं न नाशयति ह्येकं हरेर्नामैव केवलम् ॥ २८॥ देवतानामिदं हव्यं पितॄणां कव्यमुत्तमम् । मर्त्यानाममृतञ्चान्नं हरेर्नामैव केवलम् ॥ २९॥ अपारे भवकात्तारे रिपुशार्द्दूल-सङ्कुले । शरणं भयशून्यं हि हरेर्नामैव केवलम् ॥ ३०॥ प्राकृतं नाममात्रं हि द्विरावृत्त्या पुरातनम् । शतावृत्त्या नवं भाति हरेर्नामैव केवलम् ॥ ३१॥ नामैव परमो यज्ञो नामैव परमं तपः । ज्ञानं यत्परमं लोके हरेर्नामैव केवलम् ॥ ३२॥ नामैव तान्त्रिकी सन्ध्या नामैव वैदिकी तथा । यदन्यत् करणीयञ्च हरेर्नामैव केवलम् ॥ ३३॥ धर्मदं धर्मकामस्य कामकामस्य कामदम् । अर्थदञ्चार्थकामस्य हरेर्नामैव केवलम् ॥ ३४॥ मुक्तिदं मुक्तिकामस्य निष्कामस्य सदात्मदम् । तद् वदान्यतमं लोके हरेर्नामैव केवलम् ॥ ३५॥ वर्णाश्रम-विभागेन ये ये धर्मा निरूपिताः । तत्सर्वेर्षां शिरोरत्नं हरेर्नामैव केवलम् ॥ ३६॥ जीवनं सफलं तर्हि धर्मोऽपि सफलस्तदा । रसनायां यदा नृत्येद्धरेर्नामैव केवलम् ॥ ३७॥ ज्ञानदण्डेन सम्मथ्य सुधीभिर्भवसागरम् । नवनीतं वहिर्नीतं हरेर्नामैव केवलम् ॥ ३८॥ आब्रह्मस्तम्ब-पर्यन्तं सर्वं मायामयं जगत् । सत्यं सत्यं पुनः सत्यं हरेर्नामैव केवलम् ॥ ३९॥ सुधियः सर्वकार्याणि कुर्वन्तो वहिरिन्द्रियैः । जपन्ति मनसा नित्यं हरेर्नामैव केवलम् ॥ ४०॥ संसारसर्पदष्टस्य जनस्य जगतीतले । भैषज्यं यदि वा किञ्चिद्धरेर्नामैव केवलम् । ४१॥ विष्णुरातो दिवंयातो हित्वानित्यकलेवरम् । श्रुत्वा शुकमुखाच्छुद्धं हरेर्नामैव केवलम् ॥ ४२॥ विषं विशमितं तेन प्रह्लादेन महात्मना । श्रद्धया परया स्मृत्वा हरेर्नामैव केवलम् ॥ ४३॥ कीर्त्तयित्वा कृतार्थोऽभूद् भगवान् वादरायणः । विमले जाह्नवी-कूले हरेर्नामैव केवलम् ॥ ४४॥ निरुपाधि सुहृन्नित्यमक्षयं परमं धनम् । कालानधिकृतं धाम हरेर्नामैव केवलम् ॥ ४५॥ यन्त्रणापरिपूर्णोऽपि नरकस्त्रिदिवायते । यदि स्यात् सततं तत्र हरेर्नामैव केवलम् ॥ ४६॥ सर्वसम्पत्-सम्बद्धोऽपि त्रिदिवो नरकायते । यदि नस्यात् सदा तत्र हरेर्नामैव केवलम् ॥ ४७॥ प्राणान्ते नानुगच्छन्ति सर्वे धन-जनादयः । जीवने मरणे सङ्गि हरेर्नामैव केवलम् ॥ ४८॥ पालने पितृवन्नित्यं लालने जननीसमम् । रमणे रामया तुल्यं हरेर्नामैव केवलम् ॥ ४९॥ स गुरुः स पिता चापि सा माता बान्धवोऽपि सः । शिक्षयेच्चेत् सदा स्मर्त्तुं हरेर्नामैव केवलम् ॥ ५०॥ न गुरुर्न पिता चापि न माता बान्धवोऽपि न । न शिक्षयेद् यदि स्मर्त्तुं हरेर्नामैव केवलम् ॥ ५१॥ क्षुधार्त्ते परमान्नं हि तृष्णार्त्ते शीतलं जलम् । सन्तप्ते कोमलो वायुर्हरेर्नामैव केवलम् ॥ ५२॥ पावनो यवनोऽपि स्याद् बुद्ध्वा सर्वमसद् यदि । कीर्त्तयेत् सततं भक्त्या हरेर्नामैव केवलम् । ५३॥ काल-गुप्त-चरा एते सर्वे दार-सुतादयः । तद्वञ्चनमहामन्त्रो हरेर्नामैव केवलम् ॥ ५४॥ लाभानां परमो लाभः सद्गतीनां परा गतिः । सर्वासामाशिषां शेषो हरेर्नामैव केवलम् ॥ ५५॥ श्रूयन्ते बहवः शब्दा जीवभेदैः समीरिताः । साधुभिः श्रूयते किन्तु हरेर्नामैव केवलम् ॥ ५६॥ तृणीकृत्य जगत् सर्वं राजते सकलोपरि । चिदानन्दमयं शुद्धं हरेर्नामैव केवलम् ॥ ५७॥ सिद्धानां सिद्धिदा देवाः शतशः सन्ति सर्वतः । असिद्ध-सिद्धिदं विद्धि हरेर्नामैव केवलम् ॥ ५८॥ स याति सकलं हित्वा निर्मलं श्रीहरेः पदम् । यस्त्यजेत् कीर्त्तयन् प्राणान् हरेर्नामैव केवलम् ॥ ५९॥ अतः सुकृतिनो नित्यमावाल्यादति यत्नतः । पुनः पुनः प्रगायन्ति हरेर्नामैव केवलम् ॥ ६०॥ यावद्देहे स्थिताः प्राणा यावज्जिह्वा वशे स्थिता । तावदेव सदा गेयं हरेर्नामैव केवलम् ॥ ६१॥ निश्वासे नहि विश्वासः कदा रुद्धो भविष्यति । कीर्त्तनीयमतो बाल्याद्धरेर्नामैव केवलम् ॥ ६२॥ क्षणं नापेक्षते मृत्युर्नानुरोधं श‍ृणोति च । प्रागेव नीयतां तस्माद्धरेर्नामैव केवलम् ॥ ६३॥ कलिकुञ्जर-कुम्भस्य दारणं भवतारणम् । मारणं मरणस्यापि हरेर्नामैव केवलम् ॥ ६४॥ गच्छद्भिरुत तिष्ठद्भिरशद्भिरपि यत्नतः । स्मरणीयं सदा पुम्भिर्हरेर्नामैव केवलम् ॥ ६५॥ नास्ति नास्ति कलौ नास्ति हरिनाम विना गतिः । तस्माद् यत्नेन जप्तव्यं हरेर्नामैव केवलम् ॥ ६६॥ नरोऽपि सुरपूज्यः स धरा तस्यामरा पुरी । अङ्गे हृदि मुखे यस्य हरेर्नामैव केवलम् ॥ ६७॥ पशुयोनौ वरं जन्म पक्षियोनौ वरं तथा । यदि स्मरेन् मनो नित्यं हरेर्नामैव केवलम् ॥ ६८॥ स्वस्वाधिकारमाश्रित्य क्रियतां कर्म कृत्स्नशः । ध्रियतां ध्रियतां चित्ते हरेर्नामैव केवलम् ॥ ६९॥ जितं तेन रिपून् येन निरस्य भवसंयुगे । संलब्धं तन्महारत्नं हरेर्नामैव केवलम् ॥ ७०॥ गतमेव विजानीहि परमायुरनिश्चितम् । कीर्त्त्यतां कीर्त्त्यतां शीघ्रं हरेर्नामैव केवलम् ॥ ७१॥ अद्य श्व इति संयाता बहवो दिवसा वृथा । इदानीमपि जप्तव्यं हरेर्नामैव केवलम् ॥ ७२॥ नाहं चर्मादि-सङ्घातो नैते मम गृहादयः । अहं जीवो ममावेहि हरेर्नामैव केवलम् ॥ ७३॥ पिबन्ति केवलं वारि चातका मेघ-निःसृतम् । तथा भक्ताः प्रगायन्ति हरेर्नामैव केवलम् ॥ ७४॥ याशा नहि निवर्तेत लब्ध्वापि सुरपालताम् । सास्वाद्य सन्निवर्तेत हरेर्नामैव केवलम् ॥ ७५॥ नाम धाम स्वरूपञ्च त्रयमेकं न संशयः । अतः पुम्भिः सदा स्वाद्यं हरेर्नामैव केवलम् ॥ ७६॥ हरिः सदा वसेत्तत्र यत्र भागवता जनाः । गायन्ति भक्तिभावेन हरेर्नामैव केवलम् ॥ ७७॥ तद्धि वृन्दावनं धाम प्रेमाश्रुपुलकाचितैः । यत्र सङ्गीयते भक्तैर्हरेर्नामैव केवलम् ॥ ७८॥ तत्र तीर्थान्यशेषाणि क्षेत्राणि सकलानि च । प्रेम्णा प्रगीयते यत्र हरेर्नामैव केवलम् ॥ ७९॥ नृत्यन्ति देवतास्तत्र मुदा मर्त्यैरलक्षिताः । सङ्कीर्त्त्यते जनैर्यत्र हरेर्नामैव केवलम् ॥ ८०॥ मोदन्ते पितरः सर्वे श्रुत्वा श्रुति-मनोहरम् । स्ववंश्यानां मुखेभ्योहि हरेर्नामैव केवलम् ॥ ८१॥ वरमायुः क्षणार्द्धं हि यदि तत्र हृदा स्मरेत् । सारात्सारतरं शुद्धं हरेर्नामैव केवलम् ॥ ८२॥ भोगेन सम्प्रदानेन क्षयं यात्यखिलं धनम् । सङ्गृहाणाक्षयं रत्नं हरेर्नामैव केवलम् ॥ ८३॥ ये विदन्ति निजं लाभमलाभं वा विदन्ति च । क्रीणन्ति ते शरीरेण हरेर्नामैव केवलम् ॥ ८४॥ अभ्यस्तमधुना चेत्स्याद्रसनायामयत्नतः । आविर्भावि स्वयं शेषे हरेर्नामैव केवलम् ॥ ८५॥ हाहा कुर्वन् किमाप्नोषि भवितव्यं भविष्यति । तस्मात् सञ्जप यत्नेन हरेर्नामैव केवलम् ॥ ८६॥ कदा वृन्दावनं गत्वा धृत्वा माधुकरं व्रतम् । अनुक्षणं वदिष्यामि हरेर्नामैव केवलम् ॥ ८७॥ आत्मना वञ्चितो ह्यात्मा तेन पुंसा दुरात्मना । न नीतं हेलया येन हरेर्नामैव केवलम् ॥ ८८॥ अहो दुःखमहोदुःखं दुःखाद्दुःखतरं यतः । काचार्थं विस्मृतं रत्नं हरेर्नामैव केवलम् ॥ ८९॥ हरिः स्वयं हरो भूत्वा हित्वा सर्वं दिगम्बरः । श्मशाने सञ्जपत्येतद्धरेर्नामैव केवलम् ॥ ९०॥ श्रीचैतन्यः कृपासिन्धुर्भगवान् भक्त-रूपकः । कृपया दत्तवानेतद्धरेर्नामैव केवलम् ॥ ९१॥ ``तृणादपि सुनीचेन तरोरपि सहिष्णुना । अमानिना'' सदा गेयं हरेर्नामैव केवलम् ॥ ९२॥ यत्न-पुष्टः स्वदेहोऽपि भस्मशेषो भविष्यति । सञ्चीयता मतो नित्यं हरेर्नामैव केवलम् ॥ ९३॥ यदि वाञ्छसि सम्प्राप्तुं तद्विष्णोः परमं पदम् । स्मर स्मर-हराराध्यं हरेर्नामैव केवलम् ॥ ९४॥ वर्णाश्रम-वयो-दीक्षा-शिक्षादि-नियमो नहि । साधारण-धनं विद्धि हरेर्नामैव केवलम् ॥ ९५॥ गरली-कृत-पीयूषं कपर्द्दी-कृत-कौस्तुभम् । विराजते स्वप्रकाशं हरेर्नामैव केवलम् ॥ ९६॥ हरि-स्मरणमाचार्य्यैः सर्वार्त्ति-शमनं मतम् । स्मरणीयमतो मर्त्यैर्हरेर्नामैव केवलम् ॥ ९७॥ भवान्ध-कूप-मग्नानां क्रन्दताञ्च पुनः पुनः । उत्थानालम्बनं ह्येकं हरेर्नामैव केवलम् ॥ ९८॥ दीयतां दीयतां कर्णो नीयतां नीयतां वचः । गीयतां गीयतां नित्यं हरेर्नामैव केवलम् ॥ ९९॥ अपूर्व-भूषणं कण्ठे नील-कान्त-तमोनुदम् । ध्रियतां ध्रियतां सर्वैर्हरेर्नामैव केवलम् ॥ १००॥ इति हरिनाम-रत्नं सम्पूर्णम् । इति पञ्चरत्नग्रन्थं सम्पूर्णम् ।

उपसंहारः

माता गुरुस्तथा धर्मो विवेको हरिनाम च । सेव्या पूज्यस्तथापाल्यश्चिन्त्यः कीर्त्त्यञ्च सर्वदा ॥ गोस्वामि-श्रीनीलकान्त शर्मा । परम पूज्यतम स्वर्गीय ललितमोहन शील पितृपादसरोजेषु - वावा, आनन्दधामेर अलङ्घ्य आह्वाने आपनि अकालेइ दिव्य प्रभायँकाशीधामस्थ निज भजन-कुटीर आलोकित करिया, तत्रत्य साधकवर्गके स्तम्भित करिया, जनसाधारण्ये मृत्युर प्रणाली शिक्षा दिया, एवं एइ हतभाग्य पुत्राधमके शोक-सागरे भासाइया, अनन्तकालेर जन्य तिरोहित हैलेन । आमि प्राण भरिया आपनार सेवा करिवार अवसर पाइलाम ना । मनेर आक्षेप मनेइ रहिल । आपनार सुपवित्र नाम मर्त्त्यलोके अक्षुण्ण राखिवार जन्य भवदीय ओ मदीय भवकर्णधार भागवताचार्य्य श्रीयुक्त नीलकान्त गोस्वामी महाप्रभुपादेर आदेशे ताँहारै कृपादत्त एइ अमूल्य पञ्चरत्न प्रकाश करिलाम । आशा करि आनन्दधामे थाकियाओ आपनि इहा कण्ठे धारण पूर्वक परमानन्द पाइवेन एवं आमिओ ताहातेइ कथञ्चित् प्रीतिलाभ करिव । इति- पुत्त्राधम श्रीशौरीन्द्रमोहन शील दास ६इ कार्त्तिक सोमवार सन १२६२ साल । वयस-५८१०१० दिन । सन १३२१ साल ।

पूर्वपीठिका

श्रीश्रीगौरशतकञ्च । भागवताचार्य-श्रीयुक्त-नीलकान्त-गोस्वामि- महाप्रभुपादेन हृदयाकरादाविष्कृतं कलिकातायां ४३.१ सङ्ख्यक-माणिकतला-वर्त्मनि शीलोपाधिकेन श्रीशौरीन्द्रमोहन-दासेन पितृस्मृत्यर्थं यत्नतः प्रकाशितम् । सर्वाधिकारो ग्रन्थकारस्यैव । नाहं कवियशःप्रार्थी न मे चार्थागमे स्पृहा । आत्मसंशोधनार्थाय ममायं परमोद्यमः । घूणाक्षरमिवैतेन यदि कस्यापि वा भवेत् । उपकारो ममैवासौ सौभाग्योदय उत्तमः ॥ मया विरचितं पूर्वं कैवल्यशतकाभिधम् । पुस्तकं मुद्रितं तच्च वितीर्णं जनमण्डले । नामान्तरान्वितं कृत्वा तदेवात्र निवध्यच । प्रकल्प्य पञ्चमं रत्नं पञ्चरत्नं प्रपूरितम् ॥ रत्नेषु यदि मालिन्यं रत्नज्ञैर्दृश्यते क्वचित् । तन्मार्ज्जनेन मन्दोऽहमनुग्राह्यो महात्मभिः । गोस्वामि- श्रीनीलकान्त-शर्मा । पुनर्विज्ञापनम् । पुनः प्रकाशितं पञ्च-रत्नं सज्जन-संसदि । सुनिर्बन्धेन भक्तानां सत्यधर्मधृतात्मनाम् ॥ शौरीन्द्रशीलदासस्य मच्छिष्यस्य विशेषतः । स्वपितृप्रियपुत्रस्य निर्बन्धातिशयेन च ॥ पितापि तस्य मच्छिष्यो वैष्णवो भाग्यवद्वरः । हरधाम्नि हरिं ध्यायन् वाराणस्यां जहावसून् ॥ एतावद्भाभाग्यशीलस्य रक्षितव्या पितुः स्मृतिः । इतीदमाग्रहेणैव सुपुत्रेण प्रकाशितम् । पितुरादर्शपुत्रं तमाशिषा वर्द्धयाम्यहम् । सर्वे च भगवद्भक्ता आशिषा वर्द्धयन्तु तम् ॥ पूर्वसंस्करणे या या वर्णतोऽशुद्धयः स्थिताः । अत्र संस्करणे तास्ता यत्नतः परिशोधिताः ॥ परिवर्तनमेतस्मिन् किञ्चित् किञ्चित् क्वचित् क्वचित् । शब्दतो वाक्यतश्चापि प्रयोजनवशात् कृतम् ॥ मङ्गलाचरणन्त्वेकमधिकं सन्निवेशितम् । ग्रन्थस्यादौ मया कृष्णशङ्करस्मृतिलक्षणम् ॥ श्रीगौरशतकं नाम क्षुद्रमन्यच्च पुस्तकम् । मया विरचितं शेषे सन्निबद्धं पुनः पृथक् । भागवतकुमारेण श्रीयुक्तेन हि शास्त्रिणा । मच्छिष्यमुखपात्रेण यत्नेनैतत् परीक्षितम् ॥ कल्याणीयवरस्येमं प्रयत्नातिशयं विना । अभविष्यत् सुदुःसाध्यं कर्मैतन्मम जीर्य्यतः ॥ नित्याशीर्वादकस्यापि यदाशीर्वचनं पुनः । श्रीमन्तं प्रति तत्सर्वं बाहुल्यमेव केवलम् ॥ अप्राप्य पञ्चरत्नं ये पूर्वं क्षोभमुपागताः । ते तृप्यन्तु विधार्य्येदं कण्ठे धर्मपरायणाः । गोस्वामि-श्रीनीलकान्तशर्मा । उत्सर्गः । यत्कृपालेशमात्रेण पञ्चरत्नमिदं मया । सुदीनेनापि संलब्धं तस्माएव निवेदितम् ॥ गोस्वामि-श्रीनीलकान्तशर्मा । Proofread by Manoj Kumar Barman
% Text title            : Pancharatnam 2 Five Shatakas - Matriratnam, Gururatnam, Dharmaratnam, Vivekaratnam, Harinamaratnam
% File name             : pancharatnam2.itx
% itxtitle              : pancharatnam 2  panchashatakAni (nIlakaNThagosvAmIvirachitam mAtRiratnam, gururatnam, dharmaratnam, vivekaratnam, harinAmaratnam)
% engtitle              : pancharatnam 2
% Category              : misc, shataka, pancharatnam
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Nilantha Sharma Goswami 
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Manoj Kumar Barman
% Indexextra            : (Scan)
% Latest update         : August 27, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org