नीलकण्ठ गोस्वामिविरचितं पञ्चरत्नम्
पञ्चरत्नानि -
मातृ-रत्नम् । गुरु-रत्नम् । धर्म-रत्नम् । विवेक-रत्नम् । हरिनाम-रत्नम् ।
मङ्गलाचरणम्
एकात्मानौ स्वरूपेण विभिन्नौ नामरूपतः ।
भक्तेच्छया द्विधाभूतौ वन्दे श्रीकृष्णशङ्करौ ॥ १॥
नवीननीरदश्यामतुषारसितविग्रहौ ।
फुल्लमीलितनेत्राब्जौ वन्दे श्रीकृष्णशङ्करौ ॥ २॥
किशोरसुकुमाराङ्गप्रवीणपृथुरूपकौ ।
श्रीखण्डभस्मलिप्ताङ्गौ वन्दे श्रीकृष्णशङ्करौ ॥ ३॥
रत्नालङ्काररुद्राक्षविभूषितवराङ्गकौ ।
वनमालास्थिमालाढ्यौ वन्दे श्रीकृष्णशङ्करौ ॥ ४॥
पीताम्बरो ययोरेक इतरश्च दिगम्बरः ।
समावप्यसमावेतौ वन्दे श्रीकृष्णशङ्करौ ॥ ५॥
ललाटविलसच्छीतचन्दनेन्दुविभूषितौ ।
सुकेशेजटिलौ नित्यं वन्दे श्रीकृष्णशङ्करौ ॥ ६॥
कौस्तभद्युतिसम्भातगरलाङ्कितकण्ठकौ ।
पिच्छनागकृतापीडौ वन्दे श्रीकृष्णशङ्करौ ॥ ७॥
राधाधिकृतवामार्द्ध-गिरिजाधिकृतार्द्धकौ ।
युगले युग्मरूपेण वन्दे श्रीकृष्णशङ्करौ ॥ ८॥
व्रजवाराणसीनित्यधामनित्यविराजितौ ।
यमुनाजाह्नवीकान्तौ वन्दे श्रीकृष्णशङ्करौ ॥ ९॥
लीलाध्यानपरौ नित्यं नित्यरागिविरागिणौ ।
आनन्दज्ञानरूपौ च वन्दे श्रीकृष्णशङ्करौ ॥ १०॥
यद्गोचरा ययोर्लीला यल्लीला नान्यगोचरा ।
तावचिन्त्यमहैश्वर्यौ वन्दे श्रीकृष्णशङ्करौ ॥ ११॥
वन्दे कृष्णं शिवं वन्दे व्यासेन हि पृथक् पृथक् ।
एकीकृत्य समासेन वन्दे श्रीकृष्णशङ्करौ ॥ १२॥
मातृ-रत्नम्
या देवी मानवीरूपा दृश्यते चर्मचक्षुषा ।
ईश्वरी भक्तिदृष्ट्या तु तस्यै मात्रे नमो नमः ॥ १॥
या देवी दशमास्यं मां सन्दधार ।
वसुधाया अधिष्ठात्र्यै तस्यै मात्रे नमो नमः ॥ २॥
या देवी मद्भराक्रान्ता क्लान्ताप्यासीत् सुनिर्वृता ।
स्वयं धृति-स्वरूपायै तस्यै मात्रे नमो नमः ॥ ३॥
या देवी शयनेऽप्यासीदशक्ता मत्कृते परम् ।
उदारता-स्वरूपायै तस्यै मात्रे नमो नमः ॥ ४॥
या देवी चक्षमे दोषं कुक्षौ चाञ्चल्यजं मम ।
क्षमायै रूपधारिण्यै तस्यै मात्रे नमो नमः ॥ ५॥
या देवी मत्कृते सेहे दुःसहां प्रसवव्यथाम् ।
सहिष्णुता-स्वरूपायै तस्यै मात्रे नमो नमः ॥ ६॥
या देवी परितुष्टासीन् मां प्रसूय शुचिस्मिता ।
प्रफुल्लता-स्वरूपायै तस्यै मात्रे नमो नमः ॥ ७॥
या देवी मां निधायाङ्के स्तन्यामृतमपाययत् ।
दयायै रूपधारिण्यै तस्यै मात्रे नमो नमः ॥ ८॥
या देवी मे मलं मूत्रं स्वहस्ताभ्यामपाकरोत् ।
ममतायाः प्रतिष्ठायै तस्यै मात्रे नमो नमः ॥ ९॥
या देवी मां सदा दध्यौ व्यग्रापि गृहकर्मसु ।
निष्ठायै रूपधारिण्यै तस्यै मात्रे नमो नमः ॥ १०॥
या देवी मां सदारक्षत् पणीकृत्य स्वजीवनम् ।
रूपवत्यै प्रतिज्ञायै तस्यै मात्रे नमो नमः ॥ ११॥
या देवी स्वसुखं हित्वा मम शान्तिमवर्द्धयत् ।
परार्थ-प्राणरूपायै तस्यै मात्रे नमो नमः ॥ १२॥
या देवी निजरक्तं मद्देहपुष्ट्ये ददौ सदा ।
वदान्यता-स्वरूपायै तस्यै मात्रे नमो नमः ॥ १३॥
या देवी मम दौरात्म्यं सेहे मित्यमकातरम् ।
निर्विकार-स्वरूपायै तस्यै मात्रे नमो नमः ॥ १४॥
या तुष्टे मयि सन्तुष्टा या रुग्णे मयि रोगिणी ।
या शान्ते मयि शान्तासीत्तस्यै मात्रे नमो नमः ॥ १५॥
या मत्पीडा-प्रशान्त्यर्थं सिषेवे स्वयमौषधम् ।
स्नानाशने परित्यज्य तस्यै मात्रे नमो नमः ॥ १६॥
अशक्तस्याङ्ग-चेष्टायां मनोभाव-प्रकाशने ।
यां विना मे गतिर्नासीत्तस्यै मात्रे नमो नमः ॥ १७॥
अमृतं वचने यस्या हृदये च पवित्रता ।
करयोश्चन्दनालेपस्तस्यै मात्रे नमो नमः ॥ १८॥
या युक्ता पूजयद्देवान् मम कल्याण-वाञ्छया ।
सद्भक्त्या भक्तिरूपाये तस्यै मात्रे नमो नमः ॥ १९॥
अहमेव धनं यस्या अहं प्राणा अहं मनः ।
अहमेव च सर्वस्वं तस्यै मात्रे नमो नमः ॥ २०॥
सर्वेषामेव संसारे स्नेहः स्वार्थ-समन्वितः ।
निःस्वार्थ-स्नेहपूर्णा या तस्यै मात्रे नमो नमः ॥ २१॥
यां विना सर्वसम्पत्ति-सर्वात्मीय-समन्वितम् ।
भवनं काननप्रायं तस्यै मात्रे नमो नमः ॥ २२॥
कुपुत्रा बहवः सन्ति कुमाता न कदाचन ।
इति यस्याः शुभा ख्यातिस्तस्यै मात्रे नमो नमः ॥ २३॥
प्रत्यक्ष-देवता या च प्रत्यक्ष-परमेश्वरी ।
अप्राकृतस्वरूपायै तस्यै मात्रे नमो नमः ॥ २४॥
अनादृतापि पुत्रेण शुद्धभावेन वाञ्छति ।
या सदा तस्य कल्याणं तस्यै मात्रे नमो नमः ॥ २५॥
यस्यामनादृतायाञ्च तपोहोम-जपादिकम् ।
सर्वं विफलतां याति तस्यै मात्रे नमो नमः ॥ २६॥
यस्यां समर्च्चितायां हि सर्वदेवार्च्चनं भवेत् ।
सर्वदेव-स्वरूपायै तस्यै मात्रे नमो नमः ॥ २७॥
विन्दुमात्रं यदुष्णाश्रु भस्मीकर्त्तुमलङ्कुलम् ।
अचिन्त्यशक्तिरूपाये तस्यै मात्रे नमो नमः ॥ २८॥
यस्यामपूजितायां हि विविधैरुपचारकैः ।
विफला देवता-पूजा तस्यै मात्रे नमो नमः ॥ २९॥
यदर्च्चनं विना याग-व्रताद्या विविधाः क्रियाः ।
स्वर्गदा न भवन्त्येव तस्यै मात्रे नमो नमः ॥ ३०॥
आशीर्वादबलाद् यस्या अयत्नेनैव मानवः ।
लभते सर्वकल्याणं तस्यै मात्रे नमो नमः ॥ ३१॥
सर्वसत्-कर्मकर्त्तापि यत्सेवाविमुखो नरः ।
अकीर्त्तिं लभते लोके तस्यै मात्रे नमो नमः ॥ ३२॥
सर्वदुष्कर्मकर्त्तापि यत्सेवानिरतो नरः ।
लभते विपुलां कीर्त्तिं तस्यै मात्रे नमो नमः ॥ ३३॥
धृतिः क्षमा दमः सत्यं दया दाक्षिण्यमेव च ।
वसन्ति सर्वदा यस्यां तस्यै मात्रे नमो नमः ॥ ३४॥
यस्याः सुनिर्मलं स्नेहं विना सृष्टिपरम्परा ।
क्षणेनैव भवेद्रुद्धा तस्यै मात्रे नमो नमः ॥ ३५॥
कटुतिक्तमपि द्रव्यं यया दत्तं सुधायते ।
अमृताधार-रूपाये तस्यै मात्रे नमो नमः ॥ ३६॥
मा-संज्ञा भूतले यस्या मधुरा मधुरादपि ।
परमानन्द-रूपायै तस्यै मात्रे नमो नमः ॥ ३७॥
कठोर-क्लेशकालेऽपि यां समाहूय मानवः ।
क्षणं शान्तिमवाप्नोति तस्यै मात्रे नमो नमः ॥ ३८॥
यत्समो नास्ति संराध्यो यत्समा नास्ति देवता ।
हितेच्छुर्यत्समो नास्ति तस्यै मात्रे नमो नमः ॥ ३९॥
गुरुश्च यत्समो नास्ति नात्मीयश्चापि यत्समः ।
अद्वितीय-स्वरूपाये तस्यै मात्रे नमो नमः ॥ ४०॥
गङ्गाया अपि या शुद्धा कोमला कुसुमादपि ।
निर्मलाकाशतश्चापि तस्यै मात्रे नमो नमः ॥ ४१॥
निःस्वार्थं शुद्धवात्सल्यं भक्ते भगवतो यथा ।
तथैव तनये यस्यास्तस्यै मात्रे नमो नमः ॥ ४२॥
स्वसृष्टि-रक्षणार्थाय पालनीं शक्तिमात्मनः ।
भगवान् प्रददौ यस्यै तस्यै मात्रे नमो नमः ॥ ४३॥
स्वयं भगवती किंवा यस्या हृदयमास्थिता ।
करोति पालनं शश्वत्तस्यै मात्रे नमो नमः ॥ ४४॥
वहिर्या मानवीरूपा मांसास्थि-शोणितान्विता ।
अन्तस्तु देवता साक्षात्तस्यै मात्रे नमो नमः ॥ ४५॥
यस्यां हि वर्तमानायां तनयस्य व्रतादिकम् ।
नास्ति किञ्चित् शुभं कार्यं तस्यै मात्रे नमो नमः ॥ ४६॥
सङ्गृह्य सर्वसद्वृत्तीर्भगवानखिलेश्वरः ।
निर्ममे हृदयं यस्यास्तस्यै मात्रे नमो नमः ॥ ४७॥
यामनादृत्य शक्तोऽपि स्वेच्छातस्तनयाधमः ।
जीवन्नपि परेतः स्यात्तस्यै मात्रे नमो नमः ॥ ४८॥
अज्ञानादपि यत्सेवामकृत्वा निरयी भवेत् ।
अवश्य-पूजनीयायै तस्यै मात्रे नमो नमः ॥ ४९॥
अप्यकार्यशतं कृत्वा करणीयं यदर्च्चनम् ।
मनुना स्पष्टमेवोक्तं तस्यै मात्रे नमो नमः ॥ ५०॥
भगवद्वाक्यवद् यस्याः सक्वदुच्चरिताशिषः ।
वितथा न भवन्त्येव तस्यै मात्रे नमो नमः ॥ ५१॥
मघास्वपि भवेद् यात्रा यत्पादनतिपूर्विका ।
सुतस्य शुभदा नित्यं तस्यै मात्रे नमो नमः ॥ ५२॥
शुभा किंवाशुभेत्येवमविचार्य सदा सुतैः ।
पालनीया यदाज्ञा वै तस्यै मात्रे नमो नमः ॥ ५३॥
विमलानुग्रहाद् यस्या विचित्रं जगदीदृशम् ।
शक्नोति तनयो द्रष्टुं तस्यै मात्रे नमो नमः ॥ ५४॥
दुर्ब्बले तनये यस्याः स्नेहोऽधिकतरो भवेत् ।
बलवद्भ्योऽपि पुत्रेभ्यस्तस्यै मात्रे नमो नमः ॥ ५५॥
शिक्षितेभ्यश्च पुत्रेभ्यः स्नेहोऽधिकतरः सदा ।
अशिक्षिते सुते यस्यात्तस्यै मात्रे नमो नमः ॥ ५६॥
धनवद्भ्योऽपि पुत्रेभ्यः स्नेहोऽधिकतरो भवेत् ।
निर्धने तनये यस्यात्तस्यै मात्रे नमो नमः ॥ ५७॥
तनयेभ्यो युवभ्योऽपि निःसहाये सुते शिशौ ।
स्नेहोऽधिकतरो यस्यात्तस्यै मात्रे नमो नमः ॥ ५८॥
सुरूपेभ्यश्च पुत्रेभ्यः स्नेहोऽधिकतरः सदा ।
कुरूपे तनये यस्यास्तस्यै मात्रे नमो नमः ॥ ५९॥
प्रवासस्थसुतक्लेशमश्रुत्वापि स्वयं हि या ।
जानाति चित्तमालिन्या त्तस्यै मात्रे नमो नमः ॥ ६०॥
या पश्यति सदा स्नेहात् सुतमप्याप्तयौवनम् ।
स्थितं बाल्ये वयस्येव तस्यै मात्रे नमो नमः ॥ ६१॥
या पश्यति सदा स्नेहादपि विक्रमशालिनम् ।
पुत्रं बलविहीनं हि तस्यै मात्रे नमो नमः ॥ ६२॥
पुत्रं बहुभुजञ्चापि स्नेहात् पश्यति या सदा ।
अत्यल्पमात्रभोक्तारं तस्यै मात्रे नमो नमः ॥ ६३॥
दुर्दान्तमपि या पुत्रं स्नेहात् पश्यति सर्वदा ।
शान्तं शिष्टं निरीहञ्च तस्यै मात्रे नमो नमः ॥ ६४॥
किम्बहूक्तेन या पश्येदपि दोषशतान्वितम् ।
पुत्रं गुणालयं स्नेहात्तस्यै मात्रे नमो नमः ॥ ६५॥
अपि हस्तसहस्राणि यां हि सेव्यतमोत्तमाम् ।
सेवितुं न समर्थानि तस्यै मात्रे नमो नमः ॥ ६६॥
अपि मस्तकसाहस्रेर्न योग्या प्रणतिर्भवेत् ।
यस्या नम्यतमायाश्च तस्यै मात्रे नमो नमः ॥ ६७॥
अपि श्रवणसाहस्रेः पीते यस्याः कथामृते ।
कदापि न भवेत्त्वप्तिस्तस्यै मात्रे नमो नमः ॥ ६८॥
यस्याः पादयुगे भक्तिरशेषक्लेशनाशिनी ।
सौभाग्यदायिनी चैव तस्यै मात्रे नमो नमः ॥ ६९॥
यस्याः पादयुगेऽभक्तिरशेषक्लेशदायिनी ।
सौभाग्यनाशिनी चैव तस्यै मात्रे नमो नमः ॥ ७०॥
यस्याञ्च परितृप्तायां सुतृप्ताः सर्वदेवताः ।
असंशयं भवन्त्येव तस्यै मात्रे नमो नमः ॥ ७१॥
यस्यां तृप्तिमयातायामतृप्ताः सर्वदेवताः ।
असंशयं भवन्त्येव तस्यै मात्रे नमो नमः ॥ ७२॥
त्रिषु लोकेषु या नित्यमतुल्यातिशया गुणैः ।
सर्वसद्गुणरूपायै तस्यै मात्रे नमो नमः ॥ ७३॥
पुत्रदारसुहृद्भ्रातृ-फलपुष्पादिशोभिनः ।
या संसारतरोः क्षेत्रं तस्यै मात्रे नमो नमः ॥ ७४॥
मा मेति मधुराह्वानं यस्याः सुखकरं सदा ।
सुखे वा यदिवा दुःखे तस्यै मात्रे नमो नमः ॥ ७५॥
स्वयं लक्ष्मीस्वरूपेति मेति संज्ञा यया धृता ।
अप्राकृतस्वरूपाये तस्यै मात्रे नमो नमः ॥ ७६॥
गृह-देह-मनः-प्राण-वित्तानि सकलानि च ।
पुत्रोपकृतये यस्यास्तस्यै मात्रे नमो नमः ॥ ७७॥
सुधाकरे कलङ्कोऽस्ति पद्मनालेऽपि कण्टकम् ।
यस्यां न दोषलेशोऽस्ति तस्यै मात्रे नमो नमः ॥ ७८॥
जलमप्यग्निसंयोगादुष्णत्वं याति किन्तु या ।
न कदापि भवेद्रुष्टा तस्यै मात्रे नमो नमः ॥ ७९॥
भगवानपि विश्वात्मा लीलाविग्रहमाश्रितः ।
ननाम यत्पदं नित्यं तस्यै मात्रे नमो नमः ॥ ८०॥
इष्टदेवः सदापूज्यः सर्वेषां नास्ति संशयः ।
तस्मात् पूज्यतरा या च तस्यै मात्रे नमो नमः ॥ ८१॥
शिक्षागुरुः सदापूज्यः सर्वेर्षां नास्ति संशयः ।
तस्मात् पूज्यतरा या च तस्यै मात्रे नमो नमः ॥ ८२॥
दीक्षागुरुः सदा पूज्यः सर्वेषां नास्ति संशयः ।
तस्मात् पूज्यतरा याच तस्यै मात्रे नमो नमः ॥ ८३॥
मन्त्रदाता सदा पूज्यः सर्वेषां नास्ति संशयः ।
तस्मात् पूज्यतरा याच तस्यै मात्रे नमो नमः ॥ ८४॥
किम्बहूक्तेन सर्वेषां पूज्यानां पूज्य ईश्वरः ।
तस्मात् पूज्यतरा याच तस्यै मात्रे नमो नमः ॥ ८५॥
यदाज्ञैव श्रुतिर्नित्या यदाज्ञैवामला स्मृतिः ।
यदाज्ञैव पुराणोक्तित्तस्यै मात्रे नमो नमः ॥ ८६॥
यदाज्ञैव महातन्त्रं यदाज्ञैव महान् मनुः ।
यदाज्ञैव च गायत्त्री तस्यै मात्रे नमो नमः ॥ ८७॥
यदाज्ञैव परोधर्मो यदाज्ञैव परं तपः ।
यदाज्ञैव परोयोगस्तस्यै मात्रे नमो नमः ॥ ८८॥
यदाज्ञैवाखिला वेदा यदाज्ञैव च भारतम् ।
रामायणं यदाज्ञैव तस्यै मात्रे नमो नमः ॥ ८९॥
यदाज्ञापालनात् सर्वशास्त्राभ्यासफलं भवेत् ।
सर्वधर्मफलञ्चैव तस्यै मात्रे नमो नमः ॥ ९०॥
प्राणदायै नमोनित्यं पुष्टिदायै च सर्वदा ।
देहेन्द्रियप्रदायिन्यै तस्यै मात्रे नमो नमः ॥ ९१॥
धर्मार्थकाममोक्षाप्तिर्यत्पादपूजनाद् भवेत् ।
सर्वदायै नमस्तस्यै तस्यै मात्रे नमो नमः ॥ ९२॥
या देवी सर्वगेहेषु लक्ष्मीरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै तस्यै मात्रे नमो नमः ॥ ९३॥
या देवी सर्वगेहेषु नीतिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै तस्यै मात्रे नमो नमः ॥ ९४॥
या देवी सर्वगेहेषु रीतिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै तस्यै मात्रे नमो नमः ॥ ९५॥
या देवी सर्वगेहेषु शोभारूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै तस्यै मात्रे नमो नमः ॥ १६॥
या देवी सर्वगेहेषु शक्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै तस्यै मात्रे नमो नमः ॥ ९७॥
या देवी सर्वगेहेषु भक्तिरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै तस्यै मात्रे नमो नमः ॥ ९८॥
या देवी सर्वगेहेषु सर्वरूपेण संस्थिता ।
नमस्तस्यै नमस्तस्यै तस्यै मात्रे नमो नमः ॥ ९९॥
न साध्यते यदानृण्यं नीलकान्तशतैरपि ।
नमस्तस्यै नमस्तस्यै तस्यै मात्रे नमो नमः ॥ १००॥
इति मातृ-रत्नं सम्पूर्णम् ।
गुरु-रत्नम्
यस्यापारकृपासिन्धोः कृपाविन्दुविशोधितः ।
नरो देवत्वमाप्नोति तस्मै श्रीगुरवे नमः ॥ १॥
चिदानन्दं वपुर्यस्य चिदानन्दं विभूषणम् ।
चिदानन्दं तथावासस्तस्मै श्रीगुरवे नमः ॥ २॥
चिदानन्दमये धाम्नि चिदानन्दमयासने ।
राजते यः सहस्रारे तस्मै श्रीगुरवे नमः ॥ ३॥
प्रसन्नमुखपद्माय प्रसन्ननयनाय च ।
प्रसन्नहृत्सरोजाय तस्मै श्रीगुरवे नमः ॥ ४॥
मूलाधारादिषट्चक्रं भित्त्वा शुद्धसुषुम्नया ।
सम्प्राप्यं यत्पदं शुद्धं तस्मै श्रीगुरवे नमः ॥ ५॥
बुद्धीन्द्रिय-मनः-प्राण-देहा यस्य चिता युताः ।
स्वस्वकर्मसु चेष्टन्ते तस्मै श्रीगुरवे नमः ॥ ६॥
पूर्वाभ्यासबलाद्जीवे दुष्कर्म कर्त्तुमुद्यते ॥
अन्तर्निवार्यते येन तस्मै श्रीगुरवे नमः ॥ ७॥
रजस्तमोविहीनाय शुद्धसत्त्वस्वरूपिणे ।
लयविक्षेपशून्याय तस्मै श्रीगुरवे नमः ॥ ८॥
उपदेष्टुं सतां मार्गमवतीर्णो महीतले ।
यो नराकृतिमाश्रित्य तस्मै श्रीगुरवे नमः ॥ ९॥
कर्णधारः सदा योऽसौ दुष्पारे भवसागरे ।
अगतेर्गतिरूपाय तस्मै श्रीगुरवे नमः ॥ १०॥
यो ददावतिदीनाय कपया करुणानिधिः ।
हरिनाम महारत्नं तस्मै श्रीगुरवे नमः ॥ ११॥
यत् प्रसादादिदं तुच्छं शरीरं पाञ्चभौतिकम् ।
पवित्रतां समायाति तस्मै श्रीगुरवे नमः ॥ १२॥
अकृष्टहृदयक्षेत्रमुपदेशहलेन यः ।
चकर्ष कपया सम्यक् तस्मै श्रीगुरवे नमः ॥ १३॥
ववर्ष प्रचुरं तत्र प्रेमवारि पुनः पुनः ।
यत्नेन यः कृपासिन्धुत्तस्मै श्रीगुरवे नमः ॥ १४॥
तत्र् वीजं ततश्चोप्तं सत्क्षेत्रज्ञेन येन हि ।
संविविच्य यथायोग्यं तस्मै श्रीगुरवे नमः ॥ १५॥
पर्यवेक्षणतो यस्य तत्र चित्तमहाक्षितौ ।
ज्ञानाङ्कुरं ततो जज्ञे तस्मै श्रीगुरवे नमः ॥ १६॥
अक्षयं परमान्द-शस्यं यस्य कृपाबलात् ।
सुदुर्ल्लभं समालब्धं तस्मै श्रीगुरवे नमः ॥ १७॥
मायानिद्राभिभूतानां संसारस्वप्नदर्शिनाम् ।
चेतयिता सदा यश्च तस्मै श्रीगुरवे नमः ॥ १८॥
नास्ति यस्य धने लिप्सा न यस्य यशसि स्पृहा ।
सेवालाभे न यस्येच्छा तस्मै श्रीगुरवे नमः ॥ १९॥
व्रह्मनिष्ठाय शान्ताय सदाचाररताय च ।
श्रोत्रियायाकलङ्काय तस्मै श्रीगुरवे नमः ॥ २०॥
चतुर्वेदपारगाय वेदान्तार्थप्रदर्शिने ।
पुराणतन्त्रविज्ञाय तस्मै श्रीगुरवे नमः ॥ २१॥
हरिनामामृते पीते यन्मुखेन्दुविनिःसृते ।
पलायेते क्षुधातृष्णे तस्मै श्रीगुरवे नमः ॥ २२॥
यस्यानुग्रहमात्रेण किं वस्तु किमवस्तु वा ।
विजानाति नरः सम्यक् तस्मै श्रीगुरवे नमः ॥ २३॥
यानुग्रहमात्रेण ज्ञानमज्ञानमेव च ।
विजानाति नरः सम्यक् तस्मै श्रीगुरवे नमः ॥ २४॥
यस्यानुग्रहमात्रेण बन्धनं मुक्तिमेव च ।
विजानाति नरः सम्यक् तस्मै श्रीगुरवे नमः ॥ २५॥
वर्ज्जितं हृदयं यस्य कामलोभमदादिभिः ।
शश्वत् प्रशान्तचित्ताय तस्मै श्रीगुरवे नमः ॥ २६॥
गृहान्धकूपमग्नस्य ह्यशक्तस्यात्मरक्षणे ।
आलम्बनं पदं यस्य तस्मै श्रीगुरवे नमः ॥ २७॥
अहङ्कार-महासर्प-विषवीर्य्यनिवारणे ।
यद्वाक्यं सुमहामन्त्रस्तस्मै श्रीगुरवे नमः ॥ २८॥
मायानामसुदुश्छेद्यवन्धनस्यविकर्त्तने ।
यद्वाक्यमेव तीक्ष्णास्त्रं तस्मै श्रीगुरवे नमः ॥ २९॥
पिशाची ममतानाम्नी जीवबुद्धिविनाशिनी ।
यत्कृपा दमिका तस्यात्तस्मै श्रीगुरवे नमः ॥ ३०॥
निर्वापणं सुदीप्तस्य शोकाग्नेर्दहतः सदा ।
उपदेशामृतं यस्य तस्मै श्रीगुरवे नमः ॥ ३१॥
विना यच्चरणे भक्तिं नराकृतिपशुर्नरः ।
भवत्येव भवत्येव तस्मै श्रीगुरवे नमः ॥ ३२॥
संसारनिविडारण्ये कामादिश्वापदाकुले ।
यं विनान्याश्रयो नास्ति तस्मै श्रीगुरवे नमः ॥ ३३॥
धनेन वा शरीरेण जीवितेन तथात्मना ।
यस्य सेवा सदा कार्य्या तस्मै श्रीगुरवे नमः ॥ ३४॥
मनोमत्तमतङ्गस्य शासने सततक्षमम् ।
उपदेशाङ्कुशं यस्य तस्मै श्रीगुरवे नमः ॥ ३५॥
शस्यं विना यथा क्षेत्रं यथा वृक्षः फलं विना ।
यं विना जीवनं तद्वत्तस्मै श्रीगुरवे नमः ॥ ३६॥
विना चक्षुर्यथा देहो विना वित्तं गृहं यथा ।
यं विना जीवनं तद्वत्तस्मै श्रीगुरवे नमः ॥ ३७॥
विना वस्त्रं भूषणानि संसारः सन्ततिं विना ।
यं विना जीवनं तद्वत्तस्मै श्रीगुरवे नमः ॥ ३८॥
पतिं विना यथा नारी नरश्च विद्यया विना ।
यं विना जीवनं तद्वत्तस्मै श्रीगुरवे नमः ॥ ३९॥
गन्धं विना यथा पुष्पं विना पत्रं लता यथा ।
यं विना जीवनं तद्वत्तस्मै श्रीगुरवे नमः ॥ ४०॥
रविं विना दिवा यद्वद्रजनी च विधुं विना ।
यं विना जीवनं तद्वत्तस्मै श्रीगुरवे नमः ॥ ४१॥
कर्णधारं विना नौका यथा राज्यं नृपं विना ।
यं विना जीवनं तद्वत्तस्मै श्रीगुरवे नमः ॥ ४२॥
यद्दत्तसुमहारत्नज्योतिषा चित्तकन्दरम् ।
भवत्यालोकितं नित्यं तस्मै श्रीगुरवे नमः ॥ ४३॥
चतुर्वर्गफलप्राप्तिः सुखादल्पधियामपि ।
यत्कृपालेशमात्रेण तस्मै श्रीगुरवे नमः ॥ ४४॥
यस्य देवे परा भक्तिर्यथा देवे तथागुरौ ।
इति यद्गौरवं श्रुत्यां तस्मै श्रीगुरवे नमः ॥ ४५॥
आचार्य्यं मां विजनीयादित्युवाच स्वयं हरिः ।
स्वयं कृष्णस्वरूपाय तस्मै श्रीगुरवे नमः ॥ ४६॥
यत्पादकमले चित्तं भृङ्गवन्निवसत् सदा ।
दिव्यं मधु समाप्नोति तस्मै श्रीगुरवे नमः ॥ ४७॥
भ्रमेण भ्रमतो नित्यमनन्तभववर्त्मसु ।
सन्मार्गदर्शको योऽसौ तस्मै श्रीगुरवे नमः ॥ ४८॥
यस्य सन्दर्शनादेव रवेः सरसिजं यथा ।
हृत्पद्मं फुल्लतामेति तस्मै श्रीगुरवे नमः ॥ ४९॥
श्रीकृष्णः स्वयमेवाह सर्वदेवमयो गुरुः ।
सर्वदेवस्वरूपाय तस्मै श्रीगुरवे नमः ॥ ५०॥
यत्पादोदकपानेन हृदयस्याखिलं मलम् ।
अपयाति क्षणादेव तस्मै श्रीगुरवे नमः ॥ ५१॥
भवकारागृहे रुद्धो निबद्धो मोहशृङ्खलैः ।
यत्प्रसादाद् भवेन्मुक्तस्तस्मै श्रीगुरवे नमः ॥ ५२॥
बहवो गुरवः सन्ति शिष्यवित्तापहारकाः ।
हृत्तापहारको योऽसौ तस्मै श्रीगुरवे नमः ॥ ५३॥
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ५४॥
यतो वाचो निवर्तन्ते अप्राप्य मनसा सह ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ५५॥
विचित्राद्भुतविश्वस्य जन्माद्यस्य यतो भवेत् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ५६॥
तत्त्वमस्यादिवाक्येर्यल्लक्ष्यते न समुच्यते ।
तत्पदं दर्शितं येन तस्मै श्रीगुष्मवे नमः ॥ ५७॥
अपाणिरपि गृह्णाति योऽपादोऽपि च गच्छति ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ५८॥
यः पश्यति सदाचक्षुरकर्णोऽपि शृणोति यः ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ५९॥
पश्यन्ति सूरयः शश्वद् यद् विष्णोः परमं पदम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ६०॥
प्राकृताकारहीनोऽपि यश्चिदानन्दरूपकः ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ६१॥
साधकानां हितार्थाय स्वरूपं येन कल्प्यते ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ६२॥
यद्भासा भाति सूर्योऽयं यद्भासा भाति चन्द्रमाः ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ६३॥
यद्भयात् पवनो वाति वर्षतीन्द्रश्च यद्भयात् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ६४॥
ब्रह्मणो हि प्रतिष्ठा यश्चामृतस्याव्ययस्य च ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ६५॥
विष्टभ्य य इदं कृत्स्नमेकांशेन स्थितो जगत् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ ६६॥
संस्कृतैः प्राकृतैर्वापि यः शिष्यमनुरूपतः ।
बोधयेद् वाक्यविन्यासैस्तस्मै श्रीगुरवे नमः ॥ ६७॥
अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ ६८॥
योजिता कपया येन वृथाशब्दरता श्रुतिः ।
श्रवणे भगवन्नाम्नस्तस्मै श्रीगुरवे नमः ॥ ६९॥
मृद्विकारे रतं चक्षुः सर्वत्रेश्वरदर्शने ।
प्रेषितं कपया येन तस्मै श्रीगुरवे नमः ॥ ७०॥
रथालापरता वाणी येन सम्यङ् नियोजिता ।
भगवन्महिमाख्याने तस्मै श्रीगुरवे नमः ॥ ७१॥
असद्गन्धसमाकॄष्टं घ्राणं येन नियोजितम् ।
भगवच्चरणाम्भोजे तस्मै श्रीगुरवे नमः ॥ ७२॥
प्रेषितः कृपया येन रथाकार्य्यकरः करः ।
भगवत्परिचर्य्यायां तस्मै श्रीगुरवे नमः ॥ ७३॥
यत् कपालब्धबोधेन संसारमृगतृष्णिका ।
विलीयते क्षणेनैव तस्मै श्रीगुरवे नमः ॥ ७४॥
संसारवृक्षमारूढाः पतन्तो नरकार्णवे ।
येन चोद्धारिताः सर्वे तस्मै श्रीगुरवे नमः ॥ ७५॥
सुगन्धिचन्दनभ्रान्त्या पतन्तो विषयानले ।
येन संरक्षिताः सर्वे तस्मै श्रीगुरवे नमः ॥ ७६॥
पिबन्तश्च सुधाभ्रान्त्या संसारगरलं सदा ।
कृपया वारिता येन तस्मै श्रीगुरवे नमः ॥ ७७॥
गुरुपूजां विधायाथ स्वेष्टदेवं प्रपूजयेत् ।
पूज्याग्र्याय नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ७८॥
यस्य सन्दर्शने जाते नास्त्यन्यदर्च्चनादिकम् ।
उपास्याय नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ७९॥
अदेयं दीयते येन चादृश्यं सत्प्रदर्श्यते ।
वदान्याय नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ८०॥
नश्वरं दीयते सर्वैर्यदत्तं याति न क्षयम् ।
ज्ञानदाय नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ८१॥
यस्मिंस्तुष्टे हरिस्तुष्टो रुष्टे रुष्टः स्वयं हरिः ।
एकात्मने नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ८२॥
हरिः स्वयं गुरुर्भूत्वा तारयत्यखिलं जगत् ।
द्विरूपाय नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ८३॥
गुरुर्ब्रह्मा गुरुर्विष्णुगुरुर्देवो महेश्वरः ।
त्रिरूपाय नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ८४॥
न बलं बलमङ्गानां गुरुदत्तवबलं बलम् ।
बलदाय नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ८५॥
शेषे गुरुकृपालेशं विना नास्त्यपरा गतिः ।
रक्षकाय नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ८६॥
सदसच्चाखिलं कर्म गुरुर्वेत्ति न चापरः ।
साक्षिणेच नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ८७॥
ददाति दर्शनञ्चान्ते गुरुणा प्रेरितो हरिः ।
मध्यस्थाय नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ८८॥
अन्तर्ध्वान्तविनाशाय ज्ञानालोकप्रदाय च ।
नमस्तस्मै नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ८९॥
सुशान्ताय सुदान्ताय निरुपाधिहितैषिणे ।
नमस्तस्मै नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ९०॥
सन्मार्ग-सत्-प्रदीपाय सदाचारपराय च ।
नमस्तस्मै नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ९१॥
भक्तिदाय च भक्ताय ज्ञानिने ज्ञानदाय च ।
नमस्तस्मै नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ९२॥
स्वयं ब्रह्मस्वरूपाय ब्रह्मानन्द प्रदायिने ।
नमस्तस्मै नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ९३॥
नानाशास्त्रविरोधेषु सामञ्जस्यविधायिने ।
नमस्तस्मै नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ९४॥
संसारासक्तिशून्याय योगिने योगदाय च ।
नमस्तस्मै नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ९५॥
प्रतिक्षमादमास्तेयशौचादिगुणशालिने ।
नमस्तस्मै नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ९६॥
सन्दृष्टेऽखिलसन्तापो यस्मिन् प्रशममाप्नुयात् ।
नमस्तस्मै नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ९७॥
यस्मिन् दृष्टे परानन्दपूर्णं हृन्मन्दिरं भवेत् ।
नमस्तस्मै नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ९८॥
यस्मिन् दृष्टे मुखे नित्यं हरिनाम स्वयं स्फुरेत् ।
नमस्तस्मै नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ ९९॥
न योग्या दक्षिणा यस्य नीलकान्तशतान्यपि ।
नमस्तस्मै नमस्तस्मै तस्मै श्रीगुरवे नमः ॥ १००॥
इति गुरु-रत्नं सम्पूर्णम् ।
धर्म-रत्नम्
हरिर्जयति सर्वत्र सर्वदानन्दरूपकः ।
धर्मस्तस्यापरं रूपं यतो धर्मस्ततो जयः ॥ १॥
रणे वा कानने वापि धर्मवर्म-सुरक्षितः ।
न नरो निधनं याति यतो धर्मस्ततो जयः । २॥
स्वदेहरक्षणे राजा नियोजयति सैनिकान् ।
धर्मोहि धार्मिकं पाति यतो धर्मस्ततो जयः ॥ ३॥
पितेव पालको धर्मो मातेव लालकः सदा ।
सखेव हितकारी च यतो धर्मस्ततो जयः ॥ ४॥
यतो धर्मस्ततः सम्पद् यतो धर्मस्ततः सुखम् ।
यतो धर्मस्ततो मुक्तिर्यतो धर्मस्ततो जयः ॥ ५॥
यतो धर्मस्ततः सत्यं यतो धर्मस्ततो दया ।
यतो धर्मस्ततो ज्ञानं यतो धर्मस्ततो जयः ॥ ६॥
यतो धर्मस्ततो नीतिर्यतो धर्मस्ततः क्षमा ।
यतो धर्मस्ततः शान्ति यतो धर्मस्ततो जयः ॥ ७॥
बन्धुर्धर्मविहीनस्य शत्रुवद् वर्तते सदा ।
धार्मिकस्य जगन्मित्रं यतो धर्मस्ततो जयः ॥ ८॥
भ्रातापि रावणस्यासौ विपक्षोऽभुद् विभीषणः ।
वानरा राममित्राणि यतो धर्मस्ततो जयः ॥ ९॥
न तथा सुखमाप्नोति वसुधाविजयी नरः ।
यथा धर्मरतो जीवो यतो धर्मस्ततो जयः ॥ १०॥
विदुरः परमानन्दं कुटीरस्थः समन्वभूत् ।
दुर्योधनः सदा तापं यतो धर्मस्ततो जयः ॥ ११॥
नरो धर्मप्रभावेण सम्परेतं स्वबान्धवम् ।
पुनर्ज्जीवयितुं शक्तो यतो धर्मस्ततो जयः ॥ १२॥
पातिव्रत्येन धर्मेण सावित्री समजीवयत् ।
पतिं धर्मं पराजित्य यतो धर्मस्ततो जयः ॥ १३॥
एकान्तधर्मनिष्ठस्य सन्देहास्पदवस्तषु ।
सत्यप्रदर्शको धर्मो यतो धर्मस्ततो जयः ॥ १४॥
नलरूपेषु देवेषु दमयन्ती सुदुःखिता ।
नलमेव पतिं वव्रे यतो धर्मस्ततो जयः ॥ १५॥
दैवाद्दस्युगृहीतायाः सत्या धर्मं वरस्त्रियाः ।
रक्षत्येव सदा धर्मो यतो धर्मस्ततो जयः ॥ १६॥
रावणो जानकीं हृत्वा नीत्वापि निजमन्दिरम् ।
कदर्थितुं न शक्तोऽभुद् यतो धर्मस्ततो जयः ॥ १७॥
दुर्ज्जनो धार्मिकां नारीं विलज्जां कर्त्तुमुद्यतः ।
न कदापि समर्थः स्याद यतो धर्मस्ततो जयः ॥ १८॥
दुःशासनः सतीं कृष्णां विवस्त्रां कर्त्तुमुद्यतः ।
लज्जितः स्वयमेवासीद् यतो धर्मस्ततो जयः ॥ १९॥
यश्च धर्मधनो धर्मं न जहाति विपद्यपि ।
निश्चितं शुभमाप्नोति यतो धर्मस्ततो जयः ॥ २०॥
सत्यं धर्मं समाश्रित्य धर्मराजो युधिष्ठिरः ।
लेभे शत्रुहृतं राज्यं यतो धर्मस्ततो जयः ॥ २१॥
अनेकेषु विनाशस्य कारणेष्वपि सत्सु च ।
न विनश्यति धर्मिष्ठो यतो धर्मस्ततो जयः ॥ २२॥
भगवद्धर्ममाश्रित्य विषवह्नि-जलादिषु ।
प्रह्लादो जीवनं लेभे यतो धर्मस्ततो जयः ॥ २३॥
सम्यग् धर्ममनुष्ठाय मृतोऽपि मानवश्चिरम् ।
जीवन्निव प्रतीयेत यतो धर्मस्ततो जयः ॥ २४॥
दानधर्मं समाश्रित्य शिविरौशीनरो नृपः ।
वर्तमान इवाभाति यतो धर्मस्ततो जयः ॥ २५॥
प्रथमं शत्रुतां कृत्वा धर्मिणा सह मानवः ।
मित्रवद् वर्तते पश्चाद यतो धर्मस्ततो जयः ॥ २६॥
वनात् प्रत्यागतो रामः पालयित्वा पितुर्वचः ।
कैकेय्याप्यादृतः सम्यग् यतो धर्मस्ततो जयः ॥ २७॥
सुनीचकुलजातोऽपि धार्मिकः साधुभिः समम् ।
अत्युच्चं पदमाप्नोति यतो धर्मस्ततो जयः ॥ २८॥
विभीषणो राक्षसोऽपि रावणस्यानुजोऽपि सन् ।
धर्मेणामरतां प्राप यतो धर्मस्ततो जयः ॥ २९॥
ईश्वरः सर्वभूतानां वशे यस्याखिलं जगत् ।
स धर्मेण वशं याति यतो धर्मस्ततो जयः ॥ ३०॥
धर्मार्थे सकलं हित्वा बलिनातिबलीयसा ।
द्वारपत्वे कृतो विष्णुर्यतो धर्मस्ततो जयः ॥ ३१॥
दैवात् सर्वस्वहीनोऽपि तत् सर्वं लभते पुनः ।
धर्मेणैव विना यत्नं यतो धर्मस्ततो जयः ॥ ३२॥
हरिश्चन्द्रश्च राजर्षिर्हृतैश्वर्य्यं मृतं सुतम् ।
धर्मेणैव पुनर्लेभे यतो धर्मस्ततो जयः ॥ ३३॥
सकामः सुन्दरं भोग्यं धार्मिको यदि वाञ्छति ।
वाञ्छिताधिकमाप्नोति यतो धर्मस्ततो जयः ॥ ३४॥
पितृसंमानमप्राप्य नगरान्निर्गतो ध्रुवः ।
सर्वोच्चं स्थानमालेभे यतो धर्मस्ततो जयः ॥ ३५॥
योगक्षेमं वहत्येव सर्वदा स्वयमीश्वरः ।
धार्मिकस्य मनुष्यस्य यतो धर्मस्ततो जयः ॥ ३६॥
बिल्वमङ्गलमालोक्य नेत्रहीनमनाथकम् ।
स्वयं कृष्णो ददावन्नं यतो धर्मस्ततो जयः ॥ ३७॥
तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ।
इति श्रीभगवद् वाक्यं यतो धर्मस्ततो जयः ॥ ३८॥
एकेनैव सुजातेन धार्मिकेणाखिलं कुलम् ।
पवित्रीक्रियते सम्यग् यतो धर्मस्ततो जयः ॥ ३९॥
स्वपूर्वपुरुषान् धीर उज्जहार भगीरथः ।
भागीरथीं समानीय यतो धर्मस्ततो जयः ॥ ४०॥
प्रहृत्य धार्मिकं मत्तो नरः पश्चात् प्रबोधितः ।
तमेव शरणं याति यतो धर्मस्ततो जयः ॥ ४१॥
आहत्य भग्नकुम्भेन नित्यानन्दं द्विजाधमौ ।
तमेव शरणं यातौ यतो धर्मस्ततो जयः ॥ ४२॥
जीवा ये जन्मना क्रूरा धर्मनिष्ठस्य सन्निधौ ।
तेऽपि शान्ता भवन्त्येव यतो धर्मस्ततो जयः ॥ ४३॥
ऋषीणामाश्रमे पुण्ये क्रूराः सर्पवृकादयः ।
वश्यतां यान्ति सर्वेऽपि यतो धर्मस्ततो जयः ॥ ४४॥
धार्मिकस्य यदा दैवात् काचिद् भ्रान्तिः प्रजायते ।
धर्मेणैवापनीता स्याद् यतो धर्मस्ततो जयः ॥ ४५॥
शकुन्तलां जहौ भ्रान्त्या दुष्मन्तो धर्मिणां वरः ।
धर्मस्तां स्मारयामास यतो धर्मस्ततो जयः ॥ ४६॥
धार्मिकं प्रति यः क्रोधं करोति मदगर्वितः ।
विपदं स्वयमाप्नोति यतो धर्मस्ततो जयः ॥ ४७॥
अम्बरीषं प्रति क्रोधं दुर्वासा मुनिपुङ्गवः ।
कृत्वा स्वयं विपन्नोऽभुद् यतो धर्मस्ततो जयः ॥ ४८॥
यावत्यः सन्ति सत्शिक्षास्तासां शीर्षविराजिता ।
इयमेवोत्तमा शिक्षा यतो धर्मस्ततो जयः ॥ ४९॥
विद्या बोधो विवेकश्च सद्भावो विनयो नयः ।
धर्मस्यानुचरा एते यतो धर्मस्ततो जयः ॥ ५०॥
धर्मस्याति बलं दृष्ट्वा कामक्रोध मदादयः ।
भयेन प्रपलायन्ते यतो धर्मस्ततो जयः ॥ ५१॥
मातापितृ-सुहृद्-भ्रातृ-बन्धुभिर्गुरुभिस्तथा ।
इदमेवोपदेष्टव्यं यतो धर्मस्ततो जयः ॥ ५२॥
धर्मकापट्यमालम्ब्य पूज्यते हि नरैर्नरः ।
किमु धर्मगतप्राणो यतो धर्मस्ततो जयः ॥ ५३॥
सौधायते पर्णशाला शाकान्नममृतायते ।
धर्मामृतसुतृप्तस्य यतो धर्मस्ततो जयः ॥ ५४॥
इह तस्यामला कीर्त्तिः परत्र सुखमुत्तमम् ।
यस्य धर्मे स्थिरा बुद्धिर्यतो धर्मस्ततो जयः ॥ ५५॥
एकएव सुहृद्धर्मो निधनेऽप्यनुयाति यः ।
इति धर्मविदां शिक्षा यतो धर्मस्ततो जयः ॥ ५६॥
तृष्णयाकुलचित्तस्य संसारमरुवर्तिनः ।
धर्मः सुशीतलं वारि यतो धर्मान्ततो जयः ॥ ५७॥
मोहान्धतमसाच्छन्ने संसारेऽतिभयानके ।
धर्मनामा विधुर्भाति यतो धर्मस्ततो जयः ॥ ५८॥
श्रेष्ठत्वं सर्वजीवेषु नराणामेव केवलम् ।
धर्ममात्रविशेषेण यतो धर्मस्ततो जयः ॥ ५९॥
धार्मिकस्य जगन्माता धार्मिकस्य जगत्पिता ।
धार्मिकस्य जगत्पुत्रो यतो धर्मस्ततो जयः ॥ ६०॥
सदाचाररथारूढो धर्मशस्त्रधरो नरः ।
इहैव जयति स्वर्गं यतो धर्मस्ततो जयः ॥ ६१॥
सदानन्दमयं राज्यं विजेतुं ब्रह्मणः परम् ।
धर्म एव बलं विद्धि यतो धर्मस्ततो जयः ॥ ६२॥
अधर्मं चरितुं वक्ति कामलोभयुतं मनः ।
सदा वदति सद्बुद्धिर्यतो धर्मस्ततो जयः ॥ ६३॥
अभावेन स्वभावेन परस्वं हरतीह यः ।
सोऽपि स्वमनसा वेत्ति यतो धर्मस्ततो जयः ॥ ६४॥
पशुरेव स मन्तव्यो हृदि यस्य मनागपि ।
शिक्षेयं न समुत्पन्ना यतो धर्मस्ततो जयः ॥ ६५॥
मनुष्योऽहमिति ज्ञानं हृदये यस्य वर्तते ।
स्मरणीयं सदा तेन यतो धर्मस्ततो जयः ॥ ६६॥
अभ्यस्यतां सदापाठः स्वःस्वो बालाः परन्त्विदम् ।
स्मरणीयं हृदा शश्वद् यतो धर्मस्ततो जयः ॥ ६७॥
धनार्ज्जने सदा यत्नो युवानः क्रियतां ध्रुवम् ।
इदन्तु सर्वदा चिन्त्यं यतो धर्मस्ततो जयः ॥ ६८॥
गतप्रायं विजानीत स्थविरा वत जीवनम् ।
अतो धर्मे मतिं दत्त यतो धर्मस्ततो जयः ॥ ६९॥
सर्वदेशे सर्वेषु धर्मशास्त्रेषु सर्वदा ।
पुनःपुनरियं शिक्षा यतो धर्मस्ततो जयः ॥ ७०॥
अस्पृष्ट्वा भोगशम्बूकमपारेऽस्मिन् भवाम्बुधौ ।
गृह्यतां धर्ममाणिक्यं यतो धर्मस्ततो जयः ॥ ७१॥
धर्मेण बलवान् लोको धर्मेण धनवान् भवेत् ।
धर्मेण ज्ञानवान् वापि यतो धर्मस्ततो जयः ॥ ७२॥
क्षुधातृष्णादयो ये च सहजाः क्लेशदायिनः ।
धर्मेण वशमायान्ति यतो धर्मस्ततो जयः ॥ ७३॥
देवत्वं लेभिरे देवा प्राजापत्यं प्रजापतिः ।
धर्मेणैव न चान्येन यतो धर्मस्ततो जयः ॥ ७४॥
प्रकृतीः स्ववशीकर्त्तुं शक्नोति नृपतिर्यथा ।
धर्मेण न तथान्येन यतो धर्मस्ततो जयः ॥ ७५॥
अद्यापि नृपतिं रामं स्मृत्वा लोकाः सुदुःखिताः ।
वाञ्छन्ति रामराज्यं हि यतो धर्मस्ततो जयः ॥ ७६॥
अधर्मिणां विनाशेन रक्षणेन च धर्मिणाम् ।
धर्म एव जगत् शास्ति यतो धर्मस्ततो जयः ॥ ७७॥
सा विद्या सर्वविद्यानामुत्तमा साधुसम्मता ।
ययैतज्जायते ज्ञानं यतो धर्मस्ततो जयः ॥ ७८॥
भवेत् सुरपुरीतुल्या वसुधेयमसंशयम् ।
सर्वेऽपि यदि जानीयुर्यतो धर्मस्ततो जयः ॥ ७९॥
संसारेऽस्मिन् कुरुक्षेत्रे धर्मशस्त्रधरो नरः ।
विजयी भविता नूनं यतो धर्मस्ततो जयः ॥ ८०॥
स्वदेशे पूज्यते राजा प्रजाभिः स्वाभिरेव च ।
धार्मिकस्तु जगत्पूज्यो यतो धर्मस्ततो जयः ॥ ८१॥
जय एव जयोऽक्षाणां न जयः पृथिवीजयः ।
जयन्ति तानि धर्मिष्ठा यतो धर्मस्ततो जयः ॥ ८२॥
वस्त्रालङ्कारहीनोऽपि धूलिलिप्ताङ्गकोऽपिवा ।
शोभते धार्मिकः शश्वद् यतो धर्मस्ततो जयः ॥ ८३॥
शीतग्रीष्मादयो देहे स्वभावक्लेशदायिनः ।
धार्मिकं न स्पृशन्त्येव यतो धर्मस्ततो जयः ॥ ८४॥
निदाघांशुपतेरंशुः शरच्चन्द्रविभासमः ।
धर्मिष्ठसन्निधौ भाति यतो धर्मस्ततो जयः ॥ ८५॥
पित्रा पूज्यतमेनापि पूज्यते धार्मिकः सुतः ।
मनसा सर्वदा तन्माद् यतो धर्मस्ततो जयः ॥ ८६॥
बालोऽपि धर्मनिष्ठात्मा सम्पूज्यैः स्थविरैरपि ।
प्रपूज्यते सदा सम्यग् यतो धर्मस्ततो जयः ॥ ८७॥
सेविका धार्मिका जाया सेव्येन स्वामिना सदा ।
पूज्यते मनसा नित्यं यतो धर्मस्ततो जयः ॥ ८८॥
राज्ञा दण्डधरेणापि पूज्यते धार्मिकप्रजा ।
धर्ममात्रमपेक्ष्यैव यतो धर्मस्ततो जयः ॥ ८९॥
न तथा पूज्यते वित्तं सम्बन्धो वय एव वा ।
यथा सम्पूज्यते धर्मो यतो धर्मस्ततो जयः ॥ ९०॥
विजये यदि वाञ्छास्ति शृणु मे परमं वचः ।
जपसिद्धमिमं मन्त्रं यतो धर्मस्ततो जयः ॥ ९१॥
परस्परमनैक्यं यत् सर्वानर्थकरं नृणाम् ।
नाशकत्तस्य सद्धर्मो यतो धर्मस्ततो जयः ॥ ९२॥
स्वधर्मे निधनं श्रेयः स्मृत्वेदं भगवद्वचः ।
स्वं स्वं धर्मं समातिष्ठ यतो धर्मस्ततो जयः ॥ ९३॥
सागराः सरितः शैलाः शशिसूर्यादयो ग्रहाः ।
वदन्ति सर्वदा सर्वे यतो धर्मस्ततो जयः ॥ ९४॥
गीयतां गीयतां सर्वे गृहस्थानां गृहे गृहे ।
मिष्ट मिष्टमिदं गानं यतो धर्मस्ततो जयः ॥ ९५॥
लिख्यतां लिख्यतां द्वारि जाम्बूनदरसेन वै ।
अक्षराष्टकमेतद्धि यतो धर्मस्ततो जयः ॥ ९६॥
वासःप्रान्तेषु छत्रेषु सर्वाङ्गेषु पृथक् पृथक् ।
लिख्यतां शशिनिर्यासैर्यतो धर्मस्ततो जयः ॥ ९७॥
द्रव्येषु व्यवहार्येषु सर्वेषु कणकद्रवैः ।
लिख्यतां सम्प्रयत्नेन यतो धर्मस्ततो जयः ॥ १८॥
राजमार्गे सभायाञ्च मन्दिरे हट्ट-गोष्ठयोः ।
लिख्यतां लिख्यतां सर्वैर्यतो धर्मस्ततो जयः ॥ ९९॥
नीलकान्तशतज्योति स्तिरस्कृत्य विराजते ।
धर्मस्य विमलं ज्योतिर्यतो धर्मस्ततो जयः ॥ १००॥
इति धर्म-रत्नं सम्पूर्णम् ।
विवेक-रत्नम्
विस्मृत्य जगतां नाथं सदानन्दं चिदात्मकम् ।
संसारे रमते जीवः किमज्ञानमतः परम् ॥ १॥
अविज्ञायात्मनात्मानं ज्ञानवानहमित्यसौ ।
अभिमानं करोत्युच्चैः किमज्ञानमतः परम् ॥ २॥
सम्प्राप्य दुर्ल्लभं जन्म मुक्तिद्वारमपावृतम् ।
पशुवद् वर्तते नित्यं किमज्ञानमतः परम् ॥ ३॥
कोऽहं वा कुत आयातः कर्त्तव्यमिह किं मम ।
न जानाति न जिज्ञासुः किमज्ञानमतः परम् ॥ ४॥
इन्द्रजालं जगत् सर्वं मायामूलमनर्थकम् ।
प्रत्येति सत्यवन्नित्यं किमज्ञानमतः परम् ॥ ५॥
गुरुपादाश्रयं हित्वा चाकृत्वा भक्तिमीश्वरे ।
यतते ज्ञानलाभाय किमज्ञानमतः परम् ॥ ६॥
अविदित्वा सुखं दिव्यं सदात्मस्थं सुनिर्मलम् ।
सुखार्थं क्रमते विश्वं किमज्ञानमतः परम् ॥ ७॥
रत्नहारं स्वकण्ठस्थं विस्मृत्य सर्वतो दिशम् ।
विचिनोति दिवानक्तं किमज्ञानमतः परम् ॥ ८॥
चिदानन्द-स्वरूपोऽपि स्वयं देहमचेतनम् ।
आत्मानं मन्यते शश्वत् किमज्ञानमतः परम् ॥ ९॥
सर्वेऽपि सुखमिच्छन्ति चेष्टन्ते च पुनःपुनः ।
किं सुखन्तु न जानन्ति किमज्ञानमतः परम् ॥ १०॥
जन्ममृत्यु विहीनोऽपि मन्यते मोहितः सदा ।
जातं मृतमिवात्मानं किमज्ञानमतः परम् ॥ ११॥
विषयेन्द्रिय-संयोगः शीतोष्ण-सुखदुःखदः ।
तद्भाजं वेत्ति चात्मानं किमज्ञानमतः परम् ॥ १२॥
अहङ्कारं करोत्युच्चैर्दम्भमान-मदान्वितः ।
कोऽहन्तु तन्न जानाति किमज्ञानमतः परम् ॥ १३॥
ममैवैतन्नमैवैतत् सदा जल्पति मोहितः ।
किं ममेति न जानाति किमज्ञानमतः परम् ॥ १४॥
अर्थलाभे सदोन्मत्तः सर्वतः परिधावति ।
न वेत्त्यर्थस्वरूपन्तु किमज्ञानमतः परम् ॥ १५॥
जयेऽस्ति महती वाञ्छा नास्ति वाञ्छा पराजये ।
जयाजयौ न जानाति किमज्ञानमतः परम् ॥ १६॥
सर्वदा यत्नवान् जन्तुरात्मदुःखनिवारणे ।
उपायन्तु न जानाति किमज्ञानमतः परम् ॥ १७॥
नात्मीयो न परश्चापि कश्चिदस्ति हि कस्यचित् ।
तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ १८॥
मृद एवापरं रूपं मणिमुक्तातृणादिकम् ।
तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ १९॥
कृमिविड् भस्मशेषाहि सुदरिद्रास्तथा नृपाः ।
तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ २०॥
जायते जगदेकस्मादेकस्मिँल्लयमेष्यति ।
तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ २१॥
सर्वे समं समाक्रान्ता जन्ममृत्यु-जरादिकैः ।
तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ २२॥
कौपीनमपि यन्मूलं तन्मूलञ्चैलमम्बरम् ।
तथापि विषमा बुद्धिः किमज्ञान मतःपरम् ॥ २३॥
द्विहस्ता द्विपदा भूपा प्रजा अपि तथाविधाः ।
तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ २४॥
प्राणान्तेऽचेतनो राजा प्राणान्ते चेतनाः प्रजा ।
तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ २५॥
मातृकुक्षौ यथा राजा मातृकुक्षौ तथा प्रजाः ।
तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ २६॥
अव्यक्तादीनि भूतानि चाव्यक्तनिधनानि हि ।
तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ २७॥
करोति कस्यचित् कश्चिदिष्टानिष्टे कदापि न ।
तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ २८॥
आत्मैव हात्मनो बन्धुरात्मैव रिपुरात्मनः ।
तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ २९॥
उच्चैर्गायति वेदान्तो नेह नानास्ति किञ्चन ।
तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ ३०॥
एकमेवाद्वितीयञ्च सिद्धान्तं गायति श्रुतिः ।
तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ ३१॥
एकएव परोह्यात्मा सर्वजीवेषु शाश्वतः ।
तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ ३२॥
सर्वेष्वपि शरीरेषु समानाः सप्तधातवः ।
तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ ३३॥
स्मृतिश्च सर्वदा वक्ति सर्वं विष्णुमयं जगत् ।
तथापि विषमा बुद्धिः किमज्ञानमतः परम् ॥ ३४॥
जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च ।
तथापि कुरुते शोकं किमज्ञानमतः परम् ॥ ३५॥
अद्य यन्मम वस्त्वस्ति पराहे तत् परस्यहि ।
तथापि ममता घोरा किमज्ञानमतः परम् ॥ ३६॥
वस्त्रवद्देहमादत्ते जहाति वस्त्रवत् पुनः ।
अहं बुद्धिः सदा तत्र किमज्ञानमतः परम् ॥ ३७॥
य एवासीत् स एवास्ति स एव च भविष्यति ।
तथापि कुरुते शोकं किमज्ञानमतः परम् ॥ ३८॥
चर्मणाच्छादितो देहो मांसास्थिरुधिराशयः ।
अहं बुद्धिः सदा तत्र किमज्ञानमतः परम् ॥ ३९॥
चित्स्वरूपं स्वमात्मानं विस्मृत्याचेतनं जडम् ।
आत्मानं मन्यते शश्वत् किमज्ञानमतः परम् ॥ ४०॥
आनन्दमयमात्मानं विस्मृत्य यन्त्रणालयम् ।
आत्मानं मन्यते देहं किमज्ञानमतः परम् ॥ ४१॥
नित्यमात्मानमज्ञानं नश्वरं क्षणभङ्गुरम् ।
आत्मानं मन्यते देहं किमज्ञानमतः परम् ॥ ४२॥
अद्यैकस्य गृहं यत्श्वो भविष्यत्यपरस्यहि ।
ममेति तद्गृहे बुद्धिः किमज्ञानमतः परम् ॥ ४३॥
स्वकर्म भोक्तुमायाताः सर्वे दारसुतादयः ।
उच्चकैर्ममता तेषु किमज्ञानमतः परम् ॥ ४४॥
अनिच्छन्तमपि त्यक्त्वा पुनर्यास्यन्ति ये ध्रुवम् ।
उच्चकैर्ममता तेषु किमज्ञानमतः परम् ॥ ४५॥
आसक्तिः सर्वदुःखानामाकरो नास्ति संशयः ।
तथापि सुदृढासक्तिः किमज्ञानमतः परम् ॥ ४६॥
अनित्ये नित्यवद् बुद्धिश्चिद्बुद्धिश्च जडे सदा ।
दुःखे च सुखवद्बुद्धिः किमज्ञानमतः परम् ॥ ४७॥
उदरं वनजातेन शाकेनापि प्रपूर्य्यते ।
तदर्थं कुरुते पापं किमज्ञानमतः परम् ॥ ४८॥
गुहैवास्ति नगेन्द्रस्य गृहमीश्वरनिर्मितमम् ।
तदर्थं कुरुते पापं किमज्ञानमतः परम् ॥ ४९॥
धरण्या दत्तमेवास्ति शय्यार्थं वक्ष आत्मनः ।
तदर्थं कुरुते पापं किमज्ञानमतः परम् ॥ ५०॥
वाक्ये मधु मुखे हास्यं विषं चित्ते दधाति या ।
प्रत्येति कामिनीमेतां किमज्ञानमतः परम् ॥ ५१॥
श्वभक्ष्ये कामिनीकाये रक्त-मूत्र-मलाशये ।
सज्यते सुन्दरीबुद्ध्या किमज्ञानमतः परम् ॥ ५२॥
संसारनिगडस्येयं कामिनी मूलबन्धनी ।
तथापि स्वीकरोत्येतां किमज्ञानमतः परम् ॥ ५३॥
दधाति पादयोः स्वस्य शृङ्खलं स्वयमेवहि ।
संसाराख्यं सुदुश्छेद्यं किमज्ञानमतः परम् ॥ ५४॥
विहाय विपुलं वित्तमेको यात्यपरस्तथा ।
करोति विषये लोभं किमज्ञानमतः परम् ॥ ५५॥
अद्य यो भूपतिर्दृप्तः पराहे पथिकः स हि ।
तथापि कुरुते दम्भं किमज्ञानमतः परम् ॥ ५६॥
गर्वेण यो बलोन्मत्तः पराहे जरया जितः ।
तथापि कुरुते दम्भं किमज्ञानमतः परम् ॥ ५७॥
पदाद्य कम्पयन् पृथ्वीं पराहे याति पङ्गुताम् ।
तथापि कुरुते दम्भं किमज्ञानमतः परम् ॥ ५८॥
चक्षुष्मानद्य याति श्वः शरणं करधारिणम् ।
तथापि कुरुते दम्भं किमज्ञानमतः परम् ॥ ५९॥
अद्य श्रुतिधरो योऽसौ पराहे वधिरः पुनः ।
तथापि कुरुते दम्भं किमज्ञानमतः परम् ॥ ६०॥
सप्त-पुत्र-पिता योऽद्य पराहे सोऽसहायकः ।
तथापि कुरुते दम्भं किमज्ञानमतः परम् ॥ ६१॥
हर्षेण यो हसत्यद्य रोदिति श्वः स उच्चकैः ।
तथापि कुरुते दम्भं किमज्ञानमतः परम् ॥ ६२॥
अद्य दाता यएवासौ पराहे च परान्नभुक् ।
तथापि करुते दम्भं किमज्ञानमतः परम् ॥ ६३॥
अद्य सुस्थशरीरो यः पराहे पीडयाकुलः ।
तथापि कुरुते दम्भं किमज्ञानमतः परम् ॥ ६४॥
विषयी विषयश्चैव कालेन लयमेष्यतः ।
तथापि विषये लोभः किमज्ञानमतः परम् ॥ ६५॥
गतो रक्षःपतिर्दृप्तो गता लङ्का हिरण्मयी ।
तथापि विषये लोभः किमज्ञानमतः परम् ॥ ६६॥
गतो रामः प्रजारामः सायोध्या नगरी गता ।
तथापि विषये लोभः किमज्ञानमतः परम् ॥ ६७॥
गतो युधिष्ठिरः सापि हस्तिनानगरी गता ।
तथापि विषये लोभः किमज्ञानमतः परम् । ६८॥
गतः कंसः सुदुर्द्दान्तो मथुरानगरी गता ।
तथापि विषये लोभः किमज्ञान मतःपरम् ॥ ६९॥
गतो नलः सुधर्मिष्ठो विदर्भनगरं गतम् ।
तथापि विषये लोभः किमज्ञानमतः परम् ॥ ७०॥
आशा हि परमं दुःखं नैराश्यं परमं सुखम् ।
तथापि बलवत्याशा किमज्ञानमतः परम् ॥ ७१॥
दुष्पूरा विषयैराशा शून्यं शब्दैर्यथा तथा ।
तथापि पूरणे वाञ्छा किमज्ञानमतः परम् ॥ ७२॥
सुखमैन्द्रियकं यत्तच्छूकरे मानवे समम् ।
तदर्थं यततेऽभीक्ष्णं किमज्ञानमतः परम् ॥ ७३॥
संसार-सुखमेतद्धि सर्वदा दुःखमिश्रितम् ।
तदर्थं यतते नित्यं किमज्ञानमतः परम् ॥ ७४॥
अयत्नेनैव संलभ्यं दुःखवदैहिकं सुखम् ।
तदर्थं सुमहान् यत्नः किमज्ञानमतः परम् ॥ ७५॥
भोगेन वर्धते कामो न शान्तिमुपगच्छति ।
तथापि वासना भोगे किमज्ञानमतः परम् ॥ ७६॥
भगवानुद्धवं प्राह सुखं दुःख-सुखात्ययः ।
तदर्थं यतते नैव किमज्ञानमतः परम् ॥ ७७॥
क्षुद्रानन्दे सदोन्मत्तः सफरीवाल्पवारिणि ।
आयुःक्षयं न जानाति किमज्ञानमतः परम् ॥ ७८॥
इदं लब्धमिदं लप्स्य इति चिन्ताकुलः सदा ।
आयुःक्षयं न जानाति किमज्ञानमतः परम् ॥ ७९॥
आयुर्हरति वै पुंसां कृतान्त-जनकः सदा ।
जानन्नपि न जानाति किमज्ञानमतः परम् ॥ ८०॥
कालो याति समायाति सर्वदेति प्रजल्पति ।
यात्यायुरिति नो वेत्ति किमज्ञानमतः परम् ॥ ८१॥
यदर्थं मानुषं जन्म लब्ध्वायातो महीतले ।
तत्र नास्ति मनाग् दृष्टिः किमज्ञानमतः परम् ॥ ८२॥
दुर्ल्लभं जीवनं दत्त्वा मूल्यरूपेण सर्वदा ।
क्रीणाति नरकानन्दं किमज्ञानमतः परम् ॥ ८३॥
पतङ्गवज्जुहोत्यध्वा स्वात्मानं विषयानले ।
आपात-सुन्दरे शश्वत् किमज्ञानमतः परम् ॥ ८४॥
कल-भाषणमाश्रुत्य मोहितः सुतदारयोः ।
मृगवन्न स्मरेत् कालं किमज्ञानमतः परम् ॥ ८५॥
रसना-वशगः शश्वन् मीनवद् भक्ष्यलोभितः ।
अत्ति चान्तर्विषं वस्तु किमज्ञानमतः पञ्चम् ॥ ८६॥
गजवद् बन्धनं याति कामिनीस्पर्शलालसः ।
कालकौशलमज्ञात्वा किमज्ञानमतः परम् ॥ ८७॥
संसारमधुगन्धेन मोहितः षट्पदो यथा ।
परमापदमाप्नोति किमज्ञानमतः परम् ॥ ८८॥
विषमत्त्य मृतं हित्वा जलं हित्वा मरीचिकाम् ।
समभ्येति सदा भ्रान्त्या किमज्ञानमतः परम् ॥ ८९॥
सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् ।
तल्लाभे नहि यत्नोऽस्ति किमज्ञानमतः परम् ॥ ९०॥
यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः ।
तल्लाभे नहि यत्नोऽस्ति किमज्ञानमतः परम् ॥ ९१॥
मातृकुक्षौ भृशं दुःखं सम्प्राप्य यत् प्रतिश्रुतम् ।
विस्मृत्य नीयते कालः किमज्ञानमतः परम् ॥ ९२॥
यद्दत्तचक्षुषा सर्वं जगच्चित्रं प्रपश्यति ।
नाभिवाञ्छति तं द्रष्टुं किमज्ञानमतः परम् । ९३॥
वसन् वारिनिधेस्तीरे जलाभावेन यातना ।
अतःपरं किमज्ञानं किमज्ञानमतः परम् ॥ ९४॥
सुखाब्धिसन्निधौ स्थित्वा यन्त्रणामेति सर्वदा ।
अतःपरं किमज्ञानं किमज्ञानमतः परम् ॥ ९५॥
मन्यतेऽहं करोमीति प्रकृतेर्गुणकर्मणि ।
अतःपरं किमज्ञानं किमज्ञानमतः परम् ॥ ९६॥
हृदि स्थितं सदानन्दं लब्धुं संयतते वहिः ।
अतःपरं किमज्ञानं किमज्ञानमतः परम् ॥ ९७॥
तत्त्वमसि महावाक्यं विस्मृत्य याति यन्त्रणाम् ।
किमज्ञानं किमज्ञानं किमज्ञानमतः परम् ॥ ९८॥
भगवन्तं सदा सेव्यं हित्वोपास्ते जडं सदा ।
किमज्ञानं किमज्ञानं किमज्ञानमतः परम् ॥ ९९॥
मृत्पिण्डो नीलकान्तश्च समौ तयोर्घृणादरौ ।
किमज्ञानं किमज्ञानं किमज्ञानमतः परम् ॥ १००॥
इति विवेक-रत्नं सम्पूर्णम् ।
हरिनाम-रत्नम्
वेदामर-तरूद्भूतमपूर्वामृत-सम्भृतम् ।
फलमानन्दचिद्रूपं हरेर्नामैव केवलम् ॥ १॥
वीजं यत् सर्ववेदानां त्रिवृत् प्रणव उच्यते ।
तस्यापि वीजभूतं हि हरेर्नामैव केवलम् ॥ २॥
गायत्र्या गीयते यत्तद् यो भर्ग इति शब्दतः ।
तात्पर्य्येण तदेवैतद्धरेर्नामैव केवलम् ॥ ३॥
पुराणे चागमे तन्त्रे मन्त्रे च भारते तथा ।
सर्वत्र सर्वदा गीतं हरेर्नामैव केवलम् ॥ ४॥
सर्वदेवाभिधाः शश्वत् सरितः सागरं यथा ।
तथा तदभिधावन्ति हरेर्नामैव केवलम् ॥ ५॥
असारे भवसंसारे सारभूतं सनातनम् ।
सर्वकामप्रदं पुण्यं हरेर्नामैव केवलम् ॥ ६॥
रञ्जनं सर्वचित्तानां भञ्जनं पापभूभृताम् ।
गञ्जनं चित्रभोगानां हरेर्नामैव केवलम् ॥ ७॥
शाक्त-वैष्णव-गाणेश-सौर-शैवाश्च साधकाः ।
नाम-भेदेन गायन्ति हरेर्नामैव केवलम् ॥ ८॥
दारापत्य-सुहृत्-प्राण-देह-गेह-समन्वितम् ।
विश्वं विनाशि सत्यं हि हरेर्नामैव केवलम् ॥ ९॥
योग-याग-तपोज्ञान-स्नानदान-सुकर्मणाम् ।
सर्वेषामभिलक्ष्यं हि हरेर्नामैव केवलम् ॥ १०॥
मधुरं मधुरेभ्योऽपि मङ्गलेभ्योऽपि मङ्गलम् ।
पावनं पावनेभ्योऽपि हरेर्नामैव केवलम् ॥ ११॥
भवबन्ध-विमुक्तोऽपि नारदो मुनिसत्तमः ।
गायन्नटति हर्षेण हरेर्नामैव केवलम् ॥ १२॥
युक्तमुक्तं सुधीवृन्दैः सारमाहृत्य सर्वतः ।
हरेर्नाम हरेर्नाम हरेर्नामैव केवलम् ॥ १३॥
प्रबलं बलवद्भ्योऽपि दुर्वलानां परं बलम् ।
सम्बलं भवपान्थानां हरेर्नामैव केवलम् ॥ १४॥
को वा कस्य भवेद् बन्धुः सर्वः स्वार्थं समीहते ।
निरुपाधि सुहृन्नित्यं हरेर्नामैव केवलम् ॥ १५॥
सम्पत्सु स्वजनाः सर्वे विपत्सु विमुखाः सदा ।
सम्पदापत्सु मित्रं हि हरेर्नामैव केवलम् ॥ १६॥
यदि नित्यसुखे वाञ्छा यदि वाञ्छा भवक्षये ।
सानुरागं तदा गेयं हरेर्नामैव केवलम् ॥ १७॥
बोधकं सर्वतत्त्वानां रोधकं सकलैनसाम् ।
शोधकं सर्वचित्तानां हरेर्नामैव केवलम् ॥ १८॥
स एव मानवो लोके स एव च सुपण्डितः ।
रसनायां सदा यस्य हरेर्नामैव केवलम् ॥ १९॥
न पण्डितः पण्डितोऽपि मानवोऽपि न मानवः ।
रसनायां न यस्यास्ति हरेर्नामैव केवलम् ॥ २०॥
अज्ञान-तमसाच्छन्ने रिपु-चौरावृते भवे ।
रत्न-दीपायते नित्यं हरेर्नामैव केवलम् ॥ २१॥
विभीषणं भयस्यापि कामस्यापि विमोहनम् ।
लोभस्य लोभनं चित्रं हरेर्नामैव केवलम् ॥ २२॥
फलं यद्ध्यानतो लभ्यं यज्ञार्च्चाभ्याञ्च यत्फलम् ।
तत्सर्वं प्रददात्येव हरेर्नामैव केवलम् ॥ २३॥
देशकालाद्यपेक्षास्ति सर्वसत्कर्म-साधने ।
निरपेक्षमिदं विद्धि हरेर्नामैव केवलम् ॥ २४॥
यस्यां तस्यामवस्थायां यत्र तत्र यदा तदा ।
प्रजप्तुं शक्यते सर्वै हरेर्नामैव केवलम् ॥ २५॥
श्रवणीयमिदं शश्वत् कीर्त्तनीयमिदं सदा ।
स्मरणीयमिदं नित्यं हरेर्नामैव केवलम् ॥ २६॥
एकैकविषयो भौम एकैकेन्द्रियतर्पणः ।
सर्वाक्ष-तर्पणन्त्वेकं हरेर्नामैव केवलम् ॥ २७॥
नास्ति तथाविधो रोगो नास्ति शोकस्तथाविधः ।
यं न नाशयति ह्येकं हरेर्नामैव केवलम् ॥ २८॥
देवतानामिदं हव्यं पितॄणां कव्यमुत्तमम् ।
मर्त्यानाममृतञ्चान्नं हरेर्नामैव केवलम् ॥ २९॥
अपारे भवकात्तारे रिपुशार्द्दूल-सङ्कुले ।
शरणं भयशून्यं हि हरेर्नामैव केवलम् ॥ ३०॥
प्राकृतं नाममात्रं हि द्विरावृत्त्या पुरातनम् ।
शतावृत्त्या नवं भाति हरेर्नामैव केवलम् ॥ ३१॥
नामैव परमो यज्ञो नामैव परमं तपः ।
ज्ञानं यत्परमं लोके हरेर्नामैव केवलम् ॥ ३२॥
नामैव तान्त्रिकी सन्ध्या नामैव वैदिकी तथा ।
यदन्यत् करणीयञ्च हरेर्नामैव केवलम् ॥ ३३॥
धर्मदं धर्मकामस्य कामकामस्य कामदम् ।
अर्थदञ्चार्थकामस्य हरेर्नामैव केवलम् ॥ ३४॥
मुक्तिदं मुक्तिकामस्य निष्कामस्य सदात्मदम् ।
तद् वदान्यतमं लोके हरेर्नामैव केवलम् ॥ ३५॥
वर्णाश्रम-विभागेन ये ये धर्मा निरूपिताः ।
तत्सर्वेर्षां शिरोरत्नं हरेर्नामैव केवलम् ॥ ३६॥
जीवनं सफलं तर्हि धर्मोऽपि सफलस्तदा ।
रसनायां यदा नृत्येद्धरेर्नामैव केवलम् ॥ ३७॥
ज्ञानदण्डेन सम्मथ्य सुधीभिर्भवसागरम् ।
नवनीतं वहिर्नीतं हरेर्नामैव केवलम् ॥ ३८॥
आब्रह्मस्तम्ब-पर्यन्तं सर्वं मायामयं जगत् ।
सत्यं सत्यं पुनः सत्यं हरेर्नामैव केवलम् ॥ ३९॥
सुधियः सर्वकार्याणि कुर्वन्तो वहिरिन्द्रियैः ।
जपन्ति मनसा नित्यं हरेर्नामैव केवलम् ॥ ४०॥
संसारसर्पदष्टस्य जनस्य जगतीतले ।
भैषज्यं यदि वा किञ्चिद्धरेर्नामैव केवलम् । ४१॥
विष्णुरातो दिवंयातो हित्वानित्यकलेवरम् ।
श्रुत्वा शुकमुखाच्छुद्धं हरेर्नामैव केवलम् ॥ ४२॥
विषं विशमितं तेन प्रह्लादेन महात्मना ।
श्रद्धया परया स्मृत्वा हरेर्नामैव केवलम् ॥ ४३॥
कीर्त्तयित्वा कृतार्थोऽभूद् भगवान् वादरायणः ।
विमले जाह्नवी-कूले हरेर्नामैव केवलम् ॥ ४४॥
निरुपाधि सुहृन्नित्यमक्षयं परमं धनम् ।
कालानधिकृतं धाम हरेर्नामैव केवलम् ॥ ४५॥
यन्त्रणापरिपूर्णोऽपि नरकस्त्रिदिवायते ।
यदि स्यात् सततं तत्र हरेर्नामैव केवलम् ॥ ४६॥
सर्वसम्पत्-सम्बद्धोऽपि त्रिदिवो नरकायते ।
यदि नस्यात् सदा तत्र हरेर्नामैव केवलम् ॥ ४७॥
प्राणान्ते नानुगच्छन्ति सर्वे धन-जनादयः ।
जीवने मरणे सङ्गि हरेर्नामैव केवलम् ॥ ४८॥
पालने पितृवन्नित्यं लालने जननीसमम् ।
रमणे रामया तुल्यं हरेर्नामैव केवलम् ॥ ४९॥
स गुरुः स पिता चापि सा माता बान्धवोऽपि सः ।
शिक्षयेच्चेत् सदा स्मर्त्तुं हरेर्नामैव केवलम् ॥ ५०॥
न गुरुर्न पिता चापि न माता बान्धवोऽपि न ।
न शिक्षयेद् यदि स्मर्त्तुं हरेर्नामैव केवलम् ॥ ५१॥
क्षुधार्त्ते परमान्नं हि तृष्णार्त्ते शीतलं जलम् ।
सन्तप्ते कोमलो वायुर्हरेर्नामैव केवलम् ॥ ५२॥
पावनो यवनोऽपि स्याद् बुद्ध्वा सर्वमसद् यदि ।
कीर्त्तयेत् सततं भक्त्या हरेर्नामैव केवलम् । ५३॥
काल-गुप्त-चरा एते सर्वे दार-सुतादयः ।
तद्वञ्चनमहामन्त्रो हरेर्नामैव केवलम् ॥ ५४॥
लाभानां परमो लाभः सद्गतीनां परा गतिः ।
सर्वासामाशिषां शेषो हरेर्नामैव केवलम् ॥ ५५॥
श्रूयन्ते बहवः शब्दा जीवभेदैः समीरिताः ।
साधुभिः श्रूयते किन्तु हरेर्नामैव केवलम् ॥ ५६॥
तृणीकृत्य जगत् सर्वं राजते सकलोपरि ।
चिदानन्दमयं शुद्धं हरेर्नामैव केवलम् ॥ ५७॥
सिद्धानां सिद्धिदा देवाः शतशः सन्ति सर्वतः ।
असिद्ध-सिद्धिदं विद्धि हरेर्नामैव केवलम् ॥ ५८॥
स याति सकलं हित्वा निर्मलं श्रीहरेः पदम् ।
यस्त्यजेत् कीर्त्तयन् प्राणान् हरेर्नामैव केवलम् ॥ ५९॥
अतः सुकृतिनो नित्यमावाल्यादति यत्नतः ।
पुनः पुनः प्रगायन्ति हरेर्नामैव केवलम् ॥ ६०॥
यावद्देहे स्थिताः प्राणा यावज्जिह्वा वशे स्थिता ।
तावदेव सदा गेयं हरेर्नामैव केवलम् ॥ ६१॥
निश्वासे नहि विश्वासः कदा रुद्धो भविष्यति ।
कीर्त्तनीयमतो बाल्याद्धरेर्नामैव केवलम् ॥ ६२॥
क्षणं नापेक्षते मृत्युर्नानुरोधं शृणोति च ।
प्रागेव नीयतां तस्माद्धरेर्नामैव केवलम् ॥ ६३॥
कलिकुञ्जर-कुम्भस्य दारणं भवतारणम् ।
मारणं मरणस्यापि हरेर्नामैव केवलम् ॥ ६४॥
गच्छद्भिरुत तिष्ठद्भिरशद्भिरपि यत्नतः ।
स्मरणीयं सदा पुम्भिर्हरेर्नामैव केवलम् ॥ ६५॥
नास्ति नास्ति कलौ नास्ति हरिनाम विना गतिः ।
तस्माद् यत्नेन जप्तव्यं हरेर्नामैव केवलम् ॥ ६६॥
नरोऽपि सुरपूज्यः स धरा तस्यामरा पुरी ।
अङ्गे हृदि मुखे यस्य हरेर्नामैव केवलम् ॥ ६७॥
पशुयोनौ वरं जन्म पक्षियोनौ वरं तथा ।
यदि स्मरेन् मनो नित्यं हरेर्नामैव केवलम् ॥ ६८॥
स्वस्वाधिकारमाश्रित्य क्रियतां कर्म कृत्स्नशः ।
ध्रियतां ध्रियतां चित्ते हरेर्नामैव केवलम् ॥ ६९॥
जितं तेन रिपून् येन निरस्य भवसंयुगे ।
संलब्धं तन्महारत्नं हरेर्नामैव केवलम् ॥ ७०॥
गतमेव विजानीहि परमायुरनिश्चितम् ।
कीर्त्त्यतां कीर्त्त्यतां शीघ्रं हरेर्नामैव केवलम् ॥ ७१॥
अद्य श्व इति संयाता बहवो दिवसा वृथा ।
इदानीमपि जप्तव्यं हरेर्नामैव केवलम् ॥ ७२॥
नाहं चर्मादि-सङ्घातो नैते मम गृहादयः ।
अहं जीवो ममावेहि हरेर्नामैव केवलम् ॥ ७३॥
पिबन्ति केवलं वारि चातका मेघ-निःसृतम् ।
तथा भक्ताः प्रगायन्ति हरेर्नामैव केवलम् ॥ ७४॥
याशा नहि निवर्तेत लब्ध्वापि सुरपालताम् ।
सास्वाद्य सन्निवर्तेत हरेर्नामैव केवलम् ॥ ७५॥
नाम धाम स्वरूपञ्च त्रयमेकं न संशयः ।
अतः पुम्भिः सदा स्वाद्यं हरेर्नामैव केवलम् ॥ ७६॥
हरिः सदा वसेत्तत्र यत्र भागवता जनाः ।
गायन्ति भक्तिभावेन हरेर्नामैव केवलम् ॥ ७७॥
तद्धि वृन्दावनं धाम प्रेमाश्रुपुलकाचितैः ।
यत्र सङ्गीयते भक्तैर्हरेर्नामैव केवलम् ॥ ७८॥
तत्र तीर्थान्यशेषाणि क्षेत्राणि सकलानि च ।
प्रेम्णा प्रगीयते यत्र हरेर्नामैव केवलम् ॥ ७९॥
नृत्यन्ति देवतास्तत्र मुदा मर्त्यैरलक्षिताः ।
सङ्कीर्त्त्यते जनैर्यत्र हरेर्नामैव केवलम् ॥ ८०॥
मोदन्ते पितरः सर्वे श्रुत्वा श्रुति-मनोहरम् ।
स्ववंश्यानां मुखेभ्योहि हरेर्नामैव केवलम् ॥ ८१॥
वरमायुः क्षणार्द्धं हि यदि तत्र हृदा स्मरेत् ।
सारात्सारतरं शुद्धं हरेर्नामैव केवलम् ॥ ८२॥
भोगेन सम्प्रदानेन क्षयं यात्यखिलं धनम् ।
सङ्गृहाणाक्षयं रत्नं हरेर्नामैव केवलम् ॥ ८३॥
ये विदन्ति निजं लाभमलाभं वा विदन्ति च ।
क्रीणन्ति ते शरीरेण हरेर्नामैव केवलम् ॥ ८४॥
अभ्यस्तमधुना चेत्स्याद्रसनायामयत्नतः ।
आविर्भावि स्वयं शेषे हरेर्नामैव केवलम् ॥ ८५॥
हाहा कुर्वन् किमाप्नोषि भवितव्यं भविष्यति ।
तस्मात् सञ्जप यत्नेन हरेर्नामैव केवलम् ॥ ८६॥
कदा वृन्दावनं गत्वा धृत्वा माधुकरं व्रतम् ।
अनुक्षणं वदिष्यामि हरेर्नामैव केवलम् ॥ ८७॥
आत्मना वञ्चितो ह्यात्मा तेन पुंसा दुरात्मना ।
न नीतं हेलया येन हरेर्नामैव केवलम् ॥ ८८॥
अहो दुःखमहोदुःखं दुःखाद्दुःखतरं यतः ।
काचार्थं विस्मृतं रत्नं हरेर्नामैव केवलम् ॥ ८९॥
हरिः स्वयं हरो भूत्वा हित्वा सर्वं दिगम्बरः ।
श्मशाने सञ्जपत्येतद्धरेर्नामैव केवलम् ॥ ९०॥
श्रीचैतन्यः कृपासिन्धुर्भगवान् भक्त-रूपकः ।
कृपया दत्तवानेतद्धरेर्नामैव केवलम् ॥ ९१॥
``तृणादपि सुनीचेन तरोरपि सहिष्णुना ।
अमानिना'' सदा गेयं हरेर्नामैव केवलम् ॥ ९२॥
यत्न-पुष्टः स्वदेहोऽपि भस्मशेषो भविष्यति ।
सञ्चीयता मतो नित्यं हरेर्नामैव केवलम् ॥ ९३॥
यदि वाञ्छसि सम्प्राप्तुं तद्विष्णोः परमं पदम् ।
स्मर स्मर-हराराध्यं हरेर्नामैव केवलम् ॥ ९४॥
वर्णाश्रम-वयो-दीक्षा-शिक्षादि-नियमो नहि ।
साधारण-धनं विद्धि हरेर्नामैव केवलम् ॥ ९५॥
गरली-कृत-पीयूषं कपर्द्दी-कृत-कौस्तुभम् ।
विराजते स्वप्रकाशं हरेर्नामैव केवलम् ॥ ९६॥
हरि-स्मरणमाचार्य्यैः सर्वार्त्ति-शमनं मतम् ।
स्मरणीयमतो मर्त्यैर्हरेर्नामैव केवलम् ॥ ९७॥
भवान्ध-कूप-मग्नानां क्रन्दताञ्च पुनः पुनः ।
उत्थानालम्बनं ह्येकं हरेर्नामैव केवलम् ॥ ९८॥
दीयतां दीयतां कर्णो नीयतां नीयतां वचः ।
गीयतां गीयतां नित्यं हरेर्नामैव केवलम् ॥ ९९॥
अपूर्व-भूषणं कण्ठे नील-कान्त-तमोनुदम् ।
ध्रियतां ध्रियतां सर्वैर्हरेर्नामैव केवलम् ॥ १००॥
इति हरिनाम-रत्नं सम्पूर्णम् ।
इति पञ्चरत्नग्रन्थं सम्पूर्णम् ।
उपसंहारः
माता गुरुस्तथा धर्मो विवेको हरिनाम च ।
सेव्या पूज्यस्तथापाल्यश्चिन्त्यः कीर्त्त्यञ्च सर्वदा ॥
गोस्वामि-श्रीनीलकान्त शर्मा ।
परम पूज्यतम स्वर्गीय ललितमोहन शील पितृपादसरोजेषु -
वावा,
आनन्दधामेर अलङ्घ्य आह्वाने आपनि अकालेइ दिव्य प्रभायँकाशीधामस्थ
निज भजन-कुटीर आलोकित करिया, तत्रत्य साधकवर्गके
स्तम्भित करिया, जनसाधारण्ये मृत्युर प्रणाली शिक्षा दिया, एवं एइ
हतभाग्य पुत्राधमके शोक-सागरे भासाइया, अनन्तकालेर जन्य
तिरोहित हैलेन । आमि प्राण भरिया आपनार सेवा करिवार
अवसर पाइलाम ना । मनेर आक्षेप मनेइ रहिल । आपनार सुपवित्र
नाम मर्त्त्यलोके अक्षुण्ण राखिवार जन्य भवदीय ओ मदीय भवकर्णधार
भागवताचार्य्य श्रीयुक्त नीलकान्त गोस्वामी महाप्रभुपादेर आदेशे ताँहारै
कृपादत्त एइ अमूल्य पञ्चरत्न प्रकाश करिलाम । आशा करि आनन्दधामे
थाकियाओ आपनि इहा कण्ठे धारण पूर्वक परमानन्द पाइवेन एवं
आमिओ ताहातेइ कथञ्चित् प्रीतिलाभ करिव । इति-
पुत्त्राधम श्रीशौरीन्द्रमोहन शील दास
६इ कार्त्तिक सोमवार
सन १२६२ साल । वयस-५८१०१० दिन । सन १३२१ साल ।
पूर्वपीठिका
श्रीश्रीगौरशतकञ्च ।
भागवताचार्य-श्रीयुक्त-नीलकान्त-गोस्वामि-
महाप्रभुपादेन हृदयाकरादाविष्कृतं
कलिकातायां ४३.१ सङ्ख्यक-माणिकतला-वर्त्मनि
शीलोपाधिकेन श्रीशौरीन्द्रमोहन-दासेन पितृस्मृत्यर्थं यत्नतः प्रकाशितम् ।
सर्वाधिकारो ग्रन्थकारस्यैव ।
नाहं कवियशःप्रार्थी न मे चार्थागमे स्पृहा ।
आत्मसंशोधनार्थाय ममायं परमोद्यमः ।
घूणाक्षरमिवैतेन यदि कस्यापि वा भवेत् ।
उपकारो ममैवासौ सौभाग्योदय उत्तमः ॥
मया विरचितं पूर्वं कैवल्यशतकाभिधम् ।
पुस्तकं मुद्रितं तच्च वितीर्णं जनमण्डले ।
नामान्तरान्वितं कृत्वा तदेवात्र निवध्यच ।
प्रकल्प्य पञ्चमं रत्नं पञ्चरत्नं प्रपूरितम् ॥
रत्नेषु यदि मालिन्यं रत्नज्ञैर्दृश्यते क्वचित् ।
तन्मार्ज्जनेन मन्दोऽहमनुग्राह्यो महात्मभिः ।
गोस्वामि- श्रीनीलकान्त-शर्मा ।
पुनर्विज्ञापनम् ।
पुनः प्रकाशितं पञ्च-रत्नं सज्जन-संसदि ।
सुनिर्बन्धेन भक्तानां सत्यधर्मधृतात्मनाम् ॥
शौरीन्द्रशीलदासस्य मच्छिष्यस्य विशेषतः ।
स्वपितृप्रियपुत्रस्य निर्बन्धातिशयेन च ॥
पितापि तस्य मच्छिष्यो वैष्णवो भाग्यवद्वरः ।
हरधाम्नि हरिं ध्यायन् वाराणस्यां जहावसून् ॥
एतावद्भाभाग्यशीलस्य रक्षितव्या पितुः स्मृतिः ।
इतीदमाग्रहेणैव सुपुत्रेण प्रकाशितम् ।
पितुरादर्शपुत्रं तमाशिषा वर्द्धयाम्यहम् ।
सर्वे च भगवद्भक्ता आशिषा वर्द्धयन्तु तम् ॥
पूर्वसंस्करणे या या वर्णतोऽशुद्धयः स्थिताः ।
अत्र संस्करणे तास्ता यत्नतः परिशोधिताः ॥
परिवर्तनमेतस्मिन् किञ्चित् किञ्चित् क्वचित् क्वचित् ।
शब्दतो वाक्यतश्चापि प्रयोजनवशात् कृतम् ॥
मङ्गलाचरणन्त्वेकमधिकं सन्निवेशितम् ।
ग्रन्थस्यादौ मया कृष्णशङ्करस्मृतिलक्षणम् ॥
श्रीगौरशतकं नाम क्षुद्रमन्यच्च पुस्तकम् ।
मया विरचितं शेषे सन्निबद्धं पुनः पृथक् ।
भागवतकुमारेण श्रीयुक्तेन हि शास्त्रिणा ।
मच्छिष्यमुखपात्रेण यत्नेनैतत् परीक्षितम् ॥
कल्याणीयवरस्येमं प्रयत्नातिशयं विना ।
अभविष्यत् सुदुःसाध्यं कर्मैतन्मम जीर्य्यतः ॥
नित्याशीर्वादकस्यापि यदाशीर्वचनं पुनः ।
श्रीमन्तं प्रति तत्सर्वं बाहुल्यमेव केवलम् ॥
अप्राप्य पञ्चरत्नं ये पूर्वं क्षोभमुपागताः ।
ते तृप्यन्तु विधार्य्येदं कण्ठे धर्मपरायणाः ।
गोस्वामि-श्रीनीलकान्तशर्मा ।
उत्सर्गः ।
यत्कृपालेशमात्रेण पञ्चरत्नमिदं मया ।
सुदीनेनापि संलब्धं तस्माएव निवेदितम् ॥
गोस्वामि-श्रीनीलकान्तशर्मा ।
Proofread by Manoj Kumar Barman