प्रशमामृतम्
वेधा हरिरिति हर इति वाणी कमलालयेति दुर्गेति ।
यस्य विभूतय एतास्तं शिवमखिलोपशमपदं वन्दे ॥ १॥
वन्दे वाचां देवीं वन्दिजनानन्दकन्दलीकन्दम् ।
प्रतिबिम्बितमिव दर्पणबिम्बे यस्यामिदं जगद्भाति ॥ २॥
यद्विज्ञानालोकेन व्यवहितविप्रकृष्टसूक्ष्माणि ।
भास्वन्तस्ते सन्तः स्थेयाः सर्वत्र संशये सेव्याः ॥ ३॥
मूकस्वमप्रायं परितः खद्योतवत्तमोग्रस्तम् ।
स्फुरितास्फुरितस्वपदं ज्ञानं येषां कृतोऽञ्जलिस्तेषाम् ॥ ४॥
अक्लेशकोशसङ्ग्रहमनुपगतप्रकृतिरञ्जनक्लेशम् ।
अपरिचितदण्डयोगं वैराग्यं किमपि जयति साम्राज्यम् ॥ ५॥
भूयादिदमिति रागो मा भूदिदमित्ययं पुनर्द्वेषः ।
उभयपदात्ययभावं वैराग्यं जयति सुजनसौभाग्यम् ॥ ६॥
उपरतिरौदासीन्यं प्रशमो विज्ञानसम्प्रसादश्च ।
वैराग्यमनाभोगः परमसुखञ्चेति मुक्तिपर्यायाः ॥ ७॥
सो नवमो नवमरसः शान्तस्वानन्दथुस्फुरत्तात्मा ।
अस्य तु शृङ्गाराद्यो भेदो विविधोपधानवशात् ॥ ८॥
शमरसमभिविज्ञातुं ज्ञापयितुं चापसन्प्रगल्भन्ते ।
विषयाशावशमन्तःकरणं न नियन्तुमीशते केऽपि ॥ ९॥
कामः स्पृहा च रागो गर्वस्तृष्णा च लौन्यमुत्कण्ठा ।
आशा रतिश्च तापः पर्याया निरयदुःखभेदस्य ॥ १०॥
सदसद्भान्तिर्मूलं लिप्सोपघ्नो जरा च कार्पण्यम् ।
दैन्यायासः प्रसवः तृष्णाविषवीरुधः फलं दुःखम् ॥ ११॥
अमृतं मृत्युरिति द्वयमिदमिह न ममेति यन्ममेत्यपि च ।
न ममेत्यमृतं प्रशमो ममेति तृष्णापरिग्रहो मृत्युः ॥ १२॥
अममत्वसुखोपाये तृष्णामयशान्तिपरमसुखे ।
आयस्यन्विषयसुखे गिरिकाग्रहणे गिरिं खनति ॥ १३॥
सुखमन्विच्छन् विषये तृष्णां बध्नाति यो मूढः ।
सन्धुक्षति सविधे सः ज्वलन्तमग्निमुष्णालुः ॥ १४॥
कियदपि वसु च क्षेत्रं पुनरपि कियदपि च कियदपि च ।
इत्यखिलं ब्रह्माण्डं किंयन्ती केन तृप्यतां तुष्णा ॥ १५॥
तृष्णाकालरजन्या आधूना या नः सृककोणस्य ।
पर्याप्तं जगदखिलं तर्पयितुं तां प्रभूयते केन ॥ १६॥
ह्रीरपि जिह्रेति परं धैर्य कार्यं विवशमुपयाति ।
स्वातन्त्र्यमस्वतन्त्रं भवति तु तृष्णापरिग्रहो यस्य ॥ १७॥
तुल्येऽपि चानुबन्धे महयति विषयं कदापि लघयति वा ।
स्वच्छन्दस्तृष्णाया लघयत्येवाश्रमं महान्तमपि ॥ १८॥
तृष्णामोहितचेताः प्रणमति कृपणञ्च धनिनमिव पश्यन् ।
घूर्णति स तया शून्येऽनवलम्बेवात्ययेव पिञ्छलवः ॥ १९॥
वनमयते खनति महीं गिरिमधिरोहत्यपां निधिं विशति ।
परिचरति पापजातिं किमिव न तृष्णातुरः कुरुते ॥ २०॥
प्रणमति कमपि प्रलपति किमपि प्रकृतं वचोऽथवाऽत्रकृतम् ।
शिव शिव बहु विक्रियते तृष्णाविषमज्वरातुरो मनुजः ॥ २१॥
अस्पृश्यमपि पदेन स्पृशति पदे गाढनमितसकलाङ्गः ।
दर्शयति दीनभावं ग्रस्तस्तृष्णापिशाचिकया ॥ २२॥
व्यालाचरितेऽपि वने हिततृणचारी मृगोऽपि वरम् ।
तं तु धिगनुधनिनं यः स्वोदरभरणाय सहति सन्तापम् ॥ २३॥
ईषद्गाहं गहनं घोरं वाराशिमाशया विशतः ।
कष्टमिदं तु यदग्रे तिष्ठति कृपणो दुरीशस्य ॥ २४॥
श्लथमिव सिचयं ग्रथयन् अङ्गे लग्नमिव किमपि सम्मार्जन् ।
अनभिमतमेव धनिनो विक्रियते हन्त तृष्णया क्रान्तः ॥ २५॥
देव स्वामिन्नार्य प्रसीद नाथेति नेश्वरं न गुरुम् ।
शिव शिव जठरबुभूषा कैषा कापुरुषमाह किं धनिकम् ॥ २६॥
पश्यत्यन्यं धनिके कथयति चान्येन धनमदस्खलितम् ।
पश्य बलं तृष्णायाः स्वयमयमनुमोदते कस्मात् ॥ २७॥
बहुचाटुरटन्धनको धनिकेनाकर्णितावधीरणया ।
पश्य फलं तृष्णाया व्हीणो दीनश्च भर्त्स्यते सकलैः ॥ २८॥
अवनतिमधिकामञ्जलिमश्लथबन्धं समस्तरद विवृतिम् ।
दुर्धनिके दैन्योक्तस्तृष्णैका शिक्षयत्युपाध्याया ॥ २९॥
तिर्यक्प्रेक्षिणि पुरुषे भयतरलाक्षः स्वदैन्यविनिवेदी ।
कृच्छ्रं जीवति कृपणो धिक्कष्टं तृष्णिका विडम्बयति ॥ ३०॥
नाट्यानुरञ्जनाय नापि महेशानसम्प्रसादाय ।
न पृथग्जनकुतुकाय च नानाभिनयैश्च नटति किं कृपणः ॥ ३१॥
कृपणोऽभिनयति करुणं दीनवचः प्रणतिदृष्टिचापल्यैः ।
पुष्यति रौद्रं धनिको बीभत्सं प्रेक्षकस्तु हास्यमपि ॥ ३२॥
अन्वयमुन्नतमभिजनमखिलकलाकौशलश्च सार्वज्ञ्यम् ।
तृष्णैका नृपतिसमे प्रहसननटनाङ्गहारयति ॥ ३३॥
उपसर्पत्यपसर्पति वक्तुमिव प्रस्तुवंश्च विभ्यदिव ।
उत्तिष्ठत्युपविशति च तृष्णाविवशः कियन्नृपे नटति ॥ ३४॥
न स्वस्य च न स्वानां शाम्यति तृष्णाज्वरोत्कलिका ।
किं सेवन्ते कृपणा भूपतिरिति सञ्चरत्प्रेतम् ॥ ३५॥
आस्तामर्थिजनोऽयं स्वीयजने वा कियत्कदोपकृतम् ।
नृपतिं निहीनवृत्त्या सेवन्ते हन्त तृष्णयैव हताः ॥ ३६॥
नरपतिरालोकिष्ट स्मयते स्म प्रत्यवेक्ष्य मामद्य ।
इति तृष्णाविवशमतिर्निस्त्रपमनुभाषते सदसि ॥ ३७॥
किमतः कुम्भीपाके यदि वदनं दृश्यते दुरीशस्य ।
आत्मम्भरिममुमपि श्रयते तृष्णाऽऽतुरन्तु धिग्धिक्तम् ॥ ३८॥
नरपत्यन्तरवेद्यैः दत्तायुर्वाह्यचेटिकामपि यत् ।
कृपणो नाथति नृपतेर्निवेदयेतीह किन्वितो वीचेः ॥ ३९॥
धनपतिहतकस्य पुरः श्वजातिललितं चिरं चरन्नन्तः ।
सर्वस्येष्ट इव बहिस्तृष्णानिहतोऽखिले करोतु स किम् ॥ ४०॥
यद्राजानं वशयति यत्परिजनमस्य सान्त्वयति ।
यद पत्रपते चान्तर्भावी लाभस्स कस्य समः ॥ ४१॥
कति कति परहितरहिताः कुक्षिम्भरयो न धनिगृहश्वानः ।
उपतानपि बत कृपणास्ते चाढ्यं तेषु सन्ति किं ब्रूमः ॥ ४२॥
राजा स तव मम त्वं त्वदधीना वयमिहेति नृपचेटम् ।
अनुनाथति कृपणं यत् किञ्चिदिह लभ्येत किन्न जानीमः ॥ ४३॥
ब्रह्माण्डं कियदेतत् कियती चास्मिन्वसुन्धरा सकला ।
तत्त्रासङ्ख्या भूपाः कृपणास्ते किन्नु ददतु कृपणाय ॥ ४४॥
कणमपि ददतमुदारं कृपणं तद्दानतो मनुते ।
कृपणोऽयं किमसाविति तूलयति तृष्णा मिथः पश्य ॥ ४५॥
आजीवन्नतिसृष्टं कियदपि ददतं मितम्पचं ब्रूते ।
चर्वन्नृजीषमिक्षोः कृपणं निष्ठीविनं क्षिपन्निव सः ॥ ४६॥
सम्पदमुष्य समग्रा गहनमधूदुम्बरो भृशं फलितः ।
कियतामप्याजीवो निह्नुमहे नान्तरस्य यदि शङ्काः ॥ ४७॥
सम्पदमुष्य समग्रा किम्पाकः कानने भृशं फलितः ।
कियतामप्याजीवो नहि नहि शोभैव पश्यतां दूरे ॥ ४८॥
अनलम्बुद्धिस्तृष्णा तत्कार्पण्यं तदेव दारिद्र्यम् ।
आलोकेशस्तम्बं तुल्यमिदं तत्र कस्य का सम्पत् ॥ ४९॥
अजिरे सुरतरुवाटे गोष्ठे सुरभिव्रजो गृहारामे ।
चिन्तामणिरवनिगिरयः किमलम्मतिरस्ति सत्यमीरयत ॥ ५०॥
परतृष्णासमवायात् ईर्ष्याविषयोपरोधतः क्रोधः ।
उद्यमभङ्गादाधिर्दे लविधिनेव कन्दलति तृष्णा ॥ ५१॥
वल्गति तृष्णाविषये यस्या भावं ममत्वमुत्कुरुते ।
पश्य तयोः कार्कश्यं यदयमसन्नेव संरुजति ॥ ५२॥
गर्धयति वर्धमाना गुणमिव विषयेषु पुष्णती तृष्णा ।
ते पुनरनया मृष्टा दृष्टा दृष्टिविषविषधरायन्ते ॥ ५३॥
नृपचोरादेरर्थे रोगवियोगादितो भोगे ।
मृत्युज्वरादेर्देहे भक्तं क्लिश्नाति भयमयी तृष्णा ॥ ५४॥
प्राणपरित्राणाय प्रायः प्राण्यर्थतृष्णया हियते ।
पश्य विपर्ययममुया रञ्जितहृदयो रणाङ्गणं विशति ॥ ५५॥
यदि तृष्णामुद्रणयेत् यदि वाऽमर्ष भयं विषादं वा
मा भूत्पदमैन्द्रं वा वैधं वा वैरिणामपि च ॥ ५६॥
विषयाधिगमे भङ्गो निर्वेदो विषय दोष सम्बोधः ।
लब्धव्यान्तरविरहः प्रायस्तृष्णाधिशमसुखोपायः ॥ ५७॥
प्रकृतिरियं तृष्णायाः लाभे लाभे विवर्धते वियतः ।
भग्नोद्यमभूयिष्ठा क्षीयत हीणे वशमसुखं सूते ॥ ५८॥
कियदपि लब्धं लब्धं तृष्णोपेक्षा तु लब्धलब्धव्ये ।
आद्योद्वेगवहान्या शान्तरसप्राणवहनाडी ॥ ५९।
तृष्णा यदि किं निरये दवदाहमयं ययैव जगदखिलम् ।
शान्तिर्यदि किन्वमृते ययैव चन्द्रातपायते विश्वम् ॥ ६०॥।
अन्तःकरणे शान्ते कान्तं जगदिन्दुशीकरैकान्तम् ।
तृष्णाविषानलोष्मे सकलं कालानलोष्मलं भीष्मम् ॥ ६१॥
अर्थानथवा कामान् आशास्ते तृष्णया यस्मात् ।
यदुपक्रममस्यामी स एव धर्मः स्वयं सेव्यः ॥ ६२॥
अर्थेऽथवापि कामे यामनुबध्नन् सदा तपति ।
तदुपशमे तां तृष्णां बद्ध्वा सद्यः सुखी भवति ॥ ६३॥
पुष्णात्यनर्थजालं तृष्णैका सत्यमन्यदास्थाभूः ।
शमविषया पुनरेषा कतकरजोन्यायमनुसरते ॥ ६४॥
न धनेन क्रेतव्या नापि च गिरिगह्वरे विचेतव्या ।
निर्विण्णे करणगणे जोषं या सा दशा शान्तिः ॥ ६५॥
न शरीरस्यायासो न च कापि ग्लानिरिन्द्रियगणस्य ।
न च हृदयस्य विषादः शमसुखसम्पत्तिसुकरतां पश्य ॥ ६६॥
तच्छास्त्रं स विवेकः सा विद्या सा क्रिया विनावद्या ।
दर्शयति निर्विमर्शं शान्तरसस्रोतसो यदि प्रसरम् ॥ ६७॥
स विवेको नविवेको येन हि विषयेषु सदसदादिमयः ।
इदमद इति विवेकः कृमिकीटादेरपि प्रकटः ॥ ६८॥
आशावैवश्यमलं शमयितुमनलं प्रयस्यतो यस्यः ।
तस्य च योगाभ्यासः केवलबुसराशिचर्वणायासः ॥ ६९॥
आशा परमायासः स्वाम्यं वैषम्यमन्तरङ्गस्य ।
भोगश्च रोगयोगः शान्तरसप्रवणचेतसो भाति ॥ ७०॥
गाढनिमग्नो विषये दुःखैरपि यो वरं सुखी मूढः ।
उष्ट्र इव लगुडघातैः शान्तो न त्वक्षिपात्रमिव खेदी ॥ ७१॥
अनुहृष्यति नोपेतं नापेतं वापि किञ्चिदनुतपति ।
पश्य विरागौदार्यं शान्तरसास्वादशीतलस्वान्तम् ॥ ७२॥
कबलयतु कालदहनो विश्वं सप्तार्णवी विलापयतु ।
उद्घूर्णयतु मरुद्गण उद्दिशमो नेङ्गते किञ्चित् ॥ ७३॥
विध्यण्डेऽपि व्यतियति शान्तरसास्वादसादितोद्वेगः ।
अम्भोनिधिगम्भीरो धीरमुदास्ते मुदा परं धन्यः ॥ ७४॥
उद्वेजयत्वसाधुः साधुस्साधुं प्रपूजयतु ।
एजयतु कोऽपि चपलः सर्वसमश्शमपरो जयति ॥ ७५॥
लिम्पतु चन्दनपङ्केरङ्गं वास्या विलुम्पतु वा ।
नाशंसति कल्याणं नाकल्याणं तथा शान्तः ॥ ७६॥
उपतिष्ठन्तां विषया घनाघना वाथ सम्प्रतिष्ठन्ताम् ।
उपशान्तस्य किमेतैरन्तरमथवान्तरिक्षस्य ॥ ७७॥
तस्य किमीशतया वा ब्रह्मत्वेनाथ वा महेन्द्रतया ।
दैन्यनिदानं तृष्णा दहनज्वालेव यदि पुनश्शान्ता ॥ ७८॥
उपदाभिरात्मलोकैरुपतिष्ठन्तां तमवसरप्रेक्षाः ।
ब्रह्माद्याः किममीभिः शान्तिपरैश्वर्यमीयुषो विदुषः ॥ ७९॥
ब्रह्मेति न बहु मनुते श्वसूकरादीति विमनुते नापि ।
सममनुपश्यन्नास्ते तुष्टः स्वेनैव केवलं शान्तः ॥ ८०॥
सब्रह्मकास्सुरा गिरिशिखरगतस्येव भूचराः कृमयः ।
केऽमी भूपापशदाः शान्तिपदे शाश्वतेऽभिषिक्तस्य ॥ ८१॥
किं ब्रह्मा किं मशको मर्तव्ये महति कालपरिवर्ते ।
किं मेरुः किमणुर्वा मङ्क्तव्ये सति महार्णवावर्ते ॥ ८२॥
अमृतं वास्तु तृणं वा यद्यशितेनैव तेन तृप्येयुः ।
देवाः किं कृमयः किं ज्वलदशनायामये तुल्ये ॥ ८३॥
योगाय न चेत्तनुरियमसुलभ एवामनोहतेर्भोगः ।
दोहाय न वाहाय न किमसौ वन्ध्येव पुष्यते करभा ॥ ८४॥
भ्रूभङ्गकेलिकलिते वक्त्रावर्ते भ्रमन्ति वनितानाम् ।
बहुतटमविवेकहताः कुलाचला इव तु निचला धीराः ॥ ८५॥
त्वङ्मांसमस्थिकेशा बीभत्स्यन्ते विभक्तदृष्टानि ।
समवायिषु तेषु कुतो वनिता वनितेति दुर्धियो मोहः ॥ ८६॥
स्थानं किमस्य बीजं किं किमुपष्टम्भकं किमन्तर्वा ।
इत्यविमृश्य बहिर्हक् कान्ता कान्तेति मुह्यति मुधैव ॥ ८७॥
अन्वक्षं यदनुक्षणमक्षालितमास्रवन्मलैर्विस्रम् ।
तस्मिञ्जुगुप्सितव्ये मलभाण्डे मानिनीति किं त्वेतत् ॥ ८८॥
हरिचन्दनमिति सुरभिलमालेति मनोज्ञवाटीति ।
वनितातनुकेशास्ये दुर्गन्धं पिदधदेव मुह्यति किम् ॥ ८९॥
वदनं यदमृतकर इति नयनं यच्चापि नीलनलिनमिति ।
कनकलतेति यदङ्गं तदेव निधने तनोः कथं पश्य ॥ ९०॥
अमृतावयवशरीरा बाला चान्द्री कलेव निर्गलिता ।
आप्यायत्यपाङ्गैरिति मुह्यति पश्य कस्य को योगः ॥ ९१॥
आलम्बितमालिङ्गितमाघ्रातञ्चानुचुम्बितञ्चापि ।
उपभुक्तमङ्गनाङ्गं किमल मोहश्रमादन्यत् ॥ ९२॥
कण्डूतिनोदनं वा कामानलवेगसंशमो वापि ।
उभयोरुभयं तुल्यं किमयं स्वयमेव किङ्करः स्त्रीणाम् ॥ ९३॥
मेदोवुदमक्ष्युत्पलमस्थिविवारं मृदुस्मितं ज्योत्स्ना ।
लालामधरामृतमिति कविभिर्महयद्भिराहतो लोकः ॥ ९४॥
यदपाङ्गलेशसङ्गादङ्गमुपाङ्गं जुगुप्सनीयमपि ।
मङ्गलमिवाङ्गनानां तमनङ्गं ब्रूमहे जगन्मोहम् ॥ ९५॥
कालव्यालिदंष्ट्रा क्षुरधारा क्षुद्रराजमैत्री च ।
एकत्रैकत्र वधूरियमथवैकातिरिच्यते सकलात् ॥ ९६॥
कुटिलास्सर्वे भावाः कुन्तलजाले कुतः कवेर्निष्ठा ॥
कर्कशमन्तःकरणं तर्कय युवतेरुत स्तनग्रन्थी ॥ ९७॥
वदितुन्न प्रभवामो वनिता यास्सन्तु तास्सन्तु ।
मूर्वाभिर्मायाभिः मुमुक्षतामस्त्वलन्ताभिः ॥ ९८॥
संसृतिनिरयसरण्यां मोहान्तर्दाहसन्धमधमन्या ।
मुक्तिद्वारार्गलया गलनिगले नालमङ्गनया ॥ ९९॥
साहससङ्केतभ्रुवा चपलचापल्यचादुशिक्षिकया ।
मलमणिमञ्जूषिकया चिरमलमुद्बद्धपाश्ययाङ्गनया ॥ १००॥
रागोद्रेचितपूयक्लिन्ने नाडीव्रणे कृमिक्षीणे ।
पुत्रः पुत्र इतीमे लोका बम्भ्रमति सम्भ्रमेण कियत् ॥ १०१॥
उपरुन्धन कुशलं स्वं पुत्रं मित्रं कलत्रमिति ।
पश्यति किं पाथेयं परलोकप्रस्थितो यदा भवति ॥ १०२॥
अभ्यस्यामो विद्यां विषयानुपभुञ्ज्महेऽथ शाम्यामः ।
कुर्मो यथाभिलषितं क्रूरो मृत्युस्तु न क्षणं कुरुते ॥ १०३॥
वृद्धौ मातापितरौ साध्वी भार्या सुतश्शिशुरकार्यैः ।
अपि भार्या इत्यन्धस्स्वयं पतन्तन्निपातयत्यन्धम् ॥ १०४॥
लाभो बहुलायासो लब्धस्याधिर्व्ययेऽथवा नाशे ।
किन्न धनाशा दुःखं भोगापगतं च यत्तदनुतपति ॥ १०५॥
सत्यं लभ्ये लब्धे किमपि सुखं तत्र भुक्तनष्टेऽपि ।
यद्दुखं तदरुन्तुदमामृत्योर्दहति कोटराग्निरिव ॥ १०६॥
नार्जनरक्षायासो न व्ययनाशादिशङ्कयातङ्कः ।
नित्यसुखैकनिधानं धनमाकिञ्चन्यमन्यदेव सताम् ॥ १०७॥
हालाहलवाहिन्या बलवदुदन्यां स शमयितुं घटते ।
किम्पाकैरशनायां सुखाय मूढो धनाय यतते यः ॥ १०८॥
दारा हृदयविदाराः सुतास्सताञ्चैवमसुतराधिकराः ।
धनमपि सन्ततनिधनं पारिव्राज्यं सुखैकसाम्राज्यम् ॥ १०९॥
धनवानस्मीति मदः कियतापि धनेन कृच्छ्रलब्धेन ।
तदपाये मृतिमूर्च्छा तदनिच्छैव त्वनिच्छतोऽप्यमृतम् ॥ ११०॥
विषयपरिग्रहमूला वर्षावधिकापगा इवोत्कूलाः ।
प्रवहन्त्यापन्नद्यो यास्वाशापाशिता विपद्यन्ते ॥ १११॥
आमज्ञो जिज्ञासितमुद्ग्राह्यो ग्राहितं मिथोऽवधृतम् ।
सर्वाशसंशान्तिनर्त्तै विनिवर्तते भवावर्तः ॥ ११२॥
किं यागैः किमु योगैः किं वा भूमिप्रदक्षिणक्रमणैः ।
हृदि यदि रूढा शान्तिर्यदि वाशा किन्नु तैरेव ॥ ११३॥
धर्माय कुशलमस्तु स्मर्तुमनर्थात्मनो विभेम्यर्थान् ।
धिक्कामानसुखमयान् अधुना विश्रमितुमस्मि शान्तिपदे ॥ ११४॥
ये केऽप्यान्तरबाह्याः सुखहेतोरनुसृताः क्रियायोगाः ।
ताननुजानाम्यधुना विश्रान्तो नियतमेव शान्तिपदे ॥ ११५॥
आ द्रुहिणादा च कृमेरक्रमिका कालिकेऽपि सुखःदुःखे ।
अंहो पश्यत मोहं क्षणं प्रसीदति जनो विषीदति च ॥ ११६॥
भद्रमभद्रं वा नः कर्म विनिर्मातु कामतो जन्म ।
अश्रान्तं शान्तिपदे विश्रान्तं स्याद्यदि स्वान्तम् ॥ ११७॥
दिव्यनदी कुनदी वेत्यार्यावर्तोऽथ कीकटो वेति ।
तावद्विकल्पमोहो यावन्नेत पावनीं शान्तिम् ॥ ११८॥
पुण्यमिदं तीर्थमदः पुण्यतमश्चेति यश्चरतु चश्चाः ।
प्रायो देशातिथयः शान्तस्यात्मैव तीर्थममृतमयम् ॥ ११९॥
किं पुष्करं प्रयागः किं वा गङ्गाब्धिसङ्गमो वापि ।
बहिरनु विमृशत्यंहो नात्मानं तीर्थमखिलतापकरम् ॥ १२०॥
कर्तव्यमकर्तव्यं प्रतिकर्तव्यमिति विभ्रमविकल्पैः ।
अलमलमायासफलैरन्तर्विश्रान्तिमेमि शान्तिपदे ॥ १२१॥
साधितमनया तन्वा भवमरुपथचारविभ्रमस्थानम् ।
अलमलममुया भूयः कृतघ्नतेयं तु मर्षणीया नः ॥ १२२॥
आश्वासितमखिलेन्द्रियमानन्दितमन्तरङ्गमतरङ्गम् ।
बह्वन्ना जीवकला किं ब्रूमः शमरसामृतास्वादम् ॥ १२३॥
उपशान्तास्सन्तापाः शारीरा मानसाश्च ये चान्ये ।
कैरपि सुकृतैरधुना शान्तिसुखाब्धौ विहरति स्वान्तम् ॥
(विहरति हृदयं शमामृताम्बुनिधौ )॥ १२४॥
येषां पक्षविपक्षौ न स्तो नापि प्रियाप्रिये महताम् ।
नापि च हर्षविषादौ ते शान्तास्तान्नमस्यामः ॥ १२५॥
ऊहासहमुपरिप्लवमुपचितसन्देहमुन्मिषन्मोहम् ।
च्युतपूर्वपरक्रमकं ज्ञानं येषामिमेषि हुं गुरवः ॥ १२६॥
अव्याहतं व्यवहितेप्यतिसूक्ष्मेऽपि स्फुटोत्तरस्फुरणम् ।
अक्रामिकसकलविषयं ज्ञानं महतां निरञ्जनं जयति ॥ १२७॥
इति शास्त्रसुधाम्बुधिं मथित्वा प्रतिलब्धं प्रशमामृतं निषीय ।
अवधूतभवामयाधिवाधा विबुधा निर्गुणुताजरामराश्च ॥ १२८॥
वासुदेवेन्द्र योगीन्द्रचरणाम्बुजरेणुना ।
कृष्णानन्देन यमिना प्रणीतं प्रशमामृतम् ।
इति कृष्णानन्दकृतिषु प्रशमामृतं सम्पूर्णम् ॥
Notes:
Ambrosia of tranquility longest of the nine works by Krishnananda describing the blissful nature of a stage when the mind is completely checked from its frivolous tendencies, though not annihilated and made receptive of the blissful nature of the Atman, the dearest and the supreme object of love of all the living creatures. (beings). It consists of 128 verses.
Proofread by Rajesh Thyagarajan