पुरुषोत्तमक्षेत्रयात्रा फलवर्णनम्
देवो ऊचुः ।
जय जय लोकपाल जय पद्मनाभ भूधरण ।
जय जय चादिदेव बहुकारण ॥ २॥
जय जय वासुदेव जय सच्चरण सत्करण ।
जय जय दिव्यमीन जयत्रिदशवर ॥ ३॥
जय जय जलधिशयन जय जय योगेश जय देवधर ।
जय जय विश्वमूर्ते जय चक्रधरा ॥ ४॥
जय जय भूतनाथ जय श्रीनिवास जय जय योगिवर ।
जय जय सूर्यनेत्र जय देव वराह ॥ ५॥
जय जय कैटभारे जय जय वेदवर ।
जय जय कूर्मरूप जय यज्ञवर ॥ ६॥
जय जय कमलनाभ जय शैलधर ।
जय जय योगेश जय वेगधर ॥ ७॥
जय जय विश्वमूर्ते जय चक्रधर ।
जय जय भूतनाथ जय धरणीधर ॥ ८॥
जय जय शेषशायिञ्जय पीतवास ।
जय सोमकान्त जय योगवास जय जय ॥ ९॥
दहनचक्र जय धर्मवास जय जय ।
गुणनिधान जय श्रीनिवास जय जय ॥ १०॥
गरुडासन जय सुखनिवास जय जय ।
जय जय धर्मकान्त जय जय मतिनिवास ॥ ११॥
जय जय गहनगेहनिवास ।
जय जय योगिगम्य जय मखनिवास ॥ १२॥
जय जय वेदवेद्य जय शान्तिकर ।
जय जय योगिचिन्त्य जय पुष्टिकर ॥ १३॥
जय जय ज्ञानमूर्ते जय कमलाकर ।
जय जय भाववेद्य जय मुक्तिकर ॥ १४॥
जय विमलदेह जय जय सत्त्वनिलय ।
जय जय गुणसमूह जय जय यज्ञकर ॥ १५॥
जय जय गुणविहीन जय जय मोक्षकर ।
जय जय भूहिरण्य जय जय कान्तियुत ॥ १६॥
जय लोकशरण्य जय जय लक्ष्मीपते ।
जय पङ्कजाक्ष जय जय सृष्टिकर ॥ १७॥
जय योगयुत जयातसीकुसुमश्यामदेह ।
जय जय समुद्राविष्टदेह जय लक्ष्मीपङ्कजभोगदेह ॥ १८॥
जय जय भक्तिभावन लोकगेय ।
जय लोककान्त जय परमशान्त ॥ १९॥
जय जय परमसार जय चक्रधर ।
जय भोगियुत जय नीलाम्बर ॥ २०॥
जय साङ्ख्यनुत जय कलुषहर ।
जय कृष्ण जगन्नाथ जय सङ्कर्षणानुज ॥ २१॥
जय जय पद्मपलाशाक्ष जय वाञ्छितफलप्रद ।
जय मालावृतोरस्क जय चक्रगदाधर ॥ २२॥
जय पद्मालयाकान्त जय विष्णो नमोऽस्तु ते ।
एवं स्तुत्वा तदा देवाः शक्राद्या दृष्टमानसाः ॥ २३॥
सिद्धचारणगन्धर्वा ये चान्ये स्वर्गवासिनः ।
दृष्ट्वा स्तुत्वा नमस्कृत्य तद्गतेनान्तरात्मना ॥ २४॥
कृष्णं रामं सुभद्रां च यान्ति स्वं स्वं निवेशनम् ।
कपिलाशतदानेन यत्फलं पुष्करे स्मृतम् ॥ २५॥
तत्फलं कृष्णमालोक्य मञ्चस्थं सहलायुधम् ।
कन्याशतप्रदानेन यत्फलं समुदाहृतम् ॥ २६॥
तत्फलं कृष्णमालोक्य मञ्चस्थं लभते नरः ।
शतनिष्कसुवर्णेन भूमिदानेन यत्फलम् ॥ २७॥
तत्फलं चान्नदानेन सर्वातिथ्येन यत्फलम् ।
वृषोत्सर्गेण विधिवद्ग्रीष्मे तोयप्रदानतः ॥ २८॥
तिलधेनुप्रदानेन गजाश्वरथदानतः ।
चान्द्रायणेन चीर्णेन तथा मासोपवासतः ॥ २९॥
यत्फलं सर्वतीर्थेषु व्रतैर्दानैश्च यत्फलम् ।
ससुभद्रौ रामकृष्णौ तल्लभेद्वीक्ष्य मञ्चगौ ॥ ३०॥
तस्मान्नरोऽथवा नारी पश्येत्तं पुरुषोत्तमम् ।
स्नानशेषेण कृष्णस्य तोयेन यदि मोहिनि ॥ ३१॥
वन्ध्या मृतप्रजा वापि दुर्भगा ग्रहपीडिताः ।
राक्षसाद्यैर्गृहीता वा तथा रोगैश्च संहताः ॥ ३२॥
सद्यस्ताः शुद्धिमायान्ति विधिना ह्यभिषेचिताः ।
प्राप्नुन्वितीप्सितान्कामान्यान्यान्वाञ्छन्ति सुप्रभे ॥ ३३॥
पुण्यानि यानि तोयानि सन्त्यन्यानि धरातले ।
तानि स्नातावशेषस्य कलां नार्हन्ति षोडशीम् ॥ ३४॥
तस्मात्स्नानावशेषेण जलेन जलशायिनः ।
अभ्युक्षेत्सर्वगात्राणि सर्वकामप्रदेन च ॥ ३५॥
स्नातं पश्यन्ति ये कृष्णं व्रजन्तं दक्षिणामुखम् ।
ब्रह्महत्यादिभिः पापैर्मुच्यन्ते ते न संशयः ॥ ३६॥
शास्त्रेषु यत्कलं प्रोक्तं त्रिःप्रदक्षिणया भुवः ।
दृष्ट्वा नरो लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥ ३७॥
तीर्थयात्राफलं यत्तु पृथिव्यां समुदाहृतम् ।
दृष्ट्वा यान्तं लभेत्कृष्णं तत्फलं दक्षिणामुखम् ॥ ३८॥
गङ्गाद्वारे च कुब्जाम्रे कुरुक्षेत्रेऽर्कपर्वणि ।
पुष्करादिषु चान्येषु यत्फलं स्नानतः स्मृतम् ॥ ३९॥
तत्फलं दक्षिणास्यं तु कृष्णं यान्तं निरीक्ष्य च ।
अथ किं बहुनोक्तेन यत्फलं पुण्यकर्मणः ॥ ४०॥
वेदशास्त्रपुराणेषु भारते संहितादिषु ।
तत्फलं वीक्ष्य दक्षास्यौ सुभद्रौ बलकेशवौ ॥ ४१॥
गुण्डिचामण्डपं यान्तं ये पश्यन्ति रथे स्थितम् ।
सभद्रं सबलं कृष्णं ते यान्ति भवनं हरेः ॥ ४२॥
गुण्डिचायानसमये फाल्गुन्यां विषुवे तथा ।
सकृद्यात्रां नरः कृत्वा विष्णुलोकं प्रगच्छति ॥ ४३॥
यावतीः कुरुते मर्त्त्यो यात्राः श्रीपुरुषोत्तमे ।
तावत्कल्पं विष्णुलोके वसेदिति विनिश्चयः ॥ ४४॥
यात्रा द्वादश सम्पूर्णा यदा स्युर्विधिनन्दिनि ।
तदा प्रतिष्ठां कुर्वीत विधिना पापनाशिनि ॥ ४५॥
ज्येष्ठमासि सिते पक्षे ह्येकादश्यां समाहितः ।
गत्वा जलाशयं पुण्यमाचम्य प्रयतः शुचिः ॥ ४६॥
आवाह्य सर्वतीर्थानि ध्यात्वा नारायणं तथा ।
ततः स्नानं प्रकुर्वीत विधिबोधितवर्त्मना ॥ ४७॥
स्नात्वा सम्यक्ततो देवानृषींश्चापि पितॄन्स्वकान् ।
सन्तर्पयेत्तथान्यांश्च नामगोत्रोक्तिपूर्वकम् ॥ ४८॥
उत्तीर्य वाससी धौते निर्मले परिधाय च ।
उपस्पृश्य विधानेन तथोपस्थाय भास्करम् ॥ ४९॥
वेदमातरमावर्त्य पुण्यामष्टोत्तरं शतम् ।
सौरमन्त्रांस्तथा चान्यांस्त्रिः परीत्य नमेद्रविम् ॥ ५०॥
वेदोक्तं त्रिषु वर्णेषु स्नानं जप्यमुदाहृतम् ॥ ५१॥
स्त्रीशूद्रयोर्वरारोहे वेदोक्तविधिवर्जितम् ।
ततो व्रजेन्मन्दिरस्थं भक्त्या श्रीपुरुषोत्तमम् ॥ ५२॥
प्रक्षाल्य हस्तौ पादौ च उपस्पृश्य यथाविधि ।
घृतेन स्नापयेद्देवं क्षीरेण तदनन्तरम् ॥ ५३॥
मधुगन्धोदकेनापि तीर्थचन्दनवारिणा ।
ततो वस्त्रयुगं श्रेष्ठं भक्त्या तं परिधापयेत् ॥ ५४॥
चन्दनागुरुकर्पूरैः कुङ्कुमेन विलेपयेत् ।
पूजयेत्परया भक्त्या पद्मैश्च पुरषोत्तमम् ॥ ५५॥
सम्पूज्यैवं जगन्नाथं भुक्तिमुक्तिप्रदं हरिम् ।
धूपं चागुरुसंयुक्तं देहे देवस्य चाग्रतः ॥ ५६॥
गुग्गुलं च सुनिष्पूतं दहेद्घृतसमन्वितम् ।
दीपं प्रज्वालयेद्भक्त्या यथाशक्ति घृतेन वै ॥ ५७॥
अन्यांश्च दीपकान्दद्याद्द्वादशैव समाहितः ।
गोघृतेन तु देवेशि तिलतैलेन वा पुनः ॥ ५८॥
नैवेद्यं पायसापूपशष्कुलीवेष्टकानि च ।
मोदकं फाणिकं चान्यत्फलानि च निवेदयेत् ॥ ५९॥
एवं पञ्चोपचारेण सम्पूज्य पुरुषोत्तमम् ।
ॐ नमः पुरुषोत्तमायेति जपेदष्टोत्तरं शतम् ॥ ६०॥
ततः प्रसादयेद्देवं दण्डवत्प्रणिपत्य चत ।
ततोऽचर्येद्गुरुं भक्त्या पुष्पवस्त्रानुलेपनैः ॥ ६१॥
नानयोरन्तरं यस्माद्विद्यते विधिर्नन्दिनि ।
देवस्योपरि कुर्वीत मण्डपं सुसमाहितः ॥ ६२॥
नानापुष्पैः सुविशदं विचित्रं मण्डलं पुरः ।
कृत्वावधारणं पश्चाज्जागरं कारयेन्निशि ॥ ६२-६३॥
कथां च वासुदेवस्य गीतिकां चापि कारयेत् ।
ध्यायन्पठन्स्तुवन्देवं प्रणयेद्रजनीं बुधः ॥ ६४॥
ततः प्रभाते विमले द्वादश्यां द्वादशैव तु ।
निमन्त्रयेद्व्रतस्नातान्ब्राह्मणान्वेदपारगान् ॥ ६५॥
इतिहासपुराणज्ञाञ्छ्रोत्रियान्संयतेन्द्रियान् ।
स्नात्वा सम्यग्विधानेन धौतवासा जितेन्द्रियः ॥ ६६॥
स्नापयेत्पूर्ववद्भक्त्या तत्रस्थं पुरुषोत्तमम् ।
गन्धैः पुष्पैस्तूपहारैर्नैवेद्यैर्दीपकैस्तथा ॥ ६७॥
उपचारैर्बहुविधैः प्रणिपातैः प्रदक्षिणैः ।
जाप्यस्तुतिनमस्कारैर्गीतवाद्यैर्मनोहरैः ॥ ६८॥
सम्पूज्यैवं जगन्नाथं ब्राह्मणान्पूजयेत्ततः ।
द्वादशैव तु गास्तेभ्यो दत्त्वा कनकमेव च ॥ ६९॥
छत्रोपानद्युगं चार्प्य कांस्यपात्रं च भक्तितः ।
ततस्तान्भोजयेद्विप्रान्भोज्यं पायसपूर्वकम् ॥ ७०॥
पक्वान्नं भक्ष्यभोज्यं च सगुडं शर्करान्वितम् ।
ततो भुक्त्वा सुसन्तृप्तान्ब्राह्मणान्सुस्थमानसान् ॥ ७१॥
द्वादशैवोदकुम्भांश्च ग्राहयेत्तान्समोदकान् ।
दक्षिणां च यथाशक्ति विष्णुतुल्यं विरिञ्चिजे ॥ ७२॥
सुवर्णवस्त्रगोधान्यैर्द्रव्यैश्चान्यैर्वरैर्बुधः ।
सम्पूज्य तान्नमस्कृत्य इमं मन्त्रमुदीरयेत् ॥ ७३॥
सर्वव्यापी जगन्नाथः शङ्खचक्रगदाधरः ।
अनादिनिधनो देवः प्रीयतां पुरुषोत्तमः ॥ ७४॥
इत्युच्चार्य ततो विप्रांस्त्रिः परिक्रम्य सादरम् ।
प्रणम्य शिरसा भक्त्या साचार्यांस्तान्विसर्जयेत् ॥ ७५॥
ततस्तान्ब्राह्मणान्भक्त्या चासीमान्तमनुव्रजेत् ।
अनुव्रज्य तु तान्विप्रान्नमस्कृत्य निवर्त्य च ॥ ७६॥
बान्धवैः स्वजनैर्युक्तस्ततो भुञ्जीत वाग्यतः ।
एवं कृत्वा नरः सम्यङ्नारी वा लभते फलम् ॥ ७७॥
अश्वमेधसहस्रस्य राजसूयशतस्य च ।
अतीतं शतमुद्धृत्य पुरुषाणां नरोत्तमः ॥ ७८॥
भविष्यच्च शतं देवि दिव्यरूपधरोऽव्ययः ।
सर्वलक्षणसम्पन्नः सर्वालङ्कारभूषितः ॥ ७९॥
सर्वकामसमृद्धात्मा गुणरूपवयोऽन्वितः ।
स्तूयमानोऽथ गन्धर्वैरप्सरोभिः समन्ततः ॥ ८०॥
विमानेनार्कवर्णेन कामगेन स्थिरेण च ।
पताकाध्वजयुक्तेन शतसूर्यप्रभेण च ॥ ८१॥
उद्द्योतयन्दिशः सर्वा आकाशे विगतक्लमः ।
युवा महाबलो धीमान्विष्णुलोकं स गच्छति ॥ ८२॥
तत्र कल्पशतं यावद्भुङ्क्ते भोगान्यथेप्सितान् ।
स्तुतो मुनिवरैर्देवि तिष्ठेश्च विगतज्वरः ॥ ८३॥
यथा देवो जगन्नाथः शङ्खचक्रगदाधरः ।
तथाऽसौ मुदितो देवि धृत्वा रूपं चतुर्भुजम् ॥ ८४॥
भुक्त्वा तत्र वरान्भोगान्क्रीडित्वा सुचिरं सति ।
तदन्ते ब्रह्मसदनमायात्यखिलकामदम् ॥ ८५॥
सिद्धविद्याधरैश्चापि शोभितं सुरकिन्नरैः ।
कालं नवतिकल्पं तु तत्र भुक्त्वा सुखं नरः ॥ ८६॥
रुद्रलोकं समायाति सुखदं सेवितं सुरैः ।
सिद्धविद्याधरैर्यक्षैर्भूषितं दैत्यदानवैः ॥ ८७॥
अशीतिकल्पकालं तु तत्र भुक्त्वा सुखं नरः ।
तदन्ते याति गोलोकं सर्वभोगसमन्वितम् ॥ ८८॥
सुरसिद्धाप्सरोभिश्च शोभितं सुमनोहरम् ।
तत्र सप्ततिकल्पं तु भुक्त्वा भोगानभीप्सितान् ॥ ८९॥
पश्चादायाति वै लोकं प्राजापत्यमनुत्तमम् ।
षष्टिकल्पं सुखं तत्र भुक्त्वा नानाविधं मुदा ॥ ९०॥
तदन्ते शक्रभवनं नानाश्चर्यं समाव्रजेत् ।
आगत्य तत्र पञ्चाशत्कल्पं भुक्त्वा सुखं नरः ॥ ९१॥
प्रपद्यतेऽमरगृहान्विमानैः समलङ्कृतान् ।
चत्वारिंशत्कत्ल्पकालं भोगान्भुक्त्वा सुदुर्लभान् ॥ ९२॥
नाक्षत्रं लोकमायाति नानासौख्यसमन्वितम् ।
तत्र भुक्त्वा वरान्भोगांस्त्रिंशत्कल्पं यथेप्सितान् ॥ ९३॥
तस्माद्गच्छति तं लोकं शशाङ्कस्य विरिञ्चिजे ।
यत्र तिष्ठति सोमोऽसौ सर्वदेवैरलङ्कृतः ॥ ९४॥
तत्र विंशतिकल्पं तु भुक्त्वा भोगं सुदुर्लभम् ।
आदित्यस्य ततो लोकमायाति सुरपूजितम् ॥ ९५॥
तत्र भुक्त्वा शुभान्भोगन्दशकल्पं सुनिर्वृतः ।
तस्मादायाति भवनं गन्धर्वाणां सुदुर्लभम् ॥ ९६॥
तत्र भोगान्समस्तांश्च कल्पमेकं यथासुखम् ।
भुक्त्वा चायाति मेदिन्यां राजा भवति धार्मिकः ॥ ९७॥
चक्रवर्ती महावीर्यो गुणैः सर्वैरलङ्कृतः ।
कृत्वा राज्यं तु धर्मेण यज्ञैरिष्ट्वा सदक्षिणैः ॥ ९८॥
तदन्ते योगिनां लोकं गत्वा मोक्षप्रदं शिवम् ।
तत्र भुक्त्वा वरान्भोगान्यावदाभूतसम्प्लवम् ॥ ९९॥
तस्मात्पुनरिहायातो जायते योगिनां कुले ॥ १००॥
प्रवरे वैष्णवे भद्रे दुर्लभे साधुसम्मते ।
चतुर्वेदी विप्रवरो ब्रह्मयज्ञपरः सति ॥ १०१॥
वैष्णवं योगमासाद्य कैवल्यं मोक्षमाप्नुयात् ।
एवं यात्राफलं तुभ्यं प्रोक्तं श्रीपुरुषोत्तमे ॥ १०२॥
भुक्तिमुक्तिप्रदं नॄणां किमन्यच्छ्रोतुमिच्छसि ॥ १०३॥
इति श्रीबृहन्नारदीयपुराणोत्तरभागे मोहिनीवसुसंवादे
पुरुषोत्तमक्षेत्रमाहात्म्ये पुरुषोत्तमक्षेत्रयात्रा
फलवर्णनं नामैकषष्टितमोऽध्यायः ॥ ६१॥
बृहन्नारदीयपुराण । उत्तरभाग । अध्याय ६१/२-२३ २४-१०३॥
bRRihannAradIyapurANa . uttarabhAga . adhyAya 61/2-23 24-103..
Proofread by PSA Easwaran