पुरुषोत्तमप्रोक्तं पुत्रीप्राप्त्यै करणीयं पुत्रीव्रतवर्णनम्
श्रीनारायणीश्रीरुवाच ।
कीदृशं तद्व्रतं प्रोक्तं पुत्रीव्रतं मखात्मकम् ।
आद्यन्तं सफलं स्याद्यत्तत्तथा मे विधिं वद ॥ ६६॥
श्रीपुरुषोत्तम उवाच ।
शृणु पुत्रीव्रतं माता कम्भरा यच्चकार ह ।
महालक्ष्मीर्ललिताश्रीः सपुत्री सा ततोऽभवत् ॥ ६७॥
फाल्गुनस्याऽसिते चाऽऽद्ये पक्षे वै पञ्चमीतिथौ ।
पुत्रीव्रतं प्रकर्तव्यं मात्रा सौभाग्यसम्पदा ॥ ६८॥
चतुर्थ्यास्तु निशायां वै दुग्धपानपरा भवेत् ।
ब्रह्मचर्यपरा स्याच्च भवेद्भूतलशायिनी ॥ ६९॥
दुष्टस्वप्नं यथा न स्यात्तथा निद्रां विधाय वै ।
ललिताश्रीमहालक्ष्मीं स्मृत्वोत्थाय क्षणं च ताम् ॥ ७०॥
ध्यात्वा चतुर्भुजां लक्ष्मीं स्वर्णचम्पकरोचनाम् ।
युवतीं च हरिद्वर्णाम्बरां स्वर्णविभूषिताम् ॥ ७१॥
आलिप्तां चन्दनाद्यैश्च गन्धसारसुगन्धिताम् ।
प्रसन्नवदनां पद्मगर्भाभकरपत्तलाम् ॥ ७२॥
रूपानुरूपावयवां चन्द्राभमुखशोभिताम् ।
ताम्बूलचर्वणरक्ताधरशोभाविराजिताम् ॥ ७३॥
यौवनपूरसंशोभद्विग्रहां पुष्टरूपिणीम् ।
ध्यात्वा स्नात्वा ततः स्वर्णमूर्तौ तां पूजयेत् सती ॥ ७४॥
सङ्कल्पयेन्महालक्ष्मि! पुत्र्यर्थं पञ्चमीव्रतम् ।
करोम्यद्य निराहारं निर्विघ्नं पूर्णमस्तु मे ॥ ७५॥
तन्निमित्तं पूजनं ते मातः करोमि शोभनम् ।
आगच्छाऽत्राऽऽसने तिष्ठ गृह्ण पाद्यं शुभार्घ्यकम् ॥ ७६॥
आचमनं ततः पञ्चामृतस्नानं विधेहि च ।
अभिषेकं गन्धिजलैर्गन्धिसारयुतैः कुरु ॥ ७७॥
वस्त्राभरणभूषालङ्कारशृङ्गारकं वह ।
सौभाग्यद्रव्यसिन्दूरान् पुष्पहारान् प्रयुङ्क्ष्व च ॥ ७८॥
धूपं दीपं च नैवेद्यं दुग्धसारं च पायसम् ।
मिष्टान्नानि विचित्राणि भुङ्क्ष्व शाकफलानि च ॥ ७९॥
जलपानं ततस्ताम्बूलकं स्वीकुरु चोत्तमम् ।
आरार्त्रिकं पुष्पमालां प्रार्थनां स्वीकुरु ध्रुवाम् ॥ ८०॥
प्रदक्षिणां नमस्कारान् दण्डवत् स्वीकुरु त्वथ ।
देहि पुत्रीं त्वत्सरूपां सर्वसौभाग्यशालिनीम् ॥ ८१॥
सर्वाङ्गशोभनां रम्यां पद्मिनीं मन्थरागतिम् ।
सेविकां तोषहेतुं च दिव्यर्द्धिं शान्तिचन्द्रिकाम् ॥ ८२॥
दीर्घजीवां च नीरोगां सम्पदामीश्वरीं सतीम् ।
वंशशोभां पतिपुत्रभाग्यवतीं च सद्गुणाम् ॥ ८३॥
परमेश्वरभक्तां ते भक्तां देहि सुपुत्रिकाम् ।
इत्यभ्यर्थ्य ततो भक्तिं कुर्यात् कीर्तनरूपिणीम् ॥ ८४॥
जपमालां यथाशक्त्यावर्तयेद्भक्तिमानसा ।
मध्याह्नेऽपि सुनैवेद्यं जलं ताम्बूलकं दिशेत् ॥ ८५॥
प्रस्वापयेत्ततश्चोत्थापयेत् फलं समर्पयेत् ।
जलं समर्पयेद्रात्रावारार्त्रिकं सुपूजनम् ॥ ८६॥
कुङ्कुमाऽबीरकस्तूरीकर्पूरकुसुमादिभिः ।
पायसाद्यैर्भोजनं च कारयित्वाऽथ नर्तनम् ॥ ८७॥
कीर्तनं गायनं चापि चरेज्जागरणं निशि ।
व्रतकर्त्री ततः प्रातः स्नात्वा संस्नाप्य मातरम् ॥ ८८॥
महालक्ष्मीं पूजयित्वा सम्भोज्याऽऽरार्त्रिकोत्तरम् ।
देहि पुत्रीं व्रतं पूर्णं कृतं क्षमां कुरु व्रते ॥ ८९॥
अपूर्णं पूर्णतां यातु त्वत्प्रतापात् परेश्वरि ।
इत्यभ्यर्थ्य नमस्कृत्वा विसर्जयेत्ततः परम् ॥ ९०॥
पतिं स्वं भोजयित्वा तत्पादाङ्गुष्ठजलामृतम् ।
लक्ष्मीप्रसादसहितं पीत्वा भोजनमाचरेत् ॥ ९१॥
दद्याद्दानानि विधिना यथाशक्ति यथाधनम् ।
कन्यायोग्याम्बरभूषाशृङ्गारादि समस्तकम् ॥ ९२॥
कन्यकां भोजयेदष्टाऽवरां दद्यात्सुदक्षिणाम् ।
एवं कुर्याद्व्रतं लक्ष्मि पुत्रीप्राप्तिप्रदायकम् ॥ ९३॥
कृष्णे यथा तथा शुक्ले चतुर्विंशतिपञ्चमीः ।
कुर्यान्निरुक्तरूपेण व्रतिनी पुत्रीदायिनीः ॥ ९४॥
स्वप्ने त्वागत्य सा ब्रूयान्महालक्ष्मीः सुकन्यका ।
पुत्री ते भाविनी साध्वि वर्षव्रतोत्तरं ततः ॥ ९५॥
उद्यापनं प्रकुर्याच्च शय्यादानसमन्वितम् ।
महालक्ष्मीप्रपूजां च कारयेत् सर्वभद्रके ॥ ९६॥
महोत्सवं कारयेच्च धेनुं दद्यात् सवत्सिकाम् ।
कन्यादानं दापयेच्च यथाशक्ति यथाधनम् ॥ ९७॥
नमो लक्ष्म्यै नमो धिष्ण्यै नमः पुत्र्यै नमः श्रियै ।
रमायै ललितायै च महालक्ष्म्यै नमोऽस्तु ते ॥ ९८॥
यथर्तुपुष्पमालाद्यैर्यथर्तुफलसद्रसैः ।
प्रीयतां मे महालक्ष्मि पुत्रीदात्री च मे भव ॥ ९९॥
एवमाराधयेद्देवीं कम्भराश्रीं सदा व्रते ।
वित्तशाठ्यं न वै कुर्यात् कन्या शठा न जायते ॥ १००॥
गर्भिणी सूतिका वापि रोगिणी शुद्धिवर्जिता ।
आपद्गता स्त्रियाऽन्यथा कारयेत् प्रयता स्वयम् ॥ १०१॥
अतिदुर्भाग्ययुक्ताया वर्षत्रयव्रतैर्ध्रुवम् ।
पुत्रीप्राप्तिभवेदेव ललिताश्रीकृपाकणात् ॥ १०२॥
पुत्रीप्रसवमालोक्य व्रतं देव्यै समर्पयेत् ।
व्रतं पुत्रीफलान्तं वै कर्तव्यं चिरमेव हि ॥ १०३॥
आरम्भः फाल्गुने कृष्णे समाप्तिः पुत्रिकाऽर्जने ।
कम्भराश्रीमहालक्ष्म्या कृतमासीत् त्विदं व्रतम् ॥ १०४॥
सन्तोषाख्या वासुदेवी लक्ष्मीस्तेन सुताऽभवत् ।
इत्येतत्कथितं लक्ष्मि व्रतं परमपावनम् ॥ १०५॥
पुत्रीव्रतं नरो नारी कृत्वा पुत्रीमवाप्नुयात् ।
समुद्रः कृतवानेतल्लक्ष्मीं पुत्रीमवाप सः ॥ १०६॥
सदाशिवः कृतवाँश्च जयां पुत्रीमवाप सः ।
ब्रह्मा व्रतं कृतवाँश्च ललितां प्राप वै सुताम् ॥ १०७॥
दिशो व्रतं कृतवत्यश्चापुः पद्मावतीं सुताम् ।
सूर्यो व्रतं कृतवाँश्च प्रभां पुत्रीमवाप ह ॥ १०८॥
कल्पद्रुमा व्रतं कृत्वा श्रीं पुत्रीमापुरेव ते ।
दिव्या विभूतिरेवैतत् कृत्वाऽऽप माणिकीं सुताम् ॥ १०९॥
वैराजी च व्रतं कृत्वा कमलामाप पुत्रिकाम् ।
ख्यातिश्चैतद्व्रतं कृत्वा प्राप श्रीभार्गवीं सुताम् ॥ ११०॥
धरणिस्तद्व्रतं कृत्वा प्राप पद्मावतीं सुताम् ।
एवमेतन्नान्यथाऽस्ति सफलं तद्गतं ध्रुवम् ॥ १११॥
कन्यार्थी निजपत्नीं सङ्गच्छेद्वै पञ्चमेऽथवा ।
सप्तमे नवमे चैकादशे त्रयोदशे च वा ॥ ११२॥
पञ्चदशे शुभे काले दिनसङ्ख्यागते निशि ।
बीजदाने कन्यका सा जायते गर्भसम्भवा ॥ ११३॥
बीजदाने वायुदेवो वामपार्श्वे गतिप्रदः ।
तदा कन्या भवेदेव दक्षपार्श्वे कुमारदः ॥ ११४॥
एवमेतन्न सन्देहस्ततो ज्ञात्वा व्रजेदृतुम् ।
पठनाच्छ्रवणादस्य वंशदं सत्फलं भवेत् ॥ ११५॥
इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे
१२२-अध्यायान्तर्गतं पुरुषोत्तमप्रोक्तं पुत्रीप्राप्त्यै
करणीयं पुत्रीव्रतवर्णनं सम्पूर्णम् ।
लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय १२२/६६-११५॥
lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 122/66-115..
Proofread by PSA Easwaran