पुरुषोत्तमेन लक्ष्म्यै प्रोक्तं वधूभिः जपनीयाः मन्त्राः
मम नामस्मृतिसङ्कीर्तनाढ्यास्तु योषितः ।
त्वं लक्ष्मीर्मम सर्वस्वरूपा कृष्णस्य वल्लभा ॥ ६॥
गृहे क्षेत्रे तथा वासे तस्या वससि वर्ष्मणि ।
षोडशाऽक्षरमन्त्रं मे पठमाना पुरेन्द्रजा ॥ ७॥
जयन्ती जन्ममूका सा सार्वज्ञ्यं च सरस्वतीम् ।
प्राप पाण्डित्यमुत्कृष्टं बृहस्पतिसमाऽभवत् ॥ ८॥
``ॐ नमः श्रीकृष्णनारायणाय स्वामिने नमः'' ।
इत्येवं जपकर्त्र्या वै नैपुण्यं जायते मतौ ॥ ९॥
``ॐ नमः श्रीकृष्णनारायणाय पतये स्वाहा'' ।
इति जपं प्रकुर्वन्त्याः सौभाग्यं सुस्थिरं भवेत् ॥ १०॥
``कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ।
शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव'' ॥ ११॥
इत्येवं जपमानाया नाथो नारायणस्त्वहम् ।
भूत्वा ददामि मे धामाऽक्षरं शाश्वतमोदनम् ॥ १२॥
``ब्राह्म्यहं श्रीकृष्णनारायणभक्ताऽस्मि शाश्वती ।
अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे'' ॥ १३॥
इत्येवं जपमाना वै लक्ष्मीरूपां करोम्यहम् ।
``बालकृष्णः परब्रह्म मम वै शाश्वतः पतिः ॥ १४॥
पिता बन्धुः सुहृन्मित्रं रक्षकः पालकोऽस्तु सः'' ।
इत्येवं जपमाना वै ब्रह्मप्रियां करोम्यहम् ॥ १५॥
``शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वदा'' ।
इत्येवं जपमानाया नाशयाम्यघसञ्चयम् ॥ १६॥
``अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
परब्रह्माऽक्षरातीतोऽवताराणां स्वरूपधृक् ॥ १७॥
अन्तर्यामी सदाऽस्मासु भगवान् सर्वकारणम् ।
सर्वान्तरात्मा सर्वेशो निर्लेपो मोक्षदः स हि ॥ १८॥
पावनः सेवितो भुक्तिमुक्तिदश्च सदाऽवतु'' ।
इत्येवं जपमानायै ददामि कमलापदम् ॥ १९॥
``ब्रह्मप्रियाः समस्ताश्च राधालक्ष्म्यादियोषितः ।
परब्रह्मस्वरूपाश्च परब्रह्मार्धमूर्तयः ॥ २०॥
परब्रह्मार्थसर्वस्वा दिव्या भुक्तिप्रमुक्तिदाः ।
तत्सम्बन्धिक्रियाश्चापि निर्गुणा मोक्षदाः सदा'' ॥ २१॥
इत्येवं जपमाना वै मुक्तानीं प्रकरोम्यहम् ।
``यो यो या या बालकृष्णं तत्प्रियाश्च भजत्यपि ॥ २२॥
स सः सा सा तत्स्वरूपा दिव्या मोक्षप्रदा सदा'' ।
इत्येवं जपमानाया दिव्यरूपं प्रजायते ॥ २३॥
``ॐ नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा ।
इत्येवं जपमाना स्वे रूपेऽन्तर्भावयाम्यहम् ॥ २४॥
``ॐ श्रीकृष्णनारायणः शरणं मे'' इतिमनुम् ।
जपन्त्याः साधयाम्येव पुरुषार्थचतुष्टयम् ॥ २५॥
``कृष्णस्य प्रियभक्ताऽहं श्रीहरिंः शरणं मम'' ।
``श्रीकृष्णस्सर्वविद्याब्धिः श्रीस्वामी शरणं मम'' ॥ २६॥
``श्रीकृष्णो वल्लभस्वामी श्रीहरिः शरणं मम'' ।
इतिमन्त्रान् जपन्त्या मे नित्यवासोऽस्ति सा मयि ॥ २७॥
इमे मन्त्रा मया लक्ष्मि स्वमूर्तयः प्रकाशिताः ।
``मत्समा मत्स्वरूपास्ते मद्वत्कार्यार्थसाधकाः'' ॥ २८॥
श्रीकृष्णो वल्लभो नाथः शरणं मे'' इति मनुः ।
सर्वार्थदो द्वादशार्णस्तन्माहात्म्यं वदामि ते ॥ २९॥
एतद्वै कथितं लक्ष्मि द्वादशाक्षरवैभवम् ॥ ३७॥
पठतां शृण्वतां चापि ध्रुवं वै परमं पदम् ।
अपि पापसमाचारा द्वादशाऽक्षरतत्परा ॥ ३८॥
प्राप्नोति परमं स्थानं मे शुभं त्वक्षराभिधम् ।
``ॐ'' इत्येकाक्षरं मन्त्रं जपन् याति परां गतिम् ॥ ३९॥
``कृष्ण'' इति द्व्यक्षरं मन्त्रं जपन् गोलोकमृच्छति ।
``श्रीकृष्ण'' त्र्यक्षरं मन्त्रं जपन् गोलोकमुत्तमम् ॥ ४०॥
``वासुदेव'' इति मन्त्रं वा ``राधाकृष्ण'' इति वा जपन् ।
चतुर्वर्णं मनुं याति त्वया कृतं निजालयम् ॥ ४१॥
``ॐ नारायण'' पञ्चार्णं जपन् श्वेताक्षरं पदम् ।
``नमो नारायणाय'' इति जपन् ब्रह्माक्षरं पदम् ॥ ४२॥
``ॐ श्रीकृष्णनारायण'' जपन् यात्यक्षरं पदम् ।
``लक्ष्मीनारायणश्रीरों'' इति गृणन् विकुण्ठकम् ॥ ४३॥
``अनादिकृष्णनारायण'' इत्यपि चाऽक्षरं पदम् ।
``अनादिश्रीकृष्णनारायण'' इति दिव्यमक्षरम् ॥ ४४॥
``ॐ माणिकीश्रीकृष्णनारायण'' इति पराऽक्षरम् ।
पदं याति जपन् देवि लक्ष्मि धामोत्तमोत्तमम् ॥ ४५॥
``ॐ सुखदा लक्ष्मी कृष्णनारायण'' इति मत्पदम् ।
प्राप्नोति जपवान् भक्तो भक्तानी जपसंयुता ॥ ४६॥
``श्रीकृष्णो वल्लभः स्वामी शरणं मे'' मनुं त्विमम् ।
मनुमूर्धन्यमुत्साहाज्जपन् याति ममान्तरम् ॥ ४७॥
``ॐ श्रीकृष्णाय नमः'', ``ॐ नारायणाय नमः'' ।
``ॐ वासुदेवाय नमः'' ``ॐ महाविष्णवे नमः'' ॥ ४८॥
``ॐ विष्णवे नमः'' इति च ``ॐ सदाशिवाय नमः'' ।
``ओ हिरण्यगर्भाय नमः'' ``ॐ शिवाय नमः'' तथा ॥ ४९॥
``ॐ रामादित्याय नमः'' ``ॐ नृसिंहाय नमः'' च ।
``ॐ कपिलाय नमः'', ``ॐ श्रीहरये नमः'' च ॥ ५०॥
``ॐ दत्तात्रेयाय नमः'' ``ओमृषभाय नमः'' च ।
``ॐ वामनाय नमः'' च ``ॐ पर्शुरामाय नमः'' ॥ ५१॥
``ॐ यज्ञाय नमः'' ``ॐ सनत्कुमाराय नमः'' च ।
``ॐ व्यासाय नमः'' इति च ``ॐ बुद्धाय नमः'' तथा ॥ ५२॥
``ॐ नरनारायणाय नमः'' ``ॐ ब्रह्मणे नमः'' ।
``ॐ परब्रह्मणे नमः'' ``ओमन्तर्यामिणे नमः'' ॥ ५३॥
``ॐ माधवाय नमः'' च ``ॐ गोविन्दाय नमः'' च ।
ॐ केशवाय नमः'' ``ॐ श्रीपतये नमः'' च ॥ ५४॥
``ॐ स्वामिने नमः'' ``ओमक्षरातीताय नमः'' च ।
``ॐ पुरुषोत्तमाय नमः'', ``ॐ परमात्मने नमः'' ॥ ५५॥
``ओमनादिश्रीकृष्णनारायणाय विद्महे ।
गोपालकृष्णात्मजाय धीमहि ।
तन्नः कम्भराश्रीसुतः प्रचोदयात्'' ॥ ५६॥
एते मन्त्राः सदा लक्ष्मि भुक्तिमुक्तिफलप्रदाः ।
तत्तद्धामप्रदाः सर्वे पापतापप्रणाशकाः ।
सर्वपुमर्थदाश्चापि सर्वेच्छापूरकास्तथा ॥ ५७॥
सहस्रं चाऽयुतं चापि लक्षं कोटिर्जपा मताः ।
यथाश्रद्धं यथासङ्ख्यं यथावेगं फलप्रदाः ॥ ५८॥
``ॐ श्रियै नमः'' ``ॐ लक्ष्म्यै नमः'' ``ॐ रमायै नमः'' ।
``ॐ महालक्ष्म्यै नमः'' ``ॐ नारायण्यै नमः'' च वै ॥ ५९॥
``ॐ ब्राह्म्यै नमः'' ``ॐ पुरुषोत्तम्यै नमः'' तथा ।
``ॐ वैष्णव्यै नमः'' ``ॐ कमलायै नमः'' ``ॐ मायै नमः'' ॥ ६०॥
``ॐ वासुदेव्यै नमः'' ``ॐ कृष्णायै नमः'' इत्यपि ।
``ॐ माधव्यै नमः'' ``ॐ परमेश्वर्यै नमः'' इति ॥ ६१॥
``ॐ शिवायै नमः'' ``ओमन्तर्यामिण्यै नमः'' इति ।
``ॐ महावैष्णव्यै नमः'' ``ॐ पद्मायै नमः'' तथा ॥ ६२॥
``ॐ कम्भरालक्ष्म्यै नमः'' ``ॐ प्रज्ञायै नमः'' तथा, ।
``ॐ राधायै नमः'' च ``ॐ ब्रह्मप्रियायै नमः'' च ॥ ६३॥
``ॐ हरिण्यै नमः'' ``ॐ हरिप्रियायै नमः'' तथा ।
``ॐ हिरण्यमय्यै नमः'' ``ॐ कार्ष्णवाल्लभ्यै नमः'' ॥ ६४॥
``ॐ पार्वत्यै नमः'' ``ॐ माणिक्यायै नम'' इत्यपि ।
``ॐ सुखदालक्ष्म्यै नमः'' ``ॐ शिवराज्ञीश्रियै नमः'' ॥ ६५॥
``ॐ नारायणीश्रियै नमः'' ``ॐ धामिन्यै नमः'' ।
``ॐ सुखदालक्ष्म्यै विद्महे नारायणीश्रियै धीमहि ।
तन्नः शिवराज्ञीश्रीः प्रचोदयात् ॥ ६६॥
आ कृष्णाय विद्महे वल्लभाय धीमहि
प्रज्ञा तन्नः प्रचोदयात् ।
ॐ आचार्याय विद्महे गुरवे धीमहि
पार्वती नः प्रचोदयात् ॥ ६७॥
एते मन्त्राः सदा लक्ष्मि भुक्तिमुक्तिफलप्रदाः ।
यावत्पुमर्थदाः सर्वसुखवाञ्च्छाप्रपूरकाः ॥ ६८॥
शतं सहस्रं चायुतं नियुतं कोटिरित्यपि ।
जप्ताः श्रद्धान्वितास्त्वां मां स्मृत्वा शाश्वतकामदाः ॥ ६९॥
त्वमहं त्वमहं लक्ष्मि सोऽहं सोऽहं जपेच्च यः ।
स्मृत्वा मां चापि तस्मै च तस्यै ददाम्यहं निजम् ॥ ७०॥
ममासनं मम धाम ममात्मानं ददामि च ।
मद्भक्तार्थं मम सर्वं शेषयामि न चार्पणे ॥ ७१॥
(Mantras - given in inverted commas (`-`) above
are to be muttered by married women -
as told by Lord Purushottama to Shree Lakshmi)
इति श्रीलक्ष्मीनारायणीयसंहितायाः द्वापरयुगसन्तानात्मकस्य तृतीयखण्डे
६२-अध्यायान्तर्गतं पुरुषोत्तमेन लक्ष्म्यै प्रोक्तं वधूभिः जपनीयाः मन्त्राः ।
लक्ष्मीनारायणीयसंहिता । खण्ड ३। अध्याय ६२/६-७१॥
lakShmInArAyaNIyasaMhitA . khaNDa 3. adhyAya 62/6-71..
Proofread by PSA Easwaran