रत्नमालास्तोत्रम्
विमलशून्यकृपार्द्रचित्तं मार्गज्ञताप्रथितदेशनयार्थवाचम् ।
सर्वज्ञतादिपरिपूर्णविशुद्धदेहं ज्ञानाधिकारललितं शिरसा नमामि ॥ १॥
वैनेयभेदवशतो बहुधावभासैरेकोऽपि पात्रगजलेषु शशीव यस्मात् ।
संलक्षसे परहितानुगतैव तस्माद् बुद्धिस्त्वहो परमविस्मयनीयरूपा ॥ २॥
सम्पूर्णचन्द्रवदने ललितो ललाटदेशाद्विनिर्गतमहेश्वरदेवपुत्रः ।
वैनेयशाम्भवजनप्रतिबोधनार्थं देवाधिदेवप्रतिमानुज ईश्वरस्त्वम् ॥ ३॥
वैनेयकोमलभवप्रतिबोधनाय किं धाम सम्भृत महाशुभलक्षणं ते ।
निर्यात एव हि पितामहदेवपूजां लोकेश्वरेश्वरपरं शिरसा नमामि ॥ ४॥
वैनेयवैष्णवजनप्रतिबोधनाय राजीवपाणिहृदयात् प्रतिनिःसृतोऽसौ ।
नारायणोऽपि भुवनेश्वर एव तस्मात् पुंसां त्वमेव परमोत्तम एव नान्यः ॥ ५॥
चन्द्रार्कसादरबलाहितभक्तिभाजां सन्दर्शनार्थमिभनीलसुलोचनाभ्याम् ।
यन्निःसृतौ शशिरवी भुवि लोचनाभ्यां ध्वस्तान्तरालतमसं तमहं नमामि ॥ ६॥
सारस्वतीविनययोजितभक्तिभाजां बोधाय वै भगवतीह सरस्वतीयम् ।
दृष्टाग्रतस्तव जिनात्मजपप्रसूता प्रज्ञाभिलाषिफलदं तमहं नमामि ॥ ७॥
वैनेयवायुजनिताक्षरमार्गसिद्ध्यै यो लोकनाथ सुगतोऽथ विनिःसृतोऽसौ ।
देवः समीरणवरो भुवि जन्मभाजामीर्यापथार्थफलदं तमहं नमामि ॥ ८॥
वैनेयवारुणशिवायनमीप्सितानां सम्बोधनार्थमुदरात्सुगतात्मजानाम् ।
यन्निःसृतो वरुणदेववरोऽप्यकस्मादैश्वर्यसिद्धि फलदं तमहं नमामि ॥ ९॥
वैनेयसम्मतफलाद्यभिलाषिणो वै संसिद्धये प्रवरलक्षणपादपद्मे ।
यन्निःसृता भगवती धरणी प्रसिद्धा त्रैलोक्यनाथमसमं सततं नमामि ॥ १०॥
संसारमुक्तमपि सुस्थितमेव तत्र कारुण्यतश्च भवचारिणि सत्त्ववर्गे ।
भूयात् स्थितिर्मम सदास्थिरसा भवन्तमेवं महाशयवरं परमं नमामि ॥ ११॥
एकेन पादतलकेन भवत्स्वकेन चक्रान्तसंवरमनन्तरलोकधातौ ।
कल्पान्तदग्धभुवने ज्वलितोग्रवह्निर्निःश्वासवायुबलतस्तव निर्वृतः स्यात् ॥ १२॥
स्वां तर्जनीं मुखधृतोऽहिततर्जनेन
सञ्चालिताश्च बहुमेरुगणा नखस्य ।
कोषोद्धृतं जलधितोयमशेषतः स्यात्
सामर्थ्यमीदृशमहो भवतः कुतोऽन्यत् ॥ १३॥
क्वेदं च शैशवपरं ननु चारुरूपं
सन्दर्शनीयवरकोमलबालचन्द्रम् ।
दुर्वारमारमथनं च मयैकसह्यं
विक्रान्तदुःसहपरं क्व च चेष्टितं ते ॥ १४॥
एषा बताञ्जननिभोरुजनावली सा
कौटिल्यचारुविकटा स्वशिरोरुहाग्रे ।
क्लेशेन्धने ज्वलितविस्फुरितत्ववह्ने-
र्धूमावलीव विमला ननु लक्ष्यते ते ॥ १५॥
त्वत्कान्तिलेशविमला दशदिक्प्रतानैः
पक्षासितक्षयकृशा सकला सुशोभा ।
पर्यन्त इष्टशशिनो भवनेषु यत्ते
मन्ये विराजि निखिलं तव कान्तिलेशात् ॥ १६॥
बन्धुर्हि को मार्गिकसम्मतं मतं नरो नरी सा स च सत्पथं पथम् ।
परार्थसम्पादितसंवरं वरं नमामि भूमीश्वरराजिनं जिनम् ॥ १७॥
अनित्यनिर्वाणपदे स्थितं स्थितं प्रभास्वराधिष्ठितसंहितं हितम् ।
शमीकृताशेषजनं शिवं शिवं नमामि भूमीश्वरराजिनं जिनम् ॥ १८॥
गभस्तिमालामितसङ्कुलं कुलं तत्र स्वपाणौ धृतपङ्कजं कजम् ।
रतानुगाशोभितसंरतं रतं नमामि भूमीश्वरराजिनं जिनम् ॥ १९॥
स्वधर्मधातुं करुणापरं परं शुभादिसम्भारसुसम्भृतं भृतम् ।
विकल्पहीनं ध्वनिदेशकं शकं नमामि भूमीश्वराजिनं जिनम् ॥ २०॥
तथतातथताद्वयशातशतं सदसत्परिपूरितधर्मकथम् ।
कथनीयविराजितसत्यपरं प्रणमे धरणीश्वरराजवरम् ॥ २१॥
वरवारिजरूपि जगत्प्रसरं सरसीरुहलोचनचारुतरम् ।
तरसापि रसत्वविशुद्धिपरं प्रणमे धरणीश्चराजवरम् ॥ २२॥
वरनिर्मितभोगपरार्थरतं रतशून्यनिरञ्जनधर्मधरम् ।
धरणीन्द्रविभूषितसिद्धिपरं प्रणमे धरणीश्वरराजवरम् ॥ २३॥
वरसत्सहजोदधिचन्द्रमुखं सुखभाषितसत्त्वविमुक्तिपदम् ।
पदभूषणलक्षणतानुपरं प्रणमे धरणीश्वरराजवरम् ॥ २४॥
लोकेश्वरेयं(मां) तव रत्नमालामचीकरच्छ्रीवनरत्नपादः ।
अवापि यत्तेन शुभप्रविष्टं तेनैव लोकोऽस्तु समन्तभद्रः ॥ २५॥
इति श्रीमदार्यावलोकितेश्वरभट्टारकस्य रत्नमालास्तोत्रं सम्पूर्णम् ॥