रेने देकार्तदर्शनम्
लेखकः - नन्दप्रदीप्तकुमारः
देशः कालः परिचयश्च-
पुनर्जागरणयुगस्य बुद्धिवादिनो महतो दार्शनिकस्य देकार्तमहोदयस्य १५९६ख्रीष्टाब्दे मार्चमासस्य एकत्रिंशत्तमे दिवसे प्रान्सदेशस्य तुरेन नगरस्य लाहै इत्यस्मिन् स्थाने आविर्भावो जातः । तस्य पितुर्नाम जोकिमडेकार्ट तथा मातुश्च नाम जीनीब्रोचार्ड आसीत् । जन्मनः कियद्दिनात् परं हि तस्य मातृवियोगो संजातः । स्वास्थ्यगतसमस्या तस्य चिरसहचर अभूत् । देकार्तः स्वभावेन विनयी तथा चरित्रवान् आसीत् । गणितविद्यायां तस्य पारदर्शिता आकाशचुम्बिता । देशभ्रमणाय तस्य मनसि भावना तीव्रा जाता । पश्चात्सः सैन्यविभागे योगदानं कृतवान् ।
कृतयः-
हलाण्ड इत्यस्मिन् स्थाने निवासमये तेन Discours de la Methode (दार्शनिक पद्धतिविचारः) Meditationes de prima (प्राथमिकदर्शनमन्थनम्) एवं च Principia philosophia (दार्शनिकसिद्धान्तः) इति सुप्रसिद्धाः त्रयो ग्रन्था विलिखिताः । पश्चात्सः The passion of the soul नामकं पुस्तकं विरच्य स्टकहोम (stockhome) राज्ञ्यै प्राददात् । अन्ते तत्र निमोनिया (pneumonia) रोगाक्रान्तः सन पञ्चतामवाप ।
न केवलं दर्शनशास्त्रे अपितु गणितविद्यायां ज्योतिर्विज्ञाने चापि तस्य महत्वपूर्णा प्रतिभा आसीत् ।
दार्शनिकसिद्धान्तः- (ज्ञानमीमांसा)
ज्ञानं साधयितुं बुद्धेरावश्यकता बलीयसी । एतस्मात् कारणात् ज्ञानमीमांसासु बुद्धिवादोस्न्यतमो वरीवर्ति । बुद्धि-अनुभवयोः कदाचित् ऐकत्वं समामनन्ति विद्वांसः । तौ ज्ञानस्य साधकत्वेन स्वीकृतौ । अनुभवात्ज्ञानोत्पत्तिर्दर्शनात् । अनुभवजन्यज्ञानमयथार्थमिति केचित् । ज्ञानप्राप्त्यर्थमनुपयुक्तत्वात् । तन्नये सार्वभौमिकत्वमनिर्वार्य्यत्वमिति द्विविधं यथार्थज्ञानस्य लक्षणम् । सार्वभौमिकत्वं यथार्थज्ञानस्य एको गुणः । अनिर्वार्य्यत्वमपरः । आद्य न सार्वकालिकः द्वितीयः अपवादरहितः । द्वयोः मिश्रणेन चत्वारवत् गुणद्वयस्य संयोगेन सत्यप्रतीतिः, अन्यथा व्यभिचाराशंका । ननु ज्ञानस्य जननी बुद्धिः तत्कथं कदाचित् मिथ्याज्ञानानुभवाशंका इति चेद् सत्यं कदाचित् दुष्टबुद्ध्या हि मिथ्याज्ञानानुभवदर्शनसम्भवात् । सत्यानृतयोः मिथुनीकृत्य ज्ञानमीमांसासम्भवाच्च । अत्र यथार्थज्ञानं नाम सांसारिकज्ञानाद्भिन्नम् सार्वभौमिकमनिर्वार्यकेवलम् । अत्र ज्ञानस्य विषयो न संसार अपितु शाश्वतः सत्यञ्च । बुद्ध्या यथार्थज्ञानम् । बुद्धौ बीजरूपेण तत्सत् । ज्ञानसिद्धौ बुद्धेः क्रियाशीलता अविसंवादी । इयं पद्धतिर्निगमनात्मिका । अनया सुप्तबीजस्य अंकुरोद्गमो जायते । गाणितिकं ज्ञानं सर्वोत्कृष्टतरं परमादर्शमिति देकार्तमहोदयानां विशिष्टसिद्धान्तः । गाणितं नाम बौद्धिकम् । सर्वदामवितथम् । गाणितिकचिन्तनपद्धत्या सर्वाणि अन्तर्निहितानि ज्ञानानि परिप्रकाशितानि भवन्ति अन्यथा निःसन्दिग्धसर्वमान्यसत्यस्यासम्भवात् । निश्चितज्ञानप्राप्त्यर्थं देकार्तमहोदयस्य बुद्धिवादः पुनर्जागरणयुगस्य अयमारम्भ इति न विप्रतिपत्तिः ।
सन्देहविधिः-
तत्र आश्चर्यादेव ज्ञानसिद्धिरितिविश्वविख्यातग्रीक् दार्शनिकाः प्लेटोपादाः । विश्वासादेवेति मध्ययुगीयाः । सन्देहादिति देकार्तसिद्धान्त अत्र बलवत्तरः । संशयवह्नीमुत्तीर्य शुद्धसुवर्णवत् सत्यं प्रतिष्ठितम् । सत्यमुद्धाटयितुं संशयस्यावश्यकत्वात् । अन्यथा सत्यस्वीकरणमसम्भवम् । अत्र संशयः साधनं न साध्यम् । तत्तु निश्चयात्मकमिति । कस्मिन्नपि विषये सिद्धान्तग्रहणात्प्राक् तद्विषये पूर्वधारणायाः परिहारमवश्यमेव कर्तव्यम् । प्रत्यक्ष-परोक्षाभ्यां जन्यं ज्ञानं सन्दिग्धम् । त्रिकालबाधरहितं निःसन्दिग्धं लब्धुं तस्मिन् विषये सन्देह अवश्यमेव करणीयः । वैज्ञानिकेस्पि सन्देहः कर्तव्यः । तद्वत् इन्द्रियेण आगमेन वा प्राप्तं ज्ञानं कदाचित् असत्याश्रितमेव । रूढि पक्षपातान्धविश्वासादिभिः समन्वितत्वात् । डेकार्तमहोदयस्य इयं पद्धतिः यदिवा सन्देहाश्रिता तथापि स न सन्देहवादी आसीत् । तन्नये सत्यं स्वतःसिद्धं निश्चयात्मकञ्च । तस्य सार्वभौमत्वं सहजत्वमबाधितत्वं सर्वादौ स्वीकार्यम् । साध्यसत्यं साधयितुं सन्देहरूपस्य साधनस्यावश्यकता जायते । उभयोर्मध्ये उपेय-उपायभावस्तेन कल्पितः । यद्वा सत्यं लक्ष्यम् सन्देहश्च लक्षणम् । यदिवा देकार्तमहोदयेन सन्देहात्मकमिन्द्रियज्ञानं, सन्देहात्मकवैज्ञानिकज्ञानं स्वीकृतं तथापि तेन निःसन्दिग्धं सत्यमुत्थापयितुं सन्देहकर्त्तुरात्मनः अस्तित्वं स्पष्टतया प्रतिपादितम् ।
आत्मविचारप्रसंगे तेन उक्तं
अहं चिन्तयामि अहमस्मि (I think therefore I exist) इत्यत्र अनयोः संयोगार्थं अतः शब्दस्य प्रयोगो युक्तियुक्तः स्यात् । सुतरां सन्देहकर्तुरस्तित्वमत्र अबाधितविषय उच्यते । तन्नये आत्मा चिन्तनशीलो मननशीलश्च । मननमेव आत्मनो धर्मः । यदि आत्मा नास्ति तर्हि केन सन्देहः क्रियते । देकार्तमहोदयस्य सिद्धान्तः पाश्चात्यदर्शनेषु स्वकीयं स्थानं भजते इत्यत्र नास्ति विसंवादः । अलमतिविस्तरेण ।
--- लेखकः - नन्दप्रदीप्तकुमारः
श्रीजगन्नाथ संस्कृतविश्वविद्यालयः पुरी
Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com