महाकविः सारलादासः

महाकविः सारलादासः

लेखकः - नन्दप्रदीप्तकुमारः सारलादास उत्कलभूमौ शूद्रमुनिनाम्ना परिचितः । उत्कलव्यास इति तं केचन उद्घोषयन्ति । अस्य महात्मनः कृतिषु हि अस्य वंश-परंपरा-विषये किमपि लिखितमस्ति । तथ्यदृष्ट्या सारलादासः पञ्चदश-शताब्दीय इति तत्कृत-महाभारत परिशीलनेन परिज्ञायते । कपिलेन्द्रदेवस्य राजनि सारलादास आसीदिति तेन भणितम् । तथाहि- ``जमेश्वर लिंग तहिं महोदधि तटे । नीलसुन्दर पर्वत श्रीकलप बटे ॥ विजये रामकृष्ण सुभद्रा महा ब्रह्म । चारिलक्ष वतिश सस्राब्द महातम ॥ कलिकाल ध्वंसन कु भोगगोटि पूजा । प्रणमिते खटै कपिलेश्वर राजा ॥ '' इत्यत्र कपिलेन्द्रदेवस्य अस्तित्वं स्पष्टतया स्थिरीक्रियते । सिद्धेश्वर अस्य पूर्वनाम आसीत् । परिडा अस्य कौलिक उपाधिः । अस्य पितुर्नाम यशोवन्तस्तथा भाता पर्शुराम आस्ताम् । पितृमातृहीनः सिद्धेश्वरः भ्रात्रा पर्शुरामेण परिपालितः । यच्चोक्तं द्रोणपर्वणि- ``आहे प्रभु मोते कर आपणंक भृत्य । यशोवन्त नन्दन मुं मूरुख अत्यन्त ॥ '' अपि चात्र- ``जन्मे जन्मे मूर्ख मुं नारायणंक भृत्यर भृत्य । वाक्य देवी भण्डार मुं कलै भकत ॥ यशोवन्तीर नन्दन श्री वासुदेव मम हृदे । शूद्रमुनि सारोला दास लीन हो श्रीकृष्ण पादे ॥ '' अत्र यशोवन्ती नन्दन शब्देन स आत्मानं श्रीकृष्णदास अर्थेन कथित इति केचन समर्थयन्ति । जात्या शूद्रोऽयं महापुरुषः प्रकृतपक्षे प्रसिद्धः शाक्तः बभूव । उत्कलीय शक्तिपीठेषु अन्यतमः सारलापीठः झंकडः ग्रामः सिद्धेश्वरस्य जन्मस्थान रूपेण स्थिरीकृतः । असौ ``झंकड'' ग्रामः कदाचित् कनकपुरः वा कनकावती पाटणा कदाचिद्वा जंखेरपुर कदा अनुज(सान) सारोला नाम्ना च परिष्कृतः । यच्चोक्तम् महाभारते आदिपर्वणि- ``नीलसुन्दर गिरि उत्तर दिग कोणे । सारस्वत भूमि भ्रतखण्ड ऐशान्ये । चन्द्रभागा बोलि करि नदी एक गोटि । वृद्धमाताङ्क पारुशे महोदधि भेटि ॥ से नदी तीररे पर्शुराम ये घाटै । कनकावती नामे पाटणा प्रकाशै ॥ ता उत्तरे अनुज सरल बोलि ग्रामे । विजये माहेश्वरी सारला चण्डी नामे ॥ '' अन्यत्र- ``कनकपुर पाटणा घर पर्शुराम । मुंहि तार अनुज शारलादास नाम ॥ '' यद्वा- ``झंकडपुर वासिनी ये सारला देवी । ताहांकर कुमर मुं श्रीसारला कवि ॥ '' इति । कनकावती-पट्टण-निवासी तद्भ्राता पर्शुरामो नौकावाहक-रूपेण परिचितः आसीत् । झंकडपीठाधीश्वरी अलौकीक शक्ति संपन्ना माता वाग्देवी सारला सिद्धेश्वरं प्रति अतीव प्रसन्ना आसीत् । सारलादेवीद्वारा सः सारलादास इत्युपाधिना विभूषितः । सारलाकृपया हि महाभारतो विरचितः । तथाहि मध्यपर्वणि- ``जन्मे जन्मे मुंहि शाहास्रवादी । पण्डित जन मध्ये मुं न पशिलि प्रसिद्धि ॥ '' आदि पर्वणि- ``से सिद्धदेवी मोते प्रसन्न होइला । अकलन्ता महाभारत मोते आज्ञा देला ॥ जंखेरपुर वासिनी कृपाजल नन्दिनी । ताहार आज्ञा प्रमाणे मुं होइलि शूद्रमुनि ॥ से सिद्धदेवी चरणे मोर सेवा । शूद्रमुनि सारोल दासकु गति मुक्ति देवा ॥ '' अपि च मध्यपर्वणि- ``न पढि पण्डित मुं कलाइं अभ्यास । वदन्ति शूद्रमुनि ग्रन्थिक श्री सारोला दास ॥ '' द्रोणपर्वणि- ``मूर्ख अपण्डित मुं न जाणै किछि । किञ्चिते सुदया मोते कलेक पिङ्गलाक्षी ॥ '' तत्र मध्यपर्वणि- ``कुस्थाने वसिलि न वसिलि विप्रगोष्ठी । शिशुबुद्धि मोहर वयस अलपटि ॥ '' वनपर्वणि- ``गिरिजा नन्दिनी ये सारोला चण्डी नाम । ताहांकर सदये किछि कहिलि पुराण ॥ रात्र याहा कहै ताहा दिवसे लिखै । एणु करि सदये मोते होइले महामायी ॥ '' इति सारलादासस्य व्यक्तित्व-वैशिष्ट्यं च विषये सयौक्तिकं प्रमाणं वरीवर्ति । सारला महाभारत पर्यालोचनायाः कवेः सारस्वतप्रतिभा अनुमीयते । विलंकारामायणेऽपि तस्य महानुभावस्य कारुण्यं सिद्धेश्वर नाम्ना प्रतिफलितः । यदुक्तम्- ``रामायण वृत्तान्त कु निरन्तरे घोष । श्रीराम चरणे भजे सिद्धेश्वर दास ॥ '' तत्र आश्रमिक पर्वणि- ``जगन्माता जहुं प्रसन्न मोते हेले । शूद्रमुनि सारला दास नाम देले ॥ '' इत्यत्र यदि वा सारलादासो वैष्णवत्वेन निरूपितस्तथापि आपाततः शूद्रमुनिः शाक्त आसीदिति मया पूर्वमुक्तम् । देवी सारलां प्रति तस्य आन्तरिकभक्तिः इत्थं प्रमाणयति महाभारते- ``अदृष्टिकि दृष्टि मुंहि कराइलि आणि । कृपा करिवारु सारला ठाकुराणी । ए पद रचने मुं न करे प्रतिज्ञा । लेखे सारला दिअन्ति मोते याहा आज्ञा ॥ जन्महुं मूर्ख मुं पढिनांहि विद्या । न जाणै जप मन्त्र नुंहै प्रसिद्ध ॥ से माता प्रसादे याहा मने मोर स्फुरे । लेखै ये वसि नील कल्पवट मूले ॥ '' इति तं प्रति सारलायाः अनुकम्पा तेन स्वमुखेन प्रदर्शिता । महाकविः सारलादासः उद्दीप्त साधको विशिष्टो विद्वान् संस्कृतज्ञश्च आसीत् । साधनायाः चरमे क्षेत्रे स प्रविष्टः सम्मानितश्च । पूर्वजन्मेऽयं कालिदासो बभूव । जातिस्मरतां प्रमाणीकृत्व त्रिकालदर्शि-मुनिपदवीं प्राप्तवान् । तत्पूर्वजन्मविषयेऽपि तेन भणितम्- ``प्रथम जन्मरे मुंहि हेलि कालिदास । द्वितीय जन्मरे मुंहि महाकाल ध्वंस ॥ तृतीय जन्मरे मुं सार सारलादास कवि । आउ जन्मे मुंहि मर्त्त्यमण्डले जन्मिवि ॥ प्रतिजन्मे मुंहि पन्दरलक्ष कथा भावि । चारिजन्मे षाठिए लक्ष कथा कहिवि ॥ उक्त कथा कहिसारि ए मर्त्त्यमण्डल । तेवे जाइं होइवि मुं शिव द्वारपाल ॥ '' इति । कार्यान्ते पञ्चमे जन्मनि शिवद्वारपालो भविष्यामीति तस्य प्रतिज्ञापि प्रतिफलिता । स्वकीय कविकर्मविषये तेनोक्तम् चण्डिपुराणे- ``प्रथमे श्री रामायण द्वितीये भारत । तृतीये लिखन मुं कलि शिरी भागवत ॥ '' विलंका रामायणं(दाण्डी रामायण),महाभारतं चण्डीपुराणानि च अस्य समुज्ज्वल ग्रन्थरत्नानि सन्ति । विलंका रामायणमस्य प्रार्थमिकी रचना । शैली दाण्डिवृत्तम् । निर्दिष्टाक्षर संख्या नास्ति । युद्धवर्णनं चात्र - ``विजिघोष दाउण्डि टमक निसाण । वीरवाजा वाद्य बाजै घन घन ॥ राउत माहुन्त पाइक पण्डिकार । सेनापतिमाने होइले बाहार ॥ सातलक्ष पदाति पाञ्चलक्ष रथ । येगार सहस्र मत्तहस्ती उदण्ड ए क्षेत्र ॥ '' चान्ते-'' रामायण रचनाकु निरन्तरे घोष । श्रीराम चरणे भजे सिद्धेश्वर दास ॥ '' विलंका-रामायणमस्य कवेः न कृतिरिति ये कथयन्ति तेषां कृते उपर्युक्तं प्रमाणं ग्रहणीयम् । ननु सिद्धेश्वरः सारलादातात् भिन्नश्चेन्न । यतो हि विलंका रामायणे- ``सारला दास शरण पशे से चरणे । मूर्ख मुंहि अपण्डित शास्त्र हिं न जाणे ॥ बुद्धि ध्यान ज्ञान योग लय किछि नांहि । ग्रन्थ भेदिवाकु शक्ति मोर अवा कांहि ॥ श्री सारला चण्डीङ्कर सदा अटे दास । आज्ञारे मुं शास्त्र किछि करिछि अभ्यास ॥ से याहा करन्ति आज्ञा मुं ताहा लेखै । अपण्डित मूर्ख मोर शास्त्र ज्ञान नांहि ॥ '' इति । अपि चात्र- ``जय जय अपर्णा गो तो पादे शरण । सारला दासकु मात कर परित्राण ॥ आहे साधु सुज्ञजने मोर निवेदन । दोषा दोष थिले क्षमा करिव आपण । झंकड वासिनी मात अभया कृपारे । जनहिते ए ग्रन्थकु कलि मुं भाषारे ॥ '' इति ग्रन्थकृत्विवक्षा स्फ्ष्टा । चण्डीपुराणं देवीभागवतनाम्ना ख्यातम् किन्तु न देवीभागवतस्यानुवादरूपम् । माहेश्वर्याः दुर्गायाः अवतार प्रसंगोऽत्र वर्णितः स्वतन्त्ररीत्या । अनुपम चरित्राणां वर्णनमपि अत्र काल्पनिकम् । वर्णनाविलासोऽत्र चमत्कारः । रूपवर्णन- युद्धवर्णन-प्रसंगे च कवेः सामर्थ्यम् उल्लेखनीयम् । तथाहि महिषासुरस्य अभियान प्रसंगे- ``येतेबेले दुरान्तक माडि याउअछि । जन मनुष्य सहिते न रहन्ति किछि ॥ येसनेक वनस्त भांगन्ति वात घाते । सेहिपरि हुअन्ति दैतर पाद घाते ॥ देवे अपसरन्ति येवण बल देखि । मानव मात्रकु छार किस ताहा लेखि ॥ गान्धार देश पारिजातेक देश नेपालि देश वारस्वती । सकल देशमान होउंछन्ति सन्धन्ति ॥ नाट चोट कर्णाट तिहुडि चुन्देरी । भांगिण नग्रन्त भण्डार दूर करि ॥ '' इति । रूपवर्णनायां कवेः कौशलमत्यन्तम् उपभोग्यम् । चण्डमुण्डमुखाभ्यां दुर्गारूपवर्णनमत्र मनोरमम्- ``स्वामि नवसृष्टि रचन्ता छाडिण प्रजापति । केतेकाल गढिला अमूल्य रत्नकान्ति ॥ अत्यन्त समत नोहै वक्ष स्थल । तथि उपरे भारा ताहार कुच मण्डल ॥ एते बड भारा अटै क्षीण मझि । उच्चुर्ग नोहै सूक्ष्म अटै सुभागि ॥ अनेक युगे घटणा कला स्तिरी रत्नकान्ति । भांगि केतेबेले से गढिव प्रजापति ॥ '' इति । सारलापूर्वं ``महाभारत'' मिति विशालो ग्रन्थ ओडिआ साहित्ये प्रागेव नासीत् । असाधारण संस्कृतविद्वान् सारलादासः उत्कलभाषया सर्वादौ महाभारतस्य आयोजनं चकार । स्वतन्त्र शैल्या तेन महाभारतस्य विषयवस्तु आदिशक्तिकटाक्षेण उपस्थापितम् । तथाहि महाभारते- अगाध सागर एहु श्रीमहाभारत । सबु सञ्चपि कहिले हेब अप्रमित ॥ एसन बिचारि ठिके ठिके ये कहिबि । मो हृदे माला परम माहेश्वरी देवी ॥ इति । लक्षश्लोकयुक्तं अष्टादशपर्व विशिष्टं महाभारतं व्यासकृतं तावत् १आदिपर्व २-सभापर्व ३-वनपर्व ४-विराट पर्व ५-उद्योग पर्व ६-भीष्म पर्व ७-द्रोण पर्व ८-कर्णपर्व ९-शल्यपर्व १०-सौप्तिक पर्व ११-स्री पर्व १२-शान्तिपर्व १३-अनुशासन पर्व १४-अश्वमेध पर्व १५-आश्रमिक पर्व १६-मौषक पर्व १७-महाप्रस्थानिक पर्व १८-स्वर्गारोहण पर्व प्रमुखानि अष्टादशानि प्रसिद्धानि । सारला महाभारते तु १-आदि पर्व २-मध्य पर्व ३-सभापर्व ४-वन पर्व ५-विराट पर्व ६-उद्योग पर्व ७-भीष्म पर्व ८-द्रोण पर्व ९-कर्ण पर्व १०-शल्य पर्व ११-गदा पर्व १२-कांइशिका पर्व १३- नारी पर्व १४-शान्ति पर्व १५-आश्रमिक पर्व १६-अश्वमेध पर्व १७-मूषली पर्व १८-स्वर्गारोहण पर्व भेदेन भिद्यन्ते । मूल संस्कृत व्यासकृत महाभारतं कदाचित्तेन प्रत्याख्यातम् । कदाचित् स्वतन्त्रमतमुपस्थापितम् । महाभारतस्य अन्तिम युद्ध समये दुर्योधनस्य रक्तनदी सन्तरण प्रसंगं सारलादासस्य वर्णन अतीव भयानकम् । रण क्षेत्रे रक्तनदी गभीरा प्रवहति तीक्ष्णा स्त्रोतस्विनी । मृतशवा भासमाना । एकपार्श्वादपरपार्श्वं यातुं यदा सः एकैकान् शवान् गृह्णाति तदा ते रक्तनद्यां निमज्जन्ति । कियत्कालमपि तं धारयितुं समर्था न भवन्ति । किं करिष्यामीति चिन्ता दुर्योधन मनसि जर्जरिता अकस्मात्सः अपर शवं गृह्णाति । सः हृष्टपृष्ट आसीत्, बलिष्ठ च आसीत् । तपृष्ठमादाय सुखेन नदी पारितः । उक्तं च- ``केहि रकत नदीरु न कलेक पारि । केवण महात्मा मोर एडे उपकारी ॥ '' इति कस्त्वम् महात्मा मम परम सहायक इति मनसि निधाय यदा शवं सम्मुखीकृतः भो भो इति स्वरेण क्रन्दयामास । लक्ष्मणकुमारोऽसौ महात्मा दुर्योधनस्य पुत्र आसीत् । क्रन्दनरतो दुर्योधनः भणति- ए सोम वंशरे तुहि एका पुत्र गोटि । वंश वुडाइला मोर काटि देला तोटि ॥ जन्म ठारु आजि याए चाहि तोर मुख । वञ्चुथिलि एवे मुंहि होइलि निरेख ॥ नेत पाट पतनी ये नाना पुष्पगभा । रकते कर्दम एवे होइलारे वावा ॥ अमरावतीर प्राये तो भुवन गोटि । ताहा तु उपेक्षा करि रक्तमांसे लोटि ॥ मृगनाभ कस्तूरी मुं तो देहे लेपै । एवे पोति याउ अछि माटिरे मिशाइ ॥ अति सुकुमार तुरे कुमार लक्ष्मण । वर्षे वाहुनिले तोर न सरिव गुण ॥ वावु नव सृष्टि चिन्ता छाडि प्रजापति । केतेकाल वसि यत्ने गढिला तो मूर्त्ति ॥ मोहर पराए पिता तोर आउ नोहु । तोहर पराए पुत्र जन्मे जन्मे हेउ ॥ `` इत्यत्र दुर्योधनस्य मनोदशा सारला साहित्ये स्वतन्त्रा प्रतीयते । स्थान काल पात्रभेदेन बहुषु क्षेत्रेषु सारला महाभारतस्य स्वतन्त्रता प्रत्यक्षीक्रियते । पर्वभेदेन सारला महाभारते विशेषता प्राप्यते । ``या निशा सर्वभूतानां तस्यां जागर्ति संयमी । यस्यां जागर्ति भूतानि सा निशा पश्यतो मुनेः ॥ '' इति भगवद्गीतावाक्यं तेन सरल भाषया भीष्म पर्वणि व्याख्यातम् । तथाहि- ``प्राणिंकि ये ब्रह्मज्ञान विभावरी परि । तंहिरे योगी जन हुअन्ति उजागरी ॥ एइ येंउ जाण प्राणींक दिवस । योगीजन मानंकु से अन्धार सदृश ॥ इति अन्यत्रापि ``वासांसि जीर्णानि यथा विहाय'' इत्यस्य व्याख्यानावसरे महाभारते उक्तम्- चीरा लुगा छाडि नूआ पिन्धिला पराए । आत्मा याइ करि पुणि नूआ देह पाए ॥ आत्माकु टि शस्त्र केवे न पारै काटि । अग्नि पोडि न पारन्ति आत्माकु किरीटि ॥ सढाइ न पारे पुणि ताहाकु ये जल । सुखाइ न पारे ताकु अणुए अनिल ॥ इति गीतायाः गूढतत्त्वं तेन स्वमुखेन प्रकम्पितम् । महाकवि सारलादास उत्कलस्य वरपुत्रः । ओडिआ साहित्यक्षेत्रे तस्य अवदानमवर्णनीयम् । अनुपमा तस्य महिमा । तस्मै भारती वरपुत्राय नमो नमः । सहायक ग्रन्थाः १. शारला चरित- मृत्युञ्जय रथः २. सारला स्मरणिका-प्रजातन्त्र प्रचार समित्तिः ३. सारला दास- पठाणि पट्टनायकः ४. ओडिआ साहित्यर इतिहास सम्पर्करे-१म भाग अध्यापक हेमन्त कुमार दासः अध्यापकः निशामणि मिश्रः ५. प्रफेसर कृष्णचन्द्र साहु रचना सम्भार-५म भाग ६. ओडिआ साहित्य इतिहासर समालोचना-विनायक मिश्रः ७. ओडिसार इतिहास-प्यारीमोहन आच्यार्यः ८. ओडिशार नूतन इतिहास, १म भाग विनायक मिश्रः ९. सन्थ भक्ति साहित्य, ओडिआ साहित्य एकाडेमी १०. सारला महाभारत -आदिपर्व१म ख-संग्राहक -आर्त्तवल्लभ महान्तिः ११. सारला महाभारत -आदिपर्व२य ख-संग्राहक -आर्त्तवल्लभ महान्तिः १२. सारला महाभारत -मध्यपर्व१म ख-संग्राहक -आर्त्तवल्लभ महान्तिः १३. सारला महाभारत -मध्यपर्व२य ख-संग्राहक -आर्त्तवल्लभ महान्तिः १४. ओडिआ साहित्यर इतिहास संपर्करे-१म अध्यापक हेमन्त कुमार दासः, निशामणि मिश्रः --- लेखकः - नन्दप्रदीप्तकुमारः Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Text title            : sAralAdAsaH mahAkaviH
% File name             : sAralAdAsaHmahAkaviH.itx
% itxtitle              : mahAkaviH sAralAdAsaH (lekhaH)
% engtitle              : sAralAdAsaH mahAkaviH
% Category              : misc, article, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/religion
% Transliterated by     : Pradipta Kumar Nanda
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : October 7, 2021
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org