संस्कृतवर्षम्

संस्कृतवर्षम्

वर्षं सुहर्षं प्रददातु लोकान् सौभाग्यलक्ष्मीश्च विभातु विश्वे । ज्ञानप्रदीपाञ्ज्वलयन् सहर्षं मोहान्धकारं हरतु प्रगाढम् ॥ १॥ सा विश्ववन्द्या सुरभारती नो निराश्रया तिष्ठति भूतलेऽद्य । सा भारती भारतभूमिभागे विभातु भासा नवभास्कराणाम् ॥ २॥ सा ज्ञानगङ्गा नवगौरवत्वं सम्प्राप्य वर्षे च नवैः प्रवाहैः । पुनश्च भूमिं परिमार्जयन्ती देशस्य लोकान् प्रददातु मोदम् ॥ ३॥ वर्षे च सारस्वतशुद्धविद्या विद्यालयेष्वेव लसन्तु नित्यम् । या वैदिकी वेदमयी विशाला सा भारती भारते भातु नित्यम् ॥ ४॥ विश्वस्य विज्ञा विलसन्तु नित्यं प्रज्ञा च विज्ञानमयी विभातु । अज्ञाः समस्ताः परिहाय तेषां कुकर्मवृत्तिं सुखिनो भवन्तु ॥ ५॥ या संस्कृतश्रीः सकलं ददाति या माननीया जननीति गीतिः । या भारतस्यैव ललामभूता तस्याः सुवर्षे भवतु प्रकाशम् ॥ ६॥ यस्या विनाशे वयमेव नष्टा हानौ च यस्या वयमेव हीनाः । यां पूजयन्ति प्रचुरेण प्रेम्णा वैदेशिकाः सा नवरूपमेतु ॥ ७॥ या पण्डितानां मुखमण्डनश्री र्या खण्डितानां भयदुःखहेतुः । यां मृतभाषेति वदन्ति भण्डा स्ते दण्डनीयाः प्रबलाः प्रचण्डाः ॥ ८॥ या संस्कृतिः संस्कृतमाध्यमेन प्रचारयन्ती हितमैत्रीभावान् । दण्डायमाना नवतां निधाय तस्या हि मूलं किल संस्कृतं नः ॥ ९॥ यत्संस्कृतं भारतजीवपिण्डं यत्संस्कृतं भारतभाग्यभूमिः । यत्संस्कृतं भारतभूमिगर्वं तद् गौरवं भारतभास्कराणाम् ॥ १०॥ सा देवभाषा जननी वरेण्या वर्षे च विश्वे लसतु समोदम् । अस्माकिनां संस्कृतसेवकानां सुकामनाबीजमिहैव मात्रम् ॥ ११॥ वयं न शान्ता यदि संस्कृतश्री र्भवेन्न पूज्या प्रतिगेहमध्ये । यावन्न दैवी नवभारती सा समग्रविश्वे न विलासशीला ॥ १२॥ ये भारतीया नवभारतस्य सौभाग्ययत्नेषु सदैव लग्नाः । समुन्नतिं ये नवभारतस्य सङ्कामयन्ते सततं स्वचित्ते ॥ १३॥ जानन्ति ये भारतभाग्यरेखां द्रष्टुं समर्था नवदूषणानि । ते चिन्तयन्ति प्रमुखा विधिज्ञाः सुसंस्कृतास्ते नवमुक्तधाराम् ॥ १४॥ ये भारतीयाः सततं हितार्थं देशस्य विश्वस्य च चिन्तयन्ति । विज्ञानिनस्ते कथयन्ति नित्यं असंस्कृतं नश्यतु भारतेऽद्य ॥ १५॥ काले कराले करणं विशेषं येनैव साध्यानि ह मङ्गलानि । सर्वाणि सौभाग्यकराणि तानि लभ्यानि येनैव सुखेन नित्यम् ॥ १६॥ न संस्कृतं केवलमेव भाषा न कर्मकाण्डाय निमित्तमात्रम् । न ज्योतिषीणां धनसाधनाय आवश्यकीयं भुवि देवभाषा ॥ १७॥ न संस्कृतं कातरभीरुभाषा नेयं सुलभ्या सरलेऽपि मार्गे । काठिन्यमेव प्रमुखं हि तस्या न दूषणं भूषणमेव नित्यम् ॥ १८॥ न ब्राह्मणानां न च शासकानाम् । न पण्डितानां न च याज्ञिकानाम् । इयं सुभाषा किल लोकभाषा लोके च लभ्या शुभमङ्गलाय ॥ १९॥ या भारती भारतदेशमध्ये न सीमिता सुन्दरशुभ्रदेहा । विश्वस्य श्रेष्ठाः पुरुषा महान्तो यां लोकभाषां परिमण्डयन्ति ॥ २०॥ सम्मानयन्ति प्रमुखाः सुविज्ञा यत् संस्कृतं सादरमेव विश्वे । परीक्ष्य सर्वां सुगुणावलीं ते न दोषलेशं परिदर्शयन्ति ॥ २१॥ या संस्कृतेः सुन्दरस्निग्धसिन्धु र्या संस्कृतिं धारयते स्वचित्ते । अनादिकालात् कठिनैः प्रयत्नैः संस्कृतिगङ्गा वहतीह लोके ॥ २२॥ या सुन्दरी सुन्दरशब्दबन्धै र्विमोहिनी या नवभावनाभिः । यः शब्दसिन्धुः विरलश्च विश्वे माधुर्यमूर्तिरिव या विभाति ॥ २३॥ वेदस्य विद्यां परिवर्णयन्ती वेदाङ्गतत्त्वं परिपोषयन्ती । पौराणिक या परिमण्डयन्ती सा राजते विज्ञविचारराज्ये ॥ २४॥ वर्षेऽत्र हर्षं पृथिवीं पुनातु कार्यक्रमास्ते सकले चलन्तु । भवन्तु मान्या विबुधा वरेण्याः सुसंस्कृसारविकासचित्ताः ॥ २५॥ संस्था विशिष्टा विविधैः प्रयत्नै र्याः संस्कृतं सेवितुमेव मग्नाः । कुर्वन्ति कार्याणि यथोचितानि तास्ताः समस्ता विकसन्तु नित्यम् ॥ २६॥ पठन्ति नित्यं सततं जना ये सम्पाठयन्ते ससुखं सदा च । वदन्ति ये संस्कृतमेव विश्वे सदैव सर्वे सुखिनो भवन्तु ॥ २७॥ प्रचारकार्ये युवकाः प्रवीणा विद्याविलासे सततं निमम्नाः । ये भग्नचित्ता न कदा भवन्ति वित्तैर्विहीनाः सुखिनो भवन्तु ॥ २८॥ ये तान्त्रिकाः संस्कृतमन्त्रविद्यां सम्बोधयन्ति प्रथयन्ति चाद्य । आध्यात्मविद्यां कथयन्ति लोका जयन्तु ते संस्कृतवीरपुत्राः ॥ २९॥ ये भावुकाः संस्कृतभावनायां साहित्यसेवाव्रतयोगनिष्ठाः । सृजन्ति साहित्यसुधासमुद्रं निर्मान्ति काव्यानि च नूतनानि ॥ ३०॥ गर्जन्ति तर्जन्ति कदा न भूमौ यथा मेघा नो जलदानदक्षाः । ते वीरपुत्रा नवभास्कराश्च सृजन्तु साहित्यनिधिं समोदम् ॥ ३१॥ गवेषका ये परिशोधयन्ति विज्ञानरत्नानि विचारमार्गे । जीर्णासु शीर्णासु च मातुकासु सारस्वतास्ते सुखिनो भवन्तु ॥ ३२॥ सम्पादकाः संस्कृतपत्रिकाणां कुर्वन्ति ये संस्कृतरक्षणाय । कष्टेन यत्नं सुखिनो भवन्तु ते साधकाः संस्कृतशिष्टपुत्राः ॥ ३३॥ प्रशासकाः संस्कृतदत्तचित्ताः सम्प्रेरयन्तीह जनान् सदा ये । ते वीरपुत्राः सुखिनो भवन्तु वर्षे सहर्षं विलसन्तु लोके ॥ ३४॥ वर्षञ्च संस्कृतमयं हि जातं हर्षञ्च संस्कृतमयं च भूतम् । तथापि चित्तं न हि शान्तमत्र न संस्कृता किन्तु तथापि भूमिः ॥ ३५॥ इति रवीन्द्रकुमारपण्डाकविना विरचितं ``संस्कृतवर्षम्'' काव्यं समाप्तम् । ``संस्कृताऽमृतं'', पत्रिकायां प्रकाशितम् । Encoded and proofread by Manoj Kumar Barman
% Text title            : Samskrita Varsham
% File name             : saMskRRitavarSham.itx
% itxtitle              : saMskRitavarSham (ravIndrakumArapaNDAvirachitaM)
% engtitle              : saMskRRitavarSham
% Category              : misc, sanskritgeet
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : Ravindra Kumar Panda
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Manoj Kumar Barman
% Proofread by          : Manoj Kumar Barman
% Description/comments  : in Kavya Kairavam by Ravindra Kumar Panda
% Indexextra            : (Scan)
% Latest update         : February 13, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org