॥ सद्दर्शनम् ॥

श्रीभगवद्रमणमहर्षि-विरचित-द्राविडग्रन्थस्य संस्कृतानुवादात्मकम् मङ्गलम् सत्प्रत्ययाः किं नु विहाय सन्तं हृद्येष चिन्तारहितो हृदाख्यः । कथं स्मरामस्तममेयमेकं तस्य स्मृतिस्तत्र दृढैव निष्ठा ॥ १ ॥ मृत्युञ्जयं मृत्युभियाश्रिताना- महंमतिर्मृत्युमुपैति पूर्वम् । अथ स्वभावादमृतेषु तेषु कथं पुनर्मृत्युधियोऽवकाशः ॥ २ ॥ ग्रन्थारम्भः सर्वैर्निदानं जगतोऽहमश्च वाच्यः प्रभुः कश्चिदपारशक्तिः । चित्रेऽत्र लोक्यं च विलोकिता च पटः प्रकाशोऽप्यभवत्स एकः ॥ ३॥ तत्त्वग्रन्थमाला आरभ्यते जीवजगत्परात्म- तत्त्वाभिधानेन मतं समस्तम् । इदं त्रयं यावदहंमति स्यात् सर्वोत्तमाऽहंमतिशून्यनिष्ठा ॥ ४॥ सत्यं मृषा वा चिदिदं जडं वा दुःखं सुखं वेति मुधा विवादः । अदृष्टलोका निरहंप्रतीति- र्निष्ठाऽविकल्पा परमाऽखिलेष्टा ॥ ५॥ सरूपबुद्धिर्जगतीश्वरे च सरूपधीरात्मनि यावदस्ति । अरूपकात्मा यदि कः प्रपश्येत् सा दृष्टिरेकाऽनवधिर्हि पूर्णा ॥ ६॥ यत्पञ्चकोशात्मकमस्ति देहं तदन्तरा किं भुवनं चकास्ति । देहं विना पञ्चविधं तदेतत् पश्यन्ति के वा भुवनं भणन्तु ॥ ७॥ शब्दादिरूपं भुवनं समस्तं शब्दादिसत्तेन्द्रियवृत्तिभास्या । सत्तेन्द्रियाणां मनसो वशे स्यात् मनोमयं तद्भुवनं वदामः ॥ ८॥ धिया सहोदेति धियास्तमेति लोकस्ततो धीप्रविभास्य एषः । धीलोकजन्मक्षयधाम पूर्णं सद्वस्तु जन्मक्षयशून्यमेकम् ॥ ९॥ भवन्तु सद्दर्शनसाधनानि परस्य नामाकृतिभिः सपर्या । सद्वस्तुनि प्राप्तदात्मभावा निष्ठैव सद्दर्शनमित्यवेहि ॥ १०॥ द्वन्द्वानि सर्वाण्यखिलास्त्रिपुट्यः किञ्चित्समाश्रित्य विभान्ति वस्तु । तन्मार्गणे स्याद्गलितं समस्तं न पश्यतां सच्चलनं कदापि ॥ ११॥ विद्या कथं भाति न चेदविद्या विद्यां विना किं प्रविभात्यविद्या । द्वयं च कस्येति विचार्य मूल- स्वरूपनिष्ठा परमार्थविद्या ॥ १२॥ बोद्धारमात्मानमजानतो यो बोधः स किं स्यात्परमार्थबोधः । बोधस्य बोध्यस्य च संश्रयं स्वं विजानतस्तद्द्वितयं विनश्येत् ॥ १३॥ निद्रा न विद्या ग्रहणं न विद्या गृह्णाति किञ्चिन्न यथार्थबोधे । निद्रापदार्थग्रहणेतरा स्यात् चिदेव विद्या विलसन्त्यशून्या ॥ १४॥ सत्यश्चिदात्मा विविधाकृतिश्चित् सिध्येत्पृथक्सत्यचितो न भिन्ना । भूषाविकाराः किमु सन्ति सत्यं विना सुवर्णं पृथगत्र लोके ॥ १५॥ तद्युष्मदोरस्मदि सम्प्रतिष्ठा तस्मिन् विनष्टेऽस्मदि मूलबोधात् । तद्युष्मदस्मन्मतिवर्जितैका स्थितिर्ज्वलन्ती सहजात्मनः स्यात् ॥ १६॥ भूतं भविष्यच्च भवत्स्वकाले तद्वर्तमानस्य विहाय तत्त्वम् । हास्या न किं स्याद्गतभाविचर्चा विनैकसङ्ख्यां गणनेव लोके ॥ १७॥ क्व भाति दिक्कालकथा विनाऽस्मान् दिक्काललीलेह वपुर्वयं चेत् । न क्वापि भामो न कदापि भामो वयं तु सर्वत्र सदा च भामः ॥ १८॥ देहात्मभावे ज्ञजडौ समाना- वेकस्य देहे हृदि दीप्त आत्मा । आक्रम्य देहं च जगच्च पूर्णः परस्य मेयं तनुमात्रमात्मा ॥ १९॥ अज्ञस्य विज्ञस्य च विश्वमस्ति पूर्वस्य दृश्यं जगदेव सत्यम् । परस्य दृश्याश्रयभूतमेकं सत्यं प्रपूर्णं प्रविभात्यरूपम् ॥ २०॥ विधेः प्रयत्नस्य च कोऽपि वाद- स्तयोर्द्वयोर्मूलमजानतां स्यात् । विधेः प्रयत्नस्य च मूलवस्तु सञ्जानतां नैव विधिर्न यत्नः ॥ २१॥ यदीशितुर्वीक्षणमीक्षितार- मवीक्ष्य तन्मानसिकेक्षणं स्यात् । न द्रष्टुरन्यः परमो हि तस्य वीक्षा स्वमूले प्रविलीय निष्ठा ॥ २२॥ आत्मानमीक्षेत परं प्रपश्ये- दित्यागमोक्तेः सुलभो न भावः । नात्मैव दृश्यो यदि का कथेशे स्वयं तदन्नीभवनं तदीक्षा ॥ २३॥ धिये प्रकाशं परमो वितीर्य स्वयं धियोऽन्तः प्रविभाति गुप्तः । धियं परावर्त्य धियोन्तरेऽत्र संयोजनान्नेश्वरदृष्टिरन्या ॥ २४॥ न वक्ति देहोऽहमिति प्रसुप्तौ न कोऽपि नाभूवमिति प्रवक्ति । यत्रोदिते सर्वमुदेति तस्य धियाऽहमः शोधय जन्मदेशम् ॥ २५॥ देहो न जानाति सतो न जन्म देहप्रमाणोऽन्य उदेति मध्ये । अहङ्कृतिग्रन्थिविबन्धसूक्ष्म- शरीरचेतोभवजीवनामा ॥ २६॥ रूपोद्भवो रूपततिप्रतिष्ठो रूपाशनो धूतगृहीतरूपः । स्वयं विरूपः स्वविचारकाले धावत्यहङ्कारपिशाच एषः ॥ २७॥ भावेऽहमः सर्वमिदं विभाति लयेऽहमो नैव विभाति किञ्चित्। तस्मादहंरूपमिदं समस्तं तन्मार्गणं सर्वजयाय मार्गः ॥ २८॥ सत्या स्थितिर्नाहमुदेति यत्र तच्चोदयस्थानगवेषणेन । विना न नश्येद्यदि तन्न नश्येत् स्वात्मैक्यरूपा कथमस्तु निष्ठा ॥ २९॥ कूपे यथा गाढजले तथान्त- र्निमज्ज्य बुद्ध्या शितया नितान्तम् । प्राणं च वाचं च नियम्य चिन्वन् विन्देन्निजाहङ्कृतिमूलरूपम् ॥ ३०॥ मौनेन मज्जन्मनसा स्वमूल- चर्चैव सत्यात्मविचारणं स्यात् । एषोऽहमेतन्न मम स्वरूप- मिति प्रमा सत्यविचारणाङ्गम् ॥ ३१॥ गवेषणात्प्राप्य हृदन्तरं तत् पतेदहन्ता परिभुग्नशीर्षा । अथाहमन्यत्स्फुरति प्रकृष्टं नाहङ्कृतिस्तत्परमेव पूर्णम् ॥ ३२॥ अहङ्कृतिं यो लसति ग्रसित्वा किं तस्य कार्यं परिशिष्टमस्ति । किञ्चिद्विजानाति स नात्मनोऽन्यत् तस्य स्थितिं भावयितुं क्षमः कः ॥ ३३॥ आह स्फुटं तत्त्वमसीति वेद- स्तथाप्यसम्प्राप्य परात्मनिष्ठाम् । भूयो विचारो मतिदुर्बलत्वं तत्सर्वदा स्वात्मतया हि भाति ॥ ३४॥ न वेद्म्यहं मामुत वेद्म्यहं मा- मिति प्रवादो मनुजस्य हास्यः । दृग्दृश्यभेदात् किमयं द्विधात्मा स्वात्मैकतायां हि धियां न भेदाः ॥ ३५॥ हृत्प्राप्य सद्धाम निजस्वरूपे स्वभावसिद्धेऽनुपलभ्य निष्ठाम् । मायाविलासः सदसत्सरूप- विरूपनानैकमुखप्रवादाः ॥ ३६॥ सिद्धस्य वित्तिः सत एव सिद्धिः स्वप्नोपमानाः खलु सिद्धयोऽन्याः । स्वप्नः प्रबुद्धस्य कथं नु सत्यः सति स्थितः किं पुनरेति मायाम् ॥ ३७॥ सोऽहंविचारो वपुरात्मभावे साहाय्यकारी परमार्गणस्य । स्वात्मैक्यसिद्धौ स पुनर्निरर्थो यथा नरत्वप्रमितिर्नरस्य ॥ ३८॥ द्वैतं विचारे परमार्थबोधे त्वद्वैतमित्येष न साधुवादः । गवेषणात्प्राग्दशमे विनष्टे पश्चाच्च लब्धे दशमत्वमेकम् ॥ ३९॥ करोमि कर्मेति नरो विजानन् बाध्यो भवेत्कर्मफलं च भोक्तुम् । विचारधूता हृदि कर्तृता चेत् कर्मत्रयं नश्यति सैव मुक्तिः ॥ ४०॥ बद्धत्वभावे सति मोक्षचिन्ता बन्धस्तु कस्येति विचारणेन । सिद्धे स्वयं स्वात्मनि नित्यमुक्ते क्व बन्धचिन्ता क्व च मोक्षचिन्ता ॥ ४१॥ रूपिण्यरूपिण्युभयात्मिका च मुक्तिस्त्रिरूपेति विदो वदन्ति । इदं त्रयं या विविनक्त्यहन्धी- स्तस्याः प्रणाशः परमार्थमुक्तिः ॥ ४२ ॥ सद्दर्शनं द्राविडवाङ्निबद्धं महर्षिणा श्रीरमणेन शुद्धम् । प्रबन्धमुत्कृष्टममर्त्यवाण्या- मनूद्य वासिष्ठमुनिर्व्यतानीत् ॥ ४३ ॥ सत्तत्त्वसारं सरलं दधाना मुमुक्षुलोकाय मुदं ददाना । अमानुषश्रीरमणीयवाणी- मयूखभित्तिर्मुनिवाग् विभाति ॥ ४४॥ ॥ सद्दर्शनं समाप्तम्॥ Proofread by Sunder Hattangadi sunderh at hotmail.com

% Text title            : Saddarshanam
% File name             : saddarshanam.itx
% itxtitle              : saddarshanam
% engtitle              : Saddarshanam
% Category              : vedanta, misc, sahitya, advice, gaNapati-muni
% Location              : doc_z_misc_general
% Sublocation           : misc
% Subcategory           : sahitya
% Texttype              : advice
% Author                : Vasishtha Ganapati Muni's Sanskrit version of  Ramana Maharshi's Tamil Ulladu Narpadu (Forty Verses on Reality)
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi sunderh at hotmail.com
% Description-comments  : Complete Works of Ganapati Muni Vol 04-12
% Indexextra            : Ganapati Muni
% Latest update         : July 8, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP