श्रीअनन्तानन्दाचार्यप्रणीतः सद्विद्यार्थनिर्णयः
वेदकृद् राघवं ब्रह्म सूत्रकृद्बादरायणम् ।
बोधायनं च वन्देऽहं वृत्तिकृत्पुरुषोत्तमम् ॥ १॥
आनन्दभाष्यकृद्रामानन्दाचार्यं प्रणम्य च ।
मोदाय विदुषां कुर्वे सद्विद्यार्थस्य निर्णयम् ॥ २॥
उपक्रमोपसंहारावभ्यासोऽपूर्वताफलम् ।
अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये ॥ ३॥
अर्थनिर्णायकानीति लिङ्गानि षड्विधानि हि ।
कुर्वन्ति तानि निर्दोषं सद्विद्यार्थीविनिर्णयम् ॥ ४॥
ब्रह्म च सविशेषं हि सद्विद्याविषयो मतः ।
उपक्रमे ``सदेवेति'' श्रुत्या यद् ब्रह्म बोधितम् ॥ ५॥
उपादानं निमित्तं च कारणं द्विविधं खलु ।
ततश्च सर्वशक्तित्वं सर्वज्ञत्वं च तत्र हि ॥ ६॥
सविशेषं तथा ब्रह्मोपसंहारेऽपि बोध्यते ।
तत्पदत्वम्पदाभ्यां च सामानाधिकरण्यतः ॥ ७॥
यतस्तत्पदतश्चात्र परं ब्रह्मैव बोध्यते ।
ज्ञाप्यते त्वद्वपुष्कं हि ब्रह्म त्वम्पदतस्तथा ॥ ८॥
प्रकारिणोस्ततश्चैक्यं ब्रह्मणोरत्र सम्मतम् ।
जीवात्मब्रह्मणोर्नैक्यं देहदेहिस्वरूपयोः ॥ ९॥
सामानाधिकरण्यं न यद्येकवाचिता न हि ।
जघन्या लक्षणा बोध्या शक्तितो बोधसम्भवे ॥ १०॥
तत्त्वमसीतिवाक्यस्य नववारप्रयोगतः ।
अभ्यासोऽपि वदत्यत्र ब्रह्मणः सविशेषताम् ॥ ११॥
वर्त्ततेऽपूर्वता चात्र यतः श्रुत्यैव निश्चिता ।
हेतुता जगतो रामे सकलान्तर्नियन्तृता ॥ १२॥
``यावन्न विमोक्ष्ये'' श्रुत्याः ``सम्पत्स्ये'' इति शब्दतः ।
फलेऽपि प्राप्यत्वोक्तेश्च ब्रह्मणः सविशेषता ॥ १३॥
तदर्थे चार्थवादोऽपि सद्विद्यायां च विद्यते ।
कथिता हि कथा यस्मात् पितृपुत्रोक्तिलक्षणा ॥ १४॥
मृत्पिण्डादय उक्ता हि दृष्टान्ताश्च त्रयस्ततः ।
उपपत्तिस्तदर्थे च सद्विद्यायां हि वर्त्तते ॥ १५॥
रामानन्दार्यशिष्य श्रीअनन्तानन्दनिर्मितः ।
सद्विद्यार्थप्रदो भूयात् सद्विद्यार्थस्य निर्णयः ॥ १६॥
इति श्रीअनन्तानन्दाचार्यप्रणीतः सद्विद्यार्थनिर्णयः सम्पूर्णः ।
Encoded and proofread by Mrityunjay Pandey