सत्त्वाराधनगाथा
आर्य नागार्जुनकृता
सत्त्वार्थमेव मयि तिष्ठति सत्त्वश्रद्धा
नान्यत्र सा, ह्यहमहोऽधिगृहीतसत्त्वः ।
चर्याऽधमा करुणया रहिता भवेद् या
सम्भाव्यते करुणयैव प्रहाणमस्याः ॥ १॥
सत्त्वेषु यस्य नितरां करुणाप्रवृत्ति-
राराधकः स मम शासनमर्मवेत्ता ।
शीलं श्रुतिश्च करुणा च सुधोश्च यस्य
नित्यं स एव सुगतार्चनकृन्निगद्यते ॥ २॥
कल्याणकारमधिकृत्य गतोऽस्मि सिद्धिं
सत्त्वार्थमेव तनुमेष समुद्वहामि ।
नैवं क्रियेत यदि सत्त्वहितं मया चेद्
व्यर्थं करोमि तनुपोषणमन्नपानैः ॥ ३॥
सत्त्वान् हिनस्ति मनसापि हि यः स कस्मा-
न्मामेव संश्रयति यो मयि निर्व्यपेक्षः ।
पूजा तु सा भवति सत्त्वहितेक्षणापि
पूज्यस्य या मनसि तुष्टिमुपाददाति ॥ ४॥
हिंसात्मिका परविहेठनसम्भवा वा
पूजा न पूज्यमनुगच्छति संस्कृतापि ।
दाराः सुताश्च विभवश्च महत्त्व(च्च) राज्यं
मांसं च शोणितवसे नयते शरीरम् ॥ ५॥
येषां प्रियत्वमधिकृत्य मयोज्झितं यत्
यस्तान् विहेठयति तेन विहेठितोऽहम् ।
सत्त्वोपकारपरमा हि ममाग्रपूजा
सत्त्वापकारपरया च पराभवः स्यात् ॥ ६॥
सत्त्वान् प्राप्य मया कृतानि कुशलान्याराधितास्तायिनः
प्राप्ताः पारमिताश्च सत्त्वसमितेरेवार्थमातिष्ठता ।
सत्त्वार्थेन समुद्यतेन मनसा मारस्य भग्नं बलं
सत्त्वैरेव तथा तथा विरचितं येनास्मि बुद्धः कृतः ॥ ७॥
कस्मिन् वस्तुनि सिद्ध्यतामिह कृपा मैत्री च क्वालम्बतां
क्वोपेक्षामुदितादिवस्तुविषयः कस्मिन् विमोक्षादयः ।
कस्यार्थे करुणापरेण मनसः क्षान्तिश्चिरं भाविता
न स्युर्जन्मनि जन्म(नि) प्रियविधौ मित्रं यदि प्राणिनः ॥ ८॥
सत्त्वा एव गजादिभावगतयो दत्ता मयाऽनेकशः
सत्त्वा एव च पात्रतामुपगतं देयं मया ग्राहिताः ।
सत्त्वैरेव विचित्रभावगमनादस्मत्कृपा वर्धिता
सत्त्वानेव न पालयामि यदि चेत् कस्यार्थमर्थः कृतः ॥ ९॥
संसारे व्यसनाभिघातबहुले न स्युर्यदि प्राणिनो
जन्मावर्तविडम्बनेन यमलोकं प्राप्य सात्मीकृताः ।
संसारात्तरणं च सौगतमिदं महात्म्यमत्यद्भुतं
कस्यार्थेन समीहितं यदि न मे सत्त्वा भवेयुः प्रियाः ॥ १०॥
यावच्चेदं ज्वलति जगतः शासनं शासनं मे
तावत् स्थेयं परहितपरैरात्मवद्भिर्भवद्भिः ।
श्रुत्वा श्रुत्वा मम विरचितं सत्त्वहेतोरखिन्नैः
खेदः कार्यो न च तनुमिमं मुक्तसारं भवद्भिः ॥ ११॥
इति सम्यक्सम्बुद्धभाषिता सत्त्वाराधनगाथा समाप्ता ॥