श्लोकसङ्ग्रह १

श्लोकसङ्ग्रह १

ॐ वक्रतुण्ड महाकाय कोटिसूर्यसमप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ या कुन्देन्दु तुषार् हार धवला या शुभ्रवस्त्रावृता । या वीणावरदण्ड मण्डितकरा या श्वेतपद्मासना । या ब्रह्माच्युतशङ्करप्रभ्रुतिभिर्देवै सदा वन्दिता । सा मां पातु सरस्वती भगवती निःशेष जाड्या पहा ॥ गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः । गुरुः साक्षात्परब्रह्म तस्मै श्री गुरवेनमः ॥ कराग्रे वसते लक्ष्मीः करमध्ये सरस्वती । करमूले तु गोविन्दः प्रभाते करदर्शनम् ॥ समुद्रवसने देवि पर्वतस्तनमण्डले । विष्णुपत्नि नमस्तुभ्यं पादस्पर्शं क्षमस्व मे ॥ शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् । विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् । वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ सर्वेऽपि सुखिनः सन्तु सर्वे सन्तु निरामयाः । सर्वे भद्राणि पश्यन्तु मा कश्चित्दुःखभाग्भवेत् ॥ या देवी सर्वभूतेषु मातृरुपेण संस्थितः । या देवी सर्वभूतेषु शक्तिरुपेण संस्थितः । या देवी सर्वभूतेषु शान्तिरुपेण संस्थितः । नमस्तस्यैः नमस्तस्यैः नमस्तस्यैः नमो नमः ॥ ॐ णमो अरिहन्ताणं ॐ णमो सिद्धाणं ॐ णमो आयरियाणं ॐ णमो उवज्झायाणं ॐ णमो लोए सव्वसाहुणं एसो पञ्च णमोकारो सव्व पावपणासणो । मङ्गलाणं च सव्वेसिं पढमं हवई मङ्गलम् । सर्व मङ्गल माङ्गल्ये शिवे सर्वार्थ साधिके । शरण्ये त्र्यम्बके गौरी नारायणी नमोऽस्तुते ॥ वसुदेव सुतं देवं कंस चाणूरमर्दनम् । देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम् ॥ ब्रह्मार्पणं ब्रह्म हविः ब्रह्माग्नौ ब्रह्मणा हुतम् । ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ॥ राम रामेति रामेति रमे रामे मनोरमे । सहस्रनामतत्तुल्यं रामनाम वरानने ॥ शुभं करोति कल्याणं आरोग्यं धनसम्पदा । शत्रुबुध्दिविनाशाय दीपज्योति नमोऽस्तुते ॥ कर्मण्येवाधिकारस्ते मा फलेषु कदाचन । मा कर्मफलहेतुर्भिः मा ते सङ्गोस्त्व कर्मणि ॥ करचरण कृतं वाक्कायजं कर्मजं वा । श्रवणनयनजं वा मानसं वापराधम् । विहितमविहितं वा सर्वमेतत्क्षमस्व । जय जय करुणाब्धे श्रीमहादेव शम्भो ॥ ॐ सह नाववतु । सह नौभुनक्तु । सह वीर्यं करवावहै । तेजस्वि नावधीतमस्तु । मा विद्विषावहै ॥ त्वमेव माता च पिता त्वमेव । त्वमेव बन्धुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव । त्वमेव सर्वं मम देवदेव ॥ ॐ असतो मा सद्गमय । तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतं गमय ॥ ॐ शान्तिः शान्तिः शान्तिः ॥ ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥ ॐ शान्तिः शान्तिः शान्तिः ॥
% Text title            : Shloka
% File name             : shloka1.itx
% itxtitle              : shlokasaNgrahaH 1
% engtitle              : common shlokas used for recitation set 1
% Category              : misc, shloka
% Location              : doc_z_misc_general
% Sublocation           : misc
% Texttype              : shloka
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Latest update         : April 18, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org