स्वरशास्त्र परिचयः

स्वरशास्त्र परिचयः

स्वरव्यञ्जनेति भेदेन वर्णानां द्वौ विभेदौ । तत्राकारादि वर्णा स्वरनाम्ना प्रसिद्धाः सन्ति, ये माहेश्वरसूत्रस्य ``अचि'' प्रत्याहारे समागच्छन्ति । व्यञ्जनानि तु कादि वर्णाः सन्ति, माहेश्वरसूत्राणां ``हल्'' प्रत्याहारे गण्यन्ते । अत्र ये स्वराः सन्ति, तेषां विषये प्राचीनभारतीयज्यौतिष एकः स्वतन्त्रो विषयः स्वरशास्त्रमिति नाम्ना सुप्रसिद्धः । तत्र स्वरवर्णने षोडशस्वराणां वर्णनं विद्यते स्वरशास्त्रेषु । यथा नरपतिजयचर्चायां (१) -- (१. नरपतिजयचर्या - २.२ ।) मातृकायां पुरा प्रोक्ताः स्वराः षोडशसङ्ख्यया । अ आ इ ई उ ऊ ऋ ॠ ऌ लृ ए ऐ ओ औ अं अः ॥ तत्र अं अः इति अन्तिमौ द्वौ स्वरौ त्याज्यौ भवतः, तथा चत्वार ऋ ॠ ऌ ॡ इमे स्वरा नपुंसकाः कथ्यन्ते (२) । (२. ``ऋ ऋ लृ लृ नपुंसको'' - नरपतिजयचर्या - २.२ ।) अत एव षोडशभिरिमे षड् रहिताः स्वराः क्रियन्ते, तदाऽवशिष्टा दशसङ्ख्याकाः स्वरा भवन्ति । पुनरत्र पञ्च ह्रस्वाः, पञ्च च दीर्घस्वराः सन्ति । ह्रस्वस्वरा ये पञ्चपरिमिताः, त एव स्वरशास्त्रे गृह्यन्ते । ते ``अ इ उ ए ओ'' इति सन्ति । इम एव पञ्च स्वराः स्वरशास्त्रे प्रचलिता भवन्ति (३) । (३. ज्ञेयास्तत्र स्वरा आद्याः-ह्रस्वाः (अ इ उ ए ओ) पञ्च स्वरोदये नरपतिजयचर्या - २.३ ।) एतेषां स्वराणामाधारभूतेन स्वरशास्त्रेण कालत्रयस्य सर्वविधं ज्ञानं कर्तुं शक्यते । स्वरशास्त्रविज्ञस्य दैवज्ञस्य साहाय्येन कोऽपि जनो दुःसाध्यमपि कार्यं सारल्येन कर्तुं शक्नोति, तथा दुर्बलोऽपि राजा सबलं शत्रुं जेतुं समर्थो भवति । यथा स्वरशास्त्रस्य महत्त्ववर्णनप्रसङ्गेषु इमा उक्तयः सन्ति-- लाभालाभं सुखं दुःखं जीवितं मरणं तथा । जयः पराजयश्चेति सर्वं ज्ञेयं स्वरोदये ॥ यस्यैकोऽपि गृहे नास्ति स्वरशास्त्रस्य पारगः । रम्भास्तम्भोपमं राज्यं निश्चितं तस्य भूपतेः ॥ स्वरशास्त्रे सदाभ्यासी सत्यवादी जितेन्द्रियः । तस्यादेशस्य यः कर्ता जयश्रीस्तं नृपं भजेत् ॥ दशैकेन शतं तैश्च सहस्रं शतसङ्ख्यया । स्वरोदयबलीराजा दशघ्नं हन्ति लीलया ॥ पुष्पैरपि न योद्धव्यं यावद्धीनस्वरोदयः । स्वरोदयबले प्राप्ते योद्धव्यं शस्त्रकोटिभिः (१) । (१. नरपतिजयचर्या - २.११; १.११-१४ ।) स्वरे वेदाश्च शास्त्राणि स्वरे गान्धर्वमुत्तमम् । स्वरे च सर्वत्रैलोक्यं स्वरमात्मस्वरूपकम् ॥ स्वरहीनश्च दैवज्ञो नाथहीनं यथा गृहम् । शास्त्रहीनं यथा वक्त्रं शिरोहीनं च यद्वपुः ॥ ब्रह्माण्डखण्डपिण्डाद्याः स्वरेणैव हि निर्मिताः । सृष्टिसंहारकर्त्ता च स्वरः साक्षान्महेश्वरः ॥ स्वरज्ञानात्परं गुह्यं स्वरज्ञानात्परं धनम् । स्वरज्ञानात्परं ज्ञानं न वा दृष्टं न वा श्रुतम् ॥ शत्रुं हन्यात्स्वरबले तथा मित्रसमागमः । लक्ष्मीप्राप्तिः स्वरबले कीर्तिः स्वरबले सुखम् ॥ सर्वशास्त्रपुराणादि स्मृतिवेदाङ्गपूर्वकम् । स्वरज्ञानात्परं तत्त्वं नास्ति किञ्चिद्वरानने ॥ इदं स्वरोदयं शास्त्रं सर्वशास्त्रोत्तमोत्तमम् । आत्मघटप्रकाशार्थं प्रदीपकालकोपमम् (२) ॥ (२. शिवस्वरोदये - १६.१७.२०.२१.२२.२५.२७ ।) स्वरज्ञानं नरे यत्र लक्ष्मीः पादतले भवेत् । सर्वत्र च शरीरेऽपि सुखं तस्य सदा भवेत् ॥ प्रणवः सर्ववेदानां ब्राह्मणो भास्करो यथा । मृत्युलोके तथा पूज्यः स्वरज्ञानी पुमानपि (३) ॥ (३. शिवस्वरोदये-३८९-३९० ।) एतेषां पञ्च स्वराणां क्रमशः पञ्च देवताः, पञ्च कलाः, पञ्च शक्तयः, पञ्च चक्राणि, पञ्च महाभूतानि, पञ्च विषयाः पञ्च संज्ञास्तथा पञ्चावस्था भवन्ति (१) । (१. अकाराद्याः स्वराः पञ्च ब्रह्माद्याः पञ्च देवताः । निवृत्त्याद्याः कलाः पञ्च इच्छाद्याः शक्तिपञ्चकं ॥ मायाद्याश्चक्रभेदाश्च धराद्यं भूतपञ्चकं । शब्दादिविषयास्ते च कामबाणा इतीरिताः ॥ (नरपतिजयचर्या -- २.६-७) ) यथा चक्रं -- ------------------------------------------------------------------------- अ । इ । उ । ए । ओ । स्वराः । ------------------------------------------------------------------------- ब्रह्मा । विष्णुः । रुद्रः । सूर्यः । चन्द्रः । देवताः । निवृत्तिः । प्रतिष्ठा । विद्या । शान्तिः । अतिशान्तिः । कलाः । इच्छा । ज्ञाना । प्रभा । श्रद्धा । मेधा । शक्तिः । चतुरस्रः । अर्धचन्द्रः । त्रिकोणम्। षट्कोणम्। वर्तुलः । चक्रम् । धराः । जलम् । अग्निः । वायुः । आकाशः । पञ्चभूतम् । गन्धः । रसः । रूपम् । स्पर्शः । शब्दः । विषयः । पिण्डः । पदम् । रूपम् । रुपातीतः। निरञ्जनम्। संज्ञाः । बालः । कुमारः । युवा । वृद्धः। मृतः । अवस्थाः । ------------------------------------------------------------------------- अस्योपयोगः -- कस्यापि जनस्य नामाद्यक्षरं स्वरतो व्यञ्जनतो वा प्रारभ्यते । यदि स्वरतः प्रारभ्यते, तदा कोष्ठके तस्य स्वरं ज्ञात्वा चक्रानुसारं देवताः, पञ्चभूतविषयचक्रादिकं ज्ञातुं शक्यते । यदि च नामाद्यक्षरे व्यञ्जनं स्यात्, तदा व्यञ्जने यो स्वरः संयुक्तः स्यात्, तस्यैव विचारः क्रियते । यथोदाहरणम् -- मन्यते कस्यापि जनस्य नाम सिन्धुर्वर्तते । तस्य नामाद्यक्षरे ``सि'' अक्षरं तर्हि सकारेऽत्र इकारोऽस्ति । अत एवास्य ``इ'' स्वरः । चक्रानुसारं तस्य विष्णुः देवता, प्रतिष्ठाकला, ज्ञानाशक्तिः, अर्धचन्द्रचक्रः, जलतत्त्वम्, रसविषयः, पदसंज्ञा कुमारावस्था भविष्यति । अनेनदं ज्ञायते यदयं सिन्धुनामको जनो वैष्णवोऽस्ति । आपत्तौ विष्णुपूजनेन लाभान्वितो भविष्यति । कुमारावस्थायां सुखमवाप्स्यति । सदैव मनसि कौमारगुणं स्थास्यतीति सर्वं नामानुसारं फलमवगम्यते । एवमेत्र विविधप्रकारकाणि चक्राणि निर्मीयन्ते स्वरविचारे । यथा वर्णस्वरचक्रम्, ग्रहस्वरचक्रम्, जीवस्वरचक्रम्, राशिस्वरचक्रम्, नक्षत्रस्वरचक्रम्, पिण्डस्वरचक्रम्, योगस्वरचक्रमित्यादि, तथैव द्वादशवार्षिकम्, वार्षिकमयनम्, ऋतुः, मासः, पक्षः, दिनम्, घटीत्यादीनि चक्राणि भवन्ति, येषां प्रयोगः पृच्छकस्य प्रश्नानुसारं फलज्ञानाय भवति । यौगिकं स्वरं - योगाभ्यासबलेन प्राणायामादिविधिना श्वासस्य प्रवेशे निर्गमने च नियन्त्रणं कृत्वा यो जनः स्वररहस्यं वेत्ति, स यौगिकस्वरसाधनबलेन सर्वमपि कालिकं तथ्यमवगन्तुं शक्नोति । यौगिकं स्वरं हंसचारमपि कथ्यते । शरीरमध्ये वायुसञ्चार इडा-पिङ्गलासुषुम्नाभिस्तिसृभिर्नाडीभिर्भवति (१) । (१. प्रकटो वायुसञ्चारो लक्ष्यते देहमध्यतः । इडा-पिङ्गला- सुषुम्नाभिर्नाडीभिस्तिसृभिर्बुधैः ॥ (नरपतिजयचर्या - ३.८) ) अत्रेडानाडौ चन्द्रः, पिङ्गलायां सूर्यः, सुषुम्नायां शम्भुर्भवति । अयं शम्भुर्हंसस्वरूपो भवति । शरीरे नासिका छिद्राभ्यां स्वरप्रवेशे शकारस्य ध्वनिर्जायते, निर्गमे च हकारस्य ध्वनिर्जायते । अत एव स्वरसञ्चारस्यास्य विधेर्नाम हंसचार इत्युच्यते (२) । (२. इडानाडीस्थितश्चन्द्रः पिङ्गला भानुवाहिनी । सुषुम्ना शम्भुरूपेण शम्भुर्हंसस्वरूपकः ॥ (नरपतिजपचर्या - ३.९) ) प्राणीनां नाभौ महाशक्तिरूपा कुण्डलिनी सर्पाकारा विद्यते । तस्माद् नाभिस्थानाद् दशनाड्य ऊर्ध्वं गच्छन्ति । द्वे द्वे तिर्यङ् नाड्यौवर्तेते । एवं चतुर्विंशति नाड्यः सन्ति । शरीरपोषिकाः सप्तोत्तराणि सप्तशतानि (७०७) नाड्यः सूक्ष्मरूपिण्यः सन्ति । अत्र प्रधाना नाड्यो दश एव । एतेषामिमानि नामानि सन्ति - १. इडा, २. पिङ्गला, ३. सुषुम्ना, ४. गान्धारी, ५. हस्तिजिह्विका, ६. पूषा, ७. यशा, ८. व्यूषा, ९. कुहूः, १०. शङ्खनिका (३) । (३. इडा पिङ्गला सुषुम्ना गान्धारी हस्तिजिह्विका । पूषा यशा च व्यूषा च कुहूः शाङ्खिनिका तथा ॥ (नरपतिजयचर्या -३.६) ) प्राय इदं तथ्यं दृश्यते यत् श्वासग्रहणे विसर्जने वा वामविसर्जने नासिकाछिद्रेणाथवा दक्षिणनासिकाछिद्रेणार्थाद् एकेनापि नासिकाछिद्रेण श्वासक्रिया प्रबला भवति । अन्येन च मन्दतरा । यदा कदैव नासिकायां छिद्राभ्यां द्वाभ्यां समाक्रिया भवति, यदा वामच्छिद्रेण श्वासप्रग्रहणं विसर्जनं वा क्रियते, तदा वामनाडी चन्द्रस्वरश्च प्रचलति, यदा च दक्षिणनासिकाछिद्रेण श्वासप्रग्रहणं विसर्जनं वाधिकरूपेण क्रियते, तदा दक्षिणनाडी सूर्यस्वरश्च प्रचलतीति मन्यते (४) । (४. (क) इडानाडीस्थितश्चन्द्रः पिङ्गला भानुवाहिनी । सुषुम्ना शम्भुरूपेण शम्भुर्हंसस्वरूपकः ॥ (नरपतिजयचर्या - ३.९) (ख) इडायां तु स्थितश्चन्द्रः पिङ्गलायां च भास्करः । सुषुम्ना शम्भुरूपेण शम्भुर्हंसस्वरूपतः ।(शिवस्वरोदये, श्लोकः-५०) ) यदा द्वाभ्यां छिद्राभ्यां समानरूपेण श्वासक्रिया जायते, तदा मध्यमानाडी सुषुम्नागता भवति । या दश नाड्यः पूर्वं कथिताः, ताषां शरीरे स्थानान्येवं सन्ति । वामे इडा, दक्षिणे पिङ्गला, मध्ये सुषुम्ना, वामचक्षुषि गान्धारी, दक्षिणे हस्तिजिह्विका, दक्षिणकर्णे पूषा, वामकर्णे यशस्विनी, मुखे व्यूषा, लिङ्गे कुहुः, गुदास्थाने शङ्खिनी । एवमत्र शरीरे नाड्यस्तिष्ठन्ति । अत्र तिस्रो नाड्य इडा, पिङ्गला, सुषुम्ना, प्राणमार्गे स्थिताः कथ्यन्ते, क्रमशः सर्वासां दश नाडिकानां मध्ये इमे वायवस्तिष्ठन्ति (१) (१. शिवस्वरोदये-३.४०।) , तद्यथा -- १. प्राणः, २. अपानः, ३. समानः, ४. उदानः, ५. व्यानः, ६. नागः, ७. कूर्मः, ८. कृकलः, ९. देवदत्तः, १०. धनञ्जयश्चः (२) । (२. प्राणोऽपानः समानश्च उदानो व्यान एव च । नागः कुर्मः कृकलश्चैव देवदत्तो धनञ्जयः ॥ (नरपतिजयचर्या - अ० ३०.७) ।) अत्र हृदये प्राणवायुस्तिष्ठति । गुदास्थाने अपानवायुः, नाभिदेशे समानवायुः, कण्ठमध्ये उदानवायुः, सम्पूर्णशरीरे व्याननामको वायुस्तिष्ठति। परन्तु स्वरशास्त्रविचारे प्रधानरूपा इडापिङ्गलासुषुम्नाख्यास्तिस्रो नाड्यो दक्षिण -वाम- मध्यगताः सूर्य-चन्द्र- शिवाश्रिताः सन्ति याभिः फलादेशे प्रयोजनं दृश्यते । अस्य विचारोऽग्रे करिष्यते । स्वरफलम्- शुक्लपक्षस्य प्रतिपदातः प्रारभ्य तृतीयातिथिं यावच्चन्द्रस्वरश्चलति । तत्पश्चात् पुनः दिनत्रयं यावद् अर्थाच्चतुर्थी - पञ्चमी - षष्ठी तिथिषु सूर्यस्वरश्चलति । एवमपि तदग्रे त्रिषु (७,८,९) तिथिषु चन्द्रस्वरः प्रचलति । एवमेवाग्रेऽपि त्रिषु तिथिषु क्रमशः सूर्य-चन्द्रस्वरयोः क्रमेण सञ्चरणं जायते । अथ कृष्णपक्षस्य प्रतिपदातो तृतीयां यावत् सूर्यस्वरः प्रचलति, पुनरग्रे त्रिषु (४,५,६) तिथिषु चन्द्र स्वरः प्रचलति । एवमग्रे त्रिषु त्रिषु तिथिष्वयं क्रमः प्रचलति । यथा च नरपतिजयचर्यायाम् -- आदौ चन्द्रः सिते पक्षे भास्करस्तु सितेतरे । प्रतिपदादितो हानिस्त्रीणि त्रीणि क्रमोदयः (३) ॥ (३. नरप्रतिजयचर्या -३.१५ ।) अस्य नरपतिजयचर्यायाः सुबोधिनीटीकायामस्य भावार्थो न सम्यक् प्रकारेण कृतोऽस्ति । यतो हि यस्मिन् काल एती चन्द्रसूर्यस्वरौ शुक्ल- कृष्णपक्षे वा प्रचलिष्यतस्तदा अथवा यस्मिन् दिने तिथ्यारम्भो भविष्यति, तस्मिन् दिने सूर्योदयकाले यदि मध्यरात्रौ मध्यदिवसे सायंतने वा तिथ्यारम्भः स्यात्, तदा कल्प्यते स्वरसञ्चारे एकरूपता न भविष्यति । तथाऽग्रे फलादेशकथनेऽपि अनियमितता सम्भविष्यति । तद्यथा - चन्द्रोदये यदा सूर्यश्चन्द्रः सूर्योदये यदा । अशुभं हानिरुद्वेगस्तद्दिने जायते ध्रुवम् (१) ॥ (१. नरपतिजयचर्या - ३.१६;) अतस्तद्दिने जायते ध्रुवमित्यनेन यदि निशि तिथ्यारम्भः स्यात्, तथा दिनस्य परिभाषा का भविष्यति ? अत एव मन्यते सूर्योदयकालिक्येव तिथिर्ग्राह्या । तथा हि ``यस्य दिनं तस्यैव रात्रिः'' इति परम्परया सूर्योदये या तिथिर्भविष्यति, तस्या एव ग्रहणमग्रिमसूर्योदयात् पूर्वं यावत् स्वीकर्तव्यं । तथा हि प्रातः काले सूर्योदयसमये स्वरस्य विचारः कर्त्तव्यः । पूर्वोक्तं यच्छुक्लपक्षस्य प्रतिपदादितस्तु त्रिषु त्रिषु तिथिषु चन्द्रसूर्यस्वरौ, (वामदक्षिणस्वरौ) तथा कृष्णपक्षप्रतिपदादितो त्रिषु त्रिषु तिथिषु क्रमशः सूर्यचन्द्रस्वरौ (दक्षिणवामस्वरौ) प्रचलतः । सामान्यनियमोऽयम् । यस्य जनस्यैवं क्रमेण सर्वाषु तिथिषु स्वरसञ्चारो भवति, तस्य कृते सर्वं फलं शोभनं जायते । शुक्लपक्षस्य प्रथमाद्यासु तिसृषु तिथिषु चन्द्रस्वरः, तत्पश्चात् क्रमशः तिसृषु तिथिषु सूर्यचन्द्रस्वरौ स्याताम् । तथैव कृष्णपक्षस्य प्रथमाद्याषु त्रिसृषु तिथिषु सूर्यस्वरः, तत्पश्चात् क्रमशस्तिसृषु, तिसृषु तिथिषु चन्द्रसूर्यस्वरौ स्याताम्, तदा शुभं स्यात् । यद्येवं न भवति, अर्थाच्चन्द्रस्वरस्य समये सूर्यस्वरः प्रचलितो भवेत्, तथा सूर्यस्वरस्य समये चन्द्रस्वरः प्रचलितस्तदा अशुभं जायते (२) । (२. तदेव - ३.१६) अत्राभ्यासबलेन सिद्धः साधकः पूर्ववार्णितनिर्देशानुसारं यथेच्छं चन्द्रसूर्यस्वरयोः सञ्चालनं कर्तुं समर्थो भविष्यति । एकोऽयमपि सामान्यो नियमो यद् रात्रौ चन्द्रस्वरस्य सञ्चालनम्, दिवा सूर्यस्वरस्य सञ्चालनं श्रेयस्करं भवति (३) । (३. शशाङ्कं चारयेद्रात्रौ दिवाचार्यो दिवाकरः । इत्यभ्यासरतो नित्यं स योगी नात्र संशयः ॥ (नरपतिजयचर्या - ३.१७) ) कार्यवशेन स्वरसञ्चालने फलं यात्रा, विवाहः, वस्त्रालङ्कारादिभूषणादिधारणं शुभकर्मारम्भः सन्धिवार्ता,नवीनगृहप्रवेशः, होमादिकं शान्तिकर्म, रसायनाद्यौषधिनिर्माणम्, विद्यारम्भस्तथा स्थिरं कार्यमपि चन्द्रस्वरे प्रशस्तं भवति । सूर्यस्वरस्य सञ्चारकाले विग्रहः युद्धादिकार्यं, स्नानम्, भोजनम्, मैथुनम्, व्यवहारादिकं प्रशस्तं स्यात् । यदि दूरस्थः शत्रुः स्यात्, तस्योपरि विजयं प्राप्तुं चन्द्रस्वरे युद्धारम्भो विजयप्रदो भवति । यदा शत्रुरासन्न एव स्यात्, तदा सूर्यस्वरे युद्धे सति साफल्यं प्राप्यते । यात्रायां विशेषः यात्रा काले यदा वामस्वरः स्यात्, तदा वामचरणं प्रथममग्रे कृत्वा यात्रा क्रियते । यदि च दक्षिणस्वरः प्रचलति तदा दक्षिणपादमग्रे कृत्वा यात्रा प्रारभ्यते । एवं कृते सति यात्रा सिद्धिप्रदा भवति । यदा वामस्वरे यात्रा क्रियते, तदा प्रथमं समसङ्ख्याकं यावद् वामपादं सञ्चाल्यते, दक्षिणस्वरे सति विषमसङ्ख्याकं यावद् दक्षिणपादेन प्रथमं यात्रा प्रारभ्यते । युद्धकाले यदा चन्द्रस्वरः स्यात्, तदा स्थायी जयति । यदा च सूर्यस्वरः प्रवहति, तदा यायी जयति । यदि वामस्वरस्य प्रवाहः स्यात्, तदा स्थायी योद्धा पूर्वस्यामुत्तरस्यां वा युद्धं कृत्वा विजयी भवति । दक्षिणस्वरप्रवाहे यायी योद्धा पश्चिमस्यां दक्षिणस्यां वा दिशि युद्धं कृत्वा विजयी भवति । अयमपि विचारो यद् यदि युद्धकाले वामस्वरस्य प्रवाहः स्यात्, तदा चन्द्रमसः सम्मुखे वामे वा कृत्वा युद्धं कुर्यात् । यदा च सूर्यस्वरप्रवाहः स्यात्, तदा सूर्यं पृष्ठे दक्षिणे वा कृत्वा युद्धारम्भं कुर्यात्, तदा विजयो भवति (१) । (१. दिग्ज्ञानं सूर्यचन्द्रमाराशिवशेन क्रियते । तथा च - मेषसिंहधनुराशि पूर्वदिशा, वृषकन्यामकरेषु दक्षिण दिशा, मिथनतुलाकुम्भेषु पश्चिम दिशा, कर्कवृश्चिकमीनेषु उत्तरदिशा भवति ।) स्वरवशेन रतिविचारः, सन्तानविचारश्च रतिकाले यदा स्त्रियो वामस्वरो भवति, पुरुषस्य च दक्षिणस्वरो भवति, तदा मकरध्वजतुल्यः प्रसङ्गो जायते । अयमपि सामान्यो नियमो यत् पुरुषो वामपार्श्वेन शयनं करोति, तदा तस्य दक्षिणस्वरः प्रचलति । स्त्री यदा दक्षिणपार्श्वेन शयनं करोति, तदा तस्या वामस्वरः प्रचलतीति वायुनियमः । तद्यथा - शयने वा प्रसङ्गे वा युवत्यालिङ्गनेऽपि वा । यः सूर्येण पिबेच्चन्द्रं स भवेन्मकरध्वजः (१) ॥ (१. नरपतिजयचर्या - ३.२१ ।) यदा शरीरे विषस्य प्रभावः स्यात्, तस्मिन् समये यदि अभ्यासबलेन वामस्वरस्य सञ्चालनं क्रियते, तदा तस्य प्रभावो विनश्यति । रतौ सूर्यस्वरस्य सञ्चारेण कामिनी वशमायाति । मोक्षकाले यदि मध्यमवायोः (सुषुम्नायाः) सञ्चालनं क्रियते, तदा सारल्येन मोक्षप्राप्तिः सञ्जायते(२) । (२. चन्द्रचारे विषं हन्ति सूर्ये बालां वशं नयेत् । सुषुम्नायां भवेन्मोक्ष एको देवस्त्रिधा स्थितः ॥ (नरपतिजयचर्या - ३.३५) ) यदि पृच्छको गर्भप्रश्नं करोति, तदा तस्मिन् काले पूर्णस्वरोदये पुत्रो भवति । यदि प्रश्नकाले स्वरसञ्चरणं निर्बलं मन्दगत्या भवेत्, तदा कन्या भवति । यदा च प्रश्नकाले शून्यस्वरस्य पश्चात् पूर्णस्वरः प्रचलेत्, तदा प्राक् कन्या, पश्चाच्च पुत्रो भवति । यदा च सङ्क्रमणकालः स्यात्, अर्थात् पूर्ण - सम-शून्य-स्वराणां सहैव चलनं भवेत्, तदा गर्भपातो भवति । एवमेव प्रकारेण चन्द्रसूर्यस्वरयोरभ्यासेन विविधानि कार्याणि इच्छानुसारेण कर्तुं शक्यन्ते । यथोक्तम् - चन्द्रसूर्यस्वराभ्यासं ये कुर्वन्ति सदा नराः । अतीतानागतं ज्ञानं तेषां हस्तगतं सदा (३) ॥ (३. तदेव - ३.५६;) स्वरशास्त्रस्य प्रणेता इदं स्वरशास्त्रं शिवपार्वत्योः संवादरूपं शिवस्वरोदये वर्णितमस्ति । यथा शिववाक्यं पार्वतीं प्रति - गुह्याद्गुह्यतरं सारमुपकारप्रकाशनम् । इदं स्वरोदयं ज्ञानं ज्ञानानां सस्तकं मणिः (४) ॥ (४. शिवस्वरोदये - श्लो० ११;) स्वरविषयकं यौगिकं ज्ञानं तन्त्रशास्त्रेऽपि दृश्यते । तत्रापि तन्त्रशास्त्रस्याधारभूतो देवः शिव एव । यथा नरपतिजयचर्यायां ब्रह्मयामलनामकस्य तन्त्रग्रन्थयोद्धरणमस्ति । तद्यथा-- अथातः सम्प्रवक्ष्यामि ख्याता ये ब्रह्मयामले । मात्रादिभेदभिन्नानां स्वराणां षोडशोदयान् (५) ॥ (५. नरपतिजयचर्या - २.१ ।) सङ्ग्रामविजयोदयेऽपीदं स्वरशास्त्रं शाम्भवाद् निःसृतं । यथा च - ``सङ्क्षेपाद् वक्ष्येऽहं समरजयं शाम्भवात् सारम् (१) इति ''॥ (१. नरपतिजयचर्या -४ .१ ।) जैनग्रन्थेऽपि स्वरशास्त्रस्य विवेचनं वर्तते । भगवतो महावीरस्य चतुर्दश उत्तराधिकारी भद्रबाहुः योगाभ्यास-प्राणायामबलेन स्वरविषयस्याभ्यासं कृतवानिति ज्ञायते । एतद् विषयकं वर्णनं ``स्वरज्योति'' ग्रन्थे श्रीमतः सूरिमहोदयस्य गुरुशिष्यवार्तालापप्रसङ्गेन ज्ञायते । अनेनायं विज्ञायते यद् योगाभ्यासबलेन स्वरसंसाधनं भवति, यस्य प्रवर्त्तको योगिराजशङ्कर एव सिद्ध्यति । स्वरशास्त्रान्तर्गता बहवो विषयाः सन्ति । बहूनि च चक्राणि ग्रहनक्षत्रादिवशेन भवन्ति; परन्तु प्रस्तुतनिबन्धे मुख्यतश्चन्द्रसूर्यस्वरयोः परिचयस्तस्योपयोगश्च प्रदर्शितः। यतः संक्षिप्तरूपेण स्वल्पपरिश्रमेण सुगमरीत्या चास्य प्रयोगः सर्वैर्जनैः कर्तुं शक्यते । अस्मिन् प्रयोगे चन्द्रसूर्यस्वरयोः (वामदक्षिणस्वरयोः) परिज्ञानमात्रेण फलादेशं कर्तुं शक्यत इति शम्। डाॅ० नागेन्द्रपाण्डेयः प्राध्यापकः, ज्योतिषविभागे, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य, वाराणसी Proofread by Meera Iyer
% Text title            : Svarashastra Parichayah
% File name             : svarashAstraparichayaH.itx
% itxtitle              : svarashAstra parichayaH (lekhaH)
% engtitle              : svarashAstra parichayaH
% Category              : misc, article
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : nAgendra pANDey
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Meera Iyer
% Description/comments  : from Sarasvati Sushma 37, Vol. 1-4
% Indexextra            : (Scan)
% Latest update         : November 15, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org