स्वरशास्त्र परिचयः
स्वरव्यञ्जनेति भेदेन वर्णानां द्वौ विभेदौ । तत्राकारादि वर्णा स्वरनाम्ना
प्रसिद्धाः सन्ति, ये माहेश्वरसूत्रस्य ``अचि'' प्रत्याहारे समागच्छन्ति । व्यञ्जनानि तु कादि वर्णाः सन्ति, माहेश्वरसूत्राणां ``हल्'' प्रत्याहारे गण्यन्ते । अत्र ये स्वराः सन्ति, तेषां विषये प्राचीनभारतीयज्यौतिष एकः स्वतन्त्रो विषयः स्वरशास्त्रमिति नाम्ना सुप्रसिद्धः । तत्र स्वरवर्णने षोडशस्वराणां वर्णनं विद्यते स्वरशास्त्रेषु । यथा नरपतिजयचर्चायां (१) -- (१. नरपतिजयचर्या - २.२ ।)
मातृकायां पुरा प्रोक्ताः स्वराः षोडशसङ्ख्यया ।
अ आ इ ई उ ऊ ऋ ॠ ऌ लृ ए ऐ ओ औ अं अः ॥
तत्र अं अः इति अन्तिमौ द्वौ स्वरौ त्याज्यौ भवतः, तथा चत्वार ऋ ॠ ऌ ॡ इमे स्वरा नपुंसकाः कथ्यन्ते (२) । (२. ``ऋ ऋ लृ लृ नपुंसको'' - नरपतिजयचर्या - २.२ ।) अत एव षोडशभिरिमे षड् रहिताः स्वराः क्रियन्ते, तदाऽवशिष्टा दशसङ्ख्याकाः स्वरा भवन्ति । पुनरत्र पञ्च ह्रस्वाः, पञ्च च दीर्घस्वराः सन्ति । ह्रस्वस्वरा ये पञ्चपरिमिताः, त एव स्वरशास्त्रे गृह्यन्ते । ते ``अ इ उ ए ओ'' इति सन्ति । इम एव पञ्च स्वराः स्वरशास्त्रे प्रचलिता भवन्ति (३) । (३. ज्ञेयास्तत्र स्वरा आद्याः-ह्रस्वाः (अ इ उ ए ओ) पञ्च स्वरोदये नरपतिजयचर्या - २.३ ।)
एतेषां स्वराणामाधारभूतेन स्वरशास्त्रेण कालत्रयस्य सर्वविधं ज्ञानं कर्तुं शक्यते । स्वरशास्त्रविज्ञस्य दैवज्ञस्य साहाय्येन कोऽपि जनो दुःसाध्यमपि कार्यं सारल्येन कर्तुं शक्नोति, तथा दुर्बलोऽपि राजा सबलं शत्रुं जेतुं समर्थो भवति । यथा स्वरशास्त्रस्य महत्त्ववर्णनप्रसङ्गेषु इमा उक्तयः सन्ति--
लाभालाभं सुखं दुःखं जीवितं मरणं तथा ।
जयः पराजयश्चेति सर्वं ज्ञेयं स्वरोदये ॥
यस्यैकोऽपि गृहे नास्ति स्वरशास्त्रस्य पारगः ।
रम्भास्तम्भोपमं राज्यं निश्चितं तस्य भूपतेः ॥
स्वरशास्त्रे सदाभ्यासी सत्यवादी जितेन्द्रियः ।
तस्यादेशस्य यः कर्ता जयश्रीस्तं नृपं भजेत् ॥
दशैकेन शतं तैश्च सहस्रं शतसङ्ख्यया ।
स्वरोदयबलीराजा दशघ्नं हन्ति लीलया ॥
पुष्पैरपि न योद्धव्यं यावद्धीनस्वरोदयः ।
स्वरोदयबले प्राप्ते योद्धव्यं शस्त्रकोटिभिः (१) । (१. नरपतिजयचर्या - २.११; १.११-१४ ।)
स्वरे वेदाश्च शास्त्राणि स्वरे गान्धर्वमुत्तमम् ।
स्वरे च सर्वत्रैलोक्यं स्वरमात्मस्वरूपकम् ॥
स्वरहीनश्च दैवज्ञो नाथहीनं यथा गृहम् ।
शास्त्रहीनं यथा वक्त्रं शिरोहीनं च यद्वपुः ॥
ब्रह्माण्डखण्डपिण्डाद्याः स्वरेणैव हि निर्मिताः ।
सृष्टिसंहारकर्त्ता च स्वरः साक्षान्महेश्वरः ॥
स्वरज्ञानात्परं गुह्यं स्वरज्ञानात्परं धनम् ।
स्वरज्ञानात्परं ज्ञानं न वा दृष्टं न वा श्रुतम् ॥
शत्रुं हन्यात्स्वरबले तथा मित्रसमागमः ।
लक्ष्मीप्राप्तिः स्वरबले कीर्तिः स्वरबले सुखम् ॥
सर्वशास्त्रपुराणादि स्मृतिवेदाङ्गपूर्वकम् ।
स्वरज्ञानात्परं तत्त्वं नास्ति किञ्चिद्वरानने ॥
इदं स्वरोदयं शास्त्रं सर्वशास्त्रोत्तमोत्तमम् ।
आत्मघटप्रकाशार्थं प्रदीपकालकोपमम् (२) ॥
(२. शिवस्वरोदये - १६.१७.२०.२१.२२.२५.२७ ।)
स्वरज्ञानं नरे यत्र लक्ष्मीः पादतले भवेत् ।
सर्वत्र च शरीरेऽपि सुखं तस्य सदा भवेत् ॥
प्रणवः सर्ववेदानां ब्राह्मणो भास्करो यथा ।
मृत्युलोके तथा पूज्यः स्वरज्ञानी पुमानपि (३) ॥ (३. शिवस्वरोदये-३८९-३९० ।)
एतेषां पञ्च स्वराणां क्रमशः पञ्च देवताः, पञ्च कलाः, पञ्च शक्तयः, पञ्च चक्राणि, पञ्च महाभूतानि, पञ्च विषयाः पञ्च संज्ञास्तथा पञ्चावस्था भवन्ति (१) । (१. अकाराद्याः स्वराः पञ्च ब्रह्माद्याः पञ्च देवताः ।
निवृत्त्याद्याः कलाः पञ्च इच्छाद्याः शक्तिपञ्चकं ॥
मायाद्याश्चक्रभेदाश्च धराद्यं भूतपञ्चकं ।
शब्दादिविषयास्ते च कामबाणा इतीरिताः ॥ (नरपतिजयचर्या -- २.६-७) ) यथा चक्रं --
-------------------------------------------------------------------------
अ । इ । उ । ए । ओ । स्वराः ।
-------------------------------------------------------------------------
ब्रह्मा । विष्णुः । रुद्रः । सूर्यः । चन्द्रः । देवताः ।
निवृत्तिः । प्रतिष्ठा । विद्या । शान्तिः । अतिशान्तिः । कलाः ।
इच्छा । ज्ञाना । प्रभा । श्रद्धा । मेधा । शक्तिः ।
चतुरस्रः । अर्धचन्द्रः । त्रिकोणम्। षट्कोणम्। वर्तुलः । चक्रम् ।
धराः । जलम् । अग्निः । वायुः । आकाशः । पञ्चभूतम् ।
गन्धः । रसः । रूपम् । स्पर्शः । शब्दः । विषयः ।
पिण्डः । पदम् । रूपम् । रुपातीतः। निरञ्जनम्। संज्ञाः ।
बालः । कुमारः । युवा । वृद्धः। मृतः । अवस्थाः ।
-------------------------------------------------------------------------
अस्योपयोगः --
कस्यापि जनस्य नामाद्यक्षरं स्वरतो व्यञ्जनतो वा प्रारभ्यते । यदि स्वरतः प्रारभ्यते, तदा कोष्ठके तस्य स्वरं ज्ञात्वा चक्रानुसारं देवताः, पञ्चभूतविषयचक्रादिकं ज्ञातुं शक्यते । यदि च नामाद्यक्षरे व्यञ्जनं स्यात्, तदा व्यञ्जने यो स्वरः संयुक्तः स्यात्, तस्यैव विचारः क्रियते ।
यथोदाहरणम् --
मन्यते कस्यापि जनस्य नाम सिन्धुर्वर्तते । तस्य नामाद्यक्षरे ``सि'' अक्षरं तर्हि सकारेऽत्र इकारोऽस्ति । अत एवास्य ``इ'' स्वरः । चक्रानुसारं तस्य विष्णुः देवता, प्रतिष्ठाकला, ज्ञानाशक्तिः, अर्धचन्द्रचक्रः, जलतत्त्वम्, रसविषयः, पदसंज्ञा कुमारावस्था भविष्यति । अनेनदं ज्ञायते यदयं सिन्धुनामको जनो वैष्णवोऽस्ति । आपत्तौ विष्णुपूजनेन लाभान्वितो भविष्यति । कुमारावस्थायां सुखमवाप्स्यति । सदैव मनसि कौमारगुणं स्थास्यतीति सर्वं नामानुसारं फलमवगम्यते । एवमेत्र विविधप्रकारकाणि चक्राणि निर्मीयन्ते स्वरविचारे । यथा वर्णस्वरचक्रम्, ग्रहस्वरचक्रम्, जीवस्वरचक्रम्, राशिस्वरचक्रम्, नक्षत्रस्वरचक्रम्, पिण्डस्वरचक्रम्, योगस्वरचक्रमित्यादि, तथैव द्वादशवार्षिकम्, वार्षिकमयनम्, ऋतुः, मासः, पक्षः, दिनम्, घटीत्यादीनि चक्राणि भवन्ति, येषां प्रयोगः पृच्छकस्य प्रश्नानुसारं फलज्ञानाय भवति ।
यौगिकं स्वरं -
योगाभ्यासबलेन प्राणायामादिविधिना श्वासस्य प्रवेशे निर्गमने च नियन्त्रणं कृत्वा यो जनः स्वररहस्यं वेत्ति, स यौगिकस्वरसाधनबलेन सर्वमपि कालिकं तथ्यमवगन्तुं शक्नोति ।
यौगिकं स्वरं हंसचारमपि कथ्यते । शरीरमध्ये वायुसञ्चार इडा-पिङ्गलासुषुम्नाभिस्तिसृभिर्नाडीभिर्भवति (१) । (१. प्रकटो वायुसञ्चारो लक्ष्यते देहमध्यतः । इडा-पिङ्गला- सुषुम्नाभिर्नाडीभिस्तिसृभिर्बुधैः ॥ (नरपतिजयचर्या - ३.८) )
अत्रेडानाडौ चन्द्रः, पिङ्गलायां सूर्यः, सुषुम्नायां शम्भुर्भवति । अयं शम्भुर्हंसस्वरूपो भवति । शरीरे नासिका छिद्राभ्यां स्वरप्रवेशे शकारस्य ध्वनिर्जायते, निर्गमे च हकारस्य ध्वनिर्जायते । अत एव स्वरसञ्चारस्यास्य विधेर्नाम हंसचार इत्युच्यते (२) । (२. इडानाडीस्थितश्चन्द्रः पिङ्गला भानुवाहिनी । सुषुम्ना शम्भुरूपेण शम्भुर्हंसस्वरूपकः ॥ (नरपतिजपचर्या - ३.९) )
प्राणीनां नाभौ महाशक्तिरूपा कुण्डलिनी सर्पाकारा विद्यते । तस्माद् नाभिस्थानाद् दशनाड्य ऊर्ध्वं गच्छन्ति । द्वे द्वे तिर्यङ् नाड्यौवर्तेते । एवं चतुर्विंशति नाड्यः सन्ति । शरीरपोषिकाः सप्तोत्तराणि सप्तशतानि (७०७) नाड्यः सूक्ष्मरूपिण्यः सन्ति । अत्र प्रधाना नाड्यो दश एव । एतेषामिमानि नामानि सन्ति - १. इडा, २. पिङ्गला, ३. सुषुम्ना, ४. गान्धारी, ५. हस्तिजिह्विका, ६. पूषा, ७. यशा, ८. व्यूषा, ९. कुहूः, १०. शङ्खनिका (३) । (३. इडा पिङ्गला सुषुम्ना गान्धारी हस्तिजिह्विका । पूषा यशा च व्यूषा च कुहूः शाङ्खिनिका तथा ॥ (नरपतिजयचर्या -३.६) )
प्राय इदं तथ्यं दृश्यते यत् श्वासग्रहणे विसर्जने वा वामविसर्जने नासिकाछिद्रेणाथवा दक्षिणनासिकाछिद्रेणार्थाद् एकेनापि नासिकाछिद्रेण श्वासक्रिया प्रबला भवति । अन्येन च मन्दतरा । यदा कदैव नासिकायां छिद्राभ्यां द्वाभ्यां समाक्रिया भवति, यदा वामच्छिद्रेण श्वासप्रग्रहणं विसर्जनं वा क्रियते, तदा वामनाडी चन्द्रस्वरश्च प्रचलति, यदा च दक्षिणनासिकाछिद्रेण श्वासप्रग्रहणं विसर्जनं वाधिकरूपेण क्रियते, तदा दक्षिणनाडी सूर्यस्वरश्च प्रचलतीति मन्यते (४) ।
(४. (क) इडानाडीस्थितश्चन्द्रः पिङ्गला भानुवाहिनी ।
सुषुम्ना शम्भुरूपेण शम्भुर्हंसस्वरूपकः ॥ (नरपतिजयचर्या - ३.९) (ख)
इडायां तु स्थितश्चन्द्रः पिङ्गलायां च भास्करः ।
सुषुम्ना शम्भुरूपेण शम्भुर्हंसस्वरूपतः ।(शिवस्वरोदये, श्लोकः-५०) )
यदा द्वाभ्यां छिद्राभ्यां समानरूपेण श्वासक्रिया जायते, तदा मध्यमानाडी सुषुम्नागता भवति । या दश नाड्यः पूर्वं कथिताः, ताषां शरीरे स्थानान्येवं सन्ति ।
वामे इडा, दक्षिणे पिङ्गला, मध्ये सुषुम्ना, वामचक्षुषि गान्धारी, दक्षिणे हस्तिजिह्विका, दक्षिणकर्णे पूषा, वामकर्णे यशस्विनी, मुखे व्यूषा, लिङ्गे कुहुः, गुदास्थाने शङ्खिनी । एवमत्र शरीरे नाड्यस्तिष्ठन्ति ।
अत्र तिस्रो नाड्य इडा, पिङ्गला, सुषुम्ना, प्राणमार्गे स्थिताः कथ्यन्ते, क्रमशः सर्वासां दश नाडिकानां मध्ये इमे वायवस्तिष्ठन्ति (१) (१. शिवस्वरोदये-३.४०।) , तद्यथा --
१. प्राणः, २. अपानः, ३. समानः, ४. उदानः, ५. व्यानः, ६. नागः, ७. कूर्मः, ८. कृकलः, ९. देवदत्तः, १०. धनञ्जयश्चः (२) ।
(२. प्राणोऽपानः समानश्च उदानो व्यान एव च ।
नागः कुर्मः कृकलश्चैव देवदत्तो धनञ्जयः ॥ (नरपतिजयचर्या - अ० ३०.७) ।)
अत्र हृदये प्राणवायुस्तिष्ठति । गुदास्थाने अपानवायुः, नाभिदेशे समानवायुः, कण्ठमध्ये उदानवायुः, सम्पूर्णशरीरे व्याननामको वायुस्तिष्ठति।
परन्तु स्वरशास्त्रविचारे प्रधानरूपा इडापिङ्गलासुषुम्नाख्यास्तिस्रो नाड्यो
दक्षिण -वाम- मध्यगताः सूर्य-चन्द्र- शिवाश्रिताः सन्ति याभिः फलादेशे प्रयोजनं दृश्यते । अस्य विचारोऽग्रे करिष्यते ।
स्वरफलम्-
शुक्लपक्षस्य प्रतिपदातः प्रारभ्य तृतीयातिथिं यावच्चन्द्रस्वरश्चलति । तत्पश्चात् पुनः दिनत्रयं यावद् अर्थाच्चतुर्थी - पञ्चमी - षष्ठी तिथिषु सूर्यस्वरश्चलति ।
एवमपि तदग्रे त्रिषु (७,८,९) तिथिषु चन्द्रस्वरः प्रचलति । एवमेवाग्रेऽपि त्रिषु तिथिषु क्रमशः सूर्य-चन्द्रस्वरयोः क्रमेण सञ्चरणं जायते ।
अथ कृष्णपक्षस्य प्रतिपदातो तृतीयां यावत् सूर्यस्वरः प्रचलति, पुनरग्रे त्रिषु (४,५,६) तिथिषु चन्द्र स्वरः प्रचलति । एवमग्रे त्रिषु त्रिषु तिथिष्वयं क्रमः प्रचलति । यथा च नरपतिजयचर्यायाम् --
आदौ चन्द्रः सिते पक्षे भास्करस्तु सितेतरे ।
प्रतिपदादितो हानिस्त्रीणि त्रीणि क्रमोदयः (३) ॥ (३. नरप्रतिजयचर्या -३.१५ ।)
अस्य नरपतिजयचर्यायाः सुबोधिनीटीकायामस्य भावार्थो न सम्यक् प्रकारेण कृतोऽस्ति । यतो हि यस्मिन् काल एती चन्द्रसूर्यस्वरौ शुक्ल- कृष्णपक्षे वा प्रचलिष्यतस्तदा अथवा यस्मिन् दिने तिथ्यारम्भो भविष्यति, तस्मिन् दिने सूर्योदयकाले यदि मध्यरात्रौ मध्यदिवसे सायंतने वा तिथ्यारम्भः स्यात्, तदा कल्प्यते स्वरसञ्चारे एकरूपता न भविष्यति । तथाऽग्रे फलादेशकथनेऽपि अनियमितता सम्भविष्यति । तद्यथा -
चन्द्रोदये यदा सूर्यश्चन्द्रः सूर्योदये यदा ।
अशुभं हानिरुद्वेगस्तद्दिने जायते ध्रुवम् (१) ॥ (१. नरपतिजयचर्या - ३.१६;)
अतस्तद्दिने जायते ध्रुवमित्यनेन यदि निशि तिथ्यारम्भः स्यात्, तथा दिनस्य
परिभाषा का भविष्यति ? अत एव मन्यते सूर्योदयकालिक्येव तिथिर्ग्राह्या । तथा हि ``यस्य दिनं तस्यैव रात्रिः'' इति परम्परया सूर्योदये या तिथिर्भविष्यति, तस्या एव ग्रहणमग्रिमसूर्योदयात् पूर्वं यावत् स्वीकर्तव्यं । तथा हि प्रातः काले सूर्योदयसमये स्वरस्य विचारः कर्त्तव्यः ।
पूर्वोक्तं यच्छुक्लपक्षस्य प्रतिपदादितस्तु त्रिषु त्रिषु तिथिषु चन्द्रसूर्यस्वरौ, (वामदक्षिणस्वरौ) तथा कृष्णपक्षप्रतिपदादितो त्रिषु त्रिषु तिथिषु क्रमशः सूर्यचन्द्रस्वरौ (दक्षिणवामस्वरौ) प्रचलतः । सामान्यनियमोऽयम् ।
यस्य जनस्यैवं क्रमेण सर्वाषु तिथिषु स्वरसञ्चारो भवति, तस्य कृते सर्वं फलं शोभनं जायते ।
शुक्लपक्षस्य प्रथमाद्यासु तिसृषु तिथिषु चन्द्रस्वरः, तत्पश्चात् क्रमशः तिसृषु तिथिषु सूर्यचन्द्रस्वरौ स्याताम् । तथैव कृष्णपक्षस्य प्रथमाद्याषु त्रिसृषु तिथिषु सूर्यस्वरः, तत्पश्चात् क्रमशस्तिसृषु, तिसृषु तिथिषु चन्द्रसूर्यस्वरौ स्याताम्, तदा शुभं स्यात् । यद्येवं न भवति, अर्थाच्चन्द्रस्वरस्य समये सूर्यस्वरः प्रचलितो भवेत्, तथा सूर्यस्वरस्य समये चन्द्रस्वरः प्रचलितस्तदा अशुभं जायते (२) । (२. तदेव - ३.१६)
अत्राभ्यासबलेन सिद्धः साधकः पूर्ववार्णितनिर्देशानुसारं यथेच्छं चन्द्रसूर्यस्वरयोः सञ्चालनं कर्तुं समर्थो भविष्यति । एकोऽयमपि सामान्यो नियमो यद् रात्रौ चन्द्रस्वरस्य सञ्चालनम्, दिवा सूर्यस्वरस्य सञ्चालनं श्रेयस्करं भवति (३) ।
(३. शशाङ्कं चारयेद्रात्रौ दिवाचार्यो दिवाकरः ।
इत्यभ्यासरतो नित्यं स योगी नात्र संशयः ॥ (नरपतिजयचर्या - ३.१७) )
कार्यवशेन स्वरसञ्चालने फलं
यात्रा, विवाहः, वस्त्रालङ्कारादिभूषणादिधारणं शुभकर्मारम्भः सन्धिवार्ता,नवीनगृहप्रवेशः, होमादिकं शान्तिकर्म, रसायनाद्यौषधिनिर्माणम्, विद्यारम्भस्तथा स्थिरं कार्यमपि चन्द्रस्वरे प्रशस्तं भवति ।
सूर्यस्वरस्य सञ्चारकाले विग्रहः युद्धादिकार्यं, स्नानम्, भोजनम्, मैथुनम्, व्यवहारादिकं प्रशस्तं स्यात् । यदि दूरस्थः शत्रुः स्यात्, तस्योपरि विजयं प्राप्तुं चन्द्रस्वरे युद्धारम्भो विजयप्रदो भवति । यदा शत्रुरासन्न एव स्यात्, तदा सूर्यस्वरे युद्धे सति साफल्यं प्राप्यते ।
यात्रायां विशेषः
यात्रा काले यदा वामस्वरः स्यात्, तदा वामचरणं प्रथममग्रे कृत्वा यात्रा क्रियते । यदि च दक्षिणस्वरः प्रचलति तदा दक्षिणपादमग्रे कृत्वा यात्रा प्रारभ्यते । एवं कृते सति यात्रा सिद्धिप्रदा भवति । यदा वामस्वरे यात्रा क्रियते, तदा प्रथमं समसङ्ख्याकं यावद् वामपादं सञ्चाल्यते, दक्षिणस्वरे सति विषमसङ्ख्याकं यावद् दक्षिणपादेन प्रथमं यात्रा प्रारभ्यते ।
युद्धकाले यदा चन्द्रस्वरः स्यात्, तदा स्थायी जयति । यदा च सूर्यस्वरः प्रवहति, तदा यायी जयति । यदि वामस्वरस्य प्रवाहः स्यात्, तदा स्थायी योद्धा पूर्वस्यामुत्तरस्यां वा युद्धं कृत्वा विजयी भवति । दक्षिणस्वरप्रवाहे यायी योद्धा पश्चिमस्यां दक्षिणस्यां वा दिशि युद्धं कृत्वा विजयी भवति । अयमपि विचारो यद् यदि युद्धकाले वामस्वरस्य प्रवाहः स्यात्, तदा चन्द्रमसः सम्मुखे वामे वा कृत्वा युद्धं कुर्यात् । यदा च सूर्यस्वरप्रवाहः स्यात्, तदा सूर्यं पृष्ठे दक्षिणे वा कृत्वा युद्धारम्भं कुर्यात्, तदा विजयो भवति (१) । (१. दिग्ज्ञानं सूर्यचन्द्रमाराशिवशेन क्रियते । तथा च - मेषसिंहधनुराशि पूर्वदिशा, वृषकन्यामकरेषु दक्षिण दिशा, मिथनतुलाकुम्भेषु पश्चिम दिशा, कर्कवृश्चिकमीनेषु उत्तरदिशा भवति ।)
स्वरवशेन रतिविचारः, सन्तानविचारश्च
रतिकाले यदा स्त्रियो वामस्वरो भवति, पुरुषस्य च दक्षिणस्वरो भवति, तदा मकरध्वजतुल्यः प्रसङ्गो जायते । अयमपि सामान्यो नियमो यत् पुरुषो वामपार्श्वेन शयनं करोति, तदा तस्य दक्षिणस्वरः प्रचलति । स्त्री यदा दक्षिणपार्श्वेन शयनं करोति, तदा तस्या वामस्वरः प्रचलतीति वायुनियमः । तद्यथा -
शयने वा प्रसङ्गे वा युवत्यालिङ्गनेऽपि वा ।
यः सूर्येण पिबेच्चन्द्रं स भवेन्मकरध्वजः (१) ॥ (१. नरपतिजयचर्या - ३.२१ ।)
यदा शरीरे विषस्य प्रभावः स्यात्, तस्मिन् समये यदि अभ्यासबलेन वामस्वरस्य सञ्चालनं क्रियते, तदा तस्य प्रभावो विनश्यति । रतौ सूर्यस्वरस्य सञ्चारेण कामिनी वशमायाति । मोक्षकाले यदि मध्यमवायोः (सुषुम्नायाः) सञ्चालनं क्रियते, तदा सारल्येन मोक्षप्राप्तिः सञ्जायते(२) ।
(२. चन्द्रचारे विषं हन्ति सूर्ये बालां वशं नयेत् ।
सुषुम्नायां भवेन्मोक्ष एको देवस्त्रिधा स्थितः ॥ (नरपतिजयचर्या - ३.३५) )
यदि पृच्छको गर्भप्रश्नं करोति, तदा तस्मिन् काले पूर्णस्वरोदये पुत्रो भवति । यदि प्रश्नकाले स्वरसञ्चरणं निर्बलं मन्दगत्या भवेत्, तदा कन्या भवति । यदा च प्रश्नकाले शून्यस्वरस्य पश्चात् पूर्णस्वरः प्रचलेत्, तदा प्राक् कन्या, पश्चाच्च पुत्रो भवति । यदा च सङ्क्रमणकालः स्यात्, अर्थात् पूर्ण - सम-शून्य-स्वराणां सहैव चलनं भवेत्, तदा गर्भपातो भवति ।
एवमेव प्रकारेण चन्द्रसूर्यस्वरयोरभ्यासेन विविधानि कार्याणि इच्छानुसारेण
कर्तुं शक्यन्ते । यथोक्तम् -
चन्द्रसूर्यस्वराभ्यासं ये कुर्वन्ति सदा नराः ।
अतीतानागतं ज्ञानं तेषां हस्तगतं सदा (३) ॥ (३. तदेव - ३.५६;)
स्वरशास्त्रस्य प्रणेता
इदं स्वरशास्त्रं शिवपार्वत्योः संवादरूपं शिवस्वरोदये वर्णितमस्ति । यथा शिववाक्यं पार्वतीं प्रति -
गुह्याद्गुह्यतरं सारमुपकारप्रकाशनम् ।
इदं स्वरोदयं ज्ञानं ज्ञानानां सस्तकं मणिः (४) ॥ (४. शिवस्वरोदये - श्लो० ११;)
स्वरविषयकं यौगिकं ज्ञानं तन्त्रशास्त्रेऽपि दृश्यते । तत्रापि तन्त्रशास्त्रस्याधारभूतो देवः शिव एव । यथा नरपतिजयचर्यायां ब्रह्मयामलनामकस्य तन्त्रग्रन्थयोद्धरणमस्ति । तद्यथा--
अथातः सम्प्रवक्ष्यामि ख्याता ये ब्रह्मयामले ।
मात्रादिभेदभिन्नानां स्वराणां षोडशोदयान् (५) ॥ (५. नरपतिजयचर्या - २.१ ।)
सङ्ग्रामविजयोदयेऽपीदं स्वरशास्त्रं शाम्भवाद् निःसृतं । यथा च - ``सङ्क्षेपाद् वक्ष्येऽहं समरजयं शाम्भवात् सारम् (१) इति ''॥ (१. नरपतिजयचर्या -४ .१ ।)
जैनग्रन्थेऽपि स्वरशास्त्रस्य विवेचनं वर्तते । भगवतो महावीरस्य चतुर्दश उत्तराधिकारी भद्रबाहुः योगाभ्यास-प्राणायामबलेन स्वरविषयस्याभ्यासं कृतवानिति ज्ञायते । एतद् विषयकं वर्णनं ``स्वरज्योति'' ग्रन्थे श्रीमतः सूरिमहोदयस्य गुरुशिष्यवार्तालापप्रसङ्गेन ज्ञायते ।
अनेनायं विज्ञायते यद् योगाभ्यासबलेन स्वरसंसाधनं भवति, यस्य प्रवर्त्तको योगिराजशङ्कर एव सिद्ध्यति ।
स्वरशास्त्रान्तर्गता बहवो विषयाः सन्ति । बहूनि च चक्राणि ग्रहनक्षत्रादिवशेन भवन्ति; परन्तु प्रस्तुतनिबन्धे मुख्यतश्चन्द्रसूर्यस्वरयोः परिचयस्तस्योपयोगश्च प्रदर्शितः। यतः संक्षिप्तरूपेण स्वल्पपरिश्रमेण सुगमरीत्या चास्य प्रयोगः सर्वैर्जनैः कर्तुं शक्यते । अस्मिन् प्रयोगे चन्द्रसूर्यस्वरयोः (वामदक्षिणस्वरयोः) परिज्ञानमात्रेण फलादेशं कर्तुं शक्यत इति शम्।
डाॅ० नागेन्द्रपाण्डेयः
प्राध्यापकः, ज्योतिषविभागे,
सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य, वाराणसी
Proofread by Meera Iyer