उपदेशात्मकं पत्रम्
(अनुष्टुप्छन्दः)
ज्ञाने नेत्रं समादाय शोभते या महीतले ।
नेत्रा सा न क्वचिद्भिन्ना श्रीधराद्ब्रह्मरूपिणः ॥ १॥
अकायं निर्गुणं ब्रह्म याऽहं स्फूर्तौ समीक्षते ।
नेत्रा सा न क्वचिद्भिन्ना श्रीधराद्ब्रह्मरूपिणः ॥ २॥
या जन्म कर्मभिः क्वापि सज्जते न कदाचन ।
नेत्रा सा न क्वचिद्भिन्ना श्रीधराद्ब्रह्मरूपिणः ॥ ३॥
किञ्चिज्ज्ञेयं न यस्यान्तं ज्ञातुं भिन्नं निजात्मनः ।
नेत्रा सा न क्वचिद्भिन्ना श्रीधराद्ब्रह्मरूपिणः ॥ ४॥
चिन्मात्रवपुषा या च स्वात्मबोधात्स्वयं प्रभा ।
नेत्रा सा न क्वचिद्भिन्ना श्रीधराद्ब्रह्मरूपिणः ॥ ५॥
विगताऽज्ञानमाया या ब्रह्मात्मैक्यनिबोधनात् ।
नेत्रा सा न क्वचिद्भिन्ना श्रीधराद्ब्रह्मरूपिणः ॥ ६॥
जीवेशौ बन्धमोक्षौ च स्वरूपे या न पश्यति ।
नेत्रा सा न क्वचिद्भिन्ना श्रीधराद्ब्रह्मरूपिणः ॥ ७॥
सच्चित्सुखघने भिन्नं भिन्नं नैव यतस्ततः ।
नेत्रा सा न क्वचिद्भिन्ना श्रीधराद्ब्रह्मरूपिणः ॥ ८॥
ब्रह्मरूपा शिवा शान्ता नित्यं या भाव्यते बुधैः ।
नेत्रा सा न क्वचिद्भिन्ना श्रीधराद्ब्रह्मरूपिणः ॥ ९॥
सच्चिदानन्दरूपोऽहं न चाहं ब्रह्मणः पृथक् ।
ज्ञात्वाऽन्येऽपि न भिन्नाः स्युः श्रीधराद्ब्रह्मरूपिणः ॥ १०॥
नार्या वाऽपि नरस्याऽपि देहो भवतु तेन किम् ।
यस्यात्ममतिरुद्भूता स जीवो ब्रह्म केवलम् ॥ ११॥
नित्यानन्दघने स्फारे मायादीनामसत्वतः ।
त्यक्त्वाऽध्यस्तं सदैकोऽस्ति जीवोयद्भुवि मानवः ॥ १२॥
इति श्रीमत् परमहंसपरिव्राजकाचार्य सद्गुरु भगवान्
श्रीधरस्वामीमहाराजविरचितं उपदेशात्मकं पत्रं सम्पूर्णम् ।
कुमार्यै कप्पे नेत्रायै प्रेषितं,
काफी उद्यानवनं चिक्कमगळूरु श्रावण, संवत्सरः १९४३
ॐ श्री श्रीधराय नमः ।
Proofread by Manish Gavkar