वैष्णवदर्शनानां दिङ्मात्रपरिशीलनम्

वैष्णवदर्शनानां दिङ्मात्रपरिशीलनम्

लेखकः - नन्दप्रदीप्तकुमारः तत्र नारदपञ्चरात्रादि आगमोक्तविधिना विष्णुमन्त्रग्रहितारो वैष्णवाः । विष्णुपूजनरताः । ते च रामकृष्णनारायणविष्ण्वादिशब्दब्रह्मसमर्च्चयन्तः नामरूपचिन्तनपरायणा भवन्ति । वैष्णवलक्षणं तु - ``परमापदमापन्नो हर्षे वा समुपस्थिते । नैकादशीं त्यजेद्यस्तु यस्य दीक्षास्ति वैष्णवी ॥'' विष्ण्वर्पिताखिलाचारः स हि वैष्णव उच्यते ॥ (निर्णयसिन्धौ)इति । षड् विधा वैष्णवा विद्यन्ते । तेषु द्वैतवादिमध्वाचार्य्य आद्यः । अनेन पूर्णप्रज्ञ भाष्यं विहितम् । द्वितीयो वेदान्तपारिजातसौरभकर्त्ता निम्बार्काचार्य्यो द्वैताऽद्वैतसमर्थकः । तृतीयो विशिष्टाद्वैतवादी रामानुजाचार्य्यः श्रीभाष्यकर्त्ता । चतुर्थ अणुभाष्यकर्त्ता वल्लभाचार्य्यः शुद्धाद्वैतवादी । पञ्चम औपाधिक भेदाभेदवादी भास्कराचार्य्यः भास्करभाष्यकर्त्ता । षष्ठः श्रीचैतन्यमहाप्रभुः । अचिन्त्यभेदाभेदसमर्थकः । अत्र बलदेवविद्याभूषणस्य गोविन्दभाष्यं प्रसिद्धम् । एतेषां मतानि प्रदर्श्यन्ते क्रमशः ।

१. पाञ्चरात्रमतम्

तत्रादौ पाञ्चरात्रे ब्रह्मणो नारायणस्य सगुण-निर्गुणभेदेन रूपद्वयं प्रसिद्धम् । ज्ञान-शक्ति-ऐश्वर्य्य-बल-बीर्य्य-तेजांसि षड्गुणाः । तद्गुणविग्रहवान् वासुदेवः । लक्ष्मीः भगवत आत्मभूता शक्तिः । सृष्ट्यारम्भे क्रियाशक्ति-भूतिशक्तिभेदाभ्यां द्विधा विभक्ता । जगदुत्पादनात्मकः संकल्पः क्रियाशक्तिरिति परिचिता । जगद्रूपेण परिणतिर्हि भूतिशक्तिरित्युच्यते । यच्चोक्तम्- क्रियाख्यो योऽयमुन्मेषः स भूतिपरिवर्तकः । लक्ष्मीमयः प्राणरूपो विष्णोः संकल्प उच्यते ॥ (अहिर्बुध्न्य संहिता ३/२१) इति । लक्ष्म्या अनुग्रहेण विश्वसृष्टिर्जायते । पाञ्चरात्र मतेन व्यूह-विभव-अर्च्चावतार-अन्तर्यामी भेदेन चत्वार अवताराः । वासुदेवात्संकर्षणः । संकर्षणात्प्रद्युम्नः । प्रद्युम्नात् अनिरुद्ध इति चत्वारो व्यूहाः । भागवतेऽपि व्यूहा उक्ताः । यदुक्तम्- नमस्ते वासुदेवाय नमः संकर्षणाय च । प्रद्युम्नायानिरुद्धाय सात्वतां पतये नमः ॥ (भागवते १०/४०/२१) इति पाञ्चरात्रपरंपरा धार्मिकविकाशरूपेण प्रस्तुता सति वैष्णवपुराणेषु दरीदृश्यते । निष्कामकर्मणा भगवति भक्तिर्जायते । भक्त्या भगवच्छरणागतिरूपा ब्रह्मभावापत्तिर्मोक्षः । तदर्थं भगवदाराधनं सर्वश्रेष्ठमिति निश्चप्रचम् (भक्तिचन्द्रिकायां पृष्ठ २१) । प्रत्यपादि भगवता व्यासेन- समाराध्यैव गोविन्दं गता मुक्तिं महर्षयः । तस्माद्भज हृषीकेशं कृष्णं देवकीनन्दनम् ॥ तद्ब्रह्म परमं प्रोक्तं तद्द्धाम परमं पदम् । तद् गत्वा कालविषयाद् विमुक्ता मोक्षमाश्रिताः ॥ (महाभारते शान्तिपर्वः २०६/१४) इति ।

२. मध्वमतम्

मध्वाचार्य्यो द्वैतवादस्य प्रधानः । तन्नये जीवेश्वरयोरशेषपार्थक्यं स्वीकृतम् । जीव उपासकः सेवको भक्तश्च । ब्रह्म उपास्यं सेव्यं पूजनीयं च । अनयोर्मध्ये ऐक्यं नास्ति । तत्र द्रव्यगुणकर्मसामान्यविशेषविशिष्टांशिशक्तिसाहचर्याभावाः दशपदार्थाः स्वीकृताः । द्रव्याणि विंशतिसंख्यकानि । परमात्मा भगवान् विष्णुरेव । लक्ष्मीः भगवतः शक्तिः । जीवा अनुचरा अज्ञानदुःखदूषिताः । एतत्सर्वं- श्रीमन्मध्वमते हरिः परतरः सत्यं जगत्तत्त्वतो भेदाः जीवगणाः हरेरनुचरा नीचोच्चभावं गताः । मुक्तिर्नैजसुखानुभूतिरमला भक्तिश्च तत्साधनं अक्षादित्रितयं प्रमाणमखिलाम्नायैकवेद्यो हरिः ॥ (सामान्यदर्शनम्) इति व्यासतीर्थेन मध्वमतं संकीर्त्तितम् ।

३. निम्बार्कमतम्

कदाचिद् द्वेताद्वैतवादी निम्बार्काचार्यः । तन्नये ब्रह्म सगुणं निर्गुणं चेत्यस्मिन्नर्थे द्वैताद्वैतवादः । जीवब्रह्मणो भेदौ अभेदौ वेत्यस्मिन्पक्षे तु द्वैताद्वैतौ भेदाभेदवादौ वा स्वीकृतौ । (सर्वदर्शनकौमुद्याम् पृष्ठ २०३) आत्मानात्मकभेदेन तत्त्वं द्विविधम् । आत्मा जीवात्मपरमात्मभेदेन द्विविधौ । जीवो ज्ञानवान् ज्ञातृत्वादिधर्माधाररूपः । अणुः परतन्त्रः प्रतिशरीरं भिन्नो बन्धमोक्षयुक्त इति वदन्ति । प्रकृतिपुरुषकालकर्मणां नियन्ता परंब्रह्म वासुदेवः श्रीकृष्णः । तस्य हरिरिति नामान्तरं विद्यते । जीवेश्वरयोरंशाशिभावसम्बधः स्थिरीकृतः । प्रकृतिस्तत्कार्यदेहादिकमनात्मतत्त्वम् । तदुक्तम्- ज्ञानस्वरूपं च हरेरधीनं शरीरसंयोगवियोगयोग्यम् । अणुं हि जीवं प्रतिदेहभिन्नं ज्ञातृत्ववन्तं यदनन्तमाहुः ॥ (दशश्लोकी १) इति । मुक्तौ श्रीकृष्णपदसेवनं विना अन्यत् साधनं नास्ति । ``तस्मात् कृष्ण परो देवः तं ध्यायेत् । तं रसेत् तं भजेत् तं यजेत् ॐ तत्सदिति ।'' (दशश्लोकीटीका पृष्ठ ३६) राधा श्रीकृष्णस्याह्लादिनी शक्तिः सर्वेश्वरी । राधाकृष्णयोर्मध्ये विम्बप्रतिविम्बभावः स्वीकृतः । तथा हि भागवते- रेमे रमेशो व्रजसुन्दरिभिर्यथार्भकः स्वप्रतिबिम्बविभ्रमः । (भागवतम् १०/३३/१७) इति । अपि चात्र- कृत्वा तावन्तमात्मानं यावतीर्गोपयोषितः । रेमे स भगवांस्ताभिरात्मारामोऽपि लीलया ॥ (भागवतम् १०/३३/२०) इति ।

४. रामानुजमतम्

विशिष्टाद्वैतवादी रामानुजाचार्य्यः । विशिष्टं च विशिष्टं च विशिष्टे विशिष्टयोः स्थूलचिदचिद्विशिष्टब्रह्मणः सूक्ष्मचिद्विशिष्टब्रह्मण्श्चाद्वैतं भेदभाव ऐक्यमिति विशिष्टाद्वैतम् । अत्र त्रयः पदार्था विवेचिताः चिदचिदीश्वरभेदात् । चिदत्र जीवात्मानो बहवः । अचित्तुजडरूपं जगत् । सकलकल्याणकरः करुणावरुणालयः सर्वज्ञः सर्वशक्तिमान् स्वयंप्रकाशः जगत्प्रभुः श्रीमन्नारायणोऽद्वितीयो साध्यः । चतुर्दशब्रह्माण्डा अनन्तजीवाश्च तच्छरीरम् । साध्यसिद्ध्यर्थं न ज्ञानं नापि ज्ञानकर्मसमुच्चयः किन्तु भक्तिरेव मान्या ।

५. वल्लभमतम्

पुष्टिमार्गप्रवर्त्तको वल्लभ अणुभाष्यकर्त्ता शुद्धाद्वैतवादी । तन्मतानुसारं-'' वेदाः श्रीकृष्णवाक्यानि व्याससूत्राणि चैव हि । समाधिभाषा व्यासस्य प्रमाणं तत् चतुष्टयम् ॥'' (वैष्णवसंप्रदाय सिद्धान्त पृष्ठ ११५) इति कर्तृत्व भोक्तृत्वत्वात् भगवान् श्रीकृष्णः एव परमात्मा ब्रह्म । जीव अणुः । ब्रह्मणोंऽशः । जीवस्य भगवद्धर्माणां तिरोभाव एव जीवभावः । साधनं ज्ञानभक्तिरूपमुक्तम् । श्रवणमननोपासनादिभिः पापक्षये सति भगवत्प्रेमोत्पत्तिस्ततो मुक्तिरित्युच्यते ।

६. चैतन्यमतम्

असौ चैतन्यमहाप्रभुः भगवत अवतारभूत इति जीवगोस्वामिना भागवतसन्दर्भे उक्तम् । तद्यथा- अन्तः कृष्णं बहिर्गौरं दर्शितांगादिवैभवम् । कलौ संकीर्तनादैः स्मः कृष्णचैतन्यमाश्रिताः ॥ (भागवतसन्दर्भः १२/३२) इति । स्वरूपाद्यभिन्नत्वेन चिन्तयितुमशक्यत्वाद् भेदः,भिन्नत्वेन चिन्तयितुमशक्यत्वाद् अभेदश्च प्रतीयते । अनेन शक्तिशक्तिमतो भेदाभेदौ अंगीकृतौ । तौ च अचिन्त्यौ । ((भागवतसन्दर्भः) चैतन्यमहाप्रभुणा न कोऽपि ग्रन्थः लिखितः । केवलं ``शिक्षाष्टकं'' रचितवानीति केचिद्वदन्ति । यद्यपि चैतन्यसंप्रदायः माध्वमतस्य शाखाविशेषस्तथापि माध्वमत-चैतन्यमतयोः महान् भेदः स्वीक्रियते । चैतन्यमतस्य प्रधानाचार्यः बलदेवविद्याभूषणः । तेन ब्रह्मसूत्रोपरि अचिन्त्यभेदाभेदमतीयं गोविन्दभाष्यं विलिखितम् । तन्नये ईश्वर-जीव-प्रकृति-काल-कर्माणि पञ्चतत्त्वानि श्रूयन्ते । ईस्वरो विभुचैतन्यम् नित्यज्ञानादिगुणकं श्रीकृष्ण एव परमोत्तमं वस्तु । जीवात्मा अणुचैतन्यम् । ईश्वरवन्नित्यज्ञानादिगुणविशिष्टोऽस्मच्छब्दवाच्यः । विश्वं सत्यम् । जीवमात्रो हरेर्दासः । श्रीकृष्णस्य चरणलाभ एव मुक्तिः । भक्तिरेव मुक्तिप्राप्तये चरमसाधनम् । यच्चोक्तम्- आराध्यो भगवान् व्रजेशतनयस्तद्धामवृन्दावनं रम्या काचिदुपासना व्रजवधूवर्गेण या कल्पिता । शात्रं भागवतं प्रमाणममलं प्रेमा पुमर्थो महान् श्रीचैतन्यमहाप्रभोर्मतमिदं तत्रादरो नः परः ॥ (वैष्णवसंप्रदाय सिद्धान्त पृष्ठ ४४३) इति । --- लेखकः - नन्दप्रदीप्तकुमारः डाॅ प्रदीप्त कुमार नन्दः श्रीजगन्नाथसंस्कृतविश्वविद्यालयः श्रीविहारः,पुरी Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com
% Text title            : vaiShNavadarshanAnAM dingmAtraparishIlanam
% File name             : vaiShNavadarshanAnAMdingmAtraparishIlanam.itx
% itxtitle              : vaiShNavadarshanAnAM diNmAtraparishIlanam (lekhaH)
% engtitle              : vaiShNavadarshanAnAM dingmAtraparishIlanam
% Category              : misc, article, pradIptakumArananda
% Location              : doc_z_misc_general
% Sublocation           : misc
% Author                : (Copyright) Pradipta Kumar Nanda, Kendrapara, Orissa pknanda65 at gmail.com
% Language              : Sanskrit
% Subject               : philosophy/religion
% Transliterated by     : Pradipta Kumar Nanda pknanda65 at gmail.com
% Proofread by          : Pradipta Kumar Nanda
% Acknowledge-Permission: (Copyright) Pradipta Kumar Nanda
% Latest update         : August 12, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org