मङ्गलाष्टकम्
कल्याणैकनिदानभूतमिति यत्कालाग्निरुद्रादिभिः
प्रख्यातोपनिषद्भिरध्यवसितं विश्वस्तपापव्रजम् ।
भस्मेति स्मृतिमात्रतो भुवि नृणां मौनीन्द्रभोगप्रदं
रुद्राणीरमणप्रियं तदमितं कुर्यात् सदा मङ्गलम् ॥ १॥
लोके श्रीशिशिरक्षमाधरसुताकान्ताक्षिपङ्केरुह-
स्यन्दिक्षीरकणोदितं हि यदिति ख्यातं पुराणे श्रुतौ ।
श्रेयःसाधनतान्दधानमनिशं शैवप्रमोदावहं
रुद्राक्षं श्रितरक्षकं तदमितं कुर्यात् सदा मङ्गलम् ॥ २॥
स्वान्तर्गर्भितसर्वमन्त्रकलनालब्धव्यनानाफलं
स्मारं स्मारमिह स्मरारिसदनं पञ्चाक्षर पावनम् ।
यच्छैवाः प्रतरन्ति दुस्तरमहासंसारवारान्निधिं
भूयस्तद्वरमन्त्ररत्नममितं कुर्यात् सदा मङ्गलम् ॥ ३॥
अज्ञानातिशयाधिकान्धतमसात्यन्धस्य पुंसः सदा
सुज्ञानाञ्जनसाधनेन महता चक्षुःसमुन्मीलितम् ।
येन स्वच्छमतुच्छभूतिकरुणाकल्लोलिनीवल्लभ-
श्रीमान् सद्गुरुरत्र सैष भगवान् कुर्यात् सदा मङ्गलम् ॥ ४॥
सम्बन्धातिशयं सदा विरचयत्यागाङ्गयोगाङ्गस-
द्भोगाङ्गप्रतिभेदभिन्नतनुषु श्रुत्यन्तसङ्घस्तुतम् ।
लिङ्गाङ्गद्वयसामरस्य विलसच्चेतःस्वरूपप्रदं
लिगं श्रीकरमुत्तमं तदमितं कुर्यात् सदा मङ्गलम् ॥ ५॥
जानातीह मुहुः क्षितावतिशयं विश्वप्रकाशं प्रभुं
वेदान्तैः प्रतिपादितं परशिवं स्वीयस्वरूपेण यः ।
नानाघोरतराघपूगतिमिरप्रध्वंसनद्योमणिः
सोऽयं श्रीवरजङ्गमः समधिकं कुर्यात् सदा मङ्गलम् ॥ ६॥
पीत्वा यत्परमं पवित्रममलं कैलासशैलोल्लस-
च्छर्वोदग्रवरप्रदेशपदवीसोपानभूतं सदा ।
भक्त्या भूमितले समीहितततिं सम्प्राप्नुवन्त्यादरात्
तत्पादोदकमिष्टदं समधिकं कुर्यात् सदा मङ्गलम् ॥ ७॥
जुष्ट्वा यं श्रुतिशंसितं पुरहरप्रेमप्रकर्षास्पदं
शस्तं ध्वस्तसमस्तदुष्कृतगणं स्वश्रेयसः श्रीपदम् ।
सान्द्रानन्दभरा भवन्ति पुरुषाः सर्वेऽपि चोर्वीतले
हृद्यः स त्रिविधः प्रसादनिचयः कुर्यात् सदा मङ्गलम् ॥ ८॥
स्पष्टाष्टावरणप्रचारचतुरःश्रीवीरशैवाग्रणीः
पञ्चाचारविचारचारुचतुरः स्वच्छान्तरङ्गः सदा ।
सङ्ख्यावज्जनगीयमानविलसन्माहात्म्यसम्भावितो
भक्तानुग्रहकृत् पुरातनगणः कुर्यात् सदा मङ्गलम् ॥ ९॥
लोके शाम्भवमङ्गलाष्टकमिदं सर्वेष्टसिद्धिप्रदं
भक्त्या यः पठति प्रहृष्टहृदयः श्लाघ्यं सुधीभिर्मुहुः ।
श्रीनिर्वाणमुदाप्तये विरचितं यो वा शृणोत्यादरात्
पुंसस्तस्य सदाशिवः समधिकं कुर्यात् सदा मङ्गलम् ॥ १०॥
सुमुहूर्ते सावधानं सुलग्ने सावधानम् ।
इति वीरशैवमहासङ्कल्पे वीरशैवविवाहपद्धत्यानुसारं
मङ्गलाष्टकं सम्पूर्णम् ।
Encoded and proofread by Manish Gavkar