यमक काव्यं (घटकर्पर)
घटकर्पर यमक काव्यम्
निचितं खमुपेत्य नीरदाइः
प्रियहीनाहृदयावनीरदैः ।
सलिलैर्विहतं रजः क्षितौ
रविचन्द्रावपि नोपलक्षितौ ॥ १॥
हंसा नदन्मेघभयाद् द्रवन्ति
निशामुखान्यद्य न चन्द्रवन्ति ।
नवाम्बुमत्ताः शिखिनो नदन्ति
मेघागमे कुन्दसमानदन्ति ॥ २॥
मेघावृतं निशि न भाति नभो वितारं
निद्राऽभ्युपैति च हरिं सुखसेवितारम् ।
सेन्द्रायुधश्च जलदोऽद्य रसन्निभानां
संरम्भमावहति भूधरसन्निभानाम् ॥ ३॥
सतडिज्जलदार्पितं नगेषु
स्वनदम्भोधरभीतपन्नगेषु ।
परिधीररवं जलं दरीषु
प्रपतत्यद्भुतरूपसुन्दरीषु ॥ ४॥
क्षिप्रं प्रसादयति सम्प्रति कोऽपि तानि
कान्तामुखानि रतिविग्रहकोपितानि ।
उत्कण्ठयन्ति पथिकाञ्जलदाः स्वनन्तः
शोकः समुद्भवति तद्वनितास्वनन्तः ॥ ५॥
छादिते दिनकरस्य भावने
खाज्जले पतति शोकभावने ।
मन्मथे च हृदि हन्तुमुद्यते
प्रोषितप्रमदयेदमुद्यते ॥ ६॥
सर्वकालमतिलङ्घ्य तोयदा
आगताः स्थ दयितो गतो यदा ।
निर्घृणेन परदेशसेवना
मारयिष्यथ न तेन मा विना ॥ ७॥
ब्रूत तं पथिकपांशुलं घना
यूयमेव पथिशीघ्रलङ्घनाः ।
अन्यदेशरतिरद्य मुच्यतां
साऽथवा तव वधू किमुच्यतम् ॥ ८॥
हंसः पङ्क्तिरपि नाथ सम्प्रति
प्रस्थिता वियति मानसम्प्रति ।
चातकोऽपि तृषितोम्बु याचते
दुःखिता पथिक सा प्रिया च ते ॥ ९॥
नीलशष्पमतिभाति कोमलं
वारि विन्दति च चातकोऽमलम् ।
अम्बुदैः शिखिगणो विनाद्यते
का रतिः प्रिय मया विनाऽद्यते ॥ १०॥
मेघशब्दमुदिताः कलापिनः
प्रोषिताहृदयशोकलापिनः ।
तोयदागमकृशा च साऽद्यते
दुर्धरेण मदनेन साद्यते ॥ ११॥
किं कृपापि तव नास्ति कान्तया
पाण्डुगणपतितालकान्तया ।
शोकसागरजलेऽद्य पातितां
त्वद्गुणस्मरणमेव पाति ताम् ॥ १२॥
कुसुमितकुटजेषु काननेषु
प्रियरहितेषु समुत्सुकाननेषु ।
द्रवति च कलुषे जले नदीनां
किमिति च मां समवेक्षसे न दीनाम् ॥ १३॥
मार्गेषु मेघसलिलेन विनाशितेषु
कामो धनुः स्पृशति तेन विना शितेषु ।
गम्भीरमेघरसितव्यथिता कदाहं
जह्यां सखिप्रियवियोगजशोकदाहम् ॥ १४॥
सुसुगन्धितया वनेऽजितानां
स्वनदम्भोधरवातवीजितानाम् ।
मदनस्य कृते निकेतकानां
प्रतिभान्तीह वनानि केतकानाम् ॥ १५॥
तत्साधु यत्त्वां सुतरां ससर्ज
प्रजापतिः कामनिवास सर्ज ।
त्वं मञ्जरीभिः प्रवरो वनानां
नेत्रात्सवश्चासि सयौवनानाम् ॥ १६॥
नवकदम्ब शिरोऽवनतास्मि ते
वसति ते मदनः कुसुमस्मिते ।
कुटज किं कुसुमैरुपहस्यते
प्रणिपतामि च दुष्प्रसहस्यते ॥ १७॥
तरुवर विनतास्मि ते सदाऽहं
हृदयं मे प्रकरोषि किं सदाहम् ।
तव कुसुम निरीक्सणेऽप्देऽहं
विसृजेयं सहसैव नीप देहम् ॥ १८॥
कुसुमैरुपशोभितां सितै-
र्घनमुक्ताम्बुलवप्रहासितैः ।
मधुनः समवेक्ष्य कालतां
भ्रमरश्चुम्बति यूथिकालताम् ॥ १९॥
तासामृतुः सफल एव हि या दिनेषु
सेन्द्रायुधाम्बुधरगर्जितदुर्दिनेषु ।
रत्युत्सवं प्रियतमैः सह मानयन्ति
मेघागमे प्रियसखीश्च समानयन्ति ॥ २०॥
कोकिलभ्रमरकोककूजिते
मन्मथेन सकले जने जिते ।
निर्गतोऽसि शठ मासि माधवे
नोपयासि शयिओऽपि माधवे ॥ २१॥
एतन्निशम्यविरहानलपीडिताया-
स्तस्या वचः खलु दयालुरपीडिताया ।
स स्वारवेण कथितं जलधैरमोघैः
प्रत्याययौ सदनमूनदिनैरमोघैः ॥ २२॥
भावानुरक्तवनितासुरतैः शपेय-
मालम्ब्य चाम्बु तृशितः करकोशपेयम् ।
जोयेय येन कविना यमकैः परेण
तस्मै वहेयमुदकं घटकर्परेण ॥ २३॥
॥ समाप्तमिदं घटकर्पर यमक काव्यम् ॥
Encoded and proofread by to P . P . Narayanaswami at swami at math.mun.ca