महापुरुषो यशोवन्तदासः
लेखकः - नन्दप्रदीप्तकुमारः
महापुरुषो यशोवन्तः उत्कलीयः । ``पञ्चसखा'' गोष्ठीषु अन्यतमः । अस्य जन्मसमयविषये यद्यपि प्रामाणिक-निर्दिष्टतथ्यं नास्ति तथापि अयं महात्मा षोडशशताब्दीय इति ऐतिहासिका समामनन्ति । जगत्सिंहपुरस्य ``अढंग'' ग्रामे १४८२ ख्रीष्टाब्दे यशोवन्त एकस्मिन् क्षत्रियकुले जन्मोऽभूदिति केचन वदन्ति । अन्ये समालोचकाः अस्य जन्मसमयः १४८७ इति द्रढयन्ति । अद्यापि यशोवन्तस्य समाधिपीठः अत्र उपलभ्यते । उदयकाहाणी मतेन-
``तिनि सतर पक्ष पुर येवे । अनन्त शिशु जनमिछि तेवे ।
तार संगे येवे भुज मिशिला । जगन्नाथ दास उदय हेला ॥
सेहि अंके यशोवन्त टि जात । बलराम चारि पूर्वे उदित ॥ '' इति । अस्य पितुर्नाम जगन्नाथस्तथा मातुर्नाम रेखादेवी स्तः । सर्वसाधारणे तस्य पिता जगु मल्लिकनाम्ना परिचितः । केचन बलभद्र मल्लः तस्य पितुर्नाम इति कथयन्ति । तत्पिता कुजंगराज- कर्मचारी आसीत् । यशोवन्तदासेन स्वपरिचयविषये किमपि नोक्तम् । ``मन्त्रबोलि'' नामके तदीये पुस्तके महानुभावस्य यशोवन्तविषये इत्थं वर्तते । तथाहि-
``क्षत्रिय कुलरे जात ये मोहर अढंग स्थलरे अटै घर ।
पितार नाम बलभद्र शुण यन्त्रबोलि कहे यशोवन्त पुण ॥
मुं यशोवन्त क्षत्रि कुले जात बेलु पढिनांहि नोहि पण्डित ।
प्रभु आज्ञारे यन्त्रबोलि कहि ब्रह्माशंकर येउं पद ध्यायी ॥
यशोवन्त दास गीतरे गाइ न देखि देखिला वन्तिआ वाइ ॥ '' इति ।
अपि च तच्छिष्येन लोहिदासेन षष्ठिमेला पुस्तके इत्थं भणितम्-
``लोहि कहन्ति शुण गो वाउलि । स्वामी जन्मस्थान देखिवा बुलि ।
पिता मातांक नाम अटे किस । बुझाइ कुह आहे लोहि दास ॥
पितांक नाम बलभद्र जाण । मातांक नाम रेखादेवी जाण ॥
क्षत्रिय कुले जनम होइले । नन्दी ग्रामरे नाना खेला कले ॥ '' इति ।
आत्मतत्त्वगवेषकोऽयं महात्मा असाधारण प्रतिभासंपन्न आसीत् । यशोवन्तदासः चैतन्यदेवस्य समसामयिक आसीत् । स चैतन्यदेवेन अनुप्राणित उपदिष्टो वेति केचन वदन्ति । तेनोक्तम्-
``एवं भूत येउं प्रभु तांक पञ्च भूत । एवंभूत सखा ये अटै यशोवन्त ॥ '' इति । द्वादशवर्षे यशोवन्तः वीतस्पृहः सन् स्वगृहं त्यक्तवान् । पुरीं गत्वा तत्र चैतन्यदेव-सन्निकर्षात् तस्य ज्ञानोदयः संजातः । पश्चात् चैतन्यात् दीक्षां नीत्वा स्वगृहं प्रस्थितवान् । पश्चात् अढंगराज्ञः रघुरामस्य भगिनीं अञ्जनां विवाहं चकार । भक्त-यशोवन्तस्य भगवद्भक्तिं विना अन्यत्किमपि कार्यं नासीत् । आजीविकाहीनस्य धनहीनस्य च यशोवन्तस्य कृते रघुरामः भूमिदानं कृतवान् । वासस्थानमपि तस्मै दत्तवान् । यदुक्तं लोहिदासेन-
``अति अलसुआ वन्तिआ दास । दिन वञ्चै रघुराम पाश ॥
केवल मोर हरिनामे आश । भावे भणिले यशोवन्त दास ॥ '' इति ।
यशोवन्तः प्रख्यातयोगी तथा सिद्धपुरुष आसीत् । वैष्णवीयधारां प्रवाह्य स जनमानसं विमुग्धं कृतवान् । श्रीजगन्नाथं प्रति तस्य प्रगाढभक्तिः आसीत् । एकदा पुरीगमन समये एको ब्रह्मराक्षसः तस्य पथरोधं कृतवान् । अलौकीकशक्त्या यशोवन्तः तं तत्र मार्गे अवरुरोधः । अन्ते ब्रह्मराक्षस प्रार्थनया प्रीतः सन् यशोवन्तः गुण्डिचामन्दिरं रक्षणाय राज्ञः प्रतापरुद्रस्य सहमत्या तं गुण्डिचामन्दिरे अवस्थापितवान् । अद्यावधि ``वावनाभूत'' नाम्ना सः तस्मिन् कार्ये संलग्न आसीत् । अलौकीकशक्ति संपन्नः यशोवन्तः सर्वदा श्रीकृष्णभक्त्या जाग्रतः आसीत् । वैष्णवधर्मे दीक्षितो भूत्वा तेन वैष्णव-संप्रदायसम्मताः नाना ग्रन्थाः विरचिताः । शिवस्वरोदयः तस्य प्रख्यातो योगग्रन्थ आसीत् । यद्यप्ययं ज्ञानमिश्राभक्तेः उपासक आसीत् तथापि योगमार्गं समर्थयितुं योगविषयकः शिवस्वरोदयो विरचितः । एतदतिरिक्तं अन्यानि हेतुदय भागवतम्, प्रेमभक्ति ब्रह्मगीता, रासः, गीत गोविन्दचन्द्र, आगत भविष्य मालिका, धानचोरी,वाघगीता, भजनसारः चौराशी आज्ञादीनि पुस्तकानि तस्य मौलिकानि सन्ति ।
यशोवन्तः स्वकीयमृत्यु-दिवसविषये पूर्वज्ञात आसीत् । पूर्वकथित मार्गशिर-शुक्ल-षष्ठीतिथौ तस्य महाप्रयाणोऽभूत् । एकस्मिन् कदम्बवृक्षमूले सः समाधिस्थो बभूव । तत्र प्राणान् तत्याज योगमार्गेण । यदुक्तं लोहिदासेन षष्ठीमेलायाम्-
``निभियिब ज्योति जलुछि प्रभु निकर दिने ।
मार्गशिर मास निदान यिवि उत्तरायणे ॥
वारकला रविवाररे रविवार दिवस ।
पिण्डरु प्राण छाडि यिव मुं ये हेवि हरष ॥
श्रीपुरुषोत्तम क्षेत्रकु पथ येंउ घटणा ।
खिति पाहारी जगिथिवे मुं जे नोहिवि वणा ॥ '' अपि च तत्र-
``हनु येउं नाम धरिण हेले जिणिला लंका ।
सेपादु मो मन न टलु किम्बा यमकु दका ॥
छ छन्दे प्रभुंकु जपि मुं पाइ मुकति वाट ।
पामर वन्तिआ कहै फिटु माया कवाट ॥ '' इति ।
जगन्नाथस्य विग्रहे तस्य आत्मा विलीन अभवत् । अद्यावधि तस्य महाप्रयाण दिवसः तदीयभक्तैः साडम्बरं परिपाल्यते । पवित्रा ओढण षष्ठी तस्य श्राद्धदिवसरूपेण स्थिरीकृता ।
गीतगोविन्द चन्द्रः अस्य महान् ग्रन्थः । अयमाध्यात्मिक चेतनायाः प्रकृष्टो मार्गः । नाथधर्मस्य वार्त्ता अस्मिन् सुष्ठु प्रतिफलिता । इयं रचना जनप्रिया, उत्कलस्य प्रतिमुखे आध्यात्मिकी वार्तारूपेण प्रवर्तमाना दृश्यते । गीतगोविन्द चन्द्रस्य विषयवस्तुमुपजीव्य पश्चात् टीकागोविन्द चन्द्रः योगेन्द्र दैवज्ञेन विरचितः । अत्र भक्तिरस-करुणरसयोः वर्णनं मिलति ।
रासः यशोवन्तस्य क्षुद्रो ग्रन्थः । जीवात्मनि परमात्मदर्शनं अस्य विषयवस्तुः । द्वैतसिद्धान्तोऽत्र विवक्षितः ।
शिवस्वरोदयो योगपरकः । २१ अध्याय विशिष्टेऽस्मिन् ग्रन्थे नाना विषयाः शिव-पार्वती संम्बादेन विवक्षिताः ।
प्रेमभक्ति ब्रह्मगीता आध्यात्मिक तत्त्वसंम्बलिता । अत्र ज्ञानमिश्रा भक्तेः पराकाष्ठा प्रदर्शिता । ब्रह्मज्ञानमस्य मूलतत्त्वम् । तथाहि-
``से विन्दु योगमाया परे । रहिले अर्द्धमात्रा शिरे ॥
शेषे ओंकार बोलाइले । वेदरे प्रणव होइले ॥
याहाकु अणाक्षर कहि । से विन्दु ब्रह्म अछि वहि ॥
तहुं जन्मिला एकाक्षर । अनन्त सर्पर आकार ॥
ताहाकु सुषुमुना कहि । से शिशुवेद घर सेहि ॥ '' इति ।
भविष्यमालिका अस्य महती कृतिः, या आगत-भविष्यविषये समलंकृता । यच्चोक्तम्-
``घोर ये अन्धार हेव चौविश प्रहर ।
घोषुथिवे भकत मो एकाइ अक्षर ॥
निश्चये कलकी रूप हेव अवतार ।
नाशिवे सकल दुःख अवनीर भार ॥ '' इति ।
महामानवो यशोवन्तः उत्कलस्य महान् तपस्वी आसीत् । तस्य बहु ग्रन्था अद्यावधि अप्रकाशिताः वर्तन्ते । उत्कलभाषां प्रति तस्य अवदानमविस्मरणीयं महत्त्वपूर्णमिति न सन्देहस्यावकाशः । अलमति विस्तरेण । जय जगन्नाथ ।
सहायक-ग्रन्थाः
१- शिव स्वरोदय - अध्यापकः आर्त्तवल्लभ महान्तिः
२- ओडिआ साहित्यर इतिहास- डः वंशीधर महान्तिः
३- पञ्चसखा ओडिआ साहित्य- अध्यापकः देवेन्द्र महान्तिः
४- ओडिआ साहित्यर आदिपर्व- सुरेन्द्र महान्तिः
५- पञ्चसखा परंपरा परीक्षा (प्रवन्ध) सच्चिदानन्द मिश्रः, झंकार पत्रिका- मार्च १९६०
६- पञ्चसखा प्रवञ्चना नुंहे- डः कृष्णचन्द्र साहु(प्रवन्ध)दिगन्त,डिसेम्बर १९६७
७- ओडिआ साहित्यर इतिहास- पं सूर्यनारायण दासः
८- ओडिआ साहित्यर सांस्कृतिक विचारधारा- चित्तरंजन दासः
९- यशोवन्त दास-डः लावण्य नायकः
१०- प्रेमभक्ति ब्रह्मगीता- यशोवन्त दासः
११- ओडिसार धर्मधारारे पञ्चसखा परिकल्पना- डः नटवर सामन्त रायः
१२- महापुरुष परिचय ओ बाणी- निमांइ चरण दासः
--- लेखकः - नन्दप्रदीप्तकुमारः
Written by Dr. Pradipta Kumar Nanda, Kendrapara, Orisa pknanda65 at gmail.com