महाकविश्रीभासप्रणीतम् ऊरुभङ्गम्
॥ श्रीः॥
श्रीगणेशाय नमः ।
(नान्द्यन्ते ततः प्रविशति सूत्रधारः)
सूत्रधारः --
भीष्मद्रोणतटां जयद्रथजलां गान्धारराजह्रदां
कर्णद्रौणिकृपोर्मिनक्रमकरां दुर्योधनस्रोतसम् ।
तीर्णः शत्रुनदीं शराससिकतां येन प्लवेनार्जुनः
शत्रूणां तरणेषु वः स भगवानस्तु प्लवः केशवः ॥ १॥
एवमार्यमिश्रान् विज्ञापयामि । अये किन्नुखलु मयि विज्ञापनव्यग्रे
शब्द इव श्रूयते । अङ्ग ! पश्यामि ।
(नेपथ्ये)
एते स्मो भोः ! एते स्मः ।
सूत्रधारः -- भवतु, विज्ञातम् ।
(प्रविश्य)
पारिपार्श्वकः -- भाव ! कुतोनुखल्वेते,
स्वर्गार्थमाहवमुखोद्यतगात्रहोमा
नाराचतोमरशतैर्विषमीकृताङ्गाः ।
मत्तद्विपेन्द्रदशनोल्लिखितैः शरीरैर्
अन्योन्यवीर्यनिकषाः पुरुषा भ्रमन्ति ॥ २॥
सूत्रधारः -- मारिष किं नावगच्छसि । तनयशतनयशून्ये
दुर्योधनावशेषे धृतराष्ट्रपक्षे, पाण्डवजनार्दनावशिष्टे
युधिष्ठिरपक्षे, राज्ञां शरीरसमाकीर्णे समन्तपञ्चके,
एतद् रणाहतगजाश्वनरेन्द्रयौधं
सङ्कीर्णलेख्यमिव चित्रपटं प्रविद्धम् ।
युद्धे वृकोदरसुयोधनयोः प्रवृत्ते
यौधा नरेन्द्रनिधनैकगृहं प्रविष्टाः ॥ ३॥
(निष्क्रान्तौ)
स्थापना ।
ऽऽऽ
(ततः प्रविशन्ति भटास्त्रयः)
सर्वे -- एते स्मो भोः ! एते स्मः ।
प्रथमः --
वैरस्याक्वथनं बलस्य निकषं मानप्रतिष्ठागृहं
युद्धेष्वप्सरसां स्वयंवरसभां शौर्यप्रतिष्ठां नृणाम् ।
राज्ञां पश्चिमकालवीरशयनं प्राणाग्निहोमक्रतुं
सम्प्राप्ता रणसंज्ञमाश्रमपदं राज्ञां नभःसङ्क्रमम् ॥ ४॥
द्वितीयः -- सम्यग् भवानाह ।
उपलविषमा नागेन्द्राणां शरीरधरा धरा
दिशि दिशि कृता गृध्रावासा हतातिरथा रथाः ।
अवनिपतयः स्वर्गं प्राप्ताः क्रियामरणे रणे
प्रतिमुखमिमे तत्तत् कृत्वा चिरं निहताहताः ॥ ५॥
तृतीयः -- एवमेतत् ।
करिवरकरयूपो बाणविन्यस्तदर्भो
हतगजचयनोच्चो वैरवह्निप्रदीप्तः ।
ध्वजविततविमानः सिंहनादोच्चमन्त्रः
पतितपशुमनुष्यः संस्थितो युद्धयज्ञः ॥ ६॥
प्रथमः -- इदमपरं पश्येतां भवन्तौ ।
एते परस्परशरैर्हृतजीवितानां
देहै रणाजिरमहीं समुपाश्रितानाम् ।
कुर्वन्ति चात्र पिशितार्द्रमुखा विहङ्गा
राज्ञां शरीरशिथिलानि विभूषणानि ॥ ७॥
द्वितीयः --
प्रसक्तनाराचनिपातपातितः
समग्रयुद्धोद्यतकल्पितो गजः ।
विशीर्णवर्मा सशरः सकार्मुको
नृपायुधागारमिवावसीदति ॥ ८॥
तृतीयः -- इदमपरं पश्येतां भवन्तौ ।
माल्यैर्ध्वजाग्रपतितैः कृतमुण्डमालं
रत्नैकसायकवरं रथिनं विपन्नम् ।
जामातरं प्रवहणादिव बन्धुनार्यो
हृष्टाः शिवा रथमुखादवतारयन्ति ॥ ९॥
सर्वे -- अहोतुखलु
निहतपतितगजतुरगनररुधिरकलिलभूमिप्रदेशस्य
विक्षिप्तवर्मचर्मातपत्रचामरतोमरशरकुन्तकवचकबन्धादिपर्याकुलस्य
शक्तिप्रासहाटकभिण्डिपालशूलमुसलमुद्गरवराहकर्णकणयकर्पण-
शङ्कुत्रासिगदादिभिरायुधैराकीर्णस्य समन्तपञ्चकस्य प्रतिभयता ।
प्रथमः -- इह हि,
रुधिरसरितो निस्तीर्यन्ते हतद्विपसङ्क्रमा
नृपतिरहितैः स्रस्तैः सूतैर्वहन्ति रथान् हयाः ।
पतितशिरसः पूर्वाभ्यासाद् द्रवन्ति कबन्धकाः
पुरुषरहिता मत्ता नागा भ्रमन्ति यतस्ततः ॥ १०॥
द्विःतीयः -- इदमपरं पश्येतां भवन्तौ । एते,
गृध्रा मधूकमुकुलोन्नतपिङ्गलाक्षा
दैत्येन्द्रकुञ्जरनताङ्कूशतीक्ष्णतुण्डाः ।
भान्त्यम्बरे विततलम्बविकीर्णपक्षा
मांसैः प्रवालरचिता इव तालवृन्ताः ॥ ११॥
तृतीयः --
एषा निरस्तहयनागनरेन्द्रयौधा
व्यक्तीकृता दिनकरोग्रकरैः समन्तात् ।
नाराचकुन्तशरतोमरखड्गकीर्णा
तारागणं पतितमुद्वहतीव भूमिः ॥ १२॥
प्रथमः -- ईदृश्यामप्यवस्थायामविमुक्तशोभा विराजन्ते क्षत्रियाः । इह हि,
सत्रोद्वर्तितनेत्रषट्पदगणा ताम्रोष्ठपत्रोत्करा
भ्रूभेदाञ्चितकेसरा स्वमकुटव्याविद्धसंवर्तिका ।
वीर्यादित्यविबोधिता रणमुखे नाराचनालोन्नता
निष्कम्पा स्थलपद्मिनीव रचिता राज्ञामभीतैर्मुखैः ॥१३॥
द्वितीयः -- ईदृशानामपि क्षत्रियाणां मृत्युः प्रभवति । न शक्यं
खलु विषमस्थैः पुरुषै राजबलाधानं कर्तुम् ।
तृतीयः -- किं च रे प्रभवति क्षत्रियाणामिति ।
प्रथमः -- कः संशयः ।
द्वितीयः -- मा मा भवानेवम् ।
स्पृष्ट्वा खाण्डवधूमरञ्जितगुणं संशप्तकोत्सादनं
स्वर्गाक्रन्दहरं निवातकवचप्राणोपहारं धनुः ।
पार्थेनाद्य बलान्महेश्वररणक्षेपावशिष्टैः शरैर्
दर्पोत्सिक्तवशा नृपा रणमुखे मृत्योः प्रतिग्राहिताः ॥१४॥
सर्वे -- अये शब्दः ।
किं मेघा निनदन्ति वज्रपतनैश्चूर्णीकृताः पर्वता
निर्घातैस्तुमुलस्वनप्रतिभयैः किं दार्यते वा मही ।
किं मुञ्चत्यनिलावधूतचपपलक्षुब्धोर्मिमालाकुलं
शब्दं मन्दरकन्दरोदरदरीः संहत्य वा सागरः ॥१५॥
भवतु, पश्यामस्तावत् ।
(सर्वे परिक्रामान्ति)
प्रथमः -- अये एतत् खलु द्रौपदीकेशधर्षणावमर्षितस्य
पाण्डवमध्यमस्य भीमसेनस्य भ्रातृशतवधक्रुद्धस्य
महाराजदुर्योधनस्य च द्वैपायनहलायुधकृष्णविदुरप्रमुखानां
कुरुयदुकुलदैवतानां प्रत्यक्षं प्रवृत्तं गदायुद्धम् ।
द्वितीयः --
भीमस्योरसि तप्तकाञ्चनशिलापीने प्रतिस्फालिते
भिन्ने वासवहस्तिहस्तकठिने दुर्योधनांसस्थले ।
अन्योन्यस्य भुजद्वयान्तरतटेष्वासज्यमानायुधे
यस्मिंश्चण्डगदाभिघातजनितः शब्दः समुत्तिष्ठति ॥१६॥
तृतीयः -- एष महाराजः,
शिष्टोत्कम्पनवल्गमानामकुटः क्रोधाधिकाक्षाननः
स्थानाक्रामणवामनीकृततनुः प्रत्यग्रहस्तोच्छ्रयः ।
यस्यैषा रिपुशोणितार्द्रकलिला भात्यग्रहस्ते गदा
कैलासस्य गिरेरिवाग्रशिखरोद्धूता महेन्द्राशनिः ॥१७॥
प्रथमः -- एष सम्प्रहाररुधिरसिक्ताङ्गस्तावद् दृश्यतां पाण्डवः ।
निर्भिन्नाग्रललाटवान्तरुधिरो भग्नांसकूटद्वयः
सान्द्रैर्निर्गलितप्रहाररुधिरैरार्द्रीकृतोरःस्थलः ।
भीमो भाति गदाभिघातरुधिरक्लिन्नावगाढव्रणः
शैलो मेरुरिवैष धातुसलिलासारोपदिग्धोपलः ॥ १८॥
द्वितीयः --
भीमां गदां क्षिपति गर्जति वल्गमानः
शीघ्रं भुजं हरति तस्य कृतं भिनत्ति ।
चारीं गातिं प्रचरति प्रहरत्यभीक्ष्णां
संशिक्षितो नरपतिर्बलवांस्तु भीमः ॥ १९॥
तृतीयः -- एष वृकोदरः,
शिरसि गुरुनिखातस्रस्तरक्तार्द्रगात्रो
धरणिधरनिकाशः संयुगेष्वप्रमेयः ।
प्रविशति गिरिराजो मेदिनीं वज्रदग्धः
शिथिलविसृतधातुर्हेमकूटो यथाद्रिः ॥ २०॥
एष गाढप्रहारशिथिलीकृताङ्गं निपतन्तं भीमसेनं दृष्ट्वा,
एकाग्राङ्गुलिधारितोन्नतमुखो व्यासः स्थितो विस्मितः
द्वितीयः --
दैन्यं याति युधिष्ठिरोऽत्र विदुरो बाष्पाकुलाक्षः स्थितः ।
तृतीयः --
स्पृष्टं गाण्डिवमर्जुनेन गगनं कृष्णः समुद्वीक्षते
सर्वे --
शिष्यप्रीतितया हलं भ्रमयते रामो रणप्रेक्षकः ॥ २१॥
प्रथमः -- एष महाराजः,
वीर्यालयो विविधरत्नविचित्रमौलिर्
युक्तोऽभिमानविनयद्युतिसाहसैश्च ।
वाक्यं वदत्युपहसन्न तु भीम दीनं
वीरो निहन्ति समरेषु भयं त्यजेति ॥ २२॥
द्वितीयः -- एष इदानीमपहास्यमानं भीमसेनं दृष्ट्वा
स्वमूरुमभिहत्य कामपि संज्ञां प्रयच्छति जनार्दनः ।
तृतीयः -- एष संज्ञया समाश्वासितो मारुतिः,
संहृत्य भ्रुकुटी ललाटविवरे स्वेदं करेणाक्षिपन्
बाहुभ्यां प्रतिगृह्य भीमवदनश्चित्राङ्गदां स्वां गदाम् ।
पुत्रं दीनमुदीक्ष्य सर्वगतिना लब्ध्वेव दत्तं बलं
गर्जन् सिंहवृषेक्षणः क्षितितलाद् भूयः समुत्तिष्ठति ॥ २३॥
प्रथमः -- हन्त पुनः प्रवृत्तं गदायुद्धम् । अनेन हि,
भूमौ पाणितले निघृष्य तरसा बाहू प्रमृज्याधिकं
सन्दष्टोष्ठपुटेन विक्रमबलात् क्रोधाधिकं गर्जता ।
त्यक्त्वा धर्मघृणां विहाय समयं कृष्णस्य संज्ञासमं
गान्धारीतनयस्य पाण्डुतनयेनोर्वोर्विमुक्ता गदा ॥ २४॥
सर्वे -- हा धिक् पतितो महाराजः ।
तृतीयः -- एष रुधिरपतनद्योतिताङ्गं निपतन्तं कुरुराजं
दृष्ट्वा खमुत्पतितो भगवान् द्वैपायनः । य एषः,
हेलासंवृतलोचनेन हलिना नेत्रोपरोधः कृतो
दृष्ट्वा क्रोधनिमीलितं हलधरं दुर्योधनापेक्षया ।
सम्भ्रान्तैः करपञ्जरान्तरगतो द्वैपायनज्ञापितो
भीमः कृष्णकरावलम्बितगतिर्निर्वाह्यते पाण्डवैः ॥ २५॥
प्रथमः -- अये अयमप्यमर्षोन्मीलितरभसलोचनो
भीमसेनापक्रमणमुद्वीक्षमाण इत एवाभिवर्तते भगवान् हलायुधः ।
य एषः,
प्रचलललितमौलिः क्रोधताम्रायताक्षो
भ्रमरमुखविदष्टां किञ्चिदुत्कृष्य मालाम् ।
असिततनुविलम्बिस्रस्तवस्त्रानुकर्षी
क्षितितलमवतीर्णः पारिवेषीव चन्द्रः ॥ २६॥
द्वितीयः -- तदागम्यतां वयमपि तावन्महाराजस्य प्रत्यनन्तरीभवामः ।
उभौ -- बाढम् । प्रथमः कल्पः ।
(निष्क्रान्ताः)
विष्कम्भकः ।
ऽऽऽ
(ततः प्रविशति बलदेवः)
बलदेवः -- भो भोः पार्थिवाः ! न युक्तमिदम् ।
मम रिपुबलकालं लाङ्गलं लङ्घयित्वा
रणगतमतिसन्धिं मां च नावेक्ष्य दर्पात् ।
रणशिरसि गदां तां तेन दुर्योधनोर्वोः
कुलविनयसमृद्ध्या पातितः पातयित्वा ॥ २७॥
भो दुर्योधन ! मुहूर्तं तावदात्मा धार्यताम् ।
सौभोच्छिष्टमुखं महासुरपुरप्राकारकूटाङ्कुशं
कालिन्दीजलदेशिकं रिपुबलप्राणोपहारार्चितम् ।
हन्तोत्क्षिप्यहलं करोमि रुधिरस्वेदार्द्रपाकोत्तरे
भीमस्योरसि यावदद्य विपुले केदारमार्गाकुलम् ॥ २८॥
(नेपथ्ये)
प्रसीदतु प्रसीदतु भगवान् हलायुधः ।
बलदेवः -- एवांगतोऽप्यनुगच्छति मां तपस्वी दुर्योधनः । एषः,
श्रीमान् संयुगचन्दनेन रुधिरेणार्द्रानुलिप्तच्छविर्
भूसंसर्पणरेणूपाटलभुजो बालव्रतं ग्राहितः ।
निर्वृत्तेऽमृतमन्थने क्षितिधरान्मुक्तः सुरैः सासुरैर्
आकर्षन्निव भोगमर्णवजले श्रान्तोज्झितो वासुकिः ॥२९॥
(ततः प्रविशति भग्नोरुयुगलो दुर्योधनः)
दुर्योधनः -- एष भोः !
भीमेन भित्त्वा समयव्यवस्थां
गदानिपातक्षतजर्जरोरुः ।
भूमौ भुजाभ्यां परिकृष्यमानं
स्वं देहमर्धोपरतं वहामि ॥ ३०॥
प्रसीदतु प्रसीदतु भगवान् हलायुधः ।
त्वत्पादतोर्निपतितं पतितस्य भूमाव्
एतच्छिरः प्रथममद्य विमुञ्च रोषम् ।
जीवन्तु ते कुरुकुलस्य निवापमेघा
वैरं च विग्रहकथा च वयं च नष्टाः ॥ ३१॥
बलदेवः -- भो दुर्योधना ! मुहूर्तं तावदात्मा धार्यताम् ।
दुर्योधनः -- किं भवान् करिष्यति ।
बलदेवः -- श्रूयताम्,
आक्षिप्तलाङ्गलमुखोल्लिखितैः शरीरैर्
निर्दारितांसहृदयान्मुसलप्रहारैः ।
दास्यामि संयुगहतान् सरथाश्वनागान्
स्वर्गानुयात्रपुरुषांस्तव पाण्डुपुत्रान् ॥ ३२॥
दुर्योधनः -- मा मा भवानेवम् ।
प्रतिज्ञावसिते भीमे गते भ्रातृशते दिवम् ।
मयि चैवं गते राम ! विग्रहः किं करिष्यति ॥ ३३॥
बलदेवः -- मत्प्रत्यक्षं वञ्चितो भवानित्युत्पन्नो मे रोषः ।
दुर्योधनः -- वञ्चित इति मां भवान् मन्यते ।
बलदेवः -- कः संशयः ।
दुर्योधनः -- हन्त भोः ! दत्तमूल्या इव मे प्राणाः । कुतः,
आदीप्तानलदारुणाज्जतुगृहाद् बुद्ध्यात्मनिर्वाहिणा
युद्धे वैश्रवणालयेऽचलशिलावेगप्रतिसारिणा ।
भीमेनाद्य हिडिम्बराक्षससपतिप्राणप्रतिग्राहिणा
यद्येवं समवैषि मां छलाजितं भो राम ! नाहं जितः ॥ ३४॥
बलदेवः -- भींअसेन इदानीं तव युद्धवञ्चनामुत्पाद्य स्थास्यति ।
द्रुर्योधनः -- किं चाहं भीमसेनेन वञ्चितः ।
बलदेवः -- अथ केन भवानेवंविधः कृतः ।
राजा -- श्रूयतां,
येनेन्द्रस्य स पारिजातकतरुर्मानेन तुल्यं हृतो
दिव्यं वर्षसहस्रमर्णवजले सुप्तश्च यो लीलया ।
तीव्रां भीमगदां प्रविश्य सहसा निर्व्याजयुद्धप्रियस्
तेनाहं जगतः प्रियेण हरिणा मृत्योः प्रतिग्राहिताः ॥ ३५॥
(नेपथ्ये)
उस्सरह अय्या ! उस्सरह । [उत्सरतार्याः ! उत्सरत ।]
बलदेवः -- (विलोक्य) अये अयमत्रभवान् धृतराष्ट्रो गान्धार्या
दुर्जयेनादेशितमार्गोञ्तःपुरानुबन्धः शोकामभिभूतहृदय इत
एवाभिवर्तते । य एषः,
वीर्याकरः सुतशतप्रविभक्तचक्षुर्
दर्पोद्यतः कनकयूपविलम्बबाहुः ।
सृष्टो ध्रुवं त्रिदिवरक्षणजातशङ्कैर्
देवैर् अरातितिमिराञ्जलिताडिताक्षः ॥ ३६॥
(ततः प्रविशति धृतराष्ट्रो गान्द्रारी देव्यौ दुर्जयश्च)
धृतराष्ट्रः -- पुत्र! क्वासि ।
गान्धारी -- पुत्तअ ! कहिं सि । [पुत्रक! क्वासि ।]
देव्यौ -- महाराज ! कहिं सि । [महाराज ! कुत्रासि ।]
धृतराष्ट्र -- भो! कष्टम् ।
वञ्चनानिहतं श्रुत्वा सुतमद्याहवे मम ।
मुखमन्तर्गतास्राक्षमन्दमन्धतरं कृतम् ॥ ३७॥
गान्धारि ! किं धरसे ।
गान्धारी -- जीवाविद ह्मि मन्दभा । [जीवितास्मि मन्दभागा ।]
देव्यौ -- महाराज ! महाराज ! । [महाराज ! महाराज ! ।]
राजा -- भोः ! कष्टम् । यन्ममापि स्त्रियो रुदन्ति ।
पूर्वं न जानामि गदाभिघात-
रुजामिदानीं तु समर्थयामि ।
यन्मे प्रकाशीकृतमूर्धजानि
रणं प्रविष्टान्यवरोधनानि ॥ ३८॥
धृतराष्ट्रः -- गान्धारि ! किं दृश्यते दुर्योधननामधेयः कुलमानी ।
गान्धारी -- महाराज ! ण दिस्सदि । [महाराज ! न दृश्यते ।]
धृतराष्ट्रः -- कथं न दृश्यते । अद्यास्मि योऽहमन्वेष्टव्ये
काले पुत्रं न पश्यामि । कृतान्तहतक !
रिपुसमरविमर्दं मानवीर्यप्रदीप्तं
सुतशतमतिधीरं वीरमुत्पाद्य मानी ।
धरणितलविकीर्णं किं स योग्यो न भोक्तुं
सकृदपि धृतराष्ट्रः पुत्रदत्तं निवापम् ॥ ३९॥
गान्धारी -- जाद ! सुयोधण । देहि मे पडिवअणम् ।
पुत्तसदविणासदुक्खिदं महाराजं च मन्दभाजम् । [जात ! सुयोधन
! देहि मे प्रतिवचनम् । पुत्रशतविनाशदुःखितं महाराजं च
मन्दभागम् ।]
बलदेवः -- अये इयमत्रभवती गान्धारी ।
या पुत्रपौत्रवदनेष्वकुतूहलाक्षी
दुर्योधनास्तमितशोकनिपीतधैर्या ।
अस्रैरजस्रमधुना पतिधर्मचिह्नम्
आर्द्रीकृतं नयनबन्धमिदं दधाति ॥ ४०॥
धृतराष्ट्रः -- पुत्र ! दुर्योधन ! अष्टादशाक्षौहिणीमहाराज ! क्वासि ।
राजा -- अद्यास्मि महाराजः ।
धृतराष्ट्रः -- पुत्रशतज्येष्ठ ! देहि मे प्रतिवचनम् ।
दुर्योधनः -- अन्यन्ददामि खलु वृत्तान्तम् । अनेन वृत्तान्तेन व्रीडितोऽस्मि ।
धृतराष्ट्रः -- एहि पुत्र । अभिवादयस्व माम् ।
राजा -- अयमयमागच्छामि । (उत्थानं रूपायित्वा पतति) हा धिक् ।
अयं मे द्वितीयः प्रहारः । कष्टं भोः !
हृतं मे भीमसेनेन गदापातकचग्रहे ।
सममूरुद्वयेनाद्य गुरोः पादाभिवन्दनम् ॥ ४१॥
गान्धारी -- एत्थ जादा ! । [अत्र जाते ! ।]
देव्यौ -- अय्ये ! इमा ह्म । [आर्ये ! इमे स्वः]
गान्धारी -- अण्णेसह भत्तारम् । [अन्वेषेथा भर्तारम् ।]
देव्यौ -- गच्छामि मन्दभा । [गच्छामि मन्दभागा]
धृतराष्ट्रः -- क एष भोः ! मम वस्त्रान्तमाकर्षन् मार्गमादेशयति ।
दुर्जयः -- ताद ! अहं दुज्जयो । [तात ! अहं दुर्जयः ।]
धृतराष्ट्र -- पौत्र ! दुर्जय ! पितरमन्विच्छ ।
दुर्जयः -- परिस्सन्तो खु अहम् । [परिश्रान्तः खल्वहम् ।]
धृतराष्द्रः -- गच्छ, पितुरङ्के विश्रमयिष्यसि ।
दुर्जयः -- ताद ! अहं गच्छामि । (उपसृत्य) ताद ! कहिं सि ।
[तात ! अहं गच्छामि । तात ! कुत्रासि ।]
राजा -- अये अयमप्यागतः । सर्वावस्थायां हृदयसन्निहितः पुत्रस्नेहो
मां दहति । कुतः,
दुःखानामनभिज्ञेयो ममाङ्कशयनोचितः ।
निर्जितं दुर्जयो दृष्ट्वा किन्नु मामभिधास्यति ॥ ४२॥
दुर्जयः -- अअं महाराओ भूमीए उवविट्ठो । [अयं महाराजो भूम्यामुपविष्टः ।]
राजा -- पुत्र । किमर्थमागतः ।
दुर्जयः -- तुवं चिरायसि त्ति । [त्वं चिरायसीति ।]
राजा -- अहो अस्यामवस्थायां पुत्रस्नेहो हृदयं दहति ।
दुर्जयः -- अहं पि खु दे अङ्के उवविसामि । (अङ्कमारोहति) [अहंअपि
खलु ते अङ्के उपविशामि ।]
राजा -- (निवार्य) दुर्जय ! दुर्जय ! भोः ! कष्टम् ।
हृदयप्रीतिजननो यो मे नेत्रोत्सवः स्वयम् ।
सोऽयं कालविपर्यासाच्चन्द्रो वह्नित्वमागतः ॥ ४३॥
दुर्जयः -- अङ्के उववेसं किंणिमित्तं तुवं वारेसि । [अङ्के उपवेश
किन्निमित्तं त्वं वारयसि ।]
राजा --
त्यक्त्वा परिचितं पुत्र ! यत्रतत्र त्वयास्यताम् ।
अद्यप्रभृति नास्तीदं पूर्वभुक्तं तवासनम् ॥ ४४॥
दुर्जय -- कहिंणुखु महाराओ गमिस्सदि । [कुत्रनुखलु महाराजो गमिष्यति ।]
राजा -- भ्रातृशतमनुगच्छामि ।
दुर्जयः -- मं पि तहिं णेहि । [मामपि तत्र नय ।]
राजां -- गच्छ पुत्र ! वृकोदरं ब्रूहि ।
दुर्जयः -- एहि महाराज ! अण्णेसीअसि । [एहि महाराज ! अन्विष्यसे ।]
राजा -- पुत्र ! केन ।
दुर्जयः -- अय्याए, अय्येण, सव्वेण अन्तउरेण अ । [आर्ययार्येण
सर्वेणन्तःपुरेण च ।]
राजा -- गच्छ पुत्र ! नाहमागन्तुं समर्थः ।
दुर्जयः -- अहं तुवं णैस्सम् । [अहं त्वां नेष्यामि ।]
राजा -- बालस्त्वमसि पुत्र ! ।
दुर्जयः -- (परिक्रम्य) अय्या ! अअं महाराओ । [आर्याः ! अयं महाराजः ।]
देव्यौ -- हा हा महाराओ । [हा हा महारजः ।]
धृतराष्ट्रः -- क्वासौ महारजः ।
गान्धारी -- कहिं मे पुत्तओ । [कुत्र मे पुत्रकः ।]
दुर्जयः -- अअं महाराओ भूमिए उवविट्ठो । [अयं महाराजो भूम्यामुपविष्टः ।]
धृतराष्ट्रः -- हन्त भोः ! किमयं महाराजः ।
यः काञ्चनस्तम्भसमप्रमाणो
लोके किलैको वसुधाधिपेन्द्रः ।
कृतः स मे भूमिगतस्तपस्वी
द्वारेन्द्र्कीलार्धसमप्रमाणः ॥ ४५॥
गान्धारी -- जाद ! सुयोधण ! परिस्सन्तो सि । [जात ! सुयोधन
! परिश्रान्तोऽसि ।]
राजा -- भवत्याः खल्वाहं पुत्रः ।
धृतराष्ट्रः -- केयं भीः ! ।
गान्धारी -- महाराज ! अहमभीदपुत्तप्पाइणी । [महाराज
! अहमभीतपुत्रपदायिनी ।]
राजा -- अद्योत्पन्नमिवात्मानमवगच्छामि । भोस्तात ! किमिदानिं वैक्लव्येन ।
धृतराष्ट्रः -- पुत्र ! कथं विक्लवो भविष्यामि ।
यस्य वीर्यबलोत्सिक्तं संयुगाध्वरदीक्षितम् ।
पूर्वं भ्रातृशतं नष्टं त्वय्येकस्मिन् हते हतम् ॥ ४६॥
(पतति)
राजा -- हा धिक् । पतितोऽत्रभवान् । तात ! समाश्वासयात्रभवतीम् ।
धृतराष्ट्रः -- पुत्र ! किमिति समाश्वसयामि ।
राजा -- अपराङ्मुखो युधि हत इति । भोस्तात ! शोकनिग्रहेण क्रियतां
ममानुग्रः ।
त्वत्पादमात्रप्रणताग्रमौलिर्
ज्वलन्तमप्यग्निमचिन्तयित्वा ।
येनैव मानेन समं प्रसूतस्
तेनैव मानेन दिवं प्रयामि ॥ ४७॥
धृतराष्ट्रः --
वृद्धस्य मे जीवितनिस्स्पृहस्य
निसर्गसम्मीलितलोचनस्य ।
धृर्तिं निगृह्यात्मनि सम्प्रवृत्तस्
तीव्रः समाक्रामति पुत्रशोकः ॥ ४८॥
बलदेवः -- भोः कष्टम् ।
दुर्योधननिराशस्य नित्यास्तमितचक्षुषः ।
न शक्नोम्यत्रभवतः कर्तुमात्मनिवेदनाम् ॥ ४९॥
राजा -- विज्ञापयाम्यत्रभवतीम् ।
गान्धारी -- भणाहि जाद ! । [भण जात ! ।]
राजा --
नमस्कृत्य वदामि त्वां यदि पुण्यं मया कृतम् ।
अन्यस्यामपि जात्यं मे त्वंएव जननी भव ॥ ५०॥
गान्धारी -- मम मणोरहो खु तुए भणिदो । [मम मनोरथः खलु त्वया
भणितः ।]
राजा -- मालवि ! त्वमपि शृणु ।
भिन्ना मे भ्रुकुटी गदानिपतितैर्व्यायुद्धकालोत्थितैर्
वक्षस्युत्पतितैः प्रहाररुधिरैर्हारावकाशो हृतः ।
पश्येमौ व्रणकाञ्चनाङ्गदधरौ पर्याप्तशोभौ भुजौ
भर्ता ते न पराङ्मुखो युधि हतः किं क्षत्रिये रोदिषि ॥ ५१॥
देवी -- बाळा एसा सहधम्मचारिणी रोदामि । [बाला एषा सहधर्मचारिणी
रोदामि ।]
राजा -- पौरवि ! त्वमपि शृणु ।
वेदोक्तैर्विविधैर्मखैरभिमतैरिष्टं धृता बान्धवाः
शत्रूणामुपरि स्थितं प्रियशतं न व्यंसिताः संश्रिताः ।
युद्धेऽष्टादशवाहिनीनृपतयः सन्तापिता निग्रहे
मानं मानिनि वीक्ष्य मे नहि रुदन्त्येवंविधानां स्त्रियः ॥५२॥
पौरवी -- एक्ककिदप्पवेसणिच्चा ण रोदामि । [एककृतप्रवेशनिश्चया
न रोदामि ।]
राजा -- दुर्जय ! त्वमपि शृणु ।
धृतराष्ट्रः -- गान्धारि । किन्नुखलु वक्ष्यति ।
गान्धारी -- अहं पि तं जव्व चिन्तेमि । [अहमपि तदेव चिन्तयामि ।]
राजा -- अहमिव पाण्डवाः शुश्रूषयितव्याः तत्रभवत्याश्चाम्बायाः
कुन्त्या निदेशो वर्तयितव्यः । आभिमन्योर्जननी द्रौपदी चोभे मातृवत्
पूजयितव्ये । पश्य पुत्र,
श्लाघ्यश्रीरभिमानदीप्तहृदयो दुर्योधनो मे पिता
तुल्येनाभिमुखं रणे हत इति त्वं शोकमेवं त्यज ।
स्पृष्ट्वा चैव युधिष्ठिरस्य विपुलं क्षौमापसव्यं भुजं
देयं पाण्डुसुतैस्त्वया मम समं नामावसाने जलम् ॥ ५३॥
बलदेवः -- अहो वैरं पश्चात्तापः संवृत्तः । अये शब्द इव
सन्नाहदुन्दुभिनिनादवियोगामूके
विक्षिप्तबाणकवचव्यजनातपत्रे ।
कस्यैष कार्मुकरवो हतसूतयोधे
विभ्रान्तवायसगणं गगनं करोति ॥ ५४॥
(नेपथ्ये)
दुर्योधनेनाततकार्मुकेण
यो युद्धयज्ञः साहितः प्रविष्टः ।
तमेव भूयः प्रविशाम्यशून्यम्
अध्वर्युणा वृत्तमिवाश्वमेधम् ॥ ५५॥
बलदेवः -- अये अयं गुरुपुत्रोऽश्वत्थामेत एवाभिवर्तते । य एषः,
स्फुटितकमलपत्रस्पष्टविस्तीर्णदृष्टी
रुचिरकनकयूपव्यायतालम्बबाहुः ।
सरभसमयमुग्रं कार्मुकं कर्षमाणः
सदहन इव मेरुः शृङ्गलग्नेन्द्रचापः ॥ ५६॥
(ततः प्रविशत्यश्वत्थामा)
अश्वत्थामा -- (पूर्वोक्तमेव पठित्वा) भोः !
समरसंरम्भोभयबलजलधिसङ्गमसमयसमुत्थितशस्त्रनक्रकृत्त-
विग्रहाः स्तोकावशेषाः श्वासानुबद्धमन्दप्राणाः समरश्लाघिनो राजानः !
शृण्वन्तु शृण्वन्तु भवन्तः ।
छलबलदलितोरुः कौरवेन्द्रो न चाहम्
शिथिलविफलशस्त्रः सूत्पुत्रश्च नाहम् ।
इह तु विजयभूमौ द्रष्टुमद्योद्यतास्त्रः
सरभसमहमेको द्रोणापुत्रः स्थितोऽस्मि ॥ ५७॥
किमनया ममाप्यप्रतिलाभविजयश्लाघया समरश्रिया । (परिक्रम्य) मा
तावत् । मयि गुरुनिवपनव्यग्रे वञ्चितः कुरुतिलकभूतः कुरुराजः ।
क एतच्छ्रद्धास्यति । कुतः,
उद्यत्प्राञ्जलयो रथद्विपगताश्चापद्वितीयैः करैर्
यस्यैकादशवाहिनीनृपतयस्तिष्ठन्ति वाक्योन्मुखाः ।
भीष्मो रामशरावलीढकवचस्तातश्च योद्धा रणे
व्यक्तं निर्जित एव सोऽप्यतिरथः कालेन दुर्योधनः ॥ ५८॥
तत् क्वनुखलु गतो गान्धारीपुत्रः । (परिक्रम्यावलोक्य) अये
अयमभिहतगजतुरगनररथप्राकारमध्यगतः समरपयोधिपारगः
कुरुराजः । य एषः,
मौलीनिपातचलकेशमयूखजालैर्
गात्रैर्गदानिपतनक्षतशोणितार्द्रैः ।
यात्यस्तमस्तकशिलातलसन्निविष्टः
सन्ध्यावगाढ इव पश्चिमकालसूर्यः ॥ ५९॥
(उपसृत्य) भोः कुरुराज ! किम् इदम् ।
राजा -- गुरुपुत्र ! फलमपरितोषस्य ।
अश्वत्थामा -- भोः कुरुराज ! सत्कारमूलमावर्जयिष्यामि ।
राजा -- किं भवान् करिष्यति ।
अश्वत्थामा -- श्रूयतां,
युद्धोद्यतं गरुडपृष्ठनिविष्टदेहं
अष्टार्धभीमभुजमुद्यतशार्ङ्गचक्रम् ।
कृष्णं सपाण्डुतनयं युधि शस्त्रजालैः
सङ्कीर्णलेख्यमिव चित्रपटं क्षिपामि ॥ ६०॥
राजा -- मा मा भवानेवम् ।
गतं धात्र्युत्सङ्गे सकलमभिषिक्तं नृपकुलं
गतः कर्णः स्वर्गं निपतिततनुः शन्तनुसुतः ।
शतं भ्रातॄणां मे हतमभिमुखं संयुगमुखे
वयं चैवम्भूता गुरुसुत धनुर्मुञ्चतु भवान् ॥ ६१॥
अश्वत्थामा -- भो कुरुराज ।
संयुगे पाण्डुपुत्रेण गदापातकचग्रहे ।
सममूरुद्वयेनाद्य दर्पोऽपि भवतो हृतः ॥ ६२॥
राजा -- मा मैवम् । मानशरीरा राजानः । मानार्थमेव मया निग्रहो
गृहीतः । पश्य गुरुपुत्र !
यत् कृष्टा करनिग्रहाञ्चितकचाद्यूते तदा द्रौपदी
यद् बालोऽपि हतस्तदा रणमुखे पुत्रोऽभिमन्युः पुनः ।
अक्षव्याजजिता वनं वनमृगैर्यत् पाण्डवाः संश्रिता
नन्वल्पं मयि तैः कृतं विमृश भो ! दर्पाहृतं दीक्षितैः ॥ ६३॥
अश्वत्थामा -- सर्वथा कृतप्रतिज्ञोऽस्मि ।
भवता वात्मना चैव वीरलोकैः शपाम्यहम् ।
निशासमरमुत्पाद्य रणे धक्ष्यामि पाण्डवान् ॥ ६४॥
बलदेवः -- एतद् भविष्यत्युदाहृतं गुरुपुत्रेण ।
अश्वत्थामा हलायुधोऽत्रभवान् ।
धृतराष्ट्रः -- हन्त साक्षिमती खलु वञ्चना ।
अश्वत्थामा -- दुर्जय ! इतस्तावत् ।
पितृविक्रमदायाद्ये राज्ये भुजबलार्जिते ।
विनाभिषेकं राजा त्वं विप्रोक्तैर्वचनैर्भव ॥ ६५॥
राजा -- हन्त कृतं मे हृदयानुज्ञातम् । परित्यजन्ति मे
प्राणाः । इमेऽत्रभवन्तः शन्तनुप्रभृतयो मे पितृपितामहाः ।
एतत् कर्णमग्रतः कृत्वा समुत्थितं भ्रातृशतम् ।
अयमप्यैरावतशिरोविषक्तः काकपक्षधरो महेन्द्रकरतलमवलम्ब्य
क्रुद्धोऽभिभाषते मामभिमन्युः । इमा उर्वश्यादयोऽप्सरसो
मामभिगताः । इमे मूर्तिमन्तो महार्णवाः । एता गङ्गाप्रभृतयो
महानद्यः । एष सहस्रहंसप्रयुक्तो मां नेतुं वीरवाही विमानः कालेन
प्रेषितः । अयमयमागच्छामि । (स्वर्गं गतः)
(यवनिकास्तरणं करोति)
धृतराष्ट्रः --
याम्येष सज्जनधनानि तपोवनानि
पुत्रप्रणाशविफलं हि धिगस्तु राज्यम् ।
अश्वत्थामा --
यातोऽद्य सौप्तिकवधोद्यतबाणपाणिः
गां पातु नो नरपतिः शमितारिपक्षः ॥ ६६॥
(निष्क्रान्ताः सर्वे)
ऊरुभङ्गमवसितम् ।
शुभं भूयात् ।
Encoded and proofread by Arun questions.sanskrit@gmail.com
% Urubhangam
%
% The printing of the text that I reference here has some idiosyncrasies.
% Exclamation marks are frequently used, and the anusvAra (M) is usually
% printed as the nasal that follows. I have left the spelling of words as-is
% (unless an error has been made -- see notes below). Exclamation marks that
% originally appeared in verses have been removed, but those in sentences
% have remained where they are.
%
% Some characters speak in Prakrit. Their text is given in Prakrit; a Sanskrit
% gloss immediately follows in square brackets [ ].
%
% Here is a list of the discrepancies you may find between the copy below
% and the original text. If you think you have found a deviation from the
% original text, check here to make sure that it is not already accounted
% for. For example, the text uses ᳚viklaba᳚ and ᳚vaiklabya᳚ where ᳚viklava᳚
% and ᳚vaiklavya᳚ should be used.
%
% (These entries are in Harvard-Kyoto format).
%
% p. 88 line 5 : mA(rSa ? riSa!)
% 4a : kva(ta?tha)naM
% 5a : zarIradharAdharA
% 9b : ra(tnai?tnyai)kasAyaka(va?dha)
% 13a : (satro?)*dvartita ... [᳚sipro ita syAt᳚]
% p. 91 line 14 : kiM(ci?ca)re(bha?)
% 14c: pArthenA(ddhra?dhya)
% 16a: (tapta)kAjcana
% 17d: kailAsasya gireri(vogracaritAddhotA?)mahendrAza(pi?niH)..
% 22c: bhIma !
% p. 95 line 13 : (ya eSaH?)* [᳚'dvitIyaH -- ' iti syAt᳚]
% p. 95 line 18 : (rabhasaM?)locano
% 28c : (ram?re)
% 30c : pari(karS?kRSya)
% p. 98 line 16 : (ta?ma)tpratyakSaM
% 34b : (pratisAlinA?)* [᳚'pratisAriNA' iti syAt᳚]
% p 99 line 17 : (rI?ryA)durjayena
% 39b : mA(naM?nI) .
% p. 102 line 11 : vrIlito'smi
% p. 107 line 2 : midAnIM vaiklabyena
% p. 107 line 3 : kathaM viklabo bhaviSyAmi
% 51d : naparAGmukho
% 52b : (taM na ? tAnna)
% 52d : mAnaM mAnini !
% p. 109 line 12 : pazya putra !
% 60b : *(vaSTASTa?) [᳚'vaSTASTa' ityasya sthAne 'aSTArdha' iti pAthyaM bhAti᳚]
% p. 114 line 7 : abhimanyaH . (imA) urvazyAdayo' ...
% p. 114 line 12 : (dhRtarASTraH) --
% Now, the text.
% # # # # # # # # #