चतुर्दण्डीप्रकाशिका अनुबन्धः सहिता

चतुर्दण्डीप्रकाशिका अनुबन्धः सहिता

॥ श्रीः ॥ श्रीमद्वेङ्कटमखीविरचिता चतुर्दण्डीप्रकाशिका सहिता श्री मुद्दुवेङ्कटमखिरचितः चतुर्दण्डीप्रकाशिकानुबन्धः

चतुर्दण्डीप्रकाशिका

१. प्रथमं वीणाप्रकरणम्

चतुर्णां पुरुषार्थानां त्यागं यस्मात्करोत्यतः । त्यागराज इति ख्यातं सोमास्कन्दमुपास्महे ॥ १॥ सङ्गीतशास्त्रं विततं समालोड्य धिया स्वयम् । विधत्ते वेङ्कटमखी चतुर्दण्डीप्रकाशिकाम् ॥ २॥ अस्यां वाग्गेयकारैकसञ्जीवनसुधानिधौ । आद्यं वीणाप्रकरणं श्रुतिप्रकरणं ततः ॥ ३॥ स्वरप्रकरणं पश्चान्मेलप्रकरणं ततः । ततो रागप्रकरणालापप्रकरणे क्रमात् ॥ ४॥ ठायप्रकरणं चाथ गीतप्रकरणं ततः । प्रबन्धानां प्रकरणं तालप्रकरणं ततः ॥ ५॥ दशप्रकरणोपेता कृतिर्विद्वदलङ्कृतिः । तत्रापि प्रथमोद्दिष्टं वीणालक्षणमुच्यते ॥ ६॥ सा च वीणा त्रिभेदेति लक्षणज्ञाः प्रचक्षते । शुधमेलाख्यवीणाऽऽद्या द्वितीया मध्यमेलका ॥ ७॥ तृतीया रघुनाथेन्द्रमेलवीणा प्रकीर्तिता । प्रत्येकमेतास्तिस्रोऽपि वीणाः स्युर्द्विविधा मताः ॥ ८॥ एकैकरागसम्बन्धिस्वराणां मेलनं यथा । मध्ये तारे च सा त्वेकरागमेलाभिधा स्मृता ॥ ९॥ मध्ये तारे च सकलैः स्वरैर्युक्ता तु या भवेत् । सा सर्वरागमेलाख्या वीणेति स्मर्यते परा ॥ १०॥ मध्यमेलाख्यवीणायां तृतीयो भेद इष्यते । पूर्वतन्त्रीत्रयं त्यक्त्वा षड्जयुक्तां चतुर्थिकाम् ॥ ११॥ तन्त्रीं त्रिस्थानसारीभिर्योजयेत्सैकतन्त्रिका । किञ्चिद्दीर्घः प्रवालः स्यादस्यां त्रिस्थानशुद्धये ॥ १२॥ तत्रादौ शुद्धमेलाख्यवीणाया लक्ष्म चक्ष्महे । लक्ष्यज्ञेन प्रवीणेन निर्मितायां तु शिल्पिना ॥ १३॥ वीणायामुपरिस्थाने चतुस्तन्त्रीः प्रसारयेत् । पित्तलारचिते चाद्यद्वितीये लोहजे परे ॥ १४॥ पार्श्वोपरिस्थतन्त्रीणां वामे चतसृणामपि । आद्यायां मन्द्रषड्जाख्यं स्वरं तन्त्र्यां नियोजयेत् ॥ १५॥ ततः पञ्चमनामानां द्वितीयायां निवेशयेत् । तृतीयायां तन्त्रिकायां मध्यषड्जं निवेशयेत् ॥ १६॥ मध्यमध्यमनामानां तुरीयायां निवेशयेत् । तिसृणां पार्श्वतन्त्रीणां स्वरयोजनमुच्यते ॥ १७॥ आद्या टीप्याभिधा तारषड्जतुल्यध्वनिर्भवेत् । द्वितीया तन्त्रिका ज्ञेया मध्यपञ्चमसम्मिता ॥ १८॥ तृतीया मध्यषड्जेन सम्मिता झल्लिकाभिधा । तिसृणामपि चैतासां श्रुतिसंज्ञा प्रकीर्तिता ॥ १९॥ पर्वणां सन्निवेशोऽथ वक्ष्यते लक्ष्यसम्मतः । मेरोः पुरस्तात्पर्वाणि षट् क्रमेण निवेशयेत् ॥ २०॥ षट्सु तेष्वाद्यया तन्त्र्या मन्द्रषड्जाभिधानया । क्रमेण शुद्धरिषभः शुद्धगान्धारकस्तथा ॥ २१॥ साधारणाख्यगान्धारो गान्धारोऽन्तरसंज्ञकः । शुद्धमध्यमनामा च वरालीमध्यमस्तथा ॥ २२॥ इति स्वराः प्रजायन्ते तन्त्र्या चाथ द्वितीयया । मन्द्रपञ्चमनादिन्या षट्सु तेष्वेव पर्वसु ॥ २३॥ शुद्धश्च धैवतः शुद्धो निषादश्च ततः परम् । कैशिक्याख्यनिषादश्च काकल्याख्यनिषादकः ॥ २४॥ षड्जर्षभौ च जायन्ते व्यक्तमेते स्वराः क्रमात् । मध्यषड्जनिनादिन्या तन्त्र्या चाथ तृतीयया ॥ २५॥ सर्वेष्वेतेषु ये जातास्तान्स्वरान्कथयाम्यहम् । शुद्धावृषभगान्धारौ तथा साधारणाभिधः ॥ २६॥ गान्धारोऽन्तरसंज्ञश्च शुद्धमध्यम एव च । वरालीमध्यमश्चेति जायन्ते क्रमशः स्वराः ॥ २७॥ मध्यमध्यमनादिन्या तन्त्र्या चाथ तुरीयया । षट्सु पर्वसु चैतेषु स्वरान्समभिदध्महे ॥ २८॥ वरालीमध्यमः पूर्वः पञ्चमः शुद्धधैवतः । ततः शुद्धनिषादश्च कैशिक्याख्यनिषादकः ॥ २९॥ काकल्याख्यनिषादश्चेत्येते स्युः क्रमशः स्वराः । अस्यां तुरीयतन्त्र्यां यः काकली षष्ठपर्वजः ॥ ३०॥ तदग्रे सप्त पर्वाणि यथायोगं निवेशयेत् । तेषां प्रवाले दीर्घाणि त्रीणि पर्वाणि विन्यसेत् ॥ ३१॥ सरिगाख्यास्त्रयस्तत्र प्रजयन्ते स्वराः क्रमात् । पीठे ह्रस्वाणि पर्वाणि चत्वारि विनिवेशयेत् ॥ ३२॥ एतेषु मपधन्याख्याश्चत्वारः स्युः स्वराः क्रमात् । शुद्धमध्यमदं ह्रस्वं पर्व पीठे यदा भवेत् ॥ ३३॥ तथा प्रवाले पीठं च वैणिकैर्विनिवेश्यताम् । एकं सर्वोत्तरं ह्रस्वं पर्व पीठे निवेशयेत् ॥ ३४॥ तत्रातितारषड्जाख्यो द्वाविंशोऽपि स्वरो भवेत् । लक्ष्यज्ञैर्गृह्यते सोऽयं रक्तिलाभैकलोभतः ॥ ३५॥ शुद्धमेलाख्यवीणायामेतत्पर्वाष्टके पुनः । द्वौ षड्जौ पञ्चमश्चेति ध्रुवं पर्वत्रयं सदा ॥ ३६॥ अन्यानि पञ्च पर्वाणि तत्तद्रागानुसारतः । क्रमाद्रिगमधन्याख्यस्वरोत्पादनसिद्धये ॥ ३७॥ उत्पाद्योत्पाद्य वेश्यानि यथायोगं विचक्षणैः । सर्वाण्याहृत्य दीर्घाणि नव ह्रस्वानि पञ्च च ॥ ३८॥ एषैकरागमेलाख्यवीणैवं सति जायते । अस्यां तुरीयतन्त्र्यां यः काकली षष्ठपर्वजः ॥ ३९॥ तदग्रे शुद्धविकृतस्वराणां द्वादशात्मनाम् । सिद्ध्यै द्वादश पर्वाणि विनिवेश्यानि वैणिकैः ॥ ४०॥ अतिताराख्यषड्जार्थं ह्रस्वं चान्यत्त्रयोदशम् । तेषु प्रवाले दीर्घाणि पञ्च पर्वाणि विन्यसेत् ॥ ४१॥ अष्ट पर्वाणि पीठे तु ह्रस्वानि विनिवेशयेत् । अस्यां दीर्घाणि पर्वाणि मिलित्वैकादशाभवन् ॥ ४२॥ अष्टौ ह्रस्वानि पर्वाणि समजायन्त तत्र तु । तत्सर्वरागमेलाख्यवीणैवं सति जायते ॥ ४३॥ लक्षितैवं शुधमेलवीणा भेदद्वयान्विता । एतस्यामेव वीणायां स्वराणमेकविंशतेः ॥ ४४॥ निरूपयामः स्थानानि स्वरांस्त्रेधा विभज्य च । तत्रोपरि स्थितानां तु वामे चतसृणामपि ॥ ४५॥ आद्यया मन्द्रषड्जाख्यतन्त्र्या तावच्चतुःस्वराः । सङ्ग्राह्याः षड्जरिषभौ तथा गान्धारमध्यमौ ॥ ४६॥ पञ्चमाद्या न गृह्यन्ते तस्यां जाता अपि स्वराः । मन्द्रपञ्चमनामा यो द्वितीयायां निवेशितः ॥ ४७॥ तस्यां त्रयः स्वरा ग्राह्याः पञ्चमो धैवतश्च निः । षद्जादयो न गृह्यन्ते जाता पति ततः परम् ॥ ४८॥ तदेवं मन्द्रके स्थाने स्वराः सप्त प्रदर्शिताः । अथ मध्यस्थानके तु तृतीयायां त्रयः स्वराः ॥ ४९॥ तुरीयायां तु चत्वारः सत्येवं स्थानगाः स्वराः । तत्र स्युर्मध्यषड्जायां मध्यषड्जादयस्त्रयः ॥ ५०॥ जाता अपि न गृह्यन्ते तदूर्ध्वं स्थानसिद्धये । मध्यमध्यमनादिन्यां तुरीयायामपि स्वराः ॥ ५१॥ चत्वार एव गृह्यन्ते मपधन्यभिधाः स्वराः । मध्यस्थानगता एवं स्वराः सप्त प्रदर्शिताः ॥ ५२॥ तस्यामेव तुरीयायां मध्यस्थाननिषादतः । अग्रे षड्जादयः सप्त तारस्थानगताः स्वराः ॥ ५३॥ सङ्ग्राह्या इति सप्तोक्तास्तारस्थानगताः स्वराः । तन्मन्द्रमध्यताराख्यस्थानानां त्रितये स्वराः ॥ ५४॥ प्रतिस्थानं सप्तसप्तेत्येकविंशतिरीरिताः । द्वाविंशमतिताराख्यं चतुर्थमपि षड्जकम् ॥ ५५॥ लक्ष्यज्ञाः परिगृह्णन्ति रक्तिलाभैकलोभतः । स्थानप्रसङ्गे बैकाररामो बभ्राम तद्यथा ॥ ५६॥ उपरिस्थचतुस्तन्त्रीष्वाद्यायां विनिवेशिते । अनुमन्द्राख्यषड्जेऽस्मिन्स्वराः सरिगमाभिधाः ॥ ५७॥ चत्वारः समुपादेयास्त्वनुमन्द्राख्यपञ्चमः । द्वितीयायां निवेश्योऽत्र पधनीति त्रयः स्वरः ॥ ५८॥ ग्राह्यास्ततोऽनुमन्द्राख्यस्थानगाः सप्त दर्शिताः । स्वरास्तन्त्र्यां तृतीयायां मन्द्रषड्जो निवेश्यते ॥ ५९॥ तस्यां सरिगनामानां सङ्गृह्यन्त त्रयः स्वराः । तुरीयायां तन्त्रिकायां निवेश्यो मन्द्रमध्यमः ॥ ६०॥ तस्यां तु मपधन्याख्याः सङ्गृह्यन्ते चतुः स्वराः । मन्द्रस्थानस्वराः सप्त तदेवं दर्शिता इति ॥ ६१॥ नैतत्सङ्गच्छते मन्द्रमध्यताराभिधानि हि । त्रिस्थानानीति सकलसङ्गीतिकमतस्थितिः ॥ ६२॥ आद्यद्वितीययोस्तन्त्र्योः स्वराः सप्त त्वयेरिताः । अनुमन्द्राभिधे स्थाने तृतीयकतुरीययोः ॥ ६३॥ मन्द्रस्थानगताः सप्त स्वराश्च परिकल्पिताः । तत्पुरोवर्तिनः सप्त स्वरास्तावदमी पुनः ॥ ६४॥ मध्यस्थानगताः किं वा तारस्थानगता उत । न तावदाद्यस्ताराख्यस्थानभङ्गप्रसङ्गतः ॥ ६५॥ न द्वितीयोऽपि मध्याख्यस्थानाभावे कथं पुनः । तारस्थानं प्रजायेतानुपनीतविवाहवत् ॥ ६६॥ तस्मादस्माभिरुक्तैव रीतिः स्थानविभाजने । मन्द्रादिष्वनुमन्द्रादिव्यवहारस्तु लौकिकः ॥ ६७॥ गतानुगतिकन्यायाद्भ्रान्तिमात्रविजृम्भितः । लक्षितेयं शुद्धमेलवीणा लक्ष्यानुसारतः ॥ ६८॥ अथोच्यते मध्यमेलवीणाया लक्षणं मया । तन्त्र्याद्या चानुमन्द्राख्यपञ्चमेन युता यदि ॥ ६९॥ द्वितीया मन्द्रषड्जेन तन्त्रिका चेत्समन्विता । मन्द्रपञ्चमसंयुक्ता तृतीया यदि तन्त्रिका ॥ ७०॥ तुरीया मन्द्रषड्जेन तन्त्रिका चेत्समन्विता । तथा भवेन्मध्यमेलवीणा पार्श्वे त्रितन्त्रिका ॥ ७१॥ तिसृणां पार्श्वतन्त्रीणां वक्ष्येऽथ स्वरयोजनम् । आद्या टीप्यभिधा तारषड्जतुल्यध्वनिर्भवेत् ॥ ७२॥ द्वितीया तन्त्रिका ज्ञेया मध्यपञ्चमसम्मिता । तृतीया मध्यषड्जेन सम्मिता झल्लिकाभिधा ॥ ७३॥ इत्येवं मध्यमेलाख्यवादित्रस्वरयोजनम् । अथास्याः पर्वसन्देशं वक्ष्ये लक्ष्यैकसम्मतम् ॥ ७४॥ मेरोः पुरस्तात्पर्वाणि षडस्यामपि विन्यसेत् । तन्त्रीचतुष्टये चैवं प्रत्येकं षट्सु पर्वसु ॥ ७५॥ ये स्वराः सम्प्रसूयन्ते क्रमशास्तान्प्रचक्ष्महे । आद्यतन्त्र्याऽनुमन्द्राख्यपञ्चमाञ्चितया क्रमात् ॥ ७६॥ शुद्धश्च धैवतः शुद्धो निषादश्च ततः परम् । कैशिक्याख्यनिषादश्च काकल्याख्यनिषादकः ॥ ७७॥ षड्जर्षभौ च जायन्ते षट्सु पर्वसु षट् क्रमात् । तन्त्र्या द्वितीयया मन्द्रषड्जगर्जितया पुनः ॥ ७८॥ शुद्धश्च रिषभः शुद्धगान्धाराख्यः स्वरस्ततः । साधारणाख्यगान्धारो गान्धारोऽन्तरसंज्ञकः ॥ ७९॥ शुद्धमध्यमनामा च वरालीमध्यमस्ततः । क्रमादमी षट् स्वराः स्युः षट्सु तेष्वेव पर्वसु ॥ ८०॥ मन्द्रपञ्चमशोभिन्या तन्त्र्या चाथ तृतीयया । शुधश्च धैवतः शुद्धनिषादश्च ततः परम् ॥ ८१॥ कैशिक्याख्यनिषादश्च काकल्याख्यनिषादकः । षड्जः शुद्धर्षभश्चेति स्वरा षट्सु च पर्वसु ॥ ८२॥ तन्त्र्या तुरीयया मध्यषड्जगर्जितया पुनः । शुद्धश्च रिषभः शुद्धगान्धाराख्यः स्वरस्ततः ॥ ८३॥ साधारणख्यगान्धारो गान्धारोऽन्तरसंज्ञकः । शुद्धमध्यमनामा च वरालीमध्यमस्ततः ॥ ८४॥ एते स्वराः प्रजायन्ते षट्सु तेष्वेव पर्वसु ॥ वरालीमध्यमस्याग्रे त्रीणि पर्वाणि विन्यसेत् ॥ ८५॥ पर्वसु त्रिषु चैतेषु तन्त्र्या तावत्तुरीयया । क्रमेण सम्प्रसूयन्ते पधनीति त्रयः स्वराः ॥ ८६॥ तदूर्ध्वं सप्त पर्वाणि विनिवेश्यानि तेष्वथ । आद्यं तु दीर्घपर्वं स्यात्प्रवाले तारषड्जकम् ॥ ८७॥ रिगादिषट्स्वरोत्पत्त्यै ह्रस्वपर्वाणि षट् पुनः । पीठे संवेशनीयानि तदग्रे पर्व सप्तमम् ॥ ८८॥ अतिताराख्यषड्जस्य स्थितये विनिवेशयेत् । शुद्धर्षभकरं ह्रस्वं पर्व पीठे यदा भवेत् ॥ ८९॥ तथा प्रवाले पीठं च वैणिकैर्विनिवेश्यताम् । मेरोः परस्ताद्यत्पर्व सप्तमं पञ्चमाभिधम् ॥ ९०॥ अनेन सह जातानि पर्वाण्येकादश क्रमात् । एतेषु तारषड्जातितारषड्जाख्यपर्वणी ॥ ९१॥ द्वे पर्वणी पञ्चमयोश्चत्वारि स्युर्ध्रुवाणि हि । अन्यानि सप्त पर्वाणि तत्तद्रागानुसारतः ॥ ९२॥ उत्पाद्योत्पाद्य वेश्यनि सकलस्वरसिद्धये । अस्यां दीर्घाणि पर्वाणि दश ह्रस्वानि सप्त च ॥ ९३॥ एषैकरागमेलाख्यवीणैवं सति जायते । प्रवाले दीर्घपर्वाणि वेश्यानि द्वादश क्रमात् ॥ ९४॥ एकादश ह्रस्वपर्वाण्यथ पीठे निवेशयेत् । सर्वस्थानेषु सकलस्वराणां सिद्धये यदि ॥ ९५॥ तत्सर्वरागमेलाख्यवीणैवं सति जायते । न कैशिकीनिषदोऽस्यामस्ति पीठस्थपर्वसु ॥ ९६॥ वादयन्ति हि तत्स्थाने काकलीमेव वैणिकाः । पीठेऽपि केचित्कैशिक्याः पर्व ह्रस्वं प्रकुर्वते ॥ ९७॥ पीठे द्वादश पर्वाणि तेन जातानि तन्मते । लक्षितैवं मध्यमेलवीणा भेदद्वयान्विता ॥ ९८॥ एतस्यामपि वीणायां स्वराणामेकविंशतेः । शुद्धायामिव मन्द्रादिस्थाननीतिविनिश्चयः ॥ ९९॥ प्रथमादिषु तन्त्रीषु तद्वदित्येव निश्चयः । तन्त्रीराद्याऽनुमन्द्राख्यपञ्चमेन समन्विता ॥ १००॥ मध्यमेलाख्यवीणायां तिस्रः स्थानविभाजने । वरास्तद्रक्तिलाभाय तां निबध्नन्ति वैणिकाः ॥ १०१॥ मन्द्रषड्जादिकास्वेव तन्त्रिकासु तिसृष्वतः । स्वरान्स्थानविभागेन दर्शयाम्येकविंशतिम् ॥ १०२॥ तत्र तन्त्र्यां द्वितीयायां मन्द्रषड्जो निवेश्यते । तस्यां ग्राह्याः सरिगमाश्चत्वारो न पधादयः ॥ १०३॥ मन्द्रपञ्चमनामा यस्तृतीयायां निवेशितः । तस्यां पधनिनामानो ग्राह्या न सरिगादयः ॥ १०४॥ मन्द्रस्थानस्वराः सप्त तदेवं सम्प्रदर्शिताः । मध्यषड्जसमेतायां तुर्यतन्त्र्यामथ स्वराः ॥ १०५॥ सप्त ग्राह्याः सरिगमपधनीति क्रमादमी । मध्यस्थानगता एते सप्त सन्दर्शिताः स्वराः ॥ १०६॥ प्रवालस्थान्तिमस्थूलपर्वप्रभृतिषु स्वराः । ग्राह्याः षड्जादयः सप्त पीठस्तह्रस्वपर्वसु ॥ १०७॥ तारस्थानगता एवं स्वराः सप्त निदर्शिताः । एकविंशतिरित्युक्ताः स्वराः स्थानत्रये स्फुटम् ॥ १०८॥ एतेषु मन्द्रषड्जस्य ये स्वराः स्युरधस्तनाः । तेऽनुमन्द्राभिधस्थानस्वरा इति विनिर्णयः ॥ १०९॥ येऽतितारस्थषड्जस्य स्वरस्याग्रे व्यवस्थिताः । तेऽतितारस्वरा ज्ञेया इति सर्वं समज्जसम् ॥ ११०॥ अत्रापि स्थानगणने रामो बभ्राम तद्यथा । तन्त्रीराद्याऽनुमन्द्राख्यपञ्चमेन युता यदि ॥ १११॥ द्वितीया मन्द्रषड्जेन तन्त्रिका संयुता यदि । मन्द्रपञ्चमसंयुक्ता तृतीया तन्त्रिका यदि ॥ ११२॥ तुरीया मन्द्रषड्जेन तन्त्रिका चेत्समन्विता । तदा भवेन्मध्यमेलवीणेत्येतदसङ्गतम् ॥ ११३॥ दिवीयायां तन्त्रिकायां मन्द्रषड्जो निवेशितः । पुनः कथं तुरीयायां मन्द्रषड्जो निवेश्यते ॥ ११४॥ उच्चोच्चतरनादिन्यश्चतस्रः खलु तन्त्रिकाः । द्वितीयतुर्ययोस्तासु द्वयोस्तन्त्रिकयोरपि ॥ ११५॥ मन्द्रषड्जाभिधस्यैकस्वरस्य विनिवेशनम् । अयुक्तमिति नैतत्किं पशुपालोऽपि बुध्यते ॥ ११६॥ तस्मादस्माभिरुक्तेन वर्त्मनैव विचक्षणैः । ज्ञातव्यं मध्यमेलायां तन्त्रीषु स्वरयोजनम् ॥ ११७॥ स्थानत्रयस्वराश्चोक्तवर्त्मना त्वेकविंशतिः । एकविंशतिसङ्ख्याकस्वरेष्वेतेषु वादकैः ॥ ११८॥ गायकैश्च चतुर्दण्ड्यां ग्राह्याः सप्तदशैव तु । तदा हि वादकाः सप्त मध्यस्थानगतान्स्वरान् ॥ ११९॥ तारस्थानगतान्सप्त षड्जमप्यतितारगम् । धनी च मन्द्रस्थानस्थावेवं सप्तदश स्वरान् ॥ १२०॥ समादाय चतुर्दण्डीवादनं कुर्वतेऽखिलाः । अयं च सारणीमार्गो वैणिकैः परिकल्पितः ॥ १२१॥ मध्यस्थानस्थयोर्धन्योर्मध्ये त्वन्यतरः स्वरः । गृह्यते सारणीमार्गे चतुर्दण्डीप्रसिद्धये ॥ १२२॥ प्रायशस्तेन सञ्जाताः षोडशैव स्वराः खलु । तथाऽपि मन्द्रस्थानस्थधन्याख्यस्वरयोर्द्वयोः ॥ १२३॥ क्वचित्क्वचिदुपादानात्स्वराः सप्तदशेरिताः । गायकास्तु स्वरान्सप्त मन्द्रस्थानसमुद्भवान् ॥ १२४॥ मध्यस्थानस्वरान्सप्त तारषड्जं तथा परम् । धनी चैवानुमन्द्रस्थावेवं सप्तदश स्वरान् ॥ १२५॥ समादाय चतुर्दण्डीगानं सर्वेऽपि कुर्वते । अत्रापि चानुमन्द्रस्थधन्याख्यस्वरयोर्द्वयोः ॥ १२६॥ सारणीमार्गसम्बन्धी स्वरोऽन्यतर ईरितः । क्वाचित्कतामभिप्रेत्य स्वराः सप्तदशेरिताः ॥ १२७॥ एतेषामग्रतो ये स्युः स्वरा ये चाप्यधस्तनाः । क्वचित्गीतप्रबन्धादौ दृश्यन्ते ते स्वराः खलु ॥ १२८॥ तत्पुनः सम्प्रदायज्ञैस्तानप्पाद्यैरनादृतम् । यद्येवं मध्यताराख्यस्थानगैरेव तु स्वरैः ॥ १२९॥ निर्वाहः स्याच्चतुर्दण्ड्यां मन्द्रस्थानं वृथा भवेत् । इत्याशङ्कयैव मन्द्राख्यस्थानसाफल्यसिद्धये ॥ १३०॥ पक्कसारणिमार्गोऽयं वैणिकैः परिगृह्यते । पक्कसारणिमार्गस्तु लक्ष्यतामिति चेच्छृणु ॥ १३१॥ शुद्धमेलाख्यवीणायां पक्कसारणिवर्त्मनि । ये गृह्यन्ते विकल्पेन तान्स्वरनभिदध्महे ॥ १३२॥ मन्द्रस्थानजुषां सप्तस्वराणां गणनाविधौ । आद्यतन्त्र्या ग्रहीतव्याः स्वराः सरिगमाभिधाः ॥ १३३॥ चत्वार एव षड्जाद्याः पञ्चमादिर्न गृह्यते । पक्कसारणिमार्गे तु तया तन्त्र्याऽऽद्यया पुनः ॥ १३४॥ विकल्पेन ग्रहीतव्यः पञ्चमः शुद्धधैवतः । अथ द्वितीयया मन्द्रपञ्चमस्वरयुक्तया ॥ १३५॥ ग्राह्याः पधनिनामानः स्वरा च सरिगादयः । पक्कसारणिमार्गे तु तया तन्त्र्या द्वितीयया ॥ १३६॥ उपादेया विकल्पेन मध्यस्थानसमुद्भवाः । षड्जः शुद्धर्षभश्चैव शुद्धगान्धार इत्यपि ॥ १३७॥ तन्त्र्या तृतीयया चाथ मध्यषड्जेन युक्तया । मध्यस्थानस्वराणां तु गणने सरिगाभिधाः ॥ १३८॥ त्रय एव स्वरा ग्राह्या न पुनर्मध्यमादयः । पक्कसारणिमार्गे तु तया तन्त्र्या तृतीयया ॥ १३९॥ शुद्धमध्यमसंज्ञश्च वरालीमध्यमस्तथा । पञ्चमश्चेति सङ्ग्राह्या विकल्पेन त्रयः स्वराः ॥ १४०॥ मध्यस्थानसमुद्भूता इत्यस्माभिर्विनिश्चितम् । शुद्धमेलाख्यवीणायां पक्कसारणिवर्त्मनि ॥ १४१॥ निर्वाहकाश्चतुर्दण्ड्याः स्वराः पञ्चदशैव तु । अनुमन्द्रस्तयोर्धन्योः स्थाने स्यान्मध्यषड्जकः ॥ १४२॥ इत्येवं शुद्धमेलायां पक्कसारणिवादने । ये गृह्यन्ते विकल्पेन स्वरास्ते सम्प्रदर्शिताः ॥ १४३॥ अथातो मध्यमेलाख्यवीणायामभिदध्महे । वादने पक्कसारण्या ये स्वरास्तान्विकल्पितान् ॥ १४४॥ मन्द्रस्थानजुषां सप्तस्वराणां गणनाविधौ । आद्यतन्त्रिकया ग्राह्याः स्वराः सरिगमाभिधाः ॥ १४५॥ चत्वार एव न पुनः पञ्चमाद्यास्तदुद्भवाः । पक्कसारणिमार्गे तु ते गृह्यन्ते विकल्पिताः ॥ १४६॥ मन्द्रपञ्चमशोभिन्या तन्त्र्या चाथ द्वितीयया । पधनीति स्वरा ग्राह्यास्त्रयो न सरिगादयः ॥ १४७॥ पक्कसारणिमार्गे तु ते गृह्यन्ते विकल्पिताः ॥ ततश्च मध्यमेलायां पक्कसारणिवर्त्मनि ॥ १४८॥ ग्राह्या मन्द्रस्वराः सप्त सप्त मध्यस्वरास्तथा । तरषड्जोऽनुमन्द्रस्थौ धनी सप्तदश स्वराः ॥ १४९॥ गृह्यन्ते पक्कसारण्यां गाने दण्ड्यामिव स्फुटम् । कर्णाटान्ध्रतुरुष्कादिपदगानेषु सङ्ग्रहम् ॥ १५०॥ तारस्थानरिगादीनां कुर्वते खलु गायकाः । गाने च वादने चैव स्वराणामेकविंशतेः ॥ १५१॥ विनियोगप्रकारस्तु विविच्य परिदर्शितः । लक्षितैवं मध्यमेलवीणा लक्ष्यानुसारतः ॥ १५२॥ ततोऽनु रघुनाथेन्द्रमेलवीणा निरूप्यते । तल्लक्षणं तु सङ्गीतसुधानिधिरिति श्रुते ॥ १५३॥ चेव्वयाच्युतभूपालरघुनाथनृपाङ्किते । अस्मत्तातकृते ग्रन्थे प्रोक्तं श्लोकाल्ऽ लिखामि तान् ॥ १५४॥ ``पूर्वोक्तवीणाद्वय एव मध्य- मेलाख्यवीणा खलु या च तस्याम् । तन्त्रीसमेतश्रुतिपञ्चमां च तथैव मन्द्रस्थितपञ्चमां च ॥ तदाऽऽद्यतन्त्रीमपि पञ्चमेना- नुमन्द्रपूर्वेण विराजमानाम् । विधाय तिस्रोऽपि समाननादा- स्तन्त्रीः सहाधस्तनमध्यमेन ॥ आद्यं स्वरं पञ्चममेव कृत्वा वाद्येत वीणा यदि वैणिकेन । एषाऽच्युतश्रीरघुनाथभूप- मेलाख्यवीणा कथिता तृतीया ॥ '' आद्यं स्वरं पञ्चममित्यस्यार्थः कथ्यते मया । मध्यमेलाख्यवीणास्थं मध्यषड्जाभिधं स्वरम् ॥ १५५॥ आद्यं केवलसारिण्या जातं कृत्वाऽथ पञ्चमम् । वादयेत तथा मध्यमेलवीणास्थमध्यमः ॥ १५६॥ रघुनाथेन्द्रवीणायां षड्जः सम्पद्यते ततः । तथाऽपि वादनं कुर्युर्वीणायां वैणिका इति ॥ १५७॥ यत्सर्वरागमेलैकरागमेलेति चेरितम् । द्वैविध्यं मध्यमेलायामस्यामपि तदूह्यताम् ॥ १५८॥ तदेवं रघुनाथेन्द्रमेलवीणा निरूपिता । एवं त्रिविधवीणानां स्वरूपं च निरूपितम् ॥ १५९॥ अथास्मत्कल्पितं वीणाद्वयं सन्दर्शयामहे । निरूपितायां वीणायामुपरि द्वे प्रसारयेत् ॥ १६०॥ तन्त्रिके पित्तलमयी त्वाद्या लोहमयी परा । आद्यायां तन्त्रिकायां तु मन्द्रषड्जं प्रयोजयेत् ॥ १६२॥ तस्यां सरिगनामानः सङ्गृह्यन्ते त्रयः स्वराः । तन्त्रिकायां द्वितीयस्यां योजयेन्मन्द्रमध्यमम् ॥ १६२॥ तन्त्रीरियं द्वितीयैव शिष्टैस्त्रिस्थानपर्वभिः । योजनीया भवेन्मन्द्रवरालीमध्यमादिभिः ॥ १६३॥ एषा द्वितन्त्रिका वीणा वेङ्कटाध्वरिकल्पिता । एकतन्त्र्याख्यवीणायां यादृशं पूर्वमीरितम् ॥ १६४॥ परिमाणं प्रवालस्य तादृशं चात्र कीर्तितम् । पूर्ववच्छ्रुतितन्त्रीषु स्वरसंयोजनादिकम् ॥ १६५॥ अस्यमेव द्वितन्त्र्याख्यवीणायामुपरिस्थयोः । तन्त्र्योः प्रथमतन्त्र्यां हि मन्द्रषड्जो निवेशितः ॥ १६६॥ तस्यां सरिगमाभिख्याञ्श‍ृणुयाम चतुःस्वरान् । तन्त्रिकायां द्वितीयस्यां योजयेन्मन्द्रपञ्चमम् ॥ १६७॥। द्रष्टव्यमवशिष्टं तु पूर्ववत्सर्वमत्र च । द्वितन्त्रिका च वीणैवं वेङ्कटाध्वरिकल्पिता ॥ १६८॥ तदेवमेकतन्त्र्येका द्वितन्त्र्यौ द्वे ततः परम् । शुद्धमेलाह्वयैकाऽथ मध्यमेलाभिधा पर्.... ॥ १६९॥ तृतीया रघुनाथेन्द्रमेलाख्या परिकीर्तिता । आहत्य षड्विधा वीणा जाता सामन्यतः पुनः ॥ १७०॥ तत्सर्वरागमेलैकरागमेलत्वभेदतः । प्रत्येकं द्विविधा तस्माद्वीणा द्वादश कीर्तिताः ॥ १७१॥ एकतन्त्रीद्वितन्त्र्यादिव्यवहारस्त्वसौ पुनः । ऊर्ध्वतन्त्रीरपेक्ष्यैव न तिस्रः श्रुतितन्त्रिकाः ॥ १७२॥ द्वादशेति कथं भेदाः स्फुटं निर्धार्यते त्वया । शुद्धमेलामध्यमेलारघुनाथेन्द्रमेलकाः ॥ १७३॥ इति वीणात्रयेऽप्यस्मिन्मन्द्रपञ्चमसङ्गताः । तन्त्रिकाः सन्ति यास्तिस्रस्तासु मध्यस्थमध्यमाम् ॥ १७४॥ निवेश्य वीणात्रितयं शक्यं कल्पयितुं पुनः । तिसृणामपि वीणानं भवेद्भेदत्रयं पुन.... ॥ १७५॥ सर्वरागैकरागत्वभेदस्यैवाथ योजने । षड् वीणाः साकमेताभिर्भवन्त्यष्टादशेति चेत् ॥ १७६॥ सत्यमेवं भवन्त्येताः षड् वीणाः स्युर्न रक्तिदाः । ततो वीणा द्वादशैवेत्यस्माकं जयदुन्दुभिः ॥ १७७॥ द्वादशस्वपि वीणासु भिद्यन्ते याः खलूपरि । तन्त्रिकास्तासु सर्वासु चतुःश्रुतिकतां गताः ॥ १७८॥। निवेश्यन्ते स्वराः षड्जशुद्धमध्यमपञ्चमाः । नापरे सम्भवन्त्यर्हा विनिवेशयितुं स्वराः । तथात्वे नैव लभ्येत स्थानत्रितयसम्भवः ॥ १७९॥ इति श्रीमदद्वैतविद्याचार्यसाग्निचित्यसर्वतोमुखातिरात्र- साग्निचित्याप्तवाजपेययाजिगोविन्ददीक्षित- नागमाम्बिकावरद्वितीयनन्दनस्य साग्निचित्यसर्वक्रतुयाजि- यज्ञनारायणदीक्षिताव्यवहितानुजस्याच्युत- विजयराघवभूपालप्रेरितस्य वेङ्कटेश्वरदीक्षितस्य कृतौ चतुर्दण्दीप्रकाशिकायामाद्यं वीणाप्रकरणं सम्पूर्णम् ।

२. द्वितीयं श्रुतिप्रकरणम्

आद्यप्रकरणे वीणां सप्रपञ्चं निरूपिता । तत्तन्त्रीषु निरूप्यन्ते श्रुतयोऽथ विभागशः ॥ १॥ श्रुतिर्नाम भवेन्नादविशेषः स्वरकारणम् । ननु नास्ति स्वरश्रुत्योर्भेदो नादैकरूपयोः ॥ २॥ विद्यते परिणामत्वपरिणामित्वसम्भवः । अस्ति भेदस्तयोर्यद्वत्स्वर्णटङ्ककिरीटयोः ॥ ३॥ द्वाविंशतिरिति प्रोक्ताः श्रुतयो भरतादिभिः । ताश्च वीणाप्रसिद्देषु सुस्पष्टं विभजामहे ॥ ४॥ स्वरेषु शुद्धविकृतभेदाभ्यां द्वादशात्मसु । तथा हि शुद्धरिषभे श्रुतयस्तिस्र ईरिताः ॥ ५॥ ततोऽपि शुद्धगान्धारे श्रुती द्वे समुदाहृते । चतस्रः श्रुतयः शुद्धमध्यमे समुदाहृताः ॥ ६॥ स्यात्साधारणगान्धारस्तस्याद्यां श्रुतिमाश्रितः । तस्यैव समुपादाय द्वितीयकतृतीयके ॥ ७॥ श्रुतौ द्विश्रुतिकः प्रोक्तो गान्धारोऽन्तरनामकः । दत्वा साधारणाख्याय गान्धारायादिमां श्रुतिम् ॥ ८॥ द्वितीयां च तृतीयां चान्तरगान्धरसंज्ञिने । तत्रैकश्रुतिको जातो मध्यमोऽयं चतुःश्रुतिः ॥ ९॥ चतस्रः श्रुतयः प्रोक्ताः पञ्चमे गीतवेदिभिः । आदायाद्यां द्वितीयां च तृतीयामपि तच्छ्रुतिम् ॥ १०॥ वरालीमध्यमः प्रोक्तः श्रुतित्रयसमन्वितः । वरलीमध्यमाय त्रिश्रुतिर्दत्वा तु पञ्चमः ॥ ११॥ श्रुत्यैकया युतो जातो भवन्नपि चतुःश्रुतिः । तिस्रः सङ्गीतिकैः प्रोक्ताः श्रुतयः शुद्धधैवते ॥ १२॥ स्वरे शुद्धनिषादाख्ये द्वे श्रुती समुदाहृते । चतस्रः श्रुतयः षड्जे तस्यादायादिमां श्रुतिम् ॥ १३॥ कैशिक्याख्यनिषादोऽयमेकश्रुतिरुदाहृतः । द्वितीयकतृतीयाभ्यं तच्छ्रुतिभ्यां समन्वितः ॥ १४॥ काकल्याख्यनिषादोऽयं द्विश्रुतिः कथ्यते बुधैः । तत्कैशिकनिषादाय श्रुतिमेकां श्रुतिद्वयीम् ॥ १५॥ काकल्यै च प्रदायास्ते षड्ज एकश्रुतिः स्वयम् । द्वाविंशतिर्विभज्यैवं श्रुतयो दर्शिता मया ॥ १६॥ ता एताः श्रुतिवीणायां प्रकाशन्ते पृथक्तया । श्रुतिवीणाप्रकारस्तु वर्ण्यतामिति चेत्तथा ॥ १७॥ मध्यमेलाख्यवीणायां तत्स्वरूपं निरूप्यते । विहाय शुधमेलाख्यां वीणां किमिति कथ्यते ॥ १८॥ मध्यमेलाख्यवीणायां श्रुतिवीणेति तच्छृणु । शुद्धमेलाख्यवीणायां श्रुतिवीणानिरूपणम् ॥ १९॥ मन्द्रस्थानेऽथ वा मध्ये तारस्थानेऽथ वा भवेत् । न तावन्मन्द्रके स्थाने श्रुतिवीणानिरूपणम् ॥ २०॥ युज्यते तत्र सकलस्वराणामप्यसम्भवात् । न ह्येकतन्त्र्युपारूढा दृश्यन्ते द्वादश स्वराः ॥ २१॥ शुद्धमेलाख्यवीणायां मन्द्रस्थानेऽत एव हि । मध्यस्थानेऽपि युक्तं न श्रुतिवीणानिरूपणम् ॥ २२॥ तारस्थाने त्वेकतन्त्र्यारूढाः स्युर्द्वादश स्वराः । तथाऽपि पर्वणां तत्र क्षेत्रसङ्कोचतः पुनः ॥ २३॥ नावकाशोऽस्ति तन्मध्ये श्रुतियोजकपर्वणाम् । तदेवं शुद्धमेलायां श्रुतिवीणाऽतिदुर्घटा ॥ २४॥ तथैव रघुनथेन्द्रवीणायामपि दुर्घटा । परं तु मध्यमेलाख्यवीणायां सुगमा भवेत् ॥ २५॥ श्रुतिवीणा ततोऽस्माभिस्तस्यामेव प्रदर्श्यते । मध्यमेलाख्यवीणायां मध्यस्थानस्थपर्वसु ॥ २६॥ द्वादशस्वपि चैतेषु श्रुतिव्यञ्जकपर्वणाम् । विनिवेशक्रमं ब्रूमः श्रुतिभेदैकबोधकम् ॥ २७॥ मेरूपकण्ठगं शुद्धर्षभक्षेत्रान्तरं त्रिधा । विभज्यर्षभपर्वादौ दृश्यमानं विनाऽन्तरे ॥ २८॥ पर्वद्वयनिवेशे स्युस्तिस्रोऽपि श्रुतयः स्फुटाः । शुद्धर्षभे तथा शुद्धगान्धारक्षेत्रकं द्विधा ॥ २९॥ विभज्याथ यथावस्थं पर्वं गान्धारभासकम् । व्यपेक्ष्य मध्ये पर्वैकं यदा परिनिवेश्यत ॥ ३०॥ गान्धारस्य तदानीं स्याच्छ्रुतिद्वयमतिस्फुटम् । मध्यमस्य स्वरस्योक्ताश्चतस्रः श्रुतयः स्फुटाः ॥ ३१॥ तत्र सादारणे स्पष्टा गान्धारे श्रुतिरेकिका । अन्तराख्यानगान्धारक्षेत्रं द्वेधा विभज्य तु ॥ ३२॥ एकस्य पर्वणो मध्ये तयोर्यदि निवेशनम् । जायतेऽन्तरगान्धारे श्रुतिद्वयमतिस्फुटम् ॥ ३३॥ मध्यमे श्रुतिरेकेति स्पष्टं श्रुतिचतुष्टयम् । चतुःश्रुतिः पञ्चमोऽस्य श्रुतित्रयमुपाश्रितः ॥ ३४॥ वरालीमध्यमः पूर्वमाख्यातं खलु तद्यथा । वरालीमध्यमं त्रेधा विभज्याथ यथास्थितम् ॥ ३५॥ वरालीमध्यमं पर्व व्यपेक्ष्य तु तदन्तरे । पर्वद्वयनिवेशे स्याच्छ्रुतिद्वयमतिस्फुटम् ॥ ३६॥ श्रुतिरेका स्फुटा स्वस्मिन्मिलित्वा तेन पञ्चमे । चतस्रः श्रुतयः स्पष्टा धैवतस्त्रिश्रुतिर्यथा ॥ ३७॥ विभाज्य त्रिविधं शुद्धधैवतक्षेत्रमप्यथ । दृग्गोचरीभवच्छुद्धधैवतद्योति पर्व तत् ॥ ३८॥ द्वित्वा पर्वद्वयन्यासे श्रुतिर्त्रयमतिस्फुटम् । क्षेत्रं शुद्धनिषादस्य विभज्य द्विविधं तथा ॥ ३९॥ दृष्टं शुद्धनिषादस्य पर्व हित्वा तदन्तरे । यद्येवं पर्व तर्हि स्याच्छ्रुतिद्वयमतिस्फुटम् ॥ ४०॥ चतस्रः श्रुतयः षड्जे प्रागुक्ताः खलु तद्यथा । कैशिक्याख्यनिषादे हि तस्यैका दृश्यते श्रुतिः ॥ ४१॥ काकल्याख्यनिषादं तु द्वेधाकृत्य तदन्तरे । जायते पर्वविन्यासे स्पष्टं तस्य श्रुतिद्वयम् ॥ ४२॥ स्वस्यैका श्रुतिराहत्य षड्जे श्रुतिचतुष्टयम् । इत्येवं मध्यमेलायां श्रुतिवीणाप्रकारतः ॥ ४३॥ द्वाविंशतिश्रुतीनां च विभागक्रम ईरितः । नन्वाद्यं षड्जमुत्सृज्य रिषभादितया त्वया ॥ ४४॥ किमर्तं श्रुतिवीणार्थं पर्वन्यासः प्रदर्शितः । उच्यते नास्ति षड्जस्य पर्व यस्मादयं पुनः ॥ ४५॥ जातः केवलसारण्या पर्वस्पर्शनमन्तरा । न शक्याः श्रुतयो बोद्धुं स्वरे पर्वविनाकृते ॥ ४६॥ ज्ञेयास्ताः खलु पर्वान्तः श्रुतिपर्वनिवेशनात् । तस्मादाद्यमपि त्यक्त्वा षड्जं पर्वविवर्जितम् ॥ ४७॥ रिषभादितया प्रोक्तं श्रुतिपर्वनिवेशनम् । यदि षड्जादिमत्वेन श्रुतिवीणाप्रदर्शनम् ॥ ४८॥ अपेक्षितं स्यात्कस्यापि तदुपायः प्रकाश्यते । मध्यमेलाख्यवीणायां श्रुतिवीणाप्रकाशनम् ॥ ४९॥ कर्तुं षड्जादिमत्वेन ब्रह्मणाऽपि न शक्यते । न ह्येकतन्त्र्युपारूढाः स्वरा द्वादश मन्द्रके ॥ ५०॥ स्थाने स्युर्मध्यमेलायां तारस्थाने तु यद्यपि । सन्त्येकतन्त्र्युपारूढाः स्वराः सर्वेऽपि किं पुनः ॥ ५१॥ तत्रत्यपर्वणां तावत्क्षेत्रसङ्कोचतः पुनः । नावकाशोऽस्ति तन्मध्ये श्रुतिज्ञापकपर्वणाम् ॥ ५२॥ रिषभादितया तस्माद्दीर्घेषु द्वादशस्वपि । पर्वसु श्रुतिवीणेयं वेङ्कटाध्वरिणेरिता ॥ ५३॥ ततः षड्जादिमत्वेन श्रुतिवीणाप्रकाशनम् । शुद्धमेलाख्यवीणायां तारस्थाने कथञ्चन ॥ ५४॥ तारषड्जादिमत्वेन तदाद्यश्रुतिशालिनम् । आरभ्य कैशिकीसंज्ञनिषादं द्वादशस्वपि ॥ ५५॥ स्वरेषु पूर्वमित्येव श्रुतिपर्वाणि विन्यसेत् । अत्रापि क्षेत्रसङ्कोचान्मह्यमेतन्न रोचते ॥ ५६॥ भासते श्रुतिरित्यादि स्वरालीत्रिपुटादिषु । अहमेव श्रुतिर्वेदेत्याह गोपालनायकः । अद्यप्रभृति ताः सर्वे श्रुतीर्जानन्तु पण्डिताः ॥ ५७॥ इति श्रीमदद्वैतविद्याचार्यसाग्निचित्यसर्वतोमुखातिरात्र- साग्निचित्याप्तवाजपेययाजिगोविन्ददीक्षित- नागमाम्बिकावरद्वितीयनन्दनस्य साग्निचित्यसर्वक्रतुयाजि- यज्ञनारायणदीक्षिताव्यवहितानुजस्याच्युत- विजयराघवभूपालप्रेरितस्य वेङ्कटेश्वरदीक्षितस्य कृतौ चतुर्दण्दीप्रकाशिकायां द्वितीयं श्रुतिप्रकरणं सम्पूर्णम् ।

३. तृतीयं स्वरप्रकरणम्

द्वितीयस्मिन्प्रकरणे श्रुतयः समुदारिताः । अथेदानीं निरूप्यन्ते स्वराः श्रुतिसमुद्भवाः ॥ १॥ तत्र शुद्धस्वराः सप्त मुखारीमात्रभासकाः । चतुश्चतुश्चतुश्चैव षड्जमध्यमपञ्चमाः ॥ २॥ द्वे द्वे निषादगान्धारौ त्रिस्त्री रिषभधैवतौ । इत्येवं भरतश्लोकसङ्ख्यातश्रुतिशालिनः ॥ ३॥ विकृतास्तु स्वराः पञ्चेत्यस्माभिरवधार्यते । रत्नाकरे तु निःशङ्को विकृतान्द्वादश स्वरान् ॥ ४॥ अब्रवीत्केचन पुनः सप्ताहुर्विकृतस्वरान् । सर्वमेतत्समालोच्य लक्ष्यमार्गानुसारतः ॥ ५॥ स्वराः पञ्चैव विकृता इति राद्धान्तितं मया । तांश्च पञ्च स्वरान्सम्यग्विविच्य व्याहरामहे ॥ ६॥ साधारणश्च गान्धारो गान्धारश्चान्तराभिधः । द्वौ तौ च मध्यमक्षेत्रसम्भूतौ विकृतस्वरौ ॥ ७॥ वरालीमध्यमश्चैकः पञ्चमक्षेत्रसम्भवः । षड्जक्षेत्रसमुद्भूतौ कैशिकीकाकलीस्वरौ ॥ ८॥ एवमेते स्वराः पञ्च विकृता इति निर्णयः । आहत्य शुद्धविकृताः स्वरा द्वादश कीर्तिताः ॥ ९॥ स्वरेषु द्वादशस्वेषु केषामप्येकरूपता । द्वैरूप्यमपि केषाञ्चित्केषाञ्चित्तु त्रिरूपता ॥ १०॥ तथा हि शुद्धरिषभशुद्धधैवतयोः पुनः ॥ त्रित्रिश्रुत्येकभावेन सर्वदाऽप्येकरूपता ॥ ११॥ यदा तु शुद्धगान्धारो गान्धारत्वं प्रपद्यते । तदा द्विश्रुतिको ज्ञेयो मुखारीरागके यथा ॥ १२॥ यदा स एव जायेत रिषभस्तु तदा पुनः । पञ्चश्रुतिरिति ज्ञेयः श्रीरागोऽत्र निदर्शनम् ॥ १३॥ एवं शुद्धनिषादस्य निषादत्वं यदा भवेत् । तदा द्विश्रुतिकत्वं स्यान्मुखार्यत्र निदर्शनम् ॥ १४॥ स एव यदि जायेत धैवतस्तु तदा पुनः । पञ्चश्रुतिरिति ज्ञेयः शङ्कराभरणे यथा ॥ १५॥ तदेवं शुद्धगान्धारनिषादौ द्वौ निरूपिणौ । साधारणाख्यगान्धारः शुद्धर्षभयुतो यदि ॥ १६॥ तदा त्रिश्रुतिको ज्ञेयो भूपालोऽत्र निदर्शनम् । तत्रैव पञ्चश्रुतिना रिषभेणान्वयो यदि ॥ १७॥ तदैकश्रुतिता ज्ञेया श्रीरागोऽत्र निदर्शनम् । यदा रिषभसंज्ञोऽयं तदा षट्श्रुतिको भवेत् ॥ १८॥ अत्रोदाहरणं नाट एवमस्य त्रिरूपता । कैशिक्याख्यनिषादस्य शुद्धधैवतसङ्गमे ॥ १९॥ त्रिश्रुतित्वमिति ज्ञेयं भैरव्यत्र निदर्शनम् । तस्यैव पञ्चश्रुतिकधैवतेनान्वयो यदि ॥ २०॥ तदैकश्रुतिकत्वं स्याच्छ्रीरागोऽत्र निदर्शनम् । स एव धैवतश्चेत्स्यात्षट्श्रुतिर्नाटके यथा ॥ २१॥ इति साधारणाख्यानो गान्धारः कैशिकाभिधः । निषादश्चेत्युभावेतौ त्रित्रिरूपाविति स्थितिः ॥ २२॥ गान्धारस्यान्तराख्यस्य यदा शुद्धर्षभान्वयः । तदा पञ्चश्रुतित्वं स्याद्रागे गौलादिके यथा ॥ २३॥ तस्यैव पञ्चश्रुतिकरिषभेणान्वयो यदा । तदा त्रिश्रुतिकत्वं स्याच्छङ्कराभरणे यथा ॥ २४॥ स एव द्विश्रुतिर्ज्ञेयः षट्श्रुत्यृषभसङ्गमे । यथा नाटाभिधे राग इति तस्य त्रिरूपता ॥ २५॥ काकल्याख्यनिषादस्य शुद्धधैवतसङ्गमे । पञ्चश्रुतिकता ज्ञेया यथा गौलादिके पुन.... ॥ २६॥ स एव पञ्चश्रुतिकधैवतेनान्वितो यदि । तदा त्रिश्रुतिको ज्ञेयः शङ्करभरणे यथा ॥ २७॥ तस्यैव धैवतेन स्याद्यदि षट्श्रुतिनाऽन्वयः । तदा द्विश्रुतिकत्वं स्याद्रागे नाटाभिधे यथा ॥ २८॥ इत्यन्तराख्यगान्धारकाकल्याख्यनिषादयोः ॥ प्रत्येकं त्रित्रिरूपत्वमस्माभिरूपवर्णितम् ॥ २९॥ यदा तु मध्यमः शुद्धः शुद्धगान्धारसङ्गतः । तदा चतुःश्रुतिर्ज्ञेयो मुखार्यत्र निदर्शनम् ॥ ३०॥ साधारणाख्यगान्धारसंयुक्तश्चेत्स एव हि । तदा त्रिश्रुतिको ज्ञेयो रागे श्रीरागके यथा ॥ ३१॥ स एवान्तरगान्धारयोगे त्वेकश्रुतिर्भवेत् । गौलादिषु यथा रागेष्वित्येतस्य त्रिरूपता ॥ ३२॥ एवं षड्जस्य शुद्धेन निषादेन सहान्वये । चतुःश्रुतिकता ज्ञेया मुखार्यत्र निदर्शनम् ॥ ३३॥ स एव कैशिकीनामनिषादेनान्वितो यदि । तदा त्रिश्रुतिरित्यत्र श्रीरागः स्यान्निदर्शनम् ॥ ३४॥ तस्यैव काकलीनाम्ना निषादेनान्वयो यदि । तदैकश्रुतिकत्वं स्याद्रागे गौलादिके यथा ॥ ३५॥ इत्युक्तं त्रित्रिरूपत्वं शुद्धमध्यमषड्जयोः । वरालीमध्यमस्याथ शुद्धगान्धारसङ्गमे ॥ ३६॥ सप्तश्रुतित्वमित्यर्थे वराल्येव निदर्शनम् । तस्य साधारणाख्येन गान्धारेण यदाऽन्वयः ॥ ३७॥ तदा षट्श्रुतिता पन्तुवराल्यादिषु दृश्यते । स एवान्तरगान्धारसम्बन्धी चेच्छतुःश्रुतिः ॥ ३८॥ अत्रोदाहरणं रागः शुद्धरामक्रियाभिधः । वरालीमध्यमस्यैवं त्रैरूप्यमुपपादितम् ॥ ३९॥ यदा तु पञ्चमः शुद्धमध्यमेन समन्वितः । तदा चतुःश्रुतिर्ज्ञेयो मुखार्यत्र निदर्शनम् ॥ ४०॥ स एवैकश्रुतिर्युक्तो वरालीमध्यमेन चेत् । इति द्वैरूप्यमस्माभिः पञ्चमस्य प्रकल्पितम् ॥ ४१॥ तदेवं शुद्धरिषभशुद्धधैवतयोः पृथक् । एकैकरूपता शुद्धगान्धारकनिषादयोः ॥ ४२॥ तथैव पञ्चमस्यापि द्वैरूप्यं पृथगीरितम् । साधारणाख्यगान्धारकैशिक्याख्यनिषादयोः ॥ ४३॥ अन्तराभिधगान्धारकाकल्याख्यनिषादयोः । मध्यमस्यापि षड्जस्य वरालीमध्यमस्य च ॥ ४४॥ प्रत्येकं त्रित्रिरूपत्वमस्माभिरूपवर्णितम् । नन्वेतदेकरूपादिवर्णने किं फलं तव ॥ ४५॥ चतुश्चतुरितिश्लोकपर्यालोचनया यतः । मुखारिमेलमात्रस्थाः शुद्धाः सर्वे स्वराः स्थिताः ॥ ४६॥ न तु तद्व्यतिरिक्तानां मेलानामेकसप्ततौ । प्रतिमेलं च नियताः सप्तस्वरगता अपि ॥ ४७॥ अस्माभिः कल्पयिष्यन्ते मेलाश्चाग्रे द्विसप्ततिः । ततः सकलमेलस्थसर्वस्वरजुषामपि ॥ ४८॥ द्वाविंशतिश्रुतीनां च विभागाय मया कृतम् । ऐकरूप्यद्विरूपत्वत्रिरूपत्वनिरूपणम् ॥ ४९॥ नन्वास्तामैकरूप्यादिवर्णनस्य प्रयोजनम् । षाडवौडुवरागेषु वर्ज्यन्ते ये स्वराः पुनः ॥ ५०॥ तदाश्रयश्रुतीनां किं त्यागः किं वोत्तरान्वयः । अत्रेदमुत्तरं ब्रूमो वर्जनीयस्वराश्रयाः ॥ ५१॥ श्रुतयो नैव वर्ज्यन्ते न च यान्त्युत्तरस्वरान् । किं तु वर्ज्यस्वरेष्वेवान्वधस्तिष्ठन्ति ताः पुनः ॥ ५२॥ सम्भवन्त्युपयोगिन्यः श्रुतीनां गणनामके प्रतिमेलं च यत्सप्तनियतस्वरसिद्धये ॥ ५३॥ द्वाविंशतिश्रुतीनामप्यवश्यं भाव इष्यते । यद्येवं षाडवत्वादिव्यवस्था नैव सम्भवेत् ॥ ५४॥ तदा सर्वेऽपि रागाः स्युः सम्पूर्णा एव केवलम् । अत्र सङ्गीतशास्त्रार्थरहस्यमिदमुच्यते ॥ ५५॥ वीणावादनगानादिसमये वर्जितान्स्वरान् ॥ समुत्प्लुत्य समुत्प्लुत्य वादयन्त्येव वादकाः ॥ ५६॥ गायन्ति गायकाश्चाथो इति वादिव्यवस्थितिः । सर्वदा षाडवे त्याज्यस्वराणां परिवर्जने ॥ ५७॥ तदुत्तरस्वराणां तु जननं नैव सम्भवेत् । पूर्वपूर्वस्वराभावे कथं कार्यः समुद्भवः ॥ ५८॥ स्वरणां घटते तावदुत्तरोत्तरभाविनाम् । एवं निरूपिताः शुद्धा विकृताश्च स्वराः स्फुटम् ॥ ५९॥ अथ स्वरसमूहात्मग्रामलक्षणमुच्यते । ग्रामवद् ग्राम इत्येवमुपचारो विवक्षितः ॥ ६०॥ यथा जनसमूहस्य लोके ग्राम इति प्रथा । तथा स्वरसमूहोऽत्र ग्राम इत्युपचर्यते ॥ ६१॥ केवलस्वरबृन्दस्य ग्रामत्वे कथिते सति । गामानयेत्यादिवाक्येष्वतिव्याप्तिर्भवेदतः ॥ ६२॥ मूर्च्छनाशुद्धकूटाख्यतानाद्याश्रय इत्यपि । देयं स्वरसमूहस्य विशेषणमिति स्थितिः ॥ ६३॥ स च ग्रामस्त्रिधा तत्र स्यात्षड्जग्राम आदिमः । मध्यमग्रामनामाऽथ गान्धारग्रामसंज्ञकः ॥ ६४॥ त्रयणामपि चेतेषां क्रमाल्लक्षणमुच्यते । षड्जग्रामः पञ्चमे स्वचतुर्थश्रुतिसंस्थिते ॥ ६५॥ स्वोपान्त्यश्रुतिसंस्थेऽस्मिन्मध्यमग्राम इष्यते । रिमयोः श्रुतिमेकैकां गान्धारश्चेत्समाश्रितः ॥ ६६॥ पश्रुतिं धो निषादस्तु धश्रुतिं सश्रुतिं श्रितः । गान्धारग्राममाचष्टे तदा तं नारदो मुनिः ॥ ६७॥ ग्रामेष्वेतेषु गान्धारग्रामो नास्ति महीतले । स्वर्गलोके परमिति सर्वेषामेव सम्मतम् ॥ ६८॥ अस्माभिर्मध्यमग्रामोऽप्यसत्प्राय इतीर्यते । तथा हि मध्यमग्रामे विश्रुतिः पञ्चमः खलु ॥ ६९॥ वरालीमध्यमो जातः स पुनर्लक्ष्यमार्गतः । मध्यमादिप्रभृतिषु मध्यमग्रामजन्मसु ॥ ७०॥ रागेषु दृश्यते नैव वरालीमध्यमस्ततः । अयुक्तो मध्यमग्रामो लक्ष्यमार्गविरोधतः ॥ ७१॥ एक एव ततः षड्जग्राम इत्यवधार्यते । ग्रामावयवभूतोऽथ मूर्च्छनादिर्निरूप्यते ॥ ७२॥ क्रमात्स्वराणां सप्तानामारोहश्चावरोहणम् । मूर्च्छनेत्युच्यते तास्तु प्रतिमेलं च सप्तधा ॥ ७३॥ तथा हि षड्जमारभ्य निषादान्ताधिरोहणात् । निषादादिषु षड्जान्तावरोहान्मूर्च्छनाऽऽदिमा ॥ ७४॥ एवं रिषभमारभ्य षड्जान्तमधिरोहणात् । षड्जादि रिषभन्तं चावरोहेण द्वितीयका ॥ ७५॥ एवमेव समुन्नेयं गान्धारादिस्वरेष्वपि । अतः प्रतिस्वरं तावदेकैका मूर्च्छना भवेत् ॥ ७६॥ आहत्य वक्ष्यमाणेषु द्विसप्ततिविधेष्वपि । सप्तस्वरसमूहात्ममेलेषु प्रतिमेलकम् ॥ ७७॥ मूर्च्छना सप्त सप्तेति वेङ्कटाध्वरिकल्पितम् । निरूप्यतेऽधुना तानः स्वरविस्तारलक्षणः ॥ ७८॥ तानो द्विधा शुद्धतानः कूटतान इति क्रमात् । एकैकरागमात्राभिव्यक्तिसम्पादकस्तु यः ॥ ७९॥ स शुद्धतान इत्युक्तः कूटतानः स उच्यते । यस्तु रागद्वयस्फूर्तिसाधारणतया स्थितः ॥ ८०॥ अथ स्वरपरिष्कारानलङ्कारान्प्रचक्ष्महे । ते च त्रिषष्टिरुदिताः शार्ङ्गदेवेन सूरिणा ॥ ८१॥ न ते पुनर्लक्ष्यमार्गे लक्ष्यन्ते कुत्रचित्ततः । अष्टौ प्रसिद्धालङ्कारा लक्ष्यन्ते तत्र झोम्पटः ॥ ८२॥ ध्रुवो मठ्यो रूपकश्च झम्पा त्रिपुट एव च । अठतालैकतालौ चेत्यष्टालङ्कृतयः स्मृताः ॥ ८३॥ अथैतेषां क्रमेणैव लक्षणं प्रतिपाद्यते । झोम्पटाख्येन तालेन निबद्धो झोम्पटः स्मृतः ॥ ८४॥ तत्र झोम्पटताले द्विद्व्यक्षरौ द्वौ द्रुतौ ततः । लघुरेकः परिज्ञेयश्चतुरक्षरसम्मितः ॥ ८५॥ आहत्याष्टाक्षरमितो झोम्पटः स्याद् द्विमात्रकः । सरि, गम, पधनिस, सनि, धप, मगरिस अत्र ध्रुवाख्यालङ्कारो द्वितीयः प्रतिपाद्यते ॥ ८६॥ ध्रुवतालेन सम्बद्धो ध्रुवालङ्कार उच्यते । ध्रुवतालः पुनर्द्वेधा नाट्यदण्डीध्रुवस्तथा ॥ ८७॥ वीणवाद्यध्रुवश्चेति नाट्यदण्डीध्रुवे लघुः । चतुरक्षरवानादौ गुरुः पश्चाद्दशाक्षरः ॥ ८८॥ वीणावाद्यध्रुवे त्यादौ लघू द्वौ चतुरक्षरौ । ततः षडक्षरोच्चारसाम्मितो लघुशेखरः ॥ ८९॥ चतुर्दशाक्षरमितावाहत्यैतावुभौ ध्रुवौ ॥ ध्रुवयोरनयोस्तावन्नाट्यदण्डीध्रुवः परम् ॥ ९०॥ प्रामाणिकः शास्त्रदृष्टः स एव भुवि वैणिकैः । वीणायां वाद्यते रक्तिलाभाद्धातुत्रयान्वितः ॥ ९१॥ सरिगमगरि, सरिगरि, सरिगम, रिगमपमग, रिगमग, रिगमप..... अलङ्कारस्तृतीयोऽथ लक्ष्यते मठ्यनामकः । मठ्यतालनिबद्धो यः स मठ्य इति कीर्तितः ॥ ९२॥ मठ्यताले द्रुतस्त्वादावक्षरद्वयसम्मितः । ततो लघू द्वौ विज्ञेयौ चतुरक्षरसम्मितौ ॥ ९३॥ आहत्य्त मठ्यतालोऽयं दशाक्षरमिति स्मृतः रूपकाख्यश्चतुर्थश्चालङ्कारः प्रतिपाद्यते ॥ ९४॥ बद्धो रूपकतालेन रूपकः परिकीर्तितः । आदौ द्रुतो लघुः पश्चात्ताले रूपकनामके ॥ ९५॥ तेन रूपकनामाऽयं विज्ञातव्यः षडक्षरः । सरि, सरिगम, रिग, रिगमप..... अलङ्कारोऽथ झम्पाख्यः पञ्चमः प्रतिपाद्यते ॥ ९६॥ झम्पतालेन संयुक्तो झम्पालङ्कार उच्यते । झम्पतलो द्विधा नाट्यवीणयोः परिदृश्यते ॥ ९७॥ तत्र स्यान्नाट्यझम्पायामादौ तावदणुद्रुतः । एकाक्षरमितः पश्चाद् द्रुतो द्व्यक्षरसम्मितः ॥ ९८॥ ततः सप्ताक्षरीकालसम्मितो लघुशेखरः । वाग्गेयकारझम्पायां विरामान्तद्रुतो मतः ॥ ९९॥ त्र्यक्षरः स परं सप्ताक्षरोच्चारणसम्मितः । लघुशेखरनामैको झम्पतालावुभाविमौ ॥ १००॥ दशलघ्वक्षरोच्चारसम्मिताविति निर्णयः । अनयोरुभयोर्नाट्यझम्पा प्रामाणिकी स्मृता ॥ १०१॥ तामेव रक्तिलाभेन कृत्वा धातुत्रयान्विताम् । वीणायां वादयन्तीह वैणिका इति निर्णयः ॥ १०२॥ सरिगसरिसरि, ग, मा; रिगमरिगरिग, म, पा..... षष्ठोथ त्रिपुटो नामालङ्कारः प्रतिपाद्यते । त्रिपुटाख्येन तालेन निबद्धस्त्रिपुटः स्मृतः ॥ १०३॥ त्रिपुटे द्वौ द्रुतावादौ पृथग्द्व्यक्षरसम्मितौ । विरामान्तद्रुतः पश्चादक्षरत्रयसम्मितः ॥ १०४॥ आहत्य त्रिपुटस्तालो ज्ञेयः सप्ताक्षरीमितः । सरि, गस, रिगम; रिग, मरि, गमप..... निरूप्यतेऽठतालाख्योऽलङ्कारः सप्तमोऽधुना ॥ १०५॥ अठतालेन संयुक्तमठतालं प्रचक्षते । अठताले द्रुतौ द्विद्व्यक्षरकालावुभौ स्मृतौ ॥ १०६॥ पञ्चपञ्चाक्षरमितौ लघू द्वौ तदनन्तरम् । चतुर्दशाक्षरीकालो जातस्तेनाठतालकः ॥ १०७॥ सरि, इग, असारिग, अमामा; रिग, अम, अरीगम, अपापा..... अष्टमः स्फुटमेवाथालङ्कारः प्रतिपाद्यते । एकतालेन युक्तत्वादेकतालः प्रकीर्तितः ॥ १०८॥ एकद्रुतेनैकताल एकतालस्य लक्षणम् । लक्ष्ये त्विदानीमेतादृगेकतालो न रक्तिदः ॥ १०९॥ इत्येकतालस्थानेऽस्मिन्नादितालो निवेशितः । आदिताले त्वेकलघुश्चतुरक्षरसम्मितः ॥ ११०॥ एवमष्टावलङ्कारा लक्षिता लक्षसम्मताः । एतान्ध्रुवादिकान्सप्त तालान्सूलादिसंज्ञकान् ॥ १११॥ तालं च झोम्पटाख्यानं रगणं च क्वचित्क्वचित् । गीतप्रकरणोक्तेषु गीतेषु विनिवेशयेत् ॥ ११२॥ एतन्नवातिरिक्तांस्तु न गीतेषु निवेशयेत् । प्राबन्धेषु च संयोज्यास्तालप्रकरणोदिताः ॥ ११३॥ तालाः सूलादिकाश्चैते सर्व एवेति निर्णयः । यद्यप्यष्टावलङ्कारा लक्ष्यवर्त्मनि सम्प्रति ॥ ११४॥ उक्तलक्षणमार्गेण दृश्यन्ते नैव कुत्रचित् । तथाऽप्यनागतातीतसमाख्यानग्रहत्रयम् ॥ ११५॥ अनुसृत्येव वीणायां रक्तिलोभेन वैणिकैः । लघुद्रुतादेरधुना पौर्वापर्यं समाश्रितम् ॥ ११६॥ अलङ्कारान्निरूप्यैवं गमकान्व्याहरामहे । स्वरस्य कम्पो गमकः श्रोतृचित्तसुखावहः ॥ ११७॥ स्वीयस्थानश्रुतिगतच्छायामन्याश्रयामपि । छायां गमयतीत्येष गमकः परिकीर्तितः ॥ ११८॥ ते च पञ्चदश प्रोक्ता गमका भरतातिभिः । तिरुपः स्फुरितश्चैव कम्पितो लीन इत्यपि ॥ ११९॥ आन्दोलितो वलिश्चाथ त्रिभिन्नः कुरुलाहतौ । उल्लसितः प्लावितश्च हुम्फितो मुद्रितस्तथा ॥ १२०॥ नामितो मिश्रितश्चेति भेदाः पञ्चदश स्मृताः । अत्यल्पडमरुध्वानकम्पानुकृतिसुन्दरः ॥ १२१॥ द्रुततुर्यांशवेगेन युक्तः कम्पः स्वरस्य च । स एव तिरुपो नाम गमकः परिकीर्तितः ॥ १२२॥ यस्तु द्रुततृतीयांशवेगेन सहितो भवेत् । स्वरकम्पः स एवोक्तः स्फुरितो नाम नामतः ॥ १२३॥ दृश्यते स्फुरितस्थाने डोलो लोके विकल्पितः । लक्षणं तस्य डोलस्य पूर्वाचार्यैरुदीरितम् ॥ १२४॥ डोलो मुक्ताफलस्येव चलनं लुठनात्मकम् । द्रुतार्धमानवेगेन स्वरकम्पस्तु कम्पितः ॥ १२५॥ पूर्णद्रुतप्रमाणेन वेगेन सहितस्तु यः । स्वरकम्पः स एवोक्तो गमको लीनसंज्ञकः ॥ १२६॥ लघुप्रमाणवेगेन स्वरकम्पस्तु यो भवेत् । तदान्दोलितनामानां गमकं तद्विदो विदुः ॥ १२७॥ नानावक्रगतस्वैरभिन्नवेगस्पृशां तु यः । कम्पः स्वराणां स पुनर्वलिरित्यभिधीयते ॥ १२८॥ वलिरेव ऋजुर्भूत्वा कुरुलो नाम कथ्यते । अक्लेशेनैव मन्द्रादिस्थानत्रितयसंस्पृशाम् ॥ १२९॥ स्वराणां कम्पनं लोके त्रिभिन्न इति कथ्यते । प्रागग्रिमस्वराद्वेगान्निवृत्तस्त्वाहतो मतः ॥ १३०॥ य उत्तरोत्तरान्गच्छेत्क्रमेणैव स्वरोत्करान् । तमुल्लासितनामानां गमकं ब्रुवते बुधाः ॥ १३१॥ प्लुतप्रमाणवेगेन कम्पो यः प्लावितस्तु सः । मनोज्ञतरहुङ्कारगर्भितस्वरकम्पनम् ॥ १३२॥ हुम्फितं नाम गमकं गमकज्ञाः प्रचक्षते । यो जायते स्वरे कम्पस्त्वधरद्वयमुद्रणात् ॥ १३३॥ मुद्रितो नाम गमकः स एव समुदाहृतः । मन्द्रो यस्त्ववरोहेण स्वरकम्पः स नामितः ॥ १३४॥ एतेषां मिश्रणाज्ज्ञेयो गमको मिश्रणाभिधः । तदेवं मूर्च्छनाग्रामगमकादिप्रभेदवान् ॥ १३५॥ स्वरो निरूपितः सोऽयं स्वरः प्रोक्तश्चतुर्विधः । वादो संवाद्यपि तथा विवादी चानुवाद्यथ ॥ १३६॥ प्रयोगे बहुदाऽऽवृत्तः स्वरो वादीति कथ्यते । श्रुतयो द्वादशाष्टौ वा ययोरन्तरगोचराः ॥ १३७॥ मिथः संवादिनौ तौ चेत्येवं संवादिलक्षणम् । एवं स्पष्टयितुं वीणाप्रस्तारस्तावदुच्यते ॥ १३८॥ लिखेद् द्वाविंशतिं तिर्यग्रेखास्तत्र च वामतः । यद्वा दक्षिणतो वाऽपि भवन्ति द्वे च विंशतिः ॥ १३९॥ रेखाग्राण्यत्र वामे वा दक्षिणे वा यथामति । विद्यमानानि रेखाग्राण्यादाय द्वे च विंशतिम् ॥ १४०॥ लिखितेषु स्वराञ्शुद्धविकृतान्द्वादशात्मकान् । द्वादशानामपि स्वस्याद्यक्षरैस्तत्र लिख्यते ॥ १४१॥ सङ्केत इति निःशङ्कं वेङ्कटाध्वरिणोदितम् । स्वरेषु लिखितेष्वेवं ययोस्तु स्वरयोर्द्वयोः ॥ १४२॥ स्वस्याधारश्रुतिं त्यक्त्वा मध्ये द्वादश वाऽथ वा । अष्टौ चाऽप्युपलभ्यन्ते श्रुतयस्तु तयोर्द्वयोः ॥ १४३॥ मिथः संवादिता ज्ञेया सर्वत्रावेवमिष्यते । समौ सपौ रिधौ चैव निगौ संवादिनौ मिथः ॥ १४४॥ एवं शुद्धस्वरेषूक्तः संवादिस्वरनिर्णयः । साधारणाख्यगान्धारकैशिक्याख्यनिषादयोः ॥ १४५॥ तथैवान्तरकाकल्योः संवादो विकृतेष्वपि । शुद्धर्षभेण संवादी वरालीमध्यमस्तथा ॥ १४६॥ शुद्धस्य मध्यमः शुद्धनिषादश्चेत्युभौ स्वरौ । श्रुत्यष्टकेनान्तरितावपि संवादिनो न हि ॥ १४७॥ एवं संवादिलक्ष्मोक्तं विवादी लक्ष्यतेऽधुना । एकश्रुत्यन्तरितता ययोस्तु स्वरयोर्द्वयोः ॥ १४८॥ तयोर्मिथो विवादित्वमेवं सर्वत्र कल्पयेत् । रिगौ धनी च शुद्धेषु स्वरौ स्यातां विवादिनौ ॥ १४९॥ साधारणान्तरौ चैव कैशिकीकाकलीस्वरौ । मिथो विवादिनौ ज्ञेयौ विकृतेषु स्वरेष्वपि ॥ १५०॥ विवादिवादिसंवादिभिन्नाः स्युरनुवादिनः । चतुर्विधस्वरेष्वेषु वादी राजा प्रकीर्त्यते ॥ १५१॥ संवादी त्वनुसारित्वादस्यामात्यो विधीयते । विवादी विपरीतत्वाद्धीरैरुक्तौ रिपूपमः ॥ १५२॥ स्वरूपमर्दनं तेन प्रयोगे स्याद्विवादिनः । स्वरूपमर्दनाभावे गीतरक्तिर्न लभ्यते ॥ १५३॥ शत्रूपमर्दने हि स्याद्राज्ञां लोके प्रकाशनम् । नृपामात्यानुसारित्वादनुवादी तु भृत्यवत् ॥ १५४॥ इति श्रीमदद्वैतविद्याचार्यसाग्निचित्यसर्वतोमुखातिरात्र- साग्निचित्याप्तवाजपेययाजिगोविन्ददीक्षित- नागमाम्बिकावरद्वितीयनन्दनस्य साग्निचित्यसर्वक्रतुयाजि- यज्ञनारायणदीक्षिताव्यवहितानुजस्याच्युत- विजयराघवभूपालप्रेरितस्य वेङ्कटेश्वरदीक्षितस्य कृतौ चतुर्दण्दीप्रकाशिकायां तृतीयं स्वरप्रकरणं सम्पूर्णम् ।

४. चतुर्थं मेलप्रकरणम्

तृतीयेस्मिन्प्रकरणे स्वराः सम्यङ् निरूपिताः । अथ प्रकरणे तुर्ये कुर्वे मेलनिरूपणम् ॥ १॥ षड्जस्वरस्य पुरतश्चत्वारः क्रमशः स्वराः । रिषभाख्यानकाः केचित्गान्धाराख्यानकाश्च ते ॥ २॥ तत्राधो नैव गान्धारश्चतुर्थो रिषभो न हि । रिषभावपि गान्धारौ द्वितीयकतृतीयकौ ॥ ३॥ द्वितीयं वा चतिर्थं वा व्यपेक्ष्य स्यात्तृतीयकः । रिषभाख्यः स एव स्याद्गान्धरोऽपेक्ष्य चादिमम् ॥ ४॥ तृतीये रिषभाख्यानश्चतुर्थापेक्षया भवेत् । स हि व्यपेक्ष्य गान्धारः प्रथमं वा द्वितीयकम् ॥ ५॥ एवं च सति निष्पन्नं द्वितीयकतृतीययोः । गान्धारत्वं च रिषभभूयमित्येव निर्णयः ॥ ६॥ तस्मदाद्यद्वितीयौ च तृतीयश्चर्षभा मता । तेष्वाद्यो गौलरिषभः श्रीरागरिषभः परः ॥ ७॥ तृतीयो नाटरिषभ इति लक्ष्यविदां मतम् । आद्यः शुद्धर्षभः पञ्चश्रुतिकर्षभसंज्ञकः ॥ ८॥ द्वितीयश्च तृतीयः षट्श्रुतिकर्षभ उच्यते । लक्षणज्ञैर्मयोक्तास्ते त्रयो ररिरुसंज्ञकाः ॥ ९॥ द्वितीयश्च तृतीयश्च चतुर्थश्च त्रयः स्वराः । सामान्यतः स्युर्गान्धारास्तेष्वाद्यो लक्ष्यवेदिभिः ॥ १०॥ प्रोक्तो मुखारिगान्धारो द्वितीयो भैरवीयुतः । गान्धारोऽथ तृतीयस्तु गौलगान्धार उच्यते ॥ ११॥ लक्षणज्ञैस्तु तेष्वाद्यः शुद्धगान्धार उच्यते । साधारणाख्यगान्धारो द्वितीयः परिकीर्तितः ॥ १२॥ तृतीयोऽन्तरगान्धार इत्यहं तु वदामि तान् । क्रमाद्गगिगुनाम्नस्त्रीन्मेलप्रस्तारसिद्धये ॥ १३॥ एबं च षड्जात्पुरतो निवसस्तु चतुर्ष्वपि । स्वरेषु प्रथमादित्रितयं रिषभनामकम् ॥ १४॥ गान्धाराख्यं द्वितीयादित्रयमित्येव निर्णयः । चतुर्ष्वेतेषु जातस्य ररिर्वाख्यानशालिनः ॥ १५॥ गान्धारत्रितयस्यापि पूर्वाङ्गाख्या मया कृता । कथं द्वितीयो रिषभो गान्धारः प्रथमो भवेत् ॥ १६॥ कथं तृतीयो रिषभो गान्धारः स्याद् द्वितीयकः । विरुद्धत्वात्तुरङ्गत्वगोत्वयोरिव सर्वथा ॥ १७॥ कथं स्याद्रिषभत्वेन गान्धारत्वस्य सङ्गतिः । किं च स्वरेषु चतुर्षु रिषभौ द्वौ परावुभौ ॥ १८॥ गान्धाराविति युक्तं स्यात्तत्कथं रिषभास्त्रयः । गान्धारास्त्रय इत्युक्तमिति चेदत्र वच्म्यहम् ॥ १९॥ विरुद्धे नर्षभत्वं च गान्धारत्वमुभे इमे । किं तु सापेक्षकौ धर्मौ स्यातामेकत्र तेन तौ ॥ २०॥ यथा चत्वर एकस्य तनुजाः सर्व एव हि । ज्येष्ठा अपि कनिष्ठाः स्युस्तत्र चाद्यस्तु नानुजः ॥ २१॥ न चतुर्थः पूर्वजः स्याद् द्विरूपावितरवुभौ । तृतीयं वा चतुर्थं वा व्यपेक्ष्य स्याद् द्वितीयकः ॥ २२॥ पुत्रे ज्येष्ठः स एव स्यात्कनिष्ठोऽपेक्ष्य चादिमम् । द्वितीयो ज्येष्ठतायुक्तश्चतुर्थापेक्षया भवेत् ॥ २३॥ स एवावरजोऽपेक्ष्य प्रथमं च द्वितीयकम् । प्रथमाद्यास्त्रयस्तस्माद्यथा ज्येष्ठा भवन्त्यमी ॥ २४॥ द्वितीयाद्यास्त्रयः पुत्राः कनीयांसो यथाऽभवन् । एवें त्रयोऽत्र रिषभा ज्येष्ठकल्पा भवन्त्यमी ॥ २५॥ कनिष्ठकल्पा गान्धारास्त्रयोऽप्यत्र भवन्त्यमी । चतुर्ष्वेषु स्वरेष्वेतौ द्वितीयकतृतीयकौ ॥ २६॥ रिषभावपि गान्धारौ स्यातां तस्मात्समञ्जसम् । तदूर्ध्वे पर्वणि भवन्पञ्चमे शुद्धमध्यमः ॥ २७॥ मसंज्ञको मयाप्रोक्तस्तदूर्ध्वे पर्वणि स्थितः । षष्ठे वरालीरागस्य कुर्वाणः प्रतिभासनम् ॥ २८॥ द्वितीयो मध्यमः प्रोक्तो मिसंज्ञः स मया कृतः । सप्तमे पर्वणि वसन्पञ्चमः स्यात्पसंज्ञकः ॥ २९॥ पञ्चमस्य पुरस्तात्स्युश्चत्वारः क्रमशः स्वराः । धैवताश्च निषादाश्च निषादस्तत्र नादिमः ॥ ३०॥ न चतुर्थो धैवतः स्याद् द्विरूपावितरवुभौ । धैवतौ च निषादौ च कथ्येते शास्त्रकोविदैः ॥ ३१॥ तृतीयं वा चतुर्थं वा व्यपेक्ष्य स्याद् द्वितीयकः । धैवताख्यः स एव स्यान्निषादोऽपेक्ष्य चादिमम् ॥ ३२॥ तृतीयो धैवताख्यनश्चतुर्थापेक्षया भवेत् । स एवाद्यं द्वितीयं वा व्यपेक्ष्य स्यान्निषादकः ॥ ३३॥ एवं च सति निष्पन्नं द्वितीयकतृतीययोः । धैवतत्वं निषादत्वमुभयोरुभयोः पृथक् ॥ ३४॥ तस्मदाद्यद्वितीयौ च तृतीयश्चापि धैवताः । गौलधैवत आद्यः स्यात्परः श्रीरागधैवतः ॥ ३५॥ तृतीयस्तत्र नाटस्य धैवतो लक्ष्यविन्मते । शुद्धधैवत आद्योऽन्यः पञ्चश्रुतिकधैवतः ॥ ३६॥ तृतीयो लक्षणज्ञैः षट्श्रुतिको धैवतः स्मृतः । अस्मन्मते त्रयस्ते स्युः क्रमाद्धधिधुसंज्ञकाः ॥ ३७॥ द्वितीयश्च तृतीयश्च चतुर्थश्च स्वरास्त्रयः । सामान्यतो निषादाः स्युस्तेष्वाद्यो लक्ष्यवेदिनाम् ॥ ३८॥ मते मुखारिरागस्य निषादोऽथ द्वितीयकः । प्रोक्तो निषादो भैरव्या गौलरागनिषादकः ॥ ३९॥ तृतीयो लक्षणज्ञानां मते तेषु प्रकीर्तितः । आद्यः शुद्धनिषादोऽन्यः कैशिक्याख्यनिषादकः ॥ ४०॥ स्यात्काकलीनिषादोऽन्यस्तृतीयः परिकीर्तितः । एते त्रयो मया तूक्ताः क्रमान्ननिनुसंज्ञकाः ॥ ४१॥ एवं च पञ्चमाग्रेऽथ निवसस्तु चतुर्ष्वपि । स्वरेषु प्रथमादित्रितयं धैवतनामकम् ॥ ४२॥ निषादाख्यं द्वितीयादित्रयमित्येव निर्णयः । चतुर्ष्वेतेषु जातस्य धधिध्वाख्यानशालिनः ॥ ४३॥ निषादत्रितयस्यापि ननिन्वख्यनशालिनः । उत्तराङाभिधा प्रोक्ता मेलप्रस्तारसिद्धये ॥ ४४॥ शङ्का चैव समाधानमुभयं पूर्ववद्भवेत् । मेलो नाम स को वेति प्रश्नस्योत्तरमुच्यते ॥ ४५॥ नियमेनैव सङ्ग्राह्यः षड्जस्तत्पुरतः क्रमात् । विद्यमानेषु चतुर्षु स्वरेष्वन्यतरावुभौ ॥ ४६॥ तत्रर्षभः पूर्वभवो गान्धारस्त्वनुजो भवेत् । द्वयोर्मध्यमयोरेकः सङ्ग्राह्यो मध्यमो भवेत् ॥ ४७॥ नियमेन हि सङ्ग्राह्याः पञ्चमस्तत्पुरः स्थितः । स्वराः क्रमेण चत्वारस्तेषु चान्यतरावुभौ ॥ ४८॥ सङ्ग्राह्यः पूर्वजातोऽत्र धैवतः परिकीर्तितः । पश्चाद्भवो निषादः स्यादिति सप्त स्वराश्च ये ॥ ४९॥ तेषां च मेलनं मेलो गीतविद्भिः प्रकीर्तितः । भेदा द्विसप्ततिस्तस्य भवन्त्यस्माभिरीरितः ॥ ५०॥ येनोपायेन मेलास्ते द्विसप्ततिरिति स्फुटाः । तमुपायं प्रवक्ष्यामि लक्ष्यज्ञसुखबुद्धये ॥ ५१॥ रगौ रगी रगू चैव रिगी रिगू रुगू तथा । षड् भेदा इति पूर्वाङ्गे द्रष्टव्यं गीतकोविदैः ॥ ५२॥ धनौ धनी धनू चैव धिनी धिनू धुनू तथा । उत्तराङ्गेऽपि षड् भेदा द्रष्टव्या गीतकोविदैः ॥ ५३॥ पूर्वाङ्गगतषड्भेदाः षड्जाद्याः स्युः पृथक्पृथक् । उत्तराङ्गस्य षड्भेदाः पञ्चमाद्याः पृथक्पृथक् ॥ ५४॥ आद्यः पूर्वाङ्गगो भेद उत्तराङ्गस्थितैः क्रमात् । योज्यते यदि षड्भेदैः षण्मेलाः सम्भन्त्यतः ॥ ५५॥ पूर्वाङ्गस्य द्वितीयोऽपि भेदस्तेनैव वर्त्मना । संयोज्यते यदि तदा षण्मेलाः सम्भवन्त्यतः ॥ ५६॥ एवं तृतीयो भेदोऽपि षण्मेलोत्पादको भवेत् । चतुर्थोऽपि तथैव स्यात्पञ्चमोऽप्येवमेव हि ॥ ५७॥ एवं षष्ठोऽपि विज्ञेयः षण्मेलोत्पत्तिकारणम् । अतः पूर्वाङ्गभेदानां षण्णामपि पृथक्पृथक् ॥ ५८॥ उत्तराङ्गस्थितैः षड्भिर्भेदैः संयोजने कृते । षट्षण्मेलप्रकारेण मेलाः षट्त्रिंशदागताः ॥ ५९॥ षट्त्रिंशन्मेलकेष्वेषु प्रतिमेलं च मध्यमः । मसंज्ञो यदि मध्ये स्यात्पूर्वमेलाभिधास्तदा ॥ ६०॥ एतेष्वेव तु षट्त्रिंशन्मेलेषु प्रतिमेलकम् । मसंज्ञमध्यमस्थाने मिसंज्ञो यदि मध्यमः ॥ ६१॥ निवेश्यते तदा तेषां भवेदुत्तरमेलता । इत्यस्माभिः समुन्नीता जाता मेला द्विसप्ततिः ॥ ६२॥ ननु त्यक्त्वा मसंज्ञं तु केवलं मध्यमं पुनः । मिसंज्ञकस्य तत्स्थाने मध्यमस्य निवेशनात् ॥ ६३॥ त एव पूर्वमेलाः किं भवन्त्युत्तरमेलकाः । इति चोक्ते सदृष्टान्तं परिहारं प्रचक्ष्महे ॥ ६४॥ कटाहसम्भृतं क्षीरं केवलं दधिबिन्दुना । यथा संयोगमासाद्य दधिभावं प्रपद्यते ॥ ६५॥ तथैव पूर्वमेलास्ते मध्यमेन मिसंज्ञिना । केवलेनापि संयुक्ता भजन्त्युत्तरमेलताम् ॥ ६६॥ द्विसप्ततेश्च मेलानां प्रस्तारं लक्षयेऽधुना । षट् पङ्क्तीर्विलिखेत्पूर्वं षण्मेलोत्पत्तिसिद्धये ॥ ६७॥ एकैकस्यां पङ्क्तिकायां सप्त सप्त गृहाल्ऽ लिखेत् । चतुष्कमेकमेवं च सति निष्पद्यते पुनः ॥ ६८॥ तथैवैकादशान्यानि चतुष्काणि लिखेत्क्रमात् । चतुष्काणि तदेतानि जातानि द्वादश स्फुटम् ॥ ६९॥ द्वादशस्वपि चैतेषु चतुष्केषु स्थिताः ग्रहाः । सप्त सप्त हि तेष्वाद्यद्वितीयकतृतीयकाः ॥ ७०॥ गृहाः पूर्वाङ्गसंयुक्ताः कर्तव्या इति निर्णयः । पञ्चमा अथ षष्ठाश्च सप्तमाश्च गृहास्तथा ॥ ७१॥ उत्तराङ्गेण संयुक्ताः कर्तव्या इति निर्णयः । चतुर्थाः पूर्वमेलेषु मसंज्ञेन युता गृहाः ॥ ७२॥ त एवोत्तरमेलेषु मिसंज्ञेन युता मताः । ततश्च द्वादशस्वेषु चतुष्केषूक्तवर्त्मना ॥ ७३॥ जाताः प्रतिचतुष्कं च षट्षण्मेलप्रकारतः । मेलाः द्विसप्ततिः श्रीमद्वेङ्कटाध्वरिकल्पिताः ॥ ७४॥ तदेवमनया रीत्या मेलानां च द्विसप्ततिः । स्फुटप्रबुद्धयेऽस्माभिः स्वरेषु द्वादशस्वपि ॥ ७५॥ रगौ रिगीत्येवमाद्यः सङ्केतः परिकल्पितः । तत्सङ्केतप्रकारेण स्वरेषु द्वादशस्वपि ॥ ७६॥ सप्त सप्त समादाय प्रतिमेलमपि स्वरान् । विद्याद् द्विसप्ततिं मेलानुक्तप्रस्तारवर्त्मना ॥ ७७॥ अथ विज्ञाय तत्वेन मेलानेद्व्यधिकसप्ततिम् । तेषां प्रयोगसमये रगौ रिगीति मत्कृतः ॥ ७८॥ सङ्केतो नैव सङ्ग्राह्यः किं तु पूर्वप्रसिद्धये । व्यवहारः सरिगमपधनीत्येव संज्ञया ॥ ७९॥ द्विसप्ततेश्च मेलानां कर्तव्य इति निर्णयः । ननु द्विसप्ततिर्मेला भवता परिकल्पिताः ॥ ८०॥ प्रसिद्धाः पुनरेतेषु मेलाः कतिचिदेव हि । दृश्यन्ते ननु सर्वेऽपि तेन तत्कल्पनं वृथा ॥ ८१॥ कल्पनागौरवन्यायादिति चेदिदमुच्यते । अनन्ताः खलु देशास्तद्देशस्था अपि मानवाः ॥ ८२॥ तेषु साङ्गीतकैरुच्चावचसङ्गीतकोविदैः । ये कल्पयिष्यमाणाश्च कल्प्यमानाश्च कल्पिताः ॥ ८३॥ अस्मदादिभिरज्ञाता ये च शास्त्रैकगोचराः । ये च देशीयरागास्तद्रागसामान्यमेलकाः ॥ ८४॥ येन पन्तुवराल्याख्यकल्याणिप्रमुखा अपि । नानादेशीयरागास्तद्रागसामन्यमेलकान् ॥ ८५॥ सङ्ग्रहीतुं समुन्नीता एते मेला द्विसप्ततिः । ततश्चैतेषु वैयर्थ्यशङ्का किङ्कारणं भवेत् ॥ ८६॥ न हि सङ्घटते वृत्तरत्नाकरनिरूपिते । तत्र प्रस्तारलब्धानां वृत्तानां निकुरुम्बके ॥ ८७॥ अस्मदादिप्रसिद्धान्यवृत्तवैयर्थ्यशंसनम् । न हि सङ्घटते तालप्रस्तारजनिते पुनः ॥ ८८॥ तालजाले प्रसिद्धान्यतालवैयर्थ्यशंसनम् । यदि कश्चिन्मदुन्नीतमेलेभ्यस्तद्द्विसप्ततेः ॥ ८९॥ न्यूनं वाऽप्यधिकं वाऽपि प्रसिद्धैर्द्वादशस्वरैः । कल्पयेन्मेलनं तर्हि ममायासो वृथा भवेत् ॥ ९०॥ न हि तत्कल्पने फाललोचनोऽपि प्रगल्भते । तस्माद्यथैकपञ्चाशद्वर्णाः स्युर्मातृकाभिधाः ॥ ९१॥ न हीयन्ते न वर्धन्ते तथा मेला द्विसप्ततिः । एवं सामान्यतो मेलाः प्रोक्ता ह्यधिकसप्ततिः ॥ ९२॥ अथैतेष्वेव ये मेला लक्ष्यवर्त्मनि विश्रुताः । तेष्वहं कतिचिन्मेलाल्ऽ लक्ष्यलक्षणसङ्गतान् ॥ ९३॥ प्रतिमेलमपि स्पष्टं श्रुतीद्वाविंशतिं तथा । लक्षणं वच्यते पश्चादुद्देशस्तावदादितः ॥ ९४॥ पूर्वोक्तमेलप्रस्तारः क्रमेण क्रियतेऽधुना । आदिमः सर्वमेलानां मुखारीमेल उच्यते ॥ ९५॥ मेलः सामवराल्याख्यरागस्यातः परं मतः । ततो भूपालमेलोऽथ हेज्जुज्जीमेल ईरितः ॥ ९६॥ वसन्तभैरवीमेलो गौलमेलस्ततः परम् । भैरवीमेल आहर्या मेलः श्रीरागमेलकः ॥ ९७॥ काम्भोजिमेलो मेलोऽथ शङ्करभरणस्य च । सामन्तमेलो देशाक्षीमेलो नाटस्य मेलकः ॥ ९८॥ मेलः शुद्धवराल्याख्यरागस्यातः परं मतः । मेलः पन्तुवराल्याश्च शुद्धरामक्रियायुतः ॥ ९९॥ मेलः सिंहरवाख्योऽस्मत्सृष्टरागस्य मेलकः ॥ कल्याणीरागमेलश्चेत्याहत्यैकोनविंशतिः ॥ १००॥ अस्मादतिप्रसिद्धनां देशभेदप्रचारिणाम् । उच्चावचानां रागाणां मेलस्तावद् द्विसप्ततौ ॥ १०१॥ मेलेषु पूर्वमेलेषु शारीरानुगुणत्वतः । बुद्धिमद्भिः समुन्नेया इति सर्वं समञ्जसम् ॥ १०२॥ यद्वा सामन्तरागोऽयं श्रीरागे मेलके गतः । रागप्रकरणे ब्रूमो रागान्मेलविशेषजान् ॥ १०३॥ उद्दिष्टानां तु मेलानामधुना लक्ष्म चक्ष्महे । प्रतिमेलमतिस्पष्टं श्रुतीर्द्वाविंशतिं तथा ॥ १०४॥ शुद्धैः सप्तस्वरैर्युक्तो मुखारीमेल उच्यते । चतुश्चतुश्चतुश्चैव षड्जमध्यमपञ्चमाः ॥ १०५॥ द्वे द्वे निषादगान्धारौ त्रिस्त्री रिषभधैवतौ । इत्यस्य श्रुतयः पूर्वैर्द्वाविंशतिरुदाहृताः ॥ १०६॥ पूर्वोक्तमेलप्रस्तारे भेदोऽयं प्रथमो मतः । इति मुखारीमेलः ॥ १॥ षड्जः शुद्धाश्च रिगमाः शुद्धौ पञ्चमधैवतौ ॥ १०७॥ निषादः काकलीनामेत्येतैर्युक्तः स्वरैस्तु यः । मेलः सामवराल्याख्यरागस्यायमुदाहृतः ॥ १०८॥ षड्ज एकर्षभे तिस्रो द्वे गे च मपयोः पृथक् । चतस्रश्च चतस्रश्च धे तिस्रः पञ्च नौ स्मृताः ॥ १०९॥ इत्यस्य श्रुतयो ज्ञेया द्वाविंशतिरिति स्फुटम् । पूर्वोक्तमेलप्रस्तारे भेदोऽयं स्यात्तृतीयकः ॥ ११०॥ इति सामवरालीमेलः ॥ २॥ षड्जः शुद्धर्षभः साधारणगान्धार एव च । शुद्धाश्च मपधा ज्ञेयाः कैशिक्याख्यो निषादकः ॥ १११॥ एभिः सप्तस्वरैर्युक्तः प्रोक्तो भूपालमेलकः । तिस्रस्तिस्रश्च तिस्रश्च तिस्रः सरिगमाश्रयाः ॥ ११२॥ चतस्रः पञ्चमे तिस्रो धैवते तिस्र एव नौ । इत्यस्य श्रुतयो ज्ञेया द्वाविंशतिरिति स्फुटम् ॥ ११३॥ पूर्वोक्तमेलप्रस्तारे जातो भेदोऽयमष्टमः । इति भूपालमेलः ॥ ३॥ गान्धरोऽन्तरनामाऽन्ये स्वराः शुद्धाः प्रकीर्तिताः ॥ ११४॥ एतावन्स्वरसम्भूतो हेज्जुज्जीमेल ईरितः । षड्जे च तिस्र ऋषभे तिस्रो गे पञ्च मध्यमे ॥ ११५॥ एका स्यात्पे चतस्रः स्युर्ध तिस्रो द्वे निषादके । इत्यस्य श्रुतयो ज्ञेया द्वाविंशतिरिति स्फुटम् ॥ ११६॥ अयं त्रयोदशो भेदो मेलप्रस्तारके भवेत् । इति हेज्जुज्जिमेलः ॥ ४॥ षड्जः शुद्धर्षभश्चैव गान्दारोऽन्तरसंज्ञकः ॥ ११७॥ शुद्धाश्च मपधाः कैशिक्याभिधानो निषादकः । वसन्तभैरवीमेलः स्वरैरेतैः समुत्थितः ॥ ११८॥ षड्जे तिस्रस्तु रिषभे तिस्रो गे पञ्च मध्यमे । एकैव पे चतस्रः स्युस्तिस्रस्तिस्रो धनिश्रिताः ॥ ११९॥ इत्यस्य श्रुतयो ज्ञेया द्वाविंशतिरिति स्फुटम् । अयं च मेलप्रस्तारे ज्ञेयो भेदश्चतुर्दश ॥ १२०॥ इति वसन्तभैरवीमेलः ॥ ५॥ षड्जः शुद्धर्षभश्चैव गान्धारोऽन्तरसंज्ञकः । मपधाख्याः स्वराः शुद्धाः काकल्याख्यनिषादकः ॥ १२१॥ एतावत्स्वरसम्भूतो गौलमेलः प्रकीर्तितः ॥ एका षड्जे ति रिषभे तिस्रो गे पञ्च मध्यमे ॥ १२२॥ एकैव पे चतस्रः स्युस्तिस्रो धे पञ्च नौ मताः । इतस्य श्रुतयो ज्ञेया द्वाविंशतिरिति स्फुटम् ॥ १२३॥ अयं पञ्चदशो भेदो मेलप्रस्तारके स्मृतः । इति गौलमेलः ॥ ६॥ षड्जश्च पञ्चश्रुतिकर्षभः साधारणाह्वयः ॥ १२४॥ गान्धारो मध्यमः शुद्धः पञ्चमः शुद्धधैवतः । कैशिक्याख्यनिषादश्चेत्येतावत्स्वरसम्भवः ॥ १२५॥ भैरवी नाम रागः स्यादिति मेलसमाह्वयः । षड्जे तिस्र ऋषभे पञ्चैका गे तिस्रो मध्यमे ॥ १२६॥ चतस्रः पे धे च तिस्रो निषादे तिस्र एव च । इत्यस्य श्रुतयोऽस्मभिर्द्वाविंशतिरुदीरिताः ॥ १२७॥ विंशभेदकसम्भूतो मेलप्रस्तारके स्मृतः । इति भैरवीमेलः ॥ ७॥ षड्जश्च पञ्चश्रुतिको रिषभश्च तथा परः ॥ १२८॥ साधारणाख्यगान्धारः शुद्धाश्च मपधास्तथा । काकल्याख्यनिषादश्चेत्याहरीमेलके स्वराः ॥ १२९॥ एका षड्जेऽथ रिषभे पञ्च गे त्वेकिका मता । तिस्रश्चतस्रो मपयोर्धे तिस्रः पञ्च नौ स्मृताः ॥ १३०॥ इत्यस्य श्रुतयोऽस्माभिर्द्वाविंशतिरुदाहृताः । भेदोऽयमेकविंशोऽस्मन्मेलप्रस्तारके स्मृतः ॥ १३१॥ इत्याहरीमेलः ॥ ८॥ षड्जश्च पञ्चश्रुतिरिषभाख्यः स्वरः परः । साधारणाख्यगान्धारः शुद्धौ मध्यमपञ्चमौ ॥ १३२॥ चतुःश्रुतिर्धैवतश्च कैशिक्याख्यनिषादकः । एतैः सप्तस्वरैर्जातः श्रीरागस्य तु मेलकः ॥ १३३॥ तिस्रः षड्जेऽथ रिषभे पञ्च गे त्वेकिकैव मे । तिस्रः पे तु चतस्रः स्युर्धे पञ्चैकैव नौ स्मृताः ॥ १३४॥ इत्यस्य श्रुतयोऽस्माभिर्द्वाविंशतिरुदाहृताः । अयं द्वाविंशको भेदो मेलप्रस्तारके भवेत् ॥ १३५॥ इति श्रीरागमेलः ॥ ९॥ षड्जोऽथ पञ्चश्रुतिको रिषभोऽन्तरसंज्ञकः । गान्धारश्च मपौ शुद्धौ पञ्चश्रुतिकधैवतः ॥ १३६॥ कैशिक्याख्यनिषादश्च काम्भोजीमेलके स्वराः । षड्जे तिस्रस्तु रिषभे पञ्च तिस्रस्तु गे स्मृताः ॥ १३७॥ एकैव मे चतस्रः पे धे पञ्चैका निषादके । इत्यस्य श्रुतयोऽस्माभिर्द्वाविंशतिरुदीरिताः ॥ १३८॥ अष्टविंशत्ययं भेदो मेलप्रस्तारके स्मृतः । इति काम्भोजीमेलः ॥ १०॥ षड्जश्च पञ्चश्रुतिको रिषभश्चान्तराभिधः ॥ १३९॥ गान्धारस्तु मपौ शुद्धौ पञ्चश्रुतिकधैवतः । काकल्याख्यनिषादश्चेत्येतावत्स्वरसम्भवः ॥ १४०॥ शङ्कराभरणाख्यानरागराजस्य मेलकः । षड्ज एकर्षभे पञ्च तिस्रो गे त्वेकिकैव मे ॥ १४१॥ चतस्रः पे पञ्च धे च निषादे तिस्र एव च । इत्यस्य श्रुतयोऽस्माभिर्द्वाविंशतिरुदाहृताः ॥ १४२॥ एकोनत्रिंशभेदोऽयं मेलप्रस्तारके स्मृतः । इति शङ्कराभरणमेलः ॥ ११॥ षड्जः पञ्चश्रुतिश्चाथ रिषभोऽन्तरनामकः ॥ १४३॥ गान्धारश्च मपौ शुद्धौ षट्श्रुतिर्धैवतस्तथा । काकल्याख्यनिषादश्च स्वराः सामन्तमेलके ॥ १४४॥ षड्ज एकर्षभे पञ्च तिस्रो गे चैकिका च मे । चतस्रः पञ्चमे धे तु षट् तथा द्वौ निषादके ॥ १४५॥ इत्यस्य श्रुतयोऽस्माभिर्द्वाविंशतिरुदीरिताः । पूर्वोक्तमेलप्रस्तारे त्रिंशभेदोऽयमुच्यते ॥ १४६॥ इति सामन्तमेलः ॥ १२॥ षड्जः षट्श्रुतिको नाम रिषभोऽन्तरसंज्ञकः । गान्धारस्तु मपौ शुद्धौ पञ्चश्रुतिकधैवतः ॥ १४७॥ काकल्याख्यनिषादश्चेत्येतावत्स्वरसम्भवः । देशाक्षी नाम रागः स्यादिति मेलसमाह्वयः ॥ १४८॥ एका षड्जे च रिषभे षड् गे द्वे चैकिका च मे । चतस्रः पे पञ्च धे च निषादे तिस्र एव च ॥ १४९॥ इत्यस्य श्रुतयोऽस्माभिर्द्वाविंशतिरुदीरिताः । पञ्चत्रिंशकभेदोऽयं मेलप्रस्तारके स्मृतः ॥ १५०॥ इति देशाक्षीमेलः ॥ १३॥ षड्जः षट्श्रुतिको नाम रिषभोऽन्तरसंज्ञकः । गान्धारस्तु मपौ शुद्धौ षट्श्रुतिधैवतः स्वरः ॥ १५१॥ काकल्याख्यनिषादश्चेत्येतावत्स्वरसम्भवः । नाटाभिधानरागः स्यादिति मेलसमाह्वयः ॥ १५२॥ एका षड्जे च रिषभे षड् गे द्वे चैकिता च मे । चतस्रः पञ्चमे धे च षट् तथा द्वे निषादके ॥ १५३॥ इत्यस्य श्रुतयोऽस्माभिर्द्वाविंशतिरुदीरिताः । षट्त्रिंशभेदसम्भूतो मेलप्रस्तरके स्मृतः ॥ १५४॥ इति नाटमेलः ॥ १४॥ वरालीमध्यमश्चाथ काकल्याख्यनिषादकः । शेषाः शुद्धस्वराः शुद्धवरालीमेलसंज्ञकः ॥ १५५॥ षड्ज एकर्षभे तिस्रो गान्धारे द्वे च सप्त मे । एकैव पञ्चमे तिस्रो धैवते पञ्च नौ स्मृताः ॥ १५६॥ इत्यस्य श्रुतयोऽस्माभिर्द्वाविंशतिरुदीरिताः । एकोनचत्वारिंशोऽयं मेलप्रस्तारके स्मृतः ॥ १५७॥ इति शुद्धवरालीमेलः ॥ १५॥ षड्जः शुद्धर्षभः साधारणगान्धारसंज्ञकः । वरालीमध्यमश्चैव शुद्धौ पञ्चमधैवतौ ॥ १५८॥ काकल्यख्यनिषादस्श्चेत्येतावत्स्वरसम्भवः । मेलः पन्तुवराल्याख्यो रागश्च परिकीर्तितः ॥ १५९॥ षड्ज एकर्षभे तिस्र स्तिस्रो गे मध्यमे तु षट् । पञ्चमे त्वेकिका तिस्रो धैवते पञ्च नौ स्मृताः ॥ १६०॥ इत्यस्य श्रुतयोऽस्माभिर्द्वाविंशतिरुदाहृताः । मेलप्रस्तारके पञ्चचत्वारिंशोऽयमुच्यते ॥ १६१॥ इति पन्तुवरालीमेलः ॥ १६॥ षड्जः शुद्धर्षभश्चैव गान्धरोऽन्तरनामकः । वरालीमध्यमश्चाथ शुद्धौ पञ्चमधैवतौ ॥ १६२॥ काकल्याख्यनिषादश्चेत्येतत्सप्तस्वरोदितः । शुद्धरामक्रियाख्यानरागमेलोऽयमुच्यते ॥ १६३॥ षड्ज एकर्षभे तिस्रो गान्धारे पञ्च मध्यमे । चतस्रः पञ्चमे त्वेका धे तिस्रः पञ्च नौ स्मृताः ॥ १६४॥ इत्यस्य श्रुतयोऽस्माभिर्द्वाविंशतिरुदाहृताः । भेदोऽयमेकपञ्चाशो मेलप्रस्तारके स्मृतः ॥ १६५॥ इति शुद्धरामक्रियामेलः ॥ १७॥ षड्जस्वरश्च रिषभः पञ्चश्रुतिसमन्वितः । साधारणाख्यगान्धारो वरालीमध्यमस्तथा ॥ १६६॥ शुद्धश्च पञ्चमश्चैव पञ्चश्रुतिकधैवतः । कैशिक्याख्यनिषादश्चेत्येतत्सप्तस्वरोदितः ॥ १६७॥ मेलः सिंहरवे रागे वेङ्कटाध्वरिकल्पिते । षड्जे तिस्रोऽथ रिषभे पञ्च गे त्वेकिकैव म्.... ॥ १६८॥ षडेव पञ्चमे त्वेका धे पञ्चैकैव नौ स्मृताः । इत्यस्य श्रुतयः प्रोक्ता मया द्वाविंशतिः स्फुट.... ॥ १६९॥ भेदोऽयमष्टपञ्चाशो मेलप्रस्तार इष्यते । इति सिंहरवमेलः ॥ १८॥ षड्जस्वरश्च रिषभः पञ्चश्रुतिसमन्वितः ॥ १७०॥ गान्धारोऽन्तरसंज्ञश्च वरालीमध्यमस्तथा । शुद्धश्च पञ्चमः पञ्चश्रुतिको धैवतस्तथा ॥ १७१॥ काकल्याख्यनिषादश्च कल्याणीमेलके स्वराः । षड्ज एकर्षभे पञ्च गान्धारे तिस्र एव मे ॥ १७२॥ चतस्रः पञ्चमे त्वेका पञ्च धे तिस्र एव नौ । इत्यस्य श्रुतयोऽस्माभिर्द्वाविंशतिरुदीरिताः ॥ १७३॥ पञ्चषष्टितमो भेदो मेलप्रस्तारके स्मृतः । इति कल्याणीमेलः ॥ १९॥ अस्माभिर्दर्शिता इत्थं लक्ष्यलक्षणसङ्गताः ॥ १७४॥ एकोनविंशतिर्मेलाः सम्प्रति प्रचरन्ति ये । अतेदानीं विचार्यन्ते रामामात्येन लक्षिताः ॥ १७५॥ मेलप्रकरणे मेलाः स्वरमेलकलानिधौ । तथा हि विंशतिं मेलानाह रामो विमूढधीः ॥ १७६॥ युज्यते तत्कथं वेति तत्पृच्छामो वयं पुनः । तदुक्तरीत्या सारङ्गनाटकेदारगौलयोः ॥ १७७॥ सम्प्राप्तमेकमेलत्वं मेला स्युर्विंशतिः कथम् । ननु विंशतिमेलानां मध्ये पञ्चदशस्वपि ॥ १७८॥ मेलेषु पञ्चमेलानामन्तर्भावस्त्वयेरितः । अन्यस्य पुनरन्यस्मिन्नान्तर्भावो भविष्यति ॥ १७९॥ अन्तराख्यानगान्धारकाकल्याख्यनिषादयोः । स्थाने प्रतिनिधित्वेन सङ्गृह्येते यदा स्वरौ ॥ १८०॥ च्युतमध्यमगान्धारच्युतषड्जनिषादकौ । तथा विंशतिमेलानं मध्ये पञ्चदशस्वपि ॥ १८१॥ मेलेषु पञ्चमेलानामन्तर्भावस्त्वयेरितः । सारङ्गनाटकेदारगौलमेलद्वयेऽपि च ॥ १८२॥ अविशेषेण भवता सङ्ग्राह्यत्वे सधर्मकौ । च्युतमध्यमगान्धारच्युतषड्जनिषादकौ ॥ १८३॥ अन्तस्य पुनरन्यस्मिन्नन्तर्भावो भवेत्तदा । ततो विंशतिमेलोक्तिव्याघातोऽयं दुरुत्तरः ॥ १८४॥ मेलानां विंशतेर्यानि लक्ष्माण्युक्तानि हि त्वया । तानि सर्वाणि दृश्यन्ते विरुद्धान्येव केवलम् ॥ १८५॥ तत्र स्थालीपुलाकाख्यन्यायेन कतिचित्पुनः । लक्षणानि प्रदर्श्यन्ते राम येष्वेव मोहितः ॥ १८६॥ न हि तान्यत्र शक्यन्ते दूषणानि त्वयेरिते । ग्रन्थे गणयितुं दोषसहस्रग्रथने मया ॥ १८७॥ तथा हि भैरवीरागः शङ्कराभरणस्तथा । गौडिरागश्च कथितस्त्वया श्रीरागमेलजाः ॥ १८८॥ तत्कथं भैरवीशुद्धधैवतेनान्विता खलु । शङ्कराभरणो रागोऽन्तरगान्धारवांस्तथा ॥ १८९॥ सकाकलीनिषादश्च गौडीरागस्त्वयं पुनः । जातो मालवगौलाख्यरागमेलादिसंस्थितः ॥ १९०॥ रागाणां पुनरेतेषां जन्म श्रीरागमेलतः । कथं विकत्थसे राम राम राम तव भ्रमः ॥ १९१॥ यच्चोक्तं भवता शुद्धरामक्रीरागमेलतः । पाडीरागर्द्रदेश्याख्यरागजन्म भवेदिति ॥ १९२॥ तद्दोषघातये राम रामस्मरणमातनु । पाड्यार्द्रदेशिरागौ च प्रसिद्धौ गौलमेलजौ ॥ १९३॥ यदप्यावेदिता राम राम बुद्धिविरामता । देशाक्षीमेल एवैष कैशिक्याख्यनिषादकम् ॥ १९४॥ प्राप्य कन्नडगौलः स्याद्गौलस्यातिमृषावहा । कर्णाटगौलः श्रीरागमेलोद्भवनतो न किम् ॥ १९५॥ यच्च कन्नडगौलस्य मेले समुपजायते । घण्टारव इति प्रोक्तं पातकेनामुना पुनः ॥ १९६॥ सत्यं न मोक्ष्यसे राम रामसेतुं गतोऽपि वा । भैरवीमेलसम्भूतो रागो घण्टारवः खलु ॥ १९७॥ यदप्युक्तं त्वया नादरामक्रीरागमेलके । साधारणाख्यगान्धारः सङ्ग्राह्य इति तत्वतः ॥ १९८॥ अपूर्ववयकारत्वमावेदयति राम ते । नादरामक्रियामेलगान्धारोऽप्यन्तराभिधः ॥ १९९॥ यच्चोक्तं रीतिगौलाख्यरागमेलस्य लक्षणम् । शुधाः सरिगमाः पञ्च पञ्चश्रुतिकधैवतः ॥ २००॥ कैशिक्याख्यनिषादश्चेत्यत्र रामक्रियस्तथा । भैरवीरागमेलोत्थो रीतिगौलः प्रकीर्त्यते ॥ २०१॥ शुद्धर्षभश्च गान्धारः पञ्चश्रुतिकधैवतः । यच्च केदारगौलाख्यरागमेलस्य लक्षणे ॥ २०२॥ सङ्ग्राह्यश्च्युतषड्जाख्यनिषाद इति कल्पितम् । तत्र स्थानेऽनु शोचमि तव रामाभिधां पुनः ॥ २०३॥ कैशिक्याख्यनिषादो हि मेले केदारगौलके । यदप्युक्तं त्वया राम हेज्जुज्जीरागमेलके ॥ २०४॥ काकल्याख्यनिषादस्तु सङ्ग्राह्य इति तत्पुनः । अतितुच्छं यतस्तस्मिन्मेले शुद्धनिषादकः ॥ २०५॥ गृह्यते निखिलैर्लोकैर्वादकैर्गायकैरपि । यच्चोक्तं भवता राम काम्भोजीमेललक्षणम् ॥ २०६॥ गनी अन्तरकाकल्यौ रिधौ पञ्चश्रुती तथा । शेषाः शुद्धाश्च समपाः काम्भोजीमेलके त्विति ॥ २०७॥ तत्तावत्तव गीतज्ञबहिष्कार्यत्वसाधनम् । काम्भोजीरागमेलस्य कैशिक्याख्यनिषादकः ॥ २०८॥ इति नो वेत्ति किं वीणावादिनां गृहदास्यपि । तस्माद्वैकाररामोक्तान्मेलान्विश्वस्य वैणिकैः । कान्तारकूपे वेष्टव्यमुद्धृत्य भुजमुच्यते ॥ २०९॥ इति श्रीमदद्वैतविद्याचार्यसाग्निचित्यसर्वतोमुखातिरात्र- साग्निचित्याप्तवाजपेययाजिगोविन्ददीक्षित- नागमाम्बिकावरद्वितीयनन्दनस्य साग्निचित्यसर्वक्रतुयाजि- यज्ञनारायणदीक्षिताव्यवहितानुजस्याच्युत- विजयराघवभूपालप्रेरितस्य वेङ्कटेश्वरदीक्षितस्य कृतौ चतुर्दण्दीप्रकाशिकायां चतुर्थं मेलप्रकरणं सम्पूर्णम् ।

५. पञ्चमं रागप्रकरणम् ।

तुर्यप्रकरणे मेलाः सप्रपञ्चमुदिरीताः । अथ मेलोद्भवा रागा लक्ष्स्यन्ते नातिविस्तरम् ॥ १॥ रञ्जयन्ति मनांसीति रागास्ते दश लक्षणाः । भवन्ति ते मतङ्गाद्यैः प्रापितास्तानि च क्रमात् ॥ २॥ लक्षणानि दशोक्तानि लक्ष्यन्ते तावदादितः । ग्रहांशौ मन्द्रतारौ च न्यासापन्यासकौ तथा ॥ ३॥ अथ संन्यासविन्यासौ बहुत्वं चाल्पता तथा । लक्षणानि दशैतानि रागाणां मुनयोऽब्रुवन् ॥ ४॥ दशानामपि चैतेषां क्रमाल्लक्षणमुच्यते । येनादौ गीयते गीतं स्वरेण स भवेद् ग्रहः ॥ ५॥ बहुशो गीयते येन स्वरेणांशः स कथ्यते । अंशस्वरस्त्वसावेव जीवस्वर इति स्मृतः ॥ ६॥ नीचैः स्वरेण यद्गानं स मन्द्रस्वर उच्यते । उच्चैः स्वरेण यद्गानं स तारस्वर उच्यते ॥ ७॥ न्यासस्वरः स कथितो येन गीतं समाप्यते । अवान्तरसमप्तिं यो रागस्यापि तनोति सः ॥ ८॥ अपन्यासः स्मृतो न्यासस्त्वात्यन्तिकसमाप्तिकृत् । इति भेदो भवेन्न्यासापन्यसस्वरयोर्द्वयो.... ॥ ९॥ संन्यासो नाम गीताद्यखण्डभागसमाप्तिकृत् । गीतखण्डाद्यावयवस्यान्ते तिष्ठति स स्वरः ॥ १०॥ विन्यास एतौ संन्यासविन्यासौ भरतादिभिः । अन्तर्भूतावपन्यासस्वर एवेति कीर्तितौ ॥ ११॥ अलङ्घनं तथाऽभ्यासो बहुत्वं द्विविधं मतम् । स्वरस्यास्पर्शनं यत्र लङ्घनं तत्र कीर्तितम् ॥ १२॥ साकल्येन स्वरस्पर्शस्त्वलङ्घनमिति स्मृतम् । यदेकस्य स्वरस्स्यैव नैरन्तर्येण वाऽथ वा ॥ १३॥ व्यवधानेन वा भूयो भूयोऽप्युच्चारणं हि तत् । अभ्यास इति शंसन्ति बहुत्वं द्विविधं ततः ॥ १४॥ अल्पत्वं च द्विधा प्रोक्तमनभ्यासाच्च लङ्घनात् । पूर्वोक्ताभ्यासराहित्यमनभ्यासः प्रकीर्तितः ॥ १५॥ पूर्वोक्तालङ्घनाभावो लङ्घनं परिकीर्तितम् । लक्षणानि दशाप्येवं लक्षितानि मया स्फुटम् ॥ १६॥ अथैतल्लक्षणान्रागानुद्दिशामि क्रमादहम् । रागास्तावद्दशविधा भरताद्यैरुदीरिताः ॥ १७॥ ग्रामरागाश्चोपरागा रागा भाषाविभाषिकाः । तथैवान्तरभाषाख्या रागाङ्गाख्यास्ततः परम् ॥ १८॥ भाषाङ्गाणि क्रियाङ्गाणि ह्य्पाङ्गानीति च क्रमात् । दशस्त्वेतेषु रागेषु ग्रामरागादयः पुनः ॥ १९॥ रागास्त्वन्तरभाषान्ता मार्गरागा भवन्ति षट् । ततो गन्धर्वलोकेन प्रयोज्यास्ते व्यवस्थिताः ॥ २०॥ तस्माद्रागङ्गभाषाङ्गक्रियाङ्गोपाङ्गसंज्ञिताः । रागाश्चत्वार एवैते देशीरागाः प्रकीर्तिताः ॥ २१॥ तत्र रत्नाकरग्रन्थे शार्ङ्गदेवेन धीमता । चतुःषष्ट्यधिकं रागशतद्वयमुदीरितम् ॥ २२॥ लक्ष्यन्ते तेन कुत्रापि लक्ष्यवर्त्मनि सम्प्रति । ततः प्रसिद्धिवैधुर्यात्त्य्क्त्वा रागांस्तु तान्पुनः ॥ २३॥ सर्वत्र लक्ष्यमार्गेऽत्र सम्प्रति प्रचरन्ति ये । तानस्मत्परमाचार्यतानप्पार्यसमुद्धृतान् ॥ २४॥ रागान्निरूपयिष्यामि लक्ष्यलक्षणसम्मतान् । ग्रहांशन्यासमन्द्रादिव्यवस्था तेषु यद्यपि ॥ २५॥ देशीत्वात्सर्वरागेषु नैकान्तेन प्रवर्तते । तथाऽपि लक्ष्यमाश्रित्य गानलक्ष्मानुसृत्य च ॥ २६॥ रागाणां लक्षणं ब्रूमः सम्प्रति प्रचरन्ति ये । निरूप्यमाणरागाणां षड्जादिक्रमतो ब्रुवे ॥ २७॥ लिख्यन्ते पञ्चभिः पद्यै रागाः षड्जग्रहस्वराः । नाटः सौराष्ट्रसारङ्गनाटौ शुद्धवसन्तकः ॥ २८॥ गुण्डक्रिया मेचबौलिर्नादरामक्रियस्तथा । वराली ललिता पाडिरागः सालगभैरवी ॥ २९॥ श्रीरागारभिधन्यासिशङ्कराभरणाभिधाः । रागा हिन्दोलभूपालहिन्दोलाद्यवसन्तकाः ॥ ३०॥ आहर्याभेरिसामन्ता वसन्ताद्या च भैरवी । हेज्जुज्जिर्मालवश्रीश्च शुद्धरामक्रिया तथा ॥ ३१॥ काम्भोजी च मुखारी च देवगान्धारिका तथा । नागध्वनिः सामरागस्तथा सामवरालिका ॥ ३२॥ एकत्रिंशदिमे रागाः षड्जन्यासग्रहांशकाः । गुर्जरी भिन्नषड्जश्च रेवगुतिस्त्रयोऽप्यमी ॥ ३३॥ रिन्यासांशग्रहाः प्रोक्ता मतङ्गभरतादिभिः । नारायणाख्यदेशाक्षी देशाक्षी राग एव च ॥ ३४॥ नारायण्यथ कर्णाटो बङ्गालश्चेति विश्रुताः । इमे रागास्तु चत्वारो गन्यासांशग्रहाः स्मृताः ॥ ३५॥ जयन्तसेनो बहुली मध्यादिरिमे त्रयः । मग्रहा मध्यमन्यासा मांशकाः परिकीर्तिताः ॥ ३६॥ आन्धाली चैव सावेरी पन्यासांशग्रहे उभे । रागो मल्लहरी घण्टारवो वेलावली तथा ॥ ३७॥ भैरवी चेति चत्वारो धन्यासांशग्रहाः स्मृताः । गौलकेदारगौलौ द्वौ च्छायागौलाभिधस्तथा ॥ ३८॥ रीतिगौलः पूर्वगौलो गौलो नारायणाभिधः । रागः कन्नडगौलश्च सप्त गौला इमे पुनः ॥ ३९॥ निषादग्रहनिन्यासनिषादांशाः प्रकीर्तिताः । चतुःपञ्चाददुद्दिष्टा इति रागा ग्रहादिभिः ॥ ४०॥ अथैतेषां क्रमाल्लक्ष्म लक्ष्यलक्षणसङ्गतम् । नाटो भाषाङ्गरागोऽत्र वादी षड्जः स्वरो मतः ॥ ४१॥ संवादी पञ्चमो ज्ञेयो गनी प्रोक्तौ विवादिनौ । अनुवादी रिधद्वन्द्वं चायं सायं प्रगीयते ॥ ४२॥ अवरोहे निधगरिवर्जमेनं प्रचक्षते । सम्पूर्णरागश्चैवैष सम्मतो गनवेदिनाम् ॥ ४३॥ सौराष्ट्ररागो मेलस्य गौलस्याभ्युदयः परः । सम्पूर्णश्चैष वादी च षड्जः संवादिनौ मपौ ॥ ४४॥ निषादश्चानुवादीह रिधौ द्वौ च विवादिनौ । सर्ववेलासु गातव्यः ख्यातः सङ्गीतवेदिभिः ॥ ४५॥ सारङ्गनाटः सम्पूर्णः सम्भूतो गौलमेलतः । अस्यापि च भवेद्वादी षड्जः संवादिनौ मपौ ॥ ४६॥ विवादिनौ गनी चानुवादिनौ धैवतर्षभौ । सायं चायं प्रगातव्यः सङ्गीताम्बुधिपारगैः ॥ ४७॥ रागः शुद्धवसन्ताख्यो रागाङ्गो गीयते प्रगे । शङ्कराभरणाख्यातरागमेलसमुद्भवः ॥ ४८॥ आह बैकाररामस्त्वारोहे पञ्चमवर्जनात् । षाडवत्वं न तद् युक्तं यस्मादस्यावरोहणात् ॥ ४९॥ आरोहेऽपि प्रयोगोऽस्ति तस्मात्सम्पूर्णरागता । दिनस्य चरमे यामे गीतः सोऽयं शुभावहः ॥ ५०॥ गुण्डक्रिया गौलमेलजाता सम्पूर्णतामता । नादरमक्रियारागः सम्पूर्णस्वरसङ्गतः ॥ ५१॥ गेयः सायाह्नसमये गौलमेलसमुद्भवः ॥ वरालिरागः सम्पूर्णो वादी षड्जोऽथ कथ्यते ॥ ५२॥ संवादिनौ मपौ ज्ञेयौ गनी चैव विवादिनौ । रिषभो ह्यनुवादी स्यात्सर्वदाऽप्येष गीयते ॥ ५३॥ प्रगे प्रगेया ललिता पवर्जा गौलमेलजा । पाडीरागो गौलमेलप्रभूतः षाडवो मतः ॥ ५४॥ गलोपश्चरमे यामे दिनस्य परिगीयते । श्रीरागमेलसम्भूतो रागः सालगभैरवी ॥ ५५॥ सम्पूर्णस्वरसंयुक्ता यामे गेया तुरीयके । श्रीरागः परिपूर्णोऽपि गधयोः स्थानवर्जितः ॥ ५६॥ गेयः साय्ह्नसमये सर्वसम्पद्प्रदायकः । आरभीनामको रागः सम्पूर्णस्वरसङ्गतः ॥ ५७॥ मेलस्त्वस्य स एव स्याच्छङ्कराभरणः स्वयम् । धन्यासिरागो रागाङ्गो जातः श्रीरागमेलतः ॥ ५८॥ रिधलोपादौडुवोऽयं प्रातर्गीतः शुभप्रदः । शङ्कराभरणो रागः पूर्णः सायं प्रगीयते ॥ ५९॥ हिन्दोलसंज्ञको रागो भैरवीमेलसम्भवः । औडुवी रिधलोपेन सर्वकालेषु गीयते ॥ ६०॥ भूपालः प्रातरुद्गेय औडुवी मनिवर्जनात् । एष रागाङ्गरागेषु गणितः शार्ङ्गसूरिण ॥ ६१॥ आहरीमेलजः पूर्णो हिन्दोलाद्यवसन्तकः । सम्पूर्णस्त्वाहरीरागः षड्जपञ्चमकौ क्रमात् ॥ ६२॥ वादिसंवादिनौ तत्र गनी चैव विवादिनौ । अनुवादिस्वरौ ज्ञेयौ रिधौ सायं प्रगीयते ॥ ६३॥ आभेरिरागः पूर्णोऽयमाहरीमेलसम्भवः । सामन्तरागः पूर्णोऽत्र वदिसंवादिनौ सपौ ॥ ६४॥ विवादिनौ निगावन्ये स्वराः स्युरनुवादिनः । शङ्कराभरणच्छायः सायमेष प्रगीयते ॥ ६५॥ वसन्तभैरवीरागः सम्पूर्णोऽप्यल्पपञ्चमः । प्रातर्गातव्य इत्येवं ख्यातो वातात्मजन्मना ॥ ६६॥ हेज्जुज्जिरागः सम्पूर्णो यामेऽह्नो गीयतेऽन्तिमे । षाडवी मालवश्रीः स्याद्रागाङ्गमृषभोज्झितः ॥ ६७॥ मेलः श्रीरागमेलस्य सर्वकालेषु गीयते । सम्पूर्णः शुद्धरामक्री वादी षड्जोऽत्र कथ्यते ॥ ६८॥ संवादी पञ्चमः प्रोक्तो गनी चैव विवादिनौ । अनुवादी रिधद्वन्द्वं गेयं सायं प्रगीयते ॥ ६९॥ क्रियाङ्गरागोऽयमिति भरताद्यैरुदीरितम् ॥ काम्भोजिरागः सम्पूर्णोऽप्यारोहे मनिवक्रितः ॥ ७०॥ सायं सङ्गीयते सोऽयं सङ्गीतागमपारगैः ॥ मुखारिरागः सम्पूर्णो वादिसंवादिनाविह ॥ ७१॥ सपौ विवादिनौ त्वत्र गनी चैवानुवादिनौ । रिधाविति च बोद्धव्यं गातव्यः सर्वदाऽप्ययम् ॥ ७२॥ सम्पूर्णो देवगान्धारीरागः श्रीरागमेलजः । गातव्यः प्रातरेवैष नागध्वनिरथोच्यते ॥ ७३॥ सम्पूर्णरागो रागाङ्गंशङ्कराभरणोत्थितः । शङ्कराभरणान्मेलात्सम्भूतः सामरागकः ॥ ७४॥ सम्पूर्णः सततं गेयो मन्द्रमध्यमभूषितः । रागः सामवराल्याख्यः सामवेदसमुद्भवः ॥ ७५॥ सम्पूर्णो गीयते नित्यमित्येकत्रिंशदीरिताः । रागाः सलक्षणाः सम्यक्षड्जन्यासग्रहांशकाः ॥ ७६॥ अथर्षभग्रहाणां त्रिरागाणां लक्ष्म चक्ष्महे । सम्पूर्णो गुर्जरीरागो रागाङ्गो गौलमेलजः ॥ ७७॥ प्रगे प्रगीयः कथितस्त्ववरोहे धवर्जितः । भिन्नषड्जाख्यरागोऽयं जातो भूपालमेलतः ॥ ७८॥ सम्पूर्णः प्रथमे यामे दिनस्य परिगीयते । रेवगुप्तिस्तु हेज्जुज्जिमेलोत्थो मनिवर्जनात् ॥ ७९॥ औडुवश्चरमे यामे दिवसस्यैष गीयते । चत्वारोऽथ निरूप्यन्ते रागा गान्धारकग्रहाः ॥ ८०॥ नारायणाद्यदेशाक्षिः सम्पूर्णो गीयते प्रगे । शङ्कराभरणाख्यानरागमेलसमुद्भवः ॥ ८१॥ सम्पूर्ण एव देशाक्षीरागः प्रातः प्रगीयते । मेलो नारायणीरागः शङ्कराभरणोदितः ॥ ८२॥ सम्पूर्णस्त्वेष गातव्यः प्रातः सङ्गीतकोविदैः । रागः कर्णाटबङ्गालो भाषाङ्गं गौलमेलजः ॥ ८३॥ प्रातःकालेषु गातव्यः षाडवोऽयं निवर्जितः । सर्वदाऽप्येष गातव्यो गीतज्ञैः शुभरक्तिदः ॥ ८४॥ मन्यासांशग्रहा रागा निरूप्यन्ते त्रयोऽधुना । जयन्तसेनाख्यरागो जातः श्रीरागमेलतः ॥ ८५॥ रिवर्जितः षाडवोऽयं सायङ्काले प्रगीयते । मध्यमादिस्तु रागाङ्गरागः श्रीरागमेलजः ॥ ८६॥ रिधलोपादौडुवोऽयं सायङ्काले प्रगीयते । रक्तिरेतस्य रागस्य मुरल्यां दृश्यतेऽधिका ॥ ८७॥ बहुली गौलमेलोत्थो रागो मध्यमवर्जनात् । षाडवो गीयते सोऽयं सायङ्काले विचक्षणैः ॥ ८८॥ पन्यासांशग्रहौ रागौ निरूप्येते मयाऽधुना । निगलोपादौडुवोऽयमान्धालीराग ईरितः ॥ ८९॥ मेलः श्रीरागमेलस्य कथ्यते गीतवेदिभिः । गौलमेलसमुद्भूतः सावेरीराग ईरितः ॥ ९०॥ आरोहे गनिलोपोऽयं प्रातर्गीतो विचक्षणैः । निरूप्यन्तेऽधुना रागाश्चत्वारो धैवतग्रहाः ॥ ९१॥ ख्याता मलहरी गौलमेलजाता निलोपतः । षाडवत्वं गता प्रातर्गातव्या गीतकोविदैः ॥ ९२॥ घण्टारवाख्यरागस्तु भैरवीमेलसम्भवः । सम्पूर्णस्वरसंयुक्तः सर्वकालेषु गीयते ॥ ९३॥ वेलावली तु भाषाङ्गं जातः श्रीरागमेलतः । सम्पूर्णभावं भजते प्रभाते चैष गीयते ॥ ९४॥ सायाह्नरागः सम्पूर्णस्तूपाङ्गं भैरवी स्मृतः । वादी षड्जोऽत्र संवादी पञ्चमः स्याद्विवादिनौ ॥ ९५॥ स्वरौ निषादगान्धारौ रिधौ चैवानुवादिनौ । निरूप्यन्ते सप्त रागा निन्यासांशग्रहा मया ॥ ९६॥ गौलस्तु षाडवो रागो रागाङ्गं धैवतोज्झितः । वादिसंवादिनावत्र रिगौ शश्वत्प्रगीयते ॥ ९७॥ केदारगौलः सम्पूर्णः काम्भोजीमेलसम्भवः । गेयोऽसौ सुतरां रक्तिदायको गायकोत्तमैः ॥ ९८॥ उपाङ्गराग इत्येवमूचिरे भरतादयः । गौलमेलोद्भवश्छायागौलः सम्पूर्णतां गतः ॥ ९९॥ रीतिगौलाख्यरागस्तु भैरवीमेलसम्भवः । सम्पूर्णश्चैष गातव्यः सोऽयं सङ्गीतकोविदैः ॥ १००॥ पूर्वगौलस्य मेलः स्याच्छुद्धगौलश्च यः स्मृतः । सम्पूर्णश्चैष गातव्यः सायाह्ने गीतकोविदैः ॥ १०१॥ नारायणाद्यगौलस्तु सम्पूर्णः परिकीर्तितः । केदारगौलमेलोत्थः सायाह्ने त्वेष गीयते ॥ १०२॥ रागः कन्नडगौलोऽयं जातः श्रीरागमेलतः । सम्पूर्णोऽपि कदाचित्स्यादारोहे त्यक्तमध्यमः ॥ १०३॥ रागः सिंहरवो नाम षड्जन्यासग्रहांशकः । सोऽयमस्माभिरुन्नीतः सम्पूर्णो गीयते सदा ॥ १०४॥ लक्षिताः पञ्चपञ्चाशदिति रागाः स्फुटं मया । गीतठायप्रबन्धा हि तानप्पार्यैः प्रवर्तिताः ॥ १०५॥ देशीयरागाः कल्याणीप्रमुखाः सन्ति कोटिशः । गीतठायप्रबन्धेषु नैते योग्या कदाचन ॥ १०६॥ कल्याणिरागः सम्पूर्ण आरोहे मनिवर्जितः । गीतप्रबन्धयोग्योऽपि तुरुष्काणामतिप्रियः ॥ १०७॥ रागः पन्तुवराल्याख्यः सम्पूर्णः पामरप्रियः । गीतठायप्रबन्धानां दूराद् दूरतरः स्मृतः ॥ १०८॥ एवं प्रकारेणोन्नेया रागा देशसमुद्भवाः । आनन्यात्सङ्कराच्चैव नास्माभिर्लक्षिताः पृथक् ॥ १०९॥ इति श्रीमदद्वैतविद्याचार्यसाग्निचित्यसर्वतोमुखातिरात्र- साग्निचित्याप्तवाजपेययाजिगोविन्ददीक्षित- नागमाम्बिकावरद्वितीयनन्दनस्य साग्निचित्यसर्वक्रतुयाजि- यज्ञनारायणदीक्षिताव्यवहितानुजस्याच्युत- विजयराघवभूपालप्रेरितस्य वेङ्कटेश्वरदीक्षितस्य कृतौ चतुर्दण्दीप्रकाशिकायां पञ्चमं रागप्रकरणं सम्पूर्णम् ।

६. षष्ठमालापप्रकरणम् ।

एवं रागप्रकरणे रागाः सम्यङ् निरूपिताः । अथालापप्रकरणे तेषामालाप उच्यते ॥ १॥ तत्रालापेषु सर्वत्राप्यादावाक्षिप्तिका स्मृता । आक्षिप्तिकैव लोकेऽस्मिन्नायत्तमिति गीयते ॥ २॥ पीनत्वेन यथऽऽक्षिप्तं स्वनिर्वाहाय भोजनम् । रागेणापि तथाऽऽक्षिप्तेत्यादावाक्षिप्तिका मता ॥ ३॥ आक्षिप्तिकानन्तरं तु कर्तव्या रागवर्धनी । इयमेव जनैर्लोके यडुपित्यभिधीयते ॥ ४॥ यस्मादाक्षिप्तिकोद्भूतं रागं वर्धयते स्फुटम् । तस्मादाख्यायते रागवर्धनीत्यभिधानतः ॥ ५॥ रागवर्धन्यसावेव प्रोक्ता करणमित्यपि । ततो विदारी गातव्या लोके मुक्तायिसंज्ञिता ॥ ६॥ आद्यद्वितीययो रागवर्धन्योश्छेदकत्वतः । विदारीति वदन्त्येवमुत्तरत्रापि योज्यताम् ॥ ७॥ अनन्तरं समुद्गेया द्वितीया रागवर्धनी । तस्या एव च लोकेऽस्मिन्द्वेधा यडुपिति प्रथा ॥ ८॥ तद्विदारी द्वितीयाऽथ तृतीया रागवर्धनी । तृतीया तद्विदारी च कर्तव्या तदनन्तरम् ॥ ९॥ सेयं तृतीयका रागवर्धनी तद्विदारिका । विकल्पेन क्वचित्स्यातां न स्यातां वा क्वचित्क्वचित् ॥ १०॥ ततः स्थायी भवेत्तत्र स्थायिशब्दार्थ उच्यते । यत्रोपवेश्यते तानः स्वरे स्थायी स कथ्यते ॥ ११॥ तत्रादौ मध्यषड्जाख्यः स्थायी तल्लक्ष्म चक्ष्महे । मध्यषड्जं समारभ्य तारषड्जावधि क्रमात् ॥ १२॥ भवन्त्यष्टौ स्वरा रागे सम्पूर्णे सप्त षाडवे । औडुवे षट् क्रमात्तेषामारोहः क्रमतः पुनः ॥ १३॥ एकैकस्य स्वरस्यैषां तानद्वितयसङ्ख्यया । मध्यषड्जादितारान्तस्वरेष्वष्टस्वपि स्मृताः ॥ १४॥ द्व्यष्ट ताना मध्यषड्जन्यासवन्तो भवन्त्यमी । तानद्वयं स्वरे यस्मिन्गीयते तत्पुरःस्थिताः ॥ १५॥ न सङ्ग्राह्याः स्वराः किं तु स्वाधःस्थाने गतेष्वपि । आमन्द्रर्षभमारोहावरोहक्रमतः स्वरान् ॥ १६॥ यथायोगं समादाय विन्यस्येन्मध्यषड्जके । अवरोहेऽप्येवमेव विशेषस्तु प्रदर्श्यते ॥ १७॥ तानद्वयं तारषड्जे गीत्वा तारनिषादके । तानद्वयं यथा गायेत्तस्मिनवसरे पुनः ॥ १८॥ न संस्पृशेदेवमेव पञ्चमे मध्यमे तथा । गान्धारर्षभयोर्मध्यषद्जेऽपि च पृथक्पृथक् ॥ १९॥ तानद्वये गीयमाने स्पृशेन्नाधस्तनस्वरान् । तदेवमवरोहे तु ग्राह्या नाधस्तनाः स्वराः ॥ २०॥ आरोहे त्वग्रिमा नैव स्वरा ग्राह्या इति स्थितिः । अत्ररोहेऽवरोहे च द्वौ द्वौ तानौ प्रतिस्वरम् ॥ २१॥ तयोरादिमताने तु न कार्यो निष्क्रमः स्वरे । किं तु स्वरस्पर्शमात्रं ततः स्थाने द्वितीयके ॥ २२॥ क्षणमात्रं स्वरे स्थित्वा पश्चात्तानं समापयेत् । नियमोऽयं मध्यषड्जस्थायिमात्रे प्रकीर्तितः ॥ २३॥ तदेवं मध्यषड्जाख्यः स्थायी समनुवर्णितः । एवं मध्यनिषादाख्यस्वरादामन्द्रषड्जकम् ॥ २४॥ सप्त स्वराः सम्भवन्ति तेषु सप्तस्वरेष्वपि । निधपाद्याः स्वरा ये ये सहन्तेऽवस्थितिं पृथक् ॥ २५॥ तान्स्वरान्स्थायिनः कृत्व पश्चादारोहमार्गतः । तत्तत्स्वरापेक्षयाष्टौ स्वरा ग्राह्या यथाक्रमम् ॥ २६॥ तदूर्ध्वं विद्यमानांस्तु स्वरांस्तांश्चैव संस्पृशेत् । एवं मन्द्रस्वरेष्वेवारोहे तानचतुष्टयम् ॥ २७॥ अवरोहे चतुस्तानान्गीतस्थायिस्वरेष्वथ । न्यासः कर्तव्य इत्येवं सम्प्रदायः प्रदर्शितः ॥ २८॥ समाप्यैवं स्थायिविधिं कुर्यात्तदनुवर्तनम् । वर्धनीमेव लोकेऽस्मिन्नाहुर्मकरणीं जनाः ॥ २९॥ वर्धन्याश्च भवेन्मन्द्रषड्जे तावदुपक्रमः । न्यासस्तु मध्यषड्जेऽथ चतुर्थी रागवर्धनी ॥ ३०॥ ततस्तदनुसारेण चतुर्थी स्याद्विदारिका । साधारणं सर्वरागेष्वेतदालापलक्षणम् ॥ ३१॥ तानप्पाकृतपञ्चाशद्रागालापेषु मत्कृतम् । आलापलक्षणमिदं लक्ष्यतां लक्ष्यकोविदैः ॥ ३२॥ इति श्रीमदद्वैतविद्याचार्यसाग्निचित्यसर्वतोमुखातिरात्र- साग्निचित्याप्तवाजपेययाजिगोविन्ददीक्षित- नागमाम्बिकावरद्वितीयनन्दनस्य साग्निचित्यसर्वक्रतुयाजि- यज्ञनारायणदीक्षिताव्यवहितानुजस्याच्युत- विजयराघवभूपालप्रेरितस्य वेङ्कटेश्वरदीक्षितस्य कृतौ चतुर्दण्दीप्रकाशिकायां षष्ठमालापप्रकरणं सम्पूर्णम् ।

७. सप्तमं ठायप्रकरणम् ।

एवं षष्ठप्रकरणे प्रोक्तमालापलक्षणम् । सप्तमेऽथ प्रकरणे ठायलक्षणमुच्यते ॥ १॥ तत्तद्रागानुसारेण यत्र कुत्रापि च स्वरे । स्थित्वा स्वरं तमेवाथ स्थायिनं परिकल्प्य च ॥ २॥ तत्पुरोवर्तिषु चतुःस्वरेष्वथ यथाक्रमम् । तत्तद्रागानुसारेणारोहे तानचतुष्टयम् ॥ ३॥ अवरोहे तथा तानचतुष्टयमिति क्रमात् । गीत्वा तानाष्टकं पञ्चादारभ्य स्थायिनं स्वरम् ॥ ४॥ यदुक्तं कश्चिदाकल्प्य विन्यस्येन्मन्द्रषड्जके । स्थायिस्थितस्य तस्यैव यडुपस्याभिधीयते ॥ ५॥ लोके मकरिणीत्येवं संज्ञा मुक्तायिका ततः । ठायसामान्यलक्ष्मेदं वेङ्कटाध्वरिणोदितम् ॥ ६॥ परमो गुरुरस्माकं तानप्पाचार्यशेखरः । सर्वेषामपि रागाणामेतल्लक्ष्मानुसारतः । ठायान्प्रकल्पयामास लक्ष्यमस्य तदेव सः ॥ ७॥ इति श्रीमदद्वैतविद्याचार्यसाग्निचित्यसर्वतोमुखातिरात्र- साग्निचित्याप्तवाजपेययाजिगोविन्ददीक्षित- नागमाम्बिकावरद्वितीयनन्दनस्य साग्निचित्यसर्वक्रतुयाजि- यज्ञनारायणदीक्षिताव्यवहितानुजस्याच्युत- विजयराघवभूपालप्रेरितस्य वेङ्कटेश्वरदीक्षितस्य कृतौ चतुर्दण्दीप्रकाशिकायां सप्तमं ठायप्रकरणं सम्पूर्णम् ।

८. अष्टमं गीतप्रकरणम्

एवं ठायप्रकरणे ठायाः सम्यङ् निरूपिताः । अष्टमेऽथ प्रकरणे गीतजातं निरूप्यते ॥ १॥ ननु गीयत इत्येवं व्युत्पत्याऽलापठाययोः । प्रबन्धानां च गीतत्वमस्ति तत्किं निरूप्यते ॥ २॥ इति चेदुच्यते गीतशब्दोऽयं योगतः पुनः । प्रबन्धालापठायानां वाचकः स्यात्तथाऽप्यसौ ॥ ३॥ रूढ्या सालगसूडाख्यगीतभेदैकवाचकः । अथः सालगसूडाख्यं गीतमत्र निरूप्यते ॥ ४॥ तत्र सालगसूडेतिशब्दस्यार्थः प्रदर्श्यते । सूड इत्येष देशीयशब्दो गीतकवाचकः ॥ ५॥ स च सूडो द्विधा शुद्धश्छायालग इति क्रमात् । तत्र ब्रूमः प्रकरणे शुद्ध्सूडोऽभिधास्यते ॥ ६॥ अथ च्छायालगः सूडश्छाया नाम समानता । शुद्धच्छाया शुद्धसाम्यं तां छायां लगतीत्ययम् ॥ ७॥ गच्छतीति यतस्तस्माच्छायालग इति स्मृतः । छायालगेति शब्दापभ्रंशः सालग इत्ययम् ॥ ८॥ शुद्धत्वं चात्र शास्त्रोक्तनियमेन समन्वयः । एवं सालगसूडेति शब्दस्यार्थः प्रदर्शितः ॥ ९॥ स च सालगसूडाख्यो ध्रुवादिः सप्तधा मतः । आद्यो ध्रुवस्ततो मट्टः प्रतिमट्टो निसारुकः ॥ १०॥ अट्टतालस्ततो रास एकतालीति च क्रमत् । तत्रापि प्रथमोद्दिष्टध्रुवलक्षणमुच्यते ॥ ११॥ आदौ खण्डद्वयं कार्ये भिन्नमात्वेकधातुकम् । तत्खण्डद्वयमुद्ग्राहो विज्ञेयस्तदनन्तरम् ॥ १२॥ उद्ग्राहस्वरतः किञ्चिदुच्चस्वरसमन्वितम् । खण्डं कुर्यादिदं खण्डत्रयं द्विर्गेयमिष्यते ॥ १३॥ ततो द्विखण्ड आभोगः स्तुत्यनामाङ्कितः स्मृतः । उच्चस्वरैकखण्डः स्यादाभोग इति केचन ॥ १४॥ उद्ग्राहस्याद्यखण्डे च न्यासो यत्र स तु ध्रुवः । तं च ध्रुवं द्व्यष्टविधं वदन्ति भरतादयः ॥ १५॥ एकादशाक्षरात्खण्डादेकैकाक्षरवर्धितैः । खण्डैर्ध्रुवा द्व्यष्टविधाः षड्विंशत्यक्षरावधि ॥ १६॥ जयन्तः शेखरोत्साहौ ततो मधुरनिर्मलौ । कुन्तलः कोमलश्चारो नन्दनश्चन्द्रशेखरः ॥ १७॥ कामदो विजयाख्यश्च कन्दर्पो जयमङ्गलः । तिलको ललितश्चेति संज्ञास्तेषां क्रमादिमाः ॥ १८॥ आदितालेन श‍ृङ्गारे जयन्तो गीयते बुधैः । शेखरो गीयते वीरे रसे निःसारुतालतः ॥ १९॥ उत्साहः प्रतिमट्टेन हास्ये तालेन गीयते । मधुरो भोगदो गेयः करुणे हयलीलया ॥ २०॥ क्रीडातालेन श‍ृङ्गारे गीयते निर्मलो ध्रुवः । लघुशेखरतालेन कुन्तलो गीयतेऽद्भुते ॥ २१॥ केरलो विप्रलम्भे च झोम्पतालेन गीयते । हर्षदो गीयते चारो वीरे निःसालुतारतः ॥ २२॥ नन्दनो वीरश‍ृङ्गारे त्वेकतालेन गीयते । वीरे हास्ये च श‍ृङ्गारे प्रतिमट्टेन गीयते ॥ २३॥ अभीष्टफलदः श्रोतृगातॄणां चन्द्रशेखरः । प्रतिमट्टेन श‍ृङ्गारे गातव्यः कामदध्रुवः ॥ २४॥ हास्ये द्वितीयतालेन गायन्ति विजयध्रुवम् । कन्दर्पो हास्यश‍ृङ्गारकरुणेष्वादितालतः ॥ २५॥ क्रीडातालेन श‍ृङ्गारे गातव्यो जयमङ्गलः । तिलको वीरश‍ृङ्गारे त्वेकताल्या प्रगीयते ॥ २६॥ प्रतिमट्टेन श‍ृङ्गारे गीयते ललितध्रुवः । स्याद्वर्णनियमः सर्वखण्डे खण्डद्वये यथा ॥ २७॥ इति ध्रुवं निरूप्याथ मट्टलक्षणमुच्यते । यतिद्वयं वैकयतिर्यत्रोद्ग्राहाख्यखण्डके ॥ २८॥ ध्रुवखण्डं ततस्तच्च द्विवारं गेय इष्यते । तद् गीत्वा ध्रुवमागत्य चाभोगो गीयते सकृत् ॥ २९॥ ध्रुवे न्यासस्ततः प्रोक्तः स मट्टो मट्टतालकः । जयप्रियो मङ्गलश्च सुन्दरो वल्लभस्तथा ॥ ३०॥ कलापः कमलश्चेति षड् भेदा मट्टके मताः । षट्प्रकारो मट्टतालस्तेन गीतिश्च विद्यते ॥ ३१॥ वीरे जयप्रियो गेयो मट्टेन जगणात्मना । आद्यन्तयोर्लघुर्मध्ये गुरुश्चेज्जगणः स्मृतः ॥ ३२॥ गेयो भगणमट्टेन श‍ृङ्गारे मङ्गलाभिधः । आदौ गुरुर्लघुद्वन्द्वं पश्चाच्चेद्भगणः स्मृतः ॥ ३३॥ युक्तः सगणमट्टेन श‍ृङ्गारे सुन्दरो मतः ॥ आदौ लघुद्वयं चान्ते गुरुश्चेत्सगणो मतः ॥ ३४॥ ज्ञेयो रगणमट्टेन वल्लभः करुणे रसे । आद्यन्तयोर्गुरुर्मध्ये लघुश्चेद्रगणो मतः ॥ ३५॥ विरामान्तेन नगणो मट्टतालेन गीयते । हास्ये रसे कलापाख्यः कमलस्त्वद्भुते रसे ॥ ३६॥ विरामान्तद्रुतद्वन्द्वोपरि लघ्वात्तमट्टतः । नगणस्त्रिलघुः प्रोक्त इति मट्टो निरूपितः ॥ ३७॥ अथोद्देशक्रमेणैव प्रतिमट्टो निरूप्यते । मट्टवत्प्रतिमट्टस्य लक्ष्मोद्ग्राहादिके मतम् ॥ ३८॥ प्रतिमट्टाभिधस्तालविशेषोऽत्र प्रकीर्तितः । प्रतिमट्टश्चतुर्धा स्यादमरस्तारसंज्ञितः ॥ ३९॥ विचारः कुन्तनामा चेत्येतेषां लक्षणं ब्रुवे । अमरो गुरुणैकेन श‍ृङ्गारे गीयते रसे ॥ ४०॥ विरामान्तद्रुतद्वन्द्वाल्लघुद्वन्द्वेन गीयते । ताराख्यः प्रतिमट्टोऽसौ रसयोर्वीररौद्रयोः ॥ ४१॥ लघुत्रयाद्विरामान्ताद्विचारः करुणे भवेत् । विराममध्यकलघुत्रयात्कुन्तोऽद्भुते स्मृतः ॥ ४२॥ प्रतिमट्टं निरूप्यैवं निःसारोर्लक्षणं ब्रुवे । बद्धा निःसारुतालेन निःसारुरिति कीर्तिता ॥ ४३॥ वैकुन्दानन्दकान्तारसमरा वाञ्छितस्तथा । विशालश्चेति निःसारुगीतभेदा षडीरिताः ॥ ४४॥ द्रुतद्वन्द्वोपरि लघुद्वन्द्वाद्वैकुन्द उच्यते । भवेदानन्द आनन्दो विरामान्तद्रुतद्वयात् ॥ ४५॥ विप्रलम्भे तु कान्तारो लघुन गुरुणा स्मृतः । लघुद्वयाद्विरामान्तात्समरो नाम कीर्तितः ॥ ४६॥ लघुद्वयाद्द्रुतद्वन्द्वाद्वाञ्छितः कथ्यते बुधैः ॥ लघुद्रुतद्वये पुनर्लघुभिः स्याद्विशालकः ॥ ४७॥ निःसारुकं निरूप्यैवमट्टतालोऽभिधीयते । मट्टतालेन संयुक्तमट्टतालं प्रचक्षते ॥ ४८॥ निःशङ्कः शङ्खशीलौ च चारोऽथ मकरन्दकः । विजयश्चेति षड्भेदानट्टताले प्रचक्षते ॥ ४९॥ लगुरुभ्यां द्रुतद्वन्द्वान्निःशङ्को विस्मये भवेत् । लघोर्द्रुतद्वयेन स्याच्छङ्खः श‍ृङ्गारवीरयोः ॥ ५०॥ शान्ते शीलो विरामान्ताद्द्रुतद्वन्द्वाल्लघुर्भवेत् । द्रुतद्वन्द्वोपरि लघुगुरुभ्यां चार ईरितः ॥ ५१॥ मकरन्दो द्रुतद्वन्द्वानन्तरं गुरुणा स्मृतः । विजयस्तु द्रुतद्वन्द्वानन्तरं लघुना स्मृतः ॥ ५२॥ इत्यट्टतालः कथितो रासकोऽथ निरूप्यते । निबद्धो रासतालेन रासकः स चतुर्विधः ॥ ५३॥ विनादो वरदो नन्दः कम्बुकश्चेत्यनुक्रमात् । आलापान्ताद् ध्रुवपदाद्विनोदः कौतुके स्मृतः ॥ ५४॥ ध्रुवादालापमध्यात्तु वरदो देवतास्मृतौ । खण्डमाद्यं द्विखण्डस्योद्ग्राहस्यालापनिर्मितम् ॥ ५५॥ यस्यासौ रासको नन्दो गीयतेऽद्भुत एव सः । आलापादेर्ध्रुवपदात्कम्बुजः करुणे भवेत् ॥ ५६॥ सर्वेषु रासकेष्वेषु द्विखण्डोद्ग्राहकल्पना । इत्युक्त्वा रासकं गीतमेकताली निरूप्यते ॥ ५७॥ एकताली भवेदेकताल्या सा च त्रिधा स्मृता ॥ रमा च चन्द्रिका तद्वद्विपुलेत्यथ लक्षणम् ॥ ५८॥ सकृद्द्वियतिरुद्ग्राहोऽन्तरस्त्वक्षरनिर्मितः । यस्यामसौ रमा नाम प्रथमो भेद इष्यते ॥ ५९॥ उद्ग्राहो द्विदलो यस्यामालापरचितोऽन्तरः । एकताली चन्द्रिका सा द्वितीयो भेद इष्यते ॥ ६०॥ आलापपूर्वकोद्ग्राहा विपुलाख्यैकतालिका । आलापी गमकालप्तिरक्षरैर्वर्जिता मता । सप्तसालगसूडानामिति लक्षणमीरितम् ॥ ६१॥ इति श्रीमदद्वैतविद्याचार्यसाग्निचित्यसर्वतोमुखातिरात्र- साग्निचित्याप्तवाजपेययाजिगोविन्ददीक्षित- नागमाम्बिकावरद्वितीयनन्दनस्य साग्निचित्यसर्वक्रतुयाजि- यज्ञनारायणदीक्षिताव्यवहितानुजस्याच्युत- विजयराघवभूपालप्रेरितस्य वेङ्कटेश्वरदीक्षितस्य कृतौ चतुर्दण्दीप्रकाशिकायां अष्टमं गीतप्रकरणं सम्पूर्णम् ।

९. नवमं प्रबन्धप्रकरणम्

एवं गीतप्रकरणे गीतं सम्यङ् निरूपितम् । नवमेऽथ प्रकरणे प्रबन्धोऽयं निरूप्यते ॥ १॥ ननु प्रबध्यत इति व्युत्पत्या नास्ति भिन्नता । गीतप्रबन्धयोस्तस्मात्पृथक्प्रकरणं वृथा ॥ २॥ उच्यते षड्भिरङ्गैश्च चतुर्भिर्धातुभिश्च यः ॥ निबद्धः स्वरसन्दर्भस्तस्मिन्नेव हि भूरिशः ॥ ३॥ प्रबन्ध इति लोकानां व्यवहारो निरीक्ष्यते । अतः प्रबन्धशब्दोऽत्र निरूढः पङ्कजादिवत् ॥ ४॥ गीतप्रबन्धयोरेवं भेदो यदि न कल्प्यते । कुतः सिध्येच्चतुर्दण्डी कुत्तो गोपालनायकः ॥ ५॥ प्रयुक्तं तु चतुर्दण्डीत्यतो गीतप्रबन्धयोः । भेदात्पृथक्प्रकरणं प्रबन्धार्थं प्रवर्तते ॥ ६॥ निबद्धः षड्भिरङ्गैश्च चतुर्भिर्धातुभिश्च यः । स्वरौघः स प्रबन्धः स्यदित्युक्तं तत्र कानि तु ॥ ७॥ षडङ्गानीति चेत्ब्रूमः स्वरश्च बिरुदं पदम् ॥ तेनकः पाटतालौ चेत्येतान्यङ्गानि षट् पुनः ॥ ८॥ प्रबन्धस्याङ्गिनो ज्ञेयान्यन्यद्रत्नाकरे स्फुटम् । तत्र स्वरास्तु षड्जाद्याः शब्दा ध्वन्यात्मका इति ॥ ९॥ स्वरप्रकरणे प्रोक्तं प्रबन्धाङ्गस्वरास्त्विह । सरिगाद्याः सप्त वर्णाः षड्जादिध्वनिवाचकाः ॥ १०॥ स्वराभिव्यक्तिसंयुक्ताः स्वरशब्देन कीर्तिताः । सम्बुद्ध्यन्तपदैरेव नेतुर्यदुपबद्धते ॥ ११॥ वर्णनं धैर्यशौर्यादेर्बिरुदं नाम तन्मतम् । क्रियाकारकसम्बन्धरूपेण यदि बध्यते ॥ १२॥ तदेवं धैर्यशौर्यादेर्वर्णनं तत्पदं स्मृतम् । अतो न सङ्कराशङ्का बिरुदस्य पदस्य च ॥ १३॥ तेनको नाम तेनेति शब्दस्य विकृतिर्भवेत् । विकृतत्वं च भाण्डीरभाषयाऽस्य समागतम् ॥ १४॥ सोऽयं तेनेति शब्दश्च तच्छब्दोपनिबन्धनः । तच्छब्दश्च भवेन्नित्यकल्याणब्रह्मवाचकः ॥ १५॥ ....अत्सदिति निर्देशात्तत्वमस्यादिवाक्यतः । तथा च यत्प्रबन्धेषु तेन तेनेति दृश्यते ॥ १६॥ तस्यायमर्थस्तेनायं ब्रह्मणा मङ्गलात्मना । प्रबन्धे लक्षित इति पाटो वाद्याक्षरोत्करः ॥ १७॥ रुद्रवीणासमुद्भूताः पाटास्तकतनादयः । शङ्खादिमुखवाद्योत्थाः पाटास्थुलथुगादयः ॥ १८॥ उरोवाद्यभवाः पाटा धिन्तधिन्तकिणादयः । एवमन्येऽपि विज्ञेयाः पाटा लक्ष्यानुसारतः ॥ १९॥ तालस्तालप्रकरणे सप्रपञ्चोऽभिधास्यते । इत्यङ्गानि षडुक्तानि निरूप्यन्तेऽथ धातवः ॥ २०॥ धातुर्नाम प्रबन्धस्यावयवः स चतुर्विधः । उद्ग्राहः प्रथमस्तत्र ततो मेलापकध्रुवौ ॥ २१॥ आभोगश्चेत्यथैतेषां क्रमाल्लक्षणमुच्यते । प्रबन्धस्यादिमो भाग उद्ग्राहः परिकीर्तितः ॥ २२॥ आदावुद्गृह्यते गीतमनेनारभ्यते यतः । मिथोमेलनहेतुत्वादुद्ग्राहध्रुवयोर्द्वयोः ॥ २३॥ मेलापकः प्रबन्धस्य द्वितीयो भाग उच्यते । ध्रुवत्वाद्ध्रुवसंज्ञस्तु तृतीयोऽवयवः स्मृतः ॥ २४॥ प्रबन्धस्य यदाभोगं परिपूर्तिं करोति तत् । आभोगः स प्रबन्धस्य तुरीयावयवः स्मृतः ॥ २५॥ ध्रुवाभोगान्तरे जातो यतस्तेनान्तराभिधः । पञ्चमोऽप्यपरो धातुर्यद्यप्यस्ति तथाऽप्यसौ ॥ २६॥ गीतेष्वेवं परं दृष्टस्त्रिखण्डेष्वेव तेष्वपि । उपयुक्ताः प्रबन्धस्य चत्वारो धातवस्ततः ॥ २७॥ षडङ्गैर्लक्षितैरित्थं चतुर्भिर्धातुभिश्च यः । निबद्धः स्वरसन्दर्भः स प्रबन्ध इति स्थितम् ॥ २८॥ स च पञ्चविधः प्रोक्तो मेदिनीजातिमानथ । आनन्दिनीजातिमांश्च दीपनीजातिमांस्तथा ॥ २९॥ भावनीजातिमांश्चाथ तारावल्याख्यजातिमान् । तत्र स्वरादिभिः षड्भिरङ्गैर्युक्ता तु मेदिनी ॥ ३०॥ अङ्गपञ्चकसंयुक्ता जातिरानन्दिनी स्मृता । चतुरङ्गयुता जातिर्दीपनीति प्रकीर्तिता ॥ ३१॥ अङ्गत्रयवती जातिराख्याता भावनी बुधैः । जातिरङ्गद्वयोपेता तारावल्यभिधीयते ॥ ३२॥ एकाङ्गसङ्गता जातिर्न निबन्धेषु विद्यते । एताभिजातिभिर्युक्ता ये प्रबन्धास्तु पञ्चभिः ॥ ३३॥ ते तत्तज्जातिमत्संज्ञां भजन्तीति व्यवस्थितिः । परित्यक्ताङ्गनामानि पञ्चाङ्गाद्यासु जातिषु ॥ ३४॥ तत्तज्जातिप्रबन्धानां लक्षणेषु प्रचक्ष्महे । पुनः प्रबन्धस्त्रिविधो मतङ्गाद्यैरुदीरितः ॥ ३५॥ द्विधातुकस्त्रिधातुश्च चतुर्धातुरिति क्रमात् । अत्र साङ्गीतिकैरेषा परिभाषाऽवधार्यताम् ॥ ३६॥ प्रबन्धमात्र उद्ग्राहध्रुवौ द्वौ नियतौ स्मृतौ । विनोद्ग्राहं प्रबन्धस्यारम्भ एव न सम्भवेत् ॥ ३७॥ ध्रुवत्वमेव नास्त्येतद्ध्रुवस्य च विवर्जने । एवं स्थिते प्रबन्धोऽयं द्विधतुरिति यत्र तु ॥ ३८॥ तत्रोद्ग्राहध्रुवौ ग्राह्यौ मेलापाभोगवर्जनात् । अथोच्यते चतुर्धातुः प्रबन्ध इति यत्र तु ॥ ३९॥ तत्रोद्ग्राहादयो ग्राह्याश्चत्वारोऽपि च धातवः । यत्र तूक्तं प्रबन्दोऽयं त्रिधातुरिति तत्र किम् ॥ ४०॥ मेलापकस्य सन्त्याग आभोगस्येति संशयः ॥ भवत्येव तथाऽप्यग्रे प्रबन्धेषु त्रिधातुषु ॥ ४१॥ विनाऽऽभोगं प्रबन्धस्य त्रिधातोः क्वाप्यदर्शनात् । त्यागो मेलापकस्यैव वेदितव्यस्त्रिधातुषु ॥ ४२॥ सम्प्रदायोऽधुना कश्चित्प्रबन्धेषु प्रदृश्यते । इह प्रबन्धा ये युक्ताः पृथगाभोगधातुना ॥ ४३॥ तेष्वाभोगं द्विधा कृत्वा पूर्वार्धं तालवर्जितम् । आलापरूपं कार्यं तल्लोके वाक्यमितीर्यते ॥ ४४॥ द्वितीयार्धं तालयुक्तं कर्तव्यमिति निर्णयः ॥ तत्राद्यार्धे प्रबन्धस्य गातुश्चाख्यां प्रयोजयेत् ॥ ४५॥ द्वितीयार्धं तु वर्णस्य नामधेयमिति स्थितिः । आलापधातोः सर्वत्र स्वरूपमिदमेव हि ॥ ४६॥ लक्ष्ये त्विदानीं कैवाडप्रबन्धादिषु केषुचित् । आभोगा वर्तमाना ये तेष्वेवोक्तप्रकारतः ॥ ४७॥ आलपखण्डानालापरूपखण्डत्वमिष्यते । तत्तु सर्वत्र कर्तव्यं प्रबन्धाभोगधातुषु ॥ ४८॥ पुनः प्रबन्धो निर्युक्तानिर्युक्तत्वेन च द्विधा । निर्युक्तः स भवेच्छन्दस्तालरागादिकस्य यः ॥ ४९॥ नियमेनोपबद्धः स्यात्तस्यैव नियमं विना । निबद्धः स्यादनिर्युक्तश्छन्दस्तालादिकस्य च ॥ ५०॥ नियतस्त्वमुकेनैव च्छन्दसा त्वमुनैव च । तालेनामुकरागेणाप्यनयैव च भाषया ॥ ५१॥ प्रबन्धोऽयं निबद्धः स्यादित्येवं रूप उच्यते । एवं नियमराहित्यमेवानियम ईरितः ॥ ५२॥ तत्र तावत्प्रबन्धानां द्विधातुत्वं त्रिधातुता निर्युक्तत्वं तदन्यत्वं तत्तल्लक्ष्म तु वक्ष्यते ॥ ५३॥ इदानीं तु प्रबन्धानां लक्षणं वक्तुमादितः । मेदिन्यादिक्रमेणैव तत्तज्जातीमतोऽपि च ॥ ५४॥ प्रबन्धानुद्दिशाम्यत्र प्रबन्धसुखबुद्धये । श्रीरङ्गः श्रीविलासश्च पञ्चभङ्गिरतः परम् ॥ ५५॥ पञ्चाननोमातिलकौ करणं सिंहलीलकः । मेदिनीजातिमन्तोऽमी प्रबन्धाः सप्त कीर्तिताः ॥ ५६॥ पञ्चतालेश्वरो वर्णस्वरो वस्त्वाभिधानकः । विजयस्त्रिपदाख्यश्च ततो हरविलासकः ॥ ५७॥ चतुर्मुखः पद्धडी श्रीवर्धनो हर्षवर्धनः । आनन्दिनीजातिमन्तः प्रबन्धा दश कीर्तिताः ॥ ५८॥ सुदर्शनः स्वराङ्गश्च त्रिभङ्गिश्चैव कन्दुकः । वदनं चेति पञ्चैते दीपनीजातिसंयुताः ॥ ५९॥ वर्णो गद्यं ततः कन्दः कैवाडश्चाङ्गचारिणी । वर्तन्यार्या च गाथा च ततः क्रौञ्चपदः स्मृतः ॥ ६०॥ कलहंसस्तोटकश्च हंसलीलश्चतुष्पदी । वीरश्रीर्मङ्गलाचारो दण्डकश्चेत्यमी पुनः ॥ ६१॥ द्वष्ट प्रबन्धा उद्दिष्टा भावनीजातिसङ्गताः । एला ढेङ्की झोम्पटश्च लम्भरासैकतलिका ॥ ६२॥ चक्रवाकः स्वरार्थश्च मातृका ध्वनिकुट्टिनी । त्रिपदी षट्पदी चैव झम्पटश्चच्चरी तथा ॥ ६३॥ चर्या च राहडी चैव धवलो मङ्गलस्तथा । ओवी लोली ढोल्लरी च दन्ती द्वाविंश इत्यमी ॥ ६४॥ तारावलीजातिमन्तः प्रबन्धाः परिकीर्तिताः । इत्येकजातिमन्तोऽमी प्रबन्धाः षष्टिरीरिताः ॥ ६५॥ अत्र प्रबन्धाः कीर्त्यन्ते जातिद्वयसमन्विताः । हयलीलेति च तथा गजलीलेत्युभावपि ॥ ६६॥ तारावलीदीपनीभ्यां समेताविति निर्णयः । द्विपदी च द्विपथको वृत्तं चेति त्रयस्त्वमी ॥ ६७॥ प्रबन्धा भावनीतारावलीजातिद्वयान्विताः । घटनामा प्रबन्धस्तु दीपनीभावनीयुतः ॥ ६८॥ इति द्विजातिमन्तोऽमी षट् प्रबन्धाः प्रकीर्तिताः । तालार्णवस्तथा रागकदम्बश्चेत्युभौ स्मृतौ ॥ ६९॥ मेदिनीप्रमुखाभिश्च पञ्चभिर्जातिभिर्युतो । अतोद्दिष्टप्रबन्धानां क्रमाल्लक्षणमुच्यते ॥ ७०॥ श्रीरङ्गस्य प्रबन्धस्य चतस्रः खण्डिकाः स्मृताः । प्रतिखण्डिकमेकैको रागस्तालश्च वाञ्छितः ॥ ७१॥ प्रतिखण्डिकमप्यन्ते प्रयोज्यं नियमात्पदम् । तदन्यानि स्वरादीनि पञ्चाङ्गान्यैच्छिकक्रमात् ॥ ७२॥ प्रयोज्यान्यत्र चाद्यार्धं प्रतिखण्डिकमस्ति यत् । स उद्ग्राहो द्वितीयार्धं ध्रुव इत्येष निर्णयः ॥ ७३॥ न स्तो मेलापकाभोगावाभोगविरहेऽपि च । तुरीयायाः खण्डिकाया अन्ते नामाङ्कनं पदैः ॥ ७४॥ गातृनेतृप्रबन्धानां कार्यं तेन द्विधातुकः । प्रबन्धोऽयं भवेच्छन्दस्तालाद्यनियमेन च ॥ ७५॥ निबद्धत्वादनिर्युक्त इति श्रीरङ्गलक्षणम् । श्रीविलासप्रबन्धस्य कर्तव्याः पञ्चखण्डिकाः ॥ ७६॥ प्रतिखण्डिकमेकैको रागस्तालश्च वाञ्छितः । प्रतिखण्डिकमप्यन्ते प्रयोक्तव्याः स्वराः परम् ॥ ७७॥ ऐच्छिकेन क्रमेणैव योज्यं शिष्टाङ्गपञ्चकम् । द्विधातुत्वादिकं सर्वं श्रीरङ्गवदिति स्थितिः ॥ ७८॥ पञ्चभङ्गिप्रबन्धस्य खण्डिके द्वे प्रकल्पयेत् । प्रतिखण्डिकमेकैको रागस्तालश्च वाञ्छितः ॥ ७९॥ तेनकोऽन्ते प्रयोक्तव्यः प्रतिखण्डिकमत्र तु । शिष्टमन्यत्परिज्ञेयं श्रीरङ्गाख्यप्रबन्धवत् ॥ ८०॥ पञ्चभङ्गिरसावेव द्वयोः खण्डिकयोः पृथक् । अन्ते पदान्वितः स्याच्चेत्तदा पञ्चाननो भवेत् ॥ ८१॥ अन्यत्पूर्ववदुन्नेयमतोमातिलकाभिधे । प्रबन्धे खण्डिकास्तिस्रः कर्तव्याः प्रतिखण्डिकम् ॥ ८२॥ रागस्तालस्तथैकैको वाञ्छितः प्रतिखण्डितम् । अन्ते तु बिरुदं योज्यमन्यच्छ्रीरङ्गवद्भवेत् ॥ ८३॥ श्रीरङ्गाद्यास्तु पञ्चोमातिलकान्ता इमे स्मृताः । षड्भिरङ्गैर्निबद्धत्वान्मेदिनीजातिसङ्गताः ॥ ८४॥ अथोद्देशक्रमप्राप्तं करणं लक्ष्यते स्फुटम् । इष्टस्वरे प्रबन्धस्यारम्भो मोक्षोंशकस्वरे ॥ ८५॥ रासस्तालो द्रुताख्यस्तु लय एतैः समेतता । ज्ञेयं करणसामान्यलक्ष्म तच्चाष्टधा मतम् ॥ ८६॥ स्वराद्यं पाटपूर्वं च बन्धाद्यं च पदादिमम् । तेनाद्यं बिरुदाद्यं च चित्राद्यं मिश्रपूर्वकम् ॥ ८७॥ एतेषां लक्षणान्यष्टकरणानां क्रमाद्ब्रुवे । यतोद्ग्राहध्रुवौ सान्द्रस्वरबद्धौ पदैः पुनः ॥ ८८॥ आभोगः स्याद्गातृनेतृप्रबन्धाह्वयचिह्नितः । तत्तु स्वराद्यकरणं तद्वदन्याद्यपि स्फुटम् ॥ ८९॥ किं तूद्ग्राहस्वरस्थाने तेषां भेदोऽस्ति तद् ब्रुवे । स्यात्पाटकरणं बद्धं हस्तपाटयुतैः स्वरैः ॥ ९०॥ क्रमव्यत्यासभेदेन तदपि द्विविधं स्मृतम् । आदौ स्वरास्ततो हस्तपाटश्चेत्क्रम उच्यते ॥ ९१॥ प्रथमं हस्तपाटोऽथ स्वराश्चेत्तदुदीरितम् । व्यत्यासपाटकरणं मतङ्गभरतादिभिः ॥ ९२॥ स्वरैर्मुरजपाटैश्च यतोद्ग्राहध्रुवावुभौ । क्रमेणोपनिबध्येते तद्बन्धकरणं विदुः ॥ ९३॥ स्वरैः पदैर्विरच्येते यतोद्ग्राहध्रुवौ क्रमात् । तदा पदाद्यं करणं मन्यन्ते गीतकोविदाः ॥ ९४॥ यत्रोद्ग्राहः स्वरैर्बद्धस्तेनकैस्तु ध्रुवो भवेत् । तत्तेनकरणं नाम प्रबन्धं परिचक्षते ॥ ९५॥ स्वरैश्च बिरुदैः स्यातां यत्रोद्ग्राहध्रुवौ क्रमात् । बिरुदाद्यं तथा प्रोक्तं करणं लक्ष्यकोविदैः ॥ ९६॥ स्वरैश्च हस्तपाटैश्च यतोद्ग्राहो विरच्यते । पाटैर्मुरजसम्भूतैः पदैश्च स्यादथ ध्रुवः ॥ ९७॥ तच्चित्रकरणं नाम प्रबन्धं सूरयो विदुः । स्वरैः पाटैस्तेनकैश्च यतोद्ग्राहो निबध्यते ॥ ९८॥ तैरेव चेद्ध्रुवोऽपि स्यात्तन्मिश्रकरणं विदुः । ननु चित्रस्य मिश्रस्य को भेद इति चेच्छृणु ॥ ९९॥ तिलतण्डुलवज्जातो मिथोऽवयवसङ्करः । चित्रत्वं मिश्रता नाम भवेत्क्षीराम्बुनोरिव ॥ १००॥ मिथोऽवयवसाङ्कर्यमिति भेदस्तयोर्द्वयोः । निरूपितानि करणान्येवं नवविधान्यपि ॥ १०१॥ व्यत्यासपाटकरणप्रबन्धेन सह स्फुटम् । नवैतानि त्रिधातुत्वात्प्रत्येकं कालभेदतः ॥ १०२॥ मङ्गलारम्भकाद्याख्याविशेषैः सप्तविंशतिः । इत्युक्तं शार्ङ्गिणा तत्तु व्यामोहैकप्रयोजनम् ॥ १०३॥ निर्युक्तोऽयं प्रबन्धः स्यात्तालस्य नियमो यतः ॥ य आदिताल इत्युक्त एकेन लघुना युतः ॥ १०४॥ रासताल इति प्रोक्तः स एवात्रेति निर्णयः । मेलापकस्य विरहात्त्रिधातुरिति कीर्तितः ॥ १०५॥ स्वरादीनां षडङ्गानां करणेषु नवस्वपि । पर्यायेण निविष्टत्वान्मेदिनीजातिमानयम् ॥ १०६॥ अथोद्देशक्रमप्राप्तः सिंहलीलो निरूप्यते । स्वरैः पाटैश्च बिरुदैस्तेनकैश्च क्रमेण च ॥ १०७॥ विरच्यते सिंहलीलानाम्ना तालेन स स्मृतः । प्रबन्धः सिंहलीलाख्यः सिंहलीले द्रुतास्त्रयः ॥ १०८॥ आद्यन्तयोर्लघूपेतास्त्वत्र च स्वरपाटकैः । उद्ग्राहं कल्पयेद्धातुं विरुदैस्तेनकैर्ध्रुवम् ॥ १०९॥ पदैः कुर्यदथाभोगं तेनायां स्यात्त्रिधातुकः । निर्युक्तस्तालनियमादङ्गैः षड्भिः स्वरादिभिः ॥ ११०॥ निबद्धत्वाद्भवत्येष मेदिनीजातिसङ्गतः । तदेवं मेदिनीजातिप्रबन्धाः सप्त लक्षिताः ॥ १११॥ आनन्दिनीजातिमतामथोद्दिष्टः पुरा हि यः । पञ्चतालेश्वरो नाम प्रबन्धः स निरूप्यते ॥ ११२॥ अतालः प्रथमं रागालापः स्यात्तदनन्तरम् । परस्परं भिन्नधातुमातुकं पदपञ्चकम् ॥ ११३॥ चच्चत्पुटाख्यतालेन युक्तं द्विर्गेयमिष्यते । अन्ते प्रतिपदं चच्चत्पुटेनैव समन्वितान् ॥ ११४॥ स्वरानैच्छिकपाटांश्च क्रमेण परिकल्पयेत् । पञ्चमस्य पदस्यान्ते पूर्वं पाटास्ततः स्वराः ॥ ११५॥ गेया इति ततस्तत्र व्युत्क्रमः स्वरपाटयोः । एवंविधानां पञ्चानां पदानां समनन्तरम् ॥ ११६॥ चच्चत्पुटस्य तालस्यैवावृत्तद्वयमानतः । पाटैः पटहसम्भूतैरन्तरं परिकल्पयेत् ॥ ११७॥ ततस्श्चाचपुटाख्यानतालेन पदपञ्चकम् । परस्परं भिन्नधातुयुक्तं द्विर्गेयमिष्यते ॥ ११८॥ अन्ते प्रतिपदं चाचपुटेनैव युतान्स्वरान् । पाटांश्च पूर्ववद्गायेत्पञ्चमस्य पदस्य तु ॥ ११९॥ अन्ते स्वराणां पाटानां व्युत्क्रमः पूर्ववद्भवेत् । ततस्चाचपुटस्यैव त्वावृत्तद्वयमानतः ॥ १२०॥ हौडुक्कपाटैः कलयेदन्तरं तदनन्तरम् । षट्पितापुत्रकाख्येन तालेन पदपञ्चकम् ॥ १२१॥ पूर्ववद्रचयेदन्ते तथा प्रतिपदं स्वराः । पाटाश्च क्रमतो गेयाः षट्पितापुत्रकान्विताः ॥ १२२॥ पञ्चमस्य पदस्यान्ते पूर्ववद्व्युत्क्रमस्तयोः । षट्पितापुत्रकस्यायं तालस्यावृत्तयुग्मतः ॥ १२३॥ अन्तरं शङ्खसम्भूतैः पाटैर्विरचयेत्ततः । सम्पक्वेष्टाकतालेन षट् पदानि प्रकल्पयेत् ॥ १२४॥ द्विर्गानं च मिथोभिन्नधातुत्वादि च पूर्ववत् । पूर्ववच्च प्रतिपदमन्ते स्युः स्वरपाटकाः ॥ १२५॥ पाटैर्मुरजसम्भूतैरन्तरं परिकल्पयेत् । तत उद्घट्टतालेनाभोगं द्रुतलयान्वितम् ॥ १२६॥ गातृनेतृप्रबन्धाख्याभूषितं परिकल्पयेत् । अत्राभोगे द्रुतलयाख्यानादन्येषु धातुषु ॥ १२७॥ मध्यो विलम्बितो वा स्याल्लय इत्यवगम्यताम् । आभोगान्ते च कुर्वीत तेनकं तदनन्तरम् ॥ १२८॥ प्रबन्धादिस्थितालापे मोक्ष एवंविधस्तु यः । पञ्चतालेश्वरो नाम सोऽयमन्वर्थसंज्ञकः ॥ १२९॥ स च द्वेधा वीररसे गीतो वीरावतारकः । श‍ृङ्गारे तु रसे गीतः श्रृङ्गारतिलकः स्मृतः ॥ १३०॥ तालप्रकरणे चच्चत्पुटादिर्लक्ष्ययिष्यते । तत्र च प्रतितालं यदाद्यमस्ति पदद्वयम् ॥ १३१॥ उद्ग्राहः स तदन्यानि पदानि स्याद्ध्रुवस्ततः । अनन्तरस्तदाभोगश्चतुर्धातुरयं ततः ॥ १३२॥ नन्वन्तरस्य नियमो गीतेष्वेव पुरोदितः । सत्यं वचनसामर्थ्यात्प्रबन्धेष्वपि कुत्रचित् ॥ १३३॥ भविष्यत्यन्तरो विद्या निषादस्थपतेरिव । तालानां नियमाच्चैव निर्युक्त इति कीर्त्यते ॥ १३४॥ पञ्चाङ्गो बिरुदाभावादानन्दिन्याख्यजातिमान् । अथ वर्णस्वरं ब्रूमो यत्र स्यादैच्छिकः क्रमः ॥ १३५॥ स्वराणामपि पाटानां पदानां तेनकस्य च । तेनके च भवेन्मोक्षः स वर्णस्वर उच्यते ॥ १३६॥ चतुर्धा स स्वरस्यादौ विन्यासः प्रथमो भवेत् । पाटनामादिविन्यासो द्वितीयः परिकीर्तितः ॥ १३७॥ पदानमादिविन्यासात्तृतीयो भेद उच्यते । तेनानामादिविन्यासाच्चतुर्थो भेद इष्यते ॥ १३८॥ एकस्मिन्नादिविन्यस्ते स्वरादिषु चतुर्ष्वपि । तदन्येषां त्रयणां स्याद्विन्यासः वाञ्छितक्रमात् ॥ १३९॥ अत्र स्वरादिषु द्वाभ्यामुद्ग्राहं परिकल्पयेत् । द्वाभ्यां ध्रुवमथाभोगं पदैः कुर्यादतस्त्वयम् ॥ १४०॥ स्यात्त्रिधातुरनिर्युक्तस्तालाद्यनियमात्मकः । पञ्चाङ्गो बिरुदाभावादानन्दिन्याख्यजातिमान् ॥ १४१॥ पञ्च वस्तुप्रबन्धस्य पादांस्तावत्प्रकल्पयेत् । तेष्वाद्ये च तृतीये च पञ्चमे च पृथक्पृथक् ॥ १४२॥ एकैकलघुवर्णाख्यमात्राः पञ्चदश स्मृताः । द्वितीयतुर्ययोरङ्घ्र्योर्मात्रा द्वादश कीर्तिताः ॥ १४३॥ एतेषु पञ्चपादेष्वप्याद्यं पादद्वयं पुनः । प्रथमार्धं स्मृतं तच्च स्वरपाटान्तमिष्यते ॥ १४४॥ शिष्टं पादत्रयं प्रोक्तमपरार्धमिदं पुनः । कर्तव्यं स्वरतेनान्तं ततो दोधकनामकम् ॥ १४५॥ वृत्तं कुर्यात्तु तल्लक्ष्म च्छन्दःशास्त्रे निरूपितम् । ``दोधकवृत्तमिदं भभभा गौ'' इदमेवास्य वृत्तस्य लक्ष्मोदाहरणं तथा ॥ १४६॥ अत्रोद्ग्राहस्तेनकान्तमर्धद्वयमथ ध्रुवः । दोधकः स्यादथाभोगस्तेनोक्तोऽयं त्रिधातुकः ॥ १४७॥ तालादिनियमाभावदनिर्युक्तश्च पञ्चभिः । अङ्गैरबिरुदैर्योगादानदिन्याख्यजातिमान् ॥ १४८॥ विजयाख्यप्रबन्धस्य लक्षणं त्वथ चक्ष्महे । तेनैः स्वरैर्य उद्ग्राहे ध्रुवे पाटैः पदैरपि ॥ १४९॥ पदान्तरैरथाभोगे गेयो विजयतालकः । विजयाख्यस्त्रिधातुः स निर्युक्तो नियतत्वतः ॥ १५०॥ पञ्चाङ्गो बिरुदाभावदानन्दिन्याख्यजातिमान् । त्रिपदाख्यप्रबन्धस्य लक्ष्म सम्यक्प्रचक्ष्महे ॥ १५१॥ यत्र पाटैर्भवेदेकः पादोऽथ बिरुदैः परः । स्वरैरन्यस्तु सोऽन्वर्थसंज्ञकस्त्रिपदाह्वयः ॥ १५२॥ अत्राद्यपाद उद्ग्राहो द्वितीयस्तु ध्रुवः स्मृतः । आभोगस्तु पदैः कार्यस्ततोऽप्येष त्रिधातुकः ॥ १५३॥ अनिर्युक्तश्च तालादेरंशस्यानियमत्वतः । पञ्चाङ्गस्तेनकाभावादानन्दिन्याख्यजातिमान् ॥ १५४॥ ब्रूमो हरिविलासस्य लक्षणं लक्ष्यसम्मतम् । पदैश्च बिरुदैराद्यः खण्डो यत्र प्रकल्प्यते ॥ १५५॥ पाटैर्द्वितीयखण्डोऽथ तेनकैस्तु तृतीयकः । सोऽयं हरविलासाख्यः प्रबन्धः परिकीर्त्यते ॥ १५६॥ अत्राद्यखण्ड उद्ग्राहो द्वितीयकतृतीयकौ । ध्रुवः पदान्तरैः कार्य आभोगोऽतस्त्रिधातुकः ॥ १५७॥ तालादिनियमाभावादनिर्युक्तश्च कीर्तितः । पञ्चाङ्गश्च स्वराभावादानन्दिन्याख्यजातिमान् ॥ १५८॥ चतुर्मुखप्रबन्धस्य लक्ष्म सम्यक्प्रचक्ष्महे । यत्र ति स्थायिवर्णेन स्वरैरेकोऽङ्घ्रिरिष्यते ॥ १५९॥ ततस्त्वारोहिवर्णेन पाटैरङ्घ्रिर्द्वितीयकः । ततोऽवरोहिवर्णेन पदैरङ्घ्रिस्त्रितीयकः ॥ १६०॥ ततः सञ्चारिवर्णेन तेनैरङ्घ्रिस्तुरीयकः । उद्ग्राहे च समाप्तिः स्यात्स चतुर्मुख उच्यते ॥ १६१॥ उक्तं स्थाय्यादिवर्णानां लक्ष्म रत्नाकरे स्फुटम् । गानक्रियोच्यते वर्णः सा चतुर्धा निरूपिता ॥ १६२॥ स्थाय्यारोह्यवरोही च सञ्चारीत्यथ लक्षणम् । स्थित्वा स्थित्वा प्रयोगः स्यादेकैकस्य स्वरस्य यः ॥ १६३॥ स्थायी वर्णः स विज्ञेयः परावन्वर्थनामकौ । एतत्सम्मिश्रणाद्वर्णः सञ्चारी तु भवेदिति ॥ १६४॥ अत्राद्यपादद्वितयमुद्ग्राह इति कीर्त्यते । द्वितीयं पादयुगलं ध्रुव इत्यभिधीयते ॥ १६५॥ पादान्तरैः स्यादाभोगस्तेनोक्तोऽयं त्रिधातुकः । तालादिनियमाभावादनिर्युक्तश्च कीर्तितः ॥ १६६॥ पञ्चाङ्गो बिरुदाभावादानन्दिन्याख्यजातिमान् । पद्धडीति प्रबन्धोऽथ प्रबोधाय निरूप्यते ॥ १६७॥ स्वरान्तैर्बिरुदैर्यस्याः प्रथमार्धे विरच्यते । पाटान्तैर्बिरुदैश्चैव द्वितीयार्धं निबध्यते ॥ १६८॥ यस्याश्च प्रतिपादं स्यादन्तेऽनुप्राससम्भवः ॥ छन्दसा पद्धडीनाम्ना युक्ता सा पद्धडी मता ॥ १६९॥ पद्धडीच्छन्दसो लक्ष्म च्छन्दःशास्त्रे निरूपितम् । ``षोडश मात्राः पादे पादे यत्र भवन्ति निरस्तविवादे । पद्धडिका जगणेन वियुक्ता चरमगुरुः सा सद्भिरिहोक्ता ॥ '' इदमेव च पद्धड्या उदाहरणलक्षणे ॥ १७०॥ तत्राद्यमर्धमुद्ग्राहो द्वितीयार्धं ध्रुवः स्मृतः ॥ आभोगश्च पदैः कार्यस्तेनायं स्यात्त्रिधातुकः ॥ १७१॥ निर्युक्तश्च यतश्छन्दोनियमोऽतेनकस्ततः । आनन्दिनीजातिमांश्चाप्यङ्गपञ्चमसङ्गतः ॥ १७२॥ अथ श्रीवर्धनो नाम प्रबन्धोऽयं निरूप्यते । यतोद्ग्रहस्तु बिरुदैः पदैरपि भवेत्क्रमात् ॥ १७३॥ पदैः स्वरध्रुवः स्याच्चेत्स श्रीवर्धन उच्यते । पदान्तरैरिहाभोगः कार्यस्तेन त्रिधातुकः ॥ १७४॥ प्रबन्धोऽयमनिर्युक्तस्तालादिनियमाविधेः ॥ पञ्चङ्गस्तेनकाभावदानन्दिन्याख्यजातिमान् ॥ १७५॥ अथोद्देशक्रमप्राप्तो लक्ष्यते हर्षवर्धनः । पदैश्च बिरुदैर्यस्मिन्नुद्ग्राहो विनिबध्यते ॥ १७६॥ स्वरैः पाटैर्ध्रुवैश्चैव स स्मृतो हर्षवर्धनः । अन्यत्सर्वमपि ज्ञेयं श्रीवर्धनवदत्र च ॥ १७७॥ एवमानन्दिनीजातिप्रबन्धा दश वर्णिताः । अथ यो दीपनीजातिप्रबन्धेष्वपि पञ्चसु ॥ १७८॥ सुदर्शनः पुरोद्दिष्टः स प्रबन्धो निरूप्यते । यतोद्ग्राहः पदैः कॢप्तो बिरुदैस्तेनकैर्ध्रुवः ॥ १७९॥ पादान्तरैस्तथाऽऽभोगस्तं वदन्ति सुदर्शनम् । त्रिधातुकः प्रबन्धोऽयमनिर्युक्तस्तथैव च ॥ १८०॥ तालादिनियमाभावात्स्वरपाटविवर्जितैः । अङ्गैश्चतुर्भिर्बद्धत्वाद्दीपनीजातिमान्स्मृतः ॥ १८१॥ अथोच्यते स्वराङ्कस्य प्रबन्धस्येह लक्षणम् । यत्रोद्ग्राहः पदैर्बद्धः स्वरैर्मेलापकस्तथा ॥ १८२॥ ध्रुवश्च बिरुदैस्तत्र तूद्ग्राहे ताल एककः । मेलापके तु द्वौ तालौ ध्रुवे तालास्त्रयः पुनः ॥ १८३॥ स स्वराङ्क इति प्रोक्तो गातव्यो मालवश्रिया । आभोगः पूर्ववत्कार्यश्चतुर्धातुरतस्त्वयम् ॥ १८४॥ निर्युक्तो रागनियमात्पाटतेनकवर्जितैः । चतुरङ्कैर्निबद्धत्वाद्दीपनीजातिमान्स्मृतः ॥ १८५॥ अथोच्यते त्रिभङ्ग्याख्यप्रबन्धस्येह लक्षणम् । स्वरैः पाटैः पदैश्चैव क्रमेण विनिबद्धता ॥ १८६॥ सामान्यलक्षणं तस्य स च पञ्चविधः स्मृतः । त्रिभङ्गिताले ति लघुद्वयं गुरूरथोच्यते ॥ १८७॥ इत्येवंलक्षणोपेतत्रिभङ्गीतालसङ्गतः ॥ त्रिभङ्ग्याख्यः प्रबन्धः स्यादित्येको भेद ईरितः ॥ १८८॥ त्रिभङ्ग्याख्येन वृत्तेन च्छन्दःशास्तोदितेन यः । बद्ध्यते स त्रिभङ्गिः स्यादिति भेदो द्वितीयकः ॥ १८९॥ त्रिभिरङ्गैस्त्रिभिस्तालैस्तृतीयो भेद उच्यते । त्रिभिर्वृत्तैरन्वितत्वाच्चतुर्थो भेद इष्यते ॥ १९०॥ तथा देवत्रयस्तुत्या पञ्चमो भेद उच्यते । एतेषु पञ्चभेदेषु योज्यं सामान्यलक्षणम् ॥ १९१॥ यथायोगमिहोन्नेयमुद्ग्राहादिविभाजनम् । आभोगश्च पदैः कार्यस्तेनायां स्यात्त्रिधातुकः ॥ १९२॥ छन्दस्तालादिनियमात्वेष निर्युक्त उच्यते । दीपनीजातिमांश्चापि लोपाद्बिरुदतेनयोः ॥ १९३॥ निरूप्यते कन्दुकोऽथ यत्राद्यचरणः पदैः । पाटैर्द्वितीयचरणो बिरुदैश्च तृतीयकः ॥ १९४॥ उद्ग्राहे च समाप्तिश्च स कन्दुक इति स्मृतः । अत्राद्यपादद्वितयमुद्ग्राह इति कथ्यते ॥ १९५॥ ध्रुवस्त्रितीयपादे स्यात्पदैराभोगकल्पना । तत्त्रिधातुरनिर्युक्तस्तालादिनियमो न यत् ॥ १९६॥ दीपनीजातिमांश्चापि स्वरतेनकवर्जनात् । निरूप्यतेऽथ वदनप्रबन्धस्येह लक्षणम् ॥ १९७॥ प्रबन्धोऽयं त्रिधा प्रोक्तस्तत्राद्यो वदनाभिधः । अथोपवदनाभिख्यः स्याद्वस्तुवदनाह्वयः ॥ १९८॥ त्रयाणामपि चैतेषां क्रमाल्लक्षणमुच्यते । छगणौ पगणौ चैव दगणश्चेत्यमी त्रयः ॥ १९९॥ मात्रागणाः स्युः प्रथमे पाद उद्ग्राहसंज्ञके । तादृगेव द्वितीयाङ्घ्रिः कर्तव्यो ध्रुवसंज्ञकः ॥ २००॥ विशेषस्त्वत्र चरणे स्वरपाटं प्रकल्पयेत् । पदान्तरैरथाभोग इत्येवं वदनं स्मृतम् ॥ २०१॥ वदने त्रितयोऽप्यन्यैः पदैराभोगकल्पनम् । षण्मात्रकः स्याच्छगणः पगणः पञ्चमात्रकः ॥ २०२॥ चतुर्मात्रस्तु चगणस्त्रिमात्रस्तगणः स्मृतः । दगणस्तु द्विमात्रः स्यादित्येतद्गणलक्षणम् ॥ २०३॥ त्रिधातुकः प्रबन्दोऽयमनिर्युक्तस्तथैव च । हीनो बिरुदतेनाभ्यां चतुरङ्गसमन्वितः ॥ २०४॥ दीपनीजातिमानेष भवतीत्यवधार्यताम् । तदेवं दीपनीजातिप्रबन्धाः पञ्च लक्षिताः ॥ २०५॥ अथ द्व्यष्टप्रबन्धेषु भावनीजातिभागिषु । वर्णः प्रथममुद्दिष्टो वर्ण्यते तस्य लक्षणम् ॥ २०६॥ बिरुदैर्विनिबध्येते यत्रोद्ग्राहध्रुवौ पुनः । आभोगश्च पदैर्यत्र यश्च कर्णाटभाषया ॥ २०७॥ वर्णतालेन चोपेतः स वर्ण इति कथ्यते । त्रिविधः स च वर्णाख्यतालत्रैविध्यतः स्मृतः ॥ २०८॥ वर्णतालस्त्र्यश्रमिश्रचतुरश्रया त्रिधा । त्र्यश्रवर्णे लघुश्चैव द्रुतद्वन्द्वं लघुत्रयम् ॥ २०९॥ चतुष्काणि विरामान्तद्रुतानां त्रीण्यथ स्मृतः । गुरुर्द्रुतद्वयं मिश्रे पुनर्गुरुर्लघुः प्लुतः ॥ २१०॥ गुरुर्लघुर्द्रुतश्चैव गुरुश्च चतुरश्रके । त्रिधातुकः प्रबन्धोऽयं नियमात्तालभाषयोः ॥ २११॥ निर्युक्तस्तालबिरुदपदैरङ्गैस्त्रिभिः पुनः । बद्धत्वेन परिज्ञेयो भावनीजातिमानिति ॥ २१२॥ अथ गद्यप्रबन्धस्य कथ्यते लक्षणं स्फुटम् । गद्यं नाम स्मृतं छन्दोहीनं पदकदम्बकम् ॥ २१३॥ तदप्युत्कलिका चैव चूर्णिका ललितं तथा । वृत्तगन्धि च खण्डं च चित्रं चेत्यपि षड्विधम् ॥ २१४॥ एतेषां रसभेदाश्च वर्णश्चाप्यधिदेवताः । नियता वृत्तिभेधाश्च गतिभेदा द्रुतादयः ॥ २१५॥ द्वैविध्यमभ्युपेतस्य वेणीमिश्रत्वभेदतः । सर्वं रत्नाकरे प्रोक्तं तत्रत्यमवगम्यताम् ॥ २१६॥ फलतो न विशेषोऽस्तीत्यस्माभिस्तदुपेक्षितम् । अथ गद्यस्य रचनाप्रकारः प्रतिपाद्यते ॥ २१७॥ प्रणवाद्यमतालं च गमकै रचितैर्युतम् । युक्तं स्थाय्यादिवर्णैश्च गायेत्पदकदम्बकम् ॥ २१८॥ ततः प्रबन्धनामाङ्कं बद्धमैच्छिकतालतः । अवान्तरानेकपदसमुदायात्मकं तथा ॥ २१९॥ पदद्वयं निबध्नीयाद् द्विर्गेयं तत्पृथक्त्वतः । विलम्बितलयोपेतं प्रयोगं परिकल्पयेत् ॥ २२०॥ ततो वाग्गेयकारस्य गायकस्य च नामनी । सताले विनिबध्नीयाद्विलम्बितलयान्विते ॥ २२१॥ पुनश्च द्रुतमानेन प्रबन्धः सकलोऽपि च । पूर्वोक्तेन क्रमेणैव गातव्यस्तदनन्तरम् ॥ २२२॥ पूर्वोर्जितपदद्वन्द्वे प्रथमस्य पदस्य तु । आदिमारभ्य तत्तालं विलम्बितलयान्वितम् ॥ २२३॥ एकवारं प्रयुज्याथ न्यासं कुर्यादिति स्थितिः । अत्राद्यभाग उद्ग्राहो ज्ञेयो यस्तालवर्जितः ॥ २२४॥ यस्तु तालेन सहितः पदद्वन्द्वात्मकः पृथक् । द्विर्गातव्यो द्वितीयः स भागस्तु ध्रुव उच्यते ॥ २२५॥ प्रयोगादिः सतालश्च यस्तु भागस्तृतीयकः । स आभोग इति ग्राह्यस्तत एव त्रिधातुकः ॥ २२६॥ अनिर्युक्तश्च तालादिनियमस्यानपेक्षणात् । पदतालस्वरैर्योगात्त्र्यङ्गोऽयं भावनीयुतः ॥ २२७॥ अथ कन्दप्रबन्धस्य लक्ष्म सम्यक्प्रचक्ष्महे । यस्तु कर्णाटभाषाद्यैः पदैः संस्कृतवर्जितैः ॥ २२८॥ पाटैश्च बिरुदैश्चैव गीयते तालवर्जितः । आर्यागीत्यभिधानेन यश्च वृत्तेन बध्यते ॥ २२९॥ गेयः वीररसे यश्च स कन्द इति कथ्यते । वृत्तरत्नाकरे प्रोक्तमार्यागीतेस्तु लक्षणम् ॥ २३०॥ ``आर्याप्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः । दलयोः कृतयतिशोभां तां गीतिं गीतवान्भुजङ्गेशः ॥ '' इदमेवास्य वृत्तस्य लक्ष्मोदाहरणं तथा । अस्यायमर्थ आर्यायां प्रथमार्धे प्रकीर्तिताः ॥ २३१॥ त्रिंशन्मात्रा द्वितीयार्धे सप्तविंशतिरीरिताः । आर्यागीतौ तु पूर्वार्धवद् द्वितीयार्धकेऽपि च ॥ २३२॥ त्रिंशन्मात्राः प्रयोक्तव्या एवंलक्षणलक्षिता । आर्यागीतिरिहोद्ग्राहं प्रथमार्धं प्रकल्प्य तु ॥ २३३॥ पदैर्गायेद् द्वितीयार्धं ध्रुवं कृत्वा ततः परम् । पाटैश्च बिरुदैर्गायेत्तत आभोगकल्पनम् ॥ २३४॥ ध्रुवाख्यस्य द्वितीयार्धस्यादौ पाटान्स्थितान्पुनः । उपक्रम्य प्रबन्धस्य न्यासं कुर्यादिति स्थितिः ॥ २३५॥ त्रिधातुकः प्रबन्धोऽयं छन्दोनियमकीर्तनात् । निर्युक्तः पाटबिरुदपदैरङ्गैस्त्रिभिर्युतः ॥ २३६॥ भावनीजातिमांश्चापि भवतीत्यवधार्यताम् । एकोनत्रिंशदाख्याताः कन्दभेदास्तु शार्ङ्गिणा ॥ २३७॥ निरूप्यतेऽथ कैवाडप्रबन्धस्येह लक्षणम् । यत्रोद्ग्राहो ध्रुवश्चैव पाटैरेव निबध्यते ॥ २३८॥ आभोगस्तु पदैर्यस्मिन्नुद्ग्राहे च समापनम् । स कैवाड इति प्रोक्तः करपाटप्रधानकः ॥ २३९॥ प्रबन्धः करपाटाख्यस्तदपभ्रंशनामतः । कैवाड इति लोकेऽस्मिन्सर्वत्र व्यवहारभाक् ॥ २४०॥ सार्थकैरर्थहीनैश्च पाटैः स द्विविधो मतः । स शुद्धैर्मिश्रितैः पाटैः शुद्धो मिश्र इति द्विधा ॥ २४१॥ शुद्धत्वं नाम पाटानां मुखवाद्याक्षरैः सह । अयुक्तत्वं मिश्रता तु तैर्युक्तत्वमितीर्यते ॥ २४२॥ त्रिधातुरप्यनिर्युक्तः पाटतालपदैस्त्रिभिः । अङ्गैरुपनिबद्धत्वाद्भावनीजातिमांस्तथा ॥ २४३॥ अथाङ्कचारिणी नाम प्रबन्धः प्रतिपाद्यते । यत्रोद्ग्राहध्रुवौ वीररौद्राख्यरससंहितैः ॥ २४४॥ बिरुदैर्विनिबध्येते तालेनेष्टेन केनचित् । गातृनेतृप्रबन्धाख्याविख्यापनमनोहरैः ॥ २४५॥ आभोगश्च पदैर्यस्यां कथिता साऽङ्कचारिणी । त्रिधातुकः प्रबन्धोऽयमनिर्युक्तश्च कीर्तितः ॥ २४६॥ अङ्गैस्त्रिभिश्च बिरुदपदतालैर्निबन्धनात् । भावनीजातिमांश्चापि भवेद्रत्नाकरे पुनः ॥ २४७॥ भेदाः षडङ्गचारिण्या वासवाद्या निरूपिताः । ते तत्रैवावगन्तव्या इति सर्वं समज्जसम् ॥ २४८॥ निरूप्यतेऽथ वर्तन्याः प्रबन्धस्येह लक्षणम् । स्वराद्यकरणस्य प्राक्प्रबन्धस्य यदोरितम् ॥ २४९॥ लक्ष्मोद्ग्राहे ध्रुवे चैव निबिडस्वरबद्धता । आभोगे पदबद्धत्वं भवेदिति तथैव च ॥ २५०॥ वर्तन्यामपि विज्ञेयं विशेषस्तु प्रदर्श्यते । स्वराद्यकरणो प्रोक्तो रासस्तालो द्रुतो लयः ॥ २५१॥ वर्तन्यां तु न रासः स्यात्तालः किं चैच्छिको भवेत् । विलम्बितलयश्चाथ गाने रीतिः प्रदर्श्यते ॥ २५२॥ उद्ग्राहं तु द्विरुद्गायेद् ध्रुवाभोगौ सकृत्पुनः । ध्रुवे न्यासस्ततो यस्यां वर्तनी सा प्रकीर्तिता ॥ २५३॥ त्रिधातुकः प्रबन्धोऽयमनिर्युक्तस्तथैव च । पदतालस्वरैर्योगात्त्र्यङ्गोऽयं भावनीयुतः ॥ २५४॥ अथ लक्षणमार्यायाः प्रबन्धस्य निरूप्यते । आर्यावृत्तेन रचितामार्यामार्याः प्रचक्षते ॥ २५५॥ आर्यावृत्तस्य चार्धान्ते चरणान्तेऽथ वा स्वराः । प्रयोज्यास्तत्र चाद्यार्धमुद्ग्राहं परिकल्पयेत् ॥ २५६॥ तत्तद् द्विवारं गातव्यं द्वितीयार्धं भवेद् ध्रुवः । तत्तु गेयं सकृत्पश्चादाभोगं परिकल्पयेत् ॥ २५७॥ गातृनेतृप्रबन्धाङ्कमुद्ग्राहे च समापयेत् । इदमार्याप्रबन्धस्य लक्षणं परिचक्षते ॥ २५८॥ वृत्तरत्नाकरे प्रोक्तमार्यावृत्तस्य लक्षणम् । ``लक्ष्मैतत्सप्त गणा गोपिता भवति नेह विषमे जः । षष्ठोऽयां न लघू वा प्रथमेऽर्धे नियतमार्यायाः ॥ षष्ठे द्वितीयलान् न्ले परके मुखलाच्च स यतिपदनियमः । चरमेऽर्धे पञ्चमके तस्मादिह भवति षष्ठो लः ॥ '' उदाहरणमप्येतदार्यावृत्तस्य सम्मतम् ॥ २५९॥ अस्यायमर्थः आर्यायाः प्रथमार्धे प्रकीर्तिताः । गणाः सप्त गुरुश्चैव विषमे जगणो न च ॥ २६०॥ षष्ठोऽयं जगणः प्रोक्तस्तत्स्थाने न लघू च वा । नगणश्च लघुश्चेति जातं लघुचतुष्टयम् ॥ २६१॥ इत्यार्याप्रथमार्धस्य लक्षणं विशदीकृतम् । तदुत्तरार्धेऽपि गणाः सप्तैव च गुरुस्तथा ॥ २६२॥ किं तु षष्ठो गणस्तस्मिन्नेक एव लघुर्भवेत् । आर्यावृत्ते चतुर्मात्रा गणा ग्राह्या इति स्थितिः ॥ २६३॥ आर्याभेदास्तु लक्ष्म्याद्याः षड्विंशतिरुदाहृताः । रत्नाकरे न ते लक्ष्ये प्रसिद्धा इत्युपेक्षिताः ॥ २६४॥ त्रिधातुकः प्रबन्धोऽयं छन्दोनियमबन्धनात् । निर्युक्तस्त्रिभिरङ्गैश्च पदतालस्वरात्मकैः ॥ २६५॥ बद्धत्वादवगन्तव्यो भावनीजातिमानिति । अद्य गाथाप्रबन्धस्य स्वरूपमभिधीयते ॥ २६६॥ आर्यालक्षणमेवेदं गाथाया अपि लक्षणम् । किं त्वार्या संस्कृतपदैर्बद्धव्येति व्यवस्थितिः ॥ २६७॥ गाथा तु प्राकृतपदैर्बद्धव्येत्यनयोर्भिदा । निर्युक्तत्वत्रिधातुत्वभावनीजातिशालिताः ॥ २६८॥ गाथायामिह विज्ञेयास्त्वार्यालक्ष्मातिदेशतः । अथ क्रौञ्चपदो नाम प्रबन्धः प्रतिपाद्यते ॥ २६९॥ यत्रोद्ग्राहः स्वरैर्बद्धः पदैस्तु ध्रुव इष्यते । पदान्तरैस्तथाऽऽभोगो गातृनामादिचिह्नितः ॥ २७०॥ प्रतितालाख्यतालेन वक्ष्यमाणेन यो युतः । यश्चोद्ग्राहधृतन्यासः स तु क्रौञ्चपदः स्मृतः ॥ २७१॥ लघुध्रुतद्वयं चैव प्रतिताले प्रचक्षते । स च द्वेधा क्रौञ्चपदनामवृत्तसमन्वितः ॥ २७२॥ तद्वृत्तरहितश्चेति तत्र क्रौञ्चपदाभिधम् । वृत्तं कीदृशमित्युक्ते तल्लक्षणमुदीर्यते ॥ २७३॥ आदौ तु भगणः प्रोक्तो मगणस्तदनन्तरम् । सगणो भगणश्चैव चत्वारो नगणास्तथा ॥ २७४॥ गुरुश्च यत्र दृश्यन्ते चरणेषु चतुर्ष्वपि । वृत्तं क्रौञ्चपदं तत्स्यादस्योदाहरणं पुनः ॥ २७५॥ ``या कपिलाक्षी पिङ्गलकेशी कलिरुचिरनुदिनमनुनयकठिना दीर्घतराभिः स्थूलशिराभिः परिवृतवपुरतिशयकुटिलगतिः । आयतजङ्घा निम्नकपोला लघुतरकुचयुगपरिचितहृदया सा परिहार्या क्रौञ्चपदा स्त्री ध्रुवमिह निरवधिसुखमभिलषता ॥ '' त्रिधातुकः प्रबन्धोऽयं निर्युक्तश्च तथा स्मृतः । तालादिनियमादङ्गैः स्वरतालपदाभिधैः ॥ २७६॥ बद्धत्वात्त्रिभिरप्येष भावनीजातिमान्भवेत् । कलहंसप्रबन्धस्य कथयाम्यथ लक्षणम् ॥ २७७॥ कलहंसाख्यवृत्तेन प्रबन्धो यः प्रबध्यते । तमाहुः कलहंसाख्यं तस्य वृत्तस्य लक्षणम् ॥ २७८॥ आख्यातमादिभरते भरतेन महात्मना । ``द्वितीयसप्तमान्त्यश्च तुरीयको गुरुर्यदा च षष्ठो दशमोऽपि वा । अथोदितो हि पादे त्वथ जागते भवेदिदं तु हंसाख्यमिति स्मृतम् ॥ '' इदमेवास्य वृत्तस्य लक्ष्यमस्यार्थ उच्यते ॥ २७९॥ चतुर्ष्वपि च पादेषु द्वादशाक्षरशालिषु । प्रतिपादं द्वितीयश्च तुर्यः षष्ठश्च सप्तमः ॥ २८०॥ दशमो द्वादशश्चैव वर्णो यदि गुरुर्भवेत् । तदानीं कलहंसाख्यं छन्द इत्यत्र चोच्यते ॥ २८१॥ प्रयुञ्ज्यात्प्रतिपादान्तं स्वराञ्झम्पाख्यतालतः । गायेच्चादिमपादान्तप्रयुक्तेषु स्वरेष्वथ ॥ २८२॥ न्यासं कुर्यात्प्रबन्धस्य झम्पातालस्य लक्षणम् । स्वरप्रकरणे प्रोक्तमलङ्कारनिरूपणे ॥ २८३॥ अत्राद्यमर्धमुद्ग्राहं वृत्तस्य परिकल्पयेत् । उत्तरार्धे ध्रुवं कुर्यादाभोगं च पृथक्त्वतः ॥ २८४॥ अतस्त्रिधातुकः सोऽयं नियमाद् वृत्ततालयोः । निर्युक्तश्च भवत्यङ्गैः स्वरतालपदैस्त्रिभिः ॥ २८५॥ निबद्धत्वेन विज्ञेयो भावनीजातिमांस्तथा । लक्षणं तोटकस्याथ कथ्यते यः प्रबध्यते ॥ २८६॥ तोटकाख्येन वृत्तेन स तोटक इति स्मृतः । लक्ष्म तोटकवृत्तस्य वृत्तरत्नाकरे स्फुटम् ॥ २८७॥ ``इह तोटकमम्बुधिसैः कथितम्'' अस्यायमर्थः सगणैश्चतुर्भिस्तोटकं स्मृतम् । इदमेवास्य लक्ष्यं च ज्ञेयमत्र च तोटकम् ॥ २८८॥ प्रयोज्याः प्रतिपादान्तं स्वराः पूर्ववदत्र च । उद्ग्राहः प्रथमार्धं स्यादुत्तरार्धं ध्रुवः स्मृतः ॥ २८९॥ आभोगः पूर्ववत्कार्यस्तेनायं स्यात्रिधातुकः । निर्युक्तो वृत्तनियमात्स्वरतालपदैस्त्रिभिः ॥ २९०॥ अङ्गैरुपनिबद्धत्वाद्भावनीजातिमांस्तथा । हंसलीलप्रबन्धस्य लक्षणं प्रतिपाद्यते ॥ २९१॥ पदैर्यत्राद्यपादः स्यत्पाटैरेव द्वितीयकः । हंसलीलाख्यतालेन युक्तोऽयं हंसलीलकः ॥ २९२॥ हंसलीलाख्यताले च यगणश्च लघुर्गुरुः । अत्राद्यपाद उद्ग्राहो द्वितीयस्तु ध्रुवः स्मृतः ॥ २९३॥ पदान्तरैस्तथाऽऽभोगस्तेनायं स्यात्त्रिधातुकः । निर्युक्तस्तालनियमात्पाटतालपदात्मकैः ॥ २९४॥ त्रिभिरङ्गैर्निबद्धत्वाद्भावनीजातिमानपि । चतुष्पदीप्रबन्धोऽथ लक्ष्यते लक्ष्यसम्मतः ॥ २९५॥ यस्या द्वितीयके पादे तुर्यपादे पृथक्पृथक् । भवन्ति द्व्यष्टसङ्ख्याका मात्रा लघ्वक्षरात्मिकाः ॥ २९६॥ प्रथमे च तृतीयेऽङ्घ्रौ मात्राः पञ्चदशैव च । भिन्नार्थयमकोपेतं यस्यामर्धद्वयं भवेत् ॥ २९७॥ आद्यमर्धं स्वरान्तं स्यात्तेनान्तं स्याद् द्वितीयकम् । तेनकन्याससंयुक्ता गेया कर्णाटभाषया ॥ २९८॥ तालेन रहिता सेयं चतुष्पद्यभिधीयते । अथ सत्यर्थभिन्नानां वर्णानां या पुनःश्रुतिः ॥ २९९॥ यमकं तद्भवेदित्थं यमकज्ञाः प्रचक्षते । अत्र स्वरान्तमाद्यार्धमुद्ग्राहं परिकल्पयेत् ॥ ३००॥ तेनकान्तं द्वितीयार्धं ध्रुवत्वेन प्रकल्पयेत् । आभोगः पूर्ववत्कार्यस्तेनायं स्यात्त्रिधातुकः ॥ ३०१॥ भाषनियमयुक्तत्वान्नित्युक्तश्च प्रकीर्तितः । पदतेनस्वरैस्त्र्यङ्गैर्बद्धत्वाद्भावनीयुतः ॥ ३०२॥ निरूप्यतेऽथ वीरश्रीप्रबन्धस्येह लक्षणम् । यतोद्ग्राहः पदैर्बद्धो बिरुदैस्तु ध्रुवो भवेत् ॥ ३०३॥ पदान्तरैस्तथाऽऽभोगो वीरश्रीरिति स स्मृतः । त्रिधातुकः प्रबन्धोऽयमनिर्युक्तश्च कीर्तितः ॥ ३०४॥ तालाद्यनियमात्तालपदाभ्यं बिरुदेन च । बद्धोऽयमङ्गत्रययुग्भावनीजातिमांस्तथा ॥ ३०५॥ उच्यते मङ्गलाचारप्रभन्दस्येह लक्षणम् । यः कैशिक्याख्यरागेण गीतो निःसारुसंज्ञिना ॥ ३०६॥ तालेन च निबद्धोऽयं मङ्गलाचार उच्यते । त्रिविधः स च गद्यात्मा पद्यात्मा चोभयात्मकः ॥ ३०७॥ पादान्ते वाऽथ वाऽर्धान्ते प्रयोज्यास्तत्र च स्वराः । रागस्तु कैशिकीनामभाषारागः प्रकीर्तितः ॥ ३०८॥ स च गान्धर्वरागान्तर्भूतो रत्नकरे त्विति । ज्ञेयं निःसारुताले च विरामान्तं लघुद्वयम् ॥ ३०९॥ अत्र सस्वरमाद्यार्धमुद्ग्राहः परिकीर्तितः । सस्वरं तु द्वितीयार्धं ध्रुवो ज्ञेयः पृथक्पदैः ॥ ३१०॥ आभोगः पूर्ववत्कार्यस्तेनायं स्यात्रिधातुकः । निर्युक्तश्च भवत्येष नियमाद्रागतालयोः ॥ ३११॥ पदतालस्वरैस्त्र्यङ्गैर्बद्धत्वाद्भावनीयुतः । अथोद्देशक्रमप्राप्तो दण्डकः प्रतिपाद्यते ॥ ३१२॥ दण्डकाख्येन वृत्तेन यः स्वरश्च निबध्यते ॥ स दण्डको दण्डकस्य लक्षणं नगणद्वयम् ॥ ३१३॥ रगणाः सप्त यस्य स्युः पादे पादे स दण्डकः । यथा --- ``इह हि भवति दण्डकारण्यदेशे स्थितिः पुण्यभाजां मुनीनां मनोहारिणि त्रिदशविजयवीर्यद्दृप्यद्दशग्रीवल- क्ष्म्या विरामेण रामेण संसेविते । जनकयजनभूमिसम्भूतसीमन्तिनी- सीमसीतापदस्पर्शपूताश्रये भुवननमितपादपम्पाभिधानाम्बिका तीर्थयात्रागतानेकसिद्धाकुले ॥ '' अत्र दण्डकवृत्तस्थपदैः पूर्वार्थमुच्यते ॥ ३१४॥ स चोद्ग्राहो द्वितीयार्धं स्वरैर्ज्ञेयं स च ध्रुवः । पदान्तरैस्तथाऽऽभोगस्तत एष त्रिधातुकः ॥ ३१५॥ निर्युक्तो वृत्तनियमात्स्वरतालपदैस्त्रिभिः । अङ्गैरुपनिबद्धत्वाद्भावनीजातिमान्भवेत् ॥ ३१६॥ तदेवं वर्णिता द्व्यष्टप्रबन्धा भावनीयुताः । अथ द्वाविंशतिस्तारावलीजातिसमन्विताः ॥ ३१७॥ प्रबन्धाः पूर्वमुद्दिष्टास्तत्राप्यादौ प्रकीर्तिताः । एलाप्रबन्धस्तस्येह लक्ष्म सम्यक्प्रचक्ष्महे ॥ ३१८॥ एलायास्तावदुद्ग्राहे त्रयः पादाः प्रकीर्तिताः । तराद्यपादे प्रथमं द्वे खण्डे परिकल्पयेत् ॥ ३१९॥ तयोश्च खण्डयोर्धातुरेको मातुस्तु भिद्यते । धातुर्नाम स्वरः प्रोक्तो मातुरक्षरमुच्यते ॥ ३२०॥ एतश्च खण्डयुगलं सानुप्रासं प्रकल्पयेत् । वर्णसाम्यमनुप्रास इत्यनुप्रासलक्षणम् ॥ ३२१॥ ततः परं प्रयोगस्तु गमकालप्तिलक्षणः । किञ्चित्पदान्वितश्चान्ते कर्तव्यस्तदनन्तरम् ॥ ३२२॥ पल्लवाख्यानि गेयानि पदानि त्रीणि तत्र च । आद्ये विलम्बमानेन तृतीयं ध्रुतमानतः ॥ ३२३॥ अत्र खण्डद्वयं तारप्रथमं पदमुच्यते । ततः परं प्रयोगो यस्तद् द्वितीयं पदं स्मृतम् ॥ ३२४॥ तृतीयं च चतुर्थं च पञ्चमं च यथाक्रमम् । पदानि पल्लवाख्यानि भवन्ति त्रीण्यथः पुनः ॥ ३२५॥ पदानि पञ्च जातानि तदेतत्पदपञ्चकम् । उद्ग्राहः प्रथमः पादो भवतीत्यवधार्यताम् ॥ ३२६॥ एतत्प्रथमपादोक्तलक्षणेनैव कल्पयेत् । द्वितीयमपि चोद्ग्राहे पादं पञ्चपदात्मकम् ॥ ३२७॥ आद्यद्वितीययोरेतत्पादयोरेकधातुता । मातुस्तु भिन्न एवेति मतङ्गाद्याः प्रचक्षते ॥ ३२८॥ एवंलक्षण एव स्यात्तृतीयचरणोऽपि च । किं तु तत्र विशेषोऽस्ति कश्चित्तदभिदध्महे ॥ ३२९॥ आदौ खण्डद्वयं गीत्वा सानुप्रासैकधातुकम् । ततः केवलसम्बुद्धिपदैरन्ते समन्वितम् ॥ ३३०॥ पूर्वपादद्वययुतप्रयोगापेक्षया पुनः । भिन्नधातुं प्रकुर्वीत प्रयोगमिति निर्णयः ॥ ३३१॥ सोमेश्वरादयस्त्वेके चतुर्धातुत्ववादिनः । एतेषु द्वादशपदेष्वेकादशपदात्मकम् ॥ ३३२॥ उद्ग्राहमुररीकृत्य पदं द्वादशकं पुनः । आहुर्मेलापकं तेन मतभेदोऽत्र विद्यते ॥ ३३३॥ एवमुद्ग्रागमेलापौ निबध्य तदनन्तरम् । ध्रुवं विरचयेत्सोऽपि त्रिपदात्मा प्रकीर्तितः ॥ ३३४॥ तत्राद्यं च द्वितीयं च पदं स्यान्मध्यमानतः । निबद्धं धातुनैकेन मातुभेदयुतं तथा ॥ ३३५॥ तृतीयं तु पदं पूर्वपदाभ्यां भिन्नधातुकम् । स्याद्विलम्बितमानं च त्रिष्वेतेषु पदेष्वपि ॥ ३३६॥ यत्र कुत्रापि कर्तव्यं नेतृनामाङ्कनं पुनः । एवं ध्रुवे त्रीणि पदान्युद्ग्राहे द्वादशेति च ॥ ३३७॥ योगे पञ्चदशाभूवन्पदानीत्यवधार्यताम् । गातृप्रबन्धनामाङ्कमाभोगमथ कल्पयेत् ॥ ३३८॥ आभोगः सर्व एवैष पदमेकमिति स्थितिः । तस्मादेलाप्रबन्धोऽयं जातो द्व्यष्टपदात्मकः ॥ ३३९॥ एवंविधं पुनर्गीत्वा प्रबन्धं सर्वमप्यथ । न्यासं कुर्याद् ध्रुवे तालनियमस्त्वथ कथ्यते ॥ ३४०॥

तालनियमः

मट्ठद्वितीयकङ्कालप्रतितालेषु कश्चन । ताल एलाप्रबन्धेऽस्मिन्योजनीयो न चापरः ॥ ३४१॥ चतुर्णामपि तालानामेतेषां लक्षणं ब्रुवे । स्वरप्रकरणे पूर्वं मट्ठलक्षणमीरितम् ॥ ३४२॥ द्वितीयताले कथितं द्रुतद्वन्द्वं लघुद्वयम् । उक्तश्चतुर्धा कङ्कालः पूर्णः खण्डः समोऽसमः ॥ ३४३॥ चतुर्द्रुतौ गलौ पूर्णः खण्डो द्वौ च गुरुद्वयम् । समो गुरू द्वौ लघ्वन्तौ विषमो लाद् गुरुद्वयम् ॥ ३४४॥ लो द्रुतौ प्रतितालः स्यादित्येवं ताललक्षणम् । इत्युक्तस्तालनियमः प्रबन्धेऽस्मिन्ग्रहस्त्विह ॥ ३४५॥ अतीतो वाऽनागतो व भवेदिच्छानुसारतः । तत्रातीतग्रहो नाम यत्र तालं विना पुरा ॥ ३४६॥ सकृद् गीत्वा तु गातव्यं तालं गृह्णाति चेत्पुनः । तथाऽतीतग्रहः प्रोक्तोऽनागतग्रह उच्यते ॥ ३४७॥ यत्र गीतं विनैवादौ तालमादाय चेत्सकृत् ॥ गेयं गायति सोऽयं स्यादनागत इति ग्रहः ॥ ३४८॥ एवमेलाप्रबन्धस्य प्रोक्तं सामान्यलक्षणम् । अत्र च द्व्यष्टसङ्ख्यानां पदानां नामदेवताः ॥ ३४९॥ उक्ता रत्नाकरे तत्तु बोध्यं तत्रैव वर्तताम् । निरूप्यन्ते दश प्राणाः सम्प्रत्येलापदस्थिताः ॥ ३५०॥ समानो मधुरः सान्द्रः कान्तो दीप्तः समाहितः । अग्राह्यः सुकुमारश्च प्रसन्नौजस्विनाविति ॥ ३५१॥ दश प्रणाः समुद्दिष्टा द्व्यष्टसु स्युः पदेष्वपि । कथं ननु दश प्राणाः पदेषु द्व्यष्टसु स्थिताः ॥ ३५२॥ सङ्ख्याविरोध इति चेदत्रेदमभिधीयते । द्वयोस्त्रयाणमपिवा पदानामेक एव चेत् ॥ ३५३॥ प्राणः संयोज्यते कुत्र विरोधेनावरोधनम् । तथाऽपि प्रथमे पादे प्रयोगात्मकमस्ति यत् ॥ ३५४॥ पदं द्वितीयं यदपि द्वितीयाङ्घ्रौ द्वितीयकम् । प्रयोगाख्यं पदं प्राणमेकमेव तयोर्द्वयोः ॥ ३५५॥ योजयेदेकधातुत्वात्समानं नाम नामतः । तया प्रथमपादस्थं यत्पल्लवपदत्रयम् ॥ ३५६॥ यच्च द्वितीयपादस्थं पल्लवाख्यं पदत्रयम् । षण्णामप्येकधातुत्वात्क्रमेणैव द्वयोर्द्वयोः ॥ ३५७॥ मधुराख्यं सान्द्रसंज्ञं कान्ताख्यं चैव योजयेत् । तथा पादत्रयस्थानं द्विखण्डात्मत्वमेयुषाम् ॥ ३५८॥ पदानमेकधातुत्वात्त्रयाणामपि तेष्वतः । एकः एव पुनः प्राणो दीप्तसंज्ञः प्रकीर्तितः ॥ ३५९॥ पदेष्वेकादशस्वेवं पञ्च प्राणास्तु योजिताः । एतेषु द्वादशाद्येषु पञ्चस्वथ यथाक्रमम् ॥ ३६०॥ समाहिताग्राम्यमुखान्प्राणान्पञ्चापि योजयेत् । एवमेलाप्रबन्धस्य द्व्यष्टसङ्ख्यपदेष्वपि ॥ ३६१॥ प्राणा दश वसन्तीति कल्लिनाथेन दर्शितम् । कथं लक्षणमेतेषां प्राणानामभिधीयते ॥ ३६२॥ अल्पाक्षरोऽल्पस्वरश्च समान इति कथ्यते । अयं प्राणो भवत्याद्यद्वितीयाङ्घ्रिगयोर्द्वयोः ॥ ३६३॥ प्रयोगात्मकयोर्योज्यः पदयोरत एव हि । अल्पाक्षरत्वमेतस्य प्रयोगाश्रयणाद्भवेत् ॥ ३६४॥ नन्वक्षरविहीनत्वात्प्रयोगस्य कथं पुनः । अल्पाक्षरत्वमिति चेन्मा विस्मार्षीः पुरोदितम् ॥ ३६५॥ उक्तं ह्येतत्पुरैवाद्यद्वितीयाङ्घ्रिप्रयोगयोः । अन्ते किञ्चित्पदन्यासोऽप्यस्तीत्येतदनुस्मर ॥ ३६६॥ अथ द्वितीयप्राणस्य मधुराख्यस्य लक्षणम् । यः स्वल्पमूर्छनायुक्तः स प्राणो मधुरः स्मृतः ॥ ३६७॥ अल्पत्वं मूर्छनायास्तु तानीकरणतो भवेत् । तत्तानीकरणं यत्स्यादताने तानता पुनः ॥ ३६८॥ तानाद्यस्वरमुच्चार्यारोहे वाऽप्यवरोहके । क्रमान्मध्यस्वराणां च किञ्चित्संस्पर्शमात्रतः ॥ ३६९॥ अन्यस्वरोच्चारणं चेत्तत्तानीकरणं स्मृतम् । प्राणोऽयं मधुरस्त्वाद्यद्वितीयाङ्घ्रिगयोर्द्वयोः ॥ ३७०॥ पल्लवाख्येष्वादिमयोः पदयोर्योजयिष्यते । ततस्तृतीयप्राणस्य सान्द्रसंज्ञस्य लक्षणम् ॥ ३७१॥ यत्राक्षराणां नैबिड्यमल्पत्वं च स्वरावलेः । तारस्थानप्रतिष्ठो यः स सान्द्र इति कथ्यते ॥ ३७२॥ अत्राक्षराणां नैबिड्यं मात्रादिक्यकृतं विधुः । स्वराणां पुनरल्पत्वं धातोरल्पत्वतः स्मृतः ॥ ३७३॥ तरस्थानोत्थितस्याद्यद्वितीयचरणस्थयोः । द्वितीययोः पल्लवाख्यपदयोरुभयोरपि ॥ ३७४॥ स्वपूर्वपदतः किञ्चिदुच्चत्वेन निबन्धनम् । सान्द्रप्राणसमादेशात्कर्तव्यमिति सूचितम् ॥ ३७५॥ कन्तो नाम चतुर्थस्तु प्राणः कान्तध्वनिर्मतः । ध्वनेश्च कान्तता रक्तिविशेषसमवेतता ॥ ३७६॥ प्राणोऽयं कान्तनामाऽऽद्यद्वितीयचरणस्थयोः । अन्त्ययोः पल्लवाख्यानपदयोर्विनियुज्यते ॥ ३७७॥ दीप्तनादो भवेद्दीप्तनामा प्राणस्तु पञ्चमः । स्वरस्य दीप्तता नाम परिपूर्तिरिति स्मृता ॥ ३७८॥ अयमङ्घ्रित्रयेष्वेषु द्विखण्डात्मसु च त्रिषु । पदेषु योजनीयः स्यादित्याहुर्गीतकोविदाः ॥ ३७९॥ समाहिताख्यो यः प्राणः षष्ठस्तस्य तु लक्षणम् । स्थायिवर्णनिविष्टत्वमस्य तात्पर्यमुच्यते ॥ ३८०॥ तृतीयस्य तु पादस्य प्रयोगात्मकमस्ति यत् । पदमाद्यद्वितीयाङ्घ्रिप्रयोगाभ्यां विलक्षणम् ॥ ३८१॥ तत्रोचितस्वरांस्तारस्थायित्वेन प्रकल्प्य च । कृतायां गमकालप्तौ स्थायिस्थः स्यात्समाहितः ॥ ३८२॥ अथाग्राम्याभिधः प्राणः सप्तमस्तस्य लक्षणम् । अक्षराणां स्वराणामप्यावृत्त्याऽग्राम्य उच्यते ॥ ३८३॥ स्वराक्षराणामवृत्तिश्चक्रवालवदुच्यते ॥ प्राणोऽयं ध्रुवखण्डस्य प्रथमे योज्यतां पदे ॥ ३८४॥ प्रसन्नो नाम नवमः प्राणस्तस्य तु लक्षणम् ॥ यत्र तावत्पदानां स्याज्झटित्यर्थप्रबोधनम् ॥ ३८५॥ विविक्तरूपता मन्द्रस्थानादीनां स्वरावलेः । प्रसन्नो नवमः प्राणः कथिरो भरतादिभिः ॥ ३८६॥ ओजस्वी नाम दशमः प्राणस्तस्य तु लक्षणम् । यस्मिन्समासभूयस्त्वं स ओजस्वीति कथ्यते ॥ ३८७॥ कर्तव्यं तच्च भूयस्त्वं तानेषु च पदेषु च । अयमाभोगरूपेऽन्त्ये विनियोज्य पदे स्मृतः ॥ ३८८॥ एवमेलाप्रबन्धस्य द्व्यष्टसङ्ख्यपदेष्वपि । निरूपिता दश प्राणा योजनीया इति स्थितिः ॥ ३८९॥ नो चेत्प्रबन्धपुरुषो निष्प्राणः किमु शोभते । तस्माद्वाग्गेयकारेण यथा प्राणा दशाप्यमी ॥ ३९०॥ एलापदनिविष्टाः स्युस्तथा यत्नो विधीयताम् । तादृगेव भवत्येला कर्तुर्नेतुश्च सौख्यदा ॥ ३९१॥ नो चेदनिष्टदेत्युक्तं मतङ्गेन महात्मना । एलैवं लक्षिता सेयं चतुर्धा परिकीर्तिता ॥ ३९२॥ गणैलाऽऽद्याऽथ मात्रैला वर्णैलाऽथ ततः परम् । देशैला चेति तत्रादौ गणैलायास्तु लक्षण.... ॥ ३९३॥ वक्तुं गणा निरूप्यन्ते समूहो गण उच्यते । स च द्वेधा वर्णगणो मात्रागण इति क्रमात् ॥ ३९४॥ वर्णोऽपि द्विविधः प्रोक्तो गुरुर्लघुरिति क्रमात् । तत्रानुस्वारसंयुक्तो विसर्गेण समन्वितः ॥ ३९५॥ व्यञ्जनान्तस्तथा दीर्घो युक्ताक्षरपरस्तथा । वर्णो यः स गुरुर्ज्ञेयस्तदन्यो लघुरुच्यते ॥ ३९६॥ सानुस्वारो यथा कं खं चं छमित्यादिको गुरुः । सविसर्गो यथा कः ख इत्यादिर्गुरुरुच्यते ॥ ३९७॥ व्यञ्जनान्तस्तदित्यत्र तवर्णो गुरुरुच्यते । दीर्घः काखादिको वर्णो युक्ताक्षरपरो यथा ॥ ३९८॥ सर्वेत्यत्र स इत्येष वर्णो गुरुरिति स्मृतः । पादान्तस्थो लघुर्वर्णो विकल्पेन गुरुर्भवेत् ॥ ३९९॥ गुरुर्द्विमात्रको ज्ञेयो लघुः स्यादेकमात्रकः । ऋजुत्वेन लघुर्लेख्यो वक्रत्वेन गुरुर्लिपौ ॥ ४००॥ जिह्वामूलीययोगे वाऽप्युपध्मानीयसङ्गतौ । रहयोगे लघुर्वर्णो विकल्पेन गुरुर्भवेत् ॥ ४०१॥ तेन युक्तपरत्वोत्थगुरुत्वस्यापवादनम् । यथा --- ``तरुणं सर्षपशाकं नवोदनं पिच्छिलानि च दधीनि । अल्पव्ययेन सुन्दरि ग्राम्यजनो मृषमश्नाति ॥ '' अत्र तावत्सुन्दरीति पदे रीत्येतदक्षरम् ॥ ४०२॥ युक्ताक्षरपरत्वेऽपि लघ्वेव भवति ध्रुवम् । ए औ इं हिं तु चत्वारो दीर्घत्वेऽपि विकल्पतः ॥ ४०३॥ लघवः स्युः पदान्तस्थाः प्राकृतादिष्विति स्थितिः । पदमध्येऽप्यपभ्रंशे हं ह्.... इमित्यमी ॥ ४०४॥ पञ्च वर्णा विकल्पेन लघवः स्युरिति स्थितिः ॥ सानुस्वारत्वसम्प्राप्तं गुरुत्वमिह बाध्यते ॥ ४०५॥ एवं निरूपिता वर्णास्तादृग्वर्णत्रयं पुनः ॥ उक्तो वर्णगणः सोऽपि भवत्यष्टविधो यथा ॥ ४०६॥ मगणो यगणश्चैव रगणः सगणस्तथा । तगणो जगणश्चाथ भगणो नगणस्ततः ॥ ४०७॥ एवमष्टौ गणास्तत्र मगणस्त्रिगुरुर्यथा । कामाक्षीत्यादि यगणस्वरूपमथ कथ्यते ॥ ४०८॥ आदौ लघुर्गुरुद्वन्द्वमन्ते चेद्यगणो भवेत् । भवानीत्यत्र दृष्टान्तो रगणोऽथ निरूप्यते ॥ ४०९॥ आद्यन्तयोर्गुरुर्मध्ये लघुश्चेद्रगणो यथा । अम्बिकेत्यादि सगणस्वरूपमथ कथ्यते ॥ ४१०॥ आदौ लघुद्वयं पश्चाद् गुरुश्चेत्सगणो यथ । गिरिजा नगजेत्यादि तगणोऽथ निरूप्यते ॥ ४११॥ आदौ गुरुद्वयं पश्चाल्लघुश्चेत्तगणो यथा । गौरीशेत्यादि जगणस्वरूपमथ कथ्यते ॥ ४१२॥ आद्यन्तयोर्लघुर्मध्ये गुरुश्चेज्जगणो यथा । महेशेत्यादि तदनु भगणः प्रतिपाद्यते ॥ ४१३॥ गुरुरादौ लघुद्वन्द्वमन्ते चेत्भगणो यथा । शङ्करेत्यादि नगणः स्मृतः सर्वलघुर्यथा ॥ ४१४॥ गिरिशेत्येवमष्टौ च गणः सम्यङ् निरूपिताः । अथैषां देवता भूमिजलाग्निमरुतोऽम्बरम् ॥ ४१५॥ सूर्यचन्द्रौ तथा स्वर्गः क्रमादेषां फलानि तु । श्रीवृद्धिनिधनस्थानभ्रंशनिर्धनतारुजः ॥ ४१६॥ कीर्त्तिमायुश्च शंसन्ति च्छन्दःशास्त्रविशारदाः । तस्मात्स्वस्य च वर्णस्य राजादेश्च सुखार्थिना ॥ ४१७॥ नित्यं वाग्गेयकारेण मगणो यगणस्तथा । भगणो नगणश्चेति गणाश्चत्वार एव हि ॥ ४१८॥ प्रयोक्तव्याः प्रबन्धादौ नान्य इत्यवधार्यताम् । दिङ्मात्रमुक्तमत्रान्यद् वृत्तरत्नाकरे स्फुटम् ॥ ४१९॥ अकाराद्यष्टवर्णानामुच्यते देवतादिकम् । सोमो भैमो बुधो जीवः शुकः सौरी रविस्तमः ॥ ४२०॥ क्रमादकचटानां तपयशानां च देवताः । द्वष्टस्वरा अकाराद्या अवर्गः परिकीर्तितः ॥ ४२१॥ कादिवर्गाः स्फुटाः पञ्च यवर्गस्तु यरौ लवौ । वर्णाः शषसहा ज्ञेयाः शवर्ग इति निर्णयः ॥ ४२२॥ वर्गाणां स्युः फलान्येषामायुः कीर्त्तिरसद्व्ययः । सम्पत्सुभगता कीर्त्तिमान्द्यं मृत्युश्च शून्यता ॥ ४२३॥ प्रयोगे श्लोकगीतादौ स्तुस्तस्योक्तानि सूरिभिः । एवं वर्णगणाः प्रोक्ता वक्ष्ये मात्रागणानथ ॥ ४२४॥ मात्रा कला लघुर्लश्चेत्येते पर्यायवाचकाः । ते च पञ्चविधाः प्रोक्ताश्छगणः पगणस्ततः ॥ ४२५॥ चगणस्तगणश्चैव दगणश्चेत्यनुक्रमात् । षण्मात्रश्छगणस्तत्र यथा गिरिशतनय ॥ ४२६॥ पगणः पञ्चमात्राकः स यथा गजवदन । चतुर्मात्रस्तु चगणो यथा पुरहरेत्ययम् ॥ ४२७॥ त्रिमात्रस्तगणः प्रोक्तो गिरिशेति निदर्शनम् । दगणस्तु द्विमात्रः स्याद्यथा हरशिवादिकः ॥ ४२८॥ अथान्येऽपि निरूप्यन्ते गणा मात्रागणाभिधाः । अत्युक्ता चैव मध्या च प्रतिष्ठा चेति विश्रुताः ॥ ४२९॥ छन्दोविशेषास्तेषं च च्छन्दःशास्तोक्तमात्रकाः । प्रस्तारे ये गणा जाता वृत्तभेदोपपादकाः ॥ ४३०॥ मात्रागणा इति प्रोक्तास्ते गणा भरतादिभिः । अत्युक्तायास्तु चत्वरो भेदास्तत्र प्रकीर्तिताः ॥ ४३१॥ चत्वारश्चापि ते भेदा ज्ञेया रतिगणा इति । किं तु तत्र लपूर्व ये तेष्वादावधिको लघुः ॥ ४३२॥ एवं मध्याभवा भेदा अष्टौ कामगणाः स्मृताः । तद्वत्कामगणा भेदाः प्रतिष्थायास्तु षोडश ॥ ४३३॥ एवं निरूपिता वर्णगणा मात्रागणास्तथा । तत्र वर्णगणैर्बद्धा गणैला परिकीर्तिता ॥ ४३४॥ सा भवेत्त्रिविधा शुद्धा सङ्कीर्णा विकृता तथा । शुद्धा चतुर्विधा नादावती हंसावती तथा ॥ ४३५॥ नन्दावती च भद्रावत्येतासां लक्ष्म कथ्यते । पञ्चभिर्भगणैरन्ते नगणेन समन्वितः ॥ ४३६॥ मगणाद्यैर्वर्णगणैर्बद्धा नादावती स्मृता । गणानां नियमस्त्वाद्यपादे खण्डद्वये परम् ॥ ४३७॥ ततः परं त्विच्छयैव प्रयोक्तव्या गणा इह । अस्यां टक्काभिधो रागो मट्टतालश्च कीर्तितः ॥ ४३८॥ अथ हंसावतीं ब्रूमो यस्यां खण्डद्वयं पुनः । पञ्चभी रगणैरन्ते सगणेन युतैर्भवेत् ॥ ४३९॥ द्वितीयतालहिन्दोलरागाभ्यां सहितोऽप्ययम् । हंसावती गणानां च नियमोऽत्रापि पूर्ववत् ॥ ४४०॥ पदे खण्डद्वये ज्ञेयस्ततो नन्दावतीं ब्रुवे । पञ्चभिस्तगणैरन्ते जगणेन समन्वितैः ॥ ४४१॥ यस्याः खण्डद्वयं सेयं नन्दावत्यभिधीयते । तालोऽत्र प्रतितालाख्यो रागो मालवकैशिकः ॥ ४४२॥ गणानां नियमश्चात्र पदे खण्डद्वये परम् । अथ भद्रावतीं ब्रूमो यस्यां खण्डद्वयं पुनः ॥ ४४३॥ पञ्चभिर्मगणैरन्ते यगणेन युतैर्भवेत् । इति भद्रावती तस्यं तालः कङ्कालनामकः ॥ ४४४॥ रागस्तु कुकुभो नाम गणानां नियमोऽत्र च । द्रष्टव्यः पूर्ववच्छुद्धगणैला इति वर्णिताः ॥ ४४५॥ चतसृष्वपि चैतासु गणैलासु पुरोदितम् । एलाप्रबन्धसामान्यलक्षणं योज्यमिष्यते ॥ ४४६॥ विशेषमात्रमत्रोक्तं सङ्कीर्णविकृताः पुनः ॥ एलास्तु बहुशः सन्ति मतङ्गाद्यागमोदिताः ॥ ४४७॥ श्रीमता शार्ङ्गदेवेन सङ्क्षिप्योक्तासु ताः पुनः । इदानीं नैव लक्ष्ये ताः संलक्ष्यन्तेऽपि कुत्रचित् ॥ ४४८॥ इत्यस्माभिर्विसृज्यैता मात्रैला प्रतिपाद्यते । मात्रागणैर्या च्छगणपगणाद्यैर्निबध्यते ॥ ४४९॥ सा मात्रैला तु तद्भेदा बहुधा मतभेदतः । तत्र विस्तरसन्त्रस्तैरस्माभिरिह कथ्यते ॥ ४५०॥ रतिरेखाभिधानैका मात्रैला पार्वतीमता । तस्यां तावत्त्रिपादात्मन्युद्ग्राहे प्रथमाङ्घ्रिगाः ॥ ४५१॥ मात्रास्त्वेकादशैव स्युस्तथैवाङ्घ्रौ द्वितीयके । एकादशैव मात्राः स्युस्तृतीये तु दश स्मृताः ॥ ४५२॥ रतिलेखेति तामाह श्रीमहेश्वरवल्लभा । मात्रैलेत्थं निगदिता वर्णैलाऽद्य निरूप्यते ॥ ४५३॥ गणानमपि मात्राणां नियमेन विनैव या । विभज्यते सा वर्णैला चतुर्विंशतिधा च सा ॥ ४५४॥ षडक्षराङ्घ्रिखण्डादेरेकोनत्रिंशदक्षरम् । यावदेकैकवृद्धाः स्युश्चतुर्विंशतिरत्र तु ॥ ४५५॥ मट्टद्वितीयकङ्कालप्रतितालेषु कश्चन । तालः स्यादिति वर्णैला वर्णिताऽथ निरूप्यते ॥ ४५६॥ देशैला देशभाषाभिर्निबद्धाः परिकीर्तिताः । कर्णाटलाटगौलान्ध्रद्रविडानां प्रभेदतः ॥ ४५७॥ सा च पञ्चविधा प्रोक्ता तत्र कर्णाटभाषया । निबद्धा या भवेदेषा कर्णाटैलेति कथ्यते ॥ ४५८॥ लाटभाषानिबद्धा तु लाटैला परिकीर्तिता । गौडभाषाविरचिता गौडैला समुदाहृता ॥ ४५९॥ आन्ध्रभाषानिबद्धाः स्युरान्ध्रैला समुदीरिताः । द्राविड्या भाषया बद्धा द्राविडैलेति कथ्यते ॥ ४६०॥ एलाप्रबन्धसामान्यलक्षणं यदुदाहृतम् । तल्लक्षणयुतैवैला बद्धा देशीयभाषया ॥ ४६१॥ देशैलापदवाच्यत्वं भजतीत्यवधार्यताम् । कर्णाटैलाऽऽदिमध्यान्तवर्णानुप्रासभासुरा ॥ ४६२॥ अन्त्यप्रासा तु लाटी स्याद् भूयो रसविराजिता । गमकप्रासनिर्मुक्ता गौडीत्वेकरसा मता ॥ ४६३॥ नानाप्रयोगरागांशरसभावोत्कटाऽऽन्ध्रिका । भूरिभावरसोत्कर्षं द्राविडी प्रासवर्जिता ॥ ४६४॥ इत्थमेलाऽत्र सङ्क्षिप्य प्रोक्ता लक्ष्यज्ञसम्मता । एलानां त्रिशती प्रोक्ता षट्पञ्चाशत्समन्विता ॥ ४६५॥ निर्युक्तोऽयं प्रबन्धः स्यात्तालादिनियमो यतः । त्रिधातुर्वा चतुर्धातुर्मेलापकविकल्पतः ॥ ४६६॥ पदतालाङ्गयुगलबद्धस्तारावलीयुतः । अथोद्देशक्रमप्राप्तढेङ्कीलक्षणमुच्यते ॥ ४६७॥ यतोद्ग्राहस्य पूर्वार्धं द्विवारं परिगीयते । उत्तरार्धं सकृच्चैव प्रयोगात्मा ततः परम् ॥ ४६८॥ मेलापकः स तु भवेन्न भवेद्वा विकल्पतः । एतावुद्ग्राहमेलापौ तालेन रहितौ स्मृतौ ॥ ४६९॥ अथ वा ढेङ्किकातालकङ्कालान्यतरान्वितौ । विलम्बितलयौ चैव कर्तव्याविति निर्णयः ॥ ४७०॥ लयान्तरेऽन्यतालेन ध्रुवाभोगौ ततस्तु तौ । ध्रुवस्त्रिखण्डस्तत्राद्ये खण्डे द्वे समधातुके ॥ ४७१॥ तृतीयं भिन्नधातु स्याद् द्विर्गेयस्तादृशो ध्रुवः । आभोगोऽथ सकृद्गेयः प्रबन्धं सकलं पुनः ॥ ४७२॥ गीत्वा भवेद् ध्रुवे न्यासो यस्यां सा ढेङ्किका स्मृता । रगणो ढेङ्किका कैश्चिदेषा प्रोक्ता तथा जनैः ॥ ४७३॥ ढेङ्कितालस्य लक्ष्मेदं कङ्कालस्य तु लक्षणम् । उक्तश्चतुर्धा कङ्कालः पूर्णः खण्डः समोऽसमः ॥ ४७४॥ चतुर्द्रुती गलौ पूर्णः खण्डो द्वौ च गुरुद्वयम् । समो गुरू लघ्वन्तौ विषमो लाद् गुरुद्वयम् ॥ ४७५॥ चतुर्धा ढेङ्किका मुक्तावली स्याद् वृत्तबन्धिनी । युग्मिनी वृत्तमाला च तत्र वृत्तं न विद्यते ॥ ४७६॥ यस्यां मुक्तावली सा स्याद् वृत्तं यत्रैकमेव चेत् । सा वृत्तबन्धिनी यस्यां द्वे वृत्ते सा तु युग्मिनी ॥ ४७७॥ बहूनि यत्र वृत्तानि वृत्तमाला तु सा भवेत् । त्रिधा तिस्रो द्वितीयाद्या वर्णिका गणिका तथा ॥ ४७८॥ मात्रिका वर्णजैर्वृत्तैर्गणजैर्मात्रिकैरपि । दशापि स्युः पुनस्त्रेधा समालङ्करणा यथा ॥ ४७९॥ विषमालङ्कृतिश्चित्रालङ्कृतिर्लक्षणानि तु । समाऽलङ्करसङ्ख्या च विषमा मिश्रिता क्रमात् ॥ ४८०॥ निर्युक्तोऽयं प्रबन्धः स्याच्छन्दस्तालादियन्त्रणत् । त्रिधातुर्वा चतुर्धातुर्मेलापकविकल्पितः । पदतालाङ्गयुगलबद्धस्तारावलीयुतः ॥ ४८१॥ (एतावानेवाऽयं ग्रन्थ उपलब्धः ।) इति श्रीमदद्वैतविद्याचार्यसाग्निचित्यसर्वतोमुखातिरात्र- साग्निचित्याप्तवाजपेययाजिगोविन्ददीक्षित- नागमाम्बिकावरद्वितीयनन्दनस्य साग्निचित्यसर्वक्रतुयाजि- यज्ञनारायणदीक्षिताव्यवहितानुजस्याच्युत- विजयराघवभूपालप्रेरितस्य वेङ्कटेश्वरदीक्षितस्य कृतौ चतुर्दण्डीप्रकाशिकायाम् नवमं प्रबन्धप्रकरणम् (असम्पूर्णम्) । इति मूलग्रन्थः ।

चतुर्दण्डीप्रकाशिका - अनुबन्धः

॥ श्रीः ॥ श्री मुद्दुवेङ्कटमखिविरचितः । अथ रागाङ्गरागणां नामान्युच्यन्त आदितः । (१)कनकाम्बरिरागः स्यात्(२)फेनद्युतिरतः परम् ॥ १॥ (३)गानसामवराली च (४)भानुमत्याख्यरागकः । (५)मनोरञ्जनिकाराग(६)स्तनुकीर्त्तिस्ततः परम् ॥ २॥ (७)सेनाग्रणी(८)र्जनतोडिः स्याद् (९)धुभिन्नषड्जकः । (१०)नटाभरणरागश्च (११)कोकिलारव एव च ॥ ३॥ (१२)रूपावती ततो(१३)गेयहेज्जज्जीराग एव च । (१४)वाटीवसन्तभैरव्या (१५)मायामालवगौलकः ॥ ४॥ स्या(१६)त्तोयवेगवाहिन्या(१७)श्छायावती ततः परम् । (१८)जयशुद्धमालवी स्या(१९)ज्झङ्कारभ्रमरीति च ॥ ५॥ (२०)नारीरीतिगौलरागः (२१)किरणावलिरागकः । (२२)श्रीरागः स्याद् (२३)गौरिवेलावली (२४)वीरवसन्तकः ॥ ६॥ स्या(२५)च्छरावतिकाराग(२६)स्तरङ्गिणी ततः परम् । (२७)सौरसेनाख्यरागोऽथ (२८)हरिकेदारगौलकः ॥ ७॥ (२९)शङ्कराभरणो धीरो (३०)नागाभरणमेव च । (३१)कलावती (३२)रागचूडामणि(३३)गङ्गातरङ्गिणी ॥ ८॥ (३४)भोगच्छायानाट(३५)शैलदेशाक्षी (३६)चलनाटकः । एते पूर्वाङ्गरागाः स्युरुत्तराङ्गानथ ब्रुवे ॥ ९॥ (३७)सौगन्धिनी (३८)जगन्मोहनाऽथ (३९)धालिवरालिका । (४०)नभोमणिः (४१)कुम्भिनी च (४२)रविक्रिया तथैव च ॥ १०॥ (४३)गीर्वाणी च (४४)भवानी च (४५)शैवपन्तुवरालिका । (४६)स्तवराजोऽथ (४७)सौवीररागो (४८)जीवन्तिका तथा ॥ ११॥ (४९)धवलाङ्गो (५०)नामदेशी (५१)काशिरामक्रिया तथा । (५२)रमामनोहरीरागो (५३)गमकक्रियरागकः ॥ १२॥ (५४)वंशवती (५५)शामला च (५६)चामरा च (५७)सुमद्युतिः । (५८)देशिसिंहरवो (५९)धामवती (६०)निषधरागकः ॥ १३॥ स्यादतः (६१)कुन्तलो रागो (६२)रतिप्रिया ततः परम् । (६३)गीतप्रिया (६४)भूषावत्यौ (६५)शान्तकल्याणिरागकः ॥ १४॥ (६६)चतुरङ्गिणि (६७)सन्तानमञ्जर्यौ (६८)जोतिरागकः । (६९)धौतपञ्चमरागश्च (७०)नासामणिरतः परम् ॥ १५॥ (७१)कुसुमाकररागोऽथ (७२)रसमञ्जरिरागकः । उपाङ्गरागा उच्यन्ते तत्तन्मेलसमुद्भवाः ॥ १६॥ गानसामवराल्यास्तु मेले पूर्ववरालिका । भिन्नपञ्चमरागश्चेति रागद्वयमुदीरितम् ॥ १७॥ जनतोडीरागमेले रागो नागवरालिका । भाषाङ्गरागाः पुन्नागवरालीराग ईरितः ॥ १८॥ धुनिभिन्नषड्जमेले रागो मोहननाटकः । भूपालश्चोदयरविचन्द्रिका च प्रकीर्तिताः ॥ १९॥ वसन्तभैरवीमेले जातो ललितपञ्चमः । मायामालवगौलस्य मेले सालङ्गनाटकः ॥ २०॥ छायागौलोऽथ मङ्गल्यकैशिकी मेघरञ्जनी । गुम्मकाम्बोजिटक्कौ च नादरामक्रिया तथा ॥ २१॥ पाडी च रेवगुप्तिः कन्नडबङ्गालगौलिका । ललितो गुर्जरी गुण्डक्रिया मलहरीति च ॥ २२॥ बौल्यार्द्रदेशिकारागावथ भाषाङ्गमुच्यते । सौराष्ट्रः पौरवी गौलीपन्तुर्मारुवरागकः ॥ २३॥ सावेरी चाथ मालवपञ्चमः पूर्णपञ्चमः । मार्गदेशी रामकली फर्जुर्गौरी वसन्तकः ॥ २४॥ वेहवाहिनेमेले तु भाषाङ्गं भैरवोऽजनि । नारीरीतिगौलमेले जातो हिन्दोलरागकः ॥ २५॥ नागगान्धारिकाऽऽनन्दभैरवी तदनन्तरम् । घण्टारवो मार्गहिन्दोलो हिन्दोलवसन्तकः ॥ २६॥ आभेरी चेत्युपाङ्गानि त्वथ भाषाङ्गलक्षणाः । भैरव्याहरिधन्यशीगोपिकाद्यवसन्तकाः ॥ २७॥ अथ श्रीरागमेले तु मणिरङ्गुस्ततः परम् । स्यात्सालगभैरवी च शुद्धधन्याशिरागकः ॥ २८॥ रागः कन्नडगौलश्च शुद्धदेशी ततः परम् । देवगान्धारिकामालवश्रीरेत उपाङ्गकाः ॥ २९॥ भाषाङ्गाः श्रीरञ्जनी च कापीरागो हुशानिका । बृन्दावनी सैन्दविकाऽथ माधवमनोहरी ॥ ३०॥ स्यान्मध्यमावती देवमनोहरी ततः परम् । नाटकुरञ्जिरागश्चेत्येते भाषाङ्गलक्षणाः ॥ ३१॥ हरिकेदारगौलस्य मेले तु बलहंसकः । रागोऽथ माहुरीदेवक्रियाऽऽन्धाली च रागकाः ॥ ३२॥ छायातरङ्गिणीनारायणगौलाख्यरागकौ । नटनारायणीरागोऽप्यथ भाषाङ्गमुच्यते ॥ ३३॥ भाषाङ्गरागाः काम्भोजी कन्नडेशमनोहरी । सुरटश्च येरुकुलकाम्भोज्याठाण इत्यपि ॥ ३४॥ नीलम्बरी चेत्येते हि रागा भाषाङ्गलक्षणाः । शङ्कराभरणे मेले जाता रागाः कुरञ्जिका ॥ ३५॥ नारायणी चारभी च रागाः शुद्धवसन्तकः । स्यान्नारायणदेशाक्षी सामो वै पूर्वगौलकः ॥ ३६॥ नागधविश्चेत्युपाङ्गान्यथ भाषाङ्गलक्षणाः । बिलाहरी बेगडश्चाथ रागः पूर्णचन्द्रिका ॥ ३७॥ सारस्वतमनोहारी केदारो नवरोजुका । शैवपन्तुवरालिश्च सिन्दुरामक्रिया तथा ॥ ३८॥ अथ रामक्रियामेले कुमुदक्रियदीपकौ । शान्तकल्याणिमेले तु यम्नाकल्याणिमोहने ॥ ३९॥ घनरागा नाटगौलौ वराली बौलिरेव च । श्रीराग आरभिश्चैव मालवश्रीस्ततः परम् ॥ ४०॥ रीतिगौलोऽष्टरागास्ते घनरागाः प्रकीर्तिताः । भैरवी केदारगौलः कल्याणी च ततः परम् ॥ ४१॥ काम्भोजी तोडियेरुकुलकाम्भोजी राग एवे च । पुन्नागो बेगडः शङ्कराभरणस्तथैव च ॥ ४२॥ पन्तुवराली बिलहरी चाथ नवरोजुका । मध्यमावतिधन्याशी सौराष्ट्रिकाऽपि मोहना ॥ ४३॥ शुद्धसावेरिसावेर्यानन्दभैरव आहरी । घण्टारवः कन्नडश्च नीलाम्बरी मुखारिका ॥ ४४॥ नाटकुरञ्जिसारङ्गौ हुशानी गौलिपन्तुका । गुम्मकाम्भोजिभूपालरागौ मङ्गलकैशिकी ॥ ४५॥ मलारिर्देवगान्धारी नादरामक्रिया तथा । असावेरीपूर्वगौरीसैन्धव्यो रक्तिरागकाः ॥ ४६॥ सुरटी दरुबारश्च नायकी यमुना च सा । पूर्व्या कल्याण्यठाणानी बृन्दावनी जुजावती ॥ ४७॥ देवगान्धारिफरजुरामकल्याथ शाहना । भैरवश्च वसन्तश्च गौरी तोडी बिबासु च ॥ ४८॥ हम्वीरुश्च बलावलुधनासरिमलारुकाः । ककुभो माञ्जिपूर्वी चेत्येते देशीयरागकाः ॥ ४९॥ (१) कनकाम्बरि कनकाम्बरिरागोऽसावारोहे गनिवर्जितः । निवक्रः सर्वकालेषु गीयते गायकोत्तमैः ॥ शुद्धस्वरो मुखारिश्चाप्यारोहे गनिवर्जितः । सम्पूर्णः सग्रहोपेतः सर्वकालेषु गीयते ॥ १॥ शुद्धसावेरिकारागः पञ्चमग्रहसंयुतः । निगलोपादौडवोऽयं सायङ्काले प्रगीयते ॥ २॥ (२) फेनद्युति रागः फेनद्युतिः सग्रहश्चारोहे गवर्जितः । निवक्रः सर्वकालेषु गीयते लक्ष्यकोविदैः ॥ (३) गानसामवराळि सम्पूर्णा सग्रहा सामवराली सार्वकालिका ॥ पूर्णा पूर्ववराली स्यादारोहे गनिवर्जिता । षड्जग्रहा सर्वकाले गीयते गायकोत्तमैः ॥ १॥ भिन्नपञ्चमरागोऽयमारोहे वै धवर्जितः । षड्जग्रहः सर्वकाले गीयते गायकोत्तमैः ॥ २॥ (४) भानुमति षड्जग्रहा भानुमती सम्पूर्णा सार्वकालिका ॥ (५) मनोरञ्जनि मनोरञ्जनिका पूर्णा सग्रहा सार्वकालिकी । अवरोहे गवक्रा स्यादेवं गायन्ति गायकाः ॥ (६) तनुकीर्ति अवरोहे धवक्रश्चेत्तनुकीर्त्तिस्तु सम्मतः । षड्जग्रहः सर्वकाले गीयते गायकोत्तमैः ॥ (७) सेनाग्रणि सेनाग्रणीरित्यारोहे मधवक्रस्तु रागकः । सग्रहः सर्वकालेषु गीयते गायकोत्तमैः ॥ (८) जनतोडि तोडिः षड्जग्रहः पूर्णः सायङ्काले प्रगीयते ॥ आरोहे चावरोहे च पवक्रा सार्वकालिकी । षड्जग्रहेति विज्ञेया रागो नागवरालिका ॥ १॥ मन्द्रषड्जनिषादोर्ध्वधैवतान्तप्रमाणका । स्यात्पुन्नागवरालिस्तु सग्रहा सार्वकालिकी ॥ २॥ असावेर्याख्यरागश्चाप्यारोहे गनिवर्जितः । सम्पूर्णः सग्रहोपेतः सर्वकालेषु गीयते ॥ ३॥ (९) भिन्नषड्जम् भिन्नषड्जाख्यरागोऽयमृषभग्रहसंयुतः । सम्पूर्णः प्रथमे यामे दिनस्य परिगीयते ॥ आरोहे चावरोहे च धवक्रा रिषभच्युतिः । गीयते सर्वकालेषु मोहनानाटकाभिधा ॥ १॥ भूपालः सग्रहोपेत औडुवो मनिवर्जितः । प्रातःकालेषु गातव्यः सर्वसम्पत्प्रदायकः ॥ २॥ रिधत्यक्तोदयरविचन्द्रिका त्वौडुवी मता ॥ ३॥ (१०) नटाभरणम् नटाभरणरागः स्यादारोहे रिषभोज्झितः । आरोहे चावरोहे च धवक्रः सार्वकालिकः ॥ (११) कोकिलारवम् कोकिलारवः सम्पूर्ण आरोहे च गवर्जितः । सग्रहः सर्वकालेषु गीयते गायकोत्तमैः ॥ (१२) रूपवति आरोहे स्याद्रूपवती गधनीवर्जिता क्रमात् । अवरोहे धवक्रा स्याद्रिवर्ज्या सार्वकालिकी ॥ (१३) गेयहेज्जज्जि हेज्जज्जिरागः सम्पूर्ण आरोहे च निवर्जितः । मध्यमग्रहसंयुक्तः सायङ्काले प्रगीयते ॥ (१४) वाटीवसन्तभैरवि वसन्तभैरवीरागः सम्पूर्णः स्वल्पपञ्चमः । षड्जग्रहसमायुक्तः सायङ्काले प्रगीयते ॥ ललितः पञ्चमः पूर्णः षड्जग्रहसमन्वितः । आरोहे रिपवर्ज्यः स्यात्सर्वकालेषु गीयते ॥ १॥ (१५) मायामाळावगौळ पूर्णो मालवगौलाख्यः सग्रहो गीयते सदा ॥ सालङ्गनाटः सम्पूर्ण आरोहे गनिवर्जितः । षड्जग्रहान्वितः सायंसन्ध्याकाले प्रगीयते ॥ १॥ छायागौलश्च सम्पूर्ण आरोहे गनिवर्जितः । निषादग्रहसंयुक्तः सायङ्काले प्रगीयते ॥ २॥ च्युतपञ्चमसंयुक्ता वक्रारोहाऽवरोहणे । सम्पूर्णा सग्रहोपेता सा स्यान्मङ्गलकैशिकी ॥ ३॥ औडुवी पधवर्ज्या रिवक्रा स्यादवरोहणे । षड्जग्रहेण संयुक्ता गातव्या मेघरञ्जनी ॥ ४॥ मेचबौलिस्तु सम्पूर्णा चारोहे मनिवर्जिता । षड्जग्रहसमायुक्ता गेया गायकसत्तमैः ॥ ५॥ षाडवष्टक्करागः स त्वारोहे च रिवर्जितः । अवरोहे निवर्ज्यः स्यात्सग्रहो गीयते सदा । रोहेऽप्यवरोहे च क्वचित्स्यादल्पपञ्चमः ॥ ६॥ नादरामक्रिया पूर्णा सायं गेया हि सग्रहा ॥ ७॥ पाडिः षड्जग्रहो वक्रधैवतस्तु गवर्जितः । षाडवः पूर्वरात्रे तु गेयो गान्धर्वकोविदैः ॥ ८॥ औडुवो रेवगुप्तिस्तु रिग्रहो मनिवर्जितः । दिनस्य चरमे यामे गेयो गायकसत्तमैः ॥ ९॥ रागः कर्णाटबङ्गालः षाडवो गग्रहान्वितः । निवर्ज्यः प्रातरुद्गेय आरोगे गच्युतः क्वचित् ॥ १०॥ गौलस्तु षाडवो रागो निग्रहो धैवतोज्झितः । सदा वक्रितगान्धारः सर्वकालेषु गीयते ॥ ११॥ ललिता सग्रहा प्रातर्गेया पञ्चमवर्जिता ॥ १२॥ सम्पूर्णा गुर्जरी प्रातर्गीयते रिग्रहान्विता ॥ १३॥ गुण्डक्रियः सग्रहोऽयमवरोहेऽल्पधैवतः । सम्पूर्णः पूर्वयामे तु गातव्यो गायकोत्तमैः ॥ १४॥ भवेन्मलहरीरागो निच्युतो धैवतग्रहः । षाडवो गीयते प्रातरारोहे तु गवर्जितः ॥ १५॥ सग्रहो बौलिरागस्तु श्रीदो मध्यमवर्जितः । तुरीययामे गेयः स्यादारोहे तु निवर्जितः ॥ १६॥ आर्द्रदेशी भवेत्पूर्णा सग्रहा सार्वकालिकी ॥ १७॥ षड्जग्रहा देवरञ्जी चौडुवी रिगवर्जिता ॥ १८॥ सौराष्ट्ररागः सम्पूर्णः सग्रहः सार्वकालिकः । पञ्चश्रुतिर्धैवतस्तु क्वचित्श्ताने प्रयुज्यते ॥ १९॥ पूर्विरगश्च सम्पूर्णः सग्रहः सार्वकालिकः ॥ २०॥ सग्रहो गौलिपन्तुः स चारोहे गधवर्जितः । सम्पूर्णः सर्वकालेषु गीयते गायकोत्तमैः ॥ २१॥ रिवर्ज्य आरोहे पूर्णो मारुवस्तु ससग्रहः । गीयते सर्वकालेषु गानतत्वविशारदैः ॥ २२॥ सावेरिरागः पूर्णोऽयमारोहे गनिवर्जितः । गनी त्रित्रिश्रुती लक्ष्ये क्वचिद्गायन्ति गायकाः ॥ २३॥ धवर्जितः स्यादारोहे पूर्णो मालवपञ्चमः । षड्जग्रहसमायुक्तः सर्वकालेषु गीयते ॥ २४॥ निवर्ज्यः सग्रहोपेतः षाडवः पूर्णपञ्चमः ॥ २५॥ निषादो वर्जितो यत्र मध्यमो वक्रतां गतः । षाडवी सग्रहोपेता मार्गदर्शीति सा स्मृता ॥ २६॥ रागो रामकली ज्ञेया ह्यारोहे मनिवर्जिता । षड्जग्रहा तु सम्पूर्णा प्रातःकालेषु गीयते ॥ २७॥ फरजूरागः सम्पूर्णः सग्रहः सार्वकालिकः ॥ २८॥ गौरीरागः सग्रहोऽयं सायङ्काले प्रगीयते । च्युतपञ्चमसंयोज्यो गीयते गायकोत्तमैः ॥ २९॥ वसन्तरागः सम्पूर्णश्च्युतपञ्चमसंयुतः । आरोहे तु गवक्रः स्याद्रिवर्ज्यो गीयते सदा ॥ ३०॥ (१६) तोयवेगवाहिनि गेया षद्जग्रहोपेता सम्पूर्णा वेगवाहिनी ॥ भैरवः सग्रहः पूर्णः प्रातःकाले प्रगीयते ॥ १॥ (१७) छायावति छायावती स्यादारोहे पवर्ज्य सार्वकालिकी ॥ (१८) जयशुद्धमाळवि शुद्धमालविरागस्तु सम्पूर्णो वक्रधैवतः ॥ (१९) झङ्कारभ्रमरि झङ्कारभ्रमरीराग आरोहे तु निवर्जितः । गीयते सर्वकालेषु गानशास्त्रविशारदैः ॥ १॥ (२०) नारीरीतिगौल निग्रहो रीतिगौलाख्य आरोहे तु धवर्जितः । सम्पूर्णश्चैष गातव्यः सायाह्ने गीतकोविदैः ॥ हिन्दोलस्त्वौडुवो रागः पञ्चमर्षभवर्जितः । षड्जग्रहेण संयुक्तो गातव्यः सर्वदा बुधैः ॥ १॥ सम्पूर्णा नागगान्धारी ह्यारोहे च गवर्जिता । षड्जग्रहा सर्वकाले गेया गातकसत्तमैः ॥ २॥ आरोहे रिषभं त्यक्त्वा धवक्रं च समाश्रिता । सम्पूर्णा सग्रहोपेता भवेदानन्दभैरवी ॥ ३॥ घण्टारवस्तु सम्पूर्णः सायं गेयश्च धग्रहः ॥ ४॥ मार्गहिन्दोलरागः स्यादारोहे च रिवर्जितः । अवरोहे निपावर्ज्यो रिवक्रो ग्रहषड्जकः ॥ ५॥ स्याद्दिन्दोलवसन्तस्तु रिषभेण हि वर्जितः । आरोहणे निवर्ज्यः स्यादवरोहे निवक्रितः ॥ ६॥ आभेरी सग्रहा पूर्णा स्यादारोहे निवर्जिता ॥ ७॥ नवरत्नविलासस्तु निवर्ज्यः षाडवो मतः ॥ ८॥ सम्पूर्णो भैरवीरागः सायङ्काले प्रगीयते । पञ्चश्रुतिर्धैवतोऽत्र क्वचित्स्थाने प्रयुज्यते ॥ ९॥ आहिरी सा तु सम्पूर्णा सग्रहा श्रोत्ररञ्जनी । गीतोक्तमेलमार्गेण बाणयामे प्रगीयते ॥ १०॥ धन्याशिरागः सम्पूर्ण आरोहे रिधवर्जितः । गानतत्वार्थविद्भिः स प्रातःकाले प्रगीयते ॥ ११॥ स्याद्गोपिकावसन्ताख्यः पूर्णः षड्जग्रहान्वितः । आरोहे तु धवक्रः स्यादवरोहे रिवक्रितः ॥ १२॥ माञ्जिरागस्तु सम्पूर्णः सग्रहो गीयते सदा ॥ १३॥ मुखार्याख्यः स रागः स्यादारोहे गनिवर्जितः । सम्पूर्णः सग्रहोपेतः सर्वकालेषु गीयते ॥ १४॥ (२१) किरणावलि किरणावलिरागस्तु सम्पूर्णः सग्रहान्वितः । पवक्रं त्यक्तगान्धारमारोहे चावरोहणे । धमयोर्वक्रतां कृत्वा सर्वकालेषु गीयते ॥ (२२) श्री श्रीरागः सग्रहः पूर्णश्चारोहे चाल्पधैवतः । अवरोहे गवक्रः स्यात्सायं गेयः शुभावहः ॥ मणिरङ्गुः सग्रहात्तः षाडवोऽयं धवर्जितः । गवर्जितः स्यादारोहे सर्वकालेषु गीयते ॥ १॥ सम्पूर्णा सग्रहोपेता चारोहे पधवर्जिता । दिनस्य चरमे यामे गेया सालगभैरवी ॥ २॥ प्रातर्गेया रिधत्यक्ता शुद्धधन्याशिका स्मृता । षड्जग्रहसमायुक्तौडुवीति च निगद्यते ॥ ३॥ रागः कन्नडगौलोऽयं निषादग्रहसंयुतः । अवरोहे धवर्ज्यः स्यात्सायाह्नेषु प्रगीयते ॥ ४॥ षड्जग्रहः शुद्धदेशी त्यारोहे च गवर्जितः । पूर्णो धवक्र आरोहेऽप्यवरोहे पवक्रितः ॥ ५॥ सम्पूर्णा देवगान्धारी षड्जग्रहसमन्विता । रिधवक्रा तथाऽऽरोहे प्रातःकाले च गीयते ॥ ६॥ रिवर्जिता मालवश्रीरारोहे तु धवर्जिता । षड्जग्रहा षाडवी च सर्वयामेषु गीयते ॥ ७॥ श्रीरञ्जनी षाडवी च पवर्ज्या सार्वकालिकी ॥ ८॥ कापिरागश्च सम्पूर्णः सग्रहः सार्वकालिकः ॥ ९॥ हुशानिरागः सम्पूर्णः सग्रहः सार्वकालिकः ॥ १०॥ बृन्दावनी त्वौडुवी च सग्रहा गधवर्जिता ॥ ११॥ सैन्धवी सग्रहा पूर्णा चारोहे तु धवक्रिता ॥ १२॥ सम्पूर्णा सग्रहोपेता चारोहे तु धवक्रिता । पवर्जिताऽवरोहे च स्यान्माधवमनोहरी ॥ १३॥ मध्यमादिस्तु रागोऽयं मध्यमग्रहसंयुतः । गधलोपादौडुवः स्यात्सायङ्काले च गीयते ॥ १४॥ गवर्जितः षाडवोऽयं रागो देवमनोहरी । आरोहे चावरोहे च धवक्रः सग्रहान्वितः ॥ १५॥ पूर्णो रुद्रप्रियारागश्चावरोहे धवर्जितः ॥ १६॥ दरुबारुश्च सम्पूर्णो लक्ष्यमार्गेण गीयते ॥ १७॥ सहनारागस्तु पूर्णः षड्जग्रहसमन्वितः । आरोहे तु पवक्रश्च गीयते लक्ष्यवेदिभिः ॥ १८॥ सम्पूर्णो नायकीरागः षड्जग्रहसमन्वितः । लक्ष्यमार्गानुसारेण गीयते सार्वकालिकः ॥ १९॥ (२३) गौरिवेलावली रागो वेलावलिर्ज्ञेयो ह्यारोहे गनिवर्जितः । धैवतग्रहसंयुक्तः प्रातःकाले प्रगीयते ॥ (२४) वीरवसन्तम् रागो वीरवसन्ताख्यो गवर्ज्यो वक्रधैवतः । अवरोहे धवर्ज्यः स्यात्सम्पूर्णः सार्वकालिकः ॥ (२५) शरावति पूर्णः शरवतीराग आरोहे रिगवर्जितः । सग्रहः सर्वकालेषु गीयते गायकोत्तमैः ॥ (२६) तरङ्गिणि पूर्णस्तरङ्गिणीराग आरोहे रिगवर्जितः । अवरोहे पधनिधरिगमागरिसंयुतः । गीयते सर्वकालेषु सग्रहश्चोच्यते बुधैः ॥ (२७) सौरसेन सौरसेनाभिधो रागस्त्ववरोहे रिवर्जितः । सम्पूर्णः सर्वकालेषु गीयते सग्रोऽपि च ॥ (२८) हरिकेदारगौळ केदारगौलः सम्पूर्णस्त्वारोहे गधवर्जितः । निषादग्रहसंयुक्तः सायङ्काले प्रगीयते ॥ बलहंसाख्यरागोऽयमारोहे च निवर्जितः । सग्रहः सर्वकालेषु गीयते गायकोत्तमैः ॥ १॥ सम्पूर्णो माहुरीराग आरोहे गनिवर्जितः । षड्जग्रहसमायुक्तः सर्वकालेषु गीयते ॥ २॥ देवक्रिया चौडुवी स्याद्गनिवर्ज्याऽथ सग्रहा ॥ ३॥ आरोहे चावरोहे च धवर्ज्याऽन्धालिका मता ॥ ४॥ सम्पूर्णा सग्रहोपेता गेया च्छायातरङ्गिणी ॥ ५॥ स्यानारायणगौलस्तु सम्पूर्णो निग्रहान्वितः । आरोहे गधवर्ज्यश्च विन्यासाद्विद्यते क्वचित् ॥ ६॥ नटनारायणीरागश्चारोहे हि गवर्जितः । निवर्ज्यः षाडवस्तु स्याद्गीयते सततं बुधैः ॥ ७॥ काम्भोजिरागः सम्पूर्णश्चारोहे गनिवर्जितः ॥ ८॥ कन्नडरागः सम्पूर्णश्चारोहे रिषभः क्वचित् ॥ ९॥ षड्जग्रहा च सम्पूर्णा भवेदीशमनोहरी ॥ १०॥ सुरटो राग आरोहे गधौ त्यक्त्वा प्रगीयते ॥ ११॥ आरोहे गनिवर्ज्यश्च सग्रहः सार्वकालिकः । स्यादेरुकुलकाम्भोजीराग इत्युच्यते बुधैः ॥ १२॥ अठाणारागः सम्पूर्णः सग्रहः सार्वकालिकः ॥ १३॥ परिवर्ज्याऽवरोहे तु रागो नाटकुरञ्जिका । षड्जग्रहसमायुक्ता गीयते गानवेदिभिः ॥ १४॥ जुजावन्त्याख्यरागश्च सम्पूर्णः सग्रहान्वितः । लक्ष्यमार्गानुसारेण गीयते गानवेदिभिः ॥ १५॥ (२९) धीरशङ्कराभरणम् शङ्कराभरणं पूर्णं सायं गेयं च सग्रहम् ॥ कुरञ्जिरागः सम्पूर्ण आरोहे तु धवर्जितः । अवरोहे धवक्रः स्यात्सर्वकालेषु गीयते ॥ १॥ पूर्णो नारायणीरागो गग्रहः प्रातरिष्यते ॥ २॥ आरभिः सर्वदा गेय आरोहे गनिवर्जितः । क्वचिदारोहसंयुक्तनिषादो निग्रहो भवेत् ॥ ३॥ शुद्धो वसन्तरागोऽयं सम्पूर्णः सार्वकालिकः ॥ ४॥ सम्पूर्णः सग्रहो नारायणदेशाक्षिरागकः ॥ ५॥ षड्जग्रहो निवर्ज्यः स्यादारोहे च गवर्जितः । सामराग इति ख्यातः सर्वकालेषु गीयते ॥ ६॥ आरोहे पूर्वगौलस्तु गवर्ज्यः सार्वकालिकः ॥ ७॥ आरोहे वक्ररिषभो धरिवक्रोऽवरोहणे । नागध्वन्याख्यरागोऽयं सग्रहः सार्वकालिकः ॥ ८॥ औडुवि मधवर्ज्यत्वाद्धंसध्वनिरिहेष्यते ॥ ९॥ आरोहे मध्यमे वक्रः क्वचिद्योगो निषादकः । बिलाहुरीरागगत्या सर्वकालेषु गीयते ॥ १०॥ रिवर्ज्याऽऽरोहे सम्पूर्णा बेगडा सार्वकालिकी ॥ ११॥ रागः पूर्णचन्द्रिकाख्यः सम्पूर्णः सग्रहोऽपि च । अवरोहे धवर्ज्यः स्याद्गवक्रः सार्वकालिकः ॥ १२॥ त्यक्तपञ्चमकाऽऽरोहे सारस्वतमनोहरी । अवरोहे रिवक्रा स्यात्सग्रहा सार्वकालिकी ॥ १३॥ केदारः षाडवो रागो धैवतस्वरवर्जितः । आरोहे वक्रगान्धारः षड्जग्रहसमन्वितः ॥ १४॥ नवरोजुः पूर्णरागः षड्जग्रहसमन्वितः । पपयोरन्तरे बुद्ध्या गातव्या लक्ष्यकोविदैः ॥ १५॥ नीलाम्बर्याख्यरागस्तु सम्पूर्णो वक्रधैवतः । अवरोहे रिवक्रश्च गीयते लक्ष्यवेदिभिः ॥ १६॥ (३०) नागाभरणं नागाभरणरागोऽयमारोहे वक्रधैवतः । अवरोहे धवर्ज्यः स्यात्सग्रहः सार्वकालिकः ॥ सामन्तरागः सम्पूर्ण आरोहे वक्रधैवतः । षड्जग्रहसमायुक्तः सर्वकालेषु गीयते ॥ १॥ (३१) कलावति पूर्णः कलावतीराग आरोहे तु निवर्जितः । अवरोहे गवक्रः स्याद्गेयो गायकसत्तमैः ॥ (३२) रागचूडामणि आरोहे त्यक्तगान्धारो धवर्ज्यश्चावरोहणे । रिवर्ज्यः सग्रहो रागचूडामणिरिहेष्यते ॥ (३३) गङ्गातरङ्गिणि गङ्गातरङ्गिणीरागो धरिवक्रोऽवरोहणे ॥ (३४) भोगच्छायानाट त्यक्तधैवत आरोहे धवक्रश्चावरोहणे । गवर्ज्यः सग्रहः पूर्णश्छायानाटो हि गीयते ॥ (३५) शैलदेशाक्षि शैलदेशाक्षिरागः स्यादारोहे रिनिवर्जितः । अवरोहे गवर्ज्यश्च प्रातःकाले प्रगीयते ॥ (३६) चलनाट नाटः षड्जग्रहोपेतोऽवरोहे गधवर्जितः ॥ (३७) सौगन्धिनि सौगन्धिनी तु सम्पूर्णा चारोहे गनिवर्जिता ॥ (३८) जगन्मोहनम् जगन्मोहनरागोऽयं सग्रहः सार्वकालकः ॥ (३९) धालीवराळि पूर्णा वराली सततं गीयते सग्रहान्विता ॥ (४०) नभोमणि नभोमणिस्तु सम्पूर्णा चारोहे रिधवक्रिता ॥ (४१) कुम्भिनि आरोहे रिधवक्रः स्यादवरोहे धवर्जितः । सम्पूर्णः कुम्भिनीरागः सर्वकालेषु गीयते ॥ (४२) रविक्रिया आरोहे रिधवक्रश्च धवर्ज्यश्चावरोहणे । पूर्णो रविक्रियारागः सग्रहः सार्वकालिकः ॥ (४३) गीर्वाणि निवर्ज्याऽऽरोहणे पूर्णा गीर्वाणी सार्वकालिकी ॥ (४४) भवानि धवक्राऽऽरोहणे पूर्णा भवानी सार्वकालिकी ॥ (४५) शिवपन्तुवराळि पूर्णा पन्तुवराल्याख्या षड्जग्रहसमन्विता ॥ सिन्धुरामक्रियारागो ह्यवरोहे रिवक्रितः ॥ १॥ (४६) स्तवराज आरोहे गनिवर्ज्यश्च परिहीनोऽवरोहणे । सम्पूर्णः स्तवराजोऽयं सर्वकाले प्रगीयते ॥ (४७) सौवीर सौवीरस्त्ववरोहे हि पवर्ज्यः सार्वकालिकः ॥ (४८) जीवन्तिका जीवन्तिकाऽवरोहे तु धवर्ज्या सार्वकालिकी ॥ (४९) धवळाङ्गम् आरोहे धवलाङ्गस्तु निवर्ज्यः सार्वकालिकः ॥ (५०) नामदेशि सम्पूर्णो नामदेशाख्यः षड्जग्रहसमन्वितः ॥ (५१) काशिरामक्रिया काशिरामक्रियारागः सम्पूर्णः सग्रहान्वितः । मध्याह्नकाले गातव्य आरोहे तो रिवक्रितः ॥ (५२) रमामनोहरि रमामनोहरी पूर्णा सर्वकालेषु गीयते ॥ (५३) गमकक्रिया गमकक्रियरागोऽयं सर्वकाले प्रगीयते ॥ (५४) वंशवति पूर्णो वंशवतीरागस्त्ववरोहे धवर्जितः ॥ (५५) शामल निवर्ज्याऽऽरोहणे पूर्णा शामला सार्वकालिकी ॥ (५६) चामर चामरा पूर्णरागः स्यात्सग्रहा सार्वकालिकी ॥ (५७) सुमद्युति सग्रहा सर्वकालेषु गातव्या च सुमद्युतिः ॥ (५८) देशीसिंहारवम् देशीसिंहरवः पूर्णः सर्वकाले प्रगीयते ॥ (५९) धामवति धामवत्यथ सम्पूर्णा सग्रहा सार्वकालिकी ॥ (६०) निषध अवरोहे धवर्ज्यः स निषधो राग इष्यते ॥ (६१) कुन्तल निषादवर्ज्य आरोहे कुन्तलः सग्रहान्वितः ॥ (६२) रतिप्रिया रतिप्रिया च सम्पूर्णा सग्रहा सार्वकालिकी ॥ (६३) गीतप्रिया गीतप्रिया सुसम्पूर्णा सग्रहा सार्वकालिकी ॥ (६४) भूषावति भूषावती सदा गेया सग्रहा गायकोत्तमैः ॥ (६५) शान्तकल्याणि शान्तकल्याणिरागश्च सर्वकाले प्रगीयते ॥ औडुवो मोहनो रागः सग्रहः सार्वकालिकः ॥ १॥ यमुनाकल्याणिरागः सम्पूर्णः सग्रहान्वितः ॥ २॥ सायं गेयस्तु सारङ्गः शुद्धमध्यमगान्वितः ॥ ३॥ (६६) चतुरङ्गिणि चतुरङ्गणिरागः स्यादवरोहे धवर्जितः ॥ रिधवर्ज्या तु गातव्या ह्यौडुव्यमृतवर्षिणी ॥ १॥ (६७) सन्तानमञ्जरि निवर्ज्याऽऽरोहणे गेया ह्यवरोहे गवर्जिता । सन्तानमञ्जरीनाम सर्वकाले प्रगीयते ॥ (६८) जोति जोतिरागश्चावरोहे रिवर्ज्यः सार्वकालिकः ॥ (६९) धौतपञ्चमम् धौतपञ्चमरागः स्यादवरोहे रिवक्रितः ॥ (७०) नासामणि अवरोहे रिवक्रा च गेया नासामणिः सदा ॥ (७१) कुसुमाकर अवरोहे रिवक्रः स्यात्सग्रहः कुसुमाकरः ॥ (७२) रसमञ्जरि रिधवर्ज्योऽऽवरोहे तु रागाङ्गो रसमञ्जरी ॥ This is the first definitive work in Indian carnatic Music, whose Mela raga system was codified by Venkatamakhi. Subsequently, his grandson Muddu Venkatamakhi wrote an Appendix to this work, appended above, where he gives nomenclature and precise definition for all the 72 Mela Raga scheme (parent scale) and their numerous Janya ragas. This was the work followed by the Muthuswami Dikshitar school and his parampara. Here, the 72 Melas are named kanakambari, phenadyuti, ...... , Rasamanjari Much later, Govindacharya wrote the Samgraha ChuDamaNi, and this was followed by the later school of Tyagaraja. Here, th eMela names are kanakangi, ratnangi, ... rasikapriya etc. There is an anecdote associated with this work by Venkatamakhin. When Muthuswamy Dikshithar's father Ramaswamy Dikshithar wanted a copy of this work, he approached a descendant of Venkatamakhin. At first, that person refused, and then said that only after testing their scholarship to understand this work, he will share the work; and he gave an alapana quiz to figure out what Raga it was in. Immediately, Ramaswamy Dikshithar recognized it and further, instantly composed a song in that very same raga and asked his three songs to present it there before him. The person was really impressed and gave out the book with due apologies. This incident is mentioned by their grandson Subbarama Dikshithar in his mammoth work, Sangita Sampradaya Pradarshini. Encoded and proofread by Narayanaswami Pallasena
% Text title            : Chaturdandiprakashika Illuminator of Four Divisions
% File name             : chaturdaNDIprakAshikA.itx
% itxtitle              : chaturdaNDIprakAshikA (veNkaTamakhIvirachitA) sahitA anubandhaH (mudduveNkaTamakhivirachitaH)
% engtitle              : chaturdaNDIprakAshikA sahitA anubandhaH
% Category              : major_works, kRitI
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Venkatamakhi and his grandson Mudduvenkatamakhi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Narayanaswami Pallasena
% Proofread by          : Narayanaswami Pallasena
% Indexextra            : (Scans 1, 2, anubandhaH, translation, analyis, IAST, Wiki)
% Latest update         : July 25, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org