किरातार्जुनीयम्
१. प्रथमः सर्गः
श्रियः कुरूणामधिपस्य पालनीं
प्रजासु वृत्तिं यमयुङ्क्त वेदितुम् ।
स वर्णिलिङ्गी विदितः समाययौ
युधिष्ठिरं द्वैतवने वनेचरः ॥ १.१॥
कृतप्रणामस्य महीं महीभुजे
जितां सपत्नेन निवेदयिष्यतः ।
न विव्यथे तस्य मनो न हि प्रियं
प्रवक्तुमिच्छन्ति मृषा हितैषिणः ॥ १.२॥
द्विषां विघाताय विधातुमिच्छतो
रहस्यनुज्ञामधिगम्य भूभृतः ।
स सौष्ठवौदार्य-विशेषशालिनीं
विनिश्चितार्थामिति वाचमाददे ॥ १.३॥
क्रियासु युक्तैर्नृप चारचक्षुषो
न वञ्चनीयाः प्रभवोऽनुजीविभिः ।
अतोऽर्हसि क्षन्तुमसाधु साधु वा
हितं मनोहारि च दुर्लभं वचः ॥ १.४॥
स किंसखा साधु न शास्ति योऽधिपं
हितान्न यः संशृणुते स किम्प्रभुः ।
सदानुकूलेषु हि कुर्वते रतिं
नृपेष्वमात्येषु च सर्वसम्पदः ॥ १.५॥
निसर्ग-दुर्बोधमबोध-विक्लवाः क्व
भूपतीनां चरितं क्व जन्तवः ।
तवानुभावोऽयमवेदि यन्मया
निगूढतत्त्वं नयवर्त्म विद्विषाम् ॥ १.६॥
विशङ्कमानो भवतः पराभवं
नृपासनस्थोऽपि वनाधिवासिनः ।
दुरोदरच्छद्मजितां समीहते
नयेन जेतुं जगतीं सुयोधनः ॥ १.७॥
तथापि जिह्मः स भवज्जिगीषया
तनोति शुभ्रं गुणसम्पदा यशः ।
समुन्नयन् भूतिमनार्यसङ्गमा-
द्वरं विरोधोऽपि समं महात्मभिः ॥ १.८॥
कृतारिषड्वर्गजयेन मानवी-
मगम्यरूपां पदवीं प्रपित्सुना ।
विभज्य नक्तन्दिवमस्ततन्द्रिणा
वितन्यते तेन नयेन पौरुषम् ॥ १.९॥
सखीनिव प्रीतियुजोऽनुजीविनः
समानमानान् सुहृदश्च बन्धुभिः ।
स सन्ततं दर्शयते गतस्मयः
कृताधिपत्यामिव साधु बन्धुताम् ॥ १.१०॥
असक्तमाराधयतो यथायथं
विभज्य भक्त्या समपक्षपातया ।
गुणानुरागादिव सख्यमीयिवान्न
बाधतेऽस्य त्रिगणः परस्परम् ॥ १.११॥
निरत्ययं साम न दानवर्जितं
न भूरि दानं विरहय्य सत्क्रियाम् ।
प्रवर्तते तस्य विशेषशालिनी
गुणानुरोधेन विना न सत्क्रिया ॥ १.१२॥
वसूनि वाञ्छन्न वशी न मन्युना
स्वधर्म इत्येव निवृत्तकारणः ।
गुरूपदिष्टेन रिपौ सुतेऽपि वा
निहन्ति दण्डेन स धर्मविप्लवम् ॥ १.१३॥
विधाय रक्षान् परितः परेतरा-
नशङ्किताकारमुपैति शङ्कितः ।
क्रियापवर्गेष्वनुजीविसात्कृताः
कृतज्ञतामस्य वदन्ति सम्पदः ॥ १.१४॥
अनारतं तेन पदेषु लम्भिता
विभज्य सम्यग्विनियोग-सत्क्रियाः ।
फलन्त्युपायाः परिबृंहितायती-
रुपेत्य सङ्घर्षमिवार्थसम्पदः ॥ १.१५॥
अनेकराजन्य-रथाश्वसङ्कुलं
तदीयमास्थान-निकेतनाजिरम् ।
नयत्ययुग्मच्छदगन्धिरार्द्रतां
भृशं नृपोपायनदन्तिनां मदः ॥ १.१६॥
सुखेन लभ्या दधतः कृषीवलै-
रकृष्टपच्या इव सस्यसम्पदः ।
वितन्वति क्षेममदेवमातृका-
श्चिराय तस्मिन् कुरवश्चकासति ॥ १.१७॥
महौजसो मानधना धनार्चिता
धनुर्भृतः संयति लब्धकीर्तयः ।
न संहतास्तस्य न भेदवृत्तयः
प्रियाणि वाञ्छन्त्यसुभिः समीहितुम् ॥ १.१८॥
उदारकीर्तेरुदयं दयावतः
प्रशान्तबाधं दिशतोऽभिरक्षया ।
स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता
वसूपमानस्य वसूनि मेदिनी ॥ १.१९॥
महीभृतां सच्चरितैश्चरैः क्रियाः
स वेद निःशेषमशेषितक्रियः ।
महोदयैस्तस्य हितानुबन्धिभिः
प्रतीयते धातुरिवेहितं फलैः ॥ १.२०॥
न तेन सज्यं क्वचिदुद्यतं धनु-
र्न वा कृतं कोपविजिह्ममाननम् ।
गुणानुरागेण शिरोभिरुह्यते
नराधिपैर्माल्यमिवास्य शासनम् ॥ १.२१॥
स यौवराज्ये नवयौवनोद्धतं
निधाय दुःशासनमिद्धशासनः ।
मखेष्वखिन्नोऽनुमतः पुरोधसा
धिनोति हव्येन हिरण्यरेतसम् ॥ १.२२॥
प्रलीनभूपालमपि स्थिरायति
प्रशासदावारिधि मण्डलं भुवः ।
स चिन्तयत्येव भियस्त्वदेष्यती-
रहो दुरन्ता बलवद्विरोधिता ॥ १.२३॥
कथाप्रसङ्गेन जनैरुदाहृता-
दनुस्मृताखण्डल-सूनुविक्रमः ।
तवाभिधानाद्- व्यथते नताननः
स दुःसहान्मन्त्रपदादिवोरगः ॥ १.२४॥
तदाशु कर्तुं त्वयि जिह्ममुद्यते
विधीयतां तत्र विधेयमुत्तरम् ।
परप्रणीतानि वचांसि चिन्वतां
प्रवृत्तिसाराः खलु मादृशां गिरः ॥ १.२५॥
इतीरयित्वा गिरमात्तसत्क्रिये
गतेऽथ पत्यौ वनसन्निवासिनाम् ।
प्रविश्य कृष्णा सदनं महीभुजा
तदाचचक्षेऽनुजसन्निधौ वचः ॥ १.२६॥
निशम्य सिद्धिं द्विषतामपाकृती-
स्ततस्ततस्त्या विनियन्तुमक्षमा ।
नृपस्य मन्युव्यवसायदीपिनी-
रुदाजहार द्रुपदात्मजा गिरः ॥ १.२७॥
भवादृशेषु प्रमदाजनोदितं
भवत्यधिक्षेप इवानुशासनम् ।
तथापि वक्तुं व्यवसाययन्ति मां
निरस्त-नारीसमया दुराधयः ॥ १.२८॥
अखण्डमाखण्डल-तुल्यधामभि-
श्चिरं धृता भूपतिभिः स्ववंशजैः ।
त्वया स्वहस्तेन मही मदच्युता
मतङ्गजेन स्रगिवापवर्जिता ॥ १.२९॥
व्रजन्ति ते मूढधियः पराभवं
भवन्ति मायाविषु ये न मायिनः ।
प्रविश्य हि घ्नन्ति शठास्तथाविधा-
नसंवृताङ्गान्निशिता इवेषवः ॥ १.३०॥
गुणानुरक्तामनुरक्तसाधनः
कुलाभिमानी कुलजां नराधिपः ।
परैस्त्वदन्यः क इवापहारयेन्-
मनोरमामात्मवधूमिव श्रियम् ॥ १.३१॥
भवन्तमेतर्हि मनस्विगर्हिते
विवर्तमानं नरदेव वर्त्मनि ।
कथं न मन्युर्ज्वलयत्युदीरितः
शमीतरुं शुष्कमिवाग्निरुच्छिखः ॥ १.३२॥
अवन्ध्यकोपस्य विहन्तुरापदां
भवन्ति वश्याः स्वयमेव देहिनः ।
अमर्षशून्येन जनस्य जन्तुना
न जातहार्देन न विद्विषादरः ॥ १.३३॥
परिभ्रमंल्लोहित-चन्दनोचितः
पदातिरन्तर्गिरि रेणुरूषितः ।
महारथः सत्यधनस्य मानसं
दुनोति नो कच्चिदयं वृकोदरः ॥ १.३४॥
विजित्य यः प्राज्यमयच्छदुत्तरान्
कुरूनकुप्यं वसु वासवोपमः ।
स वल्कवासांसि तवाधुनाहरन्
करोति मन्युं न कथं धनञ्जयः ॥ १.३५॥
वनान्तशय्या-कठिनीकृताकृती
कचाचितौ विष्वगिवागजौ गजौ ।
कथं त्वमेतौ धृतिसंयमौ यमौ
विलोकयन्नुत्सहसे न बाधितुम् ॥ १.३६॥
इमामहं वेद न तावकीं धियं
विचित्ररूपाः खलु चित्तवृत्तयः ।
विचिन्तयन्त्या भवदापदं परां
रुजन्ति चेतः प्रसभं ममाधयः ॥ १.३७॥
पुराधिरूढः शयनं महाधनं
विबोध्यसे यः स्तुतिगीतिमङ्गलैः ।
अदभ्रदर्भामधिशय्य स स्थलीं
जहासि निद्रामशिवैः शिवारुतैः ॥ १.३८॥
पुरोपनीतं नृप रामणीयकं
द्विजातिशेषेण यदेतदन्धसा ।
तदद्य ते वन्यफलाशिनः परं
परैति कार्श्यं यशसा समं वपुः ॥ १.३९॥
अनारतं यौ मणिपीठशायिना-
वरञ्जयद्राजशिरःस्रजां रजः ।
निषीदतस्तौ चरणौ वनेषु ते
मृगद्विजालूनशिखेषु बर्हिषाम् ॥ १.४०॥
द्विषन्निमित्ता यदियं दशा ततः
समूलमुन्मूलयतीव मे मनः ।
परैरपर्यासित-वीर्यसम्पदां
पराभवोऽप्युत्सव एव मानिनाम् ॥ १.४१॥
विहाय शान्तिं नृप धाम तत्पुनः
प्रसीद सन्धेहि वधाय विद्विषाम् ।
व्रजन्ति शत्रूनवधूय निःस्पृहाः
शमेन सिद्धिं मुनयो न भूभृतः ॥ १.४२॥
पुरःसरा धामवतां यशोधनाः
सुदुःसहं प्राप्य निकारमीदृशम् ।
भवादृशाश्चेदधिकुर्वते रतिं
निराश्रया हन्त हता मनस्विता ॥ १.४३॥
अथ क्षमामेव निरस्तविक्रम-
श्चिराय पर्येषि सुखस्य साधनम् ।
विहाय लक्ष्मीपतिलक्ष्म कार्मुकं
जटाधरः सञ्जुहुधीह पावकम् ॥ १.४४॥
न समयपरिरक्षणं क्षमं ते
निकृतिपरेषु परेषु भूरिधाम्नः ।
अरिषु हि विजयार्थिनः क्षितीशा
विदधति सोपधि सन्धिदूषणानि ॥ १.४५॥
विधिसमयनियोगाद्दीप्तिसंहारजिह्मं
शिथिलवसुमगाधे मग्नमापत्पयोधौ ।
रिपुतिमिरमुदस्योदीयमानं दिनादौ
दिनकृतमिव लक्ष्मीस्त्वां समभ्येतु भूयः ॥ १.४६॥
इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये
प्रथमः सर्गः ॥ १॥
२. व्यासागमनो नाम द्वितीयः सर्गः
विहितां प्रियया मनःप्रिया-
मथ निश्चित्य गिरं गरीयसीम् ।
उपपत्तिमदूर्जिताश्रयं
नृपमूचे वचनं वृकोदरः ॥ २.१॥
यदवोचत वीक्ष्य मानिनी
परितः स्नेहमयेन चक्षुषा ।
अपि वागधिपस्य दुर्वचं
वचनं तद्विदधीत विस्मयम् ॥ २.२॥
विषमोऽपि विगाह्यते नयः
कृततीर्थः पयसामिवाशयः ।
स तु तत्र विशेषदुर्लभः
सदुपन्यस्यति कृत्यवर्त्म यः ॥ २.३॥
परिणामसुखे गरीयसि
व्यथकेऽस्मिन् वचसि क्षतौजसाम् ।
अतिवीर्यवतीव भेषजे
बहुरल्पीयसि दृश्यते गुणः ॥ २.४॥
इयमिष्टगुणाय रोचतां
रुचिरार्था भवतेऽपि भारती ।
ननु वक्तृविशेषनिःस्पृहा
गुणगृह्या वचने विपश्चितः ॥ २.५॥
चतसृष्वपि ते विवेकिनी
नृप विद्यासु निरूढिमागता ।
कथमेत्य मतिर्विपर्ययं
करिणी पङ्कमिवावसीदति ॥ २.६॥
विधुरं किमतः परं परै-
रवगीतां गमिते दशामिमाम् ।
अवसीदति यत्सुरैरपि
त्वयि सम्भावितवृत्ति पौरुषम् ॥ २.७॥
द्विषतामुदयः सुमेधसा
गुरुरस्वन्ततरः सुमर्षणः ।
न महानपि भूतिमिच्छता
फलसम्पत्प्रवणः परिक्षयः ॥ २.८॥
अचिरेण परस्य भूयसीं
विपरीतां विगणय्य चात्मनः ।
क्षययुक्तिमुपेक्षते कृती
कुरुते तत्प्रतिकारमन्यथा ॥ २.९॥
अनुपालयतामुदेष्यतीं
प्रभुशक्तिं द्विषतामनीहया ।
अपयान्त्यचिरान्महीभुजां
जननिर्वादभयादिव श्रियः ॥ २.१०॥
क्षययुक्तमपि स्वभावजं
दधतं धाम शिवं समृद्धये ।
प्रणमन्त्यनपायमुत्थितं
प्रतिपच्चन्द्रमिव प्रजा नृपम् ॥ २.११॥
प्रभवः खलु कोशदण्डयोः
कृतपञ्चाङ्ग-विनिर्णयो नयः ।
स विधेयपदेषु दक्षतां
नियतिं लोक इवानुरुध्यते ॥ २.१२॥
अभिमानवतो मनस्विनः
प्रियमुच्चैः पदमारुरुक्षतः ।
विनिपात-निवर्तनक्षमं
मतमालम्बनमात्मपौरुषम् ॥ २.१३॥
विपदोऽभिभवन्त्यविक्रमं
रहयत्यापदुपेतमायतिः ।
नियता लघुता निरायते-
रगरीयान्न पदं नृपश्रियः ॥ २.१४॥
तदलं प्रतिपक्षमुन्नते-
रवलम्ब्य व्यवसायवन्ध्यताम् ।
निवसन्ति पराक्रमाश्रया
न विषादेन समं समृद्धयः ॥ २.१५॥
अथ चेदवधिः प्रतीक्ष्यते
कथमाविष्कृत-जिह्मवृत्तिना ।
धृतराष्ट्रसुतेन सुत्यजा-
श्चिरमास्वाद्य नरेन्द्रसम्पदः ॥ २.१६॥
द्विषता विहितं त्वयाथवा
यदि लब्धा पुनरात्मनः पदम् ।
जननाथ तवानुजन्मनां
कृतमाविष्कृत-पौरुषैर्भुजैः ॥ २.१७॥
मदसिक्त-मुखैर्मृगाधिपः
करिभिर्वर्तयते स्वयं हतैः ।
लघयन् खलु तेजसा जग-
न्न महानिच्छति भूतिमन्यतः ॥ २.१८॥
अभिमानधनस्य गत्वरै-
रसुभिः स्थास्नु यशश्चिचीषतः ।
अचिरांशु-विलासचञ्चला
ननु लक्ष्मीः फलमानुषङ्गिकम् ॥ २.१९॥
ज्वलितं न हिरण्यरेतसं
चयमास्कन्दति भस्मनां जनः ।
अभिभूतिभयादसूनतः
सुखमुज्झन्ति न धाम मानिनः ॥ २.२०॥
किमपेक्ष्य फलं पयोधरान्
ध्वनतः प्रार्थयते मृगाधिपः ।
प्रकृतिः खलु सा महीयसः
सहते नान्यसमुन्नतिं यया ॥ २.२१॥
कुरु तन्मतिमेव विक्रमे
नृप निर्धूय तमः प्रमादजम् ।
ध्रुवमेतदवेहि विद्विषां
त्वदनुत्साहहता विपत्तयः ॥ २.२२॥
द्विरदानिव दिग्विभावितां-
श्चतुरस्तोयनिधीनिवायतः ।
प्रसहेत रणे तवानुजान्
द्विषतां कः शतमन्युतेजसः ॥ २.२३॥
ज्वलतस्तव जातवेदसः
सततं वैरिकृतस्य चेतसि ।
विदधातु शमं शिवेतरा
रिपुनारी-नयनाम्बुसन्ततिः ॥ २.२४॥
इति दर्शितविक्रियं सुतं
मरुतः कोपपरीतमानसम् ।
उपसान्त्वयितुं महीपति-
र्द्विरदं दुष्टमिवोपचक्रमे ॥ २.२५॥
अपवर्जितविप्लवे शुचौ
हृदयग्राहिणि मङ्गलास्पदे ।
विमला तव विस्तरे गिरां
मतिरादर्श इवाभिदृश्यते ॥ २.२६॥
स्फुटता न पदैरपाकृता
न च न स्वीकृतमर्थगौरवम् ।
रचिता पृथगर्थता गिरां
न च सामर्थ्यमपोहितं क्वचित् ॥ २.२७॥
उपपत्तिरुदाहृता बला-
दनुमानेन न चागमः क्षतः ।
इदमीदृगनीदृगाशयः
प्रसभं वक्तुमुपक्रमेत कः ॥ २.२८॥
अवितृप्ततया तथापि मे
हृदयं निर्णयमेव धावति ।
अवसाययितुं क्षमाः सुखं
न विधेयेषु विशेषसम्पदः ॥ २.२९॥
सहसा विदधीत न क्रिया-
मविवेकः परमापदां पदम् ।
वृणते हि विमृष्यकारिणं
गुणलुब्धाः स्वयमेव सम्पदः ॥ २.३०॥
अभिवर्षति योऽनुपालयन्
विधिबीजानि विवेकवारिणा ।
स सदा फलशालिनीं क्रियां
शरदं लोक इवाधितिष्ठति ॥ २.३१॥
शुचि भूषयति श्रुतं वपुः
प्रशमस्तस्य भवत्यलङ्क्रिया ।
प्रशमाभरणं पराक्रमः
स नयापादित-सिद्धिभूषणः ॥ २.३२॥
मतिभेद-तमस्तिरोहिते
गहने कृत्यविधौ विवेकिनाम् ।
सुकृतः परिशुद्ध आगमः
कुरुते दीप इवार्थदर्शनम् ॥ २.३३॥
स्पृहणीयगुणैर्महात्मभि-
श्चरिते वर्त्मनि यच्छतां मनः ।
विधिहेतुरहेतुरागसां
विनिपातोऽपि समः समुन्नतेः ॥ २.३४॥
शिवमौपयिकं गरीयसीं
फलनिष्पत्तिमदूषितायतीम् ।
विगणय्य नयन्ति पौरुषं
विजितक्रोधरया जिगीषवः ॥ २.३५॥
अपनेयमुदेतुमिच्छता
तिमिरं रोषमयं धिया पुरः ।
अविभिद्य निशाकृतं तमः
प्रभया नांशुमताप्युदीयते ॥ २.३६॥
बलवानपि कोपजन्मन-
स्तमसो नाभिभवं रुणद्धि यः ।
क्षयपक्ष इवैन्दवीः कलाः
सकला हन्ति स शक्तिसम्पदः ॥ २.३७॥
समवृत्तिरुपैति मार्दवं
समये यश्च तनोति तिग्मताम् ।
अधितिष्ठति लोकमोजसा
स विवस्वानिव मेदिनीपतिः ॥ २.३८॥
क्व चिराय परिग्रहः श्रियां
क्व च दुष्टेन्द्रियवाजिवश्यता ।
शरदभ्र-चलाश्चलेन्द्रियै-
रसुरक्षा हि बहुच्छलाः श्रियः ॥ २.३९॥
किमसामयिकं वितन्वता
मनसः क्षोभमुपात्तरंहसः ।
क्रियते पतिरुच्चकैरपां
भवता धीरतयाधरीकृतः ॥ २.४०॥
श्रुतमप्यधिगम्य ये रिपून्
विनयन्ते स्म न शरीरजन्मनः ।
जनयन्त्यचिराय सम्पदा-
मयशस्ते खलु चापलाश्रयम् ॥ २.४१॥
अतिपातित-कालसाधना
स्वशरीरेन्द्रिय-वर्गतापनी ।
जनवन्न भवन्तमक्षमा
नयसिद्धेरपनेतुमर्हति ॥ २.४२॥
उपकारकमायतेर्भृशं
प्रसवः कर्मफलस्य भूरिणः ।
अनपायि निबर्हणं द्विषां
न तितिक्षा-सममस्ति साधनम् ॥ २.४३॥
प्रणतिप्रवणान् विहाय नः
सहजस्नेह-निबद्धचेतसः ।
प्रणमन्ति सदा सुयोधनं
प्रथमे मानभृतां न वृष्णयः ॥ २.४४॥
सुहृदः सहजास्तथेतरे
मतमेषां न विलङ्घयन्ति ये ।
विनयादिव यापयन्ति ते
धृतराष्ट्रात्मजमात्मसिद्धये ॥ २.४५॥
अभियोग इमान्महीभुजो
भवता तस्य कृतः कृतावधेः ।
प्रविघाटयिता समुत्पतन्
हरिदश्वः कमलाकरानिव ॥ २.४६॥
उपजापसहान् विलङ्घयन्
स विधाता नृपतीन्मदोद्धतः ।
सहते न जनोऽप्यधःक्रियां
किमु लोकाधिकधाम राजकम् ॥ २.४७॥
असमापित-कृत्यसम्पदां
हतवेगं विनयेन तावता ।
प्रभवन्त्यभिमानशालिनां
मदमुत्तम्भयितुं विभूतयः ॥ २.४८॥
मदमानसमुद्धतं नृपं
न वियुङ्क्ते नियमेन मूढता ।
अतिमूढ उदस्यते नया-
न्नयहीनादपरज्यते जनः ॥ २.४९॥
अपराग-समीरणेरितः
क्रमशीर्णाकुल-मूलसन्ततिः ।
सुकरस्तरुवत्सहिष्णुना
रिपुरुन्मूलयितुं महानपि ॥ २.५०॥
अणुरप्युपहन्ति विग्रहः
प्रभुमन्तःप्रकृति-प्रकोपजः ।
अखिलं हि हिनस्ति भूधरं
तरुशाखान्तनिघर्षजोऽनलः ॥ २.५१॥
मतिमान् विनयप्रमाथिनः
समुपेक्षेत समुन्नतिं द्विषः ।
सुजयः खलु तादृगन्तरे
विपदन्ता ह्यविनीतसम्पदः ॥ २.५२॥
लघुवृत्तितया भिदां गतं
बहिरन्तश्च नृपस्य मण्डलम् ।
अभिभूय हरत्यनन्तरः
शिथिलं कूलमिवापगा-रयः ॥ २.५३॥
अनुशासतमित्यनाकुलं
नयवर्त्माकुलमर्जुनाग्रजम् ।
स्वयमर्थ इवाभिवाञ्छित-
स्तमभीयाय पराशरात्मजः ॥ २.५४॥
मधुरैरवशानि लम्भय-
न्नपि तिर्यञ्चि शमं निरीक्षितैः ।
परितः पटु बिभ्रदेनसां
दहनं धाम विलोकनक्षमम् ॥ २.५५॥
सहसोपगतः सविस्मयं
तपसां सूतिरसूतिरापदाम् ।
ददृशे जगतीभुजा मुनिः
स वपुष्मानिव पुण्यसञ्चयः ॥ २.५६॥
अथोच्चकैरासनतः परार्ध्या-
दुद्यन् स धूतारुणवल्कलाग्रः ।
रराज कीर्णाकपिशांशुजालः
शृङ्गात्सुमेरोरिव तिग्मरश्मिः ॥ २.५७॥
अवहितहृदयो विधाय सोऽर्हा-
मृषिवदृषिप्रवरे गुरूपदिष्टाम् ।
तदनुमतमलञ्चकार पश्चात्
प्रशम इव श्रुतमासनं नरेन्द्रः ॥ २.५८॥
व्यक्तोदितस्मित-मयूखविभासितोष्ठ-
स्तिष्ठन्मुनेरभिमुखं स विकीर्णधाम्नः ।
तन्वन्तमिद्धमभितो गुरुमंशुजालं
लक्ष्मीमुवाह सकलस्य शशाङ्कमूर्तेः ॥ २.५९॥
इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये
व्यासागमनो नाम द्वितीयः सर्गः ॥ २॥
३. तृतीयः सर्गः
ततः शरच्चन्द्रकराभिरामै-
रुत्सर्पिभिः प्रांशुमिवांशुजालैः ।
बिभ्राणमानीलरुचं पिशङ्गी-
र्जटास्तडित्वन्तमिवाम्बुवाहम् ॥ ३.१॥
प्रसादलक्ष्मीं दधतं समग्रां
वपुःप्रकर्षेण जनातिगेन ।
प्रसह्य चेतःसु समासजन्त-
मसंस्तुतानामपि भावमार्द्रम् ॥ ३.२॥
अनुद्धताकारतया विविक्तां
तन्वन्तमन्तःकरणस्य वृत्तिम् ।
माधुर्यविस्रम्भ-विशेषभाजा
कृतोपसम्भाषमिवेक्षितेन ॥ ३.३॥
धर्मात्मजो धर्मनिबन्धिनीनां
प्रसूतिमेनःप्रणुदां श्रुतीनाम् ।
हेतुं तदभ्यागमने परीप्सुः
सुखोपविष्टं मुनिमाबभाषे ॥ ३.४॥
अनाप्त-पुण्योपचयैर्दुरापा
फलस्य निर्धूतरजाः सवित्री ।
तुल्या भवद्दर्शनसम्पदेषा
वृष्टेर्दिवो वीतबलाहकायाः ॥ ३.५॥
अद्य क्रियाः कामदुघाः क्रतूनां
सत्याशिषः सम्प्रति भूमिदेवाः ।
आ संसृतेरस्मि जगत्सु जात-
स्त्वय्यागते यद्बहुमानपात्रम् ॥ ३.६॥
श्रियं विकर्षत्यपहन्त्यघानि
श्रेयः परिस्नौति तनोति कीर्तिम् ।
सन्दर्शनं लोकगुरोरमोघं
तवात्मयोनेरिव किं न धत्ते ॥ ३.७॥
श्च्योतन्मयूखेऽपि हिमद्युतौ मे
न निर्वृतं निर्वृतिमेति चक्षुः ।
समुज्झित-ज्ञातिवियोगखेदं
त्वत्सन्निधावुच्छ्वसतीव चेतः ॥ ३.८॥
निरास्पदं प्रश्नकुतूहलित्व-
मस्मास्वधीनं किमु निःस्पृहाणाम् ।
तथापि कल्याणकरीं गिरं ते
मां श्रोतुमिच्छा मुखरीकरोति ॥ ३.९॥
इत्युक्तवानुक्ति-विशेषरम्यं
मनः समाधाय जयोपपत्तौ ।
उदारचेता गिरमित्युदारां
द्वैपायनेनाभिदधे नरेन्द्रः ॥ ३.१०॥
चिचीषतां जन्मवतामलघ्वीं
यशोवतंसामुभयत्र भूतिम् ।
अभ्यर्हिता बन्धुषु तुल्यरूपा
वृत्तिर्विशेषेण तपोधनानाम् ॥ ३.११॥
तथापि निघ्नं नृप तावकीनैः
प्रह्वीकृतं मे हृदयं गुणौघैः ।
वीतस्पृहाणामपि मुक्तिभाजां
भवन्ति भव्येषु हि पक्षपाताः ॥ ३.१२॥
सुता न यूयं किमु तस्य राज्ञः
सुयोधनं वा न गुणैरतीताः ।
यस्त्यक्तवान् वः स वृथा बलाद्वा
मोहं विधत्ते विषयाभिलाषः ॥ ३.१३॥
जहातु नैनं कथमर्थसिद्धिः
संशय्य कर्णादिषु तिष्ठते यः ।
असाधुयोगा हि जयान्तरायाः
प्रमाथिनीनां विपदां पदानि ॥ ३.१४॥
पथश्च्युतायां समितौ रिपूणां
धर्म्यां दधानेन धुरं चिराय ।
त्वया विपत्स्वप्यविपत्ति रम्य-
माविष्कृतं प्रेम परं गुणेषु ॥ ३.१५॥
विधाय विध्वंसमनात्मनीनं
शमैकवृत्तेर्भवतश्छलेन ।
प्रकाशित-त्वन्मतिशीलसाराः
कृतोपकारा इव विद्विषस्ते ॥ ३.१६॥
लभ्या धरित्री तव विक्रमेण
ज्यायांश्च वीर्यास्त्रबलैर्विपक्षः ।
अतः प्रकर्षाय विधिर्विधेयः
प्रकर्षतन्त्रा हि रणे जयश्रीः ॥ ३.१७॥
त्रिःसप्तकृत्वो जगतीपतीनां
हन्ता गुरुर्यस्य स जामदग्न्यः ।
वीर्यावधूतः स्म तदा विवेद
प्रकर्षमाधारवशं गुणानाम् ॥ ३.१८॥
यस्मिन्ननैश्वर्य-कृतव्यलीकः
पराभवं प्राप्त इवान्तकोऽपि ।
धुन्वन् धनुः कस्य रणे न कुर्यान्-
मनो भयैकप्रवणं स भीष्मः ॥ ३.१९॥
सृजन्तमाजाविषुसंहतीर्वः
सहेत कोपज्वलितं गुरुं कः ।
परिस्फुरल्लोल-शिखाग्रजिह्वं
जगज्जिघत्सन्तमिवान्तवह्निम् ॥ ३.२०॥
निरीक्ष्य संरम्भ-निरस्तधैर्यं
राधेयमाराधितजामदग्न्यम् ।
असंस्तुतेषु प्रसभं भयेषु
जायेत मृत्योरपि पक्षपातः ॥ ३.२१॥
यया समासादित-साधनेन
सुदुश्चरामाचरता तपस्याम् ।
एते दुरापं समवाप्य वीर्य-
मुन्मूलितारः कपिकेतनेन ॥ ३.२२॥
महत्त्वयोगाय महामहिम्ना-
माराधनीं तां नृप देवतानाम् ।
दातुं प्रदानोचित भूरिधाम्नी-
मुपागतः सिद्धिमिवास्मि विद्याम् ॥ ३.२३॥
इत्युक्तवन्तं व्रज साधयेति
प्रमाणयन् वाक्यमजातशत्रोः ।
प्रसेदिवांसं तमुपाससाद
वसन्निवान्ते विनयेन जिष्णुः ॥ ३.२४॥
निर्याय विद्याथ दिनादिरम्याद्-
बिम्बादिवार्कस्य मुखान्महर्षेः ।
पार्थाननं वह्निकणावदाता
दीप्तिः स्फुरत्पद्ममिवाभिपेदे ॥ ३.२५॥
योगं च तं योग्यतमाय तस्मै
तपःप्रभावाद्विततार सद्यः ।
येनास्य तत्त्वेषु कृतेऽवभासे
समुन्मिमीलेव चिराय चक्षुः ॥ ३.२६॥
आकारमाशंसित-भूरिलाभं
दधानमन्तःकरणानुरूपम् ।
नियोजयिष्यन् विजयोदये तं
तपःसमाधौ मुनिरित्युवाच ॥ ३.२७॥
अनेन योगेन विवृद्धतेजा
निजां परस्मै पदवीमयच्छन् ।
समाचराचारमुपात्तशस्त्रो
जपोपवासाभिषवैर्मुनीनाम् ॥ ३.२८॥
करिष्यसे यत्र सुदुश्चराणि
प्रसत्तये गोत्रभिदस्तपांसि ।
शिलोच्चयं चारुशिलोच्चयं त-
मेष क्षणान्नेष्यति गुह्यकस्त्वाम् ॥ ३.२९॥
इति ब्रुवाणेन महेन्द्रसूनुं
महर्षिणा तेन तिरोबभूवे ।
तं राजराजानुचरोऽस्य साक्षात्
प्रदेशमादेशमिवाधितष्ठौ ॥ ३.३०॥
कृतानतिर्व्याहृतसान्त्ववादे
जातस्पृहः पुण्यजनः स जिष्णौ ।
इयाय सख्याविव सम्प्रसादं
विश्वासयत्याशु सतां हि योगः ॥ ३.३१॥
अथोष्णभासेव सुमेरुकुञ्जान्
विहीयमानानुदयाय तेन ।
बृहद्द्युतीन् दुःखकृतात्मलाभं
तमः शनैः पाण्डुसुतान् प्रपेदे ॥ ३.३२॥
असंशयालोचित-कार्यनुन्नः
प्रेम्णा समानीय विभज्यमानः ।
तुल्याद्विभागादिव तन्मनोभि-
र्दुःखातिभारोऽपि लघुः स मेने ॥ ३.३३॥
धैर्येण विश्वास्यतया महर्षे-
स्तीव्रादरातिप्रभवाच्च मन्योः ।
वीर्यं च विद्वत्सु सुते मघोनः
स तेषु न स्थानमवाप शोकः ॥ ३.३४॥
तान् भूरिधाम्नश्चतुरोऽपि दूरं
विहाय यामानिव वासरस्य ।
एकौघभूतं तदशर्म कृष्णां
विभावरीं ध्वान्तमिव प्रपेदे ॥ ३.३५॥
तुषारलेखाकुलितोत्पलाभे
पर्यश्रुणी मङ्गलभङ्गभीरुः ।
अगूढभावापि विलोकने सा
न लोचने मीलयितुं विषेहे ॥ ३.३६॥
अकृत्रिम-प्रेमरसाभिरामं
रामार्पितं दृष्टिविलोभि दृष्टम् ।
मनःप्रसादाञ्जलिना निकामं
जग्राह पाथेयमिवेन्द्रसूनुः ॥ ३.३७॥
धैर्यावसादेन हृतप्रसादा
वन्यद्विपेनेव निदाघसिन्धुः ।
निरुद्धबाष्पोदयसन्नकण्ठ-
मुवाच कृच्छ्रादिति राजपुत्री ॥ ३.३८॥
मग्नां द्विषच्छद्मनि पङ्कभूते
सम्भावनां भूतिमिवोद्धरिष्यन् ।
आधिद्विषामा तपसां प्रसिद्धे-
रस्मद्विना मा भृशमुन्मनीभूः ॥ ३.३९॥
यशोऽधिगन्तुं सुखलिप्सया वा
मनुष्य-सङ्ख्यामतिवर्तितुं वा ।
निरुत्सुकानामभियोगभाजां
समुत्सुकेवाङ्कमुपैति सिद्धिः ॥ ३.४०॥
लोकं विधात्रा विहितस्य गोप्तुं
क्षत्रस्य मुष्णन् वसु जैत्रमोजः ।
तेजस्विताया विजयैकवृत्ते-
र्निघ्नन् प्रियं प्राणमिवाभिमानम् ॥ ३.४१॥
व्रीडानतैराप्तजनोपनीतः
संशय्य कृच्छ्रेण नृपैः प्रपन्नः ।
वितानभूतं विततं पृथिव्यां
यशः समूहन्निव दिग्विकीर्णम् ॥ ३.४२॥
वीर्यावदानेषु कृतावमर्ष-
स्तन्वन्नभूतामिव सम्प्रतीतिम् ।
कुर्वन् प्रयामक्षयमायतीना-
मर्कत्विषामह्न इवावशेषः ॥ ३.४३॥
प्रसह्य योऽस्मासु परैः प्रयुक्तः
स्मर्तुं न शक्यः किमुताधिकर्तुम् ।
नवीकरिष्यत्युपशुष्यदार्द्रः
स त्वद्विना मे हृदयं निकारः ॥ ३.४४॥
प्राप्तोऽभिमान-व्यसनादसह्यं
दन्तीव दन्तव्यसनाद्विकारम् ।
द्विषत्प्रतापान्तरितोरुतेजाः
शरद्घनाकीर्ण इवादिरह्नः ॥ ३.४५॥
सव्रीडमन्दैरिव निष्क्रियत्वा-
न्नात्यर्थमस्त्रैरवभासमानः ।
यशःक्षयक्षीणजलार्णवाभ-
स्त्वमन्यमाकारमिवाभिपन्नः ॥ ३.४६॥
दुःशासनामर्ष-रजोविकीर्णै-
रेभिर्विनाथैरिव भाग्यनाथैः ।
केशैः कदर्थीकृतवीर्यसारः
कच्चित्स एवासि धनञ्जयस्त्वम् ॥ ३.४७॥
स क्षत्रियस्त्राणसहः सतां य-
स्तत्कार्मुकं कर्मसु यस्य शक्तिः ।
वहन् द्वयीं यद्यफलेऽर्थजाते
करोत्यसंस्कार-हतामिवोक्तिम् ॥ ३.४८॥
वीतौजसः सन्निधिमात्रशेषा
भवत्कृतां भूतिमपेक्षमाणाः ।
समानदुःखा इव नस्त्वदीयाः
सरूपतां पार्थ गुणा भजन्ते ॥ ३.४९॥
आक्षिप्यमाणं रिपुभिः प्रमादा-
न्नागैरिवालूनसटं मृगेन्द्रम् ।
त्वां धूरियं योग्यतयाधिरूढा
दीप्त्या दिनश्रीरिव तिग्मरश्मिम् ॥ ३.५०॥
करोति योऽशेषजनातिरिक्तां
सम्भावनामर्थवतीं क्रियाभिः ।
संसत्सु जाते पुरुषाधिकारे
न पूरणी तं समुपैति सङ्ख्या ॥ ३.५१॥
प्रियेषु यैः पार्थ विनोपपत्ते-
र्विचिन्त्यमानैः क्लममेति चेतः ।
तव प्रयातस्य जयाय तेषां
क्रियादघानां मघवा विघातम् ॥ ३.५२॥
मा गाश्चिरायैकचरः प्रमादं
वसन्नसम्बाधशिवेऽपि देशे ।
मात्सर्य-रागोपहतात्मनां हि
स्खलन्ति साधुष्वपि मानसानि ॥ ३.५३॥
तदाशु कुर्वन् वचनं महर्षे-
र्मनोरथान्नः सफलीकुरुष्व ।
प्रत्यागतं त्वास्मि कृतार्थमेव
स्तनोपपीडं परिरब्धुकामा ॥ ३.५४॥
उदीरितां तामिति याज्ञसेन्या
नवीकृतोद्ग्राहितविप्रकाराम् ।
आसाद्य वाचं स भृशं दिदीपे
काष्ठामुदीचीमिव तिग्मरश्मिः ॥ ३.५५॥
अथाभिपश्यन्निव विद्विषः पुरः
पुरोधसारोपित-हेतिसंहतिः ।
बभार रम्योऽपि वपुः स भीषणं
गतः क्रियां मन्त्र इवाभिचारिकीम् ॥ ३.५६॥
अविलङ्घ्य-विकर्षणं परैः
प्रथितज्यारवकर्म कार्मुकम् ।
अगतावरि-दृष्टिगोचरं
शित-निस्त्रिंशयुजौ महेषुधी ॥ ३.५७॥
यशसेव तिरोदधन्मुहु-
र्महसा गोत्रभिदायुधक्षतीः ।
कवचं च सरत्नमुद्वह-
ञ्ज्वलितज्योतिरिवान्तरं दिवः ॥ ३.५८॥
अलकाधिप-भृत्यदर्शितं
शिवमुर्वीधरवर्त्म सम्प्रयान् ।
हृदयानि समाविवेश स
क्षणमुद्बाष्पदृशां तपोभृताम् ॥ ३.५९॥
अनुजगुरथ दिव्यं दुन्दुभिध्वानमाशाः
सुरकुसुमनिपातैर्व्योम्नि लक्ष्मीर्वितेने ।
प्रियमिव कथयिष्यन्नालिलिङ्ग स्फुरन्तीं
भुवमनिभृतवेलावीचिबाहुः पयोधिः ॥ ३.६०॥
इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये
तृतीयः सर्गः ॥ ३॥
४. शरद्वर्णनं नाम चतुर्थः सर्गः
ततः स कूजत्कलहंस-मेखलां
सपाकसस्याहित-पाण्डुतागुणाम् ।
उपाससादोपजनं जनप्रियः
प्रियामिवासादितयौवनां भुवम् ॥ ४.१॥
विनम्रशालि-प्रसवौघशालिनी-
रपेतपङ्काः ससरोरुहाम्भसः ।
ननन्द पश्यन्नुपसीम स स्थली-
रुपायनीभूत-शरद्गुणश्रियः ॥ ४.२॥
निरीक्ष्यमाणा इव विस्मयाकुलैः
पयोभिरुन्मीलित-पद्मलोचनैः ।
हृतप्रियादृष्टि-विलासविभ्रमा
मनोऽस्य जह्रुः शफरीविवृत्तयः ॥ ४.३॥
तुतोष पश्यन् कलमस्य सोऽधिकं
सवारिजे वारिणि रामणीयकम् ।
सुदुर्लभे नार्हति कोऽभिनन्दितुं
प्रकर्षलक्ष्मीमनुरूपसङ्गमे ॥ ४.४॥
नुनोद तस्य स्थलपद्मिनीगतं
वितर्कमाविष्कृत-फेनसन्तति ।
अवाप्तकिञ्जल्क-विभेदमुच्चकै-
र्विवृत्तपाठीनपराहतं पयः ॥ ४.५॥
कृतोर्मि-रेखं शिथिलत्वमायता
शनैः शनैः शान्तरयेण वारिणा ।
निरीक्ष्य रेमे स समुद्रयोषितां
तरङ्गित-क्षौमविपाण्डु सैकतम् ॥ ४.६॥
मनोरमं प्रापितमन्तरं भ्रुवो-
रलङ्कृतं केसररेणुणाणुना ।
अलक्तताम्राधर-पल्लवश्रिया
समानयन्तीमिव बन्धुजीवकम् ॥ ४.७॥
नवातपालोहितमाहितं मुहु-
र्महानिवेशौ परितः पयोधरौ ।
चकासयन्तीमरविन्दजं रजः
परिश्रमाम्भःपुलकेन सर्पता ॥ ४.८॥
कपोलसंश्लेषि विलोचनत्विषा
विभूषयन्तीमवतंसकोत्पलम् ।
सुतेन पाण्डोः कलमस्य गोपिकां
निरीक्ष्य मेने शरदः कृतार्थता ॥ ४.९॥
उपारताः पश्चिमरात्रिगोचरा-
दपारयन्तः पतितुं जवेन गाम् ।
तमुत्सुकाश्चक्रुरवेक्षणोत्सुकं
गवां गणाः प्रस्नुतपीवरौधसः ॥ ४.१०॥
परीतमुक्षावजये जयश्रिया
नदन्तमुच्चैः क्षतसिन्धुरोधसम् ।
ददर्श पुष्टिं दधतं स शारदीं
सविग्रहं दर्पमिवाधिपं गवाम् ॥ ४.११॥
विमुच्यमानैरपि तस्य मन्थरं
गवां हिमानीविशदैः कदम्बकैः ।
शरन्नदीनां पुलिनैः कुतूहलं
गलद्दुकूलैर्जघनैरिवादधे ॥ ४.१२॥
गतान् पशूनां सहजन्मबन्धुतां
गृहाश्रयं प्रेम वनेषु बिभ्रतः ।
ददर्श गोपानुपधेनु पाण्डवः
कृतानुकारानिव गोभिरार्जवे ॥ ४.१३॥
परिभ्रमन्मूर्धजषट्पदाकुलैः
स्मितोदयादर्शितदन्तकेसरैः ।
मुखैश्चलत्कुण्डल-रश्मिरञ्जितै-
र्नवातपामृष्ट-सरोजचारुभिः ॥ ४.१४॥
निबद्धनिःश्वास-विकम्पिताधरा
लता इव प्रस्फुरितैकपल्लवाः ।
व्यपोढपार्श्वैरपवर्तितत्रिका
विकर्षणैः पाणिविहारहारिभिः ॥ ४.१५॥
व्रजाजिरेष्वम्बुदनादशङ्किनीः
शिखण्डिनामुन्मदयत्सु योषितः ।
मुहुः प्रणुन्नेषु मथां विवर्तनै-
र्नदत्सु कुम्भेषु मृदङ्गमन्थरम् ॥ ४.१६॥
स मन्थरावल्गित-पीवरस्तनीः
परिश्रमक्लान्त-विलोचनोत्पलाः ।
निरीक्षितुं नोपरराम बल्लवी
-रभिप्रनृत्ता इव वारयोषितः ॥ ४.१७॥
पपात पूर्वां जहतो विजिह्मतां
वृषोपभुक्तान्तिक-सस्यसम्पदः ।
रथाङ्गसीमन्तित-सान्द्रकर्दमान्
प्रसक्तसम्पातपृथक्कृतान् पथः ॥ ४.१८॥
जनैरुपग्राममनिन्द्यकर्मभि-
र्विविक्तभावेङ्गितभूषणैर्वृताः ।
भृशं ददर्शाश्रममण्डपोपमाः
सपुष्पहासाः स निवेशवीरुधः ॥ ४.१९॥
ततः स सम्प्रेक्ष्य शरद्गुणश्रियं
शरद्गुणालोकनलोलचक्षुषम् ।
उवाच यक्षस्तमचोदितोऽपि गां
न हीङ्गितज्ञोऽवसरेऽवसीदति ॥ ४.२०॥
इयं शिवाया नियतेरिवायतिः
कृतार्थयन्ती जगतः फलैः क्रियाः ।
जयश्रियं पार्थ पृथूकरोतु ते
शरत्प्रसन्नाम्बुरनम्बुवारिदा ॥ ४.२१॥
उपैति सस्यं परिणामरम्यता
नदीरनौद्धत्यमपङ्कता महीम् ।
नवैर्गुणैः सम्प्रति संस्तवस्थिरं
तिरोहितं प्रेम घनागमश्रियः ॥ ४.२२॥
पतन्ति नास्मिन् विशदाः पतत्त्रिणो
धृतेन्द्रचापा न पयोदपङ्क्तयः ।
तथापि पुष्णाति नभः श्रियं परां
न रम्यमाहार्यमपेक्षते गुणम् ॥ ४.२३॥
विपाण्डुभिर्म्लानतया पयोधरै-
श्च्युताचिराभा-गुणहेमदामभिः ।
इयं कदम्बानिलभर्तुरत्यये
न दिग्वधूनां कृशता न राजते ॥ ४.२४॥
विहाय वाञ्छामुदिते मदात्यया-
दरक्तकण्ठस्य रुते शिखण्डिनः ।
श्रुतिः श्रयत्युन्मदहंसनिःस्वनं
गुणाः प्रियत्वेऽधिकृता न संस्तवः ॥ ४.२५॥
अमी पृथुस्तम्बभृतः पिशङ्गतां
गता विपाकेन फलस्य शालयः ।
विकासि वप्राम्भसि गन्धसूचितं
नमन्ति निघ्रातुमिवासितोत्पलम् ॥ ४.२६॥
मृणालिनीनामनुरञ्जितं त्विषा
विभिन्नमम्भोज-पलाशशोभया ।
पयः स्फुरच्छालिशिखा-पिशङ्गितं
द्रुतं धनुष्खण्डमिवाहिविद्विषः ॥ ४.२७॥
विपाण्डु संव्यानमिवानिलोद्धतं
निरुन्धतीः सप्तपलाशजं रजः ।
अनाविलोन्मीलित-बाणचक्षुषः
सपुष्पहासा वनराजियोषितः ॥ ४.२८॥
अदीपितं वैद्युतजातवेदसा
सिताम्बुदच्छेद-तिरोहितातपम् ।
ततान्तरं सान्तरवारिशीकरैः
शिवं नभोवर्त्म सरोजवायुभिः ॥ ४.२९॥
सितच्छदानामपदिश्य धावतां
रुतैरमीषां ग्रथिताः पतत्रिणाम् ।
प्रकुर्वते वारिद-रोधनिर्गताः
परस्परालापमिवामला दिशः ॥ ४.३०॥
विहारभूमेरभिघोषमुत्सुकाः
शरीरजेभ्यश्च्युत-यूथपङ्क्तयः ।
असक्तमूधांसि पयः क्षरन्त्यमू-
रुपायनानीव नयन्ति धेनवः ॥ ४.३१॥
जगत्प्रसूतिर्जगदेकपावनी
व्रजोपकण्ठं तनयैरुपेयुषी ।
द्युतिं समग्रां समितिर्गवामसा-
वुपैति मन्त्रैरिव संहिताहुतिः ॥ ४.३२॥
कृतावधानं जितबर्हिणध्वनौ
सुरक्तगोपीजन-गीतनिःस्वने ।
इदं जिघत्सामपहाय भूयसीं
न सस्यमभ्येति मृगीकदम्बकम् ॥ ४.३३॥
असावनास्थापरयावधीरितः
सरोरुहिण्या शिरसा नमन्नपि ।
उपैति शुष्यन् कलमः सहाम्भसा
मनोभुवा तप्त इवाभिपाण्डुताम् ॥ ४.३४॥
अमी समुद्धूतसरोजरेणुना
हृता हृतासारकणेन वायुना ।
उपागमे दुश्चरिता इवापदां
गतिं न निश्चेतुमलं शिलीमुखाः ॥ ४.३५॥
मुखैरसौ विद्रुमभङ्गलोहितैः
शिखाः पिशङ्गीः कलमस्य बिभ्रती ।
शुकावलिर्व्यक्तशिरीषकोमला
धनुःश्रियं गोत्रभिदोऽनुगच्छति ॥ ४.३६॥
इति कथयति तत्र नातिदूरादथ
ददृशे पिहितोष्णरश्मिबिम्बः ।
विगलितजलभारशुक्लभासां
निचय इवाम्बुमुचां नगाधिराजः ॥ ४.३७॥
तमतनुवनराजिश्यामितोपत्यकान्तं
नगमुपरि हिमानीगौरमासाद्य जिष्णुः ।
व्यपगतमदरागस्यानुसस्मार लक्ष्मी-
मसितमधरवासो बिभ्रतः सीरपाणेः ॥ ४.३८॥
इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये
शरद्वर्णनं नाम चतुर्थः सर्गः ॥ ४॥
५. हिमवद्वर्णनं नाम पञ्चमः सर्गः
अथ जयाय नु मेरुमहीभृतो
रभसया नु दिगन्तदिदृक्षया ।
अभिययौ स हिमाचलमुच्छ्रितं
समुदितं नु विलङ्घयितुं नभः ॥ ५.१॥
तपनमण्डल-दीपितमेकतः
सततनैश-तमोवृतमन्यतः ।
हसितभिन्न-तमिस्रचयं पुरः
शिवमिवानुगतं गजचर्मणा ॥ ५.२॥
क्षितिनभःसुरलोकनिवासिभिः
कृतनिकेतमदृष्टपरस्परैः ।
प्रथयितुं विभुतामभिनिर्मितं
प्रतिनिधिं जगतामिव शम्भुना ॥ ५.३॥
भुजगराजसितेन नभःश्रिता
कनकराजि-विराजितसानुना ।
समुदितं निचयेन तडित्वतीं
लघयता शरदम्बुद-संहतिम् ॥ ५.४॥
मणिमयूख-चयांशुकभासुराः
सुरवधूपरिभुक्त-लतागृहाः ।
दधतमुच्चशिलान्तरगोपुराः
पुर इवोदितपुष्पवना भुवः ॥ ५.५॥
अविरतोज्झित-वारिविपाण्डुभि-
र्विरहितैरचिरद्युतितेजसा ।
उदितपक्षमिवारतनिःस्वनैः
पृथुनितम्ब-विलम्बिभिरम्बुदैः ॥ ५.६॥
दधतमाकरिभिः करिभिः क्षतैः
समवतारसमैरसमैस्तटैः ।
विविधकामहिता महिताम्भसः
स्फुटसरोजवना जवना नदीः ॥ ५.७॥
नवविनिद्र-जपाकुसुमत्विषां
द्युतिमतां निकरेण महाश्मनाम् ।
विहितसान्ध्य-मयूखमिव क्वचि-
न्निचितकाञ्चनभित्तिषु सानुषु ॥ ५.८॥
पृथुकदम्ब-कदम्बकराजितं
ग्रथितमाल-तमालवनाकुलम् ।
लघुतुषारतुषारजलश्च्युतं
धृतसदान-सदाननदन्तिनम् ॥ ५.९॥
रहितरत्नचयान्न शिलोच्चया-
नपलताभवना न दरीभुवः ।
विपुलिनाम्बुरुहा न सरिद्वधू-
रकुसुमान् दधतं न महीरुहः ॥ ५.१०॥
व्यथितसिन्धुमनीरशनैः शनै-
रमरलोकवधूजघनैर्घनैः ।
फणभृतामभितो विततं ततं
दयितरम्यलताबकुलैः कुलैः ॥ ५.११॥
ससुरचापमनेकमणिप्रभै-
रपपयोविशदं हिमपाण्डुभिः ।
अविचलं शिखरैरुपबिभ्रतं
ध्वनितसूचितमम्बुमुचां चयम् ॥ ५.१२॥
विकचवारिरुहं दधतं सरः
सकलहंसगणं शुचि मानसम् ।
शिवमगात्मजया च कृतेर्ष्यया
सकलहं सगणं शुचिमानसम् ॥ ५.१३॥
ग्रहविमानगणानभितो दिवं
ज्वलयतौषधिजेन कृशानुना ।
मुहुरनुस्मरयन्तमनुक्षपं
त्रिपुरदाहमुमापतिसेविनः ॥ ५.१४॥
विततशीकर-राशिभिरुच्छ्रितै-
रुपलरोधविवर्तिभिरम्बुभिः ।
दधतमुन्नतसानुसमुद्धतां
धृतसितव्यजनामिव जाह्नवीम् ॥ ५.१५॥
अनुचरेण धनाधिपतेरथो
नगविलोकनविस्मितमानसः ।
स जगदे वचनं प्रियमादरान्
मुखरतावसरे हि विराजते ॥ ५.१६॥
अलमेष विलोकितः प्रजानां
सहसा संहतिमंहसां विहन्तुम् ।
घनवर्त्म सहस्रधेव कुर्वन्
हिमगौरैरचलाधिपः शिरोभिः ॥ ५.१७॥
इह दुरधिगमैः किञ्चिदेवागमैः
सततमसुतरं वर्णयन्त्यन्तरम् ।
अमुमतिविपिनं वेद दिग्व्यापिनं
पुरुषमिव परं पद्मयोनिः परम् ॥ ५.१८॥
रुचिरपल्लव-पुष्पलतागृहै-
रुपलसज्जलजैर्जलराशिभिः ।
नयति सन्ततमुत्सुकतामयं
धृतिमतीरुपकान्तमपि स्त्रियः ॥ ५.१९॥
सुलभैः सदा नयवतायवता
निधिगुह्यकाधिपरमैः परमैः ।
अमुना धनैः क्षितिभृतातिभृता
समतीत्य भाति जगती जगती ॥ ५.२०॥
अखिलमिदममुष्य गौरीगुरो-
स्त्रिभुवनमपि नैति मन्ये तुलाम् ।
अधिवसति सदा यदेनं जनै-
रविदितविभवो भवानीपतिः ॥ ५.२१॥
वीतजन्मजरसं परं शुचि
ब्रह्मणः पदमुपैतुमिच्छताम् ।
आगमादिव तमोपहादितः
सम्भवन्ति मतयो भवच्छिदः ॥ ५.२२॥
दिव्यस्त्रीणां सचरणलाक्षारागा
रागायाते निपतितपुष्पापीडाः ।
पीडाभाजः कुसुमचिताः साशंसं
शंसन्त्यस्मिन् सुरतविशेषं शय्याः ॥ ५.२३॥
गुणसम्पदा समधिगम्य परं
महिमानमत्र महिते जगताम् ।
नयशालिनि श्रिय इवाधिपतौ
विरमन्ति न ज्वलितुमौषधयः ॥ ५.२४॥
कुररीगणः कृतरवस्तरवः
कुसुमानताः सकमलं कमलम् ।
इह सिन्धवश्च वरणावरणाः
करिणां मुदे सनलदानलदाः ॥ ५.२५॥
सादृश्यं गतमपनिद्रचूतगन्धै-
रामोदं मदजलसेकजं दधानः ।
एतस्मिन्मदयति कोकिलानकाले
लीनालिः सुरकरिणां कपोलकाषः ॥ ५.२६॥
सनाकवनितं नितम्बरुचिरं
चिरं सुनिनदैर्नदैर्वृतममुम् ।
मता फलवतोऽवतो रसपरा
परास्तवसुधा सुधाधिवसति ॥ ५.२७॥
श्रीमल्लताभवनमोषधयः प्रदीपाः
शय्या नवानि हरिचन्दनपल्लवानि ।
अस्मिन् रतिश्रमनुदश्च सरोजवाताः
स्मर्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः ॥ ५.२८॥
ईशार्थमम्भसि चिराय तपश्चरन्त्या
यादोविलङ्घन-विलोलविलोचनायाः ।
आलम्बताग्रकरमत्र भवो भवान्याः
श्च्योतन्निदाघसलिलाङ्गुलिना करेण ॥ ५.२९॥
येनापविद्धसलिलः स्फुटनागसद्मा
देवासुरैरमृतमम्बुनिधिर्ममन्थे ।
व्यावर्तनैरहिपतेरयमाहिताङ्कः
खं व्यालिखन्निव विभाति स मन्दराद्रिः ॥ ५.३०॥
नीतोच्छ्रायं मुहुरशिशिररश्मेरुस्रै-
रानीलाभैर्विरचितपरभागा रत्नैः ।
ज्योत्स्नाशङ्कामिव वितरति हंसश्येनी
मध्येऽप्यह्नः स्फटिकरजतभित्तिच्छाया ॥ ५.३१॥
दधत इव विलासशालि नृत्यं
मृदु पतता पवनेन कम्पितानि ।
इह ललितविलासिनीजनभ्रू-
गतिकुटिलेषु पयःसु पङ्कजानि ॥ ५.३२॥
अस्मिन्नगृह्यत पिनाकभृता सलील-
माबद्धवेपथुरधीरविलोचनायाः ।
विन्यस्तमङ्गल-महौषधिरीश्वरायाः
स्रस्तोरगप्रतिसरेण करेण पाणिः ॥ ५.३३॥
क्रामद्भिर्घन-पदवीमनेकसङ्ख्यै-
स्तेजोभिः शुचिमणिजन्मभिर्विभिन्नः ।
उस्राणां व्यभिचरतीव सप्तसप्तेः
पर्यस्यन्निह निचयः सहस्रसङ्ख्याम् ॥ ५.३४॥
व्यधत्त यस्मिन् पुरमुच्चगोपुरं
पुरां विजेतुर्धृतये धनाधिपः ।
स एष कैलास उपान्तसर्पिणः
करोत्यकालास्तमयं विवस्वतः ॥ ५.३५॥
नानारत्नज्योतिषां सन्निपातै-
श्छन्नेष्वन्तःसानु वप्रान्तरेषु ।
बद्धां बद्धां भित्तिशङ्काममुष्मिन्
नावानावान्मातरिश्वा निहन्ति ॥ ५.३६॥
रम्या नवद्युतिरपैति न शाद्वलेभ्यः
श्यामीभवन्त्यनुदिनं नलिनीवनानि ।
अस्मिन् विचित्रकुसुमस्तबकाचितानां
शाखाभृतां परिणमन्ति न पल्लवानि ॥ ५.३७॥
परिसरविषयेषु लीढमुक्ता
हरिततृणोद्गमशङ्कया मृगीभिः ।
इह नवशुककोमला मणीनां
रविकरसंवलिताः फलन्ति भासः ॥ ५.३८॥
उत्फुल्लस्थलनलिनी-वनादमुष्मा-
दुद्धूतः सरसिजसम्भवः परागः ।
वात्याभिर्वियति विवर्तितः समन्ता-
दाधत्ते कनकमयातपत्रलक्ष्मीम् ॥ ५.३९॥
इह सनियमयोः सुरापगाया-
मुषसि सयावकसव्यपादरेखा ।
कथयति शिवयोः शरीरयोगं
विषमपदा पदवी विवर्तनेषु ॥ ५.४०॥
सम्मूर्छतां रजतभित्ति-मयूखजालै
रालोलपादप-लतान्तरनिर्गतानाम् ।
घर्मद्युतेरिह मुहुः पटलानि धाम्ना-
मादर्शमण्डलनिभानि समुल्लसन्ति ॥ ५.४१॥
शुक्लैर्मयूखनिचयैः परिवीतमूर्ति-
र्वप्राभिघात-परिमण्डलितोरुदेहः ।
शृङ्गाण्यमुष्य भजते गणभर्तुरुक्षा
कुर्वन् वधूजनमनःसु शशाङ्कशङ्काम् ॥ ५.४२॥
सम्प्रति लब्धजन्म शनकैः कथमपि लघुनि
क्षीणपयस्युपेयुषि भिदां जलधरपटले ।
खण्डितविग्रहं बलभिदो धनुरिह विविधाः
पूरयितुं भवन्ति विभवः शिखरमणिरुचः ॥ ५.४३॥
स्नपितनवलतातरुप्रवालै-
रमृतलवस्रुति-शालिभिर्मयूखैः ।
सततमसितयामिनीषु शम्भो-
रमलयतीह वनान्तमिन्दुलेखा ॥ ५.४४॥
क्षिपति योऽनुवनं विततां बृहद्
बृहतिकामिव रौचनिकीं रुचम् ।
अयमनेक-हिरण्मयकन्दरस्तव
पितुर्दयितो जगतीधरः ॥ ५.४५॥
सक्तिं जवादपनयत्यनिले लतानां
वैरोचनैर्द्विगुणिताः सहसा मयूखैः ।
रोधोभुवां मुहुरमुत्र हिरण्मयीनां
भासस्तडिद्विलसितानि विडम्बयन्ति ॥ ५.४६॥
कषणकम्पनिरस्तमहाहिभिः
क्षणविमत्तमतङ्गजवर्जितैः ।
इह मदस्नपितैरनुमीयते
सुरगजस्य गतं हरिचन्दनैः ॥ ५.४७॥
जलदजालघनैरसिताश्मना-
मुपहतप्रचयेह मरीचिभिः ।
भवति दीप्तिरदीपितकन्दरा
तिमिरसंवलितेव विवस्वतः ॥ ५.४८॥
भव्यो भवन्नपि मुनेरिह शासनेन
क्षात्रे स्थितः पथि तपस्य हतप्रमादः ।
प्रायेण सत्यपि हितार्थकरे विधौ हि
श्रेयांसि लब्धुमसुखानि विनान्तरायैः ॥ ५.४९॥
मा भूवन्नपथहृतस्तवेन्द्रियाश्वाः
सन्तापे दिशतु शिवः शिवां प्रसक्तिम् ।
रक्षन्तस्तपसि बलं च लोकपालाः
कल्याणीमधिकफलां क्रियां क्रियासुः ॥ ५.५०॥
इत्युक्त्वा सपदि हितं प्रियं प्रियार्हे
धाम स्वं गतवति राजराजभृत्ये ।
सोत्कण्ठं किमपि पृथासुतः प्रदध्यौ
सन्धत्ते भृशमरतिं हि सद्वियोगः ॥ ५.५१॥
तमनतिशयनीयं सर्वतः सारयोगा-
दविरहितमनेकेनाङ्कभाजा फलेन ।
अकृशमकृशलक्ष्मीश्चेतसाशंसितं स
स्वमिव पुरुषकारं शैलमभ्याससाद ॥ ५.५२॥
इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये
हिमवद्वर्णनं नाम पञ्चमः सर्गः ॥ ५॥
६. युवतिप्रस्थानं नाम षष्ठः सर्गः
रुचिराकृतिः कनकसानुमथो
परमः पुमानिव पतिं पतताम् ।
धृतसत्पथस्त्रिपथगामभितः
स तमारुरोह पुरुहूतसुतः ॥ ६.१॥
तमनिन्द्यबन्दिन इवेन्द्रसुतं
विहितालि-निक्वणजयध्वनयः ।
पवनेरिताकुल-विजिह्मशिखा
जगतीरुहोऽवचकरुः कुसुमैः ॥ ६.२॥
अवधूतपङ्कज-परागकणा-
स्तनुजाह्नवी-सलिलवीचिभिदः ।
परिरेभिरेऽभिमुखमेत्य सुखाः
सुहृदः सखायमिव तं मरुतः ॥ ६.३॥
उदितोपल-स्खलनसंवलिताः
स्फुटहंससारस-विरावयुजः ।
मुदमस्य माङ्गलिकतूर्यकृतां
ध्वनयः प्रतेनुरनुवप्रमपाम् ॥ ६.४॥
अवरुग्णतुङ्ग-सुरदारुतरौ
निचये पुरः सुरसरित्पयसाम् ।
स ददर्श वेतसवनाचरितां
प्रणतिं बलीयसि समृद्धिकरीम् ॥ ६.५॥
प्रबभूव नालमवलोकयितुं
परितः सरोजरजसारुणितम् ।
सरिदुत्तरीयमिव संहतिमत्स
तरङ्गरङ्गि कलहंसकुलम् ॥ ६.६॥
दधति क्षतीः परिणतद्विरदे
मुदितालियोषिति मदस्रुतिभिः ।
अधिकां स रोधसि बबन्ध धृतिं
महते रुजन्नपि गुणाय महान् ॥ ६.७॥
अनुहेमवप्रमरुणैः समतां
गतमूर्मिभिः सहचरं पृथुभिः ।
स रथाङ्गनामवनितां करुणै-
रनुबध्नतीमभिननन्द रुतैः ॥ ६.८॥
सितवाजिने निजगदू रुचय-
श्चलवीचिराग-रचनापटवः ।
मणिजालमम्भसि निमग्नमपि
स्फुरितं मनोगतमिवाकृतयः ॥ ६.९॥
उपलाहतोद्धत-तरङ्गधृतं
जविना विधूतविततं मरुता ।
स ददर्श केतकशिखाविशदं
सरितः प्रहासमिव फेनमपाम् ॥ ६.१०॥
बहु बर्हिचन्द्रकनिभं विदधे
धृतिमस्य दानपयसां पटलम् ।
अवगाढमीक्षितुमिवेभपतिं
विकसद्विलोचनशतं सरितः ॥ ६.११॥
प्रतिबोधजृम्भण-विभिन्नमुखी
पुलिने सरोरुहदृशा ददृशे ।
पतदच्छमौक्तिक-मणिप्रकरा
गलदश्रुबिन्दुरिव शुक्तिवधूः ॥ ६.१२॥
शुचिरप्सु विद्रुमलताविटप-
स्तनुसान्द्र-फेनलवसंवलितः ।
स्मरदायिनः स्मरयति स्म भृशं
दयिताधरस्य दशनांशुभृतः ॥ ६.१३॥
उपलभ्य चञ्चलतरङ्गधृतं
मदगन्धमुत्थितवतां पयसः ।
प्रतिदन्तिनामिव स सम्बुबुधे
करियादसामभिमुखान् करिणः ॥ ६.१४॥
स जगाम विस्मयमुद्वीक्ष्य पुरः
सहसा समुत्पिपतिषोः फणिनः ।
प्रहितं दिवि प्रजविभिः श्वसितैः
शरदभ्रविभ्रममपां पटलम् ॥ ६.१५॥
स ततार सैकतवतीरभितः
शफरीपरिस्फुरितचारुदृशः ।
ललिताः सखीरिव बृहज्जघनाः
सुरनिम्नगामुपयतीः सरितः ॥ ६.१६॥
अधिरुह्य पुष्पभरनम्रशिखैः
परितः परिष्कृततलां तरुभिः ।
मनसः प्रसत्तिमिव मूर्ध्नि गिरेः
शुचिमाससाद स वनान्तभुवम् ॥ ६.१७॥
अनुसानु पुष्पितलताविततिः
फलितोरु-भूरुहविविक्तवनः ।
धृतिमाततान तनयस्य हरे-
स्तपसेऽधिवस्तुमचलामचलः ॥ ६.१८॥
प्रणिधाय तत्र विधिनाथ धियं
दधतः पुरातनमुनेर्मुनिताम् ।
श्रममादधावसुकरं न तपः
किमिवावसादकरमात्मवताम् ॥ ६.१९॥
शमयन् धृतेन्द्रियशमैकसुखः
शुचिभिर्गुणैरघमयं स तमः ।
प्रतिवासरं सुकृतिभिर्ववृधे
विमलः कलाभिरिव शीतरुचिः ॥ ६.२०॥
अधरीचकार च विवेकगुणा-
दगुणेषु तस्य धियमस्तवतः ।
प्रतिघातिनीं विषयसङ्गरतिं
निरुपप्लवः शमसुखानुभवः ॥ ६.२१॥
मनसा जपैः प्रणतिभिः प्रयतः
समुपेयिवानधिपतिं स दिवः ।
सहजेतरौ जयशमौ दधती
बिभराम्बभूव युगपन्महसी ॥ ६.२२॥
शिरसा हरिन्मणिनिभः स वहन्
कृतजन्मनोऽभिषवणेन जटाः ।
उपमां ययावरुणदीधितिभिः
परिमृष्टमूर्धनि तमालतरौ ॥ ६.२३॥
धृतहेतिरप्यधृत-जिह्ममति-
श्चरितैर्मुनीनधरयञ्शुचिभिः ।
रजयाञ्चकार विरजाः स मृगान्
कमिवेशते रमयितुं न गुणाः ॥ ६.२४॥
अनुकूलपातिनमचण्डगतिं
किरता सुगन्धिमभितः पवनम् ।
अवधीरितार्तवगुणं सुखतां
नयता रुचां निचयमंशुमतः ॥ ६.२५॥
नवपल्लवाञ्जलिभृतः प्रचये
बृहतस्तरून् गमयतावनतिम् ।
स्तृणता तृणैः प्रतिनिशं मृदुभिः
शयनीयतामुपयतीं वसुधाम् ॥ ६.२६॥
पतितैरपेतजलदान्नभसः
पृषतैरपां शमयता च रजः ।
स दयालुनेव परिगाढकृशः
परिचर्ययानुजगृहे तपसा ॥ ६.२७॥
महते फलाय तदवेक्ष्य शिवं
विकसन्निमित्तकुसुमं स पुरः ।
न जगाम विस्मयवशं वशिनां
न निहन्ति धैर्यमनुभावगुणः ॥ ६.२८॥
तदभूरिवासरकृतं सुकृतै-
रुपलभ्य वैभवमनन्यभवम् ।
उपतस्थुरास्थितविषादधियः
शतयज्वनो वनचरा वसतिम् ॥ ६.२९॥
विदिताः प्रविश्य विहितानतयः
शिथिलीकृतेऽधिकृतकृत्यविधौ ।
अनपेतकालमभिरामकथाः
कथयाम्बभूवुरिति गोत्रभिदे ॥ ६.३०॥
शुचिवल्कवीत-तनुरन्यतम-
स्तिमिरच्छिदामिव गिरौ भवतः ।
महते जयाय मघवन्ननघः
पुरुषस्तपस्यति तपञ्जगतीम् ॥ ६.३१॥
स बिभर्ति भीषणभुजङ्गभुजः
पृथु विद्विषां भयविधायि धनुः ।
अमलेन तस्य धृतसच्चरिता-
श्चरितेन चातिशयिता मुनयः ॥ ६.३२॥
मरुतः शिवा नवतृणा जगती
विमलं नभो रजसि वृष्टिरपाम् ।
गुणसम्पदानुगुणतां गमितः
कुरुतेऽस्य भक्तिमिव भूतगणः ॥ ६.३३॥
इतरेतरानभिभवेन मृगा-
स्तमुपासते गुरुमिवान्तसदः ।
विनमन्ति चास्य तरवः प्रचये
परवान् स तेन भवतेव नगः ॥ ६.३४॥
उरु सत्त्वमाह विपरिश्रमता
परमं वपुः प्रथयतीव जयम् ।
शमिनोऽपि तस्य नवसङ्गमने
विभुतानुषङ्गि भयमेति जनः ॥ ६.३५॥
ऋषिवंशजः स यदि दैत्यकुले
यदि वान्वये महति भूमिभृताम् ।
चरतस्तपस्तव वनेषु सहा
न वयं निरूपयितुमस्य गतिम् ॥ ६.३६॥
विगणय्य कारणमनेकगुणं
निजयाथवा कथितमल्पतया ।
असदप्यदः सहितुमर्हति नः
क्व वनेचराः क्व निपुणा मतयः ॥ ६.३७॥
अधिगम्य गुह्यकगणादिति तन्-
मनसः प्रियं प्रियसुतस्य तपः ।
निजुगोप हर्षमुदितं मघवा
नयवर्त्मगाः प्रभवतां हि धियः ॥ ६.३८॥
प्रणिधाय चित्तमथ भक्ततया
विदितेऽप्यपूर्व इव तत्र हरिः ।
उपलब्धुमस्य नियमस्थिरतां
सुरसुन्दरीरिति वचोऽभिदधे ॥ ६.३९॥
सुकुमारमेकमणु मर्मभिदा-
मतिदूरगं युतममोघतया ।
अविपक्षमस्त्रमपरं कतम-
द्विजयाय यूयमिव चित्तभुवः ॥ ६.४०॥
भववीतये हतबृहत्तमसा-
मवबोधवारि रजसः शमनम् ।
परिपीयमाणमिव वोऽसकलै-
रवसादमेति नयनाञ्जलिभिः ॥ ६.४१॥
बहुधा गतां जगति भूतसृजा
कमनीयतां समभिहृत्य पुरा ।
उपपादिता विदधता भवतीः
सुरसद्मयानसुमुखी जनता ॥ ६.४२॥
तदुपेत्य विघ्नयत तस्य तपः
कृतिभिः कलासु सहिताः सचिवैः ।
हृतवीतरागमनसां ननु वः
सुखसङ्गिनं प्रति सुखावजितिः ॥ ६.४३॥
अविमृष्यमेतदभिलष्यति स
द्विषतां वधेन विषयाभिरतिम् ।
भववीतये न हि तथा स विधिः
क्व शरासनं क्व च विमुक्तिपथः ॥ ६.४४॥
पृथुधाम्नि तत्र परिबोधि च मा
भवतीभिरन्यमुनिवद्विकृतिः ।
स्वयशांसि विक्रमवतामवतां
न वधूष्वघानि विमृषन्ति धियः ॥ ६.४५॥
आशंसितापचितिचारु पुरः सुराणा-
मादेशमित्यभिमुखं समवाप्य भर्तुः ।
लेभे परां द्युतिममर्त्यवधूसमूहः
सम्भावना ह्यधिकृतस्य तनोति तेजः ॥ ६.४६॥
प्रणतिमथ विधाय प्रस्थिताः सद्मनस्ताः
स्तनभरनमिताङ्गीरङ्गनाः प्रीतिभाजः ।
अचलनलिनलक्ष्मीहारि नालं बभूव
स्तिमितममरभर्तुर्द्रष्टुमक्ष्णां सहस्रम् ॥ ६.४७॥
इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये
युवतिप्रस्थानं नाम षष्ठः सर्गः ॥ ६॥
७. सप्तमः सर्गः
श्रीमद्भिः सरथगजैः सुराङ्गनानां
गुप्तानामथ सचिवैस्त्रिलोकभर्तुः ।
सम्मूर्छन्नलघु-विमानरन्ध्रभिन्नः
प्रस्थानं समभिदधे मृदङ्गनादः ॥ ७.१॥
सोत्कण्ठैरमर-गणैरनुप्रकीर्णान्
निर्याय ज्वलितरुचः पुरान्मघोनः ।
रामाणामुपरि विवस्वतः स्थितानां
नासेदे चरितगुणत्वमातपत्रैः ॥ ७.२॥
धूतानामभिमुखपातिभिः समीरै-
रायासादविशद-लोचनोत्पलानाम् ।
आनिन्ये मदजनितां श्रियं वधूना-
मुष्णांशुद्युतिजनितः कपोलरागः ॥ ७.३॥
तिष्ठद्भिः कथमपि देवतानुभावा-
दाकृष्टैः प्रजविभिरायतं तुरङ्गैः ।
नेमीनामसति विवर्तने रथौघै-
रासेदे वियति विमानवत्प्रवृत्तिः ॥ ७.४॥
कान्तानां कृतपुलकः स्तनाङ्गरागे
वक्त्रेषु च्युततिलकेषु मौक्तिकाभः ।
सम्पेदे श्रमसलिलोद्गमो विभूषा
रम्याणां विकृतिरपि श्रियं तनोति ॥ ७.५॥
राजद्भिः पथि मरुतामभिन्नरूपै-
रुल्कार्चिः स्फुटगतिभिर्ध्वजांशुकानाम् ।
तेजोभिः कनकनिकाष-राजिगौरै-
रायामः क्रियत इव स्म सातिरेकः ॥ ७.६॥
रामाणामवजित-माल्यसौकुमार्ये
सम्प्राप्ते वपुषि सहत्वमातपस्य ।
गन्धर्वैरधिगतविस्मयैः प्रतीये
कल्याणी विधिषु विचित्रता विधातुः ॥ ७.७॥
सिन्दूरैः कृतरुचयः सहेमकक्ष्याः
स्रोतोभिस्त्रिदशगजा मदं क्षरन्तः ।
सादृश्यं ययुररुणांशु-रागभिन्नै-
र्वर्षद्भिः स्फुरितशतह्रदैः पयोदैः ॥ ७.८॥
अत्यर्थं दुरुपसदादुपेत्य दूरं
पर्यन्तादहिम-मयूखमण्डलस्य ।
आशानामुपरिचितामिवैकवेणीं
रम्योर्मिं त्रिदशनदीं ययुर्बलानि ॥ ७.९॥
आमत्तभ्रमर-कुलाकुलानि
धुन्वन्नुद्धूत-ग्रथितरजांसि पङ्कजानि ।
कान्तानां गगननदीतरङ्गशीतः
सन्तापं विरमयति स्म मातरिश्वा ॥ ७.१०॥
सम्भिन्नैरिभ-तुरगावगाहनेन
प्राप्योर्वीरनुपदवीं विमानपङ्क्तीः ।
तत्पूर्वं प्रतिविदधे सुरापगाया
वप्रान्तस्खलितविवर्तनं पयोभिः ॥ ७.११॥
क्रान्तानां ग्रहचरितात्पथो रथाना-
मक्षाग्रक्षत-सुरवेश्मवेदिकानाम् ।
निःसङ्गं प्रधिभिरुपाददे विवृत्तिः
सम्पीडक्षुभितजलेषु तोयदेषु ॥ ७.१२॥
तप्तानामुपदधिरे विषाणभिन्नाः
प्रह्लादं सुरकरिणां घनाः क्षरन्तः ।
युक्तानां खलु महतां परोपकारे
कल्याणी भवति रुजत्स्वपि प्रवृत्तिः ॥ ७.१३॥
संवाता मुहुरनिलेन नीयमाने
दिव्यस्त्रीजघनवरांशुके विवृत्तिम् ।
पर्यस्यत्पृथुमणि-मेखलांशुजालं
सञ्जज्ञे युतकमिवान्तरीयमूर्वोः ॥ ७.१४॥
प्रत्यार्द्रीकृत-तिलकास्तुषारपातैः
प्रह्लादं शमितपरिश्रमा दिशन्तः ।
कान्तानां बहुमतिमाययुः पयोदा
नाल्पीयान् बहु सुकृतं हिनस्ति दोषः ॥ ७.१५॥
यातस्य ग्रथिततरङ्गसैकताभे
विच्छेदं विपयसि वारिवाहजाले ।
आतेनुस्त्रिदश-वधूजनाङ्गभाजां
सन्धानं सुरधनुषः प्रभा मणीनाम् ॥ ७.१६॥
संसिद्धाविति करणीयसन्निबद्धै-
रालापैः पिपतिषतां विलङ्घ्य वीथीम् ।
आसेदे दशशतलोचनध्वजिन्या
जीमूतैरपिहितसानुरिन्द्रकीलः ॥ ७.१७॥
आकीर्णा मुखनलिनैर्विलासिनीना-
मुद्धूतस्फुट-विशदातपत्रफेना ।
सा तूर्यध्वनित-गभीरमापतन्ती
भूभर्तुः शिरसि नभोनदीव रेजे ॥ ७.१८॥
सेतुत्वं दधति पयोमुचां विताने
संरम्भादभिपततो रथाञ्जवेन ।
आनिन्युर्नियमित-रश्मिभुग्नघोणाः
कृच्छ्रेण क्षितिमवनामिनस्तुरङ्गाः ॥ ७.१९॥
माहेन्द्रं नगमभितः करेणुवर्याः
पर्यन्तस्थितजलदा दिवः पतन्तः ।
सादृश्यं निलयन-निष्प्रकम्पपक्षै-
राजग्मुर्जलनिधि-शायिभिर्नगेन्द्रैः ॥ ७.२०॥
उत्सङ्गे समविषमे समं महाद्रेः
क्रान्तानां वियदभिपातलाघवेन ।
आ मूलादुपनदि सैकतेषु लेभे
सामग्री खुरपदवी तुरङ्गमाणाम् ॥ ७.२१॥
सध्वानं निपतितनिर्झरासु मन्द्रैः
सम्मूर्छन् प्रतिनिनदैरधित्यकासु ।
उद्ग्रीवैर्घनरव-शङ्कया मयूरैः
सोत्कण्ठं ध्वनिरुपशुश्रुवे रथानाम् ॥ ७.२२॥
सम्भिन्नामविरल-पातिभिर्मयूखै-
र्नीलानां भृशमुपमेखलं मणीनाम् ।
विच्छिन्नामिव वनिता नभोन्तराले
वप्राम्भःस्रुतिमवलोकयाम्बभूवुः ॥ ७.२३॥
आसन्नद्विपपदवीमदानिलाय
क्रुध्यन्तो धियमवमत्य धूर्गतानाम् ।
सव्याजं निजकरिणीभिरात्तचित्ताः
प्रस्थानं सुरकरिणः कथञ्चिदीषुः ॥ ७.२४॥
नीरन्ध्रं पथिषु रजो रथाङ्गनुन्नं
पर्यस्यन्नवसलिलारुणं वहन्ती ।
आतेने वनगहनानि वाहिनी सा
घर्मान्तक्षुभितजलेव जह्नुकन्या ॥ ७.२५॥
सम्भोगक्षम-गहनामथोपगङ्गं
बिभ्राणां ज्वलितमणीनि सैकतानि ।
अध्यूषुश्च्युतकुसुमाचितां सहाया
वृत्रारेरविरलशाद्वलां धरित्रीम् ॥ ७.२६॥
भूभर्तुः समधिकमादधे तदोर्व्याः
श्रीमत्तां हरिसखवाहिनीनिवेशः ।
संसक्तौ किमसुलभं महोदयाना-
मुच्छ्रायं नयति यदृच्छयापि योगः ॥ ७.२७॥
सामोदाः कुसुमतरुश्रियो विविक्ताः
सम्पत्तिः किसलयशालिनीलतानाम् ।
साफल्यं ययुरमराङ्गनोपभुक्ताः
सा लक्ष्मीरुपकुरुते यया परेषाम् ॥ ७.२८॥
क्लान्तोऽपि त्रिदशवधूजनः पुरस्ता-
ल्लीनाहिश्वसित-विलोलपल्लवानाम् ।
सेव्यानां हतविनयैरिवावृतानां
सम्पर्कं परिहरति स्म चन्दनानाम् ॥ ७.२९॥
उत्सृष्टध्वजकुथकङ्कटा धरित्री-
मानीता विदितनयैः श्रमं विनेतुम् ।
आक्षिप्तद्रुमगहना युगान्तवातैः
पर्यस्ता गिरय इव द्विपा विरेजुः ॥ ७.३०॥
प्रस्थानश्रमजनितां विहाय निद्रा-
मामुक्ते गजपतिना सदानपङ्के ।
शय्यान्ते कुलमलिनां क्षणं विलीनं
संरम्भच्युतमिव शृङ्खलं चकाशे ॥ ७.३१॥
आयस्तः सुरसरिदोघरुद्धवर्त्मा
सम्प्राप्तुं वनगजदानगन्धि रोधः ।
मूर्धानं निहितशिताङ्कुशं विधुन्वन्
यन्तारं न विगणयाञ्चकार नागः ॥ ७.३२॥
आरोढुः समवनतस्य पीतशेषे
साशङ्कं पयसि समीरिते करेण ।
सम्मार्जन्नरुणमदस्रुती कपोलौ
सस्यन्दे मद इव शीकरः करेणोः ॥ ७.३३॥
आघ्राय क्षणमतितृष्यतापि रोषा-
दुत्तीरं निहितविवृत्तलोचनेन ।
सम्पृक्तं वनकरिणां मदाम्बुसेकै-
र्नाचेमे हिममपि वारि वारणेन ॥ ७.३४॥
प्रश्च्योतन्मदसुरभीणि निम्नगायाः
क्रीडन्तो गजपतयः पयांसि कृत्वा ।
किञ्जल्कव्यवहित-ताम्रदानलेखै-
रुत्तेरुः सरसिजगन्धिभिः कपोलैः ॥ ७.३५॥
आकीर्णं बलरजसा घनारुणेन
प्रक्षोभैः सपदि तरङ्गितं तटेषु ।
मातङ्गोन्मथित-सरोजरेणुपिङ्गं
माञ्जिष्ठं वसनमिवाम्बु निर्बभासे ॥ ७.३६॥
श्रीमद्भिर्नियमित-कन्धरापरान्तैः
संसक्तैरगुरुवनेषु साङ्गहारम् ।
सम्प्रापे निसृतमदाम्बुभिर्गजेन्द्रैः
प्रस्यन्दिप्रचलित-गण्डशैलशोभा ॥ ७.३७॥
निःशेषं प्रशमितरेणु वारणानां
स्रोतोभिर्मदजलमुज्झतामजस्रम् ।
आमोदं व्यवहितभूरिपुष्पगन्धो
भिन्नैलासुरभिमुवाह गन्धवाहः ॥ ७.३८॥
सादृश्यं दधति गभीरमेघघोषै-
रुन्निद्रक्षुभित-मृगाधिपश्रुतानि ।
आतेनुश्चकित-चकोरनीलकण्ठान्
कच्छान्तानमर-महेभबृंहितानि ॥ ७.३९॥
शाखावसक्त-कमनीयपरिच्छदाना-
मध्वश्रमातुर-वधूजनसेवितानाम् ।
जज्ञे निवेशनविभागपरिष्कृतानां
लक्ष्मीः पुरोपवनजा वनपादपानाम् ॥ ७.४०॥
इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये
सप्तमः सर्गः ॥ ७॥
८. सुराङ्गनाविहारः नामाष्टमः सर्गः
अथ स्वमायाकृत-मन्दिरोज्ज्वलं
ज्वलन्मणि व्योमसदां सनातनम् ।
सुराङ्गना गोपतिचापगोपुरं
पुरं वनानां विजिहीर्षया जहुः ॥ ८.१॥
यथायथं ताः सहिता नभश्चरैः
प्रभाभिरुद्भासित-शैलवीरुधः ।
वनं विशन्त्यो वनजायतेक्षणाः
क्षणद्युतीनां दधुरेकरूपताम् ॥ ८.२॥
निवृत्तवृत्तोरु-पयोधरक्लमः
प्रवृत्तनिर्ह्रादि-विभूषणारवः ।
नितम्बिनीनां भृशमादधे धृतिं
नभःप्रयाणादवनौ परिक्रमः ॥ ८.३॥
घनानि कामं कुसुमानि बिभ्रतः
करप्रचेयान्यपहाय शाखिनः ।
पुरोऽभिसस्रे सुरसुन्दरीजनै-
र्यथोत्तरेच्छा हि गुणेषु कामिनः ॥ ८.४॥
तनूरलक्तारुण-पाणिपल्लवाः
स्फुरन्नखांशूत्कर-मञ्जरीभृतः ।
विलासिनीबाहुलता वनालयो
विलेपनामोदहृताः सिषेविरे ॥ ८.५॥
निपीयमानस्तबका शिलीमुखै-
रशोकयष्टिश्चलबालपल्लवा ।
विडम्बयन्ती ददृशे वधूजनै-
रमन्ददष्टौष्ठकरावधूननम् ॥ ८.६॥
करौ धुनाना नवपल्लवाकृती
वृथा कृथा मानिनि मा परिश्रमम् ।
उपेयुषी कल्पलताभिशङ्कया
कथं न्वितस्त्रस्यति षट्पदावलिः ॥ ८.७॥
जहीहि कोपं दयितोऽनुगम्यतां
पुरानुशेते तव चञ्चलं मनः ।
इति प्रियं काञ्चिदुपैतुमिच्छतीं
पुरोऽनुनिन्ये निपुणः सखीजनः ॥ ८.८॥
समुन्नतैः काशदुकूलशालिभिः
परिक्वणत्सारस-पङ्क्तिमेखलैः ।
प्रतीरदेशैः स्वकलत्रचारुभि-
र्विभूषिताः कुञ्जसमुद्रयोषितः ॥ ८.९॥
विदूरपातेन भिदामुपेयुष-
श्च्युताः प्रवाहादभितः प्रसारिणः ।
प्रियाङ्कशीताः शुचिमौक्तिकत्विषो
वनप्रहासा इव वारिबिन्दवः ॥ ८.१०॥
सखीजनं प्रेम गुरूकृतादरं
निरीक्षमाणा इव नम्रमूर्तयः ।
स्थिरद्विरेफाञ्जन-शारितोदरै-
र्विसारिभिः पुष्पविलोचनैर्लताः ॥ ८.११॥
उपेयुषीणां बृहतीरधित्यका
मनांसि जह्रुः सुरराजयोषिताम् ।
कपोलकाषैः करिणां मदारुणै-
रुपाहितश्यामरुचश्च चन्दनाः ॥ ८.१२॥
स्वगोचरे सत्यपि चित्तहारिणा
विलोभ्यमानाः प्रसवेन शाखिनाम् ।
नभश्चराणामुपकर्तुमिच्छतां
प्रियाणि चक्रुः प्रणयेन योषितः ॥ ८.१३॥
प्रयच्छतोच्चैः कुसुमानि मानिनी
विपक्षगोत्रं दयितेन लम्भिता ।
न किञ्चिदूचे चरणेन केवलं
लिलेख बाष्पाकुललोचना भुवम् ॥ ८.१४॥
प्रियेऽपरा यच्छति वाचमुन्मुखी
निबद्धदृष्टिः शिथिलाकुलोच्चया ।
समादधे नांशुकमाहितं वृथा
विवेद पुष्पेषु न पाणिपल्लवम् ॥ ८.१५॥
सलीलमासक्त-लतान्तभूषणं
समासजन्त्या कुसुमावतंसकम् ।
स्तनोपपीडं नुनुदे नितम्बिना
घनेन कश्चिज्जघनेन कान्तया ॥ ८.१६॥
कलत्रभारेण विलोलनीविना
गलद्दुकूलस्तनशालिनोरसा ।
बलिव्यपाय-स्फुटरोमराजिना
निरायतत्वादुदरेण ताम्यता ॥ ८.१७॥
विलम्बमानाकुलकेशपाशया
कयाचिदाविष्कृतबाहुमूलया ।
तरुप्रसूनान्यपदिश्य सादरं
मनोधिनाथस्य मनः समाददे ॥ ८.१८॥
व्यपोहितुं लोचनतो मुखानिलै-
रपारयन्तं किल पुष्पजं रजः ।
पयोधरेणोरसि काचिदुन्मनाः
प्रियं जघानोन्नतपीवरस्तनी ॥ ८.१९॥
इमान्यमूनीत्यपवर्जिते शनै-
र्यथाभिरामं कुसुमाग्रपल्लवे ।
विहाय निःसारतयेव भूरुहान्
पदं वनश्रीर्वनितासु सन्दधे ॥ ८.२०॥
प्रवालभङ्गारुणपाणिपल्लवः
परागपाण्डूकृतपीवरस्तनः ।
महीरुहः पुष्पसुगन्धिराददे
वपुर्गुणोच्छ्रायमिवाङ्गनाजनः ॥ ८.२१॥
वरोरुभिर्वारणहस्तपीवरै-
श्चिराय खिन्नान्नवपल्लवश्रियः ।
समेऽपि यातुं चरणाननीश्वरान्
मदादिव प्रस्खलतः पदे पदे ॥ ८.२२॥
विसारिकाञ्चीमणिरश्मिलब्धया
मनोहरोच्छ्राय-नितम्बशोभया ।
स्थितानि जित्वा नवसैकतद्युतिं
श्रमातिरिक्तैर्जघनानि गौरवैः ॥ ८.२३॥
समुच्छ्वसत्पङ्कज-कोशकोमलै-
रुपाहितश्रीण्युपनीवि नाभिभिः ।
दधन्ति मध्येषु वलीविभङ्गिषु
स्तनातिभारादुदराणि नम्रताम् ॥ ८.२४॥
समानकान्तीनि तुषारभूषणैः
सरोरुहैरस्फुटपत्त्रपङ्क्तिभिः ।
चितानि घर्माम्बुकणैः समन्ततो
मुखान्यनुत्फुल्लविलोचनानि च ॥ ८.२५॥
विनिर्यतीनां गुरुखेदमन्थरं
सुराङ्गनानामनुसानुवर्त्मनः ।
सविस्मयं रूपयतो नभश्चरान्
विवेश तत्पूर्वमिवेक्षणादरः ॥ ८.२६॥
अथ स्फुरन्मीनविधूतपङ्कजा
विपङ्कतीरस्खलितोर्मिसंहतिः ।
पयोऽवगाढुं कलहंसनादिनी
समाजुहावेव वधूः सुरापगा ॥ ८.२७॥
प्रशान्तघर्माभिभवः शनैर्विवान्
विलासिनीभ्यः परिमृष्टपङ्कजः ।
ददौ भुजालम्बमिवात्तशीकर-
स्तरङ्गमालान्तरगोचरोऽनिलः ॥ ८.२८॥
गतैः सहावैः कलहंसविक्रमं
कलत्रभारैः पुलिनं नितम्बिभिः ।
मुखैः सरोजानि च दीर्घलोचनैः
सुरस्त्रियः साम्यगुणान्निरासिरे ॥ ८.२९॥
विभिन्नपर्यन्तग-मीनपङ्क्तयः
पुरो विगाढाः सखिभिर्मरुत्वतः ।
कथञ्चिदापः सुरसुन्दरीजनैः
सभीतिभिस्तत्प्रथमं प्रपेदिरे ॥ ८.३०॥
विगाढमात्रे रमणीभिरम्भसि
प्रयत्नसंवाहित-पीवरोरुभिः ।
विभिद्यमाना विससार सारसा-
नुदस्य तीरेषु तरङ्गसंहतिः ॥ ८.३१॥
शिलाघनैर्नाकसदामुरःस्थलै-
र्बृहन्निवेशैश्च वधूपयोधरैः ।
तटाभिनीतेन विभिन्नवीचिना
रुषेव भेजे कलुषत्वमम्भसा ॥ ८.३२॥
विधूतकेशाः परिलोलितस्रजः
सुराङ्गनानां प्रविलुप्तचन्दनाः ।
अतिप्रसङ्गाद्विहितागसो मुहुः
प्रकम्पमीयुः सभया इवोर्मयः ॥ ८.३३॥
विपक्षचित्तोन्मथना नखव्रणा-
स्तिरोहिता विभ्रममण्डनेन ये ।
हृतस्य शेषानिव कुङ्कुमस्य तान्
विकत्थनीयान् दधुरन्यथा स्त्रियः ॥ ८.३४॥
सरोजपत्त्रे नु विलीनषट्पदे
विलोलदृष्टेः स्विदमू विलोचने ।
शिरोरुहाः स्विन्नतपक्ष्मसन्तते-
र्द्विरेफवृन्दं नु निशब्दनिश्चलम् ॥ ८.३५॥
अगूढहासस्फुटदन्तकेसरं
मुखं स्विदेतद्विकसन्नु पङ्कजम् ।
इति प्रलीनां नलिनीवने सखीं
विदाम्बभूवुः सुचिरेण योषितः ॥ ८.३६॥
प्रियेण सङ्ग्रथ्य विपक्षसन्निधा-
वुपाहितां वक्षसि पीवरस्तने ।
स्रजं न काचिद्विजहौ जलाविलां
वसन्ति हि प्रेम्णि गुणा न वस्तुनि ॥ ८.३७॥
असंशयं न्यस्तमुपान्तरक्ततां
यदेव रोद्धुं रमणीभिरञ्जनम् ।
हृतेऽपि तस्मिन् सलिलेन शुक्लतां
निरास रागो नयनेषु न श्रियम् ॥ ८.३८॥
द्युतिं वहन्तो वनितावतंसका
हृताः प्रलोभादिव वेगिभिर्जलैः ।
उपप्लुतास्तत्क्षणशोचनीयतां
च्युताधिकाराः सचिवा इवाययुः ॥ ८.३९॥
विपत्त्रलेखा निरलक्तकाधरा
निरञ्जनाक्षीरपि बिभ्रतीः श्रियम् ।
निरीक्ष्य रामा बुबुधे नभश्चरै-
रलङ्कृतं तद्वपुषैव मण्डनम् ॥ ८.४०॥
तथा न पूर्वं कृतभूषणादरः
प्रियानुरागेण विलासिनीजनः ।
यथा जलार्द्रो नखमण्डनश्रिया
ददाह दृष्टीश्च विपक्षयोषिताम् ॥ ८.४१॥
शुभाननाः साम्बुरुहेषु भीरवो
विलोलहाराश्चलफेनपङ्क्तिषु ।
नितान्तगौर्यो हृतकुङ्कुमेष्वलं
न लेभिरे ताः परभागमूर्मिषु ॥ ८.४२॥
ह्रदाम्भसि व्यस्तवधूकराहते
रवं मृदङ्गध्वनि-धीरमुज्झति ।
मुहुस्तनैस्तालस्समं समाददे
मनोरमं नृत्यमिव प्रवेपितम् ॥ ८.४३॥
श्रिया हसद्भिः कलमानि सस्मितै-
रलङ्कृताम्बुः प्रतिमागतैर्मुखैः ।
कृतानुकूल्या सुरराजयोषितां
प्रसादसाफल्यमवाप जाह्वनी ॥ ८.४४॥
परिस्फुरन्मीनविघट्टितोरवः
सुराङ्गनास्त्रासविलोलदृष्टयः ।
उपाययुः कम्पितपाणिपल्लवाः
सखीजनस्यापि विलोकनीयताम् ॥ ८.४५॥
भयादिवाश्लिष्य झषाहतेऽम्भसि
प्रियं मुदानन्दयति स्म मानिनी ।
अकृत्रिमप्रेम-रसाहितैर्मनो
हरन्ति रामाः कृतकैरपीहितैः ॥ ८.४६॥
तिरोहितान्तानि नितान्तमाकुलै-
रपां विगाहादलकैः प्रसारिभिः ।
ययुर्वधूनां वदनानि तुल्यतां
द्विरेफवृन्दान्तरितैः सरोरुहैः ॥ ८.४७॥
करौ धुनाना नवपल्लवाकृती
पयस्यगाधे किल जातसम्भ्रमा ।
सखीषु निर्वाच्यमधार्ष्ट्य-दूषितं
प्रियाङ्गसंश्लेषमवाप मानिनी ॥ ८.४८॥
प्रियैः सलीलं करवारिवारितः
प्रवृद्धनिःश्वासविकम्पितस्तनः ।
सविभ्रमाधूतकराग्रपल्लवो
यथार्थतामाप विलासिनीजनः ॥ ८.४९॥
उदस्य धैर्यं दयितेन सादरं
प्रसादितायाः करवारिवारितम् ।
मुखं निमीलन्नयनं नतभ्रुवः
श्रियं सपत्नीवदनादिवाददे ॥ ८.५०॥
विहस्य पाणौ विधृते धृताम्भसि
प्रियेण वध्वा मदनार्द्रचेतसः ।
सखीव काञ्ची पयसा घनीकृता
बभार वीतोच्चयबन्धमंशुकम् ॥ ८.५१॥
निरञ्जने साचिविलोकितं दृशा-
वयावकं वेपथुरोष्ठपल्लवम् ।
नतभ्रुवो मण्डयति स्म विग्रहे
बलिक्रिया चातिलकं तदास्पदम् ॥ ८.५२॥
निमीलदाकेकर-लोलचक्षुषां
प्रियोपकण्ठं कृतगात्रवेपथुः ।
निमज्जतीनां श्वसितोद्धतस्तनः
श्रमो नु तासां मदनो नु पप्रथे ॥ ८.५३॥
प्रियेण सिक्ता चरमं विपक्षत-
श्चुकोप काचिन्न तुतोष सान्त्वनैः ।
जनस्य रूढप्रणयस्य चेतसः
किमप्यमर्षोऽनुनये भृशायते ॥ ८.५४॥
इत्थं विहृत्य वनिताभिरुदस्यमानं
पीनस्तनोरुजघन-स्थलशालिनीभिः ।
उत्सर्पितोर्मिचय-लङ्घिततीरदेश-
मौत्सुक्यनुन्नमिव वारि पुरः प्रतस्थे ॥ ८.५५॥
तीरान्तराणि मिथुनानि रथाङ्गनाम्नां
नीत्वा विलोलितसरोजवनश्रियस्ताः ।
संरेजिरे सुरसरिज्जलधौतहारा-
स्तारावितानतरला इव यामवत्यः ॥ ८.५६॥
सङ्क्रान्तचन्दन-रसाहितवर्णभेदं
विच्छिन्नभूषणमणि-प्रकरांशुचित्रम् ।
बद्धोर्मि नाकवनितापरिभुक्तमुक्तं
सिन्धोर्बभार सलिलं शयनीयलक्ष्मीम् ॥ ८.५७॥
इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये
सुराङ्गनाविहारः नामाष्टमः सर्गः ॥ ८॥
९. सुरसुन्दरीसम्भोगवर्णनं नाम नवमः सर्गः
वीक्ष्य रन्तुमनसः सुरनारी-
रात्तचित्र-परिधानविभूषाः ।
तत्प्रियार्थमिव यातुमथास्तं
भानुमानुपपयोधि ललम्बे ॥ ९.१॥
मध्यमोपलनिभे लसदंशा-
वेकतश्च्युतिमुपेयुषि भानौ ।
द्यौरुवाह परिवृत्तिविलोलां
हारयष्टिमिव वासरलक्ष्मीम् ॥ ९.२॥
अंशुपाणिभिरतीव पिपासुः
पद्मजं मधु भृशं रसयित्वा ।
क्षीबतामिव गतः क्षितिमेष्यं-
ल्लोहितं वपुरुवाह पतङ्गः ॥ ९.३॥
गम्यतामुपगते नयनानां
लोहितायति सहस्रमरीचौ ।
आससाद विरहय्य धरित्रीं
चक्रवाकहृदयान्यभितापः ॥ ९.४॥
मुक्तमूललघुरुज्झितपूर्वः
पश्चिमे नभसि सम्भृतसान्द्रः ।
सामि मज्जति रवौ न विरेजे
खिन्नजिह्म इव रश्मिसमूहः ॥ ९.५॥
कान्तदूत्य इव कुङ्कुमताम्राः
सायमण्डनमभि त्वरयन्त्यः ।
सादरं ददृशिरे वनिताभिः
सौधजालपतिता रविभासः ॥ ९.६॥
अग्रसानुषु नितान्तपिशङ्गै-
र्भूरुहान्मृदुकरैरवलम्ब्य ।
अस्तशैलगहनं नु विवस्वा-
नाविवेश जलधिं नु महीं नु ॥ ९.७॥
आकुलश्चलपतत्रिकुलाना-
मारवैरनुदितौषसरागः ।
आययावहरिदश्व-विपाण्डु-
स्तुल्यतां दिनमुखेन दिनान्तः ॥ ९.८॥
आस्थितः स्थगितवारिदपङ्क्त्या
सन्ध्यया गगनपश्चिमभागः ।
सोर्मिविद्रुम-वितानविभासा
रञ्जितस्य जलधेः श्रियमूहे ॥ ९.९॥
प्राञ्जलावपि जने नतमूर्ध्नि
प्रेम तत्प्रवणचेतसि हित्वा ।
सन्ध्ययानुविदधे विरमन्त्या
चापलेन सुजनेतरमैत्री ॥ ९.१०॥
औषसातप-भयादपलीनं
वासरच्छवि-विरामपटीयः ।
सन्निपत्य शनकैरिव निम्ना-
दन्धकारमुदवाप समानि ॥ ९.११॥
एकतामिव गतस्य विवेकः
कस्यचिन्न महतोऽप्युपलेभे ।
भास्वता निदधिरे भुवनाना-
मात्मनीव पतितेन विशेषाः ॥ ९.१२॥
इच्छतां सह वधूभिरभेदं
यामिनीविरहिणां विहगानाम् ।
आपुरेव मिथुनानि वियोगं
लङ्घ्यते न खलु कालनियोगः ॥ ९.१३॥
यच्छति प्रतिमुखं दयितायै
वाचमन्तिकगतेऽपि शकुन्तौ ।
नीयते स्म नतिमुज्झितहर्षं
पङ्कजं मुखमिवाम्बुरुहिण्या ॥ ९.१४॥
रञ्जिता नु विविधास्तरुशैला
नामितं नु गगनं स्थगितं नु ।
पूरिता नु विषमेषु धरित्री
संहृता नु ककुभस्तिमिरेण ॥ ९.१५॥
रात्रिरागमलिनानि विकासं
पङ्कजानि रहयन्ति विहाय ।
स्पष्टतारकमियाय नभः श्री-
र्वस्तुमिच्छति निरापदि सर्वः ॥ ९.१६॥
व्यानशे शशधरेण विमुक्तः
केतकीकुसुमकेसरपाण्डुः ।
चूर्णमुष्टिरिव लम्भितकान्ति-
र्वासवस्य दिशमंशुसमूहः ॥ ९.१७॥
उज्झती शुचमिवाशु तमिस्रा-
मन्तिकं व्रजति तारकराजे ।
दिक्प्रसादगुणमण्डनमूहे
रश्मिहासविशदं मुखमैन्द्री ॥ ९.१८॥
नीलनीरजनिभे हिमगौरं
शैलरुद्धवपुषः सितरश्मेः ।
खे रराज निपतत्करजालं
वारिधेः पयसि गाङ्गमिवाम्भः ॥ ९.१९॥
द्यां निरुन्धदतिनीलघनाभं
ध्वान्तमुद्यतकरेण पुरस्तात् ।
क्षिप्यमाणमसितेतरभासा
शम्भुनेव करिचर्म चकासे ॥ ९.२०॥
अन्तिकान्तिक-गतेन्दुविसृष्टे
जिह्मतां जहति दीधितिजाले ।
निःसृतस्तिमिर-भारनिरोधा-
दुच्छ्वसन्निव रराज दिगन्तः ॥ ९.२१॥
लेखया विमलविद्रुमभासा
सन्ततं तिमिरमिन्दुरुदासे ।
दंष्ट्रया कनकटङ्कपिशङ्ग्या
मण्डलं भुव इवादिवराहः ॥ ९.२२॥
दीपयन्नथ नभः किरणौघैः
कुङ्कुमारुण-पयोधरगौरः ।
हेमकुम्भ इव पूर्वपयोधे-
रुन्ममज्ज शनकैस्तुहिनांशुः ॥ ९.२३॥
उद्गतेन्दुमविभिन्न-तमिस्रां
पश्यति स्म रजनीमवितृप्तः ।
व्यंशुकस्फुट-मुखीमतिजिह्मां
व्रीडया नववधूमिव लोकः ॥ ९.२४॥
न प्रसादमुचितं गमिता द्यौ-
र्नोद्धृतं तिमिरमद्रिवनेभ्यः ।
दिङ्मुखेषु न च धाम विकीर्णं
भूषितैव रजनी हिमभासा ॥ ९.२५॥
मानिनीजन-विलोचनपाता-
नुष्णबाष्पकलुषान् प्रतिगृह्णन् ।
मन्दमन्दमुदितः प्रययौ खं
भीतभीत इव शीतमयूखः ॥ ९.२६॥
श्लिष्यतः प्रियवधूरुपकण्ठं
तारकास्ततकरस्य हिमांशोः ।
उद्वमन्नभिरराज समन्ता-
दङ्गराग इव लोहितरागः ॥ ९.२७॥
प्रेरितः शशधरेण करौघः
संहतान्यपि नुनोद तमांसि ।
क्षीरसिन्धुरिव मन्दरभिन्नः
काननान्यविरलोच्चतरूणि ॥ ९.२८॥
शारतां गमितया शशिपादै-
श्छायया विटपिनां प्रतिपेदे ।
न्यस्तशुक्लबलि-चित्रतलाभि-
स्तुल्यता वसतिवेश्ममहीभिः ॥ ९.२९॥
आतपे धृतिमता सह वध्वा
यामिनीविरहिणा विहगेन ।
सेहिरे न किरणा हिमरश्मे-
र्दुःखिते मनसि सर्वमसह्यम् ॥ ९.३०॥
गन्धमुद्धत-रजःकणवाही
विक्षिपन् विकसतां कुमुदानाम् ।
आदुधाव परिलीनविहङ्गा
यामिनीमरुदपां वनराजीः ॥ ९.३१॥
संविधातुमभिषेकमुदासे
मन्मथस्य लसदंशुजलौघः ।
यामिनीवनितया ततचिह्नः
सोत्पलो रजतकुम्भ इवेन्दुः ॥ ९.३२॥
ओजसापि खलु नूनमनूनं
नासहायमुपयाति जयश्रीः ।
यद्विभुः शशिमयूखसखः स-
न्नाददे विजयि चापमनङ्गः ॥ ९.३३॥
सद्मनां विरचनाहितशोभै-
रागतप्रियकथैरपि दूत्यम् ।
सन्निकृष्टरतिभिः सुरदारै-
र्भूषितैरपि विभूषणमीषे ॥ ९.३४॥
न स्रजो रुरुचिरे रमणीभ्य-
श्चन्दनानि विरहे मदिरा वा ।
साधनेषु हि रतेरुपधत्ते
रम्यतां प्रियसमागम एव ॥ ९.३५॥
प्रस्थिताभिरधिनाथनिवासं
ध्वंसित-प्रियसखीवचनाभिः ।
मानिनीभिरपहस्तितधैर्यः
सादयन्नपि मदोऽवललम्बे ॥ ९.३६॥
कान्तवेश्म बहु सन्दिशतीभि-
र्यातमेव रतये रमणीभिः ।
मन्मथेन परिलुप्तमतीनां
प्रायशः स्खलितमप्युपकारि ॥ ९.३७॥
आशु कान्तमभिसारितवत्या
योषितः पुलकरुद्धकपोलम् ।
निर्जिगाय मुखमिन्दुमखण्डं
खण्डपत्रतिलकाकृति कान्त्या ॥ ९.३८॥
उच्यतां स वचनीयमशेषं
नेश्वरे परुषता सखि साध्वी ।
आनयैनमनुनीय कथं वा
विप्रियाणि जनयन्ननुनेयः ॥ ९.३९॥
किं गतेन न हि युक्तमुपैतुं
कः प्रिये सुभगमानिनि मानः ।
योषितामिति कथासु समेतैः
कामिभिर्बहुरसा धृतिरूहे ॥ ९.४०॥
योषितः पुलकरोधि दधत्या
घर्मवारि नवसङ्गमजन्म ।
कान्तवक्षसि बभूव पतन्त्या
मण्डनं लुलितमण्डनतैव ॥ ९.४१॥
शीधुपानविधुरासु निगृह्णन्
मानमाशु शिथिलीकृतलज्जः ।
सङ्गतासु दयितैरुपलेभे
कामिनीषु मदनो नु मदो नु ॥ ९.४२॥
द्वारि चक्षुरधिपाणि कपोलौ
जीवितं त्वयि कुतः कलहोऽस्याः ।
कामिनामिति वचः पुनरुक्तं
प्रीतये नवनवत्वमियाय ॥ ९.४३॥
साचि लोचनयुगं नमयन्ती
रुन्धती दयितवक्षसि पातम् ।
सुभ्रुवो जनयति स्म विभूषां
सङ्गतावुपरराम च लज्जा ॥ ९.४४॥
सव्यलीकमवधीरितखिन्नं
प्रस्थितं सपदि कोपपदेन ।
योषितः सुहृदिव स्म रुणद्धि
प्राणनाथमभिबाष्पनिपातः ॥ ९.४५॥
शङ्किताय कृतबाष्पनिपाता-
मीर्ष्यया विमुखितां दयिताय ।
मानिनीमभिमुखाहितचित्तां
शंसति स्म घनरोमविभेदः ॥ ९.४६॥
लोलदृष्टि वदनं दयिताया-
श्चुम्बति प्रियतमे रभसेन ।
व्रीडया सह विनीवि नितम्बा-
दंशुकं शिथिलतामुपपेदे ॥ ९.४७॥
ह्रीतया गलितनीवि निरस्य-
न्नन्तरीयमवलम्बितकाञ्चि ।
मण्डलीकृतपृथुस्तनभारं
सस्वजे दयितया हृदयेशः ॥ ९.४८॥
आदृता नखपदैः परिरम्भा-
श्चुम्बितानि घनदन्तनिपातैः ।
सौकुमार्यगुणसम्भृतकीर्ति-
र्वाम एव सुरतेष्वपि कामः ॥ ९.४९॥
पाणिपल्लवविधूननमन्तः
सीत्कृतानि नयनार्धनिमेषाः ।
योषितां रहसि गद्गदवाचा-
मस्त्रतामुपययुर्मदनस्य ॥ ९.५०॥
पातुमाहितरतीन्यभिलेषु-
स्तर्षयन्त्यपुनरुक्तरसानि ।
सस्मितानि वदनानि वधूनां
सोत्पलानि च मधूनि युवानः ॥ ९.५१॥
कान्तसङ्गम-पराजितमन्यौ
वारुणीरसन-शान्तविवादे ।
मानिनीजन उपाहितसन्धौ
सन्दधे धनुषि नेषुमनङ्गः ॥ ९.५२॥
कुप्यताशु भवतानतचित्ताः
कोपितांश्च वरिवस्यत यूनः ।
इत्यनेक उपदेश इव स्म
स्वाद्यते युवतिभिर्मधुवारः ॥ ९.५३॥
भर्तृभिः प्रणयसम्भ्रमदत्तां
वारुणीमतिरसां रसयित्वा ।
ह्रीविमोहविरहादुपलेभे
पाटवं नु हृदयं नु वधूभिः ॥ ९.५४॥
स्वादितः स्वयमथैधितमानं
लम्भितः प्रियतमैः सह पीतः ।
आसवः प्रतिपदं प्रमदानां
नैकरूपरसतामिव भेजे ॥ ९.५५॥
भ्रूविलास-सुभगाननुकर्तुं
विभ्रमानिव वधूनयनानाम् ।
आददे मृदुविलोल-पलाशै-
रुत्पलैश्चषकवीचिषु कम्पः ॥ ९.५६॥
ओष्ठपल्लवविदंशरुचीनां
हृद्यतामुपययौ रमणानाम् ।
फुल्ललोचन-विनीलसरोजै-
रङ्गनास्यचषकैर्मधुवारः ॥ ९.५७॥
प्राप्यते गुणवतापि गुणानां
व्यक्तमाश्रयवशेन विशेषः ।
तत्तथा हि दयिताननदत्तं
व्यानशे मधु रसातिशयेन ॥ ९.५८॥
वीक्ष्य रत्नचषकेष्वतिरिक्तां
कान्तदन्तपद-मण्डनलक्ष्मीम् ।
जज्ञिरे बहुमताः प्रमदाना-
मोष्ठयावकनुदो मधुवाराः ॥ ९.५९॥
लोचनाधरकृताहृतरागा
वासितानन-विशेषितगन्धा ।
वारुणी परगुणात्मगुणानां
व्यत्ययं विनिमयं नु वितेने ॥ ९.६०॥
तुल्यरूपमसितोत्पलमक्ष्णोः
कर्णगं निरुपकारि विदित्वा ।
योषितः सुहृदिव प्रविभेजे
लम्भितेक्षण-रुचिर्मदरागः ॥ ९.६१॥
क्षीणयावक-रसोऽप्यतिपानैः
कान्तदन्तपद-सम्भृतशोभः ।
आययावतितरामिव वध्वाः
सान्द्रतामधर-पल्लवरागः ॥ ९.६२॥
रागकान्तनयनेषु नितान्तं
विद्रुमारुण-कपोलतलेषु ।
सर्वगापि ददृशे वनितानां
दर्पणेष्विव मुखेषु मदश्रीः ॥ ९.६३॥
बद्धकोप-विकृतीरपि रामा-
श्चारुताभिमततामुपनिन्ये ।
वश्यतां मधुमदो दयिताना-
मात्मवर्ग-हितमिच्छति सर्वः ॥ ९.६४॥
वाससां शिथिलतामुपनाभि
ह्रीनिरासमपदे कुपितानि ।
योषितां विदधती गुणपक्षे
निर्ममार्ज मदिरा वचनीयम् ॥ ९.६५॥
भर्तृषूपसखि निक्षिपतीना-
मात्मनो मधुमदोद्यमितानाम् ।
व्रीडया विफलया वनितानां
न स्थितं न विगतं हृदयेषु ॥ ९.६६॥
रुन्धती नयनवाक्यविकासं
सादितोभयकरा परिरम्भे ।
व्रीडितस्य ललितं युवतीनां
क्षीबता बहुगुणैरनुजह्रे ॥ ९.६७॥
योषिदुद्धत-मनोभवरागा
मानवत्यपि ययौ दयिताङ्कम् ।
कारयत्यनिभृता गुणदोषे
वारुणी खलु रहस्यविभेदम् ॥ ९.६८॥
आहिते नु मधुना मधुरत्वे
चेष्टितस्य गमिते नु विकासम् ।
आबभौ नव इवोद्धतरागः
कामिनीष्ववसरः कुसुमेषोः ॥ ९.६९॥
मा गमन्मदविमूढधियो नः
प्रोज्झ्य रन्तुमिति शङ्कितनाथाः ।
योषितो न मदिरां भृशमीषुः
प्रेम पश्यति भयान्यपदेऽपि ॥ ९.७०॥
चित्तनिर्वृतिविधायि विविक्तं
मन्मथो मधुमदः शशिभासः ।
सङ्गमश्च दयितैः स्म नयन्ति
प्रेम कामपि भुवं प्रमदानाम् ॥ ९.७१॥
धार्ष्ट्यलङ्घित-यथोचितभूमौ
निर्दयं विलुलितालकमाल्ये ।
मानिनीरतिविधौ कुसुमेषु-
र्मत्तमत्त इव विभ्रममाप ॥ ९.७२॥
शीधुपानविधुरेषु वधूनां
निघ्नतामुपगतेषु वपुःषु ।
ईहितं रतिरसाहितभावं
वीतलक्ष्यमपि कामिषु रेजे ॥ ९.७३॥
अन्योन्यरक्त-मनसामथ बिभ्रतीनां
चेतोभुवो हरिसखाप्सरसां निदेशम् ।
वैबोधिकध्वनि-विभावितपश्चिमार्धा
सा संहृतेव परिवृत्तिमियाय रात्रिः ॥ ९.७४॥
निद्राविनोदित-नितान्तरतिक्लमाना-
मायामिमङ्गलनिनादविबोधितानाम् ।
रामासु भाविविरहाकुलितासु यूनां
तत्पूर्वतामिव समादधिरे रतानि ॥ ९.७५॥
कान्ताजनं सुरतखेद-निमीलिताक्षं
संवाहितुं समुपयानिव मन्दमन्दम् ।
हर्म्येषु माल्यमदिरा-परिभोगगन्धा-
नाविश्चकार रजनीपरिवृत्तिवायुः ॥ ९.७६॥
आमोदवासित-चलाधरपल्लवेषु
निद्राकषायित-विपाटललोचनेषु ।
व्यामृष्टपत्त्रतिलकेषु विलासिनीनां
शोभां बबन्ध वदनेषु मदावशेषः ॥ ९.७७॥
गतवति नखलेखालक्ष्यतामङ्गरागे
समददयितपीताताम्र-बिम्बाधराणाम् ।
विरहविधुरमिष्टा सत्सखीवाङ्गनानां
हृदयमवललम्बे रात्रिसम्भोगलक्ष्मीः ॥ ९.७८॥
इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये
सुरसुन्दरीसम्भोगवर्णनं नाम नवमः सर्गः ॥ ९॥
१०. अर्जुनविलोभनप्रत्याख्यानः नाम दशमः सर्गः
अथ परिमलजामवाप्य लक्ष्मी-
मवयवदीपित-मण्डनश्रियस्ताः ।
वसतिमभिविहाय रम्यहावाः
सुरपतिसूनु-विलोभनाय जग्मुः ॥ १०.१॥
द्रुतपदमभियातुमिच्छतीनां
गगनपरिक्रम-लाघवेन तासाम् ।
अवनिषु चरणैः पृथुस्तनीना-
मलघुनितम्बतया चिरं निषेदे ॥ १०.२॥
निहितसरस-यावकैर्बभासे
चरणतलैः कृतपद्धतिर्वधूनाम् ।
अविरलविततेव शक्रगोपै-
ररुणितनीलतृणोलपा धरित्री ॥ १०.३॥
ध्वनिरगविवरेषु नूपुराणां
पृथुरशनागुण-शिञ्जितानुयातः ।
प्रतिरवविततो वनानि चक्रे
मुखरसमुत्सुक-हंससारसानि ॥ १०.४॥
अवचयपरिभोगवन्ति हिंस्रैः
सहचरितान्यमृगाणि काननानि ।
अभिदधुरभितो मुनिं वधूभ्यः
समुदितसाध्वस-विक्लवं च चेतः ॥ १०.५॥
नृपतिमुनिपरिग्रहेण सा भूः
सुरसचिवाप्सरसां जहार तेजः ।
उपहितपरम-प्रभावधाम्नां
न हि जयिनां तपसामलङ्घ्यमस्ति ॥ १०.६॥
सचकितमिव विस्मयाकुलाभिः
शुचिसिकतास्वतिमानुषाणि ताभिः ।
क्षितिषु ददृशिरे पदानि जिष्णो-
रुपहितकेतु-रथाङ्गलाञ्छनानि ॥ १०.७॥
अतिशयित-वनान्तरद्युतीनां
फलकुसुमावचयेऽपि तद्विधानाम् ।
ऋतुरिव तरुवीरुधां समृद्ध्या
युवतिजनैर्जगृहे मुनिप्रभावः ॥ १०.८॥
मृदितकिसलयः सुराङ्गनानां
ससलिल-वल्कलभार-भुग्नशाखः ।
बहुमतिमधिकां ययावशोकः
परिजनतापि गुणाय सद्गुणानाम् ॥ १०.९॥
यमनियम-कृशीकृतस्थिराङ्गः
परिददृशे विधृतायुधः स ताभिः ।
अनुपमशम-दीप्ततागरीयान्
कृतपदपङ्क्तिरथर्वणेव वेदः ॥ १०.१०॥
शशधर इव लोचनाभिरामै-
र्गगनविसारिभिरंशुभिः परीतः ।
शिखरनिचयमेकसानुसद्मा
सकलमिवापि दधन्महीधरस्य ॥ १०.११॥
सुरसरिति परं तपोऽधिगच्छन्
विधृतपिशङ्ग-बृहज्जटाकलापः ।
हविरिव विततः शिखासमूहैः
समभिलषन्नुपवेदि जातवेदाः ॥ १०.१२॥
सदृशमतनुमाकृतेः प्रयत्नं
तदनुगुणामपरैः क्रियामलङ्घ्याम् ।
दधदलघु तपः क्रियानुरूपं
विजयवतीं च तपःसमां समृद्धिम् ॥ १०.१३॥
चिरनियमकृशोऽपि शैलसारः
शमनिरतोऽपि दुरासदः प्रकृत्या ।
ससचिव इव निर्जनेऽपि तिष्ठन्
मुनिरपि तुल्यरुचिस्त्रिलोकभर्तुः ॥ १०.१४॥
तनुमवजितलोकसारधाम्नीं
त्रिभुवनगुप्तिसहां विलोकयन्त्यः ।
अवययुरमरस्त्रियोऽस्य यत्नं
विजयफले विफलं तपोधिकारे ॥ १०.१५॥
मुनिदनुतनयान् विलोभ्य सद्यः
प्रतनुबलान्यधितिष्ठतस्तपांसि ।
अलघुनि बहु मेनिरे च ताः स्वं
कुलिशभृता विहितं पदे नियोगम् ॥ १०.१६॥
अथ कृतकविलोभनं विधित्सौ
युवतिजने हरिसूनुदर्शनेन ।
प्रसभमवततार चित्तजन्मा
हरति मनो मधुरा हि यौवनश्रीः ॥ १०.१७॥
सपदि हरिसखैर्वधूनिदेशाद्
ध्वनितमनोरम-वल्लकीमृदङ्गैः ।
युगपदृतुगणस्य सन्निधानं
वियति वने च यथायथं वितेने ॥ १०.१८॥
सजलजलधरं नभो विरेजे
विवृतिमियाय रुचिस्तडिल्लतानाम् ।
व्यवहितरतिविग्रहैर्वितेने
जलगुरुभिः स्तनितैर्दिगन्तरेषु ॥ १०.१९॥
परिसुरपतिसूनुधाम सद्यः
समुपदधन्मुकुलानि मालतीनाम् ।
विरलमपजहार बद्धबिन्दुः
सरजसतामवनेरपां निपातः ॥ १०.२०॥
प्रतिदिशमभिगच्छताभिमृष्टः
ककुभविकास-सुगन्धिनानिलेन ।
नव इव विबभौ सचित्तजन्मा
गतधृतिराकुलितश्च जीवलोकः ॥ १०.२१॥
व्यथितमपि भृशं मनो हरन्ती
परिणतजम्बु-फलोपभोगहृष्टा ।
परभृतयुवतिः स्वनं वितेने
नवनवयोजित-कण्ठरागरम्यम् ॥ १०.२२॥
अभिभवति मनः कदम्बवायौ
मदमधुरे च शिखण्डिनां निनादे ।
जन इव न धृतेश्चचाल जिष्णु-
र्न हि महतां सुकरः समाधिभङ्गः ॥ १०.२३॥
धृतबिस-वलयावलिर्वहन्ती
कुमुदवनैक-दुकूलमात्तबाणा ।
शरदमलतले सरोजपाणौ
घनसमयेन वधूरिवाललम्बे ॥ १०.२४॥
समदशिखिरुतानि हंसनादैः
कुमुदवनानि कदम्बपुष्पवृष्ट्या ।
श्रियमतिशयिनीं समेत्य जग्मु-
र्गुणमहतां महते गुणाय योगः ॥ १०.२५॥
सरजसमपहाय केतकीनां
प्रसवमुपान्तिक-नीपरेणुकीर्णम् ।
प्रियमधुरसनानि षट्पदाली
मलिनयति स्म विनीलबन्धनानि ॥ १०.२६॥
मुकुलितमतिशय्य बन्धुजीवं
धृतजलबिन्दुषु शाद्वलस्थलीषु ।
अविरलवपुषः सुरेन्द्रगोपा
विकचपलाश-चयश्रियं समीयुः ॥ १०.२७॥
अविरलफलिनी-वनप्रसूनः
कुसुमितकुन्दसुगन्धिगन्धवाहः ।
गुणमसमयजं चिराय लेभे
विरलतुषार-कणस्तुषारकालः ॥ १०.२८॥
निचयिनि लवलीलताविकासे
जनयति लोध्रसमीरणे च हर्षम् ।
विकृतिमुपययौ न पाण्डुसूनु-
श्चलति नयान्न जिगीषतां हि चेतः ॥ १०.२९॥
कतिपयसहकार-पुष्परम्य-
स्तनुतुहिनोऽल्प-विनिद्रसिन्दुवारः ।
सुरभिमुख-हिमागमान्तशंसी
समुपययौ शिशिरः स्मरैकबन्धुः ॥ १०.३०॥
कुसुमनग-वनान्युपैतुकामा
किसलयिनीमवलम्ब्य चूतयष्टिम् ।
क्वणदलिकुलनूपुरा निरासे
नलिनवनेषु पदं वसन्तलक्ष्मीः ॥ १०.३१॥
विकसितकुसुमाधरं हसन्तीं
कुरबकराजिवधूं विलोकयन्तम् ।
ददृशुरिव सुराङ्गना निषण्णं
सशरमनङ्गमशोकपल्लवेषु ॥ १०.३२॥
मुहुरनुपतता विधूयमानं
विरचितसंहति दक्षिणानिलेन ।
अलिकुलमलकाकृतिं प्रपेदे
नलिनमुखान्तविसर्पि पङ्कजिन्याः ॥ १०.३३॥
श्वसनचलित-पल्लवाधरोष्ठे
नवनिहितेर्ष्यमिवावधूनयन्ती ।
मधुसुरभिणि षट्पदेन पुष्पे
मुख इव शाललतावधूश्चुचुम्बे ॥ १०.३४॥
प्रभवति न तदा परो विजेतुं
भवति जितेन्द्रियता यदात्मरक्षा ।
अवजितभुवनस्तथा हि लेभे
सिततुरगे विजयं न पुष्पमासः ॥ १०.३५॥
कथमिव तव सम्मतिर्भवित्री
सममृतुभिर्मुनिनावधीरितस्य ।
इति विरचित-मल्लिकाविकासः
स्मयत इव स्म मधुं निदाघकालः ॥ १०.३६॥
बलवदपि बलं मिथोविरोधि
प्रभवति नैव विपक्षनिर्जयाय ।
भुवनपरिभवी न यत्तदानीं
तमृतुगणः क्षणमुन्मनीचकार ॥ १०.३७॥
श्रुतिसुखमुपवीणितं सहायै-
रविरल-लाञ्छनहारिणश्च कालाः ।
अविहितहरिसूनु-विक्रियाणि
त्रिदशवधूषु मनोभवं वितेनुः ॥ १०.३८॥
न दलति निचये तथोत्पलानां
न च विषमच्छद-गुच्छयूथिकासु ।
अभिरतिमुपलेभिरे यथासां
हरितनयावयवेषु लोचनानि ॥ १०.३९॥
मुनिमभिमुखतां निनीषवो याः
समुपययुः कमनीयतागुणेन ।
मदनमुपदधे स एव तासां
दुरधिगमा हि गतिः प्रयोजनानाम् ॥ १०.४०॥
प्रकृतमनुससार नाभिनेयं
प्रविकसदङ्गुलि पाणिपल्लवं वा ।
प्रथममुपहितं विलासि चक्षुः
सिततुरगे न चचाल नर्तकीनाम् ॥ १०.४१॥
अभिनयमनसः सुराङ्गनाया
निहितमलक्तक-वर्तनाभिताम्रम् ।
चरणमभिपपात षट्पदाली
धृतनवलोहित-पङ्कजाभिशङ्का ॥ १०.४२॥
अविरलमलसेषु नर्तकीनां
द्रुतपरिषिक्तमलक्तकं पदेषु ।
सवपुषमिव चित्तरागमूहु-
र्नमितशिखानि कदम्बकेसराणि ॥ १०.४३॥
नृपसुतमभितः समन्मथायाः
परिजनगात्र-तिरोहिताङ्गयष्टेः ।
स्फुटमभिलषितं बभूव वध्वा
वदति हि संवृतिरेव कामितानि ॥ १०.४४॥
अभिमुनि सहसा हृते परस्या
घनमरुता जघनांशुकैकदेशे ।
चकितमवसनोरु सत्रपायाः
प्रतियुवतीरपि विस्मयं निनाय ॥ १०.४५॥
धृतबिसवलये निधाय पाणौ
मुखमधिरूषित-पाण्डुगण्डलेखम् ।
नृपसुतमपरा स्मराभितापा-
दमधुमदालसलोचनं निदध्यौ ॥ १०.४६॥
सखि दयितमिहानयेति सा मां
प्रहितवती कुसुमेषुणाभितप्ता ।
हृदयमहृदया न नाम पूर्वं
भवदुपकण्ठमुपागतं विवेद ॥ १०.४७॥
चिरमपि कलितान्यपारयन्त्या
परिगदितुं परिशुष्यता मुखेन ।
गतघृण गमितानि सत्सखीनां
नयनयुगैः सममार्द्रतां मनांसि ॥ १०.४८॥
अचकमत सपल्लवां धरित्रीं
मृदुसुरभिं विरहय्य पुष्पशय्याम् ।
भृशमरतिमवाप्य तत्र चास्या-
स्तव सुखशीतमुपैतुमङ्कमिच्छा ॥ १०.४९॥
तदनघ तनुरस्तु सा सकामा
व्रजति पुरा हि परासुतां त्वदर्थे ।
पुनरपि सुलभं तपोऽनुरागी
युवतिजनः खलु नाप्यतेऽनुरूपः ॥ १०.५०॥
जहिहि कठिनतां प्रयच्छ वाचं
ननु करुणामृदु मानसं मुनीनाम् ।
उपगतमवधीरयन्त्यभव्याः
स निपुणमेत्य कयाचिदेवमूचे ॥ १०.५१॥
सललितचलित-त्रिकाभिरामाः
शिरसिज-संयमनाकुलैकपाणिः ।
सुरपतितनयेऽपरा निरासे
मनसिजजैत्रशरं विलोचनार्धम् ॥ १०.५२॥
कुसुमितमवलम्ब्य चूतमुच्चै-
स्तनुरिभकुम्भ-पृथुस्तनानताङ्गी ।
तदभिमुखमनङ्गचापयष्टि-
र्विसृतगुणेव समुन्ननाम काचित् ॥ १०.५३॥
सरभसमवलम्ब्य नीलमन्या
विगलितनीवि विलोलमन्तरीयम् ।
अभिपतितुमनाः ससाध्वसेव
च्युतरशनागुण-सन्दितावतस्थे ॥ १०.५४॥
यदि मनसि शमः किमङ्ग चापं
शठ विषयास्तव वल्लभा न मुक्तिः ।
भवतु दिशति नान्यकामिनीभ्य-
स्तव हृदये हृदयेश्वरावकाशम् ॥ १०.५५॥
इति विषमितचक्षुषाभिधाय
स्फुरदधरोष्ठमसूयया कयाचित् ।
अगणितगुरुमानलज्जयासौ
स्वयमुरसि श्रवणोत्पलेन जघ्ने ॥ १०.५६॥
सविनयमपराभिसृत्य साचि
स्मितसुभगैक-लसत्कपोललक्ष्मीः ।
श्रवणनियमितेन तं निदध्यौ
सकलमिवासकलेन लोचनेन ॥ १०.५७॥
करुणमभिहितं त्रपा निरस्ता
तदभिमुखं च विमुक्तमश्रु ताभिः ।
प्रकुपितमभिसारणेऽनुनेतुं
प्रियमियती ह्यबलाजनस्य भूमिः ॥ १०.५८॥
असकलनयनेक्षितानि लज्जा
गतमलसं परिपाण्डुता विषादः ।
इति विविधमियाय तासु भूषां
प्रभवति मण्डयितुं वधूरनङ्गः ॥ १०.५९॥
अलसपदमनोरमं प्रकृत्या
जितकलहंसवधूगति प्रयातम् ।
स्थितमुरु-जघनस्थलातिभारा-
दुदितपरिश्रम-जिह्मितेक्षणं वा ॥ १०.६०॥
भृशकुसुमशरेषु-पातमोहा-
दनवसितार्थ-पदाकुलोऽभिलापः ।
अधिकविततलोचनं वधूना-
मयुगपदुन्नमितभ्रु वीक्षितं च ॥ १०.६१॥
रुचिकरमपि नार्थवद्बभूव
स्तिमितसमाधिशुचौ पृथातनूजे ।
ज्वलयति महतां मनांस्यमर्षे
न हि लभतेऽवसरं सुखाभिलाषः ॥ १०.६२॥
स्वयं संराध्यैवं शतमखमखण्डेन तपसा
परोच्छित्त्या लभ्यामभिलषति लक्ष्मीं हरिसुते ।
मनोभिः सोद्वेगैः प्रणयविहति-ध्वस्तरुचयः
सगन्धर्वा धाम त्रिदशवनिताः स्वं प्रतिययुः ॥ १०.६३॥
इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये
अर्जुनविलोभनप्रत्याख्यानः नाम दशमः सर्गः ॥ १०॥
११. इन्द्रसमागमो नामैकादशः सर्गः
अथामर्षान्निसर्गाच्च जितेन्द्रियतया तया ।
आजगामाश्रमं जिष्णोः प्रतीतः पाकशासनः ॥ ११.१॥
मुनिरूपोऽनुरूपेण सूनुना ददृशे पुरः ।
द्राघीयसा वयोतीतः परिक्लान्तः किलाध्वना ॥ ११.२॥
जटानां कीर्णया केशैः संहत्या परितः सितैः ।
पृक्तयेन्दुकरैरह्नः पर्यन्त इव सन्ध्यया ॥ ११.३॥
विशदभ्रू-युगच्छन्न-वलितापाङ्गलोचनः ।
प्रालेयावतति-म्लान-पलाशाब्ज इव ह्रदः ॥ ११.४॥
आसक्तभरनीकाशैरङ्गैः परिकृशैरपि ।
आद्यूनः सद्गृहिण्येव प्रायो यष्ट्यावलम्बितः ॥ ११.५॥
गूढोऽपि वपुषा राजन् धाम्ना लोकाभिभाविना ।
अंशुमानिव तन्वभ्र-पटलच्छन्नविग्रहः ॥ ११.६॥
जरतीमपि बिभ्राणस्तनुमप्राकृताकृतिः ।
चकाराक्रान्तलक्ष्मीकः ससाध्वसमिवाश्रमम् ॥ ११.७॥
अभितस्तं पृथासूनुः स्नेहेन परितस्तरे ।
अविज्ञातेऽपि बन्धौ हि बलात्प्रह्लादते मनः ॥ ११.८॥
आतिथेयीमथासाद्य सुतादपचितिं हरिः ।
विश्रम्य विष्टरे नाम व्याजहारेति भारतीम् ॥ ११.९॥
त्वया साधु समारम्भि नवे वयसि यत्तपः ।
ह्रियते विषयैः प्रायो वर्षीयानपि मादृशः ॥ ११.१०॥
श्रेयसीं तव सम्प्राप्ता गुणसम्पदमाकृतिः ।
सुलभा रम्यता लोके दुर्लभं हि गुणार्जनम् ॥ ११.११॥
शरदम्बुधरच्छाया-गत्वर्यो यौवनश्रियः ।
आपातरम्या विषयाः पर्यन्तपरितापिनः ॥ ११.१२॥
अन्तकः पर्यवस्थाता जन्मिनः सन्ततापदः ।
इति त्याज्ये भवे भव्यो मुक्तावुत्तिष्ठते जनः ॥ ११.१३॥
चित्तवानसि कल्याणी यत्त्वां मतिरुपस्थिता ।
विरुद्धः केवलं वेषः सन्देहयति मे मनः ॥ ११.१४॥
युयुत्सुनेव कवचं किमामुक्तमिदं त्वया ।
तपस्विनो हि वसते केवलाजिनवल्कले ॥ ११.१५॥
प्रपित्सोः किं च ते मुक्तिं निःस्पृहस्य कलेवरे ।
महेषुधी धनुर्भीमं भूतानामनभिद्रुहः ॥ ११.१६॥
भयङ्करः प्राणभृतां मृत्योर्भुज इवापरः ।
असिस्तव तपस्थस्य न समर्थयते शमम् ॥ ११.१७॥
जयमत्रभवान्नूनमरातिष्वभिलाषुकः ।
क्रोधलक्ष्म क्षमावन्तः क्वायुधं क्व तपोधनाः ॥ ११.१८॥
यः करोति वधोदर्का निःश्रेयसकरीः क्रियाः ।
ग्लानिदोषच्छिदः स्वच्छाः स मूढः पङ्कयत्यपः ॥ ११.१९॥
मूलं दोषस्य हिंसादेरर्थकामौ स्म मा पुषः ।
तौ हि तत्त्वावबोधस्य दुरुच्छेदावुपप्लवौ ॥ ११.२०॥
अभिद्रोहेण भूतानामर्जयन् गत्वरीः श्रियः ।
उदन्वानिव सिन्धूनामापदामेति पात्रताम् ॥ ११.२१॥
या गम्याः सत्सहायानां यासु खेदो भयं यतः ।
तासां किं यन्न दुःखाय विपदामिव सम्पदाम् ॥ ११.२२॥
दुरासदानरीनुग्रान् धृतेर्विश्वासजन्मनः ।
भोगान् भोगानिवाहेयानध्यास्यापन्न दुर्लभा ॥ ११.२३॥
नान्तरज्ञाः श्रियो जातु प्रियैरासां न भूयते ।
आसक्तास्तास्वमी मूढा वामशीला हि जन्तवः ॥ ११.२४॥
कोऽपवादः स्तुतिपदे यदशीलेषु चञ्चलाः ।
साधुवृत्तानपि क्षुद्रा विक्षिपन्त्येव सम्पदः ॥ ११.२५॥
कृतवानन्यदेहेषु कर्ता च विधुरं मनः ।
अप्रियैरिव संयोगो विप्रयोगः प्रियैः सह ॥ ११.२६॥
शून्यमाकीर्णतामेति तुल्यं व्यसनमुत्सवैः ।
विप्रलम्भोऽपि लाभाय सति प्रियसमागमे ॥ ११.२७॥
तदा रम्याण्यरम्याणि प्रियाः शल्यं तदासवः ।
तदैकाकी सबन्धुः सन्निष्टेन रहितो यदा ॥ ११.२८॥
युक्तः प्रमाद्यसि हितादपेतः परितप्यसे ।
यदि नेष्टात्मनः पीडा मा सञ्जि भवता जने ॥ ११.२९॥
जन्मिनोऽस्य स्थितिं विद्वांल्लक्ष्मीमिव चलाचलाम् ।
भवान्मा स्म वधीन्न्याय्यं न्यायाधारा हि साधवः ॥ ११.३०॥
विजहीहि रणोत्साहं मा तपः साधु नीनशः ।
उच्छेदं जन्मनः कर्तुमेधि शान्तस्तपोधन ॥ ११.३१॥
जीयन्तां दुर्जया देहे रिपवश्चक्षुरादयः ।
जितेषु ननु लोकोऽयं तेषु कृत्स्नस्त्वया जितः ॥ ११.३२॥
परवानर्थसंसिद्धौ नीचवृत्तिरपत्रपः ।
अविधेयेन्द्रियः पुंसां गौरिवैति विधेयताम् ॥ ११.३३॥
श्वस्त्वया सुखसंवित्तिः स्मरणीयाधुनातनी ।
इति स्वप्नोपमान्मत्वा कामान्मा गास्तदङ्गताम् ॥ ११.३४॥
श्रद्धेया विप्रलब्धारः प्रिया विप्रियकारिणः ।
सुदुस्त्यजास्त्यजन्तोऽपि कामाः कष्टा हि शत्रवः ॥ ११.३५॥
विविक्तेऽस्मिन्नगे भूयः प्लाविते जह्नुकन्यया ।
प्रत्यासीदति मुक्तिस्त्वां पुरा मा भूरुदायुधः ॥ ११.३६॥
व्याहृत्य मरुतां पत्याविति वाचमवस्थिते ।
वचः प्रश्रय-गम्भीरमथोवाच कपिध्वजः ॥ ११.३७॥
प्रसादरम्यमोजस्वि गरीयो लाघवान्वितम् ।
साकाङ्क्षमनुपस्कारं विष्वग्गति निराकुलम् ॥ ११.३८॥
न्यायनिर्णीत-सारत्वान्निरपेक्षमिवागमे ।
अप्रकम्प्यतयान्येषामाम्नाय-वचनोपमम् ॥ ११.३९॥
अलङ्घ्यत्वाज्जनैरन्यैः क्षुभितोदन्वदूर्जितम् ।
औदार्यादर्थसम्पत्तेः शान्तं चित्तमृषेरिव ॥ ११.४०॥
इदमीदृग्गुणोपेतं लब्धावसरसाधनम् ।
व्याकुर्यात्कः प्रियं वाक्यं यो वक्ता नेदृगाशयः ॥ ११.४१॥
न ज्ञातं तात यत्नस्य पौर्वापर्यममुष्य ते ।
शासितुं येन मां धर्मं मुनिभिस्तुल्यमिच्छसि ॥ ११.४२॥
अविज्ञातप्रबन्धस्य वचो वाचस्पतेरिव ।
व्रजत्यफलतामेव नयद्रुह इवेहितम् ॥ ११.४३॥
श्रेयसोऽप्यस्य ते तात वचसो नास्मि भाजनम् ।
नभसः स्फुटतारस्य रात्रेरिव विपर्ययः ॥ ११.४४॥
क्षत्रियस्तनयः पाण्डोरहं पार्थो धनञ्जयः ।
स्थितः प्रास्तस्य दायादैर्भ्रातुर्ज्येष्ठस्य शासने ॥ ११.४५॥
कृष्णद्वैपायनादेशाद्बिभर्मि व्रतमीदृशम् ।
भृशमाराधने यत्तः स्वाराध्यस्य मरुत्वतः ॥ ११.४६॥
दुरक्षान् दीव्यता राज्ञा राज्यमात्मा वयं वधूः ।
नीतानि पणतां नूनमीदृशी भवितव्यता ॥ ११.४७॥
तेनानुजसहायेन द्रौपद्या च मया विना ।
भृशमायामियामासु यामिनीष्वभितप्यते ॥ ११.४८॥
हृतोत्तरीयां प्रसभं सभायामागतह्रियः ।
मर्मच्छिदा नो वचसा निरतक्षन्नरातयः ॥ ११.४९॥
उपाधत्त सपत्नेषु कृष्णाया गुरुसन्निधौ ।
भावमानयने सत्याः सत्यङ्कारमिवान्तकः ॥ ११.५०॥
तामैक्षन्त क्षणं सभ्या दुःशासनपुरःसराम् ।
अभिसायार्कमावृत्तां छायामिव महातरोः ॥ ११.५१॥
अयथार्थक्रियारम्भैः पतिभिः किं तवेक्षितैः ।
अरुध्येतामितीवास्या नयने बाष्पवारिणा ॥ ११.५२॥
सोढवान्नो दशामन्त्यां ज्यायानेव गुणप्रियः ।
सुलभो हि द्विषां भङ्गो दुर्लभा सत्स्ववाच्यता ॥ ११.५३॥
स्थित्यतिक्रान्तिभीरूणि स्वच्छान्याकुलितान्यपि ।
तोयानि तोयराशीनां मनांसि च मनस्विनाम् ॥ ११.५४॥
धार्तराष्ट्रैः सह प्रीतिर्वैरमस्मास्वसूयत ।
असन्मैत्री हि दोषाय कूलच्छायेव सेविता ॥ ११.५५॥
अपवादादभीतस्य समस्य गुणदोषयोः ।
असद्वृत्तेरहोवृत्तं दुर्विभावं विधेरिव ॥ ११.५६॥
ध्वंसेत हृदयं सद्यः परिभूतस्य मे परैः ।
यद्यमर्षः प्रतीकारं भुजालम्बं न लम्भयेत् ॥ ११.५७॥
अवधूयारिभिर्नीता हरिणैस्तुल्यवृत्तिताम् ।
अन्योन्यस्यापि जिह्रीमः किं पुनः सहवासिनाम् ॥ ११.५८॥
शक्तिवैकल्य-नम्रस्य निःसारत्वाल्लघीयसः ।
जन्मिनो मानहीनस्य तृणस्य च समा गतिः ॥ ११.५९॥
अलङ्घ्यं तत्तदुद्वीक्ष्य यद्यदुच्चैर्महीभृताम् ।
प्रियतां ज्यायसीं मा गान्महतां केन तुङ्गता ॥ ११.६०॥
तावदाश्रीयते लक्ष्म्या तावदस्य स्थिरं यशः ।
पुरुषस्तावदेवासौ यावन्मानान्न हीयते ॥ ११.६१॥
स पुमानर्थवज्जन्मा यस्य नाम्नि पुरःस्थिते ।
नान्यामङ्गुलिमभ्येति सङ्ख्यायामुद्यताङ्गुलिः ॥ ११.६२॥
दुरासदवनज्यायान् गम्यस्तुङ्गोऽपि भूधरः ।
न जहाति महौजस्कं मानप्रांशुमलङ्घ्यता ॥ ११.६३॥
गुरून् कुर्वन्ति ते वंश्यानन्वर्था तैर्वसुन्धरा ।
येषां यशांसि शुभ्राणि ह्रेपयन्तीन्दुमण्डलम् ॥ ११.६४॥
उदाहरणमाशीःषु प्रथमे ते मनस्विनाम् ।
शुष्केऽशनिरिवामर्षो यैररातिषु पात्यते ॥ ११.६५॥
न सुखं प्रार्थये नार्थमुदन्वद्वीचि-चञ्चलम् ।
नानित्यताशनेस्त्रस्यन् विविक्तं ब्रह्मणः पदम् ॥ ११.६६॥
प्रमार्ष्टुमयशःपङ्कमिच्छेयं छद्मना कृतम् ।
वैधव्य-तापिताराति-वनितालोचनाम्बुभिः ॥ ११.६७॥
अपहस्येऽथवा सद्भिः प्रमादो वास्तु मे धियः ।
अस्थान-विहितायासः कामं जिह्रेतु वा भवान् ॥ ११.६८॥
वंशलक्ष्मीमनुद्धृत्य समुच्छेदेन विद्विषाम् ।
निर्वाणमपि मन्येऽहमन्तरायं जयश्रियः ॥ ११.६९॥
अजन्मा पुरुषस्तावद्गतासुस्तृणमेव वा ।
यावन्नेषुभिरादत्ते विलुप्तमरिभिर्यशः ॥ ११.७०॥
अनिर्जयेन द्विषतां यस्यामर्षः प्रशाम्यति ।
पुरुषोक्तिः कथं तस्मिन् ब्रूहि त्वं हि तपोधन ॥ ११.७१॥
कृतं पुरुषशब्देन जातिमात्रावलम्बिना ।
योऽङ्गीकृतगुणैः श्लाघ्यः सविस्मयमुदाहृतः ॥ ११.७२॥
ग्रसमानमिवौजांसि सदसा गौरवेरितम् ।
नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान् पुमान् ॥ ११.७३॥
यथाप्रतिज्ञं द्विषतां युधि प्रतिचिकीर्षया ।
ममैवाध्येति नृपतिस्तृष्यन्निव जलाञ्जलेः ॥ ११.७४॥
स वंशस्यावदातस्य शशाङ्कस्येव लाञ्छनम् ।
कृच्छ्रेषु व्यर्थया यत्र भूयते भर्तुराज्ञया ॥ ११.७५॥
कथं वादीयतामर्वाङ्मुनिता धर्मरोधिनी ।
आश्रमानुक्रमः पूर्वैः स्मर्यते न व्यतिक्रमः ॥ ११.७६॥
आसक्ता धूरियं रूढा जननी दूरगा च मे ।
तिरस्करोति स्वातन्त्र्यं ज्यायांश्चाचारवान्नृपः ॥ ११.७७॥
स्वधर्ममनुरुन्धन्ते नातिक्रममरातिभिः ।
पलायन्ते कृतध्वंसा नाहवान्मानशालिनः ॥ ११.७८॥
विच्छिन्नाभ्रविलायं वा विलीये नगमूर्धनि ।
आराध्य वा सहस्राक्षमयशःशल्यमुद्धरे ॥ ११.७९॥
इत्युक्तवन्तं परिरभ्य दोर्भ्यां
तनूजमाविष्कृतदिव्यमूर्तिः ।
अघोपघातं मघवा विभूत्यै
भवोद्भवाराधनमादिदेश ॥ ११.८०॥
प्रीते पिनाकिनि मया सह लोकपालै-
र्लोकत्रयेऽपि विहिताप्रतिवार्यवीर्यः ।
लक्ष्मीं समुत्सुकयितासि भृशं परेषा-
मुच्चार्य वाचमिति तेन तिरोबभूवे ॥ ११.८१॥
इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये
इन्द्रसमागमो नामैकादशः सर्गः ॥ ११॥
१२. ईश्वराभिगमनो नाम द्वादशः सर्गः
अथ वासवस्य वचनेन
रुचिरवदनस्त्रिलोचनम् ।
क्लान्ति-रहितमभिराधयितुं
विधिवत्तपांसि विदधे धनञ्जयः ॥ १२.१॥
अभिरश्मिमालि विमलस्य
धृतजयधृतेरनाशुषः ।
तस्य भुवि बहुतिथास्तिथयः
प्रतिजग्मुरेकचरणं निषीदतः ॥ १२.२॥
वपुरिन्द्रियोपतपनेषु
सततमसुखेषु पाण्डवः ।
व्याप नगपतिरिव स्थिरतां
महतां हि धैर्यमविभाव्यवैभवम् ॥ १२.३॥
न पपात सन्निहितपक्ति-
सुरभिषु फलेषु मानसम् ।
तस्य शुचिनि शिशिरे च पय-
स्यमृतायते हि सुतपः सुकर्मणाम् ॥ १२.४॥
न विसिस्मिये न विषसाद
मुहुरलसतां न चाददे ।
सत्त्वमुरुधृति रजस्तमसी
न हतः स्म तस्य हतशक्तिपेलवे ॥ १२.५॥
तपसा कृशं वपुरुवाह स
विजित-जगत्त्रयोदयम् ।
त्रासजननमपि तत्त्वविदां
किमिवास्ति यन्न सुकरं मनस्विभिः ॥ १२.६॥
ज्वलतोऽनलादनुनिशीथ-
मधिकरुचिरम्भसां निधेः ।
धैर्यगुणमवजयन् विजयी
ददृशे समुन्नततरः स शैलतः ॥ १२.७॥
जपतः सदा जपमुपांशु
वदनमभितो विसारिभिः ।
तस्य दशनकिरणैः शुशुभे
परिवेषभीषणमिवार्कमण्डलम् ॥ १२.८॥
कवचं स बिभ्रदुपवीत-
पदनिहितसज्यकार्मुकः ।
शैलपतिरिव महेन्द्रधनुः-
परिवीतभीमगहनो विदिद्युते ॥ १२.९॥
प्रविवेश गामिव कृशस्य
नियमसवनाय गच्छतः ।
तस्य पदविनमितो हिमवान्
गुरुतां नयन्ति हि गुणा न संहतिः ॥ १२.१०॥
परिकीर्णमुद्यतभुजस्य
भुवनविवरे दुरासदम् ।
ज्योतिरुपरि शिरसो विततं
जगृहे निजान्मुनिदिवौकसां पथः ॥ १२.११॥
रजनीषु राजतनयस्य
बहुलसमयेऽपि धामभिः ।
भिन्नतिमिरनिकरं न जहे
शशिरश्मि-सङ्गमयुजा नभः श्रिया ॥ १२.१२॥
महता मयूखनिचयेन
शमितरुचि जिष्णुजन्मना ।
ह्रीतमिव नभसि वीतमले
न विराजते स्म वपुरंशुमालिनः ॥ १२.१३॥
तमुदीरितारुण-जटांशु-
मधिगुणशरासनं जनाः ।
रुद्रमनुदित-ललाटदृशं
ददृशुर्मिमन्थिषुमिवासुरीः पुरीः ॥ १२.१४॥
मरुतां पतिः स्विदहिमांशुरुत
पृथुशिखः शिखी तपः ।
तप्तुमसुकरमुपक्रमते
न जनोऽयमित्यवयये स तापसैः ॥ १२.१५॥
न ददाह भूरुहवनानि
हरितनयधाम दूरगम् ।
न स्म नयति परिशोषमपः
सुसहं बभूव न च सिद्धतापसैः ॥ १२.१६॥
विनयं गुणा इव विवेक-
मपनयभिदं नया इव ।
न्यायमवधय इवाशरणाः
शरणं ययुः शिवमथो महर्षयः ॥ १२.१७॥
परिवीतमंशुभिरुदस्त-
दिनकर-मयूखमण्डलैः ।
शम्भुमुपहतदृशः सहसा
न च ते निचायितुमभिप्रसेहिरे ॥ १२.१८॥
अथ भूतभव्य-भवदीश-
मभिमुखयितुं कृतस्तवाः ।
तत्र महसि ददृशुः पुरुषं
कमनीयविग्रहमयुग्मलोचनम् ॥ १२.१९॥
ककुदे वृषस्य कृतबाहु-
मकृशपरिणाहशालिनि ।
स्पर्शसुखमनुभवन्तमुमा-
कुचयुग्ममण्डल इवार्द्रचन्दने ॥ १२.२०॥
स्थितमुन्नते तुहिनशैल-
शिरसि भुवनातिवर्तिना ।
साद्रिजलधि-जलवाहपथं
सदिगश्नुवानमिव विश्वमोजसा ॥ १२.२१॥
अनुजानुमध्यमवसक्त-
विततवपुषा महाहिना ।
लोकमखिलमिव भूमिभृता
रवितेजसामवधिनाधिवेष्टितम् ॥ १२.२२॥
परिणाहिना तुहिनराशि-
विशदमुपवीतसूत्रताम् ।
नीतमुरगमनुरञ्जयता शितिना
गलेन विलसन्मरीचिना ॥ १२.२३॥
प्लुतमालती-सितकपाल-
कुमुदमवरुद्धमूर्धजम् ।
शेषमिव सुरसरित्पयसां शिरसा
विसारि शशिधाम बिभ्रतम् ॥ १२.२४॥
मुनयस्ततोऽभिमुखमेत्य
नयनविनिमेषनोदिताः ।
पाण्डुतनयतपसा जनितं
जगतामशर्म भृशमाचचक्षिरे ॥ १२.२५॥
तरसैव कोऽपि भुवनैक-
पुरुष पुरुषस्तपस्यति ।
ज्योतिरमलवपुषोऽपि रवे-
रभिभूय वृत्र इव भीमविग्रहः ॥ १२.२६॥
स धनुर्महेषुधि बिभर्ति
कवचमसिमुत्तमं जटाः ।
वल्कमजिनमिति चित्रमिदं
मुनिताविरोधि न च नास्य राजते ॥ १२.२७॥
चलनेऽवनिश्चलति तस्य
करणनियमे सदिङ्मुखम् ।
स्तम्भमनुभवति शान्तमरुद्-
ग्रहतारकागणयुतं नभस्तलम् ॥ १२.२८॥
स तदोजसा विजितसार-
ममर-दितिजोपसंहितम् ।
विश्वमिदमपिदधाति पुरा
किमिवास्ति यन्न तपसामदुष्करम् ॥ १२.२९॥
विजिगीषते यदि जगन्ति
युगपदथ सञ्जिहीर्षति ।
प्राप्तुमभवमभिवाञ्छति वा
वयमस्य नो विषहितुं क्षमा रुचः ॥ १२.३०॥
किमुपेक्षसे कथय नाथ
न तव विदितं न किञ्चन ।
त्रातुमलमभयदार्हसि नस्त्वयि
मा स्म शासति भवत्पराभवः ॥ १२.३१॥
इति गां विधाय विरतेषु
मुनिषु वचनं समाददे ।
भिन्नजलधिजलनादगुरु ध्वनयन्
दिशां विवरमन्धकान्तकः ॥ १२.३२॥
बदरी-तपोवननिवास-
निरतमवगात मान्यथा ।
धातुरुदयनिधने जगतां
नरमंशमादिपुरुषस्य गां गतम् ॥ १२.३३॥
द्विषतः परासिसिषुरेष
सकलभुवनाभितापिनः ।
क्रान्तकुलिशकर-वीर्यबलान्
मदुपासनं विहितवान्महत्तपः ॥ १२.३४॥
अयमच्युतश्च वचनेन
सरसिरुहजन्मनः प्रजाः ।
पातुमसुरनिधनेन विभू
भुवमभ्युपेत्य मनुजेषु तिष्ठतः ॥ १२.३५॥
सुरकृत्यमेतदवगम्य
निपुणमिति मूकदानवः ।
हन्तुमभिपतति पाण्डुसुतं
त्वरया तदत्र सह गम्यतां मया ॥ १२.३६॥
विवरेऽपि नैनमनिगूढ-
मभिभवितुमेष पारयन् ।
पापनिरतिरविशङ्कितया
विजयं व्यवस्यति वराहमायया ॥ १२.३७॥
निहते विडम्बितकिरात-
नृपतिवपुषा रिपौ मया ।
मुक्तनिशितविशिखः प्रसभं
मृगयाविवादमयमाचरिष्यति ॥ १२.३८॥
तपसा निपीडितकृशस्य
विरहितसहायसम्पदः ।
सत्त्वविहितमतुलं भुजयो-
र्बलमस्य पश्यत मृधेऽधिकुप्यतः ॥ १२.३९॥
इति तानुदारमनुनीय
विषमहरिचन्दनालिना ।
घर्मजनितपुलकेन लसद्-
गजमौक्तिकावलिगुणेन वक्षसा ॥ १२.४०॥
वदनेन पुष्पितलतान्त-
नियमितविलम्बितमौलिना ।
बिभ्रदरुणनयनेन रुचं
शिखिपिच्छलाञ्छितकपोलभित्तिना ॥ १२.४१॥
बृहदुद्वहञ्जलदनादि
धनुरुपहितैकमार्गणम् ।
मेघनिचय इव संववृते
रुचिरः किरातपृतनापतिः शिवः ॥ १२.४२॥
अनुकूलमस्य च विचिन्त्य
गणपतिभिरात्तविग्रहैः ।
शूलपरशु-शरचापभृतै-
र्महती वनेचरचमूर्विनिर्ममे ॥ १२.४३॥
विरचय्य काननविभाग-
मनुगिरमथेश्वराज्ञया ।
भीमनिनदपिहितोरुभुवः
परितोऽपदिश्य मृगयां प्रतस्थिरे ॥ १२.४४॥
क्षुभिताभिनिःसृतविभिन्न-
शकुनिमृगयूथनिःस्वनैः ।
पूर्णपृथुवनगुहाविवरः सहसा
भयादिव ररास भूधरः ॥ १२.४५॥
न विरोधिनी रुषमियाय पथि
मृगविहङ्ग-संहतिः ।
घ्नन्ति सहजमपि भूरिभियः
सममागताः सपदि वैरमापदः ॥ १२.४६॥
चमरीगणैर्गणबलस्य
बलवति भयेऽप्युपस्थिते ।
वंशविततिषु विषक्तपृथु-
प्रियबालवालधिभिराददे धृतिः ॥ १२.४७॥
हरसैनिकाः प्रतिभयेऽपि
गजमद-सुगन्धिकेसरैः ।
स्वस्थमभिददृशिरे सहसा
प्रतिबोध-जृम्भितमुखैर्मृगाधिपैः ॥ १२.४८॥
बिभराम्बभूवुरपवृत्त-
जठरशफरीकुलाकुलाः ।
पङ्कविषमिततटाः सरितः
करिरुग्ण-चन्दनरसारुणं पयः ॥ १२.४९॥
महिष-क्षतागुरुतमाल-
नलदसुरभिः सदागतिः ।
व्यस्त-शुकनिभशिलाकुसुमः
प्रणुदन् ववौ वनसदां परिश्रमम् ॥ १२.५०॥
मथिताम्भसो रयविकीर्ण-
मृदितकदलीगवेधुकाः ।
क्लान्तजलरुहलताः सरसी-
र्विदधे निदाघ इव सत्त्वसम्प्लवः ॥ १२.५१॥
इति चालयन्नचलसानु-
वनगहनजानुमापतिः ।
प्राप मुदितहरिणीदशन-
क्षतवीरुधं वसतिमैन्द्रसूनवीम् ॥ १२.५२॥
स तमाससाद घननील-
मभिमुखमुपस्थितं मुनेः ।
पोत्रनिकषण-विभिन्नभुवं
दनुजं दधानमथ सौकरं वपुः ॥ १२.५३॥
कच्छान्ते सुरसरितो निधाय सेना-
मन्वीतः स कतिपयैः किरातवर्यैः ।
प्रच्छन्नस्तरुगहनैः सगुल्मजालै-
र्लक्ष्मीवाननुपदमस्य सम्प्रतस्थे ॥ १२.५४॥
इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये
ईश्वराभिगमनो नाम द्वादशः सर्गः ॥ १२॥
१३. दूतवाक्यं नाम त्रयोदशः सर्गः
वपुषां परमेण भूधराणा-
मथ सम्भाव्यपराक्रमं विभेदे ।
मृगमाशु विलोकयाञ्चकार
स्थिरदंष्ट्रोग्रमुखं महेन्द्रसूनुः ॥ १३.१॥
स्फुटबद्धसटोन्नतिः स दूरा-
दभिधावन्नवधीरितान्यकृत्यः ।
जयमिच्छति तस्य जातशङ्के
मनसीमं मुहुराददे वितर्कम् ॥ १३.२॥
घनपोत्रविदीर्ण-शालमूलो
निबिडस्कन्ध-निकाषरुग्णवप्रः ।
अयमेकचरोऽभिवर्तते मां
समरायेव समाजुहूषमाणः ॥ १३.३॥
इह वीतभयास्तपोनुभावा-
ज्जहति व्यालमृगाः परेषु वृत्तिम् ।
मयि तां सुतरामयं विधत्ते
विकृतिः किं नु भवेदियं नु माया ॥ १३.४॥
अथवैष कृतज्ञयेव पूर्वं
भृशमासेवितया रुषा न मुक्तः ।
अवधूय विरोधिनीः किमारान्
मृगजातीरभियाति मां जवेन ॥ १३.५॥
न मृगः खलु कोऽप्ययं जिघांसुः
स्खलति ह्यत्र तथा भृशं मनो मे ।
विमलं कलुषीभवच्च चेतः
कथयत्येव हितैषिणं रिपुं वा ॥ १३.६॥
मुनिरस्मि निरागसः कुतो मे
भयमित्येष न भूतयेऽभिमानः ।
परवृद्धिषु बद्धमत्सराणां
किमिव ह्यस्ति दुरात्मनामलङ्घ्यम् ॥ १३.७॥
दनुजः स्विदयं क्षपाचरो वा
वनजे नेति बलं बतास्ति सत्त्वे ।
अभिभूय तथा हि मेघनीलः
सकलं कम्पयतीव शैलराजम् ॥ १३.८॥
अयमेव मृगव्यसत्त्रकामः
प्रहरिष्यन्मयि मायया शमस्थे ।
पृथुभिर्ध्वजिनी-रवैरकार्षी-
च्चकितोद्भ्रान्तमृगाणि काननानि ॥ १३.९॥
बहुशः कृतसत्कृतेर्विधातुं
प्रियमिच्छन्नथवा सुयोधनस्य ।
क्षुभितं वनगोचराभियोगाद्-
गणमाशिश्रियदाकुलं तिरश्चाम् ॥ १३.१०॥
अवलीढसनाभिरश्वसेनः
प्रसभं खाण्डवजातवेदसा वा ।
प्रतिकर्तुमुपागतः समन्युः
कृतमन्युर्यदि वा वृकोदरेण ॥ १३.११॥
बलशालितया यथा तथा वा
धियमुच्छेदपरामयं दधानः ।
नियमेन मया निबर्हणीयः
परमं लाभमरातिभङ्गमाहुः ॥ १३.१२॥
कुरु तात तपांस्यमार्गदायी
विजयायेत्यलमन्वशान्मुनिर्माम् ।
बलिनश्च वधादृतेऽस्य शक्यं
व्रतसंरक्षणमन्यथा न कर्तुम् ॥ १३.१३॥
इति तेन विचिन्त्य चापनाम
प्रथमं पौरुषचिह्नमाललम्बे ।
उपलब्धगुणः परस्य भेदे
सचिवः शुद्ध इवाददे च बाणः ॥ १३.१४॥
अनुभाववता गुरु स्थिरत्वा-
दविसंवादि धनुर्धनञ्जयेन ।
स्वबलव्यसनेऽपि पीड्यमानं
गुणवन्मित्रमिवानतिं प्रपेदे ॥ १३.१५॥
प्रविकर्ष-निनादभिन्नरन्ध्रः
पदविष्टम्भ-निपीडितस्तदानीम् ।
अधिरोहति गाण्डिवं महेषौ
सकलः संशयमारुरोह शैलः ॥ १३.१६॥
ददृशेऽथ सविस्मयं शिवेन
स्थिरपूर्णायत-चापमण्डलस्थः ।
रचितस्तिसृणां पुरां विधातुं
वधमात्मेव भयानकः परेषाम् ॥ १३.१७॥
विचकर्ष च संहितेषुरुच्चै-
श्चरणास्कन्दन-नामिताचलेन्द्रः ।
धनुरायतभोग-वासुकिज्या-
वदनग्रन्थि-विमुक्तवह्नि शम्भुः ॥ १३.१८॥
स भवस्य भवक्षयैकहेतोः
सितसप्तेश्च विधास्यतोः सहार्थम् ।
रिपुराप पराभवाय मध्यं
प्रकृति-प्रत्यययोरिवानुबन्धः ॥ १३.१९॥
अथ दीपित-वारिवाहवर्त्मा
रववित्रासित-वारणादवार्यः ।
निपपात जवादिषुः पिनाकान्-
महतोऽभ्रादिव वैद्युतः कृशानुः ॥ १३.२०॥
व्रजतोऽस्य बृहत्पतत्त्रजन्मा
कृततार्क्ष्योपनिपात-वेगशङ्कः ।
प्रतिनादमहान्महोरगाणां
हृदयश्रोत्रभिदुत्पपात नादः ॥ १३.२१॥
नयनादिव शूलिनः प्रवृत्तै-
र्मनसोऽप्याशुतरं यतः पिशङ्गैः ।
विदधे विलसत्तडिल्लताभैः
किरणैर्व्योमनि मार्गणस्य मार्गः ॥ १३.२२॥
अपयन् धनुषः शिवान्तिकस्थै-
र्विवरेसद्भिरभिख्यया जिहानः ।
युगपद्ददृशे विशन् वराहं
तदुपोढैश्च नभश्चरैः पृषत्कः ॥ १३.२३॥
स तमालनिभे रिपौ सुराणां
घननीहार इवाविषक्तवेगः ।
भयविप्लुतमीक्षितो नभःस्थै-
र्जगतीं ग्राह इवापगां जगाहे ॥ १३.२४॥
सपदि प्रियरूपपर्वरेखः
सितलोहाग्रनखः खमाससाद ।
कुपितान्तक-तर्जनाङ्गुलिश्री-
र्व्यथयन् प्राणभृतः कपिध्वजेषुः ॥ १३.२५॥
परमास्त्र-परिग्रहोरुतेजः
स्फुरदुल्काकृति विक्षिपन् वनेषु ।
स जवेन पतन् परःशतानां
पततां व्रात इवारवं वितेने ॥ १३.२६॥
अविभावित-निष्क्रमप्रयाणः
शमितायाम इवातिरंहसा सः ।
सह पूर्वतरं नु चित्तवृत्ते-
रपतित्वा नु चकार लक्ष्यभेदम् ॥ १३.२७॥
स वृषध्वज-सायकावभिन्नं
जयहेतुः प्रतिकायमेषणीयम् ।
लघु साधयितुं शरः प्रसेहे
विधिनेवार्थमुदीरितं प्रयत्नः ॥ १३.२८॥
अविवेक-वृथाश्रमाविवार्थं
क्षयलोभाविव संश्रितानुरागम् ।
विजिगीषुमिवानय-प्रमादाववसादं
विशिखौ विनिन्यतुस्तम् ॥ १३.२९॥
अथ दीर्घतमं तमः प्रवेक्ष्यन्
सहसा रुग्णरयः स सम्भ्रमेण ।
निपतन्तमिवोष्णरश्मिमुर्व्यां
वलयीभूततरुं धरां च मेने ॥ १३.३०॥
स गतः क्षितिमुष्ण-शोणितार्द्रः
खुरदंष्ट्राग्र-निपात-दारिताश्मा ।
असुभिः क्षणमीक्षितेन्द्रसूनु-
र्विहितामर्ष-गुरुध्वनिर्निरासे ॥ १३.३१॥
स्फुटपौरुषमापपात पार्थ-
स्तमथ प्राज्यशरः शरं जिघृक्षुः ।
न तथा कृतवेदिनां करिष्यन्
प्रियतामेति यथा कृतावदानः ॥ १३.३२॥
उपकार इवासति प्रयुक्तः
स्थितिमप्राप्य मृगे गतः प्रणाशम् ।
कृतशक्तिरवाङ्मुखो गुरुत्वा-
ज्जनितव्रीड इवात्मपौरुषेण ॥ १३.३३॥
स समुद्धरता विचिन्त्य तेन
स्वरुचं कीर्तिमिवोत्तमां दधानः ।
अनुयुक्त इव स्ववार्तमुच्चैः
परिरेभे नु भृशं विलोचनाभ्याम् ॥ १३.३४॥
तत्र कार्मुकभृतं महाभुजः
पश्यति स्म सहसा वनेचरम् ।
सन्निकाशयितुमग्रतः स्थितं
शासनं कुसुमचापविद्विषः ॥ १३.३५॥
स प्रयुज्य तनये महीपते-
रात्मजातिसदृशीं किलानतिम् ।
सान्त्वपूर्वमभिनीतिहेतुकं
वक्तुमित्थमुपचक्रमे वचः ॥ १३.३६॥
शान्तता विनययोगि मानसं
भूरिधाम विमलं तपः श्रुतम् ।
प्राह ते नु सदृशी दिवौकसा-
मन्ववायमवदातमाकृतिः ॥ १३.३७॥
दीपितस्त्वमनुभावसम्पदा
गौरवेण लघयन्महीभृतः ।
राजसे मुनिरपीह कारय-
न्नाधिपत्यमिव शातमन्यवम् ॥ १३.३८॥
तापसोऽपि विभुतामुपेयिवा-
नास्पदं त्वमसि सर्वसम्पदाम् ।
दृश्यते हि भवतो विना जनै-
रन्वितस्य सचिवैरिव द्युतिः ॥ १३.३९॥
विस्मयः क इव वा जयश्रिया
नैव मुक्तिरपि ते दवीयसी ।
ईप्सितस्य न भवेदुपाश्रयः
कस्य निर्जितरजस्तमोगुणः ॥ १३.४०॥
ह्रेपयन्नहिमतेजसं त्विषा
स त्वमित्थमुपपन्नपौरुषः ।
हर्तुमर्हसि वराहभेदिनं
नैनमस्मदधिपस्य सायकम् ॥ १३.४१॥
स्मर्यते तनुभृतां सनातनं
न्याय्यमाचरितमुत्तमैर्नृभिः ।
ध्वंसते यदि भवादृशस्ततः
कः प्रयातु वद तेन वर्त्मना ॥ १३.४२॥
आकुमारमुपदेष्टुमिच्छवः
सन्निवृत्तिमपथान्महापदः ।
योगशक्तिजित-जन्ममृत्यवः
शीलयन्ति यतयः सुशीलताम् ॥ १३.४३॥
तिष्ठतां तपसि पुण्यमासजन्
सम्पदोऽनुगुणयन् सुखैषिणाम् ।
योगिनां परिणमन् विमुक्तये
केन नास्तु विनयः सतां प्रियः ॥ १३.४४॥
नूनमत्रभवतः शराकृतिं
सर्वथायमनुयाति सायकः ।
सोऽयमित्यनुपपन्नसंशयः
कारितस्त्वमपथे पदं यया ॥ १३.४५॥
अन्यदीयविशिखे न केवलं
निःस्पृहस्य भवितव्यमाहृते ।
निघ्नतः परनिबर्हितं मृगं
व्रीडितव्यमपि ते सचेतसः ॥ १३.४६॥
सन्ततं निशमयन्त उत्सुका
यैः प्रयान्ति मुदमस्य सूरयः ।
कीर्तितानि हसितेऽपि तानि यं
व्रीडयन्ति चरितानि मानिनम् ॥ १३.४७॥
अन्यदोषमिव सः स्वकं गुणं
ख्यापयेत् कथमधृष्टताजडः ।
उच्यते स खलु कार्यवत्तया
धिग्विभिन्न-बुधसेतुमर्थिताम् ॥ १३.४८॥
दुर्वचं तदथ मा स्म भून्मृग-
स्त्वय्यसौ यदकरिष्यदोजसा ।
नैनमाशु यदि वाहिनीपतिः
प्रत्यपत्स्यत शितेन पत्त्रिणा ॥ १३.४९॥
को न्विमं हरितुरङ्गमायुध-
स्थेयसीं दधतमङ्गसंहतिम् ।
वेगवत्तरमृते चमूपते-
र्हन्तुमर्हति शरेण दंष्ट्रिणम् ॥ १३.५०॥
मित्रमिष्टमुपकारि संशये
मेदिनीपतिरयं तथा च ते ।
तं विरोध्य भवता निरासि मा
सज्जनैकवसतिः कृतज्ञता ॥ १३.५१॥
लभ्यमेकसुकृतेन दुर्लभा
रक्षितारमसुरक्ष्यभूतयः ।
स्वन्तमन्तविरसा जिगीषतां
मित्रलाभमनु लाभसम्पदः ॥ १३.५२॥
चञ्चलं वसु नितान्तमुन्नता
मेदिनीमपि हरन्त्यरातयः ।
भूधरस्थिरमुपेयमागतं
मावमंस्त सुहृदं महीपतिम् ॥ १३.५३॥
जेतुमेव भवता तपस्यते
नायुधानि दधते मुमुक्षवः ।
प्राप्स्यते च सकलं महीभृता
सङ्गतेन तपसः फलं त्वया ॥ १३.५४॥
वाजिभूमिरिभराज-काननं
सन्ति रत्ननिचयाश्च भूरिशः ।
काञ्चनेन किमिवास्य पत्त्रिणा
केवलं न सहते विलङ्घनम् ॥ १३.५५॥
सावलेपमुपलिप्सिते परै-
रभ्युपैति विकृतिं रजस्यपि ।
अर्थितस्तु न महान् समीहते
जीवितं किमु धनं धनायितुम् ॥ १३.५६॥
तत्तदीय-विशिखातिसर्जना-
दस्तु वां गुरु यदृच्छयागतम् ।
राघव-प्लवगराजयोरिव
प्रेम युक्तमितरेतराश्रयम् ॥ १३.५७॥
नाभियोक्तुमनृतं त्वमिष्यसे
कस्तपस्विविशिखेषु चादरः ।
सन्ति भूभृति शरा हि नः परे
ये पराक्रमवसूनि वज्रिणः ॥ १३.५८॥
मार्गणैरथ तव प्रयोजनं
नाथसे किमु पतिं न भूभृतः ।
त्वद्विधं सुहृदमेत्य सोऽर्थिनं
किं न यच्छति विजित्य मेदिनीम् ॥ १३.५९॥
तेन सूरिरुपकारिताधनः
कर्तुमिच्छति न याचितं वृथा ।
सीदतामनुभवन्निवार्थिनां
वेद यत्प्रणयभङ्गवेदनाम् ॥ १३.६०॥
शक्तिरर्थपतिषु स्वयङ्ग्रहं
प्रेम कारयति वा निरत्ययम् ।
कारणद्वयमिदं निरस्यतः
प्रार्थनाधिकबले विपत्फला ॥ १३.६१॥
अस्त्रवेदमधिगम्य तत्त्वतः
कस्य चेह भुजवीर्यशालिनः ।
जामदग्न्यमपहाय गीयते
तापसेषु चरितार्थमायुधम् ॥ १३.६२॥
अभ्यघानि मुनिचापलात्त्वया
यन्मृगः क्षितिपतेः परिग्रहः ।
अक्षमिष्ट तदयं प्रमाद्यतां
संवृणोति खलु दोषमज्ञता ॥ १३.६३॥
जन्मवेषतपसां विरोधिनीं
मा कृथाः पुनरमूमपक्रियाम् ।
आपदेत्युभय-लोकदूषणी
वर्तमानमपथे हि दुर्मतिम् ॥ १३.६४॥
यष्टुमिच्छसि पितॄन्न साम्प्रतं
संवृतोऽर्चिचयिषुर्दिवौकसः ।
दातुमेव पदवीमपि क्षमः
किं मृगेऽङ्ग विशिखं न्यवीविशः ॥ १३.६५॥
सज्जनोऽसि विजहीहि चापलं
सर्वदा क इव वा सहिष्यते ।
वारिधीनिव युगान्तवायवः
क्षोभयन्त्यनिभृता गुरूनपि ॥ १३.६६॥
अस्त्रवेदविदयं महीपतिः
पर्वतीय इति मावजीगणः ।
गोपितुं भुवमिमां मरुत्वता
शैलवासमनुनीय लम्भितः ॥ १३.६७॥
तत्तितिक्षितमिदं मया मुने-
रित्यवोचत वचश्चमूपतिः ।
बाणमत्रभवते निजं दिश-
न्नाप्नुहि त्वमपि सर्वसम्पदः ॥ १३.६८॥
आत्मनीनमुपतिष्ठते गुणाः
सम्भवन्ति विरमन्ति चापदः ।
इत्यनेक-फलभाजि मा स्म भू-
दर्थिता कथमिवार्यसङ्गमे ॥ १३.६९॥
दृश्यतामयमनोकहान्तरे
तिग्महेति-पृतनाभिरन्वितः ।
साहिवीचिरिव सिन्धुरुद्धतो
भूपतिः समयसेतुवारितः ॥ १३.७०॥
सज्यं धनुर्वहति योऽहिपतिस्थवीयः
स्थेयाञ्जयन् हरितुरङ्गमकेतुलक्ष्मीम् ।
अस्यानुकूलय मतिं मतिमन्ननेन
सख्या सुखं समभियास्यसि चिन्तितानि ॥ १३.७१॥
इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये
दूतवाक्यं नाम त्रयोदशः सर्गः ॥ १३॥
१४. अर्जुनाभिगमनो नाम चौर्दशः सर्गः
ततः किरातस्य वचोभिरुद्धतैः
पराहतः शैल इवार्णवाम्बुभिः ।
जहौ न धैर्यं कुपितोऽपि पाण्डवः
सुदुर्ग्रहान्तःकरणा हि साधवः ॥ १४.१॥
सलेशमुल्लिङ्गित-शात्रवेङ्गितः
कृती गिरां विस्तर-तत्त्वसङ्ग्रहे ।
अयं प्रमाणीकृत-कालसाधनः
प्रशान्तसंरम्भ इवाददे वचः ॥ १४.२॥
विविक्तवर्णाभरणा सुखश्रुतिः
प्रसादयन्ती हृदयान्यपि द्विषाम् ।
प्रवर्तते नाकृतपुण्यकर्मणां
प्रसन्नगम्भीरपदा सरस्वती ॥ १४.३॥
भवन्ति ते सभ्यतमा विपश्चितां
मनोगतं वाचि निवेशयन्ति ये ।
नयन्ति तेष्वप्युपपन्ननैपुणा
गभीरमर्थं कतिचित्प्रकाशताम् ॥ १४.४॥
स्तुवन्ति गुर्वीमभिधेयसम्पदं
विशुद्धिमुक्तेरपरे विपश्चितः ।
इति स्थितायां प्रतिपूरुषं रुचौ
सुदुर्लभाः सर्वमनोरमा गिरः ॥ १४.५॥
समस्य सम्पादयता गुणैरिमां
त्वया समारोपितभार भारतीम् ।
प्रगल्भमात्मा धुरि धुर्य वाग्मिनां
वनचरेणापि सताधिरोपितः ॥ १४.६॥
प्रयुज्य सामाचरितं विलोभनं
भयं विभेदाय धियः प्रदर्शितम् ।
तथाभियुक्तं च शिलीमुखार्थिना
यथेतरन्न्याय्यमिवावभासते ॥ १४.७॥
विरोधि सिद्धेरिति कर्तुमुद्यतः
स वारितः किं भवता न भूपतिः ।
हिते नियोज्यः खलु भूतिमिच्छता
सहार्थनाशेन नृपोऽनुजीविना ॥ १४.८॥
ध्रुवं प्रणाशः प्रहितस्य पत्त्रिणः
शिलोच्चये तस्य विमार्गणं नयः ।
न युक्तमत्रार्य-जनातिलङ्घनं
दिशत्यपायं हि सतामतिक्रमः ॥ १४.९॥
अतीतसङ्ख्या विहिता ममाग्निना
शिलीमुखाः खाण्डवमत्तुमिच्छता ।
अनादृतस्यामर-सायकेष्वपि
स्थिता कथं शैलजनाशुगे धृतिः ॥ १४.१०॥
यदि प्रमाणीकृतमार्यचेष्टितं
किमित्यदोषेण तिरस्कृता वयम् ।
अयातपूर्वा परिवादगोचरं
सतां हि वाणी गुणमेव भाषते ॥ १४.११॥
गुणापवादेन तदन्यरोपणाद्
भृशाधिरूढस्य समञ्जसं जनम् ।
द्विधेव कृत्वा हृदयं निगूहतः
स्फुरन्नसाधोर्विवृणोति वागसिः ॥ १४.१२॥
वनाश्रयाः कस्य मृगाः परिग्रहाः
शृणाति यस्तान् प्रसभेन तस्य ते ।
प्रहीयतामत्र नृपेण मानिता
न मानिता चास्ति भवन्ति च श्रियः ॥ १४.१३॥
न वर्त्म कस्मैचिदपि प्रदीयता-
मिति व्रतं मे विहितं महर्षिणा ।
जिघांसुरस्मान्निहतो मया मृगो
व्रताभिरक्षा हि सतामलङ्क्रिया ॥ १४.१४॥
मृगान् विनिघ्नन्मृगयुः स्वहेतुना
कृतोपकारः कथमिच्छतां तपः ।
कृपेति चेदस्तु मृगः क्षतः क्षणा-
दनेन पूर्वं न मयेति का गतिः ॥ १४.१५॥
अनायुधे सत्त्वजिघांसिते मुनौ
कृपेति वृत्तिर्महतामकृत्रिमा ।
शरासनं बिभ्रति सज्यसायकं
कृतानुकम्पः स कथं प्रतीयते ॥ १४.१६॥
अथो शरस्तेन मदर्थमुज्झितः
फलं च तस्य प्रतिकायसाधनम् ।
अविक्षते तत्र मयात्मसात्कृते
कृतार्थता नन्वधिका चमूपतेः ॥ १४.१७॥
यदात्थ कामं भवता स याच्यता-
मिति क्षमं नैतदनल्पचेतसाम् ।
कथं प्रसह्याहरणैषिणां प्रियाः
परावनत्या मलिनीकृताः श्रियः ॥ १४.१८॥
अभूतमासज्य विरुद्धमीहितं
बलादलभ्यं तव लिप्सते नृपः ।
विजानतोऽपि ह्यनयस्य रौद्रतां
भवत्यपाये परिमोहिनी मतिः ॥ १४.१९॥
असिः शरा वर्म धनुश्च नोच्चकै-
र्विविच्य किं प्रार्थितमीश्वरेण ते ।
अथास्ति शक्तिः कृतमेव याच्ञया
न दूषितः शक्तिमतां स्वयङ्ग्रहः ॥ १४.२०॥
सखा स युक्तः कथितः कथं त्वया
यदृच्छयासूयति यस्तपस्यते ।
गुणार्जनोच्छ्राय-विरुद्धबुद्धयः
प्रकृत्यमित्रा हि सतामसाधवः ॥ १४.२१॥
वयं क्व वर्णाश्रम-रक्षणोचिताः
क्व जातिहीना मृगजीवितच्छिदः ।
सहापकृष्टैर्महतां न सङ्गतं
भवन्ति गोमायुसखा न दन्तिनः ॥ १४.२२॥
परोऽवजानाति यदज्ञताजड-
स्तदुन्नतानां न विहन्ति धीरताम् ।
समानवीर्यान्वय-पौरुषेषु यः
करोत्यतिक्रान्तिमसौ तिरस्क्रिया ॥ १४.२३॥
यदा विगृह्णाति हतं तदा यशः
करोति मैत्रीमथ दूषिता गुणाः ।
स्थितिं समीक्ष्योभयथा परीक्षकः
करोत्यवज्ञोपहतं पृथग्जनम् ॥ १४.२४॥
मया मृगान् हन्तुरनेन हेतुना
विरुद्धमाक्षेप-वचस्तितिक्षितम् ।
शरार्थमेष्यत्यथ लप्स्यते गतिं
शिरोमणिं दृष्टिविषाज्जिघृक्षतः ॥ १४.२५॥
इतीरिताकूतमनीलवाजिनं
जयाय दूतः प्रतितर्ज्य तेजसा ।
ययौ समीपं ध्वजिनीमुपेयुषः
प्रसन्नरूपस्य विरूपचक्षुषः ॥ १४.२६॥
ततोऽपवादेन पताकिनीपते-
श्चचाल निर्ह्रादवती महाचमूः ।
युगान्तवाताभिहतेव कुर्वती
निनादमम्भोनिधि-वीचिसंहतिः ॥ १४.२७॥
रणाय जैत्रः प्रदिशन्निव त्वरां
तरङ्गितालम्बित-केतुसन्ततिः ।
पुरो बलानां सघनाम्बुशीकरः
शनैः प्रतस्थे सुरभिः समीरणः ॥ १४.२८॥
जयारव-क्ष्वेडितनादमूर्छितः
शरासनज्यातल-वारणध्वनिः ।
असम्भवन्भूधर-राजकुक्षिषु
प्रकम्पयन् गामवतस्तरे दिशः ॥ १४.२९॥
निशातरौद्रेषु विकासतां गतैः
प्रदीपयद्भिः ककुभामिवान्तरम् ।
वनेसदां हेतिषु भिन्नविग्रहै-
र्विपुस्फुरे रश्मिमतो मरीचिभिः ॥ १४.३०॥
उदूढवक्षःस्थगितैकदिङ्मुखो
विकृष्टविस्फारित-चापमण्डलः ।
वितत्य पक्षद्वयमायतं बभौ
विभुर्गणानामुपरीव मध्यगः ॥ १४.३१॥
सुगेषु दुर्गेषु च तुल्यविक्रमै-
र्जवादहम्पूर्विकया यियासुभिः ।
गणैरविच्छेद-निरुद्धमाबभौ
वनं निरुच्छ्वासमिवाकुलाकुलम् ॥ १४.३२॥
तिरोहितश्वभ्रनिकुञ्जरोधसः
समश्नुवानाः सहसातिरिक्तताम् ।
किरातसैन्यैरपिधाय रेचिता
भुवः क्षणं निम्नतयेव भेजिरे ॥ १४.३३॥
पृथूरुपर्यस्त-बृहल्लतातति-
र्जवानिलाघूर्णित-शालचन्दना ।
गणाधिपानां परितः प्रसारिणी
वनान्यवाञ्चीव चकार संहतिः ॥ १४.३४॥
ततः सदर्पं प्रतनुं तपस्यया
मदस्रुतिक्षाममिवैकवारणम् ।
परिज्वलन्तं निधनाय भूभृतां
दहन्तमाशा इव जातवेदसम् ॥ १४.३५॥
अनादरोपात्त-धृतैकसायकं
जयेऽनुकूले सुहृदीव सस्पृहम् ।
शनैरपूर्णप्रतिकारपेलवे
निवेशयन्तं नयने बलोदधौ ॥ १४.३६॥
निषण्णमापत्प्रतिकारकारणे
शरासने धैर्य इवानपायिनि ।
अलङ्घनीयं प्रकृतावपि स्थितं
निवात-निष्कम्पमिवापगापतिम् ॥ १४.३७॥
उपेयुषीं बिभ्रतमन्तकद्युतिं
वधाददूरे पतितस्य दंष्ट्रिणः ।
पुरः समावेशितसत्पशुं द्विजैः
पतिं पशूनामिव हूतमध्वरे ॥ १४.३८॥
निजेन नीतं विजितान्यगौरवं
गभीरतां धैर्यगुणेन भूयसा ।
वनोदयेनेव घनोरुवीरुधा
समन्धकारीकृतमुत्तमाचलम् ॥ १४.३९॥
महर्षभस्कन्धमनूनकन्धरं
बृहच्छिलावप्रघनेन वक्षसा ।
समुज्जिहीर्षुं जगतीं महाभरां
महावराहं महतोऽर्णवादिव ॥ १४.४०॥
हरिन्मणिश्याममुदग्रविग्रहं
प्रकाशमानं परिभूय देहिनः ।
मनुष्यभावे पुरुषं पुरातनं
स्थितं जलादर्श इवांशुमालिनम् ॥ १४.४१॥
गुरुक्रियारम्भ-फलैरलङ्कृतं
गतिं प्रतापस्य जगत्प्रमाथिनः ।
गणाः समासेदुरनीलवाजिनं
तपात्यये तोयघना घना इव ॥ १४.४२॥
यथास्वमाशंसितविक्रमाः पुरा
मुनिप्रभावक्षततेजसः परे ।
ययुः क्षणादप्रतिपत्तिमूढतां
महानुभावः प्रतिहन्ति पौरुषम् ॥ १४.४३॥
ततः प्रजह्रे सममेव तत्र तै-
रपेक्षितान्योन्यबलोपपत्तिभिः ।
महोदयानामपि सङ्घवृत्तितां
सहायसाध्याः प्रदिशन्ति सिद्धयः ॥ १४.४४॥
किरातसैन्यादुरुचापनोदिताः
समं समुत्पेतुरुपात्तरंहसः ।
महावनादुन्मनसः खगा इव
प्रवृत्तपत्त्रध्वनयः शिलीमुखाः ॥ १४.४५॥
गभीररन्ध्रेषु भृशं महीभृतः
प्रतिस्वनैरुन्नमितेन सानुषु ।
धनुर्निनादेन जवादुपेयुषा
विभिद्यमाना इव दध्वनुर्दिशः ॥ १४.४६॥
विधूनयन्ती गहनानि भूरुहां
तिरोहितोपान्त-नभोदिगन्तरा ।
महीयसी वृष्टिरिवानिलेरिता
रवं वितेने गणमार्गणावलिः ॥ १४.४७॥
त्रयीमृतूनामनिलाशिनः सतः
प्रयाति पोषं वपुषि प्रहृष्यतः ।
रणाय जिष्णोर्विदुषेव सत्वरं
घनत्वमीये शिथिलेन वर्मणा ॥ १४.४८॥
पतत्सु शस्त्रेषु वितत्य रोदसी
समन्ततस्तस्य धनुर्दुधूषतः ।
सरोषमुल्केव पपात भीषणा
बलेषु दृष्टिर्विनिपातशंसिनी ॥ १४.४९॥
दिशः समूहन्निव विक्षिपन्निव
प्रभां रवेराकुलयन्निवानिलम् ।
मुनिश्चचाल क्षयकालदारुणः
क्षितिं सशैलां चलयन्निवेषुभिः ॥ १४.५०॥
विमुक्तमाशंसितशत्रुनिर्जयै-
रनेकमेकावसरं वनेचरैः ।
स निर्जघानायुधमन्तरा शरैः
क्रियाफलं काल इवातिपातितः ॥ १४.५१॥
गतैः परेषामविभावनीयतां
निवारयद्भिर्विपदं विदूरगैः ।
भृशं बभूवोपचितो बृहत्फलैः
शरैरुपायैरिव पाण्डुनन्दनः ॥ १४.५२॥
दिवः पृथिव्याः ककुभां नु मण्डलात्
पतन्ति बिम्बादुत तिग्मतेजसः ।
सकृद्विकृष्टादथ कार्मुकान्मुनेः
शराः शरीरादिति तेऽभिमेनिरे ॥ १४.५३॥
गणाधिपानामविधाय निर्गतैः
परासुतां मर्मविदारणैरपि ।
जवादतीये हिमवानधोमुखैः
कृतापराधैरिव तस्य पत्त्रिभिः ॥ १४.५४॥
द्विषां क्षतीर्याः प्रथमे शिलीमुखा
विभिद्य देहावरणानि चक्रिरे ।
न तासु पेते विशिखैः पुनर्मुने-
ररुन्तुदत्वं महतां ह्यगोचरः ॥ १४.५५॥
समुज्झिता यावदराति निर्यती
सहैव चापान्मुनिबाणसंहतिः ।
प्रभा हिमांशोरिव पङ्कजावलिं
निनाय सङ्कोचमुमापतेश्चमूम् ॥ १४.५६॥
अजिह्ममोजिष्ठममोघमक्लमं
क्रियासु बह्वीषु पृथङ्नियोजितम् ।
प्रसेहिरे सादयितुं न सादिताः
शरौघमुत्साहमिवास्य विद्विषः ॥ १४.५७॥
शिवध्वजिन्यः प्रतियोधमग्रतः
स्फुरन्तमुग्रेषु-मयूखमालिनम् ।
तमेकदेशस्थमनेकदेशगा
निदध्युरर्कं युगपत्प्रजा इव ॥ १४.५८॥
मुनेः शरौघेण तदुग्ररंहसा
बलं प्रकोपादिव विष्वगायता ।
विधूनितं भ्रान्तिमियाय सङ्गिनीं
महानिलेनेव निदाघजं रजः ॥ १४.५९॥
तपोबलेनैष विधाय भूयसी-
स्तनूरदृश्याः स्विदिषून्निरस्यति ।
अमुष्य मायाविहतं निहन्ति नः
प्रतीपमागत्य किमु स्वमायुधम् ॥ १४.६०॥
हृता गुणैरस्य भयेन वा मुने-
स्तिरोहिताः स्वित्प्रहरन्ति देवताः ।
कथं न्वमी सन्ततमस्य सायका
भवन्त्यनेके जलधेरिवोर्मयः ॥ १४.६१॥
जयेन कच्चिद्विरमेदयं रणाद्-
भवेदपि स्वस्ति चराचराय वा ।
तताप कीर्णा नृपसूनुमार्गणै-
रिति प्रतर्काकुलिता पताकिनी ॥ १४.६२॥
अमर्षिणा कृत्यमिव क्षमाश्रयं
मदोद्धतेनेव हितं प्रियं वचः ।
बलीयसा तद्विधिनेव पौरुषं
बलं निरस्तं न रराज जिष्णुना ॥ १४.६३॥
प्रतिदिशं प्लवगाधिप-लक्ष्मणा
विशिखसंहति-तापितमूर्तिभिः ।
रविकरग्लपितैरिव वारिभिः
शिवबलैः परिमण्डलता दधे ॥ १४.६४॥
प्रवितत-शरजालच्छन्न-विश्वान्तराले
विधुवति धनुराविर्मण्डलं पाण्डुसूनौ ।
कथमपि जयलक्ष्मीर्भीतभीता विहातुं
विषमनयन-सेनापक्षपातं विषेहे ॥ १४.६५॥
इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये
अर्जुनाभिगमनो नाम चौर्दशः सर्गः ॥ १४॥
१५. युद्धवर्णनं नाम पञ्चदशः सर्गः
अथ भूतानि वार्त्रघ्न-शरेभ्यस्तत्र तत्रसुः ।
भेजे दिशः परित्यक्त-महेष्वासा च सा चमूः ॥ १५.१॥
अपश्यद्भिरिवेशानं रणान्निववृते गणैः ।
मुह्यत्येव हि कृच्छ्रेषु सम्भ्रमज्वलितं मनः ॥ १५.२॥
खण्डिताशंसया तेषां पराङ्मुखतया तया ।
आविवेश कृपा केतौ कृतोच्चैर्वानरं नरम् ॥ १५.३॥
आस्थामालम्ब्य नीतेषु वशं क्षुद्रेष्वरातिषु ।
व्यक्तिमायाति महतां माहात्म्यमनुकम्पया ॥ १५.४॥
स सासिः सासुसूः सासो येयायेयाययाययः ।
ललौ लीलां ललोऽलोलः शशीशशिशुशीः शशन् ॥ १५.५॥
त्रासजिह्मं यतश्चैतान्मन्दमेवान्वियाय सः ।
नातिपीडयितुं भग्नानिच्छन्ति हि महौजसः ॥ १५.६॥
अथाग्रे हसता साचि-स्थितेन स्थिरकीर्तिना ।
सेनान्या ते जगदिरे किञ्चिदायस्तचेतसा ॥ १५.७॥
मा विहासिष्ट समरं समरन्तव्यसंयतः ।
क्षतं क्षुण्णासुरगणैरगणैरिव किं यशः ॥ १५.८॥
विवस्वदंशुसंश्लेष-द्विगुणीकृततेजसः ।
अमी वो मोघमुद्गूर्णा हसन्तीव महासयः ॥ १५.९॥
वनेऽवने वनसदां मार्गं मार्गमुपेयुषाम् ।
वाणैर्बाणैः समासक्तं शङ्केऽशं केन शाम्यति ॥ १५.१०॥
पातितोत्तुङ्गमाहात्म्यैः संहृतायतकीर्तिभिः ।
गुर्वीं कामापदं हन्तुं कृतमावृत्तिसाहसम् ॥ १५.११॥
नासुरोऽयं न वा नागो धरसंस्थो न राक्षसः ।
ना सुखोऽयं नवाभोगो धरणिस्थो हि राजसः ॥ १५.१२॥
मन्दमस्यन्निषुलतां घृणया मुनिरेष वः ।
प्रणुदत्यागतावज्ञं जघनेषु पशूनिव ॥ १५.१३॥
न नोननुन्नो नुन्नोनो नाना नानानना ननु ।
नुन्नोऽनुन्नो ननुन्नेनो नानेना नुन्ननुन्ननुत् ॥ १५.१४॥
वरं कृतध्वस्तगुणादत्यन्तमगुणः पुमान् ।
प्रकृत्या ह्यमणिः श्रेयान्नालङ्कारश्च्युतोपलः ॥ १५.१५॥
स्यन्दना नो चतुरगाः सुरेभा वाविपत्तयः ।
स्यन्दना नो च तुरगाः सुरेभावा विपत्तयः ॥ १५.१६॥
भवद्भिरधुनाराति-परिहापितपौरुषैः ।
ह्रदैरिवार्कनिष्पीतैः प्राप्तः पङ्को दुरुत्तरः ॥ १५.१७॥
वेत्रशाककुजे शैलेऽलेशैजेऽकुकशात्रवे ।
यात किं विदिशो जेतुं तुञ्जेशो दिवि किन्तया ॥ १५.१८॥
अयं वः क्लैब्यमापन्नान् दृष्टपृष्ठानरातिना ।
इच्छतीशश्च्युताचारान् दारानिव निगोपितुम् ॥ १५.१९॥
ननु हो मथना राघो घोरा नाथमहो नु न ।
तयदातवदा भीमा माभीदा बत दायत ॥ १५.२०॥
किं त्यक्तापास्तदेवत्व-मानुष्यकपरिग्रहैः ।
ज्वलितान्यगुणैर्गुर्वी स्थिता तेजसि मानिता ॥ १५.२१॥
निशितासिरतोऽभीको न्येजतेऽमरणा रुचा ।
सारतो न विरोधी नः स्वाभासो भरवानुत ॥ १५.२२॥
तनुवारभसो भास्वानधीरोऽविनतोरसा ।
चारुणा रमते जन्ये कोऽभीतो रसिताशिनि ॥ १५.२३॥
विभिन्नपातिताश्वीय-निरुद्धरथवर्त्मनि ।
हतद्विपनगष्ठ्यूत-रुधिराम्बुनदाकुले ॥ १५.२४॥
देवाकानिनि कावादे वाहिकास्वस्वकाहि वा ।
काकारेभभरे काका निस्वभव्यव्यभस्वनि ॥ १५.२५॥
प्रनृत्तशववित्रस्त-तुरगाक्षिप्तसारथौ ।
मारुतापूर्णतूणीर-विक्रुष्टहतसादिनि ॥ १५.२६॥
ससत्त्वरतिदे नित्यं सदरामर्षनाशिनि ।
त्वराधिककसन्नादे रमकत्वमकर्षति ॥ १५.२७॥
आसुरे लोकवित्रास-विधायिनि महाहवे ।
युष्माभिरुन्नतिं नीतं निरस्तमिह पौरुषम् ॥ १५.२८॥
इति शासति सेनान्यां गच्छतस्ताननेकधा ।
निषिध्य हसता किञ्चित्तस्थे तत्राऽन्धकारिणा ॥ १५.२९॥
मुनीषु-दहनातप्तांल्लज्जया निविवृत्सतः ।
शिवः प्रह्लादयामास तान्निषेध-हिमाम्बुना ॥ १५.३०॥
दूनास्तेऽरिबलादूना निरेभा बहु मेनिरे ।
भीताः शितशराभीताः शङ्करं तत्र शङ्करम् ॥ १५.३१॥
महेषुजलधौ शत्रोर्वर्तमाना दुरुत्तरे ।
प्राप्य पारमिवेशानमाशश्वास पताकिनी ॥ १५.३२॥
स बभार रणापेतां चमूं पश्चादवस्थिताम् ।
पुरः सूर्यादपावृत्तां छायामिव महातरुः ॥ १५.३३॥
मुञ्चतीशे शराञ्जिष्णौ पिनाकस्वनपूरितः ।
दध्वान ध्वनयन्नाशाः स्फुटन्निव धराधरः ॥ १५.३४॥
तद्गणा ददृशुर्भीमं चित्रसंस्था इवाचलाः ।
विस्मयेन तयोर्युद्धं चित्रसंस्था इवाचलाः ॥ १५.३५॥
परिमोहयमाणेन शिक्षालाघव-लीलया ।
जैष्णवी विशिखश्रेणी परिजह्रे पिनाकिना ॥ १५.३६॥
अवद्यन् पत्रिणः शम्भोः सायकैरवसायकैः ।
पाण्डवः परिचक्राम शिक्षया रणशिक्षया ॥ १५.३७॥
चारचुञ्चुश्चिरारेची चञ्चच्चीररुचा रुचः ।
चचार रुचिरश्चारु चारैराचारचञ्चुरः ॥ १५.३८॥
स्फुरत्पिशङ्गमौर्वीकं धुनानः स बृहद्धनुः ।
धृतोल्कानल-योगेन तुल्यमंशुमता बभौ ॥ १५.३९॥
पार्थबाणाः पशुपतेरावव्रुर्विशिखावलिम् ।
पयोमुच इवारन्ध्राः सावित्रीमंशुसंहतिम् ॥ १५.४०॥
शरवृष्टिं विधूयोर्वीमुदस्तां सव्यसाचिना ।
रुरोध मार्गणैर्मार्गं तपनस्य त्रिलोचनः ॥ १५.४१॥
तेन व्यातेनिरे भीमा भीमार्जनफलाननाः ।
न नानुकम्प्य विशिखाः शिखाधरजवाससः ॥ १५.४२॥
द्युवियद्गामिनी तार-संरावविहतश्रुतिः ।
हैमीषुमाला शुशुभे विद्युतामिव संहतिः ॥ १५.४३॥
विलङ्घ्य पत्रिणां पङ्क्तिं भिन्नः शिवशिलीमुखैः ।
ज्यायो वीर्यमुपाश्रित्य न चकम्पे कपिध्वजः ॥ १५.४४॥
जगतीशरणे युक्तो हरिकान्तः सुधासितः ।
दानवर्षीकृताशंसो नागराज इवाबभौ ॥ १५.४५॥
विफलीकृतयत्नस्य क्षतबाणस्य शम्भुना ।
गाण्डीवधन्वनः खेभ्यो निश्चक्राम हुताशनः ॥ १५.४६॥
स पिशङ्गजटावलिः किर-
न्नुरुतेजः परमेण मन्युना ।
ज्वलितौषधिजातवेदसा
हिमशैलेन समं विदिद्युते ॥ १५.४७॥
शतशो विशिखानवद्यते
भृशमस्मै रणवेगशालिने ।
प्रथयन्ननिवार्यवीर्यतां
प्रजिगायेषुमघातुकं शिवः ॥ १५.४८॥
शम्भोर्धनुर्मण्डलतः प्रवृत्तं
तं मण्डलादंशुमिवांशुभर्तुः ।
निवारयिष्यन् विदधे सिताश्वः
शिलीमुखच्छायवृतां धरित्रीम् ॥ १५.४९॥
घनं विदार्यार्जुनबाणपूगं
ससारवाणोऽयुगलोचनस्य ।
घनं विदार्यार्जुनबाणपूगं
ससार बाणोऽयुगलोचनस्य ॥ १५.५०॥
रुजन् महेषून् बहुधाशुपातिनो
मुहुः शरौघैरपवारयन् दिशः ।
चलाचलोऽनेक इव क्रियावशान्-
महर्षिसङ्घैर्बुबुधे धनञ्जयः ॥ १५.५१॥
विकाशमीयुर्जगतीशमार्गणा
विकाशमीयुर्जगतीशमार्गणाः ।
विकाशमीयुर्जगतीशमार्गणा
विकाशमीयुर्जगतीशमार्गणाः ॥ १५.५२॥
सम्पश्यतामिति शिवेन वितायमानं
लक्ष्मीवतः क्षितिपतेस्तनयस्य वीर्यम् ।
अङ्गान्यभिन्नमपि तत्त्वविदां मुनीनां
रोमाञ्चमञ्चिततरं बिभराम्बभूवुः ॥ १५.५३॥
इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये
युद्धवर्णनं नाम पञ्चदशः सर्गः ॥ १५॥
१६. किरातार्जुनयुद्धं नाम षोडशः सर्गः
ततः किराताधिपतेरलघ्वी-
माजिक्रियां वीक्ष्य विवृद्धमन्युः ।
स तर्कयामास विविक्ततर्क-
श्चिरं विचिन्वन्निति कारणानि ॥ १६.१॥
मदस्रुतिश्यामितगण्डलेखाः
क्रामन्ति विक्रान्तनराधिरूढाः ।
सहिष्णवो नेह युधामभिज्ञा
नागा नगोच्छ्रायमिवाक्षिपन्तः ॥ १६.२॥
विचित्रया चित्रयतेव भिन्नां
रुचं रवेः केतनरत्नभासा ।
महारथौघेन न सन्निरुद्धाः
पयोदमन्द्रध्वनिना धरित्री ॥ १६.३॥
समुल्लसत्प्रास-महोर्मिमालं
परिस्फुरच्चामर-फेनपङ्क्ति ।
विभिन्नमर्यादमिहातनोति
नाश्वीयमाशा जलधेरिवाम्भः ॥ १६.४॥
हताहतेत्युद्धतभीमघोषैः
समुज्झिता योद्धृभिरभ्यमित्रम् ।
न हेतयः प्राप्ततडित्त्विषः खे
विवस्वदंशुज्वलिताः पतन्ति ॥ १६.५॥
अभ्यायतः सन्ततधूमधूम्रं
व्यापि प्रभाजालमिवान्तकस्य ।
रजः प्रतूर्णाश्व-रथाङ्गनुन्नं
तनोति न व्योमनि मातरिश्वा ॥ १६.६॥
भूरेणुना रासभधूसरेण
तिरोहिते वर्त्मनि लोचनानाम् ।
नास्त्यत्र तेजस्विभिरुत्सुकाना-
मह्नि प्रदोषः सुरसुन्दरीणाम् ॥ १६.७॥
रथाङ्गसङ्क्रीडितमश्वहेषा
बृहन्ति मत्तद्विपबृंहितानि ।
सङ्घर्षयोगादिव मूर्च्छितानि
ह्रादं निगृह्णन्ति न दुन्दुभीनाम् ॥ १६.८॥
अस्मिन् यशःपौरुषलोलुपाना-
मरातिभिः प्रत्युरसं क्षतानाम् ।
मूर्छान्तरायं मुहुरुच्छिनत्ति
नासारशीतं करिशीकराम्भः ॥ १६.९॥
असृङ्नदीनामुपचीयमानै-
र्विदारयद्भिः पदवीं ध्वजिन्याः ।
उच्छ्रायमायान्ति न शोणितौघैः
पङ्कैरिवाश्यानघनैस्तटानि ॥ १६.१०॥
परिक्षते वक्षसि दन्तिदन्तैः
प्रियाङ्कशीता नभसः पतन्ती ।
नेह प्रमोहं प्रियसाहसानां
मन्दारमाला विरलीकरोति ॥ १६.११॥
निषादिसन्नाह-मणिप्रभौघे
परीयमाणे करिशीकरेण ।
अर्कत्विषोन्मीलितमभ्युदेति
न खण्डमाखण्डलकार्मुकस्य ॥ १६.१२॥
महीभृता पक्षवतेव भिन्ना
विगाह्य मध्यं परवारणेन ।
नावर्तमाना निनदन्ति भीम-
मपां निधेराप इव ध्वजिन्यः ॥ १६.१३॥
महारथानां प्रतिदन्त्यनीक-
मधिस्यदस्यन्दनमुत्थितानाम् ।
आमूललूनैरतिमन्युनेव
मातङ्गहस्तैर्व्रियते न पन्थाः ॥ १६.१४॥
धृतोत्पलापीड इव प्रियायाः
शिरोरुहाणां शिथिलः कलापः ।
न बर्हभारः पतितस्य शङ्को-
र्निषादिवक्षःस्थलमातनोति ॥ १६.१५॥
उज्झत्सु संहार इवास्तसङ्ख्य-
मह्नाय तेजस्विषु जीवितानि ।
लोकत्रयास्वादनलोलजिह्वं
न व्याददात्याननमत्र मृत्युः ॥ १६.१६॥
इयं च दुर्वारमहारथाना-
माक्षिप्य वीर्यं महतां बलानाम् ।
शक्तिर्ममावस्यति हीनयुद्धे
सौरीव ताराधिपधाम्नि दीप्तिः ॥ १६.१७॥
माया स्विदेषा मतिविभ्रमो वा
ध्वस्तं नु मे वीर्यमुताहमन्यः ।
गाण्डीवमुक्ता हि यथा पुरा मे
पराक्रमन्ते न शराः किराते ॥ १६.१८॥
पुंसः पदं मध्यममुत्तमस्य
द्विधेव कुर्वन् धनुषः प्रणादैः ।
नूनं तथा नैषा यथास्य वेषः
प्रच्छन्नमप्यूहयते हि चेष्टा ॥ १६.१९॥
धनुः प्रबन्धध्वनितं रुषेव
सकृद्विकृष्टा विततेव मौर्वी ।
सन्धानमुत्कर्षमिव व्युदस्य
मुष्टेरसम्भेद इवापवर्गे ॥ १६.२०॥
अंसाववष्टब्धनतौ समाधिः
शिरोधराया रहितप्रयासः ।
धृता विकारांस्त्यजता मुखेन
प्रसादलक्ष्मीः शशलाञ्छनस्य ॥ १६.२१॥
प्रहीयते कार्यवशागतेषु
स्थानेषु विष्टब्धतया न देहः ।
स्थितप्रयातेषु ससौष्ठवश्च
लक्ष्येषु पातः सदृशः शराणाम् ॥ १६.२२॥
परस्य भूयान् विवरेऽभियोगः
प्रसह्य संरक्षणमात्मरन्ध्रे ।
भीष्मेऽप्यसम्भाव्यमिदं गुरौ वा
न सम्भवत्येव वनेचरेषु ॥ १६.२३॥
अप्राकृतस्याहवदुर्मदस्य
निवार्यमस्यास्त्रबलेन वीर्यम् ।
अल्पीयसोऽप्यामयतुल्यवृत्ते-
र्महापकाराय रिपोर्विवृद्धिः ॥ १६.२४॥
स सम्प्रधार्यैवमहार्यसारः
सारं विनेष्यन् सगणस्य शत्रोः ।
प्रस्वापनास्त्रं द्रुतमाजहार
ध्वान्तं घनानद्ध इवार्धरात्रः ॥ १६.२५॥
प्रसक्त-दावानल-धूमधूम्रा
निरुन्धती धाम सहस्ररश्मेः ।
महावनानीव महातमिस्रा
छाया ततानेशबलानि काली ॥ १६.२६॥
आसादिता तत्प्रथमं प्रसह्य
प्रगल्भतायाः पदवीं हरन्ती ।
सभेव भीमा विदधे गणानां
निद्रा निरासं प्रतिभागुणस्य ॥ १६.२७॥
गुरुस्थिराण्युत्तम-वंशजत्वा-
द्विज्ञातसाराण्यनुशीलनेन ।
केचित्समाश्रित्य गुणान्वितानि
सुहृत्कुलानीव धनूंषि तस्थुः ॥ १६.२८॥
कृतान्तदुर्वृत्त इवापरेषां
पुरः प्रतिद्वन्द्विनि पाण्डवास्त्रे ।
अतर्कितं पाणितलान्निपेतुः
क्रियाफलानीव तदायुधानि ॥ १६.२९॥
अंसस्थलैः केचिदभिन्नधैर्याः
स्कन्धेषु संश्लेषवतां तरूणाम् ।
मदेन मीलन्नयनाः सलीलं
नागा इव स्रस्तकरा निषेदुः ॥ १६.३०॥
तिरोहितेन्दोरथ शम्भुमूर्ध्नः
प्रणम्यमानं तपसां निवासैः ।
सुमेरुशृङ्गादिव बिम्बमार्कं
पिशङ्गमुच्चैरुदियाय तेजः ॥ १६.३१॥
छायां विनिर्धूय तमोमयीं तां
तत्त्वस्य संवित्तिरिवापविद्याम् ।
ययौ विकासं द्युतिरिन्दुमौले-
रालोकमभ्यादिशती गणेभ्यः ॥ १६.३२॥
त्विषां ततिः पाटलिताम्बुवाहा
सा सर्वतः पूर्वसरीव सन्ध्या ।
निनाय तेषां द्रुतमुल्लसन्ती
विनिद्रतां लोचनपङ्कजानि ॥ १६.३३॥
पृथग्विधान्यस्त्र-विरामबुद्धाः
शस्त्राणि भूयः प्रतिपेदिरे ते ।
मुक्ता वितानेन बलाहकानां
ज्योतींषि रम्या इव दिग्विभागाः ॥ १६.३४॥
द्यौरुन्ननामेव दिशः प्रसेदुः
स्फुटं विसस्रे सवितुर्मयूखैः ।
क्षयं गतायामिव यामवत्यां
पुनः समीयाय दिनं दिनश्रीः ॥ १६.३५॥
महास्त्रदुर्गे शिथिलप्रयत्नं
दिग्वारणेनेव परेण रुग्णे ।
भुजङ्गपाशान् भुजवीर्यशाली
प्रबन्धनाय प्रजिघाय जिष्णुः ॥ १६.३६॥
जिह्वाशतान्युल्लसयन्त्यजस्रं
लसत्तडिल्लोल-विषानलानि ।
त्रासान्निरस्तां भुजगेन्द्रसेना
नभश्चरैस्तत्पदवीं विवव्रे ॥ १६.३७॥
दिङ्नाग-हस्ताकृतिमुद्वहद्भि-
र्भोगैः प्रशस्तासितरत्ननीलैः ।
रराज सर्पावलिरुल्लसन्ती
तरङ्गमालेव नभोर्णवस्य ॥ १६.३८॥
निःश्वासधूमैः स्थगितांशुजालं
फणावतामुत्फण-मण्डलानाम् ।
गच्छन्निवास्तं वपुरभ्युवाह
विलोचनानां सुखमुष्णरश्मिः ॥ १६.३९॥
प्रतप्त-चामीकरभासुरेण
दिशः प्रकाशेन पिशङ्गयन्त्यः ।
निश्चक्रमुः प्राणहरेक्षणानां
ज्वाला महोल्का इव लोचनेभ्यः ॥ १६.४०॥
आक्षिप्त- सम्पातमपेतशोभ-
मुद्वह्नि धूमाकुल-दिग्विभागम् ।
वृतं नभो भोगिकुलैरवस्थां
परोपरुद्धस्य पुरस्य भेजे ॥ १६.४१॥
तमाशु चक्षुःश्रवसां समूहं
मन्त्रेण तार्क्ष्योदयकारणेन ।
नेता नयेनेव परोपजापं
निवारयामास पतिः पशूनाम् ॥ १६.४२॥
प्रतिघ्नतीभिः कृतमीलितानि
द्युलोकभाजामपि लोचनानि ।
गरुत्मतां संहतिभिर्विहायः
क्षणप्रकाशाभिरिवावतेने ॥ १६.४३॥
ततः सुपर्णव्रजपक्षजन्मा
नानागतिर्मण्डलयञ्जवेन ।
जरत्तृणानीव वियन्निनाय
वनस्पतीनां गहनानि वायुः ॥ १६.४४॥
मनःशिलाभङ्गनिभेन पश्चा-
न्निरुध्यमानं निकरेण भासाम् ।
व्यूढैरुरोभिश्च विनुद्यमानं
नभः ससर्पेव पुरः खगानाम् ॥ १६.४५॥
दरीमुखैरासव-रागताम्रं
विकासि रुक्मच्छदधाम पीत्वा ।
जवानिलाघूर्णित-सानुजालो
हिमाचलः क्षीब इवाचकम्पे ॥ १६.४६॥
प्रवृत्तनक्तन्दिव-सन्धिदीप्तै-
र्नभस्तलं गां च पिशङ्गयद्भिः ।
अन्तर्हितार्कैः परितः पतद्भि-
श्छायाः समाचिक्षिपिरे वनानाम् ॥ १६.४७॥
स भोगिसङ्घः शममुग्रधाम्नां
सैन्येन निन्ये विनतासुतानाम् ।
महाध्वरे विध्यपचारदोषः
कर्मान्तरेणेव महोदयेन ॥ १६.४८॥
साफल्यमस्त्रे रिपुपौरुषस्य
कृत्वा गते भाग्य इवापवर्गम् ।
अनिन्धनस्य प्रसभं समन्युः
समाददेऽस्त्रं ज्वलनस्य जिष्णुः ॥ १६.४९॥
ऊर्ध्वं तिरश्चीनमधश्च कीर्णै-
र्ज्वालासटैर्लङ्घित-मेघपङ्क्तिः ।
आयस्त-सिंहाकृतिरुत्पपात
प्राण्यन्तमिच्छन्निव जातवेदाः ॥ १६.५०॥
भित्त्वेव भाभिः सवितुर्मयूखा-
ञ्जज्वाल विष्वग्विसृतस्फुलिङ्गः ।
विदीर्यमाणाश्म-निनादधीरं
ध्वनिं वितन्वन्नकृशः कृशानुः ॥ १६.५१॥
चयानिवाद्रीनिव तुङ्गशृङ्गान्
क्वचित्पुराणीव हिरण्मयानि ।
महावनानीव च किंशुकानां
ततान वह्निः पवनानुवृत्त्या ॥ १६.५२॥
मुहुश्चलत्पल्लव-लोहिनीभि-
रुच्चैः शिखाभिः शिखिनोऽवलीढाः ।
तलेषु मुक्ताविशदा बभूवुः
सान्द्राञ्जन-श्यामरुचः पयोदाः ॥ १६.५३॥
लिलिक्षतीव क्षयकालरौद्रे
लोकं विलोलार्चिषि रोहिताश्वे ।
पिनाकिना हूतमहाम्बुवाह-
मस्त्रं पुनः पाशभृतः प्रणिन्ये ॥ १६.५४॥
ततो धरित्रीधर-तुल्यरोधस-
स्तडिल्लतालिङ्गित-नीलमूर्तयः ।
अधोमुखाकाश-सरिन्निपातिनी-
रपः प्रसक्तं मुमुचुः पयोमुचः ॥ १६.५५॥
पराहतध्वस्तशिखे शिखावतो
वपुष्यधिक्षिप्त-समिद्धतेजसि ।
कृतास्पदास्तप्त इवायसि ध्वनिं
पयोनिपाताः प्रथमे वितेनिरे ॥ १६.५६॥
महानले भिन्नसिताभ्रपातिभिः
समेत्य सद्यः क्वथनेन फेनताम् ।
व्रजद्भिरार्द्रेन्धनवत्परिक्षयं
जलैर्वितेने दिवि धूमसन्ततिः ॥ १६.५७॥
स्वकेतुभिः पाण्डुरनीलपाटलैः
समागताः शक्रधनुःप्रभाभिदः ।
असंस्थितामादधिरे विभावसो-
र्विचित्रचीनांशुक-चारुतां त्विषः ॥ १६.५८॥
जलौघसम्मूर्छनमूर्छितस्वनः
प्रसक्त-विद्युल्लसितैधित-द्युतिः ।
प्रशान्तिमेष्यन् धृतधूममण्डलो
बभूव भूयानिव तत्र पावकः ॥ १६.५९॥
प्रवृद्धसिन्धूर्मि-चयस्थवीयसां
चयैर्विभिन्नाः पयसां प्रपेदिरे ।
उपात्तसन्ध्यारुचिभिः सरूपतां
पयोदविच्छेदलवैः कृशानवः ॥ १६.६०॥
उपैत्यनन्त-द्युतिरप्यसंशयं
विभिन्नमूलोऽनुदयाय सङ्क्षयम् ।
तथा हि तोयौघविभिन्नसंहतिः
स हव्यवाहः प्रययौ पराभवम् ॥ १६.६१॥
अथ विहितविधेयैराशु मुक्ता वितानै-
रसितनगनितम्ब-श्यामभासां घनानाम् ।
विकसदमलधाम्नां प्राप नीलोत्पलानां
श्रियमधिकविशुद्धां वह्निदाहादिव द्यौः ॥ १६.६२॥
इति विविधमुदासे सव्यसाची यदस्त्रं
बहुसमरनयज्ञः सादयिष्यन्नरातिम् ।
विधिरिव विपरीतः पौरुषं न्यायवृत्तेः
सपदि तदुपनिन्ये रिक्ततां नीलकण्ठः ॥ १६.६३॥
वीतप्रभाव-तनुरप्यतनुप्रभावः
प्रत्याचकाङ्क्ष जयिनीं भुजवीर्यलक्ष्मीम् ।
अस्त्रेषु भूतपतिनापहृतेषु जिष्णु-
र्वर्षिष्यता दिनकृतेव जलेषु लोकः ॥ १६.६४॥
इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये
किरातार्जुनयुद्धं नाम षोडशः सर्गः ॥ १६॥
१७. सप्तदशः सर्गः
अथापदामुद्धरणक्षमेषु
मित्रेष्विवास्त्रेषु तिरोहितेषु ।
धृतिं गुरुश्रीर्गुरुणाभिपुष्यन्
स्वपौरुषेणेव शरासनेन ॥ १७.१॥
भूरिप्रभावेण रणाभियोगात्
प्रीतो विजिह्मश्च तदीयवृद्ध्या ।
स्पष्टोऽप्यविस्पष्टवपुःप्रकाशः
सर्पन्महाधूम इवाद्रिवह्निः ॥ १७.२॥
तेजः समाश्रित्य परैरहार्यं
निजं महन्मित्रमिवोरुधैर्यम् ।
आसादयन्नस्खलितस्वभावं
भीमे भुजालम्बमिवारिदुर्गे ॥ १७.३॥
वंशोचितत्वादभिमानवत्या
सम्प्राप्तया सम्प्रियतामसुभ्यः ।
समक्षमादित्सितया परेण
वध्वेव कीर्त्या परितप्यमानः ॥ १७.४॥
पतिं नगानामिव बद्धमूल-
मुन्मूलयिष्यंस्तरसा विपक्षम् ।
लघुप्रयत्नं निगृहीतवीर्य-
स्त्रिमार्गगावेग इवेश्वरेण ॥ १७.५॥
संस्कारवत्त्वाद्रमयत्सु चेतः
प्रयोगशिक्षागुणभूषणेषु ।
जयं यथार्थेषु शरेषु पार्थः
शब्देषु भावार्थमिवाशशंसे ॥ १७.६॥
भूयः समाधानविवृद्धतेजा
नैवं पुरा युद्धमिति व्यथावान् ।
स निर्ववामास्रममर्षनुन्नं
विषं महानाग इवेक्षणाभ्याम् ॥ १७.७॥
तस्याहवायास-विलोलमौलेः
संरम्भ-ताम्रायतलोचनस्य ।
निर्वापयिष्यन्निव रोषतप्तं
प्रस्नापयामास मुखं निदाघः ॥ १७.८॥
क्रोधान्धकारान्तरितो रणाय
भ्रूभेदरेखाः स बभार तिस्रः ।
घनोपरुद्धः प्रभवाय वृष्टे-
रूर्ध्वांशुराजीरिव तिग्मरश्मिः ॥ १७.९॥
स प्रध्वनय्याम्बुदनादि चापं
हस्तेन दिङ्नाग इवाद्रिशृङ्गम् ।
बलानि शम्भोरिषुभिस्तताप
चेतांसि चिन्ताभिरिवाशरीरः ॥ १७.१०॥
सद्वादितेवाभिनिविष्टबुद्धौ
गुणाभ्यसूयेव विपक्षपाते ।
अगोचरे वागिव चोपरेमे
शक्तिः शराणां शितिकण्ठकाये ॥ १७.११॥
उमापतिं पाण्डुसुतप्रणुन्नाः
शिलीमुखा न व्यथयाम्बभूवुः ।
अभ्युत्थितस्याद्रिपतेर्नितम्ब-
मर्कस्य पादा इव हैमनस्य ॥ १७.१२॥
सम्प्रीयमाणोऽनुबभूव तीव्रं
पराक्रमं तस्य पतिर्गणानाम् ।
विषाणभेदं हिमवानसह्यं
वप्रानतस्येव सुरद्विपस्य ॥ १७.१३॥
तस्मै हि भारोद्धरणे समर्थं
प्रदास्यता बाहुमिव प्रतापम् ।
चिरं विषेहेऽभिभवस्तदानीं
स कारणानामपि कारणेन ॥ १७.१४॥
प्रत्याहतौजाः कृतसत्त्ववेगः
पराक्रमं ज्यायसि यस्तनोति ।
तेजांसि भानोरिव निष्पतन्ति
यशांसि वीर्यज्वलितानि तस्य ॥ १७.१५॥
दृष्टावदानाद् व्यथतेऽरिलोकः
प्रध्वंसमेति व्यथिताच्च तेजः ।
तेजोविहीनं विजहाति दर्पः
शान्तार्चिषं दीपमिव प्रकाशः ॥ १७.१६॥
ततः प्रयात्यस्तमदावलेपः
स जय्यतायाः पदवीं जिगीषोः ।
गन्धेन जेतुः प्रमुखागतस्य
प्रतिद्विपस्येव मतङ्गजौघः ॥ १७.१७॥
एवं प्रतिद्वन्द्विषु तस्य कीर्तिं
मौलीन्दुलेखाविशदां विधास्यन् ।
इयेष पर्यायजयावसादां
रणक्रियां शम्भुरनुक्रमेण ॥ १७.१८॥
मुनेर्विचित्रैरिषुभिः स भूयान्
निन्ये वशं भूतपतेर्बलौघः ।
सहात्मलाभेन समुत्पतद्भि-
र्जातिस्वभावैरिव जीवलोकः ॥ १७.१९॥
वितन्वतस्तस्य शरान्धकारं
त्रस्तानि सैन्यानि रवं निशेमुः ।
प्रवर्षतः सन्ततवेपथूनि
क्षपाघनस्येव गवां कुलानि ॥ १७.२०॥
स सायकान् साध्वसविप्लुतानां
क्षिपन् परेषामतिसौष्ठवेन ।
शशीव दोषावृतलोचनानां
विभिद्यमानः पृथगाबभासे ॥ १७.२१॥
क्षोभेण तेनाथ गणाधिपानां
भेदं ययावाकृतिरीश्वरस्य ।
तरङ्गकम्पेन महाह्रदानां
छायामयस्येव दिनस्य कर्तुः ॥ १७.२२॥
प्रसेदिवांसं न तमाप कोपः
कुतः परस्मिन् पुरुषे विकारः ।
आकारवैषम्यमिदं च भेजे
दुर्लक्ष्यचिह्ना महतां हि वृत्तिः ॥ १७.२३॥
विस्फार्यमाणस्य ततो भुजाभ्यां
भूतानि भर्त्रा धनुरन्तकस्य ।
भिन्नाकृतिं ज्यां ददृशुः स्फुरन्तीं
क्रुद्धस्य जिह्वामिव तक्षकस्य ॥ १७.२४॥
सव्यापसव्य-ध्वनितोग्रचापं
पार्थः किराताधिपमाशशङ्के ।
पर्याय-सम्पादित-कर्णतालं
यन्ता गजं व्यालमिवापराद्धः ॥ १७.२५॥
निजघ्निरे तस्य हरेषुजालैः
पतन्ति वृन्दानि शिलीमुखानाम् ।
ऊर्जस्विभिः सिन्धुमुखागतानि
यादांसि यादोभिरिवाम्बुराशेः ॥ १७.२६॥
विभेदमन्तः पदवीनिरोधं
विध्वंसनं चाविदितप्रयोगः ।
नेतारिलोकेषु करोति यद्यत्
तत्तच्चकारास्य शरेषु शम्भुः ॥ १७.२७॥
सोढावगीत-प्रथमायुधस्य
क्रोधोज्झितैर्वेगितया पतद्भिः ।
छिन्नैरपि त्रासितवाहिनीकैः
पेते कृतार्थैरिव तस्य बाणैः ॥ १७.२८॥
अलङ्कृतानामृजुतागुणेन
गुरूपदिष्टां गतिमास्थितानाम् ।
सतामिवापर्वणि मार्गणानां
भङ्गः स जिष्णोर्धृतिमुन्ममाथ ॥ १७.२९॥
बाणच्छिदस्ते विशिखाः स्मरारे-
रवाङ्मुखीभूतफलाः पतन्तः ।
अखण्डितं पाण्डवसायकेभ्यः
कृतस्य सद्यः प्रतिकारमापुः ॥ १७.३०॥
चित्रीयमाणानतिलाघवेन
प्रमाथिनस्तान् भवमार्गणानाम् ।
समाकुलाया निचखान दूरं
बाणान् ध्वजिन्या हृदयेष्वरातिः ॥ १७.३१॥
तस्यातियत्नादतिरिच्यमाने
पराक्रमेऽन्योन्यविशेषणेन ।
हन्ता पुरां भूरि पृषत्कवर्षं
निरास नैदाघ इवाम्बु मेघः ॥ १७.३२॥
अनामृशन्तः क्वचिदेव मर्म
प्रियैषिणानुप्रहिताः शिवेन ।
सुहृत्प्रयुक्ता इव नर्मवादाः
शरा मुनेः प्रीतिकरा बभूवुः ॥ १७.३३॥
अस्त्रैः समानामतिरेकिणीं वा
पश्यन्नीषूणामपि तस्य शक्तिम् ।
विषादवक्तव्यबलः प्रमाथी
स्वमाललम्बे बलमिन्दुमौलिः ॥ १७.३४॥
तपस्तपोवीर्यसमुद्धतस्य
पारं यियासोः समरार्णवस्य ।
महेषुजालान्यखिलानि जिष्णो-
रर्कः पयांसीव समाचचाम ॥ १७.३५॥
रिक्ते सविस्रम्भमथार्जुनस्य
निषङ्गवक्त्रे निपतात पाणिः ।
अन्यद्विपापीतजले सतर्षं
मतङ्गजस्येव नगाश्मरन्ध्रे ॥ १७.३६॥
च्युते स तस्मिन्निषुधौ शरार्थाद्
ध्वस्तार्थसारे सहसेव बन्धौ ।
तत्कालमोघप्रणयः प्रपेदे
निर्वाच्यताकाम इवाभिमुख्यम् ॥ १७.३७॥
आघट्टयामास गतागताभ्यां
सावेगमग्राङ्गुलिरस्य तूणौ ।
विधेयमार्गे मतिरुत्सुकस्य
नयप्रयोगाविव गां जिगीषोः ॥ १७.३८॥
बभार शून्याकृतिरर्जुनस्तौ
महेषुधी वीतमहेषुजालौ ।
युगान्तसंशुष्कजलौ विजिह्मः
पूर्वापरौ लोक इवाम्बुराशी ॥ १७.३९॥
तेनानिमित्तेन तथा न पार्थ-
स्तयोर्यथा रिक्ततयानुतेपे ।
स्वामापदं प्रोज्झ्य विपत्तिमग्नं
शोचन्ति सन्तो ह्युपकारिपक्षम् ॥ १७.४०॥
प्रतिक्रियायै विधुरः स तस्मात्
कृच्छ्रेण विश्लेषमियाय हस्तः ।
पराङ्मुखत्वेऽपि कृतोपकारात्
तूणीमुखान्मित्रकुलादिवार्यः ॥ १७.४१॥
पश्चात्क्रिया तूणयुगस्य भर्तु-
र्जज्ञे तदानीमुपकारिणीव ।
सम्भावनायामधरीकृतायां
पत्युः पुरः साहसमासितव्यम् ॥ १७.४२॥
तं शम्भुराक्षिप्तमहेषुजालं
लोहैः शरैर्मर्मसु निस्तुतोद ।
हृतोत्तरं तत्त्वविचारमध्ये
वक्तेव दोषैर्गुरुभिर्विपक्षम् ॥ १७.४३॥
जहार चास्मादचिरेण वर्म
ज्वलन्मणिद्योतितहैमलेखम् ।
चण्डः पतङ्गान्मरुदेकनीलं
तडित्वतः खण्डमिवाम्बुदस्य ॥ १७.४४॥
विकोशनिर्धौत-तनोर्महासेः
फणावतश्च त्वचि विच्युतायाम् ।
प्रतिद्विपाबद्धरुषः समक्षं
नागस्य चाक्षिप्तमुखच्छदस्य ॥ १७.४५॥
विबोधितस्य ध्वनिना घनानां
हरेरपेतस्य च शैलरन्ध्रात् ।
निरस्तधूमस्य च रात्रिवह्ने-
र्विना तनुत्रेण रुचिं स भेजे ॥ १७.४६॥
अचित्ततायामपि नाम युक्ता-
मनूर्ध्वतां प्राप्य तदीयकृच्छ्रे ।
महीं गतौ ताविषुधी तदानीं
विवव्रतुश्चेतनयेव योगम् ॥ १७.४७॥
स्थितं विशुद्धे नभसीव सत्त्वे
धाम्ना तपोवीर्यमयेन युक्तम् ।
शस्त्राभिघातैस्तमजस्रमीश-
स्त्वष्टा विवस्वन्तमिवोल्लिलेख ॥ १७.४८॥
संरम्भवेगोज्झित-वेदनेषु
गात्रेषु बाधिर्यमुपागतेषु ।
मुनेर्बभूवागणितेषुराशे-
र्लौहस्तिरस्कार इवात्ममन्युः ॥ १७.४९॥
ततोऽनुपूर्वायतवृत्तबाहुः
श्रीमान् क्षरल्लोहितदिग्धदेहः ।
आस्कन्द्य वेगेन विमुक्तनादः
क्षितिं विधुन्वन्निव पार्ष्णिघातैः ॥ १७.५०॥
साम्यं गतेनाशनिना मघोनः
शशाङ्कखण्डाकृतिपाण्डुरेण ।
शम्भुं बिभित्सुर्धनुषा जघान
स्तम्बं विषाणेन महानिवेभः ॥ १७.५१॥
रयेण सा सन्निदधे पतन्ती
भवोद्भवेनात्मनि चापयष्टिः ।
समुद्धता सिन्धुरनेकमार्गा
परे स्थितेनौजसि जह्नुनेव ॥ १७.५२॥
विकार्मुकः कर्मसु शोचनीयः
परिच्युतौदार्य इवोपचारः ।
विचिक्षिपे शूलभृता सलीलं
स पत्रिभिर्दूरमदूरपातैः ॥ १७.५३॥
उपोढकल्याणफलोऽभिरक्षन्
वीरव्रतं पुण्यरणाश्रमस्थः ।
जपोपवासैरिव संयतात्मा
तेपे मुनिस्तैरिषुभिः शिवस्य ॥ १७.५४॥
ततोऽग्रभूमिं व्यवसायसिद्धेः
सीमानमन्यैरतिदुस्तरं सः ।
तेजःश्रियामाश्रयमुत्तमासिं
साक्षादहङ्कारमिवाललम्बे ॥ १७.५५॥
शरानवद्यन्ननवद्यकर्मा
चचार चित्रं प्रविचारमार्गैः ।
हस्तेन निस्त्रिंशभृता स दीप्तः
सार्कांशुना वारिधिरूर्मिणेव ॥ १७.५६॥
यथा निजे वर्त्मनि भाति भाभि-
श्छायामयश्चाप्सु सहस्ररश्मिः ।
तथा नभस्याशु रणस्थलीषु
स्पष्टद्विमूर्तिर्ददृशे स भूतैः ॥ १७.५७॥
शिवप्रणुन्नेन शिलीमुखेन
त्सरुप्रदेशादपवर्जिताङ्गः ।
ज्वलन्नसिस्तस्य पपात पाणे-
र्घनस्य वप्रादिव वैद्युतोऽग्निः ॥ १७.५८॥
आक्षिप्त-चापावरणेषुजाल-
श्छिन्नोत्तमासिः स मृधेऽवधूतः ।
रिक्तः प्रकाशश्च बभूव भूमे-
रुत्सादितोद्यान इव प्रदेशः ॥ १७.५९॥
स खण्डनं प्राप्य परादमर्षवान्
भुजद्वितीयोऽपि विजेतुमिच्छया ।
ससर्ज वृष्टिं परिरुग्णपादपां
द्रवेतरेषां पयसामिवाश्मनाम् ॥ १७.६०॥
नीरन्ध्रं परिगमिते क्षयं पृषत्कै-
र्भूतानामधिपतिना शिलाविताने ।
उच्छ्रायस्थगित-नभोदिगन्तरालं
चिक्षेप क्षितिरुहजालमिन्द्रसूनुः ॥ १७.६१॥
निःशेषं शकलितवल्कलाङ्गसारैः
कुर्वद्भिर्भुवमभितः कषायचित्राम् ।
ईशानः सकुसुमपल्लवैर्नगैस्तै-
रातेने बलिमिव रङ्गदेवताभ्यः ॥ १७.६२॥
उन्मज्जन्मकर इवामरापगाया
वेगेन प्रतिमुखमेत्य बाणनद्याः ।
गाण्डीवी कनकशिलानिभं भुजाभ्या-
माजघ्ने विषमविलोचनस्य वक्षः ॥ १७.६३॥
अभिलषत उपायं विक्रमं कीर्तिलक्ष्म्यो-
रसुगममरिसैन्यैरङ्कमभ्यागतस्य ।
जनक इव शिशुत्वे सुप्रियस्यैकसूनो-
रविनयमपि सेहे पाण्डवस्य स्मरारिः ॥ १७.६४॥
इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये
सप्तदशः सर्गः ॥ १७॥
१८. धनञ्जयास्त्रलाभो नाम अष्टादशः सर्गः
तत उदग्र इव द्विरदे मुनौ
रणमुपेयुषि भीमभुजायुधे ।
धनुरपास्य सबाणधि शङ्करः
प्रतिजघान घनैरिव मुष्टिभिः ॥ १८.१॥
हरपृथासुतयोर्ध्वनिरुत्पत-
न्नमृदुसंवलिताङ्गुलिपाणिजः ।
स्फुटदनल्पशिला-रवदारुणः
प्रतिननाद दरीषु दरीभृतः ॥ १८.२॥
शिवभुजाहति-भिन्नपृथुक्षतीः
सुखमिवानुबभूव कपिध्वजः ।
क इव नाम बृहन्मनसां भवे-
दनुकृतेरपि सत्त्ववतां क्षमः ॥ १८.३॥
व्रणमुखच्युत-शोणितशीकर-
स्थगितशैलतटाभ-भुजान्तरः ।
अभिनवौषसरागभृता बभौ
जलधरेण समानमुमापतिः ॥ १८.४॥
उरसि शूलभृतः प्रहिता मुहुः
प्रतिहतिं ययुरर्जुनमुष्टयः ।
भृशरया इव सह्यमहीभृतः
पृथुनि रोधसि सिन्धुमहोर्मयः ॥ १८.५॥
निपतितेऽधिशिरोधरमायते
सममरत्नियुगेऽयुगचक्षुषः ।
त्रिचतुरेषु पदेषु किरीटिना
लुलितदृष्टि मदादिव चस्खले ॥ १८.६॥
अभिभवोदितमन्युविदीपितः
समभिसृत्य भृशं जवमोजसा ।
भुजयुगेन विभज्य समाददे
शशिकलाभरणस्य भुजद्वयम् ॥ १८.७॥
प्रववृतेऽथ महाहवमल्लयो-
रचलसञ्चलनाहरणो रणः ।
करणशृङ्खल-सङ्कलनागुरु-
र्गुरुभुजायुध-गर्वितयोस्तयोः ॥ १८.८॥
अयमसौ भगवानुत पाण्डवः
स्थितमवाङ्मुनिना शशिमौलिना ।
समधिरूढमजेन नु जिष्णुना
स्विदिति वेगवशान्मुमुहे गणैः ॥ १८.९॥
प्रचलिते चलितं स्थितमास्थिते
विनमिते नतमुन्नतमुन्नतौ ।
वृषकपिध्वजयोरसहिष्णुना
मुहुरभावभयादिव भूभृता ॥ १८.१०॥
करणशृङ्खलनिःसृतयोस्तयोः
कृतभुजध्वनि वल्गु विवल्गतोः ।
चरणपात-निपातितरोधसः
प्रससृपुः सरितः परितः स्थलीः ॥ १८.११॥
वियति वेगपरिप्लुतमन्तरा
समभिसृत्य रयेण कपिध्वजः ।
चरणयोश्चरणानमितक्षिति-
र्निजगृहे तिसृणां जयिनं पुराम् ॥ १८.१२॥
विस्मितः सपदि तेन कर्मणा
कर्मणां क्षयकरः परः पुमान् ।
क्षेप्तुकाममवनौ तमक्लमं
निष्पिपेष परिरभ्य वक्षसा ॥ १८.१३॥
तपसा तथा न मुदमस्य ययौ
भगवान् यथा विपुलसत्त्वतया ।
गुणसंहतेः समतिरिक्तमहो
निजमेव सत्त्वमुपकारि सताम् ॥ १८.१४॥
अथ हिमशुचिभस्मभूषितं
शिरसि विराजितमिन्दुलेखया ।
स्ववपुरतिमनोहरं हरं
दधतमुदीक्ष्य ननाम पाण्डवः ॥ १८.१५॥
सहशरधि निजं तथा कार्मुकं
वपुरतनु तथैव संवर्मितम् ।
निहितमपि तथैव पश्यन्नसिं
वृषभगतिरुपाययौ विस्मयम् ॥ १८.१६॥
सिषिचुरवनिमम्बुवाहाः शनैः
सुरकुसुममियाय चित्रं दिवः ।
विमलरुचि भृशं नभो दुन्दुभे-
र्ध्वनिरखिलमनाहतस्यानशे ॥ १८.१७॥
आसेदुषां गोत्रभिदोऽनुवृत्त्या
गोपायकानां भुवनत्रयस्य ।
रोचिष्णुरत्नावलिभिर्विमानै-
र्द्यौराचिता तारकितेव रेजे ॥ १८.१८॥
हंसा बृहन्तः सुरसद्मवाहाः
संह्रादिकण्ठाभरणाः पतन्तः ।
चक्रुः प्रयत्नेन विकीर्यमाणै-
र्व्योम्नः परिष्वङ्गमिवाग्रपक्षैः ॥ १८.१९॥
मुदितमधुलिहो वितानीकृताः
स्रज उपरि वितत्य सान्तानिकीः ।
जलद इव निषेदिवांसं वृषे
मरुदुपसुखयाम्बभूवेश्वरम् ॥ १८.२०॥
कृतधृति परिवन्दितेनोच्चकै-
र्गणपतिभिरभिन्नरोमोद्गमैः ।
तपसि कृतफले फलज्यायसी
स्तुतिरिति जगदे हरेः सूनुना ॥ १८.२१॥
शरणं भवन्तमतिकारुणिकं
भव भक्तिगम्यमधिगम्य जनाः ।
जितमृत्यवोऽजित भवन्ति भये
ससुरासुरस्य जगतः शरणम् ॥ १८.२२॥
विपदेति तावदवसादकरी
न च कामसम्पदभिकामयते ।
न नमन्ति चैकपुरुषं पुरुषा-
स्तव यावदीश न नतिः क्रियते ॥ १८.२३॥
संसेवन्ते दानशीला विमुक्त्यै
सम्पश्यन्तो जन्मदुःखं पुमांसः ।
यन्निःसङ्गस्त्वं फलस्यानतेभ्य-
स्तत्कारुण्यं केवलं न स्वकार्यम् ॥ १८.२४॥
प्राप्यते यदिह दूरमगत्वा
यत्फलत्यपरलोकगताय ।
तीर्थमस्ति न भवार्णवबाह्यं
सार्वकामिकमृते भवतस्तत् ॥ १८.२५॥
व्रजति शुचि पदं त्वयि प्रीतिमान्
प्रतिहतमतिरेति घोरां गतिम् ।
इयमनघ निमित्तशक्तिः परा
तव वरद न चित्तभेदः क्वचित् ॥ १८.२६॥
दक्षिणां प्रणतदक्षिण मूर्तिं
तत्त्वतः शिवकरीमविदित्वा ।
रागिणापि विहिता तव भक्त्या
संस्मृतिर्भव भवत्यभवाय ॥ १८.२७॥
दृष्ट्वा दृश्यान्याचरणीयानि विधाय
प्रेक्षाकारी याति पदं मुक्तमपायैः ।
सम्यग्दृष्टिस्तस्य परं पश्यति यस्त्वां
यश्चोपास्ते साधु विधेयं स विधत्ते ॥ १८.२८॥
युक्ताः स्वशक्त्या मुनयः प्रजानां
हितोपदेशैरुपकारवन्तः ।
समुच्छिनत्सि त्वमचिन्त्यधामा
कर्माण्युपेतस्य दुरुत्तराणि ॥ १८.२९॥
सन्निबद्धमपहर्तुमहार्यं
भूरि दुर्गतिभयं भुवनानाम् ।
अद्भुताकृतिमिमामतिमाय-
स्त्वं बिभर्षि करुणामय मायाम् ॥ १८.३०॥
न रागि चेतः परमा विलासिता
वधूः शरीरेऽस्ति न चास्ति मन्मथः ।
नमस्क्रिया चोषसि धातुरित्यहो
निसर्गदुर्बोधमिदं तवेहितम् ॥ १८.३१॥
तवोत्तरीयं करिचर्म साङ्गजं
ज्वलन्मणिः सारशनं महानहिः ।
स्रगास्यपङ्क्तिः शवभस्म चन्दनं
कला हिमांशोश्च समं चकासति ॥ १८.३२॥
अविग्रहस्याप्यतुलेन हेतुना
समेतभिन्नद्वयमूर्ति तिष्ठतः ।
तवैव नान्यस्य जगत्सु दृश्यते
विरुद्धवेषाभरणस्य कान्तता ॥ १८.३३॥
आत्मलाभ-परिणामनिरोधै-
र्भूतसङ्घ इव न त्वमुपेतः ।
तेन सर्वभुवनातिग लोके
नोपमानमसि नाप्युपमेयः ॥ १८.३४॥
त्वमन्तकः स्थावरजङ्गमानां
त्वया जगत्प्राणिति देव विश्वम् ।
त्वं योगिनां हेतुफले रुणत्सि
त्वं कारणं कारणकारणानाम् ॥ १८.३५॥
रक्षोभिः सुरमनुजैर्दितेः सुतैर्वा
यल्लोकेष्वविकलमाप्तमाधिपत्यम् ।
पाविन्याः शरणगतार्तिहारिणे त-
न्माहात्म्यं भव भवते नमस्क्रियायाः ॥ १८.३६॥
तरसा भुवनानि यो बिभर्ति
ध्वनति ब्रह्म यतः परं पवित्रम् ।
परितो दुरितानि यः पुनीते
शिव तस्मै पवनात्मने नमस्ते ॥ १८.३७॥
भवतः स्मरतां सदासने
जयिनि ब्रह्ममये निषेदुषाम् ।
दहते भवबीजसन्ततिं
शिखिनेऽनेकशिखाय ते नमः ॥ १८.३८॥
आबाधामरणभयार्चिषा चिराय
प्लुष्टेभ्यो भव महता भवानलेन ।
निर्वाणं समुपगमेन यच्छते ते
बीजानां प्रभव नमोऽस्तु जीवनाय ॥ १८.३९॥
यः सर्वेषामावरीता वरीयान्
सर्वैर्भावैर्नावृतोऽनादिनिष्ठः ।
मार्गातीतायेन्द्रियाणां नमस्ते-
ऽविज्ञेयाय व्योमरूपाय तस्मै ॥ १८.४०॥
अणीयसे विश्वविधारिणे नमो
नमोऽन्तिकस्थाय नमो दवीयसे ।
अतीत्य वाचां मनसां च गोचरं
स्थिताय ते तत्पतये नमो नमः ॥ १८.४१॥
असंविदानस्य ममेश संविदां
तितिक्षितुं दुश्चरितं त्वमर्हसि ।
विरोध्य मोहात्पुनरभ्युपेयुषां
गतिर्भवानेव दुरात्मनामपि ॥ १८.४२॥
आस्तिक्यशुद्धमवतः प्रियधर्म धर्मं
धर्मात्मजस्य विहितागसि शत्रुवर्गे ।
सम्प्राप्नुयां विजयमीश यया समृद्ध्या
तां भूतनाथ विभुतां वितराहवेषु ॥ १८.४३॥
इति निगदितवन्तं सूनुमुच्चैर्मघोनः
प्रणतशिरसमीशः सादरं सान्त्वयित्वा ।
ज्वलदनलपरीतं रौद्रमस्त्रं दधानं
धनुरुपपदमस्मै वेदमभ्यादिदेश ॥ १८.४४॥
स पिङ्गाक्षः श्रीमान् भुवनमहनीयेन महसा
तनुं भीमां बिभ्रत्त्रिगुणपरिवारप्रहरणः ।
परीत्येशानं त्रिः स्तुतिभिरुपगीतः सुरगणैः
सुतं पाण्डोर्वीरं जलदमिव भास्वानभिययौ ॥ १८.४५॥
अथ शशधरमौलेरभ्यनुज्ञामवाप्य
त्रिदशपतिपुरोगाः पूर्णकामाय तस्मै ।
अवितथफलमाशीर्वादमारोपयन्तो
विजयि विविधमस्त्रं लोकपाला वितेरुः ॥ १८.४६॥
असंहार्योत्साहं जयिनमुदयं प्राप्य तरसा
धुरं गुर्वीं वोढुं स्थितमनवसादाय जगतः ।
स्वधाम्ना लोकानां तमुपरि कृतस्थानममरा-
स्तपोलक्ष्म्या दीप्तं दिनकृतमिवोच्चैरुपजगुः ॥ १८.४७॥
व्रज जय रिपुलोकं पादपद्मानतः सन्
गदित इति शिवेन श्लाघितो देवसङ्घैः ।
निजगृहमथ गत्वा सादरं पाण्डुपुत्रो
धृतगुरुजयलक्ष्मीर्धर्मसूनुं ननाम ॥ १८.४८॥
इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये
धनञ्जयास्त्रलाभो नामाष्टादशः सर्गः ॥ १८॥
इति कवि श्रीभारविविरचितं किरातार्जुनीयं सम्पूर्णम् ।
Encoded by Harunaga Isaacson
Proofread by Harunaga Isaacson, Rajani Arjun Shankar