कुमारसम्भवम्
विषयानुक्रमणिका
प्रथमसर्गे (१-६० श्लोकाङ्का)
गिरिराज हिमालयस्यैश्वर्यवर्णनम् । तस्य मेनया सह पाणिग्रहणम् । मैनाकजन्मवर्णनम् । पितृकृतहरानादरकरणात् योगेन शरीरत्यागोत्तर सतीदेव्या हिमालयगृहे जन्ममवर्णनम् । तस्या नामकरणम् । तस्या शरीरशोभावर्णनम् । महर्षेर्नारदस्य हिमवद्गृहे समागमनम् । नारदकर्तृकशिवपार्वतीविवाहाभिधानम् । पत्नीवियुक्तस्य हरस्य गिरिराजशिखरप्रदेशे तपश्चर्यावर्णनम् । तस्य पार्वतीकर्तृक परिचरणम् ।
द्वितीयसर्गे (१-६४)
तारकासुरवधाय तत्पीडितेन्द्रादिदेवकर्तृकब्रह्मस्तुति । सुरकर्तृकस्तुतिप्रसन्नीभूतेन ब्रह्मणा कार्तिके तारकविनाशकत्वारोपणम् । हरगौर्यो सयोगाय कर्तव्यनिश्चय । महादेवस्य समाधिभङ्गाय सुरेन्द्रकर्तृकस्मरस्मरणम् । स्मरागमनञ्च ।
तृतीयसर्गे (१-७६)
इन्द्रादेशपालनार्थ स्मरस्य प्रतिज्ञाकरणम् । वसन्तरतिभ्या सह स्मरस्य शिवाश्रमप्रवेश । ऋतुराजसमागमनेन शिवाश्रमदशावर्णनम् । शिवे स्मरकर्तृककुसुमायुधनिक्षेपः । शिवललाटाक्षिसमुद्भूताग्निना स्मरदाहश्च ।
चतुर्थसर्गे (१-४६)
स्मरविनाशमीक्षमाणाया रतेर्विलापवर्णनम् । आकाशवाणीद्वारा रतिसमाश्वासनम् । स्मर हेतूक्तिः । स्मरस्य पुनरङ्गप्राप्तिनिर्णय ।
पञ्चमसर्गे (१-६६)
स्मरविनाशेन हरप्राप्तिविषयकाशाया हतत्वात् पार्वतीविषादवर्णनम् । तपश्चर्यात्यागाय पार्वतीं प्रति मेनकाकर्तृकोपदेशः । हिमवदन्तिके सखीमुखेन पार्वतीमनोरथाभिधानम् । तपस्तप्तु सख्या सह पार्वत्याः गौरीशिखरप्रयाणम् । पार्वत्यास्तात्कालिकस्वरूपवर्णनम् । पार्वतीतपसा प्रसन्नीभूतस्य ब्रह्मचारीस्वरूपस्य शिवस्य तत्रागमनम् । ब्रह्मचारीकर्तृकहरनिन्दातो गौर्यास्तपसो निवृत्युद्योगः । पार्वतीकर्तृकशिवप्रशंसावर्णनम् । हरविषये स्वाभिप्रायप्रकाश । पार्वत्यग्रे शिवस्य निजस्वरूपधारणम् ।
षष्ठसर्गे (१-६५)
पार्वत्या सहेप्सित विवाहाभ्यर्थना सूचयितुं हिमवदन्तिके शिवकर्तृकं सप्तर्षिप्रस्थापनम् । विवाहनिर्णयः । दिननिर्णयकरणम् । शिव प्रति विवाहोदन्तमभिधाय सप्तर्षीणामात्मविषय (देश)प्रस्थानम् ।
सप्तमसर्गे (१-६५)
शिवपार्वत्योर्विवाहकालिकनेपथ्यादिविधानम् । गिरिराजगृहे वरयात्रिकाना देवतादीनामुपस्थिति । विवाह । स्मरस्य पुनर्जीवनम् । शिवपार्वत्यों कौतुकागारप्रवेशश्च । विवाहोत्तर गौर्या स्मरावस्थाप्राप्ति । तयो सुखमयत्ववर्णनम् ।
अष्टमसर्गे (१-६१)
शिवमुक्तयौवना गौरी वीक्ष्य मेनाया आनन्दप्राप्ति वस्थाप्राप्तिवर्णनम् । ततस्तस्या प्रगल्भावस्थाप्राप्ति । मुग्धावस्थापन्नगौर्या मध्यमासम्भोगवर्णनम् । गौर्या सह हरस्य हिमवद्गृहात् प्रस्थानवर्णनम् । कैलासागमनम् । जलक्रीडावर्णनम् ।
नवमसर्गे (१-५२)
इन्द्रप्रहितस्य कपोतस्वरूपस्याग्ने शिवसम्भोगालयप्रवेश । कपोतावलोकनेन हरस्य क्रोधप्राप्ति । क्रुद्ध हर प्रति सुरेन्द्रसन्देशकथनम् । अग्निकर्तृकनिजापराधक्षमापनम् । कुमारोद्भवाय हरेण वहनौ निजवीर्यस्थापनम् । शिववीर्यप्रभावेण वह्नेर्वैरूप्यप्राप्ति । वहनेरिन्द्रान्तिके गमनम् । हरेण पार्वतीविनोदनम् । हरकर्तृकपार्वतीनेपथ्यरचना । हरालये तेषा हरकर्तृकप्रस्थापनम् । हरस्य गौर्या सह विहार ।
दशमसर्गे (१-६०)
इन्द्रान्तिकें प्राप्त विरूप वहिन विलोक्य तस्य क्षोभ । वहिन प्रति वैरूप्यप्राप्तिहेतुजिज्ञासा वहिनकर्तृकात्मरूप्यप्राप्तिहेतुकथनम् । हरतेजोदग्धात्मशरीरत्राणाय वहिनकर्तृकप्रार्थना । इन्द्रकर्तृकवहिनसमाश्वासनम् । गङ्गाया हरतेज प्रक्षेपणायोपदेशश्च । वह्निना गङ्गाया हरतेज प्रक्षेपणम् । हरतेजोऽसहमानाया भागीरथ्या बट्कृत्तिकाना स्नातुमागमनवर्णनम् । हरतेजसश्च तासा शरीरे सम्पर्क तेन तासा गर्भधारणम् । तदादाय गृह गन्तु त्रपावतीभिस्ताभि शरवणे गर्भस्राव । तत कुमारजन्मवर्णनम् ।
एकादशसर्गे (१-५०)
इन्द्रादिप्रार्थनोत्तर भागीरथ्या कुमारस्य दुग्धपानायाङ्गीकार । कदाचिदागच्छतीना षट्कृत्तिकाना कुमारावलोकनेन विवाद । विहाराय नमसा गच्छतोर्हरगौर्योरतन्त्रागमनम् । कुमारावलोकनेन तयोरनुपात । पार्वत्या कुमारजन्मप्रश्न शिवेनोत्तरकथनम् । कुमारमादाय शिवपार्वत्योर्गमनम् । कुमारजन्मोत्सवारम्भ । तेन समस्तजगतामानन्दप्राप्ति । कुमारलीलाक्रीडावर्णनम् ।
द्वादशसर्गे (१-६०)
तारकपीडितस्येन्द्रस्य हरालयागमनम् । इन्द्रस्य कैलासाचलशोभा प्रेक्षणम् । ततो महेन्द्रस्य हरदर्शनादानन्दप्राप्ति । हरान्तिके स्थित धृतायुध कुमारं वीक्ष्येन्द्रस्य जयाशाबन्धनम् । इन्द्रेण तारकासुरोपद्रवनिवेदनम् । तदाकर्ण्य हरेणोत्साहवर्द्धनम् । इन्द्रकर्तृकतारकदुश्चेष्टाकथनम् । पुनस्तारकवधाय कुमारगमनप्रार्थना कुमारगमनादेशः । कुमारकर्तृकपित्राज्ञास्वीकार पराक्रमिणो बालस्य विलोकनेन गिरिजाया हर्षप्राप्तिः वर्णनम् ।
त्रयोदशसर्गे (१-५१)
कार्तिकेययाचनार्थमिन्द्रादीना हरसमीपगमनम् । तेषा हर प्रति कुमार याचनावर्णनम् । कुमारप्रस्थानाय हरगौर्योरादेश । इन्द्रादीना कुमारानुगमनम् । तेषा हरसूनुना सह स्वर्गप्राप्ति स्वर्गप्रवेशे भीतान् सुरान् प्रति कुमारस्याभयदवाक्यम् । गन्धर्वादिकर्तृककुमारप्रशंसा । कुमार प्रति नारदादीनां साधुवादकथनम् । गङ्गाबलोकनम् । नन्दनवनावलोकनञ्च । गतशोभस्य तस्यावलोकनेन कुमारस्य क्रोधप्राप्ति । अमरावतीप्रेक्षणम् । विरूपां ता निरीक्ष्य कुमारस्य कारुण्यप्राप्ति तरयेन्द्रेण सह जयन्त सौधगमनम् । कश्यपस्य तत्पल्याश्च कुमारकर्तृकाभिवादनम् । उभयकर्तृकाशीर्वादशसनम् । कुमारकर्तृकशचीप्रणाम । तस्या आशीर्वादन कुमारसमुपाचरणम् ।
चतुर्दशसर्गे (१-५१)
तारकवधायेन्द्रादिद्वारा कुमारस्य सज्जीभवनम् । योदधु जिगमिषो कुमारस्य विजित्वरनामरथारोहणम् । इन्द्रादीना कुमारानुप्रयाणम् । सुरसैन्यवर्णनञ्च ।
पञ्चदशसर्गे (१-५३)
कुमारेण सहेन्द्रादीना युद्धाय तारकासुराभिमुखमागमनवर्णनम् । कुमारागमनमाकर्ण्य सुरद्विषा क्षोभप्राप्ति । चरैरिन्द्रागमने निवेदिते तारकस्य काकूक्ति । तस्य सैन्यसनहनार्थमादेशश्च । तारकसैन्यसन्नाहवर्णनम् । योदधु गच्छतस्तारकस्यैकादशीत्पातप्राप्तिवर्णनम् । सैन्याना तारकानुगमनम् । गच्छता तारकसैन्याना विविधोत्पातप्राप्तिवर्णनम् । पञ्चमहोत्पातवर्णनम् । उत्पातेषु सत्स्वप्यनिवृत्त तारक प्रत्याकाशवाणी । आकाशवाणीमाकर्ण्य दिवमुद्दिश्य तारकोक्ति । क्रुद्धस्य खड्गपार्णस्तस्य शक्रान्तिके रथोपस्थापनार्थमादेशश्च ।
षोडशसर्गे (१-५१)
सुरासुरसैन्ययोर्घोरयुद्धवर्णनम् ।
सप्तदशसर्गे (१-५५)
तारकप्रक्षिप्तशराणामिन्द्रशरैश्छेदनम् । सुरबाणाना तारकबाणैश्छेदनञ्च । ततस्तारकप्रहितनागपाशैर्बद्धानामिन्द्रादीना कुमारान्तिकागमनम् । कुमारप्रेक्षणेन देवाना नागपाशाद्विमुक्ति । तारकासुरस्य कुमार प्रत्युक्तिः । कुमारस्य तारकासुरस्य प्रतिकथनम् । ततस्तारकासुरकुमारयोः परस्परं बाणप्रहार । तारकासुरकर्तृकमायायुद्धम् । ततोऽन्योऽन्य वायव्याद्यस्त्रप्रयोग । ततस्तारकवध । देवानामानन्दप्राप्ति । इन्द्रस्य स्वर्गाधिपत्यप्राप्तिश्च ।
सर्गः १ - उमोत्पत्तिः
अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः ।
पुर्वापरौ तोयनिधी वगाह्य स्थितः पृथिव्या इव मानदण्डः ॥ १.१॥
यं सर्वशैलाः परिकल्प्य वत्सं मेरौ स्थिते दौग्धरि दोहदक्षे ।
भास्वन्ति रत्नानि महैषधीश्च पृथूपदिष्टां दुदुहुर्धरित्रीम् ॥ १.२॥
अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् ।
एको हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्कः ॥ १.३॥
यश्चाप्सरोविभ्रममण्डनानां सम्पादयित्रीं शीखरैबिभर्ति ।
लाहकच्छेदविभक्तरागामकालसन्ध्यामिव धातुमत्ताम् ॥ १.४॥
आमेखलं सञ्चरतां घनानां छायामधः सानुगतां निषेव्य ।
उद्वेजिता वृष्टिभिराश्रयन्ते श्रृङ्गाणि यस्यातपवन्ति सिद्धाः ॥ १.५॥
पदं तुषारस्त्रुतिधैतरक्तं यस्मिन्नदृष्ट्वापि हतद्विपानाम् ।
विदन्ति मार्गं नखरन्ध्रमुक्तैर्मुक्ताफलैः केसरिणां किराताः ॥ १.६॥
न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः ।
व्रजन्ति विद्याधरसुन्दरीणामूनङ्गलेखक्रिययोपयोगम् ॥ १.७॥
यः पूरयन्कीचकरन्ध्रभागान्दरीमुखोत्थेन समीरणेन ।
उद्गास्यतामिच्छति किन्नराणां तानप्रदायित्वमिवोपगन्तुम् ॥ १.८॥
कपोलकण्डूः करिभिर्विनेतुं विघट्टितानां सरलद्रुमाणाम् ।
यत्र स्नुतक्षीरतया प्रसूतः सानुनि गन्धः सुरभीकरोति ॥ १.९॥
वनेचराणां वनितासखानां दरीगृहोत्सङ्गनिषक्तभासः ।
भवन्ति यत्रौषधयो रजन्यामतैलपूराः सुरतप्रदीपाः ॥ १.१०॥
उद्वेजयत्यङ्गलिपार्ष्णिभागान्मार्गे शिलीभूतहिमेऽपि यत्र ।
न दुर्वहश्रोणिपयोधरार्ता भिन्दन्ति मन्दां गतिमश्वमुख्यः ॥ १.११॥
दिवाकराद्रक्षति यो गुहासु लीनं दिवाभीतमिवान्धकारम् ।
क्षुद्रेऽपि नूनं शरणं प्रपन्ने ममत्वमुच्चैःशिरसां सतीव ॥ १.१२॥
लाङ्गूलविक्षेपविसर्पिशोभिरितस्ततश्चन्द्र मरीचिगौरैः ।
यस्यार्थयुक्तं गिरिराजशब्दं कुर्वन्ति वालव्यजनैश्चमर्यः ॥ १.१३॥
यत्रांशुकाक्षेपविलज्जितानां यदृच्छया किम्पुरुषाङ्गनानाम् ।
दरीगृहद्वार विलम्बिम्बीम्बास्तिरस्करिण्यो जलदा भवन्ति ॥ १.१४॥
भागीरथीनिर्झरसिकराणां वोढा मुहमः कम्पितदेवदारुः ।
यद्वायुरन्विष्टमृगैः किरातैरासेव्यते भिन्नशिशण्डिबर्हः ॥ १.१५॥
सप्तर्षिहस्तावचिता वशेषाण्यधो विवस्वान्परिवर्तमानः ।
पद्मानि यस्याग्रसरोरुहाणि प्रबौधयत्यूर्ध्वमुखैर्मयूखैः ॥ १.१६॥
यज्ञाङ्गयोनित्वमवेक्ष्य यस्य सारं धरित्रीधरणक्षमं च ।
प्रजापतिः कल्पितयज्ञभागं शैलाधिपत्यं स्वयमन्वतिष्ठत् ॥ १.१७॥
स मानसीं मेरु-सखः पितॄणां कन्यां कुलस्य स्थितये स्थितिज्ञः ।
मेनां मुनीनां अपि माननीयां आत्मानुरुपां विधिनोपयेमे ॥ १.१८॥
स मानसिं मेरुसखः पितॄणां कन्यां कुलस्य स्थितये स्थितिज्ञः ।
मेनां मुनीनामपि माननीयामात्मानुरुपां विधिनोपयेमे ॥ १.१८॥
कालक्रमेणाथ तयोः प्रवृत्ते स्वरुपयोग्ये सुरतप्रसङ्गे ।
मनोरमं यौवनमुद्वहन्त्या गर्भेऽवद्भूधरराजपत्न्याः ॥ १.१९॥
असूत सा नागवधूपभोग्यं मैनाकमम्भोनिधिबद्धसख्यम् ।
क्रुद्धेऽपि पक्षच्छिदि वृत्रशत्राववेदनाज्ञं कुलिशक्षतानाम् ॥ १.२०॥
अथावमानेन पितुः प्रयुक्ता दक्षस्य कन्या भवपूर्वपत्नी ।
सती सती योगविसृष्टदेहा तां जन्मने शैलवधूं प्रपेदे ॥ १.२१॥
सा भूधराणामधिपेन तस्यां समाधिमत्यामुदपादि भव्या ।
सम्यक्प्रयोगादपरिक्षतायां नीताविवोत्साहगुणेन सम्पत् ॥ १.२२॥
प्रसन्नदिक्पांसुविविक्तवातं शङ्खस्वनानन्तरपुष्पवृष्टि ।
शरीरिणां स्थावरजङ्गमानां सुखाय तज्जन्मदिनं बभुव ॥ १.२३॥
तया दुहित्रा सुतरां सवित्री स्फुरत्प्रभामण्डलया चकासे ।
विदूरभूमिर्नवमेघशब्दा दुद्भिन्नया रत्नशलाकयैव ॥ १.२४॥
दिने दिने सा परिवर्धमाना लब्धोदया चान्द्रमसीव लेख ।
पुपोष लावण्यमयान्विशेषाञ्जयोत्स्नान्तराणीव कलान्तराणि ॥ १.२५॥
तां पार्वतीत्याभिजनेन नाम्ना बन्धुप्रियां बन्धजनो जहाव ।
उमेति मात्रा तपसो निषिद्धा पश्चादुमाख्यां सुमुखो जगाम ॥ १.२६॥
महीभृतः पुत्रवतोऽपि दृष्टिस्तस्मिन्नपत्ये न जगाम तृप्तिम् ।
अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा ॥ १.२७॥
प्रभामहत्या शिखयेव दीपस्त्रिमार्गयेव त्रिदिवस्य मार्गः ।
संस्कारवत्येव गिरा मनीषी तया स पूतश्च विभूषितश्च ॥ १.२८॥
मन्दाकिनीसैकतवेदिकाभिः सा कन्दुकैः कृत्रिमपुत्रकैश्च ।
रेमे मुहिर्मध्यगता सखीनां क्रीडारसं निर्विशतीव बाल्ये ॥ १.२९॥
तां हंसमालाः शरदीव गङ्गां महौषधिं नक्तमिवात्मभासः ।
स्थिरोपदेशामुपदेशकाले प्रपेदिरे प्राक्तनजन्मविद्याः ॥ १.३०॥
असम्भृतं मण्डनमङ्गयष्टेरनासवाख्यं करणं मदस्य ।
कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्परं साथ वयः प्रपेदे ॥ १.३१॥
उन्मीलितं तूलिकयेव चित्रं सूर्यांशुभिर्भिन्नमिवारविन्दम् ।
बभूव तस्यश्चतुरस्त्रशोभि वपुर्विभक्तं नवयौवनेन ॥ १.३२॥
अभ्युन्नताङ्गुष्ठनखप्रभाभिर्निक्षेपणाद्रागमिवोद्गिरन्तौ ।
आजह्रृतुस्तच्चरणौ पृथिव्यां स्थलारविन्दश्रियमव्यवस्थाम् ॥ १.३३॥
सा राजहंसैरिव सन्नताङ्गी गतेषु लीलाञ्चितविक्रमेषु ।
व्यनीयत प्रत्युपदेशलुब्धै रादित्सुभिर्नूपुरसिञ्जितानि ॥ १.३४॥
वृत्तानुपूर्वे न च चातिदीर्धे जङ्घे शुभे सृष्टवतस्तदीये ।
शेषाङ्गनिर्माणविधौ विधातुर्लावण्य उत्पाद्य इवास यत्नः ॥ १.३५॥
नागेन्द्रहस्तास्त्वचि कर्कशत्वादेकान्तशैत्यात्कदलीविशेषाः ।
लब्ध्वापि लोके परिणाहि रूपं जातास्तदूर्वेरुपमानबाह्याः ॥ १.३६॥
एतावता नन्वनुमेयशोभि काञ्चीगुणस्थानमनिन्दितायाः ।
आरोपितं यद् गिरिशेन पश्चादनन्यनारीकमनीयमङ्कम् ॥ १.३७॥
तस्याः प्रविष्टा नतनाभिरन्ध्रं रराज तन्वी नवलोमराजिः ।
नीवीमतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेरिवार्चिः ॥ १.३८॥
मध्येन सा वेदिविलग्नमध्या वलित्रयं चारु बभार बाला ।
आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् ॥ १.३९॥
अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तनद्वयं पाण्डु तथा प्रवृद्धम् ।
मध्यं यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम् ॥ १.४०॥
लोके सुकुमारत्वमेव कुसुमास्त्रस्य साधकत्वमिति स्थिते सत्याह -
शिरीषपुष्पाधिकसौकुमार्यौ बाहू तदीयाविति मे वितर्कः ।
पराजितेनापि कृतौ हरस्य यौ कण्ठपाशौ मकरध्वजेन ॥ १.४१॥
कण्ठस्य तस्याः स्तनबन्धुरस्य मुक्ताकलापस्य च निस्तलस्य ।
अन्योन्यशोभाजननाद्वभूव साधारणो भूषणभूष्यभावः ॥ १.४२॥
चन्द्रं गता पद्मगुणान्न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम् ।
उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥ १.४३॥
पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् ।
ततोऽनुकुर्याद्विशदस्य तस्या स्ताम्रौष्ठपर्यस्तरुचः स्मितस्य ॥ १.४४॥
स्वरेण तस्याममृतस्रुतेव प्रजल्पितायामभिजातवाचि ।
अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितन्त्रीरिव ताड्यमाना ॥ १.४५॥
प्रवातनीलोत्पलनिर्विशेषमधीरविप्रेक्षितमायताक्ष्या ।
तया गृहितं नु मृगाङ्गनाभ्यस्ततो गृहीतं नु मृगाङ्गनाभिः ? ॥ १.४६॥
तस्याः शलाकाञ्जननिर्मितेव कान्तिर्भ्रुवोरायतलेखयोर्या ।
तां वीक्ष्य लिलाचतुरामनङ्गः स्वचापसौन्दर्यमदं मुमोच ॥ १.४७॥
लज्जा तिरश्चां यदि चेतसि स्यादसंशयं पर्वतराजपुत्र्याः ।
तं केशपाशं प्रसमीक्ष्य कुर्युर्बालप्रियत्वं शिथिलं चमर्यः ॥ १.४८॥
सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदेशं विनिवेशितेन ।
सा निर्मिता विश्वसृजा प्रयत्नादेकस्थसौन्दर्यदिदृक्षयेव ॥ १.४९॥
तां नारदः कामचरः कदाचित्कन्यां किल प्रेक्ष्य पितुः समीपे ।
समादिदेशैकवधूं भवित्रीं प्रेम्णा शरीरार्धहरां हरस्य ॥ १.५०॥
गुरुः प्रगल्-भेऽपि वयस्यतोऽस्यास्तस्थौ निवृत्तान्यवराभिलाषः ।
ऋते कृशानोर्न हि मन्त्रपूतमर्हन्ति तेजांस्यपराणि हव्यम् ॥ १.५१॥
अयाचितारं न हि देवदेवमद्रिः सुतां ग्राहयितुं शशाक ।
अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थ्यमिष्टेऽप्यवलम्बतेऽर्थे ॥ १.५२॥
यदैव पूर्वे जनने शरीरं सा दक्षरोषात् सुदती ससर्ज ।
तदाप्रभृत्येव विमुक्तसङ्गः पतिः पशूनामपरिग्रहोऽभूत् ॥ १.५३॥
स कृत्तिवासास्तपसे यतात्मा गङ्गाप्रवाहोक्षितदेवदारु ।
प्रस्थं हिमाद्रेर्मृगनाभिगन्धि किञ्चित् क्वणत्किन्नरमध्युवास ॥ १.५४॥
गणा नमेरुप्रसवावतंसा भूर्जत्वचः स्पर्शवतीर्दधानाः ।
मनःशिलाविच्छुरिता निषेदुः शैलेयनद्धेषु शिलातलेषु ॥ १.५५॥
तुषारसङ्घातशिलाः खुराग्रैः समुल्लिखन्दर्पकलः ककुद्मान् ।
दृष्टः कथञ्चिद्गवयैर्विविग्नैरसोढसिंहध्वनिरुन्ननाद ॥ १.५६॥
तत्राग्निमाधाय समित्समिद्धं स्वमेव मूर्त्यन्तरमष्टमूर्तिः ।
स्वयं विधाता तपसः फलानां केनापि कामेन तपश्चचार ॥ १.५७॥
अनर्घ्यमर्घ्येण तमद्रिनाथः स्वर्गौकसामर्चितमर्चयित्वा ।
आराधनायस्य सखीसमेतां समादिदेश प्रयतां तनूजाम् ॥ १.५८॥
प्रत्यर्थि-भूतां अपि तां समाधेः
शुश्रूषमाणां गिरिशोऽनुमेने ।
विकार-हेतौ सति विक्रियन्ते
येषां न चेतांसि त एव धीराः ॥ १.५९॥
अवचितबलिपुष्पा वेदिसम्मार्गदक्षा
नियमविधिजलानां बर्हिषां चोपनेत्री ।
गिरिशमुपचचार प्रत्यहं सा सुकेशी
नियमितपरिखेदा तच्छिरश्चन्द्रपादैः ॥ १.६०॥
इति श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये
उमोत्पत्तिर्नाम प्रथमः सर्गः सम्पूर्णः ॥ १॥
सर्गः २ ब्रह्मसाक्षात्कारः
तस्मिन्विप्रकृताः काले तारकेण दिवौकसः ।
तुरासाहं पुरोधाय धाम स्वायम्भुवं ययुः ॥ २.१॥
तेषामाविरभूद्ब्रह्मा परिम्लानमुखश्रियाम् ।
सरसां सुप्तपद्मानां प्रातर्दीधितिमानिव ॥ २.२॥
अथ सर्वस्य धातारं ते सर्वे सर्वतोमुखम् ।
वागीशं वाग्भिरर्थ्याभिः प्रणिपत्योपतस्थिरे ॥ २.३॥
नमस्त्रिमूर्तये तुभ्यं प्राक्सृष्टेः केवलात्मने ।
गुणत्रयविभागाय पश्चाद्भेदमुपेयुषे ॥ २.४॥
यदमोघमपामन्तरुप्तं बीजमज त्वया ।
अतश्चराचरं विश्वं प्रभवस्तस्य गीयसे ॥ २.५॥
तिसृभिस्त्वमवस्थाभिर्महिमानमुदीरयन् ।
प्रलयस्थितिसर्गाणामेकः कारणतां गतः ॥ २.६॥
स्त्रीपुंसावात्मभागौ ते भिन्नमूर्तेः सिसृक्षया ।
प्रसूतिभाजः सर्गस्य तावेव पितरौ स्मृतौ ॥ २.७॥
स्वकालपरिमाणेन व्यस्तरात्रिन्दिवस्य ते ।
यौ तु स्वप्नावबोधौ तौ भूतानां प्रलयोदयौ ॥ २.८॥
जगद्योनिरयोनिस्त्वं जगदन्तो निरन्तकः ।
जगदादिरनादिस्त्वं जगदीशो निरीश्वरः ॥ २.९॥
आत्मानमात्मना वेत्सि सृजस्यात्मानमात्मना ।
आत्मना कृतिना च त्वमात्मन्येव प्रलीयसे ॥ २.१०॥
द्रवः सङ्घातकठिनः, स्थूलः सूक्ष्मो लघुर्गुरुः ।
व्यक्तो व्यक्तेतरश्चासि प्राकाम्यं ते विभूतिषु ॥ २.११॥
उद्घातः प्रणवो यासां न्यायैस्त्रिभिरुदीरणम् ।
कर्म यज्ञः फलं स्वर्गस्तासां त्वं प्रभवो गिराम् ॥ २.१२॥
त्वामामनन्ति प्रकृतिं पुरुषार्थप्रवर्तिनीम् ।
तद्दर्शिनमुदासीनं त्वामेव पुरुषं विदुः ॥ २.१३॥
त्वं पितॄणामपि पिता, देवानामपि देवता ।
परतोऽपि परश्चासि, विधाता वेधसामपि ॥ २.१४॥
त्वमेव हव्यं होता च, भोज्यं भोक्ता च शाश्वतः ।
वेद्यं च वेदिता चासि, ध्याता ध्येयं च यत्परम् ॥ २.१५॥
इति तेभ्यः स्तुतीः श्रुत्वा यथार्था हृदयङ्गमाः ।
प्रसादाभिमुखो वेधाः प्रत्युवाच दिवौकसः ॥ २.१६॥
पुराणस्य कवेस्तस्य चतुर्मुखसमीरिता ।
प्रवृत्तिरासीच्छब्दानां चरितार्था चतुष्टयी ॥ २.१७॥
स्वागतं स्वानधीकारान्प्रभावैरवलम्ब्य वः ।
युगपद्युगबाहुभ्यः प्राप्तेभ्यः प्राज्यविक्रमाः ॥ २.१८॥
किमिदं द्युतिमात्मीयां न बिभ्रति यथा पुरा ।
हिमक्लिष्टप्रकाशानि ज्योतींषीव मुखानि वः ॥ २.१९॥
प्रशमादर्चिषामेतदनुद्गीर्णसुरायुधम् ।
वृत्रस्य हन्तुः कुलिशं कुण्ठिताश्रीव लक्ष्यते ॥ २.२०॥
किं चायमरिदुर्वारः पाणौ पाशः प्रचेतसः ।
मन्त्रेण हतवीर्यस्य फणिनो दैन्यमाश्रितः ॥ २.२१॥
कुबेरस्य मनःशल्यं शंसतीव पराभवम् ।
अपविद्धगदो बाहुर्भग्नशाख इव द्रुमः ॥ २.२२॥
यमोऽपि विलिखन्भूमिं दण्डेनास्तमितत्विषा ।
कुरुतेऽस्मिन्नमोघेऽपि निर्वाणालातलाघवम् ॥ २.२३॥
अमी च कथमादित्याः प्रतापक्षतिशीतलाः ।
चित्रन्यस्ता इव गताः प्रकामालोकनीयताम् ॥ २.२४॥
पर्याकुलत्वान्मरुतां वेगभङ्गोऽनुमीयते ।
अम्भसामोघसंरोधः प्रतीपगमनादिव ॥ २.२५॥
आवर्जितजटामौलिविलम्बिशशिकोटयः ।
रुद्राणामपि मुर्धानः क्षतहुङ्कारशंसिनः ॥ २.२६॥
लब्धप्रतिष्ठाः प्रथमं यूयं किं बलवत्तरैः ।
अपवादैरिवोत्सर्गाः कृतव्यावृत्तयः परैः ॥ २.२७॥
तद्ब्रूत वत्साः किमितः प्रार्थयध्वे समागताः ।
मयि सृष्टिर्हि लोकानां रक्षा युष्मास्ववस्थिता ॥ २.२८॥
ततो मन्दानिलोद्धूतकमलाकरशोभिना ।
गुरुं नेत्रसहस्रेण नोदयामास वासवः ॥ २.२९॥
स द्विनेत्रो हरेश्चक्षुः सहस्रनयनाधिकम् ।
वाचस्पतिरुवाचेदं प्राञ्जलिर्जलजासनम् ॥ २.३०॥
एवं यदात्थ भगवन्नामृष्टं नः परैः पदम् ।
प्रत्येकं विनियुक्तात्मा कथं न ज्ञास्यसि प्रभो ॥ २.३१॥
भवल्लब्धवरोदीर्णस्तारकाख्यो महासुरः ।
उपप्लवाय लोकानां धूमकेतुरिवोत्थितः ॥ २.३२॥
पुरे तावन्तमेवास्य तनोति रविरातपम् ।
दीर्घिकाकमलोन्मेषो यावन्मात्रेण साध्यते ॥ २.३३॥
सर्वाभिः सर्वदा चन्द्रस्तं कलाभिर्निषेवते ।
नादत्ते केवलां लेखां हरचूडामणीकृताम् ॥ २.३४॥
व्यावृत्तगतिरुद्याने कुसुमस्तेयसाध्वसात् ।
न वाति वायुस्तत्पार्श्वे तालवृन्तानिलाधिकम् ॥ २.३५॥
पर्यायसेवामुत्सृज्य पुष्पसम्भारतत्पराः ।
उद्यानपालसामान्यमृतवस्तमुपासते ॥ २.३६॥
तस्योपायनयोग्यानि रत्नानि सरितां पतिः ।
कथमप्यम्भसामन्तरा निष्पत्तेः प्रतीक्षते ॥ २.३७॥
ज्वलन्मणिशिखाश्चैनं वासुकिप्रमुखा निशि ।
स्थिरप्रदीपतामेत्य भुजङ्गाः पर्युपासते ॥ २.३८॥
तत्कृतानुग्रहापेक्षी तं मुहुर्दूतहारितैः ।
अनुकूलयतीन्द्रोऽपि कल्पद्रुमविभूषणैः ॥ २.३९॥
इत्थमाराध्यमानोऽपि क्लिश्नाति भुवनत्रयम् ।
शाम्येत्प्रत्यपकारेण नोपकारेण दुर्जनः ॥ २.४०॥
तेनामरवधूहस्तैः सदयालूनपल्लवाः ।
अभिज्ञाश्छेदपातानां क्रियन्ते नन्दनद्रुमाः ॥ २.४१॥
वीज्यते स हि संसुप्तः श्वाससाधारणानिलैः ।
चामरैः सुरवन्दीनां वाष्पसीकरवर्षिभिः ॥ २.४२॥
उत्पाट्य मेरुश्रृङ्गाणि क्षुण्णानि हरितां खुरैः ।
आक्रीडपर्वतास्तेन कल्पिताः स्वेषु वेश्मसु ॥ २.४३॥
मन्दाकिन्याः पयःशेषं दिग्वारणमदाविलम् ।
हेमाम्भोरुहसस्यानां तद्वाप्यो धां साम्प्रतम् ॥ २.४४॥
भुवनालोकनप्रीतिः स्वर्गिभिर्नानुभूयते ।
खिलीभूते विमानानां तदापातभयात्पथि ॥ २.४५॥
यज्वभिः सम्भृतं हव्यं विततेष्वध्वरेषु सः ।
जातवेदोमुखान्मायी मिषतामाच्छिनत्ति नः ॥ २.४६॥
उच्चैरुच्चैःश्रवास्तेन हयरत्नमहारि च ।
देहबद्धमिवेन्द्रस्य चिरकालार्जितं यशः ॥ २.४७॥
तस्मिन्नुपायाः सर्वे नः क्रूरे प्रतिहतक्रियाः ।
वीर्यवन्त्यौषधानीव विकारे सान्निपातिके ॥ २.४८॥
जयाशा यत्र चास्माकं प्रतिघातोत्थितार्चिषा ।
हरिचक्रेण तेनास्य कण्ठे निष्कमिवार्पितम् ॥ २.४९॥
तदीयास्तोयदेष्वद्य पुष्करावर्तकादिषु ।
अभ्यस्यन्ति तटाघातं निर्जितैरावता गजाः ॥ २.५०॥
तदिच्छामो विभो ! सृष्टं सेनान्यं तस्य शान्तये ।
कर्मबन्धच्छिदं धर्मं भवस्येव मुमुक्षवः ॥ २.५१॥
गोत्पारं सुरसैन्यानां यं पुरस्कृत्य गोत्रभित् ।
प्रत्यानेष्यति शत्रुभ्यो वन्दीमिव जयश्रियम् ॥ २.५२॥
वचस्यवसिते तस्मिन्ससर्ज गिरमात्मभूः ।
गर्जितानन्तरां वृष्टिं सौभाग्येन जिगाय सा ॥ २.५३॥
सम्पत्स्यते वः कामोऽयं कालः कश्चित्प्रतीक्ष्यताम् ।
न त्वस्य सिद्धौ यास्यामि सर्गव्यापारमात्मना ॥ २.५४॥
इतः स दैत्यः प्राप्तश्रीर्नेत एवार्हति क्षयम् ।
विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसाम्प्रतम् ॥ २.५५॥
वृतं तेनेदमेव प्राङ्मया चास्मै प्रतिश्रुतम् ।
वरेण शमितं लोकानलं दग्धुं हि तत्तपः ॥ २.५६॥
संयुगे सांयुगीनं तमुद्यतं प्रसहेत कः ।
अंशादृते निषिक्तस्य नीललोहितरेतसः ॥ २.५७॥
स हि देवः परं ज्योतिस्तमःपारे व्यवस्थितम् ।
परिच्छिन्नप्रभावर्द्धिर्न मया न च विष्णुना ॥ २.५८॥
उमारूपेण ते यूयं संयमस्तिमितं मनः ।
शम्भोर्यतध्वमाक्रष्टुमयस्कान्तेन लोहवत् ॥ २.५९॥
उभे एव क्षमे वोढुमुभयोर्बीजमाहितम् ।
सा वा शम्भोस्तदीया वा मूर्तिर्जलमयी मम ॥ २.६०॥
तस्यात्मा शितिकण्ठस्य सैनापत्यमुपेत्य वः ।
मोक्ष्यते सुरवन्दीनां वेणीर्वीर्यविभूतिभिः ॥ २.६१॥
इति व्याहृत्य विबुधान् विश्वयोनिस्तिरोदधे ।
मनस्याहित-कर्तव्यास्तेऽपि देवा दिवं ययुः ॥ २.६२॥
तत्र निश्चित्य कन्दर्पमगमत्पाकशासनः ।
मनसा कार्यसंसिद्धौ त्वराद्विगुणरंहसा ॥ २.६३॥
अथ स ललितयोषिद्भ्रूलताचारुश्रृङ्गं
रतिवलयपदाङ्के चापमासज्य कण्ठे ।
सहचरमधुहस्तन्यस्तचूताङ्कुरास्त्रः
शतमखमुपतस्थे प्राञ्जलिः पुष्पधन्वा ॥ २.६४॥
इति श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये
ब्रह्मसाक्षात्कारो नाम द्वितीयः सर्गः सम्पूर्णः ॥ २॥
सर्गः ३ - मदनदहनः
तस्मिन्मघोनस्त्रिदशान्विहाय सहस्रमक्ष्णां युगपत्पपात ।
प्रयोजनाऽपेक्षितया प्रभूणां प्रायश्चलं गौरवमाश्रितेषु ॥ ३.१॥
स वासवेनासनसन्निकृष्टमितो निषीदेति विसृष्टभूमिः ।
भर्तुः प्रसादं प्रतिनन्द्य मूर्ध्ना वक्तुं मिथः प्राक्रमतैवमेनम् ॥ ३.२॥
आज्ञापय ज्ञातविशेष ! पुंसां लोकेषु यत्ते करणीयमस्ति ।
अनुग्रहं संस्मरणप्रवृत्तमिच्छामि संवर्धितमाज्ञया ते ॥ ३.३॥
केनाभ्यसूया पदकाङ्क्षिणा ते नितान्तदीर्घैर्जनिता तपोभिः ।
यावद्भवत्याहितसायकस्य मत्कार्मुकस्यास्य निदेशवर्ती ॥ ३.४॥
असम्मतः कस्तव मुक्तिमार्गं पुनर्भवक्लेशभयात्प्रपन्नः ।
बद्धश्चिरं तिष्ठतु सुन्दरीणामारेचितभ्रूचतुरैः कटाक्षैः ॥ ३.५॥
अध्यापितस्योशनसापि नीतिं प्रयुक्तरागप्रणिधिर्द्विषस्ते ।
कस्यार्थधर्मौ वद पीडयामि सिन्धोस्तटावोघ इव प्रवृद्धः ॥ ३.६॥
कामेकपत्नीव्रतदुःखशोलां लोलं मनश्चारुतया प्रविष्टाम् ।
नितम्बिनीमिच्छसि मुक्तलज्जां कण्ठे स्वयङ्ग्राहनिषक्तबाहुम् ॥ ३.७॥
कयासि कामिन् सुरतापराधात्पादानतः कोपनयावधूतः ।
यस्याः करिष्यामि दृढानुतापं प्रवालशाय्याशरणं शरीरम् ॥ ३.८॥
प्रसीद विश्राम्यतु वीर ! वज्रं शरैर्मदीयैः कतमः सुरारिः ।
बिभेतु मोघीकृतबाहुवीर्यः स्त्रीभ्योऽपि सोपस्फुरिताधराभ्यः ॥ ३.९॥
तव प्रसादात्कुसुमायुधोऽपि सहायमेकं मधुमेव लब्ध्वा ।
कुर्यां हरस्यापि पिनाकपाणेर्धैर्यच्युतिं के मम धन्विनोऽन्ये ॥ ३.१०॥
अथोरुदेशादवतार्य पाद माक्रान्तिसम्भावितपादपीठम् ।
सङ्कल्पितार्थे विवृतात्मशक्तिमाखण्डलः काममिदं बभाषे ॥ ३.११॥
सर्वं सखे ! त्वय्युपपन्नमेतदुभे ममास्त्रे कुलिशं भवांश्च ।
वज्रं तपोवीर्यमहत्सु कुण्ठं त्वं सर्वतोगामि च साघकं च ॥ ३.१२॥
अवैमि ते सारमतः खलु त्वां कार्ये गुरुण्यात्मसमं नियोक्ष्ये ।
व्यादिश्यते भूधरतामवेक्ष्य कृष्णेन देहोद्वहनाय शेषः ॥ ३.१३॥
आशंसता बाणगतिं वृषाङ्के कार्यं त्वया नः प्रतिपन्नकल्पम् ।
निबोध यज्ञांशभुजामिदानीमुच्चैर्द्विषामीप्सितमेतदेव ॥ ३.१४॥
अमी हि वीर्यप्रभवं भवस्य जयाय सेनान्यमुशन्ति देवाः ।
स च त्वदेकेषुनिपातसाध्यो ब्रह्माङ्गभूर्ब्रह्मणि योजितात्मा ॥ ३.१५॥
तस्मै हिमाद्रेः प्रयतां तनूजां यतात्मने रोचयितुं यतस्व ।
योषित्सु तद्वीर्यनिषेकभूमिः सैव क्षमेत्यात्मभुवोपदिष्टम् ॥ ३.१६॥
गुरोर्नियोगाच्च नगेन्द्रकन्या स्थाणुं तपस्यन्तमधित्यकायाम् ।
अन्वास्त इत्यप्सरसां मुखेभ्यः श्रुतं मया मत्प्रणिधिः स वर्गः ॥ ३.१७॥
तद् गच्छ सिद्ध्यै कुरु देवकार्यमर्थोऽयमर्थान्तरभाव्य एव ।
अपेक्षते प्रत्ययमुत्तमं त्वां बीजाङ्कुरः प्रागुदयादिवाम्भः ॥ ३.१८॥
तस्मिन्सुराणां विजयाभ्युपाये तवैव नामास्त्रगतिः कृती त्वम् ।
अप्यप्रसिद्धं यशसे हि पुंसामनन्यसाधारणमेव कर्म ॥ ३.१९॥
सुराः समभ्यर्थयितार एते, कार्यं त्रयाणामपि विष्टपानाम् ।
चापेन ते कर्म न चातिहिंस्रमहो बतासि स्पृहणीयवीर्यः ॥ ३.२०॥
मधुश्च ते मन्मथ !साहचर्यादसावनुक्तोऽपि सहाय एव ।
समीरणो नोदयिता भवेति व्यादिश्यते केन हुताशनस्य ॥ ३.२१॥
तथेति शेषामिव भर्तुराज्ञामादाय मूर्ध्ना मदनः प्रतस्थे ।
ऐरावतास्फालनकर्कशेन हस्तेन पस्पर्श तदङ्गमिन्द्रः ॥ ३.२२॥
स माधवेनाभिमतेन सख्या रत्या च साशङ्कमनुप्रयातः ।
अङ्गव्ययप्रार्थितकार्यसिद्धिः स्थाण्वाश्रमं हैमवतं जगाम ॥ ३.२३॥
तस्मिन्वने संयमिनां मुनीनां तपःसमाधेः प्रतिकूलवर्ती ।
सङ्कल्पयोनेरभिमानभूतमात्मानमाधाय मधुर्जजृम्भे ॥ ३.२४॥
कुबेरगुप्तां दिशमुष्णरश्मौ गन्तुं प्रवृत्ते समयं विलङ्घ्य ।
दिग्दक्षिणा गन्धवहं मुखेन व्यलीकनिःश्वासमिवोत्ससर्ज ॥ ३.२५॥
असूत सद्यः कुसुमान्यशोकः स्कन्धात्प्रभृत्येव सपल्लवानि ।
पादेन नापैक्षत सुन्दरीणां सम्पर्कमासिञ्जितनूपुरेण ॥ ३.२६॥
सद्यः प्रवालोद्गमचारुपत्रे नीते समाप्तिं नवचूतबाणे ।
निवेशयामास मधुर्द्विरेफान्नामाक्षराणीव मनोभवस्य ॥ ३.२७॥
वर्णप्रकर्षे सति कर्णिकारं दुनोति निर्गन्धतया स्म चेतः ।
प्रायेण सामग्र्यविधौ गुणानां पराङ्मुखी विश्वसृजः प्रवृत्तिः ॥ ३.२८॥
बालेन्दुवक्राण्यविकासभावाद्बभुः पलाशान्यतिलोहितानि ।
सद्यो वसन्तेन समागतानां नखक्षतानीव वनस्थलीनाम् ॥ ३.२९॥
लग्नद्विरेफाञ्जनभक्तिचित्रम्मुखे मधुश्रीस्तिलकं प्रकाश्य ।
रागेण बालारुणकोमलेन चूतप्रवालोष्ठमलञ्चकार ॥ ३.३०॥
मृगाः प्रियालद्रुममञ्जरीणां रजःकणैर्विघ्नितदृष्टिपाताः ।
मदोद्धताः प्रत्यनिलं विचेरुर्वनस्थलीर्मर्मरपत्रमोक्षाः ॥ ३.३१॥
चूताङ्कुरास्वादकषायकण्ठः पुंस्कोकिलो यन्मधुरं चुकूज ।
मनस्विनीमानविघातदक्षं तदेव जातं वचनं स्मरस्य ॥ ३.३२॥
हिमव्यपायाद्विशदाधराणामापाण्डुरीभूतमुखच्छवीनाम् ।
स्वेदोद्गमः किम्पुरुषाङ्गनानां चक्रे पदं पत्रविशेषकेषु ॥ ३.३३॥
तपस्विनः स्थाणुवनौकसस्तामाकालिकीं वीक्ष्य मधुप्रवृत्तिम् ।
प्रयत्नसंस्तम्भितविक्रियाणां कथं चिदीशा मनसां बभूवुः ॥ ३.३४॥
तं देशमारोपितपुष्पचापे रतिद्वितीये मदने प्रपन्ने ।
काष्ठागतस्नेहरसानुविद्धं द्वन्द्वानि भावं क्रियया विवव्रुः ॥ ३.३५॥
मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः ।
शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः ॥ ३.३६॥
ददौ रसात्पङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः ।
अर्धोपभुक्तेन बिसेन जायां सम्भावयामास रथाङ्गनामा ॥ ३.३७॥
गीतान्तरेषु श्रमवारिलेशैः किञ्चित्समुच्छ्वासितपत्रलेखम् ।
पुष्पासवाघूर्णितनेत्रशोभि प्रियामुखं किम्पुरुषश्चुचुम्बे ॥ ३.३८॥
पर्याप्तपुष्पस्तबकस्तनाभ्यः स्फुरत्प्रवालौष्ठमनोहराभ्यः ।
लतावधूभ्यस्तरवोऽप्यवापुर्विनम्रशाखाभुजबन्धनानि ॥ ३.३९॥
श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्हरः प्रसङ्ख्यानपरो बभूव ।
आत्मेश्वराणां न हि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥ ३.४०॥
लतागृहद्वारगतोऽथ नन्दी वामप्रकोष्ठार्पितहेमवेत्रः ।
मुखार्पितैकाङ्गुलिसंज्ञयैव मा चापलायेति गणान्व्यनैषीत् ॥ ३.४१॥
निष्कम्पवृक्षं निभृतद्विरेफं मूकाण्डजं शान्तमृगप्रचारम् ।
तच्छासनात्काननमेव सर्वं चित्रार्पितारम्भमिवावतस्थे ॥ ३.४२॥
दृष्टिप्रपातं परिहृत्य तस्य कामः पुरःशुक्रमिव प्रयाणे ।
प्रान्तेषु संसक्तनमेरुशाखं ध्यानास्पदं भूतपतेर्विवेश ॥ ३.४३॥
स देवदारुद्रुमवेदिकायां शार्दूलचर्मव्यवधानवत्याम् ।
आसीनमासन्नशरीरपातस्त्र्यम्बकं संयमिनं ददर्श ॥ ३.४४॥
पर्यङ्कबन्धस्थिरपूर्वकायमृज्वायतं सन्नमितोभयांसम् ।
उत्तानपाणिद्वयसन्निवेशात्प्रफुल्लराजीवमिवाङ्कमध्ये ॥ ३.४५॥
भुजङ्गमोन्नद्धजटाकलापं कर्णावसक्तद्विगुणाक्षसूत्रम् ।
कण्ठप्रभासङ्गविशेषनीलां कृष्णत्वचं ग्रन्थिमतीं दधानम् ॥ ३.४६॥
किञ्चित्प्रकाशस्तिमितोग्रतारैर्भ्रूविक्रियायां विरतप्रसङ्गैः ।
नेत्रैरविस्पन्दितपक्ष्ममालैर्लक्ष्यीकृतघ्राणमधोमयूखैः ॥ ३.४७॥
अवृष्टिसंरम्भमिवाम्बुवाहमपामिवाधारमनुत्तरङ्गम् ।
अन्तश्चराणां मरुतां निरोधान्निवातनिष्कम्पमिव प्रदीपम् ॥ ३.४८॥
कपालनेत्रान्तरलब्धमार्गैर्ज्योतिःप्ररोहैरुदितैः शिरस्तः ।
मृणालसूत्राधिकसौकुमार्यां बालस्य लक्ष्मीं ग्लपयन्तमिन्दोः ॥ ३.४९॥
मनो नवद्वारनिषिद्धवृत्ति हृदि व्यवस्थाप्य समाधिवश्यम् ।
यमक्षरं क्षेत्रविदो विदुस्तमात्मानमात्मन्यवलोकयन्तम् ॥ ३.५०॥
स्मरस्तथाभूतमयुग्मनेत्रं पश्यन्नदूरान्मनसाप्यधृष्यम् ।
नालक्षयत्साध्वससन्नहस्तः स्रस्तं शरं चापमपि स्वहस्तात् ॥ ३.५१॥
निर्वाणभूयिष्ठमथास्य वीर्यं सन्धुक्षयन्तीव वपुर्गुणेन ।
अनुप्रयाता वनदेवताभ्यामदृश्यत स्थावरराजकन्या ॥ ३.५२॥
अशोकनिर्भर्त्सितपद्मरागमाकृष्टहेमद्युतिकर्णिकारम् ।
मुक्ताकलापीकृतसिन्दुवारं वसन्तपुष्पाभरणं वहन्ती ॥ ३.५३॥
आवर्जिता किं चिदिव स्तनाभ्यां वासो वसाना तरुणार्करागम् ।
पर्याप्तपुष्पस्तबकावनम्रा सञ्चारिणी पल्लविनी लतेव ॥ ३.५४॥
स्रस्तां नितम्बादवलम्बमाना पुनः-पुनः केसरदामकाञ्चीम् ।
न्यासीकृतां स्थानविदा स्मरेण मौर्वीं द्वितीयामिव कार्मुकस्य ॥ ३.५५॥
सुगन्धिनिःश्वासविवृद्धतृष्णं बिम्बाधरासन्नचरं द्विरेफम् ।
प्रतिक्षणं सम्भ्रमलोलदृष्टिर्लीलारविन्देन निवारयन्ती ॥ ३.५६॥
तां वीक्ष्य सर्वावयवानवद्यां रतेरपि ह्रीपदमादधानाम् ।
जितेन्द्रिये शूलिनि पुष्पचापः स्वकार्यसिद्धिं पुनराशशंसे ॥ ३.५७॥
भविष्यतः पत्युरुमा च शम्भोः समाससाद प्रतिहारभूमिम् ।
योगात्स चान्तः परमात्मसंज्ञं दृष्ट्वा परं ज्योतिरुपारराम ॥ ३.५८॥
ततो भुजङ्गाधिपतेः फणाग्रैरधः कथं चिद्धृतभूमिभागः ।
शनैः कृतप्राणविमुक्तिरीशः पर्यङ्कबन्धं निबिडं बिभेद ॥ ३.५९॥
तस्मै शशंस प्रणिपत्य नन्दी शुश्रूषया शैलसुतामुपेताम् ।
प्रवेशयामास च भर्तुरेनां भ्रूक्षेपमात्रानुमतप्रवेशाम् ॥ ३.६०॥
तस्याः सखीभ्यां प्रणिपातपूर्वं स्वहस्तलूनः शिशिरात्ययस्य ।
व्यकीर्यत त्र्यम्बकपादमूले पुष्पोच्चयः पल्लवभङ्गभिन्नः ॥ ३.६१॥
उमापि नीलालकमध्यशोभि विस्रंसयन्ती नवकर्णिकारम् ।
चकार कर्णच्युतपल्लवेन मूर्ध्ना प्रणामं वृषभध्वजाय ॥ ३.६२॥
अनन्यभाजं पतिमाप्नुहीति सा तथ्यमेवाभिहिता भवेन ।
न हीश्वरव्याहृतयः कदा चित्पुष्यन्ति लोके विपरीतमर्थम् ॥ ३.६३॥
कामस्तु बाणावसरं प्रतीक्ष्य पतङ्गवद्वह्निमुखं विविक्षुः ।
उमासमक्षं हरबद्धलक्ष्यः शरासनज्यां मुहुराममर्श ॥ ३.६४॥
तपस्वि-शिव-सेवा
तपस्वि-शिव-सेवा
अथोपनिन्ये गिरिशाय गौरी तपस्विने ताम्ररुचा करेण ।
विशोषितां भानुमतो मयूखैर्मन्दाकिनीपुष्करबीजमालाम् ॥ ३.६५॥
प्रतिग्रहीतुं प्रणयिप्रियत्वात्त्रिलोचनस्तामुपचक्रमे च ।
सम्मोहनं नाम च पुष्पधन्वा धनुष्यमोघं समधत्त बाणम् ॥ ३.६६॥
हरस्तु किञ्चित्परिलुप्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः ।
उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥ ३.६७॥
विवृण्वती शैलसुतापि भावमङ्गैः स्फुरद्बालकदम्बकल्पैः ।
साचीकृता चारुतरेण तस्थौ मुखेन पर्यस्तविलोचनेन ॥ ३.६८॥
अथेन्द्रियक्षोभमयुग्मनेत्रः पुनर्वशित्वाद्बलवन्निगृह्य ।
हेतुं स्वचेतोविकृतेर्दिदृक्षुर्दिशामुपान्तेषु ससर्ज दृष्टिम् ॥ ३.६९॥
स दक्षिणापाङ्गनिविष्टमुष्टिं नतांसमाकुञ्चितसव्यपादम् ।
ददर्श चक्रीकृतचारुचापं प्रहर्तुमभ्युद्यतमात्मयोनिम् ॥ ३.७०॥
तपःपरामर्शविवृद्धमन्योर्भ्रूभङ्गदुष्प्रेक्ष्यमुखस्य तस्य ।
स्फुरन्नुदर्चिः सहसा तृतीयादक्ष्णः कृशानुः किल निष्पपात ॥ ३.७१॥
क्रोधं प्रभो संहर संहरेति यावद्गिरः खे मरुतां चरन्ति ।
तावत्स वह्निर्भवनेत्रजन्मा भस्मावशेषं मदनं चकार ॥ ३.७२॥
तीव्राभिषङ्गप्रभवेण वृत्तिम्मोहेन संस्तम्भयतेन्द्रियाणाम् ।
अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव ॥ ३.७३॥
तमाशु विघ्नं तपसस्तपस्वी वनस्पतिं वज्र इवावभज्य ।
स्त्रीसन्निकर्षं परिहर्तुमिच्छन्नन्तर्दधे भूतपतिः सभूतः ॥ ३.७४॥
शैलात्मजापि पितुरुच्छिरसोऽभिलाषं व्यर्थं समर्थ्य ललितं वपुरात्मनश्च ।
सख्योः समक्षमिति चाधिकजातलज्जा शून्या जगाम भवनाभिमुखी कथं चित् ॥ ३.७५॥
सपदि मुकुलिताक्षीं रुद्रसंरम्भभीत्या दुहितरमनुकम्प्यामद्रिरादाय दोर्भ्याम् ।
सुरगज इव बिभ्रत्पद्मिनीं दन्तलग्नां प्रतिपथगतिरासीद्वेगदीर्घीकृताङ्गः ॥ ३.७६॥
इति श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये
मदनदहनो नाम तृतीयः सर्गः सम्पूर्णः ॥ ३॥
सर्गः ४ - रतिविलापः
अथ मोहपरायणा सती विवशा कामवधूर्विबोधिता ।
विधिना प्रतिपादयिष्यता नववैधव्यमसह्यवेदनम् ॥ ४.१॥
अवधानपरे चकार सा प्रलयान्तोन्मिषिते विलोचने ।
न विवेद तयोरतृप्तयोः प्रियमत्यन्तविलुप्तदर्शनम् ॥ ४.२॥
अयि जीवितनाथ जीवसीत्यभिधायोत्थितया तया पुरः ।
ददृशे पुरुषाकृति क्षितौ हरकोपानलभस्म केवलम् ॥ ४.३॥
अथ सा पुनरेव विह्वला वसुधालिङ्गनधूसरस्तनी ।
विललाप विकीर्णमूर्धजा समदुःखामिव कुर्वती स्थलीम् ॥ ४.४॥
उपमानमभूद्विलासिनां करणं यत्तव कान्तिमत्तया ।
तदिदं गतमीदृशीं दशां न विदीर्ये कठिनाः खलु स्त्रियः ॥ ४.५॥
क्व नु मां त्वदधीनजीवितां विनिकीर्य क्षणभिन्नसौहृदः ।
नलिनीं क्षतसेतुबन्धनो जलसङ्घात इवासि विद्रुतः ॥ ४.६॥
कृतवानसि विप्रियं न मे प्रतिकूलं न च ते मया कृतम् ।
किमकारणमेव दर्शनं विलपन्त्यै रतये न दीयते ॥ ४.७॥
स्मरसि स्मर मेखलागुणैरुत गोत्रस्खलितेषु बन्धनम् ।
च्युतकेशरदूषितेक्षणान्यवतंसोत्पलताडनानि वा ॥ ४.८॥
हृदये वससीति मत्प्रियं यदवोचस्तदवैमि कैतवम् ।
उपचारपदं न चेदिदं त्वमनङ्गः कथमक्षता रतिः ॥ ४.९॥
परलोकनवप्रवासिनः प्रतिपत्स्ये पदवीमहं तव ।
विधिना जन एष वञ्चितस्त्वदधीनं खलु देहिनां सुखम् ॥ ४.१०॥
रजनीतिमिरावगुण्ठिते पुरमार्गे घनशब्दविक्लवाः ।
वसतिं प्रिय कामिनां प्रियास्त्वदृते प्रापयितुं क ईश्वरः ॥ ४.११॥
नयनान्यरुणानि घूर्णयन्वचनानि स्खलयन्पदे-पदे ।
असति त्वयि वारुणीमदः प्रमदानामधुना विडम्बना ॥ ४.१२॥
अवगम्य कथीकृतं वपुः प्रियबन्धोस्तव निष्फलोदयः ।
बहुलेऽपि गते निशाकरस्तनुतां दुःखमनङ्ग मोक्ष्यति ॥ ४.१३॥
हरितारुणचारुबन्धनः कलपुंस्कोकिलशब्दसूचितः ।
वद सम्प्रति कस्य बाणतां नवचूतप्रसवो गमिष्यति ॥ ४.१४॥
अलिपङ्क्तिरनेकशस्त्वया गुणकृत्ये धनुषो नियोजिता ।
विरुतैः करुणस्वनैरियं गुरुशोकामनुरोदितीव माम् ॥ ४.१५॥
प्रतिपद्य मनोहरं वपुः पुनरप्यादिश तावदुत्थितः ।
रतिदूतिपदेषु कोकिलां मधुरालापनिसर्गपण्डिताम् ॥ ४.१६॥
शिरसा प्रणिपत्य याचितान्युपगूढानि सवेपथूनि च ।
सुरतानि च तानि ते रहः स्मर संस्मृत्य न शान्तिरस्ति मे ॥ ४.१७॥
रचितं रतिपण्डित त्वया स्वयमङ्गेषु ममेदमार्तवम् ।
ध्रियते कुसुमप्रसाधनं तव तच्चारु वपुर्न दृश्यते ॥ ४.१८॥
विबुधैरसि यस्य दारुणैरसमाप्ते परिकर्मणि स्मृतः ।
तमिमं कुरु दक्षिणेतरं चरणं निर्मितरागमेहि मे ॥ ४.१९॥
अहमेत्य पतङ्गवर्त्मना पुनरङ्काश्रयिणी भवामि ते ।
चतुरैः सुरकामिनीजनैः प्रिय यावन्न विलोभ्यसे दिवि ॥ ४.२०॥
मदनेन विनाकृता रतिः क्षणमात्रं किल जीवितेति मे ।
वचनीयमिदं व्यवस्थितं रमण त्वामनुयामि यद्यपि ॥ ४.२१॥
क्रियतां कथमन्त्यमण्डनं परलोकान्तरितस्य ते मया ।
सममेव गतोऽस्यतर्कितां गतिमङ्गेन च जीवितेन च ॥ ४.२२॥
ऋजुतां नयतः स्मरामि ते शरमुत्सङ्गनिषण्णधन्वनः ।
मधुना सह सस्मितं कथां नयनोपान्तविलोकितं च यत् ॥ ४.२३॥
क्व नु ते हृदयङ्गमः सखा कुसुमायोजितकार्मुको मधुः ।
न खलूग्ररुषा पिनाकिना गमितः सोऽपि सुहृद्गतां गतिम् ॥ ४.२४॥
अथ तैः परिदेविताक्षरैर्हृदये दिग्धशरैरिवार्दितः ।
रतिमभ्युपपत्तुमातुरां मधुरात्मानमदर्शयत्पुरः ॥ ४.२५॥
तमवेक्ष्य रुरोद सा भृशं स्तनसम्बाधमुरो जघान च ।
स्वजनस्य हि दुःखमग्रतो विवृतद्वारमिवोपजायते ॥ ४.२६॥
इति चैनमुवाच दुःखिता सुहृदः पश्य वसन्त किं स्थितम् ।
यदिदं कणशः प्रकीर्यते पवनैर्भस्म कपोतकर्बुरम् ॥ ४.२७॥
अयि सम्प्रति देहि दर्शनं स्मर पर्युत्सुक एष माधवः ।
दयितास्वनवस्थितं नृणां न खलु प्रेम चलं सुहृज्जने ॥ ४.२८॥
अमुना ननु पार्श्ववर्तिना जगदाज्ञां ससुरासुरं तव ।
बिसतन्तुगुणस्य कारितं धनुषः पेलवपुष्पपत्रिणः ॥ ४.२९॥
गत एव न ते निवर्तते स सखा दीप इवानिलाहतः ।
अहमस्य दशेव पश्य मामविषह्यव्यसनप्रधूषिताम् ॥ ४.३०॥
विधिना कृतमर्धवैशसं ननु माङ्कामवधे विमुञ्चता ।
अनघापि हि संश्रयद्रुमे गजभग्ने पतनाय वल्लरी ॥ ४.३१॥
तदिदं क्रियतामनन्तरं भवता बन्धुजनप्रयोजनम् ।
विधुरां ज्वलनातिसर्जनान्ननु मां प्रापय पत्युरन्तिकम् ॥ ४.३२॥
शशिना सह याति कौमुदी सह मेघेन तडित्प्रलीयते ।
प्रमदाः पतिवर्त्मगा इति प्रतिपन्नं हि विचेतनैरपि ॥ ४.३३॥
अमुनैव कषायितस्तनी सुभगेन प्रियगात्रभस्मना ।
नवपल्लवसंस्तरे यथा रचयिष्यामि तनुं विभावसौ ॥ ४.३४॥
कुसुमास्तरणे सहायतां बहुशः सौम्य गतस्त्वमावयोः ।
कुरु सम्प्रति तावदाशु मे प्रणिपाताञ्जलियाचितश्चिताम् ॥ ४.३५॥
तदनु ज्वलनं मदर्पितं त्वरयेर्दक्षिणवातवीजनैः ।
विदितं खलु ते यथा स्मरः क्षणमप्युत्सहते न मां विना ॥ ४.३६॥
इति चापि विधाय दीयतां सलिलस्याञ्जलिरेक एव नौ ।
अविभज्य परत्र तं मया सहितः पास्यति ते स बान्धवः ॥ ४.३७॥
परलोकविधौ च माधव स्मरमुद्दिश्य विलोलपल्लवाः ।
निवपेः सहकारमञ्जरीः प्रियचूतप्रसवो हि ते सखा ॥ ४.३८॥
इति देवविमुक्तये स्थितां रतिमाकाशभवा सरस्वती ।
शफरीं ह्रदशोषविक्लवां प्रथमा वृष्टिरिवान्वकम्पत ॥ ४.३९॥
कुसुमायुधपत्नि दुर्लभस्तव भर्ता न चिराद्भविष्यति ।
शृणु येन स कर्मणा गतः शलभत्वं हरलोचनार्चिषि ॥ ४.४०॥
अभिलाषमुदीरितेन्द्रियः स्वसुतायामकरोत्प्रजापतिः ।
अथ तेन निगृह्य विक्रियामभिशप्तः फलमेतदन्वभूत् ॥ ४.४१॥
परिणेष्यति पार्वतीं यदा तपसा तत्प्रवणीकृतो हरः ।
उपलब्धसुखस्तदा स्मरं वपुषा स्वेन नियोजयिष्यति ॥ ४.४२॥
इति चाह स धर्मयाचितः स्मरशापावधिदां सरस्वतीम् ।
अशनेरमृतस्य चोभयोर्वशिनश्चाम्बुधराश्च योनयः ॥ ४.४३॥
तदिदं परिरक्ष शोभने भवितव्यप्रियसङ्गमं वपुः ।
रविपीतजला तपात्यये पुनरोघेन हि युज्यते नदी ॥ ४.४४॥
इत्थं रतेः किमपि भूतमदृश्यरूपं मन्दीचकार मरणव्यवसायबुद्धिम् ।
तत्प्रत्ययाच्च कुसुमायुधबन्धुरेनामाश्वासयत्सुचरितार्थपदैर्वचोभिः ॥ ४.४५॥
अथ मदनवधूरुपप्लवान्तं व्यसनकृशा परिपालयां बभूव ।
शशिन इव दिवातनस्य लेखा किरणपरिक्षयधूसरा प्रदोषम् ॥ ४.४६॥
इति श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये
रतिविलापो नाम चतुर्थः सर्गः सम्पूर्णः ॥ ४॥
सर्गः ५ - तपःफलोदयः
तथा समक्षं दहता मनोभवं पिनाकिना भग्नमनोरथा सती ।
निनिन्द रूपं हृदयेन पार्वती प्रियेषु सौभाग्यफला हि चारुता ॥ ५.१॥
इयेष सा कर्तुमवन्ध्यरूपतां समाधिमास्थाय तपोभिरात्मनः ।
अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृशः ॥ ५.२॥
निशम्य चैनां तपसे कृतोद्यमां सुतां गिरीशप्रतिसक्तमानसाम् ।
उवाच मेना परिरभ्य वक्षसा निवारयन्ती महतो मुनिव्रतात् ॥ ५.३॥
मनीषिताः सन्ति गृहेऽपि देवतास्तपः क्व वत्से क्व च तावकं वपुः ।
पदं सहेत भ्रमरस्य पेलवं शिरीशपुष्पं न पुनः पतत्रिणः ॥ ५.४॥
इति ध्रुवेच्छामनुशासती सुतां शशाक मेना न नियन्तुमुद्यमात् ।
क ईप्सितार्थस्थिरनिश्चयं मनः पयश्च निम्नाभिमुखं प्रतीपयेत् ॥ ५.५॥
कदा चिदासन्नसखीमुखेन सा मनोरथज्ञं पितरं मनस्विनी ।
अयाचतारण्यनिवासमात्मनः फलोदयान्ताय तपःसमाधये ॥ ५.६॥
अथानुरूपाभिनिवेशतोषिणा कृताभ्यनुज्ञा गुरुणा गरीयसा ।
प्रजासु पश्चात्प्रथितं तदाख्यया जगाम गौरी शिखरं शिखण्डिमत् ॥ ५.७॥
विमुच्य सा हारमहार्यनिश्चया विलोलयष्टिप्रविलुप्तचन्दनम् ।
बबन्ध बालारुणबभ्रु वल्कलं पयोधरोत्सेधविशीर्णसंहति ॥ ५.८॥
यथा प्रसिद्धैर्मधुरं शिरोरुहैर्जटाभिरप्येवमभूत्तदाननम् ।
न शट्पदश्रेणिभिरेव पङ्कजं सशैवलासङ्गमपि प्रकाशते ॥ ५.९॥
प्रतिक्षणं सा कृतरोमविक्रियां व्रताय मौञ्जीं त्रिगुणां बभार याम् ।
अकारि तत्पूर्वनिबद्धया तया सरागमस्या रसनागुणास्पदम् ॥ ५.१०॥
विसृष्टरागादधरान्निवर्तितः स्तनाङ्गरागारुणिताच्च कन्दुकात् ।
कुशाङ्कुरादानपरिक्षताङ्गुलिः कृतोऽक्षसूत्रप्रणयी तया करः ॥ ५.११॥
महार्हशय्यापरिवर्तनच्युतैः स्वकेशपुष्पैरपि या स्म दूयते ।
अशेत सा बाहुलतोपधायिनी निषेदुषी स्थण्डिल एव केवले ॥ ५.१२॥
पुनर्ग्रहीतुं नियमस्थया तया द्वयेऽपि निक्षेप इवार्पितन्द्वयम् ।
लतासु तन्वीषु विलासचेष्टितं विलोलदृष्टं हरिणाङ्गनासु च ॥ ५.१३॥
अतन्द्रिता सा स्वयमेव वृक्षकान्घटस्तनप्रस्रवणैर्व्यवर्धयत् ।
गुहोऽपि येषां प्रथमाप्तजन्मनां न पुत्रवात्सल्यमपाकरिष्यति ॥ ५.१४॥
अरण्यबीजाञ्जलिदानलालितास्तथा च तस्यां हरिणा विशश्वसुः ।
यथा तदीयैर्नयनैः कुतूहलात्पुरः सखीनाममिमीत लोचने ॥ ५.१५॥
कृताभिशेकां हुतजातवेदसं त्वगुत्तरासङ्गवतीमधीतिनीम् ।
दिग्दृक्षवस्तामृषयोऽभ्युपागमन्न धर्मवृद्धेषु वयः समीक्ष्यते ॥ ५.१६॥
विरोधिसत्त्वोज्झितपूर्वमत्सरं द्रुमैरभीष्टप्रसवार्चितातिथि ।
नवोटजाभ्यन्तरसम्भृतानलं तपोवनं तच्च बभूव पावनम् ॥ ५.१७॥
यदा फलं पूर्वतपःसमाधिना न तावता लभ्यममंस्त काङ्क्षितम् ।
तदानपेक्ष्य स्वशरीरमार्दवं तपो महत्सा चरितुं प्रचक्रमे ॥ ५.१८॥
क्लमं ययौ कन्दुकलीलयापि या तया मुनीनां चरितं व्यगाह्यत ।
ध्रुवं वपुः काञ्चनपद्मनिर्मितं मृदु प्रकृत्या च ससारमेव च ॥ ५.१९॥
शुचौ चतुर्णां ज्वलतां हविर्भुजां शुचिस्मिता मध्यगता सुमध्यमा ।
विजित्य नेत्रप्रतिघातिनीं प्रभामनन्यदृष्टिः सवितारमैक्षत ॥ ५.२०॥
तथाभितप्तं सवितुर्गभस्तिभिर्मुखं तदीयं कमलश्रियं दधौ ।
अपाङ्गयोः केवलमस्य दीर्घयोः शनैः-शनैः श्यामिकया कृतं पदम् ॥ ५.२१॥
अयाचितोपस्थितमम्बु केवलं रसात्मकस्योडुपतेश्च रश्मयः ।
बभूव तस्याः किल पारणाविधिर्न वृक्षवृत्तिव्यतिरिक्तसाधनः ॥ ५.२२॥
निकामतप्ता विविधेन वह्निना नभश्चरेणेन्धनसम्भृतेन च ।
तपात्यये वारिभिरुक्षिता नवैर्भुवा सहोष्माणममुञ्चदूर्ध्वगम् ॥ ५.२३॥
स्थिताः क्षणं पक्ष्मसु ताडिताधराः पयोधरोत्सेधनिपातचूर्णिताः ।
वलीषु तस्याः स्खलिताः प्रपेदिरे चिरेण नाभिं प्रथमोदबिन्दवः ॥ ५.२४॥
शिलाशयां तामनिकेतवासिनीं निरन्तरास्वन्तरवातवृष्टिषु ।
व्यलोकयन्नुन्मिषितैस्तडिन्मयैर्महातपःसाक्ष्य इव स्थिताः क्षपाः ॥ ५.२५॥
निनाय सात्यन्तहिमोत्किरानिलाः सहस्यरात्रीरुदवासतत्परा ।
परस्पराक्रन्दिनि चक्रवाकयोः पुरो वियुक्ते मिथुने कृपावती ॥ ५.२६॥
मुखेन सा पद्मसुगन्धिना निशि प्रवेपमानाधरपत्रशोभिना ।
तुषारवृष्टिक्षतपद्मसम्पदां सरोजसन्धानमिवाकरोदपाम् ॥ ५.२७॥
स्वयंविशीर्णद्रुमपर्णवृत्तिता परा हि काष्ठा तपसस्तया पुनः ।
तदप्यपाकीर्णमतः प्रियंवदां वदन्त्यपर्णेति च तां पुराविदः ॥ ५.२८॥
मृणालिकापेलवमेवमादिभिर्व्रतैः स्वमङ्गं ग्लपयन्त्यहर्निशम् ।
तपः शरीरैः कठिनैरुपार्जितं तपस्विनां दूरमधश्चकार सा ॥ ५.२९॥
अथाजिनाषाढधरः प्रगल्भवाग्ज्वलन्निव ब्रह्ममयेन तेजसा ।
विवेश कश्चिज्जटिलस्तपोवनं शरीरबद्धः प्रथमाश्रमो यथा ॥ ५.३०॥
तमातिथेयी बहुमानपूर्वया सपर्यया प्रत्युदियाय पार्वती ।
भवन्ति साम्येऽपि निविष्टचेतसां वपुर्विशेषेष्वतिगौरवाः क्रियाः ॥ ५.३१॥
विधिप्रयुक्तां परिगृह्य सत्क्रियां परिश्रमं नाम विनीय च क्षणम् ।
उमां स पश्यन्नृजुनैव चक्षुषा प्रचक्रमे वक्तुमनुज्झितक्रमः ॥ ५.३२॥
अपि क्रियार्थं सुलभं समित्कुशं जलान्यपि स्नानविधिक्षमाणि ते ।
अपि स्वशक्त्या तपसि प्रवर्तसे शरीरमाद्यं खलु धर्मसाधनम् ॥ ५.३३॥
अपि त्वदावर्जितवारिसम्भृतं प्रवालमासामनुबन्धि वीरुधाम् ।
चिरोज्झितालक्तकपाटलेन ते तुलां यदारोहति दन्तवाससा ॥ ५.३४॥
अपि प्रसन्नं हरिणेषु ते मनः करस्थदर्भप्रणयापहारिषु ।
य उत्पलाक्षि प्रचलैर्विलोचनैस्तवाक्षिसादृश्यमिव प्रयुञ्जते ॥ ५.३५॥
यदुच्यते पार्वति पापवृत्तये न रूपमित्यव्यभिचारि तद्वचः ।
तथा हि ते शीलमुदारदर्शने तपस्विनामप्युपदेशतां गतम् ॥ ५.३६॥
विकीर्णसप्तर्षिबलिप्रहासिभिस्तथा न गाङ्गैः सलिलैर्दिवश्च्युतैः ।
यथा त्वदीयैश्चरितैरनाविलैर्महीधरः पावित एष सान्वयः ॥ ५.३७॥
अनेन धर्मः सविशेषमद्य मे त्रिवर्गसारः प्रतिभाति भाविनि ।
त्वया मनोनिर्विषयार्थकामया यदेक एव प्रतिगृह्य सेव्यते ॥ ५.३८॥
प्रयुक्तसत्कारविशेषमात्मना न मां परं सम्प्रतिपत्तुमर्हसि ।
यतः सतां सन्नतगात्रि सङ्गतं मनीषिभिः साप्तपदीनमुच्यते ॥ ५.३९॥
अतोऽत्र किञ्चिद्भवतीं बहुक्षमां द्विजातिभावादुपपन्नचापलः ।
अयं जनः प्रष्टुमनास्तपोधने न चेद्रहस्यं प्रतिवक्तुमर्हसि ॥ ५.४०॥
कुले प्रसूतिः प्रथमस्य वेधसस्त्रिलोकसौन्दर्यमिवोदितं वपुः ।
अमृग्यमैश्वर्यसुखं नवं वयस्तपःफलं स्यात्किमतः परं वद ॥ ५.४१॥
भवत्यनिष्टादपि नाम दुःसहान्मनस्विनीनां प्रतिपत्तिरीदृशी ।
विचारमार्गप्रहितेन चेतसा न दृश्यते तच्च कृशोदरि त्वयि ॥ ५.४२॥
अलभ्यशोकाभिभवेयमाकृतिर्विमानना सुभ्रु कुतः पितुर्गृहे ।
पराभिमर्शो न तवास्ति कः करं प्रसारयेत्पन्नगरत्नसूचये ॥ ५.४३॥
किमित्यपास्याभरणानि यौवने धृतं त्वया वार्द्धकशोभि वल्कलम् ।
वद प्रदोषे स्फुटचन्द्रतारके विभावरी यद्यरुणाय कल्पते ॥ ५.४४॥
दिवं यदि प्रार्थयसे वृथा श्रमः पितुः प्रदेशास्तव देवभूमयः ।
अथोपयन्तारमलं समाधिना न रत्नमन्विष्यति मृग्यते हि तत् ॥ ५.४५॥
निवेदितं निश्वसितेन सोष्मणा मनस्तु मे संशयमेव गाहते ।
न दृश्यते प्रार्थयितव्य एव ते भविष्यति प्रार्थितदुर्लभः कथम् ॥ ५.४६॥
अहो स्थिरः कोऽपि तवेप्सितो युवा चिराय कर्णोत्पलशून्यतां गते ।
उपेक्षते यः श्लथलम्बिनीर्जटाः कपोलदेशे कलमाग्रपिङ्गलाः ॥ ५.४७॥
मुनिव्रतैस्त्वामतिमात्रकर्शितां दिवाकराप्लुष्टविभूषणास्पदाम् ।
शशाङ्कलेखामिव पश्यतो दिवा सचेतसः कस्य मनो न दूयते ॥ ५.४८॥
अवैमि सौभाग्यमदेन वञ्चितं तव प्रियं यश्चतुरावलोकिनः ।
करोति लक्ष्यं चिरमस्य चक्षुषो न वक्त्रमात्मीयमरालपक्ष्मणः ॥ ५.४९॥
कियच्चिरं श्राम्यसि गौरि विद्यते ममापि पूर्वाश्रमसञ्चितं तपः ।
तदर्धभागेन लभस्व काङ्क्षितं वरं तमिच्छामि च साधु वेदितुम् ॥ ५.५०॥
इति प्रविश्याभिहिता द्विजन्मना मनोगतं सा न शशाक शंसितुम् ।
अथो वयस्यां परिपार्श्ववर्तिनीं विवर्तितानञ्जननेत्रमैक्षत ॥ ५.५१॥
सखी तदीया तमुवाच वर्णिनं निबोध साधो तव चेत्कुतूहलम् ।
यदर्थमम्भोजमिवोष्णवारणं कृतं तपःसाधनमेतया वपुः ॥ ५.५२॥
इयं महेन्द्रप्रभृतीनधिश्रियश्चतुर्दिगीशानवमत्य मानिनी ।
अरूपहार्यं मदनस्य निग्रहात्पिनाकपाणिं पतिमाप्तुमिच्छति ॥ ५.५३॥
असह्यहुङ्कारनिवर्तितः पुरा पुरारिमप्राप्तमुखः शिलीमुखः ।
इमां हृदि व्यायतपातमक्षणोद्विशीर्णमूर्तेरपि पुष्पधन्वनः ॥ ५.५४॥
तदाप्रभृत्युन्मदना पितुर्गृहे ललाटिकाचन्दनधूसरालका ।
न जातु बाला लभते स्म निर्वृतिं तुषारसङ्घातशिलातलेष्वपि ॥ ५.५५॥
उपात्तवर्णे चरिते पिनाकिनः सबाष्पकण्ठस्खलितैः पदैरियम् ।
अनेकशः किन्नरराजकन्यका वनान्तसङ्गीतसखीररोदयत् ॥ ५.५६॥
त्रिभागशेषासु निशासु च क्षणम्निमील्य नेत्रे सहसा व्यबुध्यत ।
क्व नीलकण्ठ व्रजसीत्यलक्ष्यवागसत्यकण्ठार्पितबाहुबन्धना ॥ ५.५७॥
यदा बुधैः सर्वगतस्त्वमुच्यसे न वेत्सि भावस्थमिमं जनं कथम् ।
इति स्वहस्ताल्लिखितश्च मुग्धया रहस्युपालभ्यत चन्द्रशेखरः ॥ ५.५८॥
यदा च तस्याधिगमे जगत्पतेरपश्यदन्यं न विधिं विचिन्वती ।
तदा सहास्माभिरनुज्ञया गुरोरियं प्रपन्ना तपसे तपोवनम् ॥ ५.५९॥
द्रुमेषु सख्या कृतजन्मसु स्वयं फलं तपःसाक्षिषु दृष्टमेष्वपि ।
न च प्ररोहाभिमुखोऽपि दृश्यते मनोरथोऽस्याः शशिमौलिसंश्रयः ॥ ५.६०॥
न वेद्मि स प्रार्थितदुर्लभः कदा सखीभिरस्रोत्तरमीक्षितामिमाम् ।
तपःकृशामभ्युपपत्स्यते सखीं वृषेव सीतां तदवग्रहक्षताम् ॥ ५.६१॥
अगूढसद्भावमितीङ्गितज्ञया निवेदितो नैष्ठिकसुन्दरस्तया ।
अयीदमेवं परिहास इत्युमामपृच्छदव्यञ्जितहर्षलक्षणः ॥ ५.६२॥
अथाग्रहस्ते मुकुलीकृताङ्गुलौ समर्पयन्ती स्फटिकाक्षमालिकाम् ।
कथं चिदद्रेस्तनया मिताक्षरं चिरव्यवस्थापितवागभाषत ॥ ५.६३॥
यथा श्रुतं वेदविदां वर त्वया जनोऽयमुच्चैःपदलङ्घनोत्सुकः ।
तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते ॥ ५.६४॥
अथाह वर्णी विदितो महेश्वरस्तदर्थिनी त्वं पुनरेव वर्तसे ।
अमङ्गलाभ्यासरतिं विचिन्त्य तं तवानुवृत्तिं न च कर्तुमुत्सहे ॥ ५.६५॥
अवस्तुनिर्बन्धपरे कथं नु ते करोऽयमामुक्तविवाहकौतुकः ।
करेण शम्भोर्वलयीकृताहिना सहिष्यते तत्प्रथमावलम्बनम् ॥ ५.६६॥
त्वमेव तावत्परिचिन्तय स्वयं कदा चिदेते यदि योगमर्हतः ।
वधूदुकूलं कलहंसलक्षणं गजाजिनं शोणितबिन्दुवर्षि च ॥ ५.६७॥
चतुष्कपुष्पप्रकराविकीर्णयोः परोऽपि को नाम तवानुमन्यते ।
अलक्तकाङ्कानि पदानि पादयोर्विकीर्णकेशासु परेतभूमिषु ॥ ५.६८॥
अयुक्तरूपं किमतः परं वद त्रिनेत्रवक्षः सुलभं तवापि यत् ।
स्तनद्वयेऽस्मिन्हरिचन्दनास्पदे पदं चिताभस्मरजः करिष्यति ॥ ५.६९॥
इयं च तेऽन्या पुरतो विडम्बना यदूढया वारणराजहार्यया ।
विलोक्य वृद्धोक्षमधिष्ठितं त्वया महाजनः स्मेरमुखो भविष्यति ॥ ५.७०॥
द्वयं गतं सम्प्रति शोचनीयतां समागमप्रार्थनया कपालिनः ।
कला च सा कान्तिमती कलावतस्त्वमस्य लोकस्य च नेत्रकौमुदी ॥ ५.७१॥
वपुर्विरूपाक्षमलक्ष्यजन्मता दिगम्बरत्वेन निवेदितं वसु ।
वरेषु यद्बालमृगाक्षि मृग्यते तदस्ति किं व्यस्तमपि त्रिलोचने ॥ ५.७२॥
निवर्तयास्मादसदीप्सितान्मनः क्व तद्विधस्त्वं क्व च पुण्यलक्षणा ।
अपेक्ष्यते साधुजनेन वैदिकी श्मशानशूलस्य न यूपसत्क्रिया ॥ ५.७३॥
इति द्विजातौ प्रतिकूलवादिनि प्रवेपमानाधरलक्ष्यकोपया ।
विकुञ्चितभ्रूलतमाहिते तया विलोचने तिर्यगुपान्तलोहिते ॥ ५.७४॥
उवाच चैनं परमार्थतो हरं न वेत्सि नूनं यत एवमात्थ माम् ।
अलोकसामान्यमचिन्त्यहेतुकं द्विषन्ति मन्दाश्चरितं महात्मनाम् ॥ ५.७५॥
विपत्प्रतीकारपरेण मङ्गलं निषेव्यते भूतिसमुत्सुकेन वा ।
जगच्छरण्यस्य निराशिषः सतः किमेभिराशोपहतात्मवृत्तिभिः ॥ ५.७६॥
अकिञ्चनः सन्प्रभवः स सम्पदां त्रिलोकनाथः पितृसद्मगोचरः ।
स भीमरूपः शिव इत्युदीर्यते न सन्ति याथार्थ्यविदः पिनाकिनः ॥ ५.७७॥
विभूषणोद्भासि पिनद्धभोगि वा गजाजिनालम्बि दुकूलधारि वा ।
कपालि वा स्यादथ वेन्दुशेखरं न विश्वमूर्तेरवधार्यते वपुः ॥ ५.७८॥
तदङ्गसंसर्गमवाप्य कल्पते ध्रुवं चिताभस्मरजो विशुद्धये ।
तथा हि नृत्याभिनयक्रियाच्युतं विलिप्यते मौलिभिरम्बरौकसाम् ॥ ५.७९॥
असम्पदस्तस्य वृषेण गच्छतः प्रभिन्नदिग्वारणवाहनो वृषा ।
करोति पादावुपगम्य मौलिना विनिद्रमन्दाररजोरुणाङ्गुली ॥ ५.८०॥
विवक्षता दोषमपि च्युतात्मना त्वयैकमीशं प्रति साधु भाषितम् ।
यमामनन्त्यात्मभुवोऽपि कारणं कथं स लक्ष्यप्रभवो भविष्यति ॥ ५.८१॥
अलं विवादेन यथा श्रुतस्त्वया तथाविधस्तावदशेषमस्तु सः ।
ममात्र भावैकरसं मनः स्थितं न कामवृत्तिर्वचनीयमीक्षते ॥ ५.८२॥
निवार्यतामालि किमप्ययं बटुः पुनर्विवक्षुः स्फुरितोत्तराधरः ।
न केवलं यो महतोऽपभाषते शृणोति तस्मादपि यः स पापभाक् ॥ ५.८३॥
इतो गमिश्याम्यथवेति वादिनी चचाल बाला स्तनभिन्नवल्कला ।
स्वरूपमास्थाय च तां कृतस्मितः समाललम्बे वृषराजकेतनः ॥ ५.८४॥
तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिर्निक्षेपणाय पदमुद्धृतमुद्वहन्ती ।
मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ ॥ ५.८५॥
अद्यप्रभृत्यवनताङ्गि तवास्मि दासः क्रीतस्तपोभिरिति वादिनि चन्द्रमौलौ ।
अह्नाय सा नियमजं क्लममुत्ससर्ज क्लेशः फलेन हि पुनर्नवतां विधत्ते ॥ ५.८६॥
इति श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये
तपःफलोदयो नाम पञ्चमः सर्गः सम्पूर्णः ॥ ५॥
सर्गः ६ - उमाप्रदानः
अथ विश्वात्मने गौरी सन्दिदेश मिथः सखीम् ।
दाता मे भूभृतां नाथः प्रमाणीक्रियतामिति ॥ ६.१॥
तया व्याहृतसन्देशा सा बभौ निभृता प्रिये ।
चूतयष्टिरिवाभ्याष्ये मधौ परभृतामुखी ॥ ६.२॥
स तथेति प्रतिज्ञाय विसृज्य कथमप्युमाम् ।
ऋषीञ्ज्योतिर्मयान्सप्त सस्मार स्मरशासनः ॥ ६.३॥
ते प्रभामण्डलैर्व्योम द्योतयन्तस्तपोधनाः ।
सारुन्धतीकाः सपदि प्रादुरासन्पुरः प्रभोः ॥ ६.४॥
आप्लुतास्तीरमन्दार- कुसुमोत्किरवीचिषु ।
आकाशगङ्गास्रोतस्सु दिङ्नागमदगन्धिषु ॥ ६.५॥
मुक्तायज्ञोपवीतानि बिभ्रतो हैमवल्कलाः ।
रत्नाक्षसूत्राः प्रव्रज्यां कल्पवृक्षा इवाश्रिताः ॥ ६.६॥
अधःप्रवर्त्तिताश्वेन समावर्जितकेतुना ।
सहस्ररश्मिना शश्वत्सप्रमाणमुदीक्षिताः ॥ ६.७॥
आसक्तबाहुलतया सार्धमुद्धृतया भुवा ।
महावराहदंष्ट्रायां विश्रान्ताः प्रलयापदि ॥ ६.८॥
सर्गशेषप्रणयनाद्विश्वयोनेरनन्तरम् ।
पुरातनाः पुराविद्भिर्धातार इति कीर्तिताः ॥ ६.९॥
प्राक्तनानां विशुद्धानां परिपाकमुपेयुषाम् ।
तपसामुपभुञ्जानाः फलान्यपि तपस्विनः ॥ ६.१०॥
तेषां मध्यगता साध्वी पत्युः पादार्पितेक्षणा ।
साक्षादिव तपःसिद्धिर्बभासे बह्वरुन्धती ॥ ६.११॥
तामगौरवभेदेन मुनींश्चापश्यदीश्वरः ।
स्त्री पुमानित्यनास्थैषा वृत्तं हि महितं सताम् ॥ ६.१२॥
तद्दर्शनादभूच्छम्भोर्भूयान्दारार्थमादरः ।
क्रियाणां खलु धर्म्याणां सप्तत्न्यो मूलसाधनम् ॥ ६.१३॥
धर्मेणापि पदं शर्वे कारिते पार्वतीं प्रति ।
पूर्वापराधभीतस्य कामस्योच्छ्वासितं मनः ॥ ६.१४॥
अथ ते मुनयः सर्वे मानयित्वा जगद्गुरुम् ।
इदमूचुरनूचानाः प्रीतिकण्टकितत्वचः ॥ ६.१५॥
यद्ब्रह्म सम्यगाम्नातं यदग्नौ विधिना हुतम् ।
यच्च तप्तं तपस्तस्य विपक्वं फलमद्य नः ॥ ६.१६॥
यदध्यक्षेण जगतां वयमारोपितास्त्वया ।
मनोरथस्याविषयं मनोविषयमात्मनः ॥ ६.१७॥
यस्य चेतसि वर्तेथाः स तावत्कृतिनां वरः ।
किं पुनर्ब्रह्मयोनेर्यस्तव चेतसि वर्तते ॥ ६.१८॥
सत्यमर्काच्च सोमाच्च परमध्यास्महे पदम् ।
अद्य तूच्चैस्तरं तस्मात्स्मरणानुग्रहात्तव ॥ ६.१९॥
त्वत्सम्भावितमात्मानं बहु मन्यामहे वयम् ।
प्रायः प्रत्ययमाधत्ते स्वगुणेषूत्तमादरः ॥ ६.२०॥
या नः प्रीतिर्विरूपाक्ष त्वदनुध्यानसम्भवा ।
सा किमावेद्यते तुभ्यमन्तरात्मासि देहिनाम् ॥ ६.२१॥
साक्षाद्दृष्टोऽसि न पुनर्विद्मस्त्वां वयमञ्जसा ।
प्रसीद कथयात्मानं न धियां पथि वर्तसे ॥ ६.२२॥
किं येन सृजसि व्यक्तमुत येन बिभर्षि तत् ।
अथ विश्वस्य संहर्ता भागः कतम एष ते ॥ ६.२३॥
अथवा सुमहत्येषा प्रार्थना देव तिष्ठतु ।
चिन्तितोपस्थितांस्तावच्छाधि नः करवाम किम् ॥ ६.२४॥
अथ मौलिगतस्येन्दोर्विशदैर्दशनांशुभिः ।
उपचिन्वन्प्रभां तन्वीं प्रत्याह परमेश्वरः ॥ ६.२५॥
विदितं वो यथा स्वार्था न मे काश्चित्प्रवृत्तयः ।
ननु मूर्तिभिरष्टाभिरित्थम्भूतोऽस्मि सूचितः ॥ ६.२६॥
सोऽहं तृष्णातुरैर्वृष्टिं विद्युत्वानिव चातकैः ।
अरिविप्रकृतैर्देवैः प्रसूतिं प्रति याचितः ॥ ६.२७॥
अत आहर्तुमिच्छामि पार्वतीमात्मजन्मने ।
उत्पत्तये हविर्भोक्तुर्यजमान इवारणिम् ॥ ६.२८॥
तामस्मदर्थे युष्माभिर्याचितव्यो हिमालयः ।
विक्रियायै न कल्पन्ते सम्बन्धाः सदनुष्ठिताः ॥ ६.२९॥
उन्नतेन स्थितिमता धुरमुद्वहता भुवः ।
तेन योजितसम्बन्धं वित्त मामप्यवञ्चितम् ॥ ६.३०॥
एवं वाच्यः स कन्यार्थमिति वो नोपदिश्यते ।
भवत्प्रणीतमाचारमामनन्ति हि साधवः ॥ ६.३१॥
आर्याप्यरुन्धती तत्र व्यापारं कर्तुं अर्हति ।
प्रायेणैवंविधे कार्ये पुरन्ध्रीणां प्रगल्भता ॥ ६.३२॥
तत्प्रयातौषधिप्रस्थं सिद्धये हिमवत्पुरम् ।
महाकोशीप्रपातेऽस्मिन्सङ्गमः पुनरेव नः ॥ ६.३३॥
तस्मिन्संयमिनामाद्ये जाते परिणयोन्मुखे ।
जहुः परिग्रहव्रीडां प्राजापत्यास्तपस्विनः ॥ ६.३४॥
ततः परममित्युक्त्वा प्रतस्थे मुनिमण्डलम् ।
भगवानपि सम्प्राप्तः प्रथमोद्दिष्टमास्पदम् ॥ ६.३५॥
ते चाकाशमसिश्याममुत्पत्य परमर्षयः ।
आसेदुरोषधिप्रस्थं मनसा समरंहसः ॥ ६.३६॥
अलकामतिवाह्येव वसतिं वसुसम्पदाम् ।
स्वर्गाभिष्यन्दवमनं कृत्वेवोपनिवेशितम् ॥ ६.३७॥
गङ्गास्रोतःपरिक्षिप्त- वप्रान्तर्ज्वलितौषधि ।
बृहन्मणिशिलासालं गुप्तावपि मनोहरम् ॥ ६.३८॥
जितसिंहभया नागा यत्राश्वा बिलयोनयः ।
यक्षाः किम्पुरुषाः पौरा योषितो वनदेवताः ॥ ६.३९॥
शिखरासक्तमेघानां व्यजन्ते यत्र वेश्मनाम् ।
अनुगर्जितसन्दिग्धाः करणैर्मुरजस्वनाः ॥ ६.४०॥
यत्र कल्पद्रुमैरेव विलोलविटपांशुकैः ।
गृहयन्त्रपताकाश्रीरपौरादरनिर्मिता ॥ ६.४१॥
यत्र स्फटिकहर्म्येषु नक्तमापानभूमिषु ।
ज्योतिषां प्रतिबिम्बानि प्राप्नुवन्त्युपहारताम् ॥ ६.४२॥
यत्रौषधिप्रकाशेन नक्तं दर्शितसञ्चराः ।
अनभिज्ञास्तमिस्राणां दुर्दिनेष्वभिसारिकाः ॥ ६.४३॥
यौवनान्तं वयो यस्मिन्नातङ्कः कुसुमायुधः ।
रतिखेदसमुत्पन्ना निद्रा संज्ञाविपर्ययः ॥ ६.४४॥
भ्रूभेदिभिः सकम्पोष्ठैर्ललिताङ्गुलितर्जनैः ।
यत्र कोपैः कृताः स्त्रीणामाप्रसादार्थिनः प्रियाः ॥ ६.४५॥
सन्तानकतरुच्छाया- सुप्तविद्याधराध्वगम् ।
यस्य चोपवनं बाह्यं सुगन्धिर्गन्धमादनः ॥ ६.४६॥
अथ ते मुनयो दिव्याः प्रेक्ष्य हैमवतं पुरम् ।
स्वर्गाभिसन्धिसुकृतं वञ्चनामिव मेनिरे ॥ ६.४७॥
ते सद्मनि गिरेर्वेगादुन्मुखद्वाःस्थवीक्षिताः ।
अवतेरुर्जटाभारैर्लिखितानलनिश्चलैः ॥ ६.४८॥
गगनादवतीर्णा सा यथावृद्धपुरस्सरा ।
तोयान्तर्भास्करालीव रेजे मुनिपरम्परा ॥ ६.४९॥
तानर्घ्यानर्घ्यमादाय दूरात्प्रत्युद्ययौ गिरिः ।
नमयन्सारगुरुभिः पादन्यासैर्वसुन्धराम् ॥ ६.५०॥
धातुताम्राधरः प्रांशुर्देवदारुबृहद्भुजः ।
प्रकृत्यैव शिलोरस्कः सुव्यक्तो हिमवानिति ॥ ६.५१॥
विधिप्रयुक्तसत्कारैः स्वयं मार्गस्य दर्शकः ।
स तैराक्रमयामास शुद्धान्तं शुद्धकर्मभिः ॥ ६.५२॥
तत्र वेत्रासनासीनान्कृतासनपरिग्रहः ।
इत्युवाचेश्वरान्वाचं प्राञ्जलिः पृथिवीधरः ॥ ६.५३॥
अपमेघोदयं वर्षमदृष्टकुसुमं फलम् ।
अतर्कितोपपन्नं वो दर्शनं प्रतिभाति मे ॥ ६.५४॥
मूढं बुद्धमिवात्मानं हैमीभूतमिवायसम् ।
भूमेर्दिवमिवारूढं मन्ये भवदनुग्रहात् ॥ ६.५५॥
अद्यप्रभृति भूतानामधिगम्योऽस्मि शुद्धये ।
यदध्यासितमर्हद्भिस्तद्धि तीर्थं प्रचक्षते ॥ ६.५६॥
अवैमि पूतमात्मानं द्वयेनैव द्विजोत्तमाः ।
मूर्ध्नि गङ्गाप्रपातेन धौतपादाम्भसा च वः ॥ ६.५७॥
जङ्गमं प्रैष्यभावे वः स्थावरं चरणाङ्कितम् ।
विभक्तानुग्रहं मन्ये द्विरूपमपि मे वपुः ॥ ६.५८॥
भवत्सम्भावनोत्थाय परितोषाय मूर्च्छते ।
अपि व्याप्तदिगन्तानि नाङ्गानि प्रभवन्ति मे ॥ ६.५९॥
न केवलं दरीसंस्थं भास्वतां दर्शनेन वः ।
अन्तर्गतमपास्तं मे रजसोऽपि परं तमः ॥ ६.६०॥
कर्तव्यं वो न पश्यामि स्याच्चेत्किं नोपपद्यते ।
शङ्के मत्पावनायैव प्रस्थानं भवतामिह ॥ ६.६१॥
तथापि तावत्कस्मिंश्चिदाज्ञां मे दातुमर्हथ ।
विनियोगप्रसादा हि किङ्कराः प्रभविष्णुषु ॥ ६.६२॥
एते वयममी दाराः कन्येयं कुलजीवितम् ।
ब्रूत येनात्र वः कार्यमनास्था बाह्यवस्तुषु ॥ ६.६३॥
इत्यूचिवांस्तमेवार्थं दरीमुखविसर्पिणा ।
द्विरिव प्रतिशब्देन व्याजहार हिमालयः ॥ ६.६४॥
अथाङ्गिरसमग्रण्यमुदाहरणवस्तुषु ।
ऋषयश्चोदयामासुः प्रत्युवाच स भूधरम् ॥ ६.६५॥
उपपन्नमिदं सर्वमतः परमपि त्वयि ।
मनसः शिखराणां च सदृशी ते समुन्नतिः ॥ ६.६६॥
स्थाने त्वां स्थावरात्मानं विष्णुमाहुस्तथा हि ते ।
चराचराणां भूतानां कुक्षिराधारतां गतः ॥ ६.६७॥
गामधास्यत्कथं नागो मृणालमृदुभिः फणैः ।
आ रसातलमूलात्त्वमवालम्बिष्यथा न चेत् ॥ ६.६८॥
अच्छिन्नामलसन्तानाः समुद्रोर्म्यनिवारिताः ।
पुनन्ति लोकान्पुण्यत्वात्कीर्तयः सरितश्च ते ॥ ६.६९॥
यथैव श्लाघ्यते गङ्गा पादेन परमेष्ठिनः ।
प्रभवेण द्वितीयेन तथैवोच्छिरसा त्वया ॥ ६.७०॥
तिर्यगूर्ध्वमधस्ताच्च व्यापको महिमा हरेः ।
त्रिविक्रमोद्यतस्यासीत्स च स्वाभाविकस्तव ॥ ६.७१॥
यज्ञभागभुजां मध्ये पदमातस्थुषा त्वया ।
उच्चैर्हिरण्मयं शृङ्गं सुमेरोर्वितथीकृतम् ॥ ६.७२॥
काठिन्यं स्थावरे काये भवता सर्वमर्पितम् ।
इदं तु भक्तिनम्रं ते सतामाराधनं वपुः ॥ ६.७३॥
तदागमनकार्यं नः शृणु कार्यं तवैव तत् ।
श्रेयसामुपदेशात्तु वयमत्रांशभागिनः ॥ ६.७४॥
अणिमादिगुणोपेतमस्पृष्टपुरुषान्तरम् ।
शब्दमीश्वर इत्युच्चैः सार्धचन्द्रं बिभर्ति यः ॥ ६.७५॥
कल्पितान्योन्यसामर्थ्यैः पृथिव्यादिभिरात्मनि ।
येनेदं ध्रियते विश्वं धुर्यैर्यानमिवाध्वनि ॥ ६.७६॥
योगिनो यं विचिन्वन्ति क्षेत्राभ्यन्तरवर्तिनम् ।
अनावृत्तिभयं यस्य पदमाहुर्मनीषिणः ॥ ६.७७॥
स ते दुहितरं साक्षात्साक्षी विश्वस्य कर्मणः ।
वृणुते वरदः शम्भुरस्मत्सङ्क्रामितैः पदैः ॥ ६.७८॥
तमर्थमिव भारत्या सुतया योक्तुमर्हसि ।
अशोच्या हि पितुः कन्या सद्भर्त्रे प्रतिपादिता ॥ ६.७९॥
यावदेतानि भूतानि स्थावराणि चराणि च ।
मातरं कल्पयन्त्येनामीशो हि जगतः पिता ॥ ६.८०॥
प्रणम्य शितिकण्ठाय विबुधास्तदनन्तरम् ।
चरणौ रञ्जयन्त्यस्याश्चूडामणिमरीचिभिः ॥ ६.८१॥
उमा वधूर्भवान्दाता याचितार इमे वयम् ।
वरः शम्भुरलं ह्येष त्वत्कुलोद्भूतये विधिः ॥ ६.८२॥
अस्तोतुः स्तूयमानस्य वन्द्यस्यानन्यवन्दिनः ।
सुतासम्बन्धविधिना भव विश्वगुरोर्गुरुः ॥ ६.८३॥
एवं वादिनि देवर्षौ पार्श्वे पितुरधोमुखी ।
लीलाकमलपत्राणि गणयामास पार्वती ॥ ६.८४॥
शैलः सम्पूर्णकामोऽपि मेनामुखमुदैक्षत ।
प्रायेण गृहिणीनेत्राः कन्यार्थे हि कुटुम्बिनः ॥ ६.८५॥
मेने मेनापि तत्सर्वं पत्युः कार्यमभीप्सितम् ।
भवन्त्यव्यभिचारिण्यो भर्तुरिष्टे पतिव्रताः ॥ ६.८६॥
इदमत्रोत्तरं न्याय्यमिति बुद्ध्या विमृश्य सः ।
आददे वचसामन्ते मङ्गलालङ्कृतां सुताम् ॥ ६.८७॥
एहि विश्वात्मने वत्से भिक्षासि परिकल्पिता ।
अर्थिनो मुनयः प्राप्तं गृहमेधिफलं मया ॥ ६.८८॥
एतावदुक्त्वा तनयामृषीनाह महीधरः ।
इयं नमति वः सर्वांस्त्रिलोचनवधूरिति ॥ ६.८९॥
ईप्सितार्थक्रियोदारं तेऽभिनन्द्य गिरेर्वचः ।
आशीर्भिरेधयामासुः पुरःपाकाभिरम्बिकाम् ॥ ६.९०॥
तां प्रणामादरस्रस्त- जाम्बूनदवतंसकाम् ।
अङ्कमारोपयामास लज्जमानामरुन्धती ॥ ६.९१॥
तन्मातरं चाश्रुमुखीं दुहितृस्नेहविक्लवाम् ।
वरस्यानन्यपूर्वस्य विशोकामकरोद्गुणैः ॥ ६.९२॥
वैवाहिकीं तिथिं पृष्टास्तत्क्षणं हरबन्धुना ।
ते त्र्यहादूर्ध्वमाख्याय चेलुश्चीरपरिग्रहाः ॥ ६.९३॥
ते हिमालयमामन्त्र्य पुनः प्रेक्ष्य च शूलिनम् ।
सिद्धं चास्मै निवेद्यार्थं तद्विसृष्टाः खमुद्ययुः ॥ ६.९४॥
पशुपतिरपि तान्यहानि कृच्छ्रादगमयदद्रिसुतासमागमोत्कः ।
कमपरमवशं न विप्रकुर्युर्विभुमपि तं यदमी स्पृशन्ति भावाः ॥ ६.९५॥
इति श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये
उमाप्रदानो नाम षष्ठः सर्गः सम्पूर्णः ॥ ६॥
सर्गः ७ - उमापरिणयः
अथौषधीनामधिपस्य वृद्धौ तिथौ च जामित्रगुणान्वितायाम् ।
समेतबन्धुर्हिमवान्सुताया विवाहदीक्षाविधिमन्वतिष्ठत् ॥ ७.१॥
वैवाहिकैः कौतुकसंविधानैर्गृहे गृहे व्यग्रपुरन्ध्रिवर्गम् ।
आसीत्पुरं सानुमतोऽनुरागादन्तःपुरं चैककुलोपमेयम् ॥ ७.२॥
सन्तानकाकीर्णमहापथं तच्चीनांशुकैः कल्पितकेतुमालम् ।
भासा ज्वलत्काञ्चनतोरणानां स्थानान्तरस्वर्ग इवाबभासे ॥ ७.३॥
एकैव सत्यामपि पुत्रपङ्क्तौ चिरस्य दृष्टेव मृतोत्थितेव ।
आसन्नपाणिग्रहणेति पित्रोरुमा विशेषोच्छ्वसितं बभूव ॥ ७.४॥
अङ्काद्ययावङ्कमुदीरिताशीः सा मण्डनान्मण्डनमन्वभुङ्क्त ।
सम्बन्धिभिन्नोऽपि गिरेः कुलस्य स्नेहस्तदेकायतनं जगाम ॥ ७.५॥
मैत्रे मुहूर्ते शशलाञ्छनेन योगं गतासूत्तरफल्गुनीषु ।
तस्याः शरीरे प्रतिकर्म चक्रुर्बन्धुस्त्रियो याः पतिपुत्रवत्यः ॥ ७.६॥
सा गौरसिद्धार्थनिवेशवद्भिर्दूर्वाप्रवालैः प्रतिभिन्नरागम् ।
निर्नाभिकौशेयमुपात्तबाणमभ्यङ्गनेपथ्यमलञ्चकार ॥ ७.७॥
बभौ च सम्पर्कमुपेत्य बाला नवेन दीक्षाविधिसायकेन ।
करेण भानोर्बहुलावसाने सन्धुक्ष्यमाणेव शशाङ्कलेखा ॥ ७.८॥
तां लोध्रकल्केन हृताङ्गतैलामाश्यानकालेयकृताङ्गरागाम् ।
वासो वसानामभिषेकयोग्यं नार्यश्चतुष्काभिमुखं व्यनैषुः ॥ ७.९॥
विन्यस्तवैदूर्यशिलातलेऽस्मिन्नविद्धमुक्ताफलभक्तिचित्रे ।
आवर्जिताष्टापदकुम्भतोयाः सतूर्यमेनां स्नपयां बभूवुः ॥ ७.१०॥
सा मङ्गलस्नानविशुद्धगात्री गृहीतपत्युद्गमनीयवस्त्रा ।
निर्वृत्तपर्जन्यजलाभिषेका प्रफुल्लकाशा वसुधेव रेजे ॥ ७.११॥
तस्मात्प्रदेशाच्च वितानवन्तं युक्तं मणिस्तम्भचतुष्टयेन ।
पतिव्रताभिः परिगृह्य निन्ये कॢप्तासनं कौतुकवेदिमध्यम् ॥ ७.१२॥
तां प्राङ्मुखीं तत्र निवेश्य तन्वीं क्षणं व्यलम्बन्त पुरो निषण्णाः ।
भूतार्थशोभाह्रियमाणनेत्राः प्रसाधने सन्निहितेऽपि नार्यः ॥ ७.१३॥
धूपोष्मणा त्याजितमार्द्रभावं केशान्तमन्तःकुसुमं तदीयम् ।
पर्याक्षिपत्काचिदुदारबन्धं दूर्वावता पाण्डुमधूकदाम्ना ॥ ७.१४॥
विन्यस्तशुक्लागुरु चक्रुरस्या गोरोचनापत्रविभङ्गमङ्गम् ।
सा चक्रवाकाङ्कितसैकतायास्त्रिस्रोतसः कान्तिमतीत्य तस्थौ ॥ ७.१५॥
लग्नद्विरेफं परिभूय पद्मं समेघलेखं शशिनश्च बिम्बम् ।
तदाननश्रीरलकैः प्रसिद्धैश्चिच्छेद सादृश्यकथाप्रसङ्गम् ॥ ७.१६॥
कर्णार्पितो लोध्रकषायरूक्षे गोरोचनाक्षेपनितान्तगौरे ।
तस्याः कपोले परभागलाभाद्बबन्ध चक्षूंषि यवप्ररोहः ॥ ७.१७॥
रेखाबिभक्तश्च विभक्तगात्र्याः किञ्चिन्मधूच्छिष्टविमृष्टरागः ।
कामप्यभिख्यां स्फुरितैरपुष्यदासन्नलावण्यफलोऽध्ररोष्ठः ॥ ७.१८॥
पत्युः शिरश्चन्द्रकलामनेन स्पृशेति सख्या परिहासपूर्वम् ।
सा रञ्जयित्वा चरणौ कृताशीर्माल्येन तां निर्वचनं जघान ॥ ७.१९॥
तस्याः सुजातोत्पलपत्रकान्ते प्रसाधिकाभिर्नयने निरीक्ष्य ।
न चक्षुषोः कान्तिविशेषबुद्ध्या कालाञ्जनं मङ्गलमित्युपात्तम् ॥ ७.२०॥
सा सम्भवद्भिः कुसुमैर्लतेव ज्योतिर्भिरुद्यद्भिरिव त्रियामा ।
सरिद्विहङ्गैरिव लीयमानैरामुच्यमानाभरणा चकासे ॥ ७.२१॥
आत्मानमालोक्य च शोभमानमादर्शबिम्बे स्तिमितायताक्षी ।
हरोपयाने त्वरिता बभूव स्त्रीणां प्रियालोकफलो हि वेषः ॥ ७.२२॥
अथाङ्गुलिभ्यां हरितालमार्द्रं माङ्गल्यमादाय मनःशिलां च ।
कर्णावसक्तामलदन्तपत्रं माता तदीयं मुखमुन्नमय्य ॥ ७.२३॥
उमास्तनोद्भेदमनुप्रवृद्धो मनोरथो यः प्रथमो बभूव ।
तमेव मेना दुहितुः कथञ्चिद्विवाहदीक्षातिलकं चकार ॥ ७.२४॥
बबन्ध चास्राकुलदृष्टिरस्याः स्थानान्तरे कल्पितसन्निवेशम् ।
धात्र्यङ्गुलीभिः प्रतिसार्यमाणमूर्णमयं कौतुकहस्तसूत्रम् ॥ ७.२५॥
क्षीरोदवेलेव सफेनपुञ्जा पर्याप्तचन्द्रेव शरत्त्रियामा ।
नवं नवक्षौमनिवासिनी सा भूयो बभौ दर्पणमादधाना ॥ ७.२६॥
तामर्चिताभ्यः कुलदेवताभ्यः कुलप्रतिष्ट्ःआं प्रणमय्य माता ।
अकारयत्कारयितव्यदक्षा क्रमेण पादग्रहणं सतीनाम् ॥ ७.२७॥
अखण्डितं प्रेम लभस्व पत्युरित्युच्यते ताभिरुमा स्म नम्रा ।
तया तु तस्यार्धशरीरभाजा पश्चात्कृताः स्निग्धजनाशिषोऽ पि ॥ ७.२८॥
इच्छाविभूत्योरनुरूपमद्रिस्तस्याः कृती कृत्यमशेषयित्वा ।
सभ्यः सभायां सुहृदास्थितायां तस्थौ वृषाङ्कागमनप्रतीक्षः ॥ ७.२९॥
तावद्वरस्यापि कुबेरशैले तत्पूर्वपाणिग्रहणानुरूपम् ।
प्रसाधनं मातृभिरादृताभिर्न्यस्तं पुरस्तात्पुरशासनस्य ॥ ७.३०॥
तद्गौरवान्मङ्गलमण्डनश्रीः सा पस्पृशे केवलमीश्वरेण ।
स्व एव वेषः परिणेतुरिष्टं भावान्तरं तस्य विभोः प्रपेदे ॥ ७.३१॥
बभूव भस्मैव सिताङ्गरागः कपालमेवामलशेखरश्रीः ।
उपान्तभागेषु च रोचनाङ्को गजाजिनस्यैव दुकूलभावः ॥ ७.३२॥
शङ्खान्तरद्योति विलोचनं यदन्तर्निविष्टामलपिङ्गतारम् ।
सान्निध्यपक्षे हरितालमय्यास्तदेव जातं तिलकक्रियायाः ॥ ७.३३॥
यथाप्रदेशं भुजगेश्वराणां करिश्यतामाभरणान्तरत्वम् ।
शरीरमात्रं विकृतिं प्रपेदे तथैव तस्थुः फणरत्नशोभाः ॥ ७.३४॥
दिवापि निष्ठ्यूतमरीचिभासा बाल्यादनाविष्कृतलाञ्छनेन ।
चन्द्रेण नित्यं प्रतिभिन्नमौलेश्चूडामणेः किं ग्रहणं हरस्य ॥ ७.३५॥
इत्यद्भुतैकप्रभवः प्रभावात्प्रसिद्धनेपथ्यविधेर्विधाता ।
आत्मानमासन्नगणोपनीते खड्गे निषक्तप्रतिमं ददर्श ॥ ७.३६॥
स गोपतिं नन्दिभुजावलम्बी शार्दूलचर्मान्तरितोरुपृष्ठम् ।
तद्भक्तिसङ्क्षिप्तबृहत्प्रमाणमारुह्य कैलासमिव प्रतस्थे ॥ ७.३७॥
तं मातरो देवमनुव्रजन्त्यः स्ववाहनक्षोभचलावतंसाः ।
मुखैः प्रभामण्डलरेणुगौरैः पद्माकरं चक्रुरिवान्तरीक्षम् ॥ ७.३८॥
तासां च पश्चात्कनकप्रभाणां काली कपालाभरणा चकासे ।
बलाकिनी नीलपयोदराजी दूरं पुरःक्षिप्तशतह्रदेव ॥ ७.३९॥
ततो गणैः शूलभृतः पुरोगैरुदीरितो मङ्गलतूर्यघोषः ।
विमानशृङ्गाण्यवगाहमानः शशंस सेवावसरं सुरेभ्यः ॥ ७.४०॥
उपाददे तस्य सहस्ररश्मिस्त्वष्ट्रा नवं निर्मितमातपत्रम् ।
स तद्दुकूलादविदूरमौलिर्बभौ पतद्गङ्ग इवोत्तमाङ्गे ॥ ७.४१॥
मूर्ते च गङ्गायमुने तदानीं सचामरे देवमसेविषाताम् ।
समुद्रगारूपविपर्ययेऽपि सहंसपाते इव लक्ष्यमाणे ॥ ७.४२॥
तमन्वगच्छत्प्रथमो विधाता श्रीवत्सलक्ष्मा पुरुषश्च साक्षात् ।
जयेति वाचा महिमानमस्य संवर्धयन्त्या हविषेव वह्निम् ॥ ७.४३॥
एकैव मूर्तिर्बिभिदे त्रिधा सा सामान्यमेषां प्रथमावरत्वम् ।
विष्णोर्हरस्तस्य हरिः कदाचिद्वेधास्तयोस्तावपि धातुराद्यौ ॥ ७.४४॥
तं लोकपालाः पुरुहूतमुख्याः श्रीलक्षणोत्सर्गविनीतवेषाः ।
दृष्टिप्रदाने कृतनन्दिसंज्ञास्तद्दर्शिताः प्राञ्जलयः प्रणेमुः ॥ ७.४५॥
कम्पेन मूर्ध्नः शतपत्रयोनिं वाचा हरिं वृत्रहणं स्मितेन ।
आलोकमात्रेण सुरानशेषान्सम्भावयामास यथाप्रधानम् ॥ ७.४६॥
तस्मै जयाशीः ससृजे पुरस्तात्सप्तर्षिभिस्तान्स्मितपूर्वमाह ।
विवाहयज्ञे विततेऽत्र यूयमध्वर्यवः पूर्ववृता मयेति ॥ ७.४७॥
विश्वावसुप्राग्रहरैः प्रवीणैः सङ्गीयमानत्रिपुरावदानः ।
अध्वानमध्वान्तविकारलङ्घ्यस्ततार ताराधिपखण्डधारी ॥ ७.४८॥
खे खेलगामी तमुवाह वाहः सशब्दचामीकरकिङ्किणीकः ।
तटाभिघातादिव लग्नपङ्के धुन्वन्मुहुः प्रोतघने विषाणे ॥ ७.४९॥
स प्रापदप्राप्तपराभियोगं नगेन्द्रगुप्तं नगरं मुहूर्तात् ।
पुरो विलग्नैर्हरदृष्टिपातैः सुवर्णसूत्रैरिव कृष्यमाणः ॥ ७.५०॥
तस्योपकण्ठे घननीलकण्ट्ःअः कुतूहलादुन्मुखपौरदृष्टः ।
स्वबाणचिह्नादवतीर्य मार्गादासन्नभूपृष्ठमियाय देवः ॥ ७.५१॥
तमृद्धिमद्बन्धुजनाधिरूढैर्वृन्दैर्गजानां गिरिचक्रवर्ती ।
प्रत्युज्जगामागमनप्रतीतः प्रफुल्लवृक्षैः कटकैरिव स्वैः ॥ ७.५२॥
वर्गावुभौ देवमहीधराणां द्वारे पुरस्योद्घटितापिधाने ।
समीयतुर्दूरविसर्पिघोषौ भिन्नैकसेतू पयसामिवौघौ ॥ ७.५३॥
ह्रीमानभूद्भूमिधरो हरेण त्रैलोक्यवन्द्येन कृतप्रणामः ।
पूर्वं महिम्ना स हि तस्य दूरमावर्जितं नात्मशिरो विवेद ॥ ७.५४॥
स प्रीतियोगाद्विकसन्मुखश्रीर्जामातुरग्रेसरतामुपेत्य ।
प्रावेशयन्मन्दिरमृद्धमेनमागुल्फकीर्णापणमार्गपुष्पम् ॥ ७.५५॥
तस्मिन्मुहूर्ते पुरसुन्दरीणामीशानसन्दर्शनलालसानाम् ।
प्रासादमालासु बभूवुरित्थं त्यक्तान्यकार्याणि विचेष्टितानि ॥ ७.५६॥
आलोकमार्गं सहसा व्रजन्त्या कयाचिदुद्वेष्टनवान्तमाल्यः ।
बन्धुं न सम्भावित एव तावत्करेण रुद्धोऽपि न केशपाशः ॥ ७.५७॥
प्रसाधिकालम्बितमग्रपादमाक्षिप्य काचिद्द्रवरागमेव ।
उत्सृष्टलीलागतिरागवाक्षादलक्तकाङ्कां पदवीं ततान ॥ ७.५८॥
विलोचनं दक्षिणमञ्जनेन सम्भाव्य तद्वञ्चितवामनेत्रा ।
तथैव वातायनसन्निकर्षं ययौ शलाकामपरा वहन्ती ॥ ७.५९॥
जालान्तरप्रेषितदृष्तिरन्या प्रस्थानभिन्नां न बबन्ध नीवीम् ।
नाभिप्रविष्टाभरणप्रभेण हस्तेन तस्थाववलम्ब्य वासः ॥ ७.६०॥
अर्धाचिता सत्वरमुत्थितायाः पदे पदे दुर्निमिते गलन्ती ।
कस्याश्चिदासीद्रशना तदानीमङ्गुष्ठमूलार्पितसूत्रशेषा ॥ ७.६१॥
तासां मुखैरासवगन्धगर्भैर्व्याप्तान्तराः सान्द्रकुतूहलानाम् ।
विलोलनेत्रभ्रमरैर्गवाक्षाः सहस्रपत्राभरणा इवासन् ॥ ७.६२॥
तावत्पताकाकुलमिन्दुमौलिरुत्तोरणं राजपथं प्रपेदे ।
प्रासादशृङ्गाणि दिवापि कुर्वञ्ज्योत्स्नाभिषेकद्विगुणद्युतीनि ॥ ७.६३॥
तमेकदृश्यं नयनैः पिबन्त्यो नार्यो न जग्मुर्विषयान्तराणि ।
तथा हि शेषेन्द्रियवृत्तिरासां सर्वात्मना चक्षुरिव प्रविष्टा ॥ ७.६४॥
स्थाने तपो दुश्चरमेतदर्थमपर्णया पेलवयापि तप्तम् ।
या दास्यमप्यस्य लभेत नारी सा स्यात्कृतार्था किमुताङ्कशय्याम् ॥ ७.६५॥
परस्परेण स्पृहणीयशोभं न चेदिदं द्वन्द्वमयोजयिष्यत् ।
अस्मिन्द्वये रूपविधानयत्नः पत्युः प्रजानां विफलोऽभविश्यत् ॥ ७.६६॥
न नूनमारूढरुषा शरीरमनेन दग्धं कुसुमायुधस्य ।
व्रीडादमुं देवमुदीक्ष्य मन्ये सन्न्यस्तदेहः स्वयमेव कामः ॥ ७.६७॥
अनेन सम्बन्धमुपेत्य दिष्ट्या मनोरथप्रार्थितमीश्वरेण ।
मूर्धानमालि क्षितिधारणोच्चमुच्चैस्तरां वक्ष्यति शैलराजः ॥ ७.६८॥
इत्योषधिप्रस्थविलासिनीनां शृण्वन्कथाः श्रोत्रसुखास्त्रिनेत्रः ।
केयूरचूर्णीकृतलाजमुष्टिं हिमालयस्यालयमाससाद ॥ ७.६९॥
तत्रावतीर्याच्युतदत्तहस्तः शरद्घनाद्दीधितिमानिवोक्ष्णः ।
क्रान्तानि पूर्वं कमलासनेन कक्ष्यान्तराण्यद्रिपतेर्विवेश ॥ ७.७०॥
तमन्वगिन्द्रप्रमुखाश्च देवाः सप्तर्षिपूर्वाः परमर्षयश्च ।
गणाश्च गिर्यालयमभ्यगच्छन्प्रशस्तमारम्भमिवोत्तमार्थाः ॥ ७.७१॥
तत्रेश्वरो विष्टरभाग्यथावत्सरत्नमर्घ्यं मधुमच्च गव्यम् ।
नवे दुकूले च नगोपनीतं प्रत्यग्रहीत्सर्वममन्त्रवर्जम् ॥ ७.७२॥
दुकूलवासाः स वधूसमीपं निन्ये विनीतैरवरोधरक्षैः ।
वेलासमीपं स्फुटफेनराजिर्नवैरुदन्वानिव चन्द्रपादैः ॥ ७.७३॥
तया प्रवृद्धाननचन्द्रकान्त्या प्रफुल्लचक्षुःकुमुदः कुमार्या ।
प्रसन्नचेतःसलिलः शिवोऽभूत्संसृज्यमानः शरदेव लोकः ॥ ७.७४॥
तयोः समापत्तिषु कातराणि किञ्चिद्व्यवस्थापितसंहृतानि ।
ह्रीयन्त्रणां तत्क्षणमन्वभूवन्नन्योन्यलोलानि विलोचनानि ॥ ७.७५॥
तस्याः करं शैलगुरूपनीतं जग्राह ताम्राङ्गुलिमष्टमूर्त्तिः ।
उमातनौ गूढतनोः स्मरस्य तच्छङ्किनः पूर्वमिव प्ररोहम् ॥ ७.७६॥
रोमोद्गमः प्रादुरभूदुमायाः स्विन्नाङ्गुलिः पुङ्गवकेतुरासीत् ।
वृत्तिस्तयोः पाणिसमागमेन समं विभक्तेव मनोभवस्य ॥ ७.७७॥
प्रयुक्तपाणिग्रहणं यदन्यद्वधूवरं पुष्यति कान्तिमग्र्याम् ।
सान्निध्ययोगादनयोस्तदानीं किं कथ्यते श्रीरुभयस्य तस्य ॥ ७.७८॥
प्रदक्षिणप्रक्रमणात्कृशानोरुदर्चिषस्तन्मिथुनं चकासे ।
मेरोरुपान्तेष्विव वर्तमानमन्योन्यसंसक्तमहस्त्रियामम् ॥ ७.७९॥
तौ दम्पती त्रिः परिणीय वह्निङ्कराग्रसंस्पर्शनिमीलिताक्षीम् ।
तां कारयामास वधूं पुरोधास्तस्मिन्समिद्धार्चिषि लाजमोक्षम् ॥ ७.८०॥
सा लाजधूमाञ्जलिमिष्टगन्धं गुरूपदेशाद्वदनं निनाय ।
कपोलसंसर्पिशिखः स तस्या मुहूर्तकर्णोत्पलतां प्रपेदे ॥ ७.८१॥
तदीषदार्द्रारुणगण्डलेखमुच्छ्वासिकालाञ्जनरागमक्ष्णोः ।
वधूमुखं क्लान्तयवावतंसमाचारधूमग्रहणाद्बभूव ॥ ७.८२॥
वधूं द्विजः प्राह तवैष वत्से वह्निर्विवाहं प्रति पूर्वसाक्षी ।
शिवेन भर्त्रा सह धर्मचर्या कार्या त्वया मुक्तविचारयेति ॥ ७.८३॥
आलोचनान्तं श्रवणे वितत्य पीतं गुरोस्तद्वचनं भवान्या ।
निदाघकालोल्बणतापयेव माहेन्द्रमम्भः प्रथमं पृथिव्या ॥ ७.८४॥
ध्रुवेण भर्त्रा ध्रुवदर्शनाय प्रयुज्यमाना प्रियदर्शनेन ।
सा दृष्ट इत्याननमुन्नमय्य ह्रीसन्नकण्ठी कथमप्युवाच ॥ ७.८५॥
इत्थं विधिज्ञेन पुरोहितेन प्रयुक्तपाणिग्रहणोपचारौ ।
प्रणेमतुस्तौ पितरौ प्रजानां पद्मासनस्थाय पितामहाय ॥ ७.८६॥
वधूर्विधात्रा प्रतिनन्द्यते स्म कल्याणि वीरप्रसवा भवेति ।
वाचस्पतिः सन्नपि सोऽष्टमूर्त्तवाशास्य चिन्तास्तिमितो बभूव ॥ ७.८७॥
कॢप्तोपचारां चतुरस्रवेदीं तावेत्य पश्चाट्कनकासनस्थौ ।
जायापती लौकिकमेषितव्यमार्द्राक्षतारोपणमन्वभूताम् ॥ ७.८८॥
पत्रान्तलग्नैर्जलबिन्दुजालैराकृष्टमुक्ताफलजालशोभम् ।
तयोरुपर्यायतनालदण्डमाधत्त लक्ष्मीः कमलातपत्रम् ॥ ७.८९॥
द्विधा प्रयुक्तेन च वाङ्मयेन सरस्वती तन्मिथुनं नुनाव ।
संस्कारपूतेन वरं वरेण्यं वधूं सुखग्राह्यनिबन्धनेन ॥ ७.९०॥
तौ सन्धिषु व्यञ्जितवृत्तिभेदं रसान्तरेषु प्रतिबद्धरागम् ।
अपश्यतामप्सरसां मुहूर्तं प्रयोगमाद्यं ललिताङ्गहारम् ॥ ७.९१॥
देवास्तदन्ते हरमूढभार्यं किरीटबद्धाञ्जलयो निपत्य ।
शापावसाने प्रतिपन्नमूर्त्तेर्ययाचिरे पञ्चशरस्य सेवाम् ॥ ७.९२॥
तस्यानुमेने भगवान्विमन्युर्व्यापारमात्मन्यपि सायकानाम् ।
काले प्रयुक्ता खलु कार्यविद्भिर्विज्णापना भर्तृषु सिद्धिमेति ॥ ७.९३॥
अथ विबुधगणांस्तानिन्दुमौलिर्विसृज्य क्षितिधरपतिकन्यामाददानः करेण ।
कनककलशरक्षाभक्तिशोभासनाथं क्षितिविरचितशय्यं कौतुकागारमागात् ॥ ७.९४॥
नवपरिणयलज्जाभूषणां तत्र गौरीं वदनमपहरन्तीं तत्कृतोत्क्षेपमीशः ।
अपि शयनसखीभ्यो दत्तवाचं कथञ्चित्प्रमथमुखविकारैर्हासयामास गूढम् ॥ ७.९५॥
इति श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये
उमापरिणयो नाम सप्तमः सर्गः सम्पूर्णः ॥ ७॥
सर्गः ८ - उमासुरतवर्णनं
पाणिपीडनविधेरनन्तरं शैलराजदुहितुर्हरं प्रति ।
भावसाध्वसपरिग्रहादभूत्कामदोहदमनोहरं वपुः ॥ ८.१॥
व्याहृता प्रतिवचो न सन्दधे गन्तुमैच्छदवलम्बितांशुका ।
सेवते स्म शयनं पराङ्मुखी सा तथापि रतये पिनाकिनः ॥ ८.२॥
कैतवेन शयिते कुतूहलात्पार्वती प्रतिमुखं निपातितम् ।
चक्षुरुन्मिषति सस्मितं प्रिये विद्युदाहतमिव न्यमीलयत् ॥ ८.३॥
नाभिदेशनिहितः सकम्पया शङ्करस्य रुरुधे तया करः ।
तद्दुकूलमथ चाभवत्स्वयं दूरमुच्छ्वसितनीविबन्धनम् ॥ ८.४॥
एवमालि निगृहीतसाध्वसं शङ्करो रहसि सेव्यतामिति ।
सा सखीभिरुपदिष्टमाकुला नास्मरत्प्रमुखवर्तिनि प्रिये ॥ ८.५॥
अप्यवस्तुनि कथाप्रवृत्तये प्रश्नतत्परमनङ्गशासनम् ।
वीक्षितेन परिगृह्य पार्वती मूर्धकम्पमयमुत्तरं ददौ ॥ ८.६॥
शूलिनः करतलद्वयेन सा सन्निरुध्य नयने हृतांशुका ।
तस्य पश्यति ललाटलोचने मोघयत्नविधुरा रहस्यभूत् ॥ ८.७॥
चुम्बनेष्वधरदानवर्जितं सन्नहस्तमदयोपगूहने ।
क्लिष्टमन्मथमपि प्रियं प्रभोर्दुर्लभप्रतिकृतं वधूरतम् ॥ ८.८॥
यन्मुखग्रहणमक्षताधरं दत्तमव्रणपदं नखं च यत् ।
यद्रतं च सदयं प्रियस्य तत्पार्वती विषहते स्म नेतरत् ॥ ८.९॥
रात्रिवृत्तमनुयोक्तुमुद्यतं सा विभातसमये सखीजनम् ।
नाकरोदपकुतूहलं ह्रिया शंसितुं च हृदयेन तत्वरे ॥ ८.१०॥
दर्पणे च परिभोगदर्शिनी पृष्ठतः प्रणयिनो निषेदुषः ।
प्रेक्ष्य बिम्बमनु बिम्बमात्मनः कानि कानि न चकार लज्जया ॥ ८.११॥
नीलकण्ठपरिभुक्तयौवनां तां विलोक्य जननी समाश्वसत् ।
भर्तृवल्लभतया हि मानसीं मातुरस्यति शुचं वधूजनः ॥ ८.१२॥
वासराणि कतिचित्कथञ्चन स्थाणुना रतमकारि चानया ।
ज्ञातमन्मथरसा शनैः शनैः सा मुमोच रतिदुःखशीलताम् ॥ ८.१३॥
सस्वजे प्रियमुरोनिपीडिता प्रार्थितं मुखमनेन नाहरत् ।
मेखलापणयलोलतां गतं हस्तमस्य शिथिलं रुरोध सा ॥ ८.१४॥
भावसूचितमदृष्टविप्रियं चाटुमत्क्षणवियोगकातरम् ।
कैश्चिदेव दिवसैस्तदा तयोः प्रेम रूढमितरेतराश्रयम् ॥ ८.१५॥
तं यथात्मसदृशं वरं वधूरन्वरज्यत वरस्तथैव ताम् ।
सागरादनपगा हि जाह्नवी सोऽपि तन्मुखरसैकनिर्वृतिः ॥ ८.१६॥
शिष्यतां निधुवनोपदेशिनः शङ्करस्य रहसि प्रपन्नया ।
शिक्षितं युवतिनैपुणं तया यत्तदेव गुरुदक्षिणीकृतम् ॥ ८.१७॥
दष्टमुक्तमधरोष्ठमाम्बिका वेदनाविधुतहस्तपल्लवा ।
शीतलेन निरवापयत्क्षणं मौलिचन्द्रशकलेन शूलिनः ॥ ८.१८॥
चुम्बनादलकचूर्णदूषितं शङ्करोऽपि नयनं ललाटजम् ।
उच्छ्वसत्कमलगन्धये ददौ पार्वतीवदनगन्धवाहिने ॥ ८.१९॥
एवमिन्द्रियसुखस्य वर्त्मनः सेवनादनुगृहीतमन्मथः ।
शैलराजभवने सहोमया मासमात्रमवसद्वृषध्वजः ॥ ८.२०॥
सोऽनुमान्य हिमवन्तमात्मभूरात्मजाविरहदुःखखेदितम् ।
तत्र तत्र विजहार सम्पतन्नप्रमेयगतिना ककुद्मता ॥ ८.२१॥
मेरुमेत्य मरुदाशुगोक्षकः पार्वतीस्तनपुरस्कृतान्कृती ।
हेमपल्लवविभङ्गसंस्तरानन्वभूत्सुरतमर्दनक्षमान् ॥ ८.२२॥
पद्मनाभचरणाङ्किताश्मसु प्राप्तवत्स्वमृतविप्रुषो नवाः ।
मन्दरस्य कटकेषु चावसप्तार्वतीवदनपद्मषट्पदः ॥ ८.२३॥
वारणध्वनितभीतया तया कण्ठसक्तघनबाहुबन्धनः ।
एकपिङ्गलगिरौ जगद्गुरुर्निर्विवेश विशदाः शशिप्रभाः ॥ ८.२४॥
तस्य जातु मलयस्थलीरते धूतचन्दनलतः प्रियाक्लमम् ।
आचचाम सलवङ्गकेसरश्चाटुकार इव दक्षिणानिलः ॥ ८.२५॥
हेमतामरसताडितप्रिया तत्कराम्बुविनिमीलितेक्षणा ।
खे व्यगाहत तरङ्गिणीमुमा मीनपङ्क्तिपुनरुक्तमेखला ॥ ८.२६॥
तां पुलोमतनयालकोचितैः पारिजातकुसुमैः प्रसाधयन् ।
नन्दने चिरमयुग्मलोचनः सस्पृहं सुरवधूभिरीक्षितः ॥ ८.२७॥
इत्यभौममनुभूय शङ्करः पार्थिवं च दयितासखः सुखम् ।
लोहितायति कदाचिदातपे गन्धमादनगिरिं व्यगाहत ॥ ८.२८॥
तत्र काञ्चनशिलातलाश्रयो नेत्रगम्यमवलोक्य भास्करम् ।
दक्षिणेतरभुजव्यपाश्रयां व्याजहार सहधर्मचारिणीम् ॥ ८.२९॥
पद्मकान्तिमरुणत्रिभागयोः सङ्क्रमय्य तव नेत्रयोरिव ।
सङ्क्षये जगदिव प्रजेश्वरः संहरत्यहरसावहर्पतिः ॥ ८.३०॥
सीकरव्यतिकरं मरीचिभिर्दूरयत्यवनते विवस्वति ।
इन्द्रचापपरिवेषशून्यतां निर्झरास्तव पितुर्व्रजन्त्यमी ॥ ८.३१॥
दष्टतामरसकेसरस्रजोः क्रन्दतोर्विपरिवृत्तकण्ठयोः ।
निघ्नयोः सरसि चक्रवाकयोरल्पमन्तरमनल्पतां गतम् ॥ ८.३२॥
स्थानमाह्निकमपास्य दन्तिनः सल्लकीविटपभङ्गवासितम् ।
आविभातचरणाय गृह्णाते वारि वारिरुहबद्धषट्पदम् ॥ ८.३३॥
पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे विवस्वता ।
दीर्घया प्रतिमया सरोऽम्भसां तापनीयमिव सेतुबन्धनम् ॥ ८.३४॥
उत्तरन्ति विनिकीर्य पल्वलं गाढपङ्क्तमतिवाहितातपाः ।
दंष्ट्रिणो वनवराहयूथपा दष्टभङ्गुरबिसाङ्कुरा इव ॥ ८.३५॥
एष वृक्षशिखरे कृतास्पदो जातरूपरसगौरमण्डलः ।
हीयमानमहरत्ययातपं पीवरोरु पिबतीव बर्हिणः ॥ ८.३६॥
पूर्वभागतिमिरप्रवृत्तिभिर्व्यक्तपङ्कमिव जातमेकतः ।
खं हृतातपजलं विवस्वता भाति किञ्चिदिव शेषवत्सरः ॥ ८.३७॥
आविशद्भिरुटजाङ्गणं मृगैर्मूलसेकसरसैश्च वृक्षकैः ।
आश्रमाः प्रविशदग्निधेनवो बिभ्रति श्रियमुदीरिताग्नयः ॥ ८.३८॥
बद्धकोशमपि तिष्ठति क्षणं सावशेषविवरं कुशेशयम् ।
षट्पदाय वसतिं ग्रहीष्यते प्रीतिपूर्वमिव दातुमन्तरम् ॥ ८.३९॥
दूरमग्रपरिमेयरश्मिना वारुणी दिगरुणेन भानुना ।
भाति केसरवतेव मण्डिता बन्धुजीवतिलकेन कन्यका ॥ ८.४०॥
सामभिः सहचराः सहस्रशः स्यन्दनाश्वहृदयङ्गमस्वरैः ।
भानुमग्निपरिकीर्णतेजसं संस्तुवन्ति किरणोष्मपायिनः ॥ ८.४१॥
सोऽयमानतशिरोधरैर्हयैः कर्णचामरविघट्टितेक्षणैः ।
अस्तमेति युगभुग्नकेसरैः सन्निधाय दिवसं महोदधौ ॥ ८.४२॥
खं प्रसुप्तमिव संस्थिते रवौ तेजसो महत ईदृशी गतिः ।
तत्प्रकाशयति यावदुद्गतं मीलनाय खलु तावतश्च्युतम् ॥ ८.४३॥
सन्ध्ययाप्यनुगतं रवेर्वपुर्वन्द्यमस्तशिखरे समर्पितम् ।
येन पूर्वमुदये पुरस्कृता नानुयास्यति कथं तमापदि ॥ ८.४४॥
रक्तपीतकपिशाः पयोमुचां कोटयः कुटिलकेशि भान्त्यमूः ।
द्रक्ष्यसि त्वमिति सन्ध्ययानया वर्तिकाभिरिव साधुमण्डिताः ॥ ८.४५॥
सिंहकेसरसटासु भूभृतां पल्लवप्रसविषु द्रुमेषु च ।
पश्य धातुशिखरेषु भानुना संविभक्तमिव सान्ध्यमातपम् ॥ ८.४६॥
अद्रिराजतनये तपस्विनः पावनाम्बुविहिताञ्जलिक्रियाः ।
ब्रह्म गूढमभिसन्ध्यमादृताः शुद्धये विधिविदो गृणन्त्यमी ॥ ८.४७॥
तन्मुहूर्त्तमनुमन्तुमर्हसि प्रस्तुताय नियमाय मामपि ।
त्वां विनोदनिपुणः सखीजनो वल्गुवादिनि विनोदयिष्यति ॥ ८.४८॥
निर्विभुज्य दशनच्छदं ततो वाचि भर्तुरवधीरणापरा ।
शैलराजतनया समीपगामाललाप विजयामहेतुकम् ॥ ८.४९॥
ईश्वरोऽपि दिवसात्ययोचितं मन्त्रपूर्वमनुतस्थिवान्विधिम् ।
पार्वतीमवचनामसूयया प्रत्युपेत्य पुनराह सस्मितम् ॥ ८.५०॥
मुञ्च कोपमनिमित्तकोपने सन्ध्यया प्रणमितोऽस्मि नान्यया ।
किं न वेत्सि सहधर्मचारिणं चक्रवाकसमवृत्तिमात्मनः ॥ ८.५१॥
निर्मितेषु पितृषु स्वयम्भुवा या तनुः सुतनु पूर्वमुज्झिता ।
सेयमस्तमुदयं च सेवते तेन मानिनि ममात्र गौरवम् ॥ ८.५२॥
तामिमां तिमिरवृद्धिपीडितां शैलराजतनयेऽधुना स्थिताम् ।
एकतस्तटतमालमालिनीं पश्य धातुरसनिम्नगामिव ॥ ८.५३॥
सान्ध्यमस्तमितशेषमातपं रक्तलेखमपरा बिभर्ति दिक् ।
साम्परायवसुधा सशोणितं मण्डलाग्रमिव तिर्यगुज्झितम् ॥ ८.५४॥
यामिनीदिवससन्धिसम्भवे तेजसि व्यवहिते सुमेरुणा ।
एतदन्धतमसं निरङ्कुशं दिक्षु दीर्घनयने विजृम्भते ॥ ८.५५॥
नोर्ध्वमीक्षणगतिर्न चाप्यधो नाभितो न पुरतो न पृष्ठतः ।
लोक एष तिमिरौघवेष्टितो गर्भवास इव वर्तते निशि ॥ ८.५६॥
शुद्धमाविलमवस्थितं चलं वक्रमार्जवगुणान्वितं च यत् ।
सर्वमेव तमसा समीकृतं धिङ्महत्त्वमसतां हृतान्तरम् ॥ ८.५७॥
नूनमुन्नमति यज्वनां पतिः शार्वरस्य तमसो निषिद्धये ।
पुण्डरीकमुखि पूर्वदिङ्मुखं कैतकैरिव रजोभिरावृतम् ॥ ८.५८॥
मन्दरान्तरितमूर्तिना निशा लक्ष्यते शशभृता सतारका ।
त्वं मया प्रियसखीसमागता श्रोष्यतेव वचनानि पृष्ठतः ॥ ८.५९॥
रुद्धनिर्गमनमा दिनक्षयात्पूर्वदृष्टतनुचन्द्रिकास्मितम् ।
एतदुद्गिरति चन्द्रमण्डलं दिग्रहस्यमिव रात्रिचोदितम् ॥ ८.६०॥
पश्य पक्वफलिनीफलत्विषा बिम्बलाञ्छितवियत्सरोऽम्भसा ।
विप्रकृष्टविवरं हिमांशुना चक्रवाकमिथुनं विडम्ब्यते ॥ ८.६१॥
शक्यमोषधिपतेर्नवोदयाः कर्णपूररचनाकृते तव ।
अप्रगल्भयवसूचिकोमलाश्छेत्तुमग्रनखसम्पुटैः कराः ॥ ८.६२॥
अङ्गुलीभिरिव केशसञ्चयं सन्निगृह्य तिमिरं मरीचिभिः ।
कुड्मलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥ ८.६३॥
पश्य पार्वति नवेन्दुरश्मिभिः सामिभिन्नतिमिरं नभस्तलम् ।
लक्ष्यते द्विरदभोगदूषितं सम्प्रसीददिव मानसं सरः ॥ ८.६४॥
रक्तभावमपहाय चन्द्रमा जात एष परिशुद्धमण्डलः ।
विक्रिया न खलु कालदोषजा निर्मलप्रकृतिषु स्थिरोदया ॥ ८.६५॥
उन्नतेषु शशिनः प्रभा स्थिता निम्नसंश्रयपरं निशातमः ।
नूनमात्मसदृशी प्रकल्पिता वेधसेह गुणदोषयोर्गतिः ॥ ८.६६॥
चन्द्रपादजनितप्रवृत्तिभिश्चन्द्रकान्तजलबिन्दुभिर्गिरिः ।
मेखलातरुषु निद्रितानमून्बोधयत्यसमये शिखण्डिनः ॥ ८.६७॥
कल्पवृक्षशिखरेषु सम्प्रति प्रस्फुरद्भिरिव पश्य सुन्दरि ।
हारयष्टिगणनामिवांशुभिः कर्तुमागतकुतूहलः शशी ॥ ८.६८॥
उन्नतावनतभाववत्तया चन्द्रिका सतिमिरा गिरेरियम् ।
भक्तिभिर्बहुविधाभिरर्पिता भाति भूतिरिव मत्तदन्तिनः ॥ ८.६९॥
एतदुच्छ्वसितपीतमैन्दवं वोढुमक्षममिव प्रभारसम् ।
मुक्तषट्पदविरावमञ्जसा भिद्यते कुमुदमा निबन्धनात् ॥ ८.७०॥
पश्य कल्पतरुलम्बि शुद्धया ज्योत्स्नया जनितरूपसंशयम् ।
मारुते चलति चण्डि केवलं व्यज्यते विपरिवृत्तमंशुकम् ॥ ८.७१॥
शक्यमङ्गुलिभिरुद्धृतैरधः शाखिनां पतितपुष्पपेशलैः ।
पत्रजर्जरशशिप्रभालवैरेभिरुत्कचयितुं तवालकान् ॥ ८.७२॥
एष चारुमुखि योगतारया युज्यते तरलबिम्बया शशी ।
साध्वसादुपगतप्रकम्पया कन्ययेव नवदीक्षया वरः ॥ ८.७३॥
पाकभिन्नशरकाण्डगौरयोरुल्लसप्त्रतिकृतिप्रसन्नयोः ।
रोहतीव तव गण्डलेखयोश्चन्द्रबिम्बनिहिताक्ष्णि चन्द्रिका ॥ ८.७४॥
लोहितार्कमणिभाजनार्पितं कल्पवृक्षमधु बिभ्रती स्वयम् ।
त्वामियं स्थितिमतीमुपस्थिता गन्धमादनवनाधिदेवता ॥ ८.७५॥
आर्द्रकेसरसुगन्धि ते मुखं मत्तरक्तनयनं स्वभावतः ।
अत्र लब्धवसतिर्गुणान्तरं किं विलासिनि मदः करिष्यति ॥ ८.७६॥
मान्यभक्तिरथवा सखीजनः सेव्यतामिदमनङ्गदीपनम् ।
इत्युदारमभिधाय शङ्करस्तामपाययत पानमम्बिकाम् ॥ ८.७७॥
पार्वती तदुपयोगसम्भवां विक्रियामपि सतां मनोहराम् ।
अप्रतर्क्यविधियोगनिर्मितामाम्रतेव सहकारतां ययौ ॥ ८.७८॥
तत्क्षणं विपरिवर्तितह्रियोर्नेष्यतोः शयनमिद्धरागयोः ।
सा बभूव वशवर्तिनी द्वयोः शूलिनः सुवदना मदस्य च ॥ ८.७९॥
घूर्णमाननयनं स्खलत्कथं स्वेदिबिन्दुमदकारणस्मितम् ।
आननेन न तु तावदीश्वरश्चक्षुषा चिरमुमामुखं पपौ ॥ ८.८०॥
तां विलम्बितपनीयमेखलामुद्वहञ्जघनभारदुर्वहाम् ।
ध्यानसम्भृतविभूतिरीश्वरः प्राविशन्मणिशिलागृहं रहः ॥ ८.८१॥
तत्र हंसधवलोत्तरच्छदं जाह्नवीपुलिनचारुदर्शनम् ।
अध्यशेत शयनं प्रियासखः शारदाभ्रमिव रोहिणीपतिः ॥ ८.८२॥
क्लिष्टकेशमवलुप्तचन्दनं व्यत्ययार्पितनखं समत्सरम् ।
तस्य तच्छिदुरमेखलागुणं पार्वतीरतमभून्न तृप्तये ॥ ८.८३॥
केवलं प्रियतमादयालुना ज्योतिषामवनतासु पङ्क्तिषु ।
तेन तत्परिगृहीतवक्षसा नेत्रमीलनकुतूहलं कृतम् ॥ ८.८४॥
स व्यबुध्यत बुधस्तवोचितः शतकुम्भकमलाकरैः समम् ।
मूर्च्छनापरिगृहीतकैशिकैः किन्नरैरुषसि गीतमङ्गलः ॥ ८.८५॥
तौ क्षणं शिथिलितोपगूहनौ दम्पती चलितमानसोर्मयः ।
पद्मभेदपिशुनाः सिषेविरे गन्धमादनवनान्तमारुताः ॥ ८.८६॥
ऊरुमूलनखमार्गराजिभिस्तत्क्षणं हृतविलोचनो हरः ।
वाससः प्रशिथिलस्य संयमं कुर्वतीं प्रियतमामवारयत् ॥ ८.८७॥
स प्रजागरकषायलोचनं गाढदन्तपदताडिताधरम् ।
आकुलालकमरंस्त रागवान्प्रेक्ष्य भिन्नतिलकं प्रियामुखम् ॥ ८.८८॥
तेन भङ्गिविषमोत्तरच्छदं मध्यपिण्डितविसूत्रमेखलम् ।
निर्मलेऽपि शयनं निशात्यये नोज्झितं चरणरागलाञ्छितम् ॥ ८.८९॥
स प्रियामुखरसं दिवानिशं हर्षवृद्धिजननं सिषेविषुः ।
दर्शनप्रणयिनामदृश्यतामाजगाम विजयानिवेदनात् ॥ ८.९०॥
समदिवसनिशीथं सङ्गिनस्तत्र शम्भोः
शतमगमदृतूनां साग्रमेका निशेव ।
न तु सुरतसुखेषु छिन्नतृष्णो बभूव
ज्वलन इव समुद्रान्तर्गतस्तज्जलेषु ॥ ८.९१॥
इति श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये
उमासुरतवर्णनं नामाष्टमः सर्गः सम्पूर्णः ॥ ८॥
सर्गः ९ - कैलासगमनं
तथाविधेऽनङ्गरसप्रसङ्गे
मुखारविन्दे मधुपः प्रियायाः ।
सम्भोगवेश्म प्रविशन्तमन्त-
र्ददर्श पारावतमेकमीशः ॥ ९.१॥
सुकान्तकान्तामणितानुकारं
कूजन्तमाधूर्णितरक्तनेत्रम् ।
प्रस्फारितोन्नम्रविनम्रकण्ठं
मुहुर्मुहुर्न्यञ्चितचारुपुच्छम् ॥ ९.२॥
विशृङ्खलं पक्षतियुग्ममीषद्-
दधानमानन्दगतिं मदेन ।
शुभ्रांशुवर्ण जटिलाग्रपाद-
मितस्ततो मण्डलकैश्चरन्तम् ॥ ९.३॥
रतिद्वितीयेन मनोभवेन
ह्रदयात्सुधाया प्रविगाह्यमानात् ।
तं वीक्ष्य फेनस्य चयं नवोत्थ-
मिवाभ्यनन्दत्क्षणमिन्दुमौलिः ॥ ९.४॥
तस्याकृतिं कामपि वीक्ष्य
दिव्यामन्तर्भवश्छद्यविहङ्गमग्निम् ।
विचिन्तयन्संविविदे स देवो
भ्रूभङ्गभीमश्च रुषा बभूव ॥ ९.५॥
स्वरुपमास्थाय ततो हुताश-
स्त्रसन्वलत्कम्प कृताञ्जलिः सन् ।
प्रवेपमानो नितरां स्मरारिमिदं
वचो व्यक्तमथाध्युवाच ॥ ९.६॥
असि त्वमेको जगतामधीशः
स्वर्गौकसां त्वं विपदो निहंसि ।
ततः सुरेन्द्रप्रमुखाः प्रभो त्वा-
मुपासते दैत्यवरैर्विधूताः ॥ ९.७॥
त्वया प्रियाप्रेमवशंवदेन
शतं व्यतीये सुरतादृतूनाम् ।
रहः स्थितेन त्वदवीक्षणार्तो
दैन्यं परं प्राप सुरैः सुरेन्द्रः ॥ ९.८॥
त्वदीयसेवावसरप्रतीक्षै-
रभ्यर्थितः शक्रमुखैः सुरैस्त्वाम् ।
उपागतोऽन्वेष्टुमहं विहङ्ग-
रुपेण विद्वन्समयोचितेन ॥ ९.९॥
इति प्रभो चेतसि सम्प्रधार्य
तन्नोऽपराधं भगवन् क्षमस्व ।
पराभिभूता वद किं क्षमन्ते
कालातिपातं शरणार्थिनोऽमी ॥ ९.१०॥
प्रभो प्रसीदाशु सृजात्मपुत्रं
यं प्राप्य सेनान्यमसौ सुरेन्द्रः ।
स्वर्लोकलक्ष्मीप्रभुतामवाप्य
जगत्त्रयं पाति तव प्रसादात् ॥ ९.११॥
स शङ्करस्तामिति जातवेदो
विज्ञापनामर्थवतीं निशम्य ।
अभूत्प्रसन्नः परितोषयन्ति
गीर्भिर्गिरिशा रुचिराभिरीशम् ॥ ९.१२॥
प्रसन्नचेता मदनान्तकारः
स तारकारेर्जयिनो भवाय ।
शक्रस्य सेनाधिपतेर्जयाय
व्यचिन्तयच्चेतसि भावि किञ्चित् ॥ ९.१३॥
युगान्तकालाग्निमिवाविषह्यं
परिच्युतं मन्मथरङ्गभङ्गात् ।
रतान्तरेतः स हिरण्यरेत-
स्यथोर्ध्वरेतास्तदमोघमाधात् ॥ ९.१४॥
अथोष्णबाष्पानिलदूषितान्तं
विशुद्धमादर्शमिवात्मदेहम् ।
बभार भूम्ना सहसा पुरारि-
रेतः परिक्षेपकुवर्णमग्निः ॥ ९.१५॥
त्वं सर्वभक्षो भव भीमकर्मा
कुष्ठाभिभूतोऽनल धूमगर्भः ।
इत्थं शशापाद्रिसुता हुताशं
रुष्टा रतानन्दसुखस्य भङ्गात् ॥ ९.१६॥
दक्षस्य शापेन शशी क्षयीव
प्लुष्टो हिमेनेव सरोजकोशः ।
वहन्विरुपं वपुरुग्ररेत-
श्चयेन वह्निः किल निर्जगाम ॥ ९.१७॥
स पावकालोकरुषा विलक्षां
स्मरत्रपास्मेरविनम्रवक्त्राम् ।
विनोदयामास गिरीन्द्रपुत्रीं
श्रृङ्गारगर्भैर्मधुरैर्वचोभिः ॥ ९.१८॥
हरो विकीर्णं घनघर्मतोयै
र्नेत्राञ्जनाङ्कं हृदयप्रियायाः ।
द्वितीयकौपीनचलाञ्चलेना
हरन्मुखेन्दोरकलङ्किनोऽस्याः ॥ ९.१९॥
मन्देन खिन्नाङ्गुलिना करेण
कम्प्रेण तस्या वदनारविन्दात् ।
परामृशन्घर्मजलं जहार
हरः सहेलं व्यजनानिलेन ॥ ९.२०॥
रतिश्लथं तत्कबरीकलाप-
मंसावसक्तं विगलत्प्रसूनम् ।
स पारिजातोद्भवपुष्पमय्या
स्त्रजा बबन्धामृतमूर्तिमौलिः ॥ ९.२१॥
कपोलपाल्यां मृगनाभिचित्र
पत्ररावलीमिन्दुमुखः सुमुख्याः ।
स्मरस्य सिद्धस्य जगद्विमोह
मन्त्राक्षरश्रेणिमिवोल्लिलेख ॥ ९.२२॥
रथस्य कर्णावभि तन्मुखस्य
ताटङ्कचक्रद्वितयं न्यधात्सः ।
जगज्जिगीषुर्विषमेषुरेष
ध्रुवं यमारोहति पुष्पचापः ॥ ९.२३॥
तस्याः स कण्ठे पिहितस्तनाग्रां
न्यधत्त मुक्ताफलहारवल्लीम् ।
या प्राप मेरुद्वितयस्य मूर्ध्नि
स्थितस्य गाङ्गौघयुगस्य लक्ष्मीम् ॥ ९.२४॥
नखव्रणश्रेणिवरे बबन्ध
नितम्बबिम्बे रशनाकलापम् ।
चलस्वचेतोमृगबन्धनाय
मनोभुवः पाशमिव स्मरारिः ॥ ९.२५॥
भालेक्षणाग्नौ स्वयमञ्जनं स
भङ्क्त्वा दृशोः साधु निवेश्य तस्याः ।
नवोत्पलाक्ष्याः पुलकोपगूढे
कण्ठे विनीलेऽङ्गुलिमुज्जघर्ष ॥ ९.२६॥
अलक्तकं पादसरोरुहाग्रे
सरोरुहाक्ष्याः किल सन्निवेश्य ।
स्वमौलिगङ्गासलिलेन हस्ता
रुणत्वमक्षालयदिन्दुचूडः ॥ ९.२७॥
भस्मानुलिप्ते वपुषि स्वकीये
सहेलमादर्शतलं विमृज्य ।
नेपथ्यलक्ष्म्याः परिभावनार्थ
मदर्शयज्जीवितवल्लभां सः ॥ ९.२८॥
प्रियेण दत्ते मणिदर्पणे सा
सम्भोगचिह्नं स्ववपुर्विभाव्य ।
त्रपावती तत्र घनानुरागं
रोमाञ्चदम्भेन बहिर्बभार ॥ ९.२९॥
नेपथ्यलक्ष्मीं दयितोपक्लृप्तां
सस्मेरमादर्शतले विलोक्य ।
अमंस्त सौभाग्यवतीषु धुर्य
मात्मानमुद्धूतविलक्षभावा ॥ ९.३०॥
अन्तः प्रविश्यावसरेऽथ तत्र
स्निग्धे वयस्ये विजया जया च ।
सुसम्पदोपाचरतां कलाना
मङ्के स्थितां तां शशिखण्डमौलेः ॥ ९.३१॥
व्यधुर्बहिर्मङ्गलगानमुच्चै
र्वैतालिकाश्चित्रचरित्रचारु ।
जगुश्च गन्धर्वगणाः सशङ्ख
स्वनं प्रमोदाय पिनाकपाणेः ॥ ९.३२॥
ततः स्वसेवावसरे सुराणां
गणांस्तदालोकनतत्पराणाम् ।
द्वारि प्रविश्य प्रणतोऽथ नन्दी
निवेदयामास कृताञ्जलिः सन् ॥ ९.३३॥
महेश्वरो मानसराजहंसीं
करे दधानस्तनयां हिमाद्रेः ।
सम्भोगलीलालयतः सहेलं
हरो बहिस्तानभि निर्जगाम ॥ ९.३४॥
क्रमान्महेन्द्रप्रमुखाः प्रणेमुः
शिरोनिबद्धाञ्जलयो महेशम् ।
प्रालेयशैलाधिपतेस्तनूजां
देवीं च लोकत्रयमातरं ते ॥ ९.३५॥
यथागतं तान्विबुधान्विसृज्य
प्रसाद्य मानक्रियया प्रतस्थे ।
स नन्दिना दत्तभुजोऽधिरुह्य
वृषं वृषाङ्कः सह शैलपुत्र्या ॥ ९.३६॥
मनोतिवेगेन ककुद्मता स
प्रतिष्ठमानो गगनाध्वनोऽन्तः ।
वैमानिकैः साञ्जलिभिर्ववन्दे
विहारहेलागतिभिर्गिरीशः ॥ ९.३७॥
स्वर्वाहिनीवारिविहारचारी
रतान्तनारीश्रमशान्तिकारी ।
तौ पारिजातप्रसवप्रसङ्गो
मरुत्सिषेवे गिरीजागिरीशौ ॥ ९.३८॥
पिनाकिनापि स्फटिकाचलेन्द्रः
कैलासनामा कलिताम्बरांशः ।
धृतार्धसोमोऽद्भुतभोगिभोगो
विभूतिधारी स्व इव प्रपेदे ॥ ९.३९॥
विलोक्य यत्र स्फटिकरय भित्तौ
सिद्धाङ्गनाः स्वं प्रतिबिम्बमारात् ।
भ्रान्त्या परस्या विमुखीभवन्ति
प्रियेषु मानग्रहिला नमत्सु ॥ ९.४०॥
सुबिम्बितस्य स्फटिकांशुगुप्ते
श्चन्द्रस्य चिह्नप्रकरः करोति ।
गौर्यार्पितस्येव रसेन यत्र
कस्तूरिकायाः शकलस्य लीलाम् ॥ ९.४१॥
यदीयभित्तौ प्रतिबिम्बिताङ्ग
मात्मानमालोक्य रुषा करीन्द्राः ।
मत्तान्यकुम्भिभ्रमतोऽतिभीम
दन्ताभिघातव्यसनं वहन्ति ॥ ९.४२॥
निशासु यत्र प्रतिबिम्बितानि
ताराकुलानि स्फटिकालयेषु ।
दृष्ट्वा रतान्तच्युततारहार
युक्ताभ्रमं बिभ्रति सिद्धवध्वः ॥ ९.४३॥
नभश्चरीमण्डनर्दपणश्रीः
सुधानिधिर्मूर्धनि यस्य तिष्ठन् ।
अनर्ध्यचूडामणितामुपैति
शैलाधिनाथस्य शिवालयस्य ॥ ९.४४॥
समीयिवांसो रहसि स्मरार्ता
रिरंसवो यत्र सुराः प्रियाभिः ।
एकाकिनोऽपि प्रतिबिम्बभाजो
विभान्ति भूयोभिरिवान्विताः स्वैः ॥ ९.४५॥
देवोऽपि गौर्या सह चन्द्रमौलि
र्यदृच्छया स्फाटिकशैलश्रृङ्गे ।
श्रृङ्गारचेष्टाभिरनारताभि
र्मनोहराभिर्व्यहरच्चिराय ॥ ९.४६॥
देवस्य तस्य स्मरसूदनस्य
हस्तं समालिङ्ग्य सुविभ्रमश्रीः ।
सा नन्दिना वेत्रभृतोपदिष्ट
मार्गा पुरोगेण कलं चचाल ॥ ९.४७॥
चलच्छिखाग्रो विकटाङ्गभङ्गः
सुदन्तुरः शुक्लसुतीक्ष्णतुण्डः ।
भ्रुवोपदिष्टः स तु शङ्करेण
तस्या विनोदाय ननर्त भृङ्गी ॥ ९.४८॥
कण्ठस्थलीलोलकपालमाला
दंष्ट्राकरालाननमभ्यनृत्यत् ।
प्रीतेन तेन प्रभुणा नियुक्ता
काली कलत्रस्य मुदे प्रियस्य ॥ ९.४९॥
भयङ्करौ तौ विकटं नदन्तौ
विलोक्य बाला भयविह्वलाङ्गी ।
सरागमुत्सङ्गमनङ्गशत्रो
र्गाढं प्रसह्य स्वयमालिलिङ्ग ॥ ९.५०॥
उत्तुङ्गपीनस्तनपिण्डपीडं
ससम्भ्रमं तत्परिरम्भमीशः ।
प्रपद्य सद्य पुलकोपगूढः
स्मरेण रुढप्रमदो ममाद ॥ ९.५१॥
इति गिरितनुजाविलासलीला
विविधविभङ्गिभिरेष तोषितः सन् ।
अमृतकरशिरोमणिर्गिरीन्द्रे
कृतवसतिर्वशिभिर्गणैर्ननन्द ॥ ९.५२॥
इति श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये
कैलासगमनं नाम नवमः सर्गः सम्पूर्णः ॥ ९॥
सर्गः १० - कुमारोत्पत्तिः
आससाद सुनासीरं सदसि त्रिदशैः सह ।
एष त्रैयम्बकं तीव्रं वहन्वह्निमंहन्महः ॥ १०.१॥
सहस्रेण दृशामीशो कुत्सिताङ्गं च सादरम् ।
दुर्दर्शनं ददर्शाग्निं धूम्रधूमितमण्डलम् ॥ १०.२॥
दृष्ट्वा तथाविधं वह्निमिन्द्रः क्षुब्धेन चेतसा ।
व्यचिन्तयच्चिरं किञ्चित्कन्दर्पद्वेषिरोषजम् ॥ १०.३॥
स विलक्ष्यमुखैर्देवैर्वीक्ष्यमाणः क्षणं क्षणम् ।
उपाविशत्सुरेन्द्रेणादिष्टं सादरमासनम् ॥ १०.४॥
हव्यवाह ! त्वयासादि दुर्दशेयं दशा कुतः ।
इति पृष्टः सुरेन्द्रेण स निःश्वस्य वचोऽवदत् ॥ १०.५॥
अनतिक्रमणीयात्ते शासनात्सुरनायक ।
पारावत वपुः प्राप्य वेपमानोऽतिसाध्वसात् ॥ १०.६॥
अभिगौरि रतासक्तं जगामाहं महेश्वरम् ।
कालस्येव स्मरारातेः स्वं रुपमहमासदम् ॥ १०.७॥
दृष्ट्वा छद्मविहङ्गं मां सुज्ञो विज्ञाय जम्भभित् ।
ज्वलद्भालानले होतुं कोपनो माममन्यत ॥ १०.८॥
वचोभिर्मधुरैः सार्थैर्वनम्रेण मया स्तुतः ।
प्रीतिमानभवद्देवः स्तोत्रं कस्य न तुष्टये ॥ १०.९॥
शरण्यः सकलत्राता मामत्रायत शङ्करः ।
क्रोधाग्नेर्ज्वलतो ग्रासात्र्त्रासतो दुर्निवारतः ॥ १०.१०॥
परिहृत्य परीरम्भरभसं दुहितुर्गिरेः ।
कामकेलिरसोत्सेकाद् व्रीडया विरराम सः ॥ १०.११॥
रङ्गभङ्गच्युतं रेतस्तदामोघं सुदुर्वहम् ।
त्रिजगद्दाहकं सद्यो मद्विग्रहमधि न्यधात् ॥ १०.१२॥
दुर्विषह्येण तेनाहं तेजसा दहनात्मना ।
निर्दग्धमात्मनो देहं दुर्वहं वोढुमक्षमः ॥ १०.१३॥
रौद्रेण दह्यमानस्य महसातिमहीयसा ।
मम प्राणपरित्राणप्रगुणो भव वासव ! ॥ १०.१४॥
इति श्रुत्वा वचो बह्नेः परितापोपशान्तये ।
हेतुं विचिन्तयामास मनसा विबुधेश्वरः ॥ १०.१५॥
तेजोदग्धानि गात्राणि पाणिनास्य परामृशन् ।
किञ्चित्कृपीटयोनिं तं दिवस्पतिरभाषत ॥ १०.१६॥
प्रीतः स्वाहास्वधाहन्तकारैः प्रीणयसे स्वयम् ।
देवान्पितॄन्मनुष्यांस्त्वमेकस्तेषां मुखं यतः ॥ १०.१७॥
त्वयि जुह्वति होतारो हवींषि ध्वस्तकल्मषाः ।
भुञ्जन्ति स्वर्गमेकस्त्वं स्वर्गप्राप्तौ हि कारणम् ॥ १०.१८॥
हवींषि मन्त्रपूतानि हुताश ! त्वयि जुह्वतः ।
तपस्विनस्तपःसिद्धिं यान्ति, त्वं तपसां प्रभुः ॥ १०.१९॥
निधत्से हुतमर्काय, स पर्जन्योऽभिवर्षति ।
ततोऽन्नानि, प्रजास्तेभ्यस्तेनासि जगतः पिता ॥ १०.२०॥
अन्तश्चरोऽसि भूतानां, तानि त्वत्तो भवन्ति च ।
ततो जीवितभूतस्त्वं जगतः प्राणदोऽसि च ॥ १०.२१॥
जगतः सकलस्यास्य त्वमेकोऽस्युपकारकृत् ।
कार्योपपादने तत्र त्वत्तोऽन्यः कः प्रगल्भते ? ॥ १०.२२॥
अमीषां सुरसङ्घानां त्वमेकोऽर्थसमर्थने ।
विपत्तिरपि संश्लाघ्योपकारव्रतिनोऽनल ॥ १०.२३॥
देवी भागीरथी पूर्व भक्त्यास्माभिः प्रतोषिता ।
निमज्जतस्तवोदीर्णं तापं निर्वापयिष्यति ॥ १०.२४॥
गङ्गां तद्गच्छ मा कार्षी विलम्बं हव्यवाहन ।
कार्येष्ववश्यकार्येषु सिद्धये क्षिप्रकारिता ॥ १०.२५॥
शम्भोरम्भोमयी मूर्तिः सैव देवी सुरापगा ।
त्वत्तः स्मरद्विषो बीजं दुर्धरं धारयिष्यति ॥ १०.२६॥
इत्युदीर्य सुनासीरो विरराम, स चानलः ।
तद्विसृष्टस्तमापृच्छ्य प्रतस्थे स्वर्धुनीमभि ॥ १०.२७॥
हिरण्यरेतसा तेन देवी स्वर्गतरङ्गिणी ।
तीर्णाध्वना प्रपेदे सा निःशेषक्लेशनाशिनी ॥ १०.२८॥
स्वर्गारोहणनिःश्रेणिर्मोक्षमार्गाधिदेवता ।
उदारदुरितोद्गारहारिणी दुर्गतारिणी ॥ १०.२९॥
महेश्वरजटाजूटवासिनी, पापनाशिनी ।
सरागान्वयनिर्वाणकारिणी, धर्मधारिणी ॥ १०.३०॥
विष्णुपादोदकोद्भूता, ब्रह्मलोकादुपागता ।
त्रिभिः स्त्रोतोभिरश्रान्तं पुनाना भुवनत्रयम् ॥ १०.३१॥
जातवेदसमायान्तमूर्मिहस्तैः समुत्थितैः ।
आजुहावार्थसिद्ध्यै तं सुप्रसादधरेव सा ॥ १०.३२॥
सम्मिलद्भिर्मरालैः सा कलं कूजद्भिरुन्मदैः ।
ददे श्रेयांसि दुःखानि निहन्मीति तमभ्यधात् ॥ १०.३३॥
कल्लोलैरुद्गतैरर्वाचीनं तटमभिद्रुतैः ।
प्रीतेव तमभीयाय स्वर्धुनी जातवेदसम् ॥ १०.३४॥
अथाभ्युपेतस्तापार्तो निममज्जानलः किल ।
विपदा परिभूताः किं व्यवस्यन्ति विलम्बितुम् ॥ १०.३५॥
गङ्गावारिणि कल्याणकारिणि श्रमहारिणि ।
स मग्नो निर्वृतिं प्राप पुण्यभारिणि तारिणि ॥ १०.३६॥
तत्र माहेश्वरं धाम सञ्चक्राम हविर्भुजः ।
गङ्गायामुत्तरङ्गायामन्तस्तापविपद्धृति ॥ १०.३७॥
कृशानुरेतसो रेतस्यादृते सरिता तया ।
निश्चक्राम ततः सौख्यं हव्यवाहो वहन्बहु ॥ १०.३८॥
सुधासारैरिवाम्भोभिरभिषिक्तो हुताशनः ।
यथागतं जगामाथ परां निर्वृतिमादधत् ॥ १०.३९॥
सा सुदुर्विषहं गङ्गा धाम कामजितो महत् ।
आदधाना परीतापमवाप व्योमवाहिनी ॥ १०.४०॥
बहिरार्ता युगान्ताग्नेस्तप्तानीव शिखाशतैः ।
हित्वोष्णानि जलान्यस्या निर्जग्मुर्जलजन्तवः ॥ १०.४१॥
तेजसा तेन रौद्रेण तप्तानि सलिलान्यपि ।
समुदञ्चन्ति चण्डानि दुर्धराणि बभार सा ॥ १०.४२॥
जगच्चक्षुषि चण्डांशौ किञ्चिदभ्युदयोन्मुखे ।
जग्मुः षट् कृत्तिका माघे मासि स्नातुं सुरापगाम् ॥ १०.४३॥
शुभ्रैरभ्रङ्कषैरूर्मिशतैः स्वर्गनिवासिनाम् ।
कथयन्तीमिवालोकावगाहा चमनादिकम् ॥ १०.४४॥
सुस्नातानां मुनीन्द्राणां बलिकर्मोचितैरलम् ।
बहिः पुष्पोत्करैः कीर्णतीरां दूर्वाक्षतान्वितैः ॥ १०.४५॥
ब्रह्मध्यानपरैर्योगपरैर्ब्रह्मासनस्थितैः ।
योगनिद्रागतैर्योगपट्टबन्धैरुपाश्रिताम् ॥ १०.४६॥
पादाङ्गुष्ठाग्रभूमिस्थैः सूर्यसम्बद्धदृष्टिभिः ।
ब्रह्मर्षिभिः परं ब्रह्म गृणद्भिरुपसेविताम् ॥ १०.४७॥
अथ दिव्यां नदीं देवीमभ्यनन्दन्विलोक्य ताः ।
कं नाभिनन्दयत्येषा दृष्टा पीयूषवाहिनी ॥ १०.४८॥
चन्द्रचूडामणिर्देवो यामुद्वहति मूर्धनि ।
यस्या विलोकनं पुण्यं श्रद्दधूस्ता मुदा हृदि ॥ १०.४९॥
दिव्यां विष्णुपदीं देवीं निर्वाणपददेशिनीम् ।
निर्धूतकल्मषां मूर्ध्ना सुप्रह्वास्ता ववन्दिरे ॥ १०.५०॥
सौभाग्यैः खलु सुप्रापां मोक्षप्रतिभुवं सतीम् ।
भक्त्यात्र तुष्टुवुस्तां ताः श्रद्दधाना दिवोधुनीम् ॥ १०.५१॥
मुक्तिस्त्रीसङ्गदूत्यज्ञैस्तत्र ता विमलैर्जलैः ।
प्रक्षालितमलाः सस्नुः सुस्नातास्तपसान्विताः ॥ १०.५२॥
स्नात्वा तत्र सुलभ्यायां भाग्यैः परिपचेलिमैः ।
चरितार्थं स्वमात्मानं बहु ता मेनिरे मुदा ॥ १०.५३॥
कृशानुरेतसो रेतस्तासामभिकलेवरम् ।
अमोघं सञ्चचाराथ सद्यो गङ्गावगाहनात् ॥ १०.५४॥
रौद्रं सुदुर्धरं धाम दधाना दहनात्मकम् ।
परितापमवापुस्ता मग्ना इव विषाम्बुधौ ॥ १०.५५॥
अक्षमा दुर्वहं वोढुमम्बुनो बहिरातुराः ।
अग्निं ज्वलन्तमन्तस्ता दधाना इव निर्ययुः ॥ १०.५६॥
अमोघं शाम्भवं बीजं सद्यो नद्योज्झितं महत् ।
तासामभ्युदरं दीप्तं स्थितं गर्भत्वमागमत् ॥ १०.५७॥
सुज्ञा विज्ञाय ता गर्भभूतं तद्वोढुमक्षमाः ।
विषादमदधुः सद्यो गाढं भर्तृभिया ह्रिया ॥ १०.५८॥
ततः शरवणे सार्धं भयेन व्रीडया च ताः ।
तद्गर्भजातमुत्सृज्य स्वान् गृहानभिनिर्ययुः ॥ १०.५९॥
ताभिस्तत्रामृतकरकलाकोमलं भासमानं
तद्विक्षिप्तं क्षणमभिनभोगर्भमभ्युज्जिहानैः ।
स्वैस्तेजोभिर्दिनपतिशतस्पर्धमानैरमानै
र्वक्त्रैः षङ्भिः स्मरहरगुरुस्पर्धयेवाजनीव ॥ १०.६०॥
इति श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये
कुमारोत्पत्तिर्नाम दशमः सर्गः सम्पूर्णः ॥ १०॥
सर्गः ११ - कुमारस्य बालक्रीडा
अभ्यर्थ्यमाना विबुधैः समग्रैः प्रह्वैः सुरेन्द्रप्रमुखैरुपेत्य ।
तं पाययामास सुधातिपूर्णं सुरापगा स्वं स्तनमाशु मूर्ता ॥ ११.१॥
पिबन् स तस्याः स्तनयोः सुधौघं क्षणं क्षणं साधु समेधमानः ।
प्रापाकृतिं कामपि षड्भिरेत्य निषेव्यमाणः खलु कृत्तिकाभिः ॥ ११.२॥
भागीरथीपावककृत्तिकानामानन्दबाष्पाकुललोचनानाम् ।
तं नन्दनं दिव्यमुपात्तुमासीत्परस्परं प्रौढतरो विवादः ॥ ११.३॥
अत्रान्तरे पर्वतराजपुत्र्या समं शिवः स्वैरविहारहेतोः ।
नभो विमानेन विगाहमानो मनोतिवेगेन जगाम तत्र ॥ ११.४॥
निसर्गवात्सल्यवशाद्विवृद्धचेतःप्रमोदौ गलदश्रुनेत्रौ ।
अपश्यतां तं गिरिजागिरीशौ षडाननं षड्दिनजातमात्रम् ॥ ११.५॥
अथाह देवी शशिखण्डमौलिं कोऽयं शिशुर्दिव्यवपुः पुरस्तात् ।
कस्याथवा धन्यतमस्य पुंसो मातास्य का भाग्यवतीषु धुर्या ॥ ११.६॥
स्वर्गापगासावनलोऽयमेताः षट् कृत्तिकाः किं कलहायमानाः ।
पुत्रो ममायं न तवायमित्थं मिथ्येति वैलक्ष्यमुदाहरन्ति ॥ ११.७॥
एतेषु कस्येदमपत्यमीशाखिलत्रिलोकीतिलकायमानम् ।
अन्यस्य कस्याप्यथ देवदैत्यगन्धर्वसिद्धोरगराक्षसेषु ॥ ११.८॥
श्रुत्वेति वाक्यं हृदयप्रियायाः कौतूहलिन्या विमलस्मितश्रीः ।
सान्द्रप्रमोदोदयसैख्यहेतुभूतं वचोऽवोचत चन्द्रचूडः ॥ ११.९॥
जगत्त्रयीनन्दन एष वीरः प्रवीरमातुस्तव नन्दनोऽस्ति ।
कल्याणि ! कल्याणकरः सुराणां त्वत्तोऽपरस्याः कथमेष सर्गः ॥ ११.१०॥
देवि त्वमेवास्य निदानमास्से सर्गे जगन्मङ्गलगानहेतोः ।
सत्यं त्वमेवेति विचारयस्व रत्नाकरे युज्यत एव रत्नम् ॥ ११.११॥
अतः श्रृणुष्वावहितेन वृत्तं बीजं यदग्नौ निहितं मया तत् ।
सङ्क्रान्तमन्त स्त्रिदशापगायां ततोऽवगाहे सति कृत्तिकासु ॥ ११.१२॥
गर्भत्वमाप्तं तदमोघमेतत्ताभिः शरस्तम्बमधि न्यधायि ।
बभूव तत्रायमभूतपूर्वो महोत्सवोऽशेषचराचरस्य ॥ ११.१३॥
अशेषविश्वप्रियदर्शनेन धुर्या त्वमेतेन सुपुत्रिणीनाम् ।
अलं विलम्ब्याचलराजपुत्रि ! स्वपुत्रमुत्सङ्गतले निधेहि ॥ ११.१४॥
अथेति वादिन्यमृतांशुमौलौ शैलेन्द्रपुत्री रभसेन सद्यः ।
सान्द्रप्रमोदेन सुपीनगात्री धात्री समस्तस्य चराचरस्य ॥ ११.१५॥
किरीटबद्धाञ्जलिभिर्नभःस्थैर्नमस्कृता सत्वरनाकिलोकैः ।
विमानतोऽवातरदात्मजं तं ग्रहीतुमुत्कण्ठितमानसाभूत् ॥ ११.१६॥
स्वर्गापगापावककृत्तिकादीन् कृताञ्जलीनानमतोऽपि भूयः ।
हित्वोत्सुका तं सुतमाससाद पुत्रोत्सवे माद्यति का न हर्षात् ॥ ११.१७॥
प्रमोदबाष्पाकुललोचना सा न तं ददर्श क्षणमग्रतोऽपि ।
परिस्पृशन्ती करकुङ्मलेन सुखान्तरं प्राप किमप्यपूर्वम् ॥ ११.१८॥
सुविस्मयानन्दविकस्वरायाः शिशुर्गलद्बाष्पतरङ्गितायाः ।
विवृद्धवात्सल्यरसोत्तराया देव्या दृशोर्गोचरतां जगाम ॥ ११.१९॥
तमीक्षमाणा क्षणमीक्षणानां सहस्रमाप्तुं विनिमेषमैच्छत् ।
सा नन्दनालोकनमङ्गलेषु क्षणं क्षणं तृप्यति कस्य चेतः ? ॥ ११.२०॥
विनम्रदेवासुरपृष्ठगाभ्यामादाय तं पाणिसरोरुहाभ्याम् ।
नवोदयं पार्वणचन्द्रचारुं गौरी स्वमुत्सङ्गतलं निनाय ॥ ११.२१॥
स्वमङ्कमारोप्य सुधानिधानमिवात्मनो नन्दनमिन्दुवक्त्रा ।
तमेकमेषां जगदेकवीरं बभूव पूज्या धुरि पुत्रिणीनाम् ॥ ११.२२॥
निसर्गवात्सल्यरसौघसिक्ता सान्द्रप्रमोदामृतपूरपूर्णा ।
तमेकपुत्रं जगदेकमाताभ्युत्सङ्गिनं प्रस्त्रविणी बभूव ॥ ११.२३॥
अशेषलोकत्रयमातुरस्याः षाण्मातुरः स्तन्यसुधामधासीत् ।
सुरस्रवन्त्याः किल कृत्तिकाभिर्मुहुर्मुहुः सस्पृहमीक्ष्यमाणः ॥ ११.२४॥
सुखाश्रुपूर्णेन मृगाङ्कमौलेः कलत्रमेकेन मुखाम्बुजेन ।
तस्यैकनालो द्गतपञ्चपद्मलक्ष्मीं क्रमात्षड्वदनीं चुचुम्ब ॥ ११.२५॥
हैमी फलं हेमगिरेर्लतेव विकस्वरं नाकनदीव पद्मम् ।
पूर्वेव दिङ्नूतनमिन्दुमाभात्तं पार्वती नन्दनमादधाना ॥ ११.२६॥
प्रीतात्मना सा प्रयतेन दत्तहस्तावलम्बा शशिशेखरेण ।
कुमारमुत्सङ्गतले दघाना विमानमभ्रंलिहमारुरोह ॥ ११.२७॥
महेश्वरोऽपि प्रमदप्ररुढरोमोद्गमो भूधरनन्दनायाः ।
अङ्कादुपादत्त तदङ्कतः सा तस्यास्तु सोऽप्यात्मजवत्सलत्वात् ॥ ११.२८॥
दधानया नेत्रसुधैकसत्रं पुत्रं पवित्रं सुतया तयाद्रेः ।
संश्लिष्यमाणः शशिखण्डधारी विमानवेगेन गृहाज्जगाम ॥ ११.२९॥
अधिष्ठितः स्फाटिकशैलश्रृङ्गे तुङ्गे निजं धाम निकामरम्यम् ।
महोत्सवाय प्रमथप्रमुख्यान् पृथून्गणाञ्शम्भुरथादिदेश ॥ ११.३०॥
पृथुप्रमोदः प्रगुणो गणानां गणः समग्रो वृषवाहनस्य ।
गिरीन्द्रपुत्र्यास्तनयस्य जन्मन्यथोत्सवं संववृते विधातुम् ॥ ११.३१॥
स्फुरन्मरीचिच्छुरिताम्बराणि सन्तानशाखिप्रसवाञ्चितानि ।
उच्चिक्षिपुः काञ्चनतोरणानि गणा वराणि स्फटिकालयेषु ॥ ११.३२॥
दिक्षु प्रसर्पस्तदधीश्वराणामथामराणामिव मध्यलोके ।
महोत्सवं शंसितुमाहतोऽन्यैर्दध्वान धीरः पटहः पटीयान् ॥ ११.३३॥
महोत्सवे तत्र समागतानां गन्धर्वविद्याधरसुन्दरीणाम् ।
सम्भावितानां गिरिराजपुत्र्या गृहेऽभवन्मङ्गलगीतकानि ॥ ११.३४॥
सुमङ्गलोपायन पात्रहस्तास्तं मातरो मातृवदभ्युपेताः ।
विधाय दूर्वाक्षतकानि मूर्ध्नि निन्युः स्वमङ्कं गिरिजातनूजम् ॥ ११.३५॥
ध्वनत्सु तूर्येषु सुमन्द्रमङ्क्यालिङ्ग्योर्ध्वकेष्वप्सरसो रसेन ।
सुसन्धिबन्धं ननृतुः सुवृत्तगीतानुगं भावरसानुविद्धम् ॥ ११.३६॥
वाता ववुः सौख्यकराः प्रसेदुराशा विधूमो हुतभुग दिदीपे ।
जलान्यभूवन्विमलानि तत्रोत्सवेऽन्तरिक्षे प्रससाद सद्यः ॥ ११.३७॥
गम्भीरशङ्खध्वनिमिश्रमुच्चैर्गृहोद्भवा दुन्दुभयः प्रणेदुः ।
दिवौकसां व्योम्नि विमानसङ्घा विमुच्य पुष्पप्रचयान्प्रसस्रुः ॥ ११.३८॥
इत्थं महेशाद्रिसुतासुतस्य जन्मोत्सवे सम्मदयाञ्चकार ।
चराचरं विश्वमशेषमेतत्परं चकम्पे किल तारकश्रीः ॥ ११.३९॥
ततः कुमारः समुदां निदानैः स बाललीलाचरितैर्विचित्रैः ।
गिरीशगौर्योहृदयं जहार मुदे न हृद्या किमु बालकेलि ॥ ११.४०॥
महेश्वरः शैलसुता च हर्षात्सतर्षमेकेन मुखेन गाढम् ।
अजातदन्तानि मुखानि सूनोर्मनोहराणि क्रमतश्चुचुम्ब ॥ ११.४१॥
क्वचित्स्खलद्भिः क्वचिदस्खलद्भिः क्वचित्प्रकम्पैः क्वचिदप्रकम्पैः ।
बालः स लीलाचलनप्रयोगैस्तयोमुदं वर्धयति स्म पित्रोः ॥ ११.४२॥
अहेतुहासच्छुरिताननेन्दुर्गृहाङ्गणक्रीडनधूलिधूम्रः ।
मुहुर्वदन्किचिदलक्षितार्थं मुदं तयोरङ्कगतस्ततान ॥ ११.४३॥
गृह्णन्विषाणे हरवाहनस्य स्पृशन्नुमा केसरिणं सलीलम् ।
स भृङ्गिणः सूक्ष्मतरं शिखग्रं कर्षन्बभूव प्रमदाय पित्रोः ॥ ११.४४॥
एको नव द्वौ दशा पञ्च सप्तेत्यजीगणन्नात्ममुखं प्रसार्य ।
महेशकण्ठोरगदन्तपङ्क्तिं तदङ्कगः शैशवमौग्ध्यमैशिः ॥ ११.४५॥
कपर्दिकण्ठान्तकपालदाम्नोऽङ्गुलिं प्रवेश्याननकोटरेषु ।
दन्तानुपात्तुं रभसी बभूव मुक्ताफलभ्रान्तिकरः कुमारः ॥ ११.४६॥
शम्भोः शिरोऽन्तःसरितस्तरङ्गान्विगाह्य गाढं शिशिरान्नसेन ।
स जातजाड्यं निजपाणिपद्ममतापयद्भालविलोचनाग्नौ ॥ ११.४७॥
किञ्चित्कलं भङ्गुरकन्धरस्य नमज्जटाजूटधरस्य शम्भोः ।
प्रलम्बमानं किल कौतुकेन चिरं चुचुम्बे मुकुटेन्दुखण्डम् ॥ ११.४८॥
इत्थं शिशोः शैशवकेलिवृत्तैर्मनोभिरामैर्गिरिजागिरीशौ ।
मनोविनोदैकरसप्रसक्तौ दिवानिशं नाविदतां कदाचित् ॥ ११.४९॥
इति बहुविधं बालक्रीडाविचित्रविचेष्टितं
ललितललितंसान्द्रानन्दं मनोहरमाचरन् ।
अलभत परां बुद्धिं षष्ठे दिने नवयौवनं
स किल सकलं शास्त्रं शस्त्रं विवेद विभुर्यया ॥ ११.५०॥
इति श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये
कुमारस्य बालक्रीडा नाम एकादशः सर्गः सम्पूर्णः ॥ ११॥
सर्गः १२ - कुमारसैनापत्यवर्णनं
अथ प्रपेदे त्रिदशैरशेषैः क्रूरासुरोपप्लवदुःखितात्मा ।
पुलोमपुत्रीदयितोऽन्धकारिं पत्त्रीव तृष्णातुरितः पयोदम् ॥ १२.१॥
दृप्तारिसन्त्रासखिलीकृतात्स कथञ्चिदम्भोदविहारमार्गात् ।
अवातताराभिगिरिं गिरीशगौरीपदन्यासविशुद्धमिन्द्रः ॥ १२.२॥
सङ्क्रन्दनः स्यन्दनतोऽवतीर्य मेघात्मनो मातलिदत्तहस्तः ।
पिनाकिनोऽथालयमुच्चचाल शुचौपिपासाकुलितो यथाम्भः ॥ १२.३॥
इतस्ततोऽथ प्रतिबिम्बभाजं विलोकमानः स्फटिकाद्रिभूमौ ।
आत्मानमप्येकमनेकधा स व्रजन्विभोरास्पदमाससाद ॥ १२.४॥
विचित्रचञ्चन्मणिभङ्गिसङ्गं सौवर्णदण्डं दधतातिचण्डम् ।
स नन्दिनाधिष्ठितमध्यतिष्ठत्सौधाङ्गणद्वारमनङ्गशत्रोः ॥ १२.५॥
ततः स कक्षाहितहेमदण्डो नन्दी सुरेन्द्रं प्रतिपद्य सद्यः ।
प्रतोषयामास सुगौरवेण गत्वा शशंस स्वयमीश्वरस्य ॥ १२.६॥
भ्रूसंज्ञयानेन कृताभ्यनुज्ञः सुरेश्वरं तं जगदीश्वरेण ।
प्रवेशयामास सुरैः पुरोगः समं स नन्दी सदनं सदस्य ॥ १२.७॥
स चण्डिभृङ्गिप्रमुखैर्गरिष्ठैर्गणैरनेकैर्विविधस्वरुपैः ।
अधिष्ठितं संसदि रत्नमय्यां सहस्रनेत्रः शिवमालुलोके ॥ १२.८॥
कपर्दमुद्बद्धमहीनमूर्धरत्नांशुभिर्भासुरमुल्लसद्भिः ।
दधानमुच्चैस्तरमिद्धधातोः सुमेरुश्रृङ्गस्य समत्वमाप्तम् ॥ १२.९॥
बिभ्राणमुत्तुङ्गतरङ्गमालां गङ्गां जटाजूटतटं भजन्तीम् ।
गौरीं तदुत्सङ्गजुषं हसन्तीमिव स्वफेनैः शरदभ्रशुभ्रैः ॥ १२.१०॥
गङ्गातरङ्गप्रतिबिम्बितैः स्वैर्बहूभवन्तं शिरसा सुधांशुम् ।
चलन्मरीचिप्रचयैस्तुषारगौरैर्हिमद्योतितमुद्वहन्तम् ॥ १२.११॥
भालस्थले लोचनमेधमानधामाधरीभूतरवीन्दुनेत्रम् ।
युगान्तकालोचितहव्यवाहं मीनध्वजप्लोषणमादधानम् ॥ १२.१२॥
महार्हरत्नाञ्चितयो रुदारं स्फुरत्प्रभामण्डलयोः समन्तात् ।
कर्णस्थिताभ्यां शशिभास्कराभ्यामुपासितं कुण्डलयोश्छलेन ॥ १२.१३॥
स्वबद्धया कण्ठिकयेव नीलमाणिक्यमय्या कुतुकेन गौर्याः ।
नीलस्य कण्ठस्य परिस्फुरन्त्या कान्त्या महत्या सुविराजमानम् ॥ १२.१४॥
कालार्दितानां त्रिदशासुराणां चितारजोभिः परिपाण्डुरङ्गम् ।
महन्महेभाजिनमुद्गताभ्रप्रालेयशैलश्रियमुद्वहन्तम् ॥ १२.१५॥
पाणिस्थितब्रह्मकपालपात्रं वैकुण्ठभाजापि निषेध्यमाणाम् ।
नरास्थिखण्डाभरणं रणान्तमूलं त्रिशूलं कलयन्तमुच्चैः ॥ १२.१६॥
पुरातनीं ब्रह्मकपालमालां कण्ठे वहन्तं पुनराश्वसन्तीम् ।
उद्गीतवेदां मुकुटेन्दुवर्षत्सुधा भरौघाप्लवलब्धसंज्ञाम् ॥ १२.१७॥
सलीलमङ्कस्थितया गिरीन्द्रपुत्र्या नवाष्टापदवल्लिभासा ।
विराजमानं शरदभ्रखण्डं परिस्फुरन्त्याचिररोचिषेव ॥ १२.१८॥
दृप्ताऽन्धकप्राणहरं पिनाकं महासुरस्त्रीविधवत्वहेतुम् ।
करेण गृह्णान्तमगृह्यमन्यैः पुरास्मरप्लोषणकेलिकारम् ॥ १२.१९॥
भद्रासनं काञ्चनपादपीठं महार्हमाणिक्यविभङ्गिचित्रम् ।
अधिष्ठितं चन्द्रमरीचिगौरैरुद्वीज्यमानं चमरैर्गणाभ्याम् ॥ १२.२०॥
शस्त्रास्त्रविद्याभ्यसनैकसक्ते सविस्मयैरेत्य गणैः सुदृष्टे ।
नीराज्यमाने स्फटिकाचलेन सानन्दनिर्दिष्टदृशं कुमारे ॥ १२.२१॥
तथाविधं शैलसुताधिनाथं पुलोमपुत्रीदयितो निरीक्ष्य ।
आसीत्क्षणं क्षोभपरो नु कस्य मनो न हि क्षुभ्यति धामधाम्नि ॥ १२.२२॥
विकरस्वराभ्भोजवनश्रिया तं दृशं सहस्रेण निरीक्षमाणः ।
रोमालिभिः स्वर्गपतिर्बभासे पुष्पोत्कराकीर्ण इवाम्रशाखी ॥ १२.२३॥
दृष्ट्वा सहस्रेण दृशां महेशमभूत्कृतार्थोऽतितरां महेन्द्रः ।
सर्वाङ्गजातं तदथो विरुपमिव प्रियाकोपकरं विवेद ॥ १२.२४॥
ततः कुमारं कनकाद्रिसारं पुरन्दरः प्रेक्ष्य धृतास्त्रशस्त्रम् ।
महेश्वरोपान्तिकवर्तमानं शत्रोर्जयाशां मनसा बबन्ध ॥ १२.२५॥
श्रीनीलकण्ठ द्युपतिः पुरोऽस्ति त्वयि प्रणामावसरं प्रतीच्छन् ।
सहस्रनेत्रेऽत्र भव त्रिनेत्र दृष्ट्या प्रसाद प्रगुणो महेश ॥ १२.२६॥
इति प्रबद्धाञ्जलिरेत्य नन्दी निधाय कक्षामभिः हेम नेत्रम् ।
प्रसादपात्रं पुरतो भविष्णुरथ स्मरारातिमुवाच वाचम् ॥ १२.२७॥
पुरा सुरेन्द्रं सुरसङ्घसेव्यं त्रिलोकसेव्यस्त्रिपुरासुरारिः ।
प्रीत्या सुधासारनिधारिणेव ततोऽनुजग्राह विलोकनेन ॥ १२.२८॥
किरीटकोटिच्युतपारिजात पुष्पोत्करेणानमितेन मूर्ध्ना ।
स्वर्गैकवन्द्यो जगदेकवन्द्यं तं देवदेवं प्रणनाम देवः ॥ १२.२९॥
अनेकलोकैकनमस्क्रियार्हं महेश्वरं तं त्रिदशेश्वरः स ।
भक्त्या नमस्कृत्य कृतार्थतायाः पात्रं पवित्रं परमं बभूव ॥ १२.३०॥
सुभक्तिभाजामधि पादपीठं प्रान्तक्षितिं नम्रतरैः शिरोभिः ।
ततः प्रणेमुः पुरतो गणानां गणाः सुराणां क्रमतः पुरारिम् ॥ १२.३१॥
गणोपनीते प्रभुणोपदिष्टः शुभासने हेममये पुरस्तात् ।
प्रापोपविश्य प्रमुदं सुरेन्द्रः प्रभुप्रसादो हि मुदे न कस्य ॥ १२.३२॥
क्रमेण चान्येऽपि विलोकनेन सम्भाविताः सस्मितमीश्वरेण ।
उपाविशंस्तोषविशेषमाप्ता दृग्गोचरे तस्य सुराः समग्राः ॥ १२.३३॥
अथाह देवो बलवैरिमुख्यान् गीर्वाणवर्गान्करुणार्द्रचेताः ।
कृताञ्जलीकान्सुराभिसूतान्ध्वस्तश्रियः श्रान्तमुखानवेक्ष्य ॥ १२.३४॥
अहो बतानन्तपराक्रमाणां दिवौकसो वीरवरायुधानाम् ।
हिमोदबिन्दुग्लपितस्य किं यः पद्मस्य दैन्यं दधते मुखानि ॥ १२.३५॥
स्वर्गौकसः स्वर्गपरिच्युताः किं स्वपुण्यराशौ सुमहत्तमेऽपि ।
चिह्नं चिरोढं न तु यूयमेते निजाधिपत्यस्य परित्यजध्वम् ॥ १२.३६॥
दिवौकसो देवगृहं विहाय मनुष्यसाधारणतामवाप्ताः ।
यूयं कुतः कारणतश्चरध्वं महीतले मानभृतो महान्तः ॥ १२.३७॥
अनन्यसाधारणसिद्धमुच्चैस्तद्दैवतं धाम निकामरम्यम् ।
कस्माद कस्मान्निरगाद्भवद्भ्यश्चिरार्जितं पुण्यमिवा पचारात् ॥ १२.३८॥
दिवौकसो वो हृदयस्य कस्मात्तयाविधं धैर्यमहार्यमार्याः ।
अगादगाधस्य जलाशयस्य ग्रीष्मातितापादिवशादिवाम्भः ॥ १२.३९॥
सुराः सुराधीशपुरःसराणां समीयुषां वः सममातुराणाम् ।
तद्ब्रूत लोकत्रयजित्वरात्किं महासुरात्तारकतो विरुद्धम् ॥ १२.४०॥
पराभवं तस्य महासुरस्य निषेद्धुमेकोऽहमलम्भविष्णुः ।
दावानलप्लोषविपत्तिमन्यो महाम्बुदात्किं हरते वनानाम् ॥ १२.४१॥
इतीरिते मन्मथमर्दनेन सुराः सुरेन्द्रप्रमुखा मुखेषु ।
सान्द्रप्रमोदाश्रुतरङ्गितेषु दधुः श्रियं सत्वरमाश्वसन्तः ॥ १२.४२॥
ततो गिरीशस्य गिरां विरामे जगाद लब्धेऽवसरे सुरेन्द्रः ।
भवन्ति वाचोऽवसरे प्रयुक्ता ध्रुवं फलाविष्टमहोदयाय ॥ १२.४३॥
ज्ञानप्रदीपेन तमोपहेनाविनश्वरेणास्खलितप्रभेण ।
भूतं भवद्भावि च यच्च किञ्चित्सर्वज्ञ सर्वं तव गोचरं तत् ॥ १२.४४॥
दुर्वारदोरुद्यमदुःसहेन यत्तारकेणामरघस्मरेण ।
तदीशतामाप्तवता निरस्ता वयं दिवोऽमी वद किं न वेत्सि ॥ १२.४५॥
विधेरमोघं स वरप्रसादमासाद्य सद्यस्त्रिजगज्जिगीषुः ।
सुरानशेषानहकप्रमुख्यान्दोर्दण्डचण्डो मनुते तृणाय ॥ १२.४६॥
स्तुत्या पुरास्माभिरुपासितेन पितामहेनेति निरुपितं नः ।
सेनापतिः संयति दैत्यमेतं पुरः स्मरारातिसुतो निहन्ति ॥ १२.४७॥
अहो ततोऽनन्तरमद्ययाव त्सुदुःसहां तस्य पराभवार्तिम् ।
विषेहिरे हन्त हृदन्तशल्यमाज्ञानिवेशं त्रिदिवौकसौऽमी ॥ १२.४८॥
निदाघधामक्लमविक्लवानां नवीनमम्भोदमिवौषधीनाम् ।
सुनन्दनं नन्दनमात्मनो नः सेनान्यमेतं स्वयमादिश त्वम् ॥ १२.४९॥
त्रैलोक्यलक्ष्मीहृदयैकशल्यं समूलमुत्खाय महासुरं तम् ।
अस्माकमेषां पुरतो भवन्स दुःखापहारं युधि यो विधत्ते ॥ १२.५०॥
महाहवे नाथ तवास्य सूनोः शस्त्रैः शितैः कृत्तशिरोधराणाम् ।
महासुराणां रमणीविलोपैर्दिशो दशैता मुखरीभवन्तु ॥ १२.५१॥
महारणक्षोणिपशूपहारीकृतेऽसुरे तत्र तवात्मजेन ।
बन्दिस्थितानां सुदृशां करोतु वेणिप्रमोक्षं सुरलोक एषः ॥ १२.५२॥
इत्थं सुरेन्द्रे वदति स्मरारिः सुरारिदुश्चेष्टितजातरोषः ।
कृतानुकम्पस्त्रिदशेषु तेषु भूयोऽपि भूताधिपतिर्बभाषे ॥ १२.५३॥
अहो अहो देवगणाः सुरेन्द्रमुख्याः शृणुध्वं वचनं ममैते ।
विचेष्टते शङ्कर एष देवः कार्याय सज्जो भवतां सुताद्यैः ॥ १२.५४॥
पुरा मयाकारि गिरीन्द्रपुत्र्याः प्रतिग्रहोऽयं नियतात्मनापि ।
तत्रैष हेतुः खलु तद्भवेन वीरेण यद्वध्यत एष शत्रुः ॥ १२.५५॥
अत्रोपपन्नं तदमी नियुज्य कुमारमेनं पृतनापतित्वे ।
निघ्नन्तु शत्रुं सुरलोकमेष भुनक्तु भूयोऽपि सुरैः सहेन्द्रः ॥ १२.५६॥
इत्युदीर्य भगवांस्तमात्मजं घोरसङ्गरमहोत्सवोत्सुकम् ।
नन्दनं हि जहि देवविद्विषं संयतीति निजगाद शङ्करः ॥ १२.५७॥
शासनं पशुपतेः स कुमार स्वीचकार शिरसावनतेन ।
सर्वथैव पितृभक्तिरतानामेष एव परमः खलु धर्मः ॥ १२.५८॥
असुरयुद्धविधौ विबुधेश्वरे पशुपतौ वदतीति तवात्मजम् ।
गिरीजया मुमुदे सुतविक्रमे सति न नन्दति का खलु वीरसूः ॥ १२.५९॥
सुरपरिवृढः प्रौढं वीरं कुमारमुमापते-
र्बलवदमरारातिस्त्रीणां दृगञ्जनभञ्जनम् ।
जगदभयदं सद्यः प्राप्य प्रमोदपरोऽभवद्-
ध्रुवमभिमते पूर्णे को वा मुदा न हि माद्यति ॥ १२.६०॥
इति श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये
कुमारसैनापत्यवर्णनं नाम द्वादशः सर्गः सम्पूर्णः ॥ १२॥
सर्गः १३ - कुमारसैनापत्याभिषेकः
प्रस्थानकालोचितचारुवेषः स स्वर्गिवर्गैरनुगम्यमानः ।
ततः कुमारः शिरसा नतेन त्रैलोक्यभर्तुः प्रणनाम पादौ ॥ १३.१॥
जहीन्द्रशत्रुं समरेऽमरेशपदं स्थिरत्वं नय वीर वत्स ।
इत्याशिषा तं प्रणमन्तमीशो मूर्धन्युपाघ्राय मुदाभ्यनन्दत् ॥ १३.२॥
प्रह्वीभवन्नम्रतरेण मूर्ध्ना नमश्चकाराङ्घ्रियुगं स्वमातुः ।
तस्याः प्रमोदाश्रुपयः प्रवृष्टिस्तस्याभवद्वीरवराभिषेकः ॥ १३.३॥
तमङ्कमारोप्य सुता हिमाद्रेराश्लिष्य गाढं सुतवत्सला सा ।
शिरस्युपाघ्राय जगाद शत्रुं जित्वा कृतार्थीकुरु वीरसूं माम् ॥ १३.४॥
उद्दाम दैत्येशविपत्तिहेतुः श्रद्धालुचेताः समरोत्सवस्य ।
आपृच्छ्य भक्त्या गिरिजागिरीशौ ततः प्रतस्थेऽभिदिवं कुमारः ॥ १३.५॥
देवं महेशं गिरीजां च देवीं ततः प्रणम्य त्रिदिवौकसोऽपि ।
प्रदक्षिणीकृत्य च नाकनाथपूर्वाः समस्तास्तमथानुजग्मुः ॥ १३.६॥
अथ व्रजद्भिस्त्रिदशै रशेषैः स्फुरत्प्रभा भासुरमण्डलैस्तैः ।
नभो बभासे परितो विकीर्णं दिवापि नक्षत्रगणैरिवोग्रैः ॥ १३.७॥
रराज तेषां व्रजतां सुराणां मध्ये कुमारोऽधिककान्तिकान्तः ।
नक्षत्रताराग्रहमण्डलानामिव त्रियामारमणो नभोन्ते ॥ १३.८॥
गिरीशगौरीतनयेन सार्धं पुलोमपुत्रीदयितादयस्ते ।
उत्तीर्य नक्षत्रपथं मुहूर्तात्प्रपेदिरे लोक मथात्मनीनम् ॥ १३.९॥
ते स्वर्गलोकं चिरकालदृष्टं महासुरत्रासवशंवदत्वात् ।
सद्यः प्रवेष्टुं न विषेहिरे तं क्षणं व्यलम्बन्त सुराः समग्राः ॥ १३.१०॥
पुरो भव त्वं, न पुरो भवामि, नाहं पुरोगोऽस्मि, पुरः सरस्त्वम् ।
इत्थं सुरास्तत्क्षणमेव भीताः स्वर्गं प्रवेष्टुं कलहं वितेनुः ॥ १३.११॥
सुरालयालोकनकौतुकेन मुदा शुचिस्मेरविलोचनास्ते ।
दधुः कुमारस्य मुखारविन्दे दृष्टिं द्विषत्साध्वस कातरान्ताम् ॥ १३.१२॥
सहेलहासच्छुरिताननेन्दुस्ततः कुमारः पुरतो भविष्णुः ।
स तारकापातमपेक्षमाणो रणप्रवीरो हि सुरानवोचत् ॥ १३.१३॥
भीत्यालमद्य त्रिदिवौकसोऽमी स्वर्गं भवन्तः प्रविशन्तु सद्यः ।
अत्रैव मे दृक्पथमेतु शत्रुर्महासुरो वः खलु दृष्टपूर्वः ॥ १३.१४॥
स्वर्लोकलक्ष्मीकचकर्षणाय दोर्मण्डलं वल्गति यस्य चण्डम् ।
इहैव तच्छोणितपानकेलिमह्नाय कुर्वन्तु शरा ममैते ॥ १३.१५॥
शक्तिर्ममासावहतप्रचारा प्रभावसारा सुमहःप्रसारा ।
स्वर्लोकलक्ष्म्या विपदावहारेः शिरो हरन्ती दिशन्तान्मुदं वः ॥ १३.१६॥
इत्यन्धकारातिसुतस्य दैत्यवधाय युद्धोत्सुकमानसस्य ।
सर्वं शुचिस्मेरमुखारविन्दं गीर्वाणवृन्दं वचसा ननन्द ॥ १३.१७॥
सान्द्रप्रमोदात्पुलकोपगूढः सर्वाङ्गसम्फुल्लसहस्त्रनेत्रः ।
तस्योत्तरीयेण निजाम्बरेण निरुञ्छनचारु चकार शक्रः ॥ १३.१८॥
घनप्रमोदाश्रुतरङ्गिताक्षैर्मुखैश्चतुर्भिः प्रचुरप्रसादैः ।
अथो अचुम्बद्विधिरादिवृद्धः षडाननं षट्सु शिरःसु चित्रम् ॥ १३.१९॥
तं साधु साध्वित्यभितः प्रशस्य मुदा कुमारं त्रिपुरासुरारेः ।
आनन्दयन्वीर ! जयेति वाचा गन्धर्वविद्याधरसिद्धसङ्घाः ॥ १३.२०॥
दिव्यर्षयः शत्रुविजेष्यमाणं तमभ्यनन्दन्किल नारदाद्याः ।
निरुञ्छनं चक्रुरथोत्तरीयैश्चामीकरीयैर्निजवल्कलैश्च ॥ १३.२१॥
ततः सुराः शक्तिधरस्य तस्यावष्टम्भतः साध्वसमुत्सृजन्तः ।
उत्सेहिरे स्वर्गमनन्तशक्ते र्गन्तुं वनं यूथपतेरिवेभाः ॥ १३.२२॥
अथाभिपृष्ठं गिरिजासुतस्य पुरन्दरारातिवधं चिकीर्षोः ।
सुरा निरीयुस्त्रिपुरं दिधक्षोरिव स्मरारेः प्रमथः समन्तात् ॥ १३.२३॥
सुराङ्गनानां जलकेलिभाजां प्रक्षालितैः सन्ततमङ्गरागैः ।
प्रपेदिरे पिञ्जरवारिपूरां स्वर्गौकसः स्वर्गधुनीं पुरस्तात् ॥ १३.२४॥
दिग्दन्तिनां वारिविहारभाजां कराहतैर्भीमतरैस्तरङ्गैः ।
आप्लावयन्तीं मुहुरालबालश्रेणिं तरूणां निजतीरजानाम् ॥ १३.२५॥
लीलारसाभिः सुरकन्यकाभि र्हिरण्मयीभिः सिकताभिरुच्चैः ।
माणिक्यगर्भाभिरुपाहिताभिः प्रकीर्णतीरां वरवेदिकाभिः ॥ १३.२६॥
सौरभ्यलुब्धभ्रमरोपगीतैर्हिरण्यहंसावलिकेलिलोलैः ।
चामीकरीयैः कमलैर्विनिद्रैश्च्युतैः परागैः परिपिङ्गतोयाम् ॥ १३.२७॥
कुतूहलात्प्रष्टुमुपागताभि स्तीरस्थिताभिः सुरसुन्दरीभिः ।
अभ्यूर्मिराजिप्रतिबिम्बिताभिर्मुदं दिशन्तीं व्रजतां जनानाम् ॥ १३.२८॥
ननन्द सद्यश्चिरकालदृष्टां विलोक्य शक्रः सुरदीर्घिकां ताम् ।
अदर्शयत्सादरमद्रिपुत्रीमहेशपुत्राय ततः पुरोगः ॥ १३.२९॥
स कार्त्तिकेयः पुरतः परीतः सुरै समस्तैः सुरनिम्नगां ताम् ।
अपूर्वदृष्टामवलोकमानः सविस्मयः स्मेरविलोचनोऽभूत् ॥ १३.३०॥
उपेत्य तां तत्र किरीटकोटिन्यस्ताञ्जलिर्भक्तिपरः कुमारः ।
गीर्वाणवृन्दैः प्रणुतां प्रणुत्य नम्रेण मूर्ध्ना मुदितो ववन्दे ॥ १३.३१॥
प्रणर्तितस्मेरसरोजराजिः पुरः परीरम्भमिलन्महोर्मिः ।
कपोलपालिश्रमवारिहारी भेजे गुहं तं सरितः समीरः ॥ १३.३२॥
ततो व्रजन्नन्दननामधेयं लीलावनं जम्भजितः पुरस्तात् ।
विभिन्नभग्नोद्धृतशालसङ्घं प्रेक्षाञ्चकार स्मरशत्रुसूनुः ॥ १३.३३॥
सुरद्विषोपप्लुतमेवमेतद्वनं बलस्य द्विषतो गतश्रि ।
इत्थं विचिन्त्यारुणलोचनोऽभूद् भ्रुभङ्गदुष्प्रेक्ष्यमुखः स कोपात् ॥ १३.३४॥
निर्लूनलीलोपवनामपश्यद्दुःसञ्चरीभूतविमानमार्गाम् ।
विध्वस्तसौधप्रचयां कुमारो विश्वैकसाराममरावतीं सः ॥ १३.३५॥
गतश्रियं वैरिवराभिभूतां दशां सुदीनामभितो दधानाम् ।
नारीमवीरामिव तामवेक्ष्य स वाढमन्तः करुणापरोऽभूत् ॥ १३.३६॥
दुश्चेष्टिते देवरिपौ सरोषस्तस्याविषण्णः समराय चोत्कः ।
तथाविधां तां स विवेश पश्यन्सुरैः सुराधीश्वरराजधानीम् ॥ १३.३७॥
दैतेयदन्त्यावलिदन्तघातैः क्षुण्णान्तराः स्फाटिकहर्म्यपङ्क्तीः ।
महाहिनिर्मोकपिनद्धजालाः स वीक्ष्य तस्यां विषसाद सद्यः ॥ १३.३८॥
उत्कीर्णचामीकरपङ्कजानां दिग्दन्तिदानद्रवदूषितानाम् ।
हिरण्यहंसव्रजवर्जितानां विदीर्णवैढूर्यमहाशिलानाम् ॥ १३.३९॥
आविर्भवद्वालतृणाञ्चितानां तदीयलीलागृहदीर्घिकाणाम् ।
स दुर्दशां वीक्ष्य विरोधिजातां विषादवैलक्ष्यभरं बभार ॥ १३.४०॥
तद्दन्तिदन्तक्षतहेमभित्ति सुतन्तुजालाकुलरत्नजालाम् ।
निन्ये सुरेन्द्रेण पुरोगतेन स वैजयन्ताभिधमात्मसौधम् ॥ १३.४१॥
निर्दिष्टवर्त्मा बिवुधेश्वरेण सुरैः समग्रैरनुगम्यमानः ।
स प्राविशत्तं विविधाश्मरश्मिच्छिन्नेन सोपानपथेन सौधम् ॥ १३.४२॥
निसर्गकल्पद्रुमतोरणं तं स पारिजातप्रसवस्रगाढ्यम् ।
दिव्यैः कृतस्वस्त्ययनं मुनीन्द्रैरन्तःप्रविष्टप्रमदं प्रपेदे ॥ १३.४३॥
पादौ महर्षेः किल कश्यपस्य कुलादिवृद्धस्य सुरासुराणाम् ।
प्रदक्षिणीकृत्य कृताञ्जलिः सन्षङ्भिः शिरोभिः स नतैर्ववन्दे ॥ १३.४४॥
स देवमातुर्जगदेकवन्द्यौ पादौ तथैव प्रणनाम कामम् ।
मुनेः कलत्रस्य च तस्य भक्त्या प्रह्वीभवञ्शैलसुतातनूजः ॥ १३.४५॥
स कश्यपः सा जननी सुराणां तमेधयामासतुराशिषा द्वौ ।
तया यया नैकजगज्जिगीषुं जेता मृधे तारकमुग्रवीर्यम् ॥ १३.४६॥
स्वदर्शनार्थं समुपेयुषीणां सुदेवतानामदितिश्रितानाम् ।
पादौ ववन्दे पतिदेवतास्तमाशीर्वचोभिः पुनरभ्यनन्दन् ॥ १३.४७॥
पुलोमपुत्रीं विबुधाधिभर्तुस्ततः शचीं नाम कलत्रमेषः ।
नमश्चकार स्मरशत्रुसूनुस्तमाशिषा सा समुपाचरच्च ॥ १३.४८॥
अथादितीन्द्रप्रमदाः समेतास्ता मातरः सप्त घनप्रमोदाः ।
उपेत्य भक्त्या नमते महेशपुत्राय तस्मै ददुराशिषः प्राक् ॥ १३.४९॥
समेत्य सर्वेऽपि मुदं दधाना महेन्द्रमुख्यास्त्रिदिवौकसोऽथ ।
आनन्दकल्लोलितमानसं तं समभ्यषिञ्चन्पृतनाधिपत्ये ॥ १३.५०॥
सकलविबुधलोकः स्रस्तनिःशेषशोकः
कृतरिपुविजयाशः प्राप्तयुद्धावकाशः ।
अजनि हरसुतेनानन्तवीर्येण तेना-
खिलविबुधचमूनां प्राप्य लक्ष्मीमनूनाम् ॥ १३.५१॥
इति श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये
कुमारसैनापत्याभिषेको नाम त्रयोदशः सर्गः सम्पूर्णः ॥ १३॥
सर्गः १४ - देवसेनाप्रयाणं
रणोत्सुकेनान्धकशत्रुसूनुना समं प्रयुक्तैस्त्रिदशैर्जिगीषुणा ।
महासुरं तारकसंज्ञकं द्विषं प्रसह्य हन्तुं समनह्यत द्रुतम् ॥ १४.१॥
स दुर्निवारं मनसोऽतिवेगिनं जयश्रियः सन्नयनं सुदुःसहम् ।
विजित्वरं नाम तदा महारथं धनुर्धरः शक्तिधरोऽध्यरोहयत् ॥ १४.२॥
सुरालयश्रीविपदां निवारणं सुरारिसम्पत्परितापकारणम् ।
केनापि दध्रेऽस्य विरोधिदारणं सुचारु चामीकरघर्मवारणम् ॥ १४.३॥
शरच्चरच्चन्द्रमरीचिपाण्डुरैः संवीज्यमानो वरचारुचामरैः ।
पुरःसरैः किन्नरसिद्धचारणै रणेच्छुरस्तूयत वाग्भिरुल्बणैः ॥ १४.४॥
प्रयाणकालोचितचारुवेषभृद्वज्रं वहन्पर्वतपक्षदारणम् ।
ऐरावतं स्फाटिकशैलसोदरं ततोऽधिरुह्य द्युपतिस्तमन्वगात् ॥ १४.५॥
तमन्वगच्छद् गिरिश्रृङ्गसोदरं मदोद्धतं मेषमधिष्ठितः शिखी ।
विरोधिविद्वेषरुषाधिकं ज्वलन्महो महीयस्तरमायुधं दधत् ॥ १४.६॥
अथेन्द्रनीलाचलचण्डविग्रहं विषाणविध्वस्तमहापयोधरम् ।
अधिष्ठितः कासरमुद्धरं मुदा वैरस्वतो दण्डधरस्तमन्वगात् ॥ १४.७॥
मदोद्धतं प्रेतमथाधिरुढवांस्तमन्धकद्वेषितनूजमन्वगात् ।
महासुरद्वेषविशेषभीषणः सुरोषणश्चण्डरणाय नैरृतः ॥ १४.८॥
नवोद्यदम्भोधरघोरदर्शने युद्धाय रुढो मकरे महत्तरे ।
दुर्वारपाशो वरुणो रणोल्बणस्तमन्वियाय त्रिपुरान्तकात्मजम् ॥ १४.९॥
दिगम्बराधिक्रमणोल्बणं क्षणान्मृगं महीयांसमरुद्धविक्रमम् ।
अधिष्ठितः सङ्गरकेलिलालसो मरुन्महेशात्मजमन्वगाद् द्रुतम् ॥ १४.१०॥
विरोधिनां शोणितपारणैषिणीं गदामनूनां नरवाहनो वहन् ।
महाहवाम्भोधि विगाहनोद्धतं यियासु मन्वागमदीशनन्दनम् ॥ १४.११॥
महाहिनिर्बद्धजटाकलापिनो ज्वलत्त्रिशूलप्रबलायुधा युधे ।
रुद्रास्तुषाराद्रिसखं महावृषं ततोऽधिरुढास्तमयुः इउनाकिनः ॥ १४.१२॥
अन्येऽपि सन्नह्य मदारणोत्सवश्रद्धालवः स्वर्गिगणास्तमन्वयुः ।
स्ववाहनानि प्रबलान्यधिष्ठिताः प्रमोदविस्मेरमुखाम्बुजश्रियः ॥ १४.१३॥
उद्दण्डहेमध्वजदण्डसङ्कुलाश्चञ्चद्विचित्रातपवारणोज्ज्वलाः ।
चलद्धनस्यन्दनघोषभीषणाः करीन्द्रघण्टारवचण्डचीत्कृताः ॥ १४.१४॥
स्फुरद्विचित्रायुधकान्तिमण्डलैरुद्द्योतिताशावलयाम्बरान्तराः ।
दिवौकसां सोऽनुवहन्महाचमूः पिनाकपाणेस्तनयस्ततो ययौ ॥ १४.१५॥
कोलाहलेनोच्चलतां दिवौकसां महाचमूनां गुरुभिर्ध्वजव्रजैः ।
घनैर्निरुच्छ्वासमभूदनन्तरं दिङ्मण्डलं व्योमतलं महीतलम् ॥ १४.१६॥
सुरारिलक्ष्मीपरिकम्पहेतवो दिक्चक्रवालप्रतिनादमेदुराः ।
नभोन्तकुक्षिम्भरयो घनाः स्वना निहन्यमानैः पटहैर्वितेनिरे ॥ १४.१७॥
प्रमथ्यमानाम्बुधिगर्जतर्जनैः सुरारिनारीगणगर्भपातनैः ।
नभश्चमूधूलिकुलैरिवाकुलं ररास गाढं पटहप्रतिस्वनैः ॥ १४.१८॥
क्षुण्णं रथैर्वाजिभिराहतं खुरैः करीन्द्रकर्णैः परितः प्रसारितम् ।
धूतं ध्वजैः काञ्चनशैलजं रजो वातैर्हतं व्याम समारुहत्क्रमात् ॥ १४.१९॥
खातं खुरै रथ्यतुरङ्गपुङ्गवै रुपत्यकाहाटकमेदिनीरजः ।
गतं दिगन्तान्मुखरैः समीरणैः सुविभ्रमं भूरि बभार भूयसा ॥ १४.२०॥
अधस्तथोर्ध्वं पुरतोऽथ पृष्ठतोऽभितोऽपि चामीकररेणुरुच्चकैः ।
चमूषु सर्पन्मरुदाहतोऽहरन्नवीनसूर्यस्य च कान्तिवैभवम् ॥ १४.२१॥
बलोद्धृतं काञ्चनभूमिजं रजो बभौ दिगन्तेषु नभःस्थले स्थितम् ।
अकालसन्ध्याघनरागपिङ्गलं घनं घनानामिव वृन्दमुद्यतम् ॥ १४.२२॥
हेमावनीषु प्रतिबिम्बमात्मनो मुहुर्विलोक्याभिमुखं महागजाः ।
रसातलोत्तीर्णगजभ्रमात्क्रुधा दन्तप्रकाण्डप्रहृतानि तेनिरे ॥ १४.२३॥
सुजातसिन्दूरपरागपिञ्जरैः कलं चलद्भिः सुरसैन्यसिन्धुरैः ।
शुद्धासु चामीकरशैलभूमिषु नादृश्यत स्वं प्रतिबिम्बमग्रतः ॥ १४.२४॥
इति क्रमेणामरराजवाहिनी महाहवाम्भोधिविलासलालसा ।
अवातरत्काञ्चनशैलतो द्रुतं कोलाहलाक्रान्तविधूतकन्दरा ॥ १४.२५॥
महाचमूस्यन्दनचण्डचीत्कृतैर्विलोलघण्टेभपतेश्च बृंहितैः ।
सुरेन्द्रशैलेन्द्रमहागुहाशयाः सिंहा महत्स्वप्नसुखं न तत्यजुः ॥ १४.२६॥
गम्भीरभेरीध्वनितैर्भयङ्करैर्महागुहान्तप्रतिनादमेदुरैः ।
महारथानां गुरुनेमिनिस्वनैरनाकुलैस्तैर्मृगराजताजनि ॥ १४.२७॥
समुत्थितेन त्रिदिवौकसां महाचमूरवेणाद्रितटान्तदारिणा ।
प्रपेदिरे केसरिणोऽधिकं मदं स्ववीर्यलक्ष्मीमृगराजतावशात् ॥ १४.२८॥
भिया सुरानीकविमर्दजन्मना विदुद्रुवुर्दूरतरं द्रुतं मृगाः ।
गुहागृहान्ताद्बहिरेत्य हेलया तस्थुर्विशङ्कं नितरां मृगाधिपाः ॥ १४.२९॥
विलोकिताः कौतुकिनाऽमरावतीजनेन जुष्टप्रमदेन दूरतः ।
सुराचलप्रान्तभुवः प्रपेदिरे सुविस्तृतायाः प्रसरं सुसैनिकाः ॥ १४.३०॥
पीतासितारक्तसितैः सुराचल प्रान्तस्थितैर्धातुरजोभिरम्बरम् ।
अयत्नगन्धर्वपुरोदयभ्रमं बभार भूम्नोत्पतितैरितस्ततः ॥ १४.३१॥
महास्वनः सैन्यविमर्दसम्भवः कर्णान्तकूलङ्कषतामुपेयिवान् ।
पयोनिधेः क्षुब्धतरस्य वर्धनो बभूव भूम्ना भुवनोदरम्भरिः ॥ १४.३२॥
महागजानां गुरुबृंहितैस्ततैः सुहेषितैर्घोरतरैश्च वाजिनाम् ।
घनै रथानां गुरुचण्डचीत्कृतैस्तिरोहितोऽभूत्पटहस्य निःस्वनः ॥ १४.३३॥
महासुराणामवरोधयोषितां कचाक्षिपक्ष्मस्तनमण्डलेषु च ।
ध्वजेषु नागेषु रथेषु वाजिषु क्षणेन तस्थौ सुरसैन्यजं रजः ॥ १४.३४॥
घनैर्विलोक्य स्थगितार्कमण्डलैश्चमूरजोभिर्निचितं नभःस्थलम् ।
अयायि हंसैरभि मानसं घनभ्रमेण सानन्दमनर्ति केकिभिः ॥ १४.३५॥
सान्द्रैः सुरानीकरजोभिरम्बरे नवाम्बुदानीकनिभैरभिश्रितै ।
चकाशिरे स्वर्णमया महाध्वजाः परिस्फुरन्तस्तडितां गणा इव ॥ १४.३६॥
विलोक्य धूलीपटलैर्भृशं भृतं द्यावापृथिव्योरलमन्तरं महत् ।
किमूर्ध्वतोऽधः किमधस्त ऊर्ध्वतो रजोऽभ्युपैतीति जनैरतर्क्यत ॥ १४.३७॥
नोर्ध्वं न चाधो न पुरो न पृष्ठतो न पार्श्वतोऽभूत्खलु चक्षुषोर्गतिः ।
सूच्यग्रभेद्यैः पृतनारजश्चयैराच्छादिता प्राणिगणस्य सर्वतः ॥ १४.३८॥
दिगन्तदन्त्यावलिदानहारिभिर्विमानरन्ध्रप्रतिनादमेदुरैः ।
अनेकवाद्यध्वनितैरनारतैर्जगर्ज गाढं गुरुभिर्नभस्तलम् ॥ १४.३९॥
भुवं विगाह्य प्रययौ महाचमूः क्वचिन्न मान्ती महतीं दिवं खलु ।
सुसङ्कुलायामपि तत्र निर्भरात्किं कान्दिशीकत्वमवाप नाकुला ॥ १४.४०॥
उद्दामदानद्विपवृन्दबृंहितैर्नितान्तमुत्तुङ्गतुरङ्गहेषितैः ।
चलद्घनस्यन्दननेमिनिःस्वनैरभून्निरुच्छ्वासमिवाकुलं जगत् ॥ १४.४१॥
महागजानां गुरुभिस्तु गर्जितैर्विलोलघण्टारणितै रणोल्वणैः ।
वीरप्रणादैः प्रमदप्रमेदुरैर्वाचालतामादधिरेतरां दिशः ॥ १४.४२॥
दन्तीन्द्रदानद्रववारिवीचिभिः सद्योऽपि नद्यो बहुधा पुपूरिरे ।
धारा रजोभिस्तुरगैः क्षतैर्भृता याः पङ्कतामेत्य रथैः स्थलीकृताः ॥ १४.४३॥
निम्नाः प्रदेशाः स्थलतामुपागमन्निम्नत्वमुच्चैरपि सर्वतश्च ते ।
तुरङ्गमाणां व्रजतां खुरैः क्षता रथैर्गजेन्द्रैः परितः समीकृताः ॥ १४.४४॥
नभोदिगन्तप्रतिघोषभीषणैर्महामहीभृत्तटदारणोल्वणैः ।
पयोधिनिर्धूननकेलिभिर्जगद् बभूव भेरीध्वनितैः समाकुलम् ॥ १४.४५॥
इतस्ततो वातविधूत चञ्चलैर्नोरन्ध्रिताशागमनैर्ध्वजांशुकैः ।
लक्षैः क्वणत्काञ्चनकिङ्किणीकुलैरमज्जि धूलीजलधौ नभोगते ॥ १४.४६॥
घण्टारवै रौद्रतरैर्निरन्तरं विसृत्वरैर्गर्जरवैः सुभैरवैः ।
मत्तद्विपानां प्रथयाम्बभूविरे न वाहिनीनां पटहस्य निःस्वनाः ॥ १४.४७॥
करालवाचालमुखाश्चमूस्वनैर्ध्वस्ताम्बरा वीक्ष्य दिशो रजस्वलाः ।
तिरोबभूवे गहनैर्दिनेश्वरो रजोन्धकारैः परितः कुतोऽप्यसौ ॥ १४.४८॥
आक्रान्तपूर्वा रभसेन सैनिकैर्दिगङ्गना व्योम रजोभिदूषिता ।
भेरीरवाणां प्रतिशब्दितैर्घनैर्जगर्ज गाढं घनमत्सरादिव ॥ १४.४९॥
गुरुसमीरसमीरितभूधरा इव गजा गगनं विजगाहिरे ।
गुरुतरा इव वारिधरा रथा भुवमितीह विवर्त इवाभवत् ॥ १४.५०॥
बलवदसुरलोकानल्पकल्पान्तकाले
निरवधय इवाम्भोराशयो घोरघोषाः ।
गुरुतरपरिमज्जद्भूभृतो देवसेना
ववृधुरपि सुपूर्णा व्योमभूम्यन्तराले ॥ १४.५१॥
इति श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये
देवसेनाप्रयाणं नाम चतुर्दशः सर्गः सम्पूर्णः ॥ १४॥
सर्गः १५ - सुरासुरसैन्यसङ्ग्रामः
सेनापतिं नन्दनमन्धकद्विषो युधे पुरस्कृत्य बलस्य शात्रवः ।
सैन्यैरुपैतीति सुरद्विषां पुरोऽभूत्किंवदन्ती हृदयप्रकम्पिनी ॥ १५.१॥
चमूप्रभुं मन्मथमर्दनात्मजं विजित्वरीभिर्विजयश्रियाश्रितम् ।
श्रुत्वा सुराणां पृतनाभिरागतं चित्ते चिरं चुक्षुभिरे महासुराः ॥ १५.२॥
समेत्य दैत्याधिपतेः पुरे स्थिताः किरीटबद्धाञ्जलयः प्रणम्य ते ।
न्यवेदयन्मन्मथशत्रुसूनुना युयुत्सुना जम्भजितं सहागतम् ॥ १५.३॥
दासीकृताशेषजगत्त्रयं न मां जिगाय युद्धे कतिशः शचीपतिः ।
गिरीशपुत्रस्य बलेन साम्प्रतं ध्रुवं विजेतेति स काकुतोऽहसत् ॥ १५.४॥
ततः क्रुधा विस्फुरिताधराधरः स तारको दर्पितदोर्बलोद्धतान् ।
युधे त्रिलोकीजयकेलिलालसः सेनापतीन् सन्नहनार्थमादिशत् ॥ १५.५॥
महाचमूनामधिपाः समन्ततः सन्नह्य सद्यः सुतरामुदायुधाः ।
तस्थुर्विनम्रक्षितिपालसङ्कुले तदङ्गनद्वारवरप्रकोष्ठके ॥ १५.६॥
स द्वारपालेन पुरः प्रदर्शितान्कृतानतीन्बाहुवरानधिष्ठितान् ।
महाहवाम्भोधिविधूननोद्धतान्ददर्श राजा पृतनाधिपान्बहून् ॥ १५.७॥
बली बलारातिबलातिशातनं दिग्दन्तिनादद्रवनाशनस्वनम् ।
महीधराम्भोधिनवारितक्रमं ययौ रथं घोरमथाधिरुह्य सः ॥ १५.८॥
युगक्षयक्षुब्धपयोधिनिःस्वनाश्चलत्पताकाकुलवारितातपाः ।
धरारजोग्रस्तदिगन्तभास्कराः पतिं प्रयान्तं पृतनास्तमन्वयुः ॥ १५.९॥
चमूरजः प्राप दिगन्तदन्तिनां महासुरस्याभिसुरं प्रसर्पिणः ।
दन्तप्रकाण्डेषु सितेषु शुभ्रतां कुम्भेषु दानाम्बुघनेषु पङ्कताम् ॥ १५.१०॥
महीभृतां कन्दरदारणोल्बणैस्तद्वाहिनीनां पटहस्वनैर्घनैः ।
उद्वेलिताश्चुक्षुभिरे महार्णवा नभःस्त्रवन्ती सहसाऽभ्यवर्धत ॥ १५.११॥
सुरारिनाथस्य महाचमूस्वनैर्विगाह्यमाना तुमुलैः सुरापगा ।
अभ्युच्छ्रितैरूर्मिशतैश्च वारिजैरक्षालयन्नाकनिकेतनावलीम् ॥ १५.१२॥
अथ प्रयाणाभिमुखस्य नाकिनां द्विषः पुरस्तादशुभोपदेशिनी ।
अगाधदुःखाम्बुधिमध्यमज्जनं बभूव चोत्पातपरम्परा तव ॥ १५.१३॥
आगामिदैत्याशनकेलिकाङ्क्षिणी कुपक्षिणां घोरतरा परम्परा ।
दधौ पदं व्योम्नि सुरारिवाहिनीरुपर्युपर्येत्यनिवारितातपा ॥ १५.१४॥
मुहुर्विभग्नातपवारणध्वजश्चलद्धराधूलिकुलाकुलेक्षणः ।
धूताश्वमातङ्गमहारथाकरानवेक्षणोऽभूत्प्रसभं प्रभञ्जनः ॥ १५.१५॥
सद्यो विभिन्नाञ्जनपुञ्जतेजसो मुखैर्विषाग्निं विकिरन्त उच्चकैः ।
पुरः पथोऽतीत्य महाभुजङ्गमा भयङ्कराकारभृतो भृशं ययुः ॥ १५.१६॥
मिलन्महाभीमभुजङ्गभूषणं प्रभुर्दिनानां परिवेषमादधौ ।
महासुरस्य द्विषतोऽतिमत्सरादि वान्तमासूचयितुं भयङ्करः ॥ १५.१७॥
त्विषामधीशस्य पुरोऽधिमण्डलं शिवाः समेताः परुषं ववाशिरे ।
सुरारिराजस्य रणान्तशोणितं प्रसह्य पातुं द्रुतमुत्सुका इव ॥ १५.१८॥
दिवापि तारास्तरलास्तरस्विनीः परापतन्तीः परितोऽथ वाहिनीः ।
विलोक्य लोको मनसा व्यचिन्न्तयत्प्राणव्ययान्तं व्यसनं सुरद्विषः ॥ १५.१९॥
ज्वलद्भिरुच्चैरभितः प्रभाभरैरुद्भासिताशेषदिगन्तराम्बरम् ।
रवेण रौद्रेण हृदन्तदारणं पपात वज्रं नभसो निरम्बुदात् ॥ १५.२०॥
ज्वलद्भिरङ्गारचयैर्नभस्तलं ववर्ष गाढं सह शोणितास्थिभिः ।
धूमं ज्वलन्त्यो व्यसृजन्मुखै रजो दधुर्दिशो रासभकण्ठधूसरम् ॥ १५.२१॥
निर्घातघोषो गिरिश्रृङ्गशातनो घनोऽम्बराशाकुहरोदरम्भरिः ।
बभूव भूम्ना श्रुतिभित्तिभेदनः प्रकोपिकालार्जितगर्जितर्जनः ॥ १५.२२॥
स्खलन्महेभं प्रपतत्तुरङ्गमं परस्पराश्लिष्टजनं समन्ततः ।
प्रक्षुभ्यदम्भोधिविभिन्नभूधराद् बलं द्विषोऽभूदवनि प्रकम्पात् ॥ १५.२३॥
ऊर्ध्वीकृतास्या रविदत्तदृष्टयः समेत्य सर्वे सुरविद्विषः पुरः ।
श्वानः स्वरेण श्रवणान्तशातिना मिथो रुदन्तः करुणेन निर्ययुः ॥ १५.२४॥
अपीति पश्यन्परिणामदारुणां महत्तमां गाढमरिष्टसन्ततिम् ।
दुर्दैवदष्टो न खलु न्यवर्तत क्रुधा प्रयाणव्यवसायतो सुरः ॥ १५.२५॥
अरिष्टमाशङ्क्य विपाकदारुणं निवार्यमाणोऽपि बुधैर्महासुरः ।
पुरः प्रतस्थे महतां वृथा भवेदसद्ग्रहान्धस्य हितोपदेशनम् ॥ १५.२६॥
क्षितौ निरस्तं प्रतिकूलवायुना तदीयचामीकरघर्मवारणम् ।
रराज मृत्योरिव पारणाविधौ प्रकल्पितं हाटकभाजनं महत् ॥ १५.२७॥
विजानता भावि शिरो निकृन्तनं प्रज्ञेन शोकादिव तस्य मौलिना ।
मुहुर्गलद्भिस्तरलैरलन्तरामरोदि मुक्ताफलवाष्पबिन्दुभिः ॥ १५.२८॥
निवार्यमाणैरभितोऽनुयायिभिर्ग्रहीतुकामैरिव तं मुहुर्मुहुः ।
अपाति गृध्रैरभिमौलिमाकुलैर्भविष्यदेतन्मरणोपदेशिभिः ॥ १५.२९॥
सद्यो निकृत्ताञ्जनसोदरद्युतिं फणामणिप्रज्वलदंशुमण्डलम् ।
निर्यद्विषोल्कानलगर्भफूत्कृतं ध्वजे जनस्तस्य महाहिमैक्षत ॥ १५.३०॥
रथाश्वकेशावलिकर्णचामरं ददाह बाणासनबाणबाणधीन् ।
अकाण्डतश्चण्डतरो हुताशनस्तस्यातनुस्यन्दनधुर्यगोचरः ॥ १५.३१॥
इत्याद्यरिष्टैरशुभोपदेशिभिर्विहन्यमानोऽप्यसुरः पुनः पुनः ।
यदा मदान्धो न गतात्न्यवर्तताम्बरात्तदाभून्मरुतां सरस्वती ॥ १५.३२॥
मदान्ध मा गा भुजदण्डचण्डिमावलेपतो मन्मथहन्तृसूनुना ।
सुरैः सनाथेन पुरन्दरादिभिः समं समन्तात्समरं विजित्वरैः ॥ १५.३३॥
गुहोऽसुरैः षड्दिनजातमात्रको निदाघधामेव निशातमोभरैः ।
विषह्यते नाभिमुखो हि सङ्गरे कुतस्त्वया तस्य समं विरोधिता ॥ १५.३४॥
अभ्रंलिहैः श्रृङ्गशतैः समन्ततो दिक्चक्रवालैः स्थगितस्य भूभृतः ।
क्रौञ्चस्य रन्ध्रं विशिखेन निर्ममे येनाहवस्तस्य सह त्वया कुतः ॥ १५.३५॥
लब्ध्वा धनुर्वेदमनङ्गविद्विषस्त्रिःसप्तकृत्वः समरे महीभुजाम् ।
कृत्वाभिषेकं रुधिराम्बुभिर्घनैः स्वक्रोधवह्निं शमयाम्बभूव यः ॥ १५.३६॥
न जामदग्न्यः क्षयकालरात्रिकृत्स क्षत्रियाणां समराय वल्गति ।
येन त्रिलोकीसुभटेन तेन कुतोऽवकाशः सह विग्रहग्रहे ॥ १५.३७॥
त्यजाशु गर्वं मदमूढ मा स्म गाः स्मरारिसूनोर्वरशक्तिगोचरम् ।
तमेव नूनं शरणं व्रजाधुना जगत्सुवीरं स चिराय जीव तत् ॥ १५.३८॥
श्रुत्वेति वाचं वियतो गरीयसीं क्रोधादहङ्कारपरो महासुरः ।
प्रकम्पिताशेषजगत्त्रयोऽपि सन्नकम्पतोच्चैर्दिवमभ्यधाच्च सः ॥ १५.३९॥
किं ब्रूथ रे व्योमचरा महासुराः स्मरारिसूनुप्रतिपक्षवर्तिनः ।
मदीयबाणव्रणवेदना हि साऽधुना कथं विस्मृतिगोचरीकृता ॥ १५.४०॥
कटुस्वरैः प्रालपथाम्बरस्थिताः शिशोर्बलात्षड्दिनजातकस्य किम् ।
श्वानः प्रमत्ता इव कार्तिके निशि स्वैरं वनान्ते मृगधूर्तका इव ॥ १५.४१॥
सङ्गेन वो गर्भतपस्विनः शिशुर्वराक एषोऽन्तमवाप्स्यति ध्रुवम् ।
अतस्करस्तस्करसङ्गतो यथा तद्वो निहन्मि प्रथमं ततोऽप्य मुम् ॥ १५.४२॥
इतीरयत्युग्रतरं महासुरे महाकृपाणं कलयत्यलं क्रुधा ।
परस्परोत्पीडितजानवो भयान्नभश्चरा दूरतरं विदुद्रुवुः ॥ १५.४३॥
ततोऽवलेपाद्विकटं विहस्य स व्यवत्त कोशादसिमुत्तमं बहिः ।
रथं द्रुतं प्रापय वासवान्तिकं नन्वित्यवोचन्निजसारथिं रथी ॥ १५.४४॥
मनोतिवेगेन रथेन सारथिप्रणोदितेन प्रचलन्महासुरः ।
ततः प्रपेदे सुरसैन्यसागरं भयङ्कराकारमपारमग्रतः ॥ १५.४५॥
पुरः सुराणां पुतनां प्रथीयसीं विलोक्य वीरः पुलकं प्रमोदजम् ।
बभार भूम्नाथ स बाहुदण्डयोः प्रचण्डयोः सङ्गरकेलिकौतुकी ॥ १५.४६॥
ततो महेन्द्रस्य चराश्चमूचरा रणान्तलीलारभसेन भूयसा ।
पुरः प्रचेलुर्मनसोऽतिवेगिनो युयुत्सुभिः किं समरे विलम्ब्यते ॥ १५.४७॥
पुरःस्थितं देवरिपोश्चमूचरा बलद्विषः सैन्यसमुद्रमभ्ययुः ।
भुजं समुत्क्षिप्य परेभ्य आत्मनोऽभिधानमुच्चैरभितो न्यवेदयन् ॥ १५.४८॥
पुरोगतं दैत्यचमूमहार्णवं दृष्ट्वा परं चुक्षुभिरे महासुराः ।
पुरारिसूनोर्नयनैककोणके ममुर्भटास्तस्य रणेऽवहेलया ॥ १५.४९॥
द्विषद्वलत्रासवि भीषिताश्चमूर्दिवौकसामन्धकशत्रुनन्दनः ।
अपश्यदुद्दिश्य महारणोत्सवं प्रसादपीयूषधरेण चक्षुषा ॥ १५.५०॥
उत्साहिताः शक्तिधरस्य दर्शनान्मृधे महेन्द्रप्रमुखा मखाशनाः ।
अहं मृधे जेतुमरीनरीरमन्न कस्य वीर्याय वरस्य सङ्गतिः ॥ १५.५१॥
परस्परं वज्रधरस्य सैनिका द्विषोऽपि योद्धुं स्वकरोद्धृतायुधाः ।
वैतालिकश्राविततारविक्रमाभिधानमीयुर्विजयैषिणो रणे ॥ १५.५२॥
सङ्ग्रामं प्रलयाय सन्निपततो वेलामतिक्रामतो
वृन्दारासुरसैन्यसागरयुगस्याशेषदिग्व्यापिनः ।
कालातिथ्यभुजो बभूव बहलः कोलाहलः क्रोषणः
शैलोत्तालतटीविघट्टनपटुर्ब्रह्माण्डकुक्षिम्भरिः ॥ १५.५३॥
इति श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये
सुरासुरसैन्यसङ्ग्रामो नाम पञ्चदशः सर्गः सम्पूर्णः ॥ १५॥
सर्गः १६ - सुरासुरसङ्ग्रामवर्णनं
अथान्योन्यं विमुक्तास्त्रशस्त्रजालैर्भयङ्करैः ।
युद्धमासीत्सुनासीरसुरारिबलयोर्महत् ॥ १६.१॥
पत्तिः पत्तिमभीयाय रणाय रथिनं रथी ।
तुरङ्गस्थं तुरड्गस्थो दन्तिस्थं दन्तिनि स्थितः ॥ १६.२॥
युद्धाय धावतां धीरं वीराणामितरेतरम् ।
वैतालिकाः कुलाधीशा नामान्यलमुदाहरन् ॥ १६.३॥
पठतां वन्दिवृन्दानां प्रवीरा विक्रमावलीम् ।
क्षणं विलम्ब्य चित्तानि ददुर्युद्धोत्सुकाः पुरः ॥ १६.४॥
सङ्ग्रामानन्दवर्धिष्णौ विग्रहे पुलकाञ्चिते ।
आसीत्कवचविच्छेदो वीराणां मिलतां मिथः ॥ १६.५॥
निर्दयं खड्गभिन्नेभ्यः कवचेभ्यः समुत्थितैः ।
आसन्ध्योमदिशस्तूलैः पलितैरिव पाण्डुराः ॥ १६.६॥
खड्गा रुधिरसंलिप्ताश्चण्डांशुकरभासुराः ।
इतस्ततोऽपि वीराणां विद्युतां वैभवं दधुः ॥ १६.७॥
विसृजन्तो मुखैर्ज्वाला भीमा इव भुजङ्गमाः ।
विसृष्टाः सुभटै रुष्टैर्व्योम व्यानशिरे शराः ॥ १६.८॥
बाढं वपूंषि निर्भिद्य धन्विनां निघ्नतां मिथः ।
अशोणितमुखा भूमिं प्राविशन्दूरमाशुगाः ॥ १६.९॥
निर्भिद्य दन्तिनः पूर्वं पातयामासुराशुगाः ।
पेतुः प्रवरयोधानां प्रीतानामाहवोत्सवे ॥ १६.१०॥
ज्वलदग्निमुखैर्वाणैर्नीरन्ध्रैरितरेतरम् ।
उच्चैर्वैमानिका व्योम्नि कीर्णे दूरमपासरन् ॥ १६.११॥
विभिन्नं धन्विनां बाणैर्व्यथार्तमिव विह्वलम् ।
ररास विरसं व्योम श्येनप्रतिरवच्छलात् ॥ १६.१२॥
चापैराकर्णमाकृष्टैर्विमुक्ता दूरमाशुगाः ।
अधाबन्रुधिरास्वादलुब्धा इव रणैषिणाम् ॥ १६.१३॥
गृहीताः पाणिभिर्वीरैर्विकोशाः खङ्गराजयः ।
कान्तिजालच्छलादाजौ व्यहसन्सम्मदादिव ॥ १६.१४॥
खड्गाः शोणितसन्दिग्धा नृत्यन्तो वीरपाणिषु ।
रजोघने रणेऽनन्ते विद्युतां वैभवं दधुः ॥ १६.१५॥
कुन्ताश्चकाशिरे चण्डमुल्लसन्तो रणार्थिनाम् ।
जिह्वाभोगा यमस्येव लेलिहाना रणाङ्गणे ॥ १६.१६॥
प्रज्वलत्कान्तिचक्राणि चक्राणि वरचक्रिणाम् ।
चण्डांशुमण्डलश्रीणि रणव्योमनि बभ्रमुः ॥ १६.१७॥
केचिद्धीरैः प्रणादैश्च वीराणामभ्युपेयुषाम् ।
निपेतुः क्षोभतो वाहादपरे मुमुहुर्मदात् ॥ १६.१८॥
कश्चिदभ्यागते वीरे जिघांसौ मुदमादधौ ।
परावृत्य गते क्षुब्धे विषसादाहवप्रियः ॥ १६.१९॥
बहुभिः सह युद्ध्वा वा परिभ्रम्य रणोल्बणाः ।
उद्दिश्य तानुपेयुः केऽपि ये पूर्ववृता रणे ॥ १६.२०॥
अभितोऽभ्यागतान्योद्धुं वीरान्रणमदोद्धतान् ।
प्रत्यनन्दन्भुजादण्डरोमोद्गमभृतो भटाः ॥ १६.२१॥
शस्त्रभिन्नेभकुम्भेभ्यो मौक्तिकानि च्युतान्यधः ।
अध्याहवक्षेत्रमुप्तकीर्तिबीजाङ्कुरश्रियम् ॥ १६.२२॥
वीराणां विषमैर्घोषूर्विद्रुता वारणा रणे ।
शास्यमाना अपि त्रासाद्भेजुर्धूताङ्कुशा दिशः ॥ १६.२३॥
रणे वाणगणैर्भिन्ना भ्रमन्तो भिन्नयोधिनः ।
निममज्जुर्मिलद्रक्तनिम्नगासु महागजाः ॥ १६.२४॥
अपारेऽसृक्सरित्पूरे रथेषूच्चैस्तरेष्वपि ।
रथिनोऽभिरिपुं क्रुद्धा हुङ्कृतैर्व्यसृजञ्शरान् ॥ १६.२५॥
खड्गनिर्लूनमूर्धानो व्यापतन्तोऽपि वाजिनः ।
प्रथमं पातयामासुरसिना दारितानरीन् ॥ १६.२६॥
वीराणां शस्त्रभिन्नानि शिरांसि निपतन्त्यपि ।
अधावन्दन्तदष्टोष्ठभीमान्यभिरिपुं क्रुधा ॥ १६.२७॥
शिरांसि वरयोधानामर्धचन्द्रहृतान्यलम् ।
आदधाना भृशं पादैः श्येना व्यानशिरे नभः ॥ १६.२८॥
क्रोधादभ्यापतद्दन्तिदन्तारुढाः पदातयः ।
अश्वारोहा गजारोहप्राणान्प्रासैरपाहरन् ॥ १६.२९॥
शस्त्रच्छिन्नगजारोहा विभ्रमन्त इतस्ततः ।
युगान्तवातचलिताः शैला इव गजा बभुः ॥ १६.३०॥
मिलितेषु मिथो योद्धुं दन्तिषु प्रसभं भटाः ।
अगृह्णन्युद्ध्यमानाश्च शस्त्रैः प्राणान्परस्परम् ॥ १६.३१॥
रुषा मिथो मिलद्दन्तिदन्तसङ्घर्षजोऽनलः ।
योधाञ्शस्त्रहृतप्राणानदहत्सहसारिभिः ॥ १६.३२॥
आक्षिप्ता अपि दन्तीन्द्राः कोपनैः पत्तयः परम् ।
तदसूनहरन्खड्गघातैः स्वस्य पुरः प्रभोः ॥ १६.३३॥
उत्क्षिप्य करिभिर्दूरान्मुक्तानां योधिनां दिवि ।
प्रापि जीवात्मभिर्दिव्या गतिर्वा विग्रहैर्मही ॥ १६.३४॥
खड्गैर्धवलधारालैर्निहत्य करिणां करान् ।
तैर्भुवापि समं विद्धान्सन्तोषं न भटा ययुः ॥ १६.३५॥
आक्षिप्याभिदिवं नीताः पत्तयः करिभिः करः ।
दिव्याङ्गनाभिरादातुं रक्ताभिर्द्रुतमीषिरे ॥ १६.३६॥
धन्विनस्तुरगारुढा गजारोहाञ्शरैः क्षतान् ।
प्रत्यैच्छन्मूर्च्छितान्भूयो योद्धुमाश्वसतश्चिरम् ॥ १६.३७॥
क्रुद्धस्य दन्तिनः पत्तिर्जिघृक्षोरसिना करम् ।
निर्भिद्य दन्तमुसलावारुरोह जिघृक्षया ॥ १६.३८॥
खड्गेन मूलतो हत्वा दन्तिनो रदनद्वयम् ।
प्रातिपक्ष्ये प्रविष्टोऽपि पदातिर्निरगाद्द्रुतम् ॥ १६.३९॥
करेण करिणा वीरः सुगृहीतोऽपि कोपिना ।
असिनासूञ्जहाराशु तस्यैव स्वयमक्षतः ॥ १६.४०॥
तुरङ्गी तुरगारुढं प्रासेनाहत्य वक्षसि ।
पततस्तस्य नाज्ञासीत्प्रसघातं स्वके हृदि ॥ १६.४१॥
द्विषा प्रासहृतप्राणो वाजिपृष्ठदृढासनः ।
हस्तोद्धृतमहाप्रासो भुवि जीवन्निवाभ्रमत् ॥ १६.४२॥
तुरङ्गसादिनं शस्त्रहृतप्राणं मतं भुवि ।
अबद्धोऽपि महावाजी न साश्रुनयनोऽत्यजत् ॥ १६.४३॥
भल्लेन शितधारेण भिन्नोऽपि रिपुणाश्वगः ।
नामूर्च्छत्कोपतो हन्तुमियेष प्रपतन्नपि ॥ १६.४४॥
मिथः प्रासाहतौ वाजिच्युतौ भूमिगतौ रुषा ।
शस्त्र्या युयुधतुः कौचित्कोशाकेशि भुजाभुजि ॥ १६.४५॥
रथिनो रथिभिर्बाणैर्हृतप्राणा दृढासनाः ।
क्षतकार्मुकसन्धानाः सप्राणा इव मेनिरे ॥ १६.४६॥
न रथी रथिनं भूयः प्राहरच्छस्त्रमूर्च्छितम् ।
प्रत्याश्वसन्तमन्विच्छन्नातिष्ठद्युधि लोभतः ॥ १६.४७॥
अन्योन्यं रथिनौ कौचिद्गतप्राणौ दिवं गतौ ।
एकामप्सरसं प्राप्य युयुधाते वरायुधौ ॥ १६.४८॥
मिथोऽर्धचन्द्रनिर्लूनमूर्धानौ रथिनौ रुचा ।
खेचरौ भुवि नृत्यन्तौ स्वकबन्धावपश्यताम् ॥ १६.४९॥
रणाङ्गणे शोणितपङ्कपिच्छिले कथं कथं चिन्ननृतुर्धृतायुधाः ।
नदत्सु तुर्येषु परेतयोषितां गणेषु गायत्सु कबन्धराजयः ॥ १६.५०॥
इति सुररिपुर्वृत्ते युद्धे सुरासुरसैन्ययो
रुधिरसरितां मज्जद्दन्तिव्रजेषु तटेष्वलम् ।
अरुणनयनः क्रोधाद्भीमभ्रमद्भृकुटीमुखः
सपदि ककुभामीशानभ्यागमत्सयुयुत्सया ॥ १६.५१॥
इति श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये
सुरासुरसङ्ग्रामवर्णनं नाम षोडषः सर्गः सम्पूर्णः ॥ १६॥
सर्गः १७ - तारकासुरवधः
दृष्ट्वाभ्युपेतमथ दैत्यपतिं पुरस्ता-
त्सङ्ग्रामकेलिकुतुकेन घनप्रमोदम् ।
योद्धुं मदेन मिमिलुः ककुभामधीशा
बाणान्धकारितदिगम्बरगर्भमेत्य ॥ १७.१॥
देवद्विषां परिवृढो विकटं विहस्य
बाणावलीभिरमरान्विकटान्ववर्ष ।
शैलानिव प्रवरवारिधरलो गरिष्ठा-
नद्भिः पराभिरथ गाढमनारताभिः ॥ १७.२॥
जम्भद्विषत्प्रभृतिदिक्पतिचापमुक्ता
बाणाः शिताः दनुजनायकबाणसङ्घान् ।
अह्नाय तार्क्ष्यनिवहा इव नागपूगा-
न्सद्यो विचिच्छिदुरलं कणशो रणान्ते ॥ १७.३॥
तान्प्रज्वलत्फलमुखैर्विषमैः सुरारि-
नामाङ्कितैः पिहितदिग्गगनान्तरालैः ।
आच्छादितस्तृणचयानिव हव्यवाह-
श्चिच्छेद सोऽपि सुरसैन्यशराञ्शरौघैः ॥ १७.४॥
दैत्येश्वरो ज्वलितरोषविशेषभीमः
सद्यो मुमोच युधि यान्विशिखान्सहेलः ।
ते प्रापुरुद्भटभुजङ्गमभीमभावं
गाढं बबन्धुरपि तांस्त्रिदशेन्द्रमुख्यान् ॥ १७.५॥
ते नागपाशविशिखैरसुरेण बद्धाः
श्वासानिलाकुलमुखा विमुखा रणस्य ।
दिङ्नायका बलरिपुप्रमुखाः स्मरारि-
सूनोः समीपमगमन्विपदन्तहेतोः ॥ १७.६॥
दृष्टिप्रपातवशतोऽपि पुरारिसूनो-
स्ते नागपाशघनबन्धविपत्तिदुःखात् ।
इन्द्रादयो मुमुचिरे स्वयमस्य देवाः
सेवां व्यधुर्निकटमेत्य महाजिगीषोः ॥ १७.७॥
उद्दीप्तकोपदहनोऽथ सुरेन्द्रशत्रु-
रह्नाय सारथिमवोचत चण्डबाहुः ।
बद्धा मया सुरपतिप्रमुखाः प्रसह्य
बालस्य धूर्जटिसुतस्य निरीक्षणेन ॥ १७.८॥
मुक्ता बभूवुरधुना तदिमान्विहाय
कर्तास्म्यमुं समरभूमिपशूपहारम् ।
तत्स्यन्दनं सपदि वाहय शम्भुसूनुं
द्रष्टास्मि दर्पितभुजाबलमाहवाय ॥ १७.९॥
तत्स्यन्दनः सपदि सारथिसम्प्रणुन्नः
प्रक्षुब्धवारिधरधीरगभीरघोषः ।
चण्डश्चचाल दलिताखिलशत्रुसैन्य-
मांसास्थिशोणितविपङ्कविलुप्तचक्रः ॥ १७.१०॥
दृष्ट्वा रथं प्रलयवातचलद्गिरीन्द्र-
कल्पं दलद्वलविरावविशेषरौद्रम् ।
अभ्यागतं सुररिपोः सुरराजसैन्यं
क्षोभं जगाम परमं भयवेपमानम् ॥ १७.११॥
प्रक्षुभ्यमाणमवलोक्य दिगीशसैन्यं
शम्भोः सुतं कलहकेलिकुतूहलोत्कम् ।
उद्दामदोःकलितकार्मुकदण्डचण्डः
प्रोवाच वाचमुपगम्य स कार्त्तिकेयम् ॥ १७.१२॥
रे शम्भुतापसशिशो ! बत मुञ्च मुञ्च
दोर्दर्पमत्र विरम त्रिदिवेन्द्रकार्यात् ।
शस्त्रैः किमत्र भवतोऽनुचितैरतीव
बालत्वकोमलभुजातुलभारभूतैः ॥ १७.१३॥
एवं त्वमेव तनयोऽसि गिरीशगौर्योः
किं यासि कालविषयं विषमैः शरैर्मे ।
सङ्ग्रामतोऽपसर जीव पितुर्जनन्या
स्तूर्णं प्रविश्य वरमङ्कतलं विधेहि ॥ १७.१४॥
सम्यक्स्वयं किल विमृश्य गिरीशपुत्र
जम्भद्विषोऽस्य जहिहि प्रतिपक्षमाशु ।
एष स्वयं पयसि मज्जति दुर्विगाह्ये
पाषाणनौरिव निमञ्जयते पुरा त्वाम् ॥ १७.१५॥
इत्थं निशम्य वचनं युधि तारकश्च
कम्प्राधरो विकचकोकनदारुणाक्षः ।
क्षोभात्त्रिलोचनसुतो धनुरीक्षमाणः
प्रोवाच वाचमुचितां परिमृश्च शक्तिम् ॥ १७.१६॥
दैत्याधिराज भवता यदवादि गर्वा-
त्तत्सर्वमप्युचितमेव तवैव किं तु ।
द्रष्टास्मि ते प्रवरबाहुबलं वरिष्ठं
शस्त्रं गृहाण कुरु कार्मुकमाततज्यम् ॥ १७.१७॥
इत्युक्तवन्तमवदत्त्रिपुरारिपुत्रं
दैत्यः क्रुधौष्ठमधरं किल निर्विभिद्य ।
युद्धार्थमुद्भटभुजाबलदर्पितोऽसि
बाणान्सहस्व मम सादितशत्रुपृष्ठान् ॥ १७.१८॥
दुष्प्रेक्षणीयमरिभिर्धनुराततज्यं
सद्यो विधाय विषमान्विशिखान्न्यधत्त ।
स क्रोधभीमभुजगेन्द्रनिभं स्वचापं
चण्डं प्रपञ्चयति जैत्रशरैः कुमारे ॥ १७.१९॥
कर्णान्तमेत्य दितिजेन विकृष्यमाणं
कोदण्डमेतदभित सुषुवे शरौघान् ।
व्योमाङ्गणे लिपिकरान्कि रणप्ररोहैः
सान्द्रैरशेषककुभां पलितं करिष्णून् ॥ १७.२०॥
बाणैः सुरारिधनुषः प्रसृतैरनन्तै-
र्निर्घोषभीषितभटो लसदंशुजालैः ।
अन्धीकृताखिलसुरेश्वरसैन्य ईश-
सूनुः कुतोऽपि विषयं न जगाम दृष्टेः ॥ १७.२१॥
देवेन मन्मथरिपोस्तनयेन गाढ-
माकर्णकृष्टमभितो धनुराततज्यम् ।
बाणानसूत निशितान्युधि यान्सुजैत्रां-
स्तैः सायका बिभिदिरे सहसा सुरारेः ॥ १७.२२॥
रेजे सुरारिशरदुर्दिनके निरस्ते
सद्यस्तरां निखिलखेचरखेदहेतौ ।
देवः प्रभाप्रभुरिव स्मरशत्रुसूनुः
प्रद्योतनः सुघनदुर्धरधामधामा ॥ १७.२३॥
तत्राथ दु सहतरं समरे तरस्वी
धामाधिकं दधति धीरतरं कुमारे ।
मायामयं समरमाशु महासुरेन्द्रो
मायाप्रचारचतुरो रचयाञ्चकार ॥ १७.२४॥
अह्नाय कोपकलुषो विकटं विहस्य
व्यर्थां समर्थ्य वरशस्त्रयुधं कुमारे ।
जिष्णुर्जगद्विजयदुर्ललितः सहेलं
वायव्यमस्त्रमसुरो धनुषि न्यधत्त ॥ १७.२५॥
सन्धानमात्रमपि यस्य युगान्तकाल-
भूतभ्रमं पुरुषभीषणधोरघोषः ।
उद्धूतधूलिपटलैः पिहिताम्बराशः
प्रच्छन्नचण्डकिरणो व्यसरत्समीरः ॥ १७.२६॥
कुन्दोज्जवलानि सकलातपवारणानि
धूतानि तेन मरुता सुरसैनिकानाम् ।
उड्डीयमानकलहंसकुलोपमानि
मेघाभधूलिमलिने नभसि प्रसस्त्रुः ॥ १७.२७॥
विध्वस्य तेन सुरसैन्यमहापताका
नीता नभस्थलमलं नवमल्लिकाभाः ।
स्वर्गापगाजलमहौघसहस्त्रलीलां
व्यातेनिरे दिवि सिताम्बरकैतवेन ॥ १७.२८॥
धूतानि तेन सुरसैन्यमहागजानां
सद्यःशतानि विधुराणि दलत्कुथानि ।
पेतुः क्षितौ कुपितवासववज्रलून-
पक्षस्य भूधरकुलस्य तुलां वहन्ति ॥ १७.२९॥
तास्ताः खरेण मरुता रथराजयोऽपि
दोधूयमाननिपतिष्णुतुरङ्गमाश्च ।
विस्त्रस्तसारथिकुलप्रवराः समन्ताद्
व्यावृत्य पेतुरवनौ सुरवाहिनीनाम् ॥ १७.३०॥
हित्वायुधानि सुरसैन्यतुरङ्गवाहा
वातेन तेन विधुराः सुरसैन्यमध्ये ।
शस्त्राभिघातमनवाप्य निपेतुरुर्व्यां
स्वीयेषु वाहनवरेषु पतत्सु सत्सु ॥ १७.३१॥
तेनाहतास्त्रिदशसैन्यपदातयोऽपि
स्रस्तायुधाः सुविधुराः परुषं रसन्तः ।
वात्साविवर्तदलवद्भ्रममेत्य दूरं
निष्पेतुरम्बरतलाद्वसुधातलेऽस्मिन् ॥ १७.३२॥
इत्थं विलोक्य सुरसैन्यमथो अशेषं
दैत्येश्वरेण विधुरीकृतमस्त्रयोगात् ।
स्वर्लोकनाथकमलाकुशलैकहेतु-
र्दिव्यं प्रभावमतनोदतनुः स देवः ॥ १७.३३॥
तेनोज्झितं सकलमेव सुरेन्द्रसैन्यं
स्वास्थ्यं प्रपद्य पुनरेव युधि प्रवृत्तम् ।
दृष्ट्वासृजद्दहनदैवतमस्त्रमिद्ध-
मुद्दीप्तकोपदहनः सहसा सुरारिः ॥ १७.३४॥
वर्षातिकालजलदद्युतयो नभोऽन्ते
गाढान्धकारितदिशो घनधूमसङ्घाः ।
सद्यः प्रसस्रुरसितोत्पलदामभासो
दृग्गोचरत्वमखिलं न हि सन्नयन्तः ॥ १७.३५॥
दिक्चक्रवालगिलनैर्मलिनैस्तमोभि-
र्लिप्तं नभःस्थलमलं घनवृन्दसान्द्रैः ।
धूमैर्विलोक्य मुदिताः खलु राजहंसा
गन्तुं सरः सपदि मानसमीषुरुच्चैः ॥ १७.३६॥
जज्वाल वह्निरतुलः सुरसैनिकेषु
कल्पान्तकालदहनप्रतिमः समन्तात् ।
आशामुखानि विमलान्यखिलानि कीला-
जालैरलं कपिलयन्सकलं नभोऽपि ॥ १७.३७॥
उज्जागरस्य दहनस्य निरर्गलस्य
ज्वालावलीभिरतुलाभिरनारताभिः ।
कीर्णं पयोदनिवहैरिव धूमसङ्घै-
र्व्योमाभ्यलक्ष्यत कुलैस्तडितामिवोच्चैः ॥ १७.३८॥
गाढाद्भयाद्वियति विद्रुतखेचरेण
दीप्तेन तेन दहनेन सुदुःसहेन ।
दन्दह्यमानमखिलं सुरराजसैन्य-
मत्याकुलं शिवसुतस्य समीपमाप ॥ १७.३९॥
इत्यग्निना घनतरेण ततोऽभिभूतं
तद्देवसैन्यमखिलं विकलं विलोक्य ।
सस्मेरवक्त्रकमलोऽन्धकशत्रुसूनु-
र्बाणासनेन समधत्त स वारुणास्त्रम् ॥ १७.४०॥
घोरान्धकारनिकरप्रतिमो युगान्त-
कालानलप्रबलधूमनिभो नभोन्ते ।
गर्जारवैर्विघटयन्नवनीधराणां
श्रृङ्गाणि मेघनिवहो घनमुज्जगाम ॥ १७.४१॥
विद्युल्लता वियति वारिदवृन्दमध्ये
गम्भीरभीषणरवैः कपिशीकृताशा ।
घोरा युगान्तचलितस्य भयङ्कराऽथ
कालस्य लोलरसनेव चमच्चकार ॥ १७.४२॥
कादम्बिनी विरुरुचे विषकण्ठिकाभि-
रुत्तालकालरजनीजलदावलीभिः ।
व्योम्न्युच्चकैरचिररुक्परिदीपिताशाऽ-
दृष्टिच्छदा विषमघोषविभीषणा च ॥ १७.४३॥
व्योम्नस्तलं पिदधतां ककुभां मुखानि
गर्जारवैरविरतैस्तुदतां मनांसि ।
अम्भोभृतामतितरामनणीयसीभि-
र्धारावलीभिरभितो ववृषे समूहैः ॥ १७.४४॥
घोरान्धकारपटलैः पिहिताम्बराणां
गम्भीरगर्जनरवैर्व्यथितासुराणाम् ।
वृष्ट्याऽनया जलमुचां वरुणास्त्रजानां
विश्वोदरम्भरिरपि प्रशशाम वह्निः ॥ १७.४५॥
दैत्योऽपि रोषकलुषो निशितैः क्षुरप्रै-
राकर्णकृष्टधनुरुत्पतितैः स भीमैः ।
तद्भीतिविद्रुतसमस्तसुरेन्द्रसैन्यं
गाढं जघान मकरध्वजशत्रुसूनुम् ॥ १७.४६॥
देवोऽपि दैत्यविशिखप्रकरं सचापं
बाणैश्चकर्त कणशो रणकेलिकारी ।
योगीव योगविधिशुष्कमना यमाद्यैः
सांसारिकं विषयसङ्घममोघवीर्यम् ॥ १७.४७॥
भ्रूभह्गभीषणमुखोऽसुरचक्रवर्ती
सन्दीप्तकोपदहनोऽथ रथं विहाय ।
क्रीडत्करालकरवालकरोऽसुरेन्द्र-
स्तं प्रत्यधावदभितस्त्रिपुरारि सूनुम् ॥ १७.४८॥
अभ्यापतन्तमसुराधिपमीशपुत्रो
दुर्वारबाहुविभवं सुरसैनिकैस्तम् ।
दृष्ट्वा युगान्तदहनप्रतिमां मुमोच
शक्तिं प्रमोदविकसद्वदनारविन्दः ॥ १७.४९॥
उद्द्योतिताम्बरदिगन्तरमंशुजालैः
शक्तिः पपात हृदि तस्य महासुरस्य ।
हर्षाश्रुभिः सह समस्तदिगीश्वराणां
शोकोष्णबाष्पसलिलैः सह दानवानाम् ॥ १७.५०॥
शक्त्या हृतासुमसुरेश्वरमापतन्तं
कल्पान्तवातहतभिन्नमिवाद्रिश्रृङ्गम् ।
दृष्ट्वा प्ररुढपुलकाञ्चितचारुदेहा
देवाः प्रमोदमगमंस्त्रिदशेन्द्रमुख्याः ॥ १७.५१॥
यत्रापतत्स दनुजाधिपतिः परासुः
संवर्तकालनिपतच्छिखरीन्द्रतुल्यः ।
तत्रादधात्फणिपतिर्धरणीं फणाभि-
स्तद्भूरिभारविधुराभिरधो व्रजन्तीम् ॥ १७.५२॥
स्वर्गापगासलिलसीकरिणी समन्तात्
सौरभ्यलुब्धमधुपावलिसेव्यमाना ।
कल्पद्रुमप्रसववृष्टिरभून्नभस्तः
शम्भोः सुतस्य शिरसि त्रिदशारिशत्रोः ॥ १७.५३॥
पुलकभरविभिन्नवारबाणा
भुजविभवं बहु तारकस्य शत्रोः ।
सकलसुरगणा महेन्द्रमुख्याः
प्रमदमुखच्छविसम्पदोऽभ्यनन्दन् ॥ १७.५४॥
इति विषमशरारेः सूनुना जिष्णुनाजौ
त्रिभुवनवरशल्ये प्रोद्धृते दानवेन्द्रे ।
बलरिपुरथ नाकस्याधिपत्यं प्रपद्य
व्यजयत सुरचूडारत्नघृष्टाग्रपादः ॥ १७.५५॥
इति श्रीकालिदासकृतौ कुमारसम्भवे महाकाव्ये
तारकासुरवधो नाम सप्तदशः सर्गः सम्पूर्णः ॥ १७॥
कुमारसम्भवः