लघुतत्त्वसुधा श्रीदक्षिणामूर्तिस्तोत्रव्याख्या
श्री शङ्करभगवत्पादाचार्यप्रणीतं
श्री दक्षिणामूर्तिस्तोत्रम्
श्री स्वयंप्रकाशयति विरचित लघुतत्त्वसुधाख्यव्याख्यासमेतम्
श्री दक्षिणामूर्तिस्तोत्रम्
मौनव्याख्याप्रकटितपरब्रह्मतत्त्वं युवानं
वर्षिष्ठान्तेवसदृषिगणैरावृतं ब्रह्मनिष्ठैः ।
आचार्येन्द्रं करकलितचिन्मुद्रमानमानन्दमूर्तिं
स्वात्मारामं मुदितवदनं दक्षिणामूर्तिमीडे ॥
लघुतत्त्वसुधा
कैवल्यानन्दयोगीन्द्र शुद्धानन्दयतीश्वरौ ।
नत्वारभे लघुव्याख्यां दक्षिणाशामुखस्तुतेः ॥
अवतारिका
इह खलु सर्वज्ञो भगवान् भाष्यकारो
लोकानुग्रहैकप्रयोजनकृतशरीरपरिग्रहः सकलवेदान्तदुग्धाब्धेः
न्यायमन्दरेण विचारनिर्मथनादाविर्भूताद्वैतामृतस्य
विन्यासकलशभूतं श्रीदक्षिणामूर्तिस्तोत्रं सकललोकानुजिघृक्षया
भोक्तृजीवभोग्यजगत् भोगप्रदपरमेश्वरमोक्षप्रद - गुरूणां
अत्यन्ताभेदबोधकं सकृत्पठनश्रवणार्थमननादिमात्रेण
परमपुरुषार्थप्रापकमारभमाणः तस्य वेदान्तसारभूत
नवनीतपिण्डात्मकत्वेन तदीयविषयादिभिरेव तद्वत्तासिद्धिमभिप्रेत्य
आदौ प्रतीचस्सकलजगदधिष्ठानत्वेन परमेश्वरतां दर्शयन्
दक्षिणाशामुखं परमेश्वरं मनसा पूजयति -- विश्वमिति ।
विश्वं दर्पणदृश्यमाननगरीतुल्यं निजान्तर्गतं
पश्यन्नात्मनि मायया बहिरिवोद्भूतं यथा निद्रया ।
यः साक्षात्कुरुते प्रबोधसमये स्वात्मानमेवाद्वयं
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ १॥
विश्वम् - विविधप्रत्ययगम्यं वियदादि सर्वमिदं जगत्,
निजान्तर्गतम् - निजम् - स्वीयम्, अन्तः - मध्यं, गतम् - प्राप्तम्
प्रत्यक्स्वरूपे स्थितमिति यावत् ।
निर्विकारे नीरन्ध्रेऽतिस्वच्छेऽसङ्गे सूक्ष्मे प्रतीचि
जगतस्तद्विपरीतस्य स्थितौ तत्सदृशं दृष्टान्तमाह
दर्पणदृश्यमाननगरीतुल्यमिति ; दर्पणे - आदर्शे, नीरन्ध्रे असङ्गे
स्वच्छे सूक्ष्मे निर्विकारे प्रतिबिम्बिता सती, दृश्यमाना - अवलोक्यमाना
या, नगरी पुरी, चतुर्दश सन्निवेशा सप्तवापीयुक्ता नानोपवना
दक्षिणोत्तरतोऽतिमनोहरमार्गद्वयविराजिता अनेकक्रीडाशिखरियुता
नानाविधजनसंकुला क्वचित् कष्टमार्गप्रदेशयुता च, तत्तुल्यम् -
तत्समानम् ।
तदुक्तं भारतीतीर्थैः --
``निश्छिद्रदर्पणे भाति वस्तुगर्भं बृहत् वियत् ।
सच्चित्सुखे तथा नाना जगद् गर्भमिदं वियत्” ॥
(पञ्चदशी १३-१०१)
वासिष्ठेऽपि शिलोपाख्याने इदमुक्तम् --
``द्यौः क्षमा वायुराकाशः पर्वतास्सरितो दिशः ।
सन्ति तस्यां शिला साच सुषिरा न मनागपि ॥
अप्यत्यन्तघनाङ्गायास्सुनीरन्ध्राकृतेरपि ।
विद्यतेन्तर्जगद्वृन्दं व्योम्नीव विततोऽनिलः” ॥ इति ।
(निर्वाणप्रकरणे ४६ तमे अध्याये)
ननु प्रतीचोऽन्तरे यदि सदा विश्वं तिष्ठति, तर्हि
रागादिवदन्तरेवानुभूयेतेत्याशङ्क्याह -- आत्मनीत्यादिना ।
आत्मनि स्वप्रकाशे प्रतीचि विषये आश्रये च, माया - अविद्या, सूर्ये
प्रेचकादीनामन्धकारप्रतीतिवन्मामहं न जानामीति भ्रमानुभवसिद्धा,
तया मायया, बहिः - स्वस्माद् बाह्यदेशे उद्भूतमिव पश्यन् - अवलोकयन्
यः इत्युत्तरत्रसंबन्धः ।
``आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला” --
(संक्षेपशारीरकम्)
अन्तर्विद्यमानस्य जगतो बाह्यत्वेनानुभवे दृष्टान्तमाह --
यथा निद्रयेति -- यथा निद्रया स्वाप्नं जगत् साक्षिणि
स्वस्मिन्नध्यस्ततया स्थितमपि स्वस्माद् बहिरवस्थितमिवानुभवति
तद्वदेवेमे जाग्रत्प्रपञ्चमपि स्वस्मिन् प्रत्यक्चैतन्ये अध्यस्ततया
स्थितमेव स्वाध्यस्तदेहादि तादात्म्याध्यासवशात् स्वस्माद्
बहिरिव पश्यति । अन्यथा जडस्य जगतः प्रत्यक्चैतन्येन सह
संयोगाद्यन्यतमसंबन्धासंभवेन प्रतीचस्सकाशात् जगद्भानं
न स्यात् । तथा च तत्राध्यस्तमेव तत् ।
तथा च प्रत्यगात्मानं प्रकृत्य श्रुतिर्भवति
(१) ``पुरत्रये क्रीडति यश्च जीवस्ततस्तु जातं सकलं विचित्रम् ।
आधारमानन्दमखण्डबोधं यस्मिन् लयं याति पुरत्रयं च ॥
(२) एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च ।
खं वायुर्ज्योतिरापः पृथिवी विश्वस्य धारिणी ॥
(३) मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् ।
मयि सर्वं लयं याति तद् ब्रह्माद्वयमस्म्यहम्” ॥ इति ।
(कैवल्योपनिषत् १:१४, १५, १९)
(४) ``यथा स्वप्न प्रपञ्चोऽयं मयि मायाविजृम्भितः ।
एवं जाग्रत्प्रपञ्चश्च मयि मायाविजृम्भितः” ॥
इति पुराणवचनं च । ततः प्रतीच्येव
जाग्रत्प्रपञ्चोऽध्यस्तोनुभूयते भ्रान्त्या बहिरिवेति भावः ॥
ननु स्वात्मनि प्रपञ्चः अध्यस्तश्चेद् बाध्येत, न
च कदाचिद् बाधोऽनुभूयते ; अतो नात्मन्यध्यस्तः,
किन्तु बहिः परमार्थत एव स विद्यते इत्याशङ्क्य, यथा
स्वप्नप्रपञ्चोऽध्यस्तोऽपि तदा सत्य इव भाति प्रबोधसमये
बाध्यते, तथैवायमपि जाग्रत्प्रपञ्चः तत्त्वज्ञानात् पूर्वं
सत्यत्वेन भातोऽप्याचार्येण परमदयालुना साक्षात्परमेश्वरावताररूपेण
उपदिष्टतत्त्वमस्यादिमहावाक्यजन्यप्रत्यक्ब्रह्मैक्यसाक्षात्कारसमये
समूलं बाधितः सन् प्रत्यगभिन्नाद्वितीयब्रह्ममात्रतया परिशिष्यते
इत्यभिप्रेत्याह -- यस्साक्षादित्यादिना ।
यः - अध्यस्तप्रपञ्चाधिष्ठानभूतः प्रत्यगात्मा, प्रबोधसमये -
गुरूपदिष्टमहावाक्यात् ज्ञानोत्पत्तिकाले, अद्वयम् - सर्वप्रपञ्चस्य
समूलस्य बाधितत्वेन वियदादिद्वयरहितं, स्वात्मानमेव -
वियदाद्यधिष्ठानभूतब्रह्माभिन्नसच्चिदानन्दात्मकं
प्रत्यञ्चमेव, साक्षात्कुरुते - सच्चिदानन्दात्मकं
ब्रह्माहमस्मीत्यप्रतिबन्धेनाव्यवधानमनुभवति । ``यत्र त्वस्य
सर्वमात्मैवाभूत् तत्केन कं पश्येत्” इत्यादिश्रुतेः । तस्मै -
उक्तरूपाय, श्रीगुरुमूर्तये - श्रीगुरुः साक्षात्कृतब्रह्मतत्त्वतया
विविधपरिच्छेदशून्यो ज्ञानोपदेष्टा पुरुषः, तन्मूर्तये -
तद्रूपेणावस्थिताय, श्रीदक्षिणामूर्तये - दक्षिणा - दक्षिणदिगभिमुखा,
मूर्तिः - विग्रहः, यस्य तस्मै ।
``परमाद्वैतविज्ञानं कृपया वै ददाति यः ।
सोयं गुरुर्गुरुस्साक्षात् शिव एव न संशयः” ॥
इत्यादिवचनशतेभ्यो ज्ञानोपदेष्टा गुरुस्साक्षात्परमेश्वर एव ।
अथवा - श्रीमती - सच्चिदानन्दात्मिका, गुर्वी - अतिमहत्तरा,
मूर्तिः - स्वरूपं यस्य सः, तथा, तस्मै श्रीगुरुमूर्तये ॥
श्रिया - अनाद्यचिन्त्यमायाशक्त्या, दक्षिणः -
सृष्टिस्थित्यन्तविरचनानिपुणश्चासौ परमार्थतोऽमूर्तिश्च --
आकारविशेषरहितः, ``अस्थूलमनणु” इत्यादिश्रुतेः । सः - दक्षिणामूर्तिः,
तस्मै ``इदम् नमः” प्रह्वीभावः, अस्त्वितिशेषः । प्रह्वीभावश्च,
स्वात्मनः परमेश्वरे एकत्वेन समर्पणम् ।
अत्र च पूर्वार्धेन त्वंपदार्थ उक्तः, उत्तरार्धे ``श्री गुरुमूर्तये
श्री दक्षिणामूर्तये” इति पदद्वयेन मूर्तिद्वययुक्तस्तत्पदार्थ
उक्तः । ``स्वात्मानमद्वयम्” इति पदद्वयसामानाधिकरण्येन
यत्तच्छब्दाभ्यां च प्रत्यक् ब्रह्मैक्यलक्षणो वाक्यार्थ उक्तः ।
सकलवेदान्तप्रसिद्धोऽयमेवार्थः उत्तरश्लोकैः प्रपञ्च्यते ॥
दर्पणदृश्यमाननगरीतुल्यं, निजान्तर्गतं, विश्वं यथा निद्रया, तथा
आत्मनि मायया बहिरुद्भूतमिव पश्यन्, यः प्रबोधसमये अद्वयम्
स्वात्मानमेव साक्षात्कुरुते तस्मै श्रीगुरुमूर्तये इदं नमः इत्यन्वयः ।
एवमेवास्यार्थो वार्तिककारेण संगृह्योक्तः --
`` ईश्वरो गुरुरात्मेति मूर्तिभेदाद्विभागिने ।
व्योमवद् व्याप्तदेहाय दक्षिणामूर्तये नमः” ॥ इति ॥ १।
नन्वात्मनि प्रपञ्चस्यावस्थानं नोपपद्यते, तदकारणत्वात् । तथाहि
किमात्मा जगदारम्भकः ? उत तदाकारपरिणामी ? नाद्यः;-- एकस्य
विभोश्चिद्रूपस्य जडप्रपञ्चारम्भकत्वासंभवात् । ततो
नित्याश्चतुर्विधाः परमाणवो जगदारम्भका इति ।
यद्वा प्रधानमेव जडं त्रिगुणात्मकं जगदाकारपरिणामि, तत्रैवेदं
जगत् परमार्थतोऽस्ति न तु चिदात्मनि इति नैय्यायिकानां सांख्यानां
वा मतमाशङ्क्य -- न तावत्परमाण्वारम्भवाद उपपद्यते ।
१। निरवयवानां तेषां सर्वात्मना संयोगे प्रतिमानुपपत्तेः,
२। भिन्नयोर्गवाश्ववत् कार्यकारणभावायोगात्,
३। पूर्वमसतश्च कार्यस्य शशविषाणवदुत्पत्त्यनुपपत्तेः,
४। अत्यन्तभिन्नकार्यारम्भे कार्ये गुरुत्वादितद्वैगुण्यापत्तेः,
५। परमाणुसद्भावे च प्रमाणाभावात्,
६। कार्यद्रव्यस्य स्वन्यूनपरिमाणारब्धत्वनियमस्य
स्थूलतूलपिण्डारब्धतन्त्वादावदर्शनाच्च ॥
नापि प्रधानपरिणामवादः; तस्य चेतनानधिष्ठितस्य कार्योत्पादे
स्वतोऽसामर्थ्यात्, लोके रथादेश्चेतनाधिष्ठितस्यैव
प्रवृत्तिदर्शनात् ।
तत्सद्भावेऽपि प्रमाणाभावात्, ``अजां” इत्यादिश्रुतेश्च
तेजोवन्नादिप्रकृत्यव्याकृतपरत्वाच्च ।
'अजामेकां लोहितशुक्लकृष्णां बह्वीं प्रजां जनयन्ती सरूपाम्' ।
किन्तु श्रुतिषु ``सत्यं ज्ञानमनन्तं ब्रह्म”
``तस्माद्वा एतस्मादात्मन आकाशस्संभूतः” “
सदेव सोम्येदमग्र आसीत्” ``तदैक्षत बहुस्यां
प्रजायेयेति” ``यतो वा इमानि भूतानि जायन्ते”
``यस्सर्वज्ञस्सर्वविद्यस्य ज्ञानमयं तपः ।
तस्मादेतत् ब्रह्म नाम रूपमन्नं च जायते” ॥
इत्यादिषु सहस्रशः परमात्मन एव चेतनाज्जगदुत्पत्तिश्रवणात् ।
विलक्षणयोरपि कार्यकारणभावस्य गोमयवृश्चिका पुरुषकेशरोमादौ
दर्शनात्, आरम्भपरिणामव्यतिरेकेण तत्त्वतोऽन्यथाभाव
लक्षणविवर्तरूपप्रकारस्यापि कार्योत्पादे स्वप्नप्रपञ्चशुक्तिरजतादौ
दर्शनात्, अत्र विवर्तवादस्य विवक्षितत्वात् ।
``सर्वं तं परादाद्योऽन्यत्रात्मनस्सर्वं वेद” इत्यादिश्रुतौ
आत्मनोऽन्यत्र जगद्वेदनस्य निन्दितत्वाच्च; ``घटोऽस्ति पटोऽस्ति”
``घटः स्फुरति पटः स्फुरति” इति सत्तास्फुरणानुविद्धतया
अनुभूयमानस्य जगतो मृदनुविद्धघटस्य मृत्कार्यत्ववत्
सत्तास्फुरणात्मकात्मकार्यत्वस्यैव युक्तत्वाच्चात्मैव जगदुत्पत्त्यादि
कारणमित्यभिप्रेत्याह -- बीजस्यान्तरिवेति ।
बीजस्यान्तरिवाङ्कुरो जगदिदं प्राङ्निर्विकल्पं पुनः
मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतम् ।
मायावीव विजृम्भयत्यपि महायोगीव यः स्वेच्छया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ २॥
इदं - अनुभूयमानं सर्वं जगत्, प्राक् - उत्पत्तेः पूर्वं, निर्विकल्पं -
भोक्तृभोग्यादिविकल्परहितं आत्ममात्रमेवासीत् । ``आत्मा वा इदमेक एवाग्र
आसीत्” ``सदेव सोम्येदमग्र आसीत्” इत्यादिश्रुतेः । तत्र दृष्टान्तमाह
बीजस्येति । बीजस्यान्तः - मध्ये, अंकुर इव । उपलक्षणमेतत् -
पल्लवपत्रपुष्पफलशाखाविटपात्मक वृक्षो यथा उत्पत्तेः
पूर्वं निर्विकल्पं बीजमात्रमासीत् तद्वत् । पुनः - पश्चात्
सृष्टिसमये, मायाकल्पितदेशकालकलनावैचित्र्यचित्रीकृतं - मायया
ईश्वराधिष्ठितया, कल्पितौ यौ देशकालौ, तयोश्चकलना संबन्धः,
तद्वैचित्र्येण चित्रीकृतं - नानाविधभेदभिन्नया विभक्तं, ``तं
नामरूपाभ्यामेव व्याक्रियत” इति श्रुतेः ।
ननु कथमीश्वरस्य बाह्यसाधनरहितस्य जगदुत्पादकत्वं ? लोके
कुलालादेर्बाह्यसाधनवत एव कार्यकरत्वदर्शनादित्याशङ्क्य,
ईश्वरस्यानाद्यनिर्वचनीयमायाशक्त्युपहितस्य
स्वेच्छामात्रेणैवैन्द्रजालिकवत्, देवर्षिपित्रादियोगिवच्चोपपद्यते
जगदुत्पादकत्वमित्यभिप्रेत्याह -- मायावीवेत्यादिना ।
यः - परमेश्वरः, मायावीव - लोकप्रसिद्धैन्द्रजालिकमायाविवत्,
महायोगीव - विश्वामित्रादिमहायोगिवच्च, स्वेच्छया - स्वसंकल्पमात्रेण,
विजृम्भयति - इदं जगदुत्पादयति, ``इन्द्रो मायाभिः पुरुरूप ईयते”
``तदात्मानं स्वयमकुरुत” ``सच्चत्यच्चाभवत्” इति श्रुतेः ।
नापि मायया तस्य सद्वितीयत्वं, तस्या अपि कल्पितत्वात् । नापि
तस्य कारणत्वेन विकारित्वं, जगत्कारणत्वस्यानाद्यनिर्वचनीय
मायाघटिततयाकल्पितत्वेनोपलक्षणस्य तत्रविकारानापादकत्वात् ।
ततश्च तत्र कस्यापि दोषस्याभावाद् ब्रह्मैव प्रत्यगभिन्नं
सकलजगदुत्पत्तिस्थितिलयहेतुरिति भावः तस्मै नमः ॥ २॥
नन्वसदेव जगतः कारणं
१। पिण्डादिनाशादेव घटाद्युत्पत्तिदर्शनात्,
२। जागराद्य कालीनकार्यस्य चासत्पूर्वकत्वदर्शनात्, तद्दृष्टान्तेन
जगतोऽपि तथात्वानुमानात् ;
३। ``असद्वा इदमग्र आसीत्” इति
श्रुतेश्चेत्यसद्वादमाशङ्क्याह -- यस्यैवेति ।
यस्यैवं स्फुरणं सदात्मकमसत्कल्पार्थगं भासते
साक्षात्तत्त्वमसीति वेदवचसा यो बोधयत्याश्रितान् ।
यत्साक्षात्करणाद्भवेन्नपुनरावृत्तिर्भवाम्भोनिधौ
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥३॥
यस्य - प्रत्यगभिन्नस्य परमेश्वरस्य स्वरूपभूतं, सदात्मकं -
सद्रूपं, स्फुरणमेव - चैतन्यमेव, असत्कल्पार्थगं - असत्कल्पाः
असत्तुल्याः स्वतस्सत्ता रहिताः अनिर्वचनीय ये, अर्थाः - वियदाद्याः तान्
गच्छतीत्यसद्कल्पार्थगं अनिर्वचनीयवियदादिपदार्थानिष्टमिति
यावत् । भासते - प्रकाशते ॥
अयं भावः जगतोऽसत्कारणत्वे, ``घटः असन् पटः असन्” इत्यसत
एव सर्वत्रानुवृत्तिः स्यात्, न तु सतः । किञ्च तस्यासतः
अस्वप्रकाशत्वेन तत्र वर्तमानजगतः आन्ध्यमपि स्यात् । जगच्च
सदनुविद्धं, प्रकाशते च । तथा च स्वतस्सत्त्वप्रकाशरहितं
जगत् तदधिष्ठानभूतात्मसत्ताप्रकाशाभ्यामेव
सत्ताप्रकाशवद्भवतीति तत्राध्यस्तत्वेन तत्कारणकमेव जगत् ।
नापि पिण्डादिनाशस्य घटादिकारणत्वं, अनुगतमृदादेरेव कारणत्वात् ।
जागराद्यकालीनस्य कार्यस्य चासद्पूर्वकत्वं नास्मत्सम्मतम् ।
सुषुप्तिकालीनसद्रूपात्मनः कारणत्वाङ्गीकारात्, सुषुप्तौ आत्मसत्त्वस्य
च साधयिष्यमाणत्वात् ॥
``असद्वा इदमग्र आसीत्” इति श्रुतिश्चानभिव्यक्तसद्कारणपरा,
``कथमसतस्सज्जायेत” इति श्रुत्यैवासद्वादस्य प्रतिषेधात् इति । अथवा -
ननु घटस्सन् पटस्सन् इत्येवम् सत्त्वेन प्रतीयमानस्य जगतः
कथमसत्कल्पत्वमध्यस्तत्वेनोच्यते ? इत्याशङ्क्याह - यस्यैवेत्यादिना ।
सत्प्रकाशरूपाधिष्ठानात्मसत्तैवारोपित जगन्निष्ठतया प्रतीयते,
न तु तस्य स्वतस्सत्त्वम् । ``अथात आदेशो नेति नेति” ``नेह नानाऽस्ति
किञ्चन” इत्यादिश्रुत्या प्रपञ्चस्य प्रतिषेधात्, भ्रान्त्यापि
तत्प्रतीत्युपपत्तेश्च, तस्यासद्विलक्षणत्वाङ्गीकारान्न शशविषाण
समत्वम् । ततोऽपरोक्षप्रतीतिरप्युपपद्यते इति तात्पर्यार्थः ।
अक्षरार्थस्तु पूर्ववत् ।
येयमसत्ये प्रपञ्चे सत्यत्वबुद्धिः, अनात्मनि देहादौ चात्मत्वबुद्धिः,
इयमेव सकलसंसारनिदानम् । तस्याश्च निवृत्तिः
गुरूपदिष्टतत्त्वमस्यादिमहावाक्यजन्यापरोक्षज्ञानेन
मूलाज्ञाननिवृत्त्यैवेत्यभिप्रायेणाह - साक्षादित्यादिना । यः - गुरुरूपः
परमेश्वरः, आश्रितान् - विधिवदुपसन्नान्, तत्त्वमसीति वेदवचसा -
यज्जगत्कारणं सदद्वितीयं ब्रह्म, तत्त्वमसि, न ततो भिन्नोऽसीति,
वेदवचसा - वेदवाक्येन, साक्षात् - अपरोक्षत्वेन, तत्त्वं, बोधयति -
ज्ञापयतीत्यर्थः ।
ननु कथं किञ्चिज्ज्ञत्वसर्वज्ञत्वादिविरुद्धधर्मकयोः जीवेश्वरयोः
अभेदमयोग्यं वेदो बोधयति ? इति चेदुच्यते -- ``सोयं देवदत्त”
इत्यादिवाक्यं तदेतद्देशादिविरुद्धांशं त्यक्त्वा अविरुद्धांशं
पिण्डमात्रमादाय भागत्यागलक्षणया यथाऽभेदं बोधयति,
तथा तत्त्वमस्यादिमहावाक्यमपि जीवेश्वरयोर्मायान्तःकरणोपाधि
तन्निमित्तसर्वज्ञत्वकिञ्चिज्ज्ञत्वादिविरुद्धांशं त्यक्त्वा
उभयत्रानुगताविरुद्धचिन्मात्रादानेनाभेदं बोधयति ।
अत्र महावाक्यार्थविषये या या अनुपपत्तयः परैरुद्भाविताः
तास्सर्वास्सर्वैराचार्यैस्सर्वत्र पराक्रम्य निरस्ता इति नास्माभिरत्र
यत्यते, संग्रहव्याख्याने प्रवृत्तत्वात् ॥
नन्वेवं वाक्यजन्यज्ञानान्निवृत्तोऽपि संसारः
सुषुप्तिप्रलययोरिव पुनरपि कदाचिदुद्भवेत्,
इत्याशङ्क्याह यत्साक्षादित्यादिना, यत्साक्षात्करणात् -
यस्य - स्वप्रकाशनिष्प्रपञ्चसच्चिदानन्दस्वरूपस्य, ब्रह्मणः,
साक्षात्करणात् - अपरोक्षतया सोऽहमस्मीति ज्ञानात्, भवाम्भोनिधौ -
संसारसमुद्रे, पुनः - भूयः, आवृत्तिः - आवर्तनमागमनं, न भवेत् -
न स्यात्, ``तरति शोकमात्मवित्” ``ब्रह्म वेद ब्रह्मैव भवति”
``न स पुनरावर्तते” इत्यादिश्रुतिशतेभ्यः ।
सुषुप्तिप्रलययोर्मूलाज्ञानस्य विद्यमानत्वात् पुनरुत्थानम् । तस्य
महावाक्यजन्यज्ञानेनात्र नष्टत्वान्न मुक्तस्य पुनरुत्थानमिति भावः
॥ तस्मै नम इति ॥ ३॥
न च जगतः कथमात्मसत्ताभानाभ्यां तद्वत्वम् ?
आत्मवत् स्वत एव सत्ताप्रकाशौ जगतो भवेतामित्याशङ्क्यम् ।
आत्मवज्जगतः स्वतस्सत्त्वे तद्वदेवोत्पत्तिविनाशानुपपत्तेः,
तद्वदेव करणाद्यनपेक्षया सर्वदा भानप्रसङ्गाच्च, न
स्वतस्सत्ताप्रकाशौ भवतो जगतः; किन्तु आत्मसत्ताप्रकाशाभ्यामेव
जगतोऽपि सत्ताप्रकाशौ ।
नन्वेवं तर्हि सर्वस्य जगतः आत्मन्यध्यस्तत्वे भवन्मते कथं
करणाद्यपेक्षा ? प्रकाशरूपात्मसंबन्धादेव सर्वं सर्वदा किमिति न
भावात् ? सर्वगतचैतन्यस्याप्यविरोधेनाज्ञानावृतत्वे वा कथं
कदाचित्कं जगतो भानम् ? अज्ञानस्य चैतन्यातिरिक्तनिवर्तकाभावात्,
तस्य चाविरोधित्वात् इत्याशङ्क्याह -- नानाछिद्रेति ।
नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वरं
ज्ञानं यस्य तु चक्षुरादिकरणद्वारा बहिः स्पन्दते ।
जानामीति तमेव भान्तमनुभान्त्येतत्समस्तं जगत्
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥४॥
नानाच्छिद्रघटोदरस्थितमहादीपप्रभाभास्वरं -- नानाच्छिद्रस्य-
अनेकरन्ध्र युक्तस्य, घटस्य - कुम्भस्य, उदरे - अन्तः,
स्थितः - वर्तमानः यो, महादीपः - तस्य, प्रभेव भास्वर-
भासनशीलं, दीपवत्तमोविरोधिलक्षण प्रकाशस्वभावं,
यस्य - परमेश्वरस्य, घटवदनेकच्छिद्रयुक्ते देहे अन्तःकरणे
प्रतिबिम्बितस्य, साक्षित्वेनावस्थितस्य स्वरूपभूतं, ज्ञानं -
चैतन्यं, चक्षुरादिकरणद्वारा - चक्षुःश्रोत्रादीनि यानि, करणानि
विषयोपलब्धिसाधनानि, तद्द्वारा - तच्छिद्रेण, बहिः - विषयदेशे,
स्पन्दते - गच्छति ।
इन्द्रियाणां विषयसम्प्रयोगे तद्द्वारा चैतन्योपाध्यन्तःकरणे गच्छति
सति तत्प्रतिबिम्बितं चैतन्यमपि गच्छति, गत्वा तं विषयं
भासयतीत्यर्थः ॥
अयमभिप्रायः - चैतन्यं तु स्वतोऽज्ञानाविरोध्यपि अन्तःकरणे
प्रतिबिम्बितं सत्तद्विरोधि ॥ अत एवान्तःकरणधर्माः रागादयः
स्वसत्तायां सर्वदा भासन्ते, घटपटादिविषयश्च बिम्बचैतन्ये
ब्रह्मण्येवाध्यस्तस्तिष्ठति । अन्तःकरणेन चक्षुरादिद्वारा
विषयदेशं गच्छता घटाद्यधिष्ठानबिम्बचैतन्यमुपाधीयते ।
तथाचैकोपाधि सम्बन्धादन्तःकरणे प्रतिबिम्ब्यावस्थितेन
साक्षिचैतन्येन घटाद्यधिष्ठानचैतन्यमेकीभवति,
ततस्साक्षिचैतन्येन तदज्ञाने निवृत्ते घटादिविषयो भासते, न
सर्वदा ॥ अतः अज्ञानावरणभङ्गार्थे चक्षुराद्यपेक्षेति न कोऽपि
दोषः ॥
केचित्तु -- अचिद्रूपात्मनिष्ठज्ञानेन घटादिविषयो भासते
इति वदन्ति । तन्न ; आत्मनिष्ठज्ञानस्य जडस्य स्वप्रकाशस्य
वा घटादि विषयेण संयोगादिसंबन्धाभावात्, स्वरूपसम्बन्धस्य
चातिप्रसक्तत्वात् ।
केचित् विषयनिष्ठस्फुरणेन घटादिभानमिति वदन्ति ॥ तदपि
न, विषयनिष्ठस्यात्मना सह संबन्धाभावेन ' अहं जानामीति '
सम्बन्धप्रत्ययानुपपत्तेः ।
तस्मादस्मदुक्तप्रकारेण स्वप्रकाशसाक्षिचैतन्यसंबन्धादेव घटादि
विषयभानमिति । तदेतदाह -- जानामीति - घटादिकमहंजानामीति
घटादिविषयसंबद्धतया, भान्तं - प्रकाशमानं, तमेव -
साक्षित्वेनावस्थितं परमेश्वरमेव, अनु - पश्चात्, एतत्
विविधशब्दप्रत्ययगम्यं, समस्तं - सर्वं, जगत् भाति -
प्रकाशते । अनुभानमपि न तस्य स्वतः, किन्तु 'अग्निं दहन्तमनु
अयो दहति' इतिवदध्यासादेवेत्यर्थः । तथा च श्रुतिः - ' तमेव
भान्तमनुभाति सर्वम् तस्य भासा सर्वमिदं विभाति' इति ॥ तस्मै
नमः ॥ ४॥
अत्र केचित् -- सर्वमेतदभित्तिचित्रं, देहव्यतिरिक्तात्मन एवाभावात्,
देहस्यैव ``गच्छामि, तिष्ठामि, स्थूलोऽहं कृशोऽहं”
इत्यात्मत्वानुभवादीति -- वदन्ति ॥
अन्ये केचित् तान् हस्तेन निवारयन्त आहुः -- जीवात्मनिर्गमे
शरीरमरणस्य दर्शनात् वच्मि पश्यामि श्रुणोमीत्यादि
बुद्धिदर्शनात् इन्द्रियाण्येवात्मेति ॥
ततोप्यन्ये केचिदीषच्छुद्धबुद्धयः चक्षुरादीन्द्रियनाशेऽपि
प्राण सत्वे जीवनदर्शनात् अन्यथाऽदर्शनात् बुभुक्षितोऽहं
पिपासितोऽहमित्यादिप्रतीतेश्च प्राण एवात्मेति फणन्ति ॥
इतरेतु प्राणस्य बाह्यवायुवज्जडत्वेन भोक्तृत्वाद्यसम्भवात् मन
एव चेतनं भोक्तृ आत्मेति च वदन्ति ॥
योगाचारस्तु ``मम मन” इति भिन्नतया
प्रतीयमानस्यात्मत्वा सम्भवात् क्षणिकविज्ञानमहमिति
प्रतीयमान बुद्धिशब्दापरपर्यायं संसारीति जल्पति ॥
तं धिक्कृत्यान्यः कश्चित् विद्युदभ्रनिमेषादिवद् क्षणिकस्य
तस्यात्मत्वानुपपत्तेः सुषुप्तौ तस्याप्यभावात् अन्यस्याप्यनुपलब्धेः
शून्यमेवात्मेत्युद्गिरति ॥
एते च स्वस्वपक्षदार्ढ्यायेतस्ततश्च यां
कांचित् श्रुतिमादायोदाहरन्ति । अन्ये च केचिदन्यथा
आत्मस्वरूपं फणन्ति । सर्वे ते दैवोपह्वचित्ता भ्रान्ताः,
सकलश्रुतिस्मृतीतिहासपुराणन्यायविद्वत्प्रत्यक्षविरुद्धार्थपरिग्राहकाः ।
नैतेषां मार्ग आत्मनः श्रेयोर्थिभिः स्वप्नेप्यनुसरणीय
इत्यभिप्रेत्याह -- देहं प्राणमपीति ॥
देहं प्राणमपीन्द्रियाण्यपि चलां बुद्धिं च शून्यं विदुः
स्त्रीबालान्धजडोपमास्त्वहमिति भ्रान्ता भृशं वादिनः ।
मायाशक्तिविलासकल्पितमहाव्यामोहसंहारिणे
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ५॥
देहं - सशिरस्कं पिण्डं, प्राणं - पञ्चवृत्तिकं मुखनासिका
सञ्चारिणम्, इन्द्रियाणि चक्षुरादीनि तत्तद्गोलकवृत्तीनि रूपादि
ग्राहकाणि, चलां - क्षणिकां सन्ततोदयां, बुद्धिं - विज्ञानं, शून्यं-
तुच्छं, चकारात्तार्किकाद्यभिमतात्मानं, वादिनः - चार्वाकादयः,
स्त्रीबालान्धजडोपमाः - स्त्रीबालान्धजडवत्, विवेकरहिताः, अत एव,
भ्रान्ताः - तत्त्वमन्यथाप्रतिपद्यमानाः, अहमिति विदुः - आत्मत्वेन जानन्ति,
अन्यानुपदिशन्ति चेत्यर्थः ॥
नन्वेते वादिनः परीक्षका अपि किमित्येवं नास्तिकाः सन्तोऽन्यथान्यथा
तत्त्वं प्रतिपद्यन्ते? इति चेदीश्वरानुग्रहाभावात् । ये त्वास्तिकाः
श्रुतिस्मृत्युक्तमार्गेण कर्मानुष्ठानेन भगवन्तं परमेश्वरं सेवन्ते
तेषां परमेश्वरप्रसादान्नैतादृशो व्यामोह इत्यभिप्रेत्याह --
मायेत्यादिना ॥
मायाशक्तिविलासकल्पितमहामोहसंहारिणे - भगवतः
परमेश्वरस्यानाद्यनिर्वचनीया या, मायाशक्तिः - परव्यामोहिका,
तस्याः, विलासेनैकदेशेन कल्पितो यो महाव्यामोहः महान् अनन्तः
अपरिमाणव्यामोहः, देहाद्यात्मत्वभ्रमः तं संहर्तुं नाशयितुं
शीलमस्येति स तथोक्तः तस्मै --- नमः ॥
तथा चोक्तं श्रीभागवते -- ॥
येषां स एव भगवान् दययेदनन्त-
स्सर्वात्मना श्रितपदो यदि निर्व्यलीकम् ।
ते दुस्तरामतितरन्ति च देवमायां
नैषां ममाहमिति धीः श्वसृगालभक्ष्ये ॥
ननु शून्यवादिना सुषुप्तौ कस्याप्यनुपलम्भात् शून्यमेवात्मेति यदुक्तं,
तस्य किं समाधानम् ? इत्याशङ्क्य सुषुप्तावात्मास्तित्वं साधयन्
समाधत्ते -- राहुग्रस्तेति ॥
राहुग्रस्तदिवाकरेन्दुसदृशो मायासमाच्छादनात्
सन्मात्रःकरणोपसंहरणतो योऽभूत्सुषुप्तः पुमान् ।
प्रागस्वाप्तमिति प्रबोधसमये यः प्रत्यभिज्ञायते
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ६॥
यः पुमान् - प्रत्यग्रूपः परमेश्वरः, करणोपसंहरणतः-
विशेषविज्ञानहेतुचक्षुरादिकरणानामुपसंहारात्,
सन्मात्रः - पूर्णानन्दादि रूपेण स्फुटमप्रकाशमानतया केवलं
सन्मात्रेणावस्थितः सन्, सुषुप्तोभूत् - सुप्तिं प्राप्तोऽभूत् ।
करणाभावेऽपि पूर्णानन्दभानवतो मुक्तात्मनः सकाशात्
सुषुप्तात्मनो वैषम्यमाह -- मायासमाच्छादनादिति । मायया -
आत्माविद्यया, समाच्छादनादावरणात् सन्मात्र इति सम्बन्धः
स्फुटमप्रकाशमानस्य स्वरूपतः सत्वे दृष्टान्तमाह -
राहुग्रस्तेति । राहुग्रस्तदिवाकरेन्दुसदृशः, राहुणा -
सैंहिकेयेन, ग्रस्तौ - गृहीतौ, यौ, दिवाकरेन्दु - सूर्यचन्द्रौ ।
तत्सदृशः - तत्समानस्सन्, सुषुप्तोऽभूदिति संबन्धः ॥ यथा
राहुणा ग्रस्तो दिवाकरश्चन्द्रो वा स्फुटं न प्रकाशते इत्येतावता
दिवाकरस्य, चन्द्रमसो वा नासत्वम्, तद्वत् करणानामुपसंहारात्
मायया आवृतत्वाच्च सुषुप्तौ स्फुटमात्मा न भासते इत्येतावता
नात्मनोऽसत्वमित्यर्थः ॥
ननु राहुग्रस्तस्य सूर्यस्य चन्द्रमसो वा स्फुटप्रकाशाभावेऽपि
चक्षुषा अविशेषतः सर्वैर्ग्रहणादस्ति सत्वम् ॥ न
तद्वत् आत्मनः केनचित् सत्वमनुभूयत इत्याशङ्क्य
सुषुप्तावात्मनोऽप्यविशेषतो भानं साधयति - प्रागस्वाप्समित्यादिना ।
यः - सुषुप्तिकालीनात्मा, प्रबोधसमये - सुषुप्तित उत्थानसमये,
प्रत्यभिज्ञायते । कथं? प्राक् - योऽहमस्वाप्सं स इदानीं जागर्मीति ।
न च तदाननुभूतस्य प्रत्यभिज्ञानं सम्भवति, अन्यत्राननुभूते
प्रत्यभिज्ञानादर्शनात् । न च तदाकरणेनात्मानुभवः,
इन्द्रियादिकरणानां सुषुप्तावभावात् । अतः स्वप्रकाशस्यात्मनः सत्वान्न
तदा शून्यत्वं, नापि तस्य क्षणिकत्वं, नापि जडत्वं, उक्तयुक्तेरेव ।
``सुषुप्तिकाले सकले विलीने तमोभिभूतः सुखरूपमेति ।
पुनश्च जन्मान्तरकर्मयोगात्स एव जीवः स्वपिति प्रबुद्धः ॥”
``सता सोम्य तदा सम्पन्नो भवति” इत्यादिश्रुतिश्चात्मनः
सच्चिदानन्दरूपत्वेन सुषुप्ताववस्थानं दर्शयति । आत्मनः
सुखरूपत्वं चोत्थितेन तेनानुसन्धीयते 'सुखमहमस्वाप्समि'ति । अतो
न कोऽपि दोष इति भावः ॥ ६॥
इदानीं मुञ्जादिषीकामिव देहादिभ्यो विविच्य सच्चिदानन्दरूपं
प्रत्यगात्मानं प्रदर्श्य तस्य परमेश्वराभेदं
श्रुतिगुर्वीश्वरप्रसादलभ्यं प्रदर्शयन्नाह बाल्यादिष्वपीति ।
बाल्यादिष्वपि जाग्रदादिषु तथा सर्वास्ववस्थास्वपि
व्यावृत्तास्वनुवर्तमानमहमित्यन्तः स्फुरन्तं सदा ।
स्वात्मानं प्रकटीकरोति भजतां यो मुद्रया भद्रया
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ७॥
'बाल्यादिषु' - बाल्यं शैशवं, तदादिषु
शैशवकौमारयौवनमध्यवयःस्थाविररूपासु, जाग्रदादिषु -
जाग्रत्स्वप्नसुषुप्तिमूर्छाजन्मजरामरणरूपासु, 'तथा' - अन्यास्वपि
अवान्तरासु दर्शनश्रवणादि रूपासु कर्तृत्वभोक्तृत्वरूपासु च
सर्वास्ववस्थासु दशासु, व्यावृत्तासु - परस्परं व्यावर्तमानासु,
अनुवर्तमानं - अनुगततया सर्वास्ववस्थासु वर्तमानम् ।
अयं भावः - योह्यसत्यजडानानन्दरूपासु सर्वास्ववस्थासु
व्यावर्तमानासु ``योऽहं सुप्तौ स्वप्नमद्राक्षं सोऽहमिदानीं जागर्मि”
इति अवस्थात्रये योहं बालो युवाचाभूवं सोहमिदानीं
वृद्धोऽस्मि” इति बाल्यादिष्वपि च, सत्वेनानुवर्तमानोनुभूयते,
तथा द्रष्टॄत्वेनाभिमतेषु चक्षुरादिषु व्यावर्तमानेषु
स्वयं तत्सकलसाक्षित्वेन यश्चिद्रूपस्सदानुवर्तमानोनुभूयते,
तथा प्रियत्वेनामितवित्तपुत्रपिण्डादिषु व्यावर्तमानेषु च
यः स्वयं सदा प्रीतिविषयः सर्वशेषित्वेन निरतिशय
प्रीतिविषयतया आनन्दरूपत्वेनानुवर्तमानोनुभूयते
तद्वदेवाहंबुद्धिविषयतयात्मत्वेनाभिमतेषु देहादिभोक्त्रन्तेषु
च व्यावर्तमानेषु यः स्वयमहंबुद्धिमव्यभिचरन् सदा
आत्मत्वेनानुवर्तमानोनुभूयते, ततस्सद्रूपत्वं, चिद्रूपत्वमानन्दरूपतया
प्रियत्वं, अहंबुद्धिविषयतया प्रत्यक्त्वं च यः कदापि न व्यभिचरति,
स एव त्वंपदार्थलक्ष्य आत्मेति ।
तथा च तापनीयश्रुतिः -- ``तं वा एतमात्मानं जाग्रत्यस्वप्नमसुषुप्तं,
स्वप्नेऽजाग्रतमसुषुप्तं, सुषुप्तेऽजाग्रतमस्वप्नं,
तुरीयेऽजाग्रतमस्वप्नमसुषुप्तमव्यभिचारिणं,
नित्यानन्दसदैकरसं ह्येव, चक्षुषो द्रष्टा, श्रोत्रस्य द्रष्टा, वाचो
द्रष्टा, मनसो द्रष्टा, बुद्धेर्द्रष्टा, प्राणस्य द्रष्टा, तमसो द्रष्टा,
सर्वस्य द्रष्टा” इति ।
एतदेवाह - अहमित्यन्तः स्फुरन्तं सदेति । अन्तः - शरीरादिषु
मध्ये, अहमिति - अहं बुद्धिविषयत्वेन, सदा - सर्वेष्वपि कालेषु,
स्फुरन्तं - भासमानं, उपलक्षणमेतत्, सत्वेन प्रियत्वेन च सदा
स्फुरन्तमित्यपि द्रष्टव्यम् ॥ एवं भूतं प्रत्यगात्मानं यः -
परमेश्वरः, स्वात्मानमेव स्वं -- ``सत्यं ज्ञानमनन्तं ब्रह्म”
``विज्ञानमानन्दं ब्रह्म” इत्यादिषु श्रुतिषु सच्चिदानन्दात्मकत्वेन
त्रिविधपरिच्छेदशून्यतया च प्रसिद्धः परमेश्वर एवात्मा -
स्वरूपं यस्य प्रत्यगात्मनः, न तु कर्त्रादिरूपेण प्रतीयमानः आत्मा,
सः स्वात्मा, तं स्वात्मानं ब्रह्माभिन्नमिति यावत्, भद्रया - शोभनया,
मुद्रया - करकलितज्ञानमुद्रया, भजतां - स्वभक्तानां, प्रकटीकरोति-
तेषां प्रत्यगात्मानं ब्रह्मस्वरूपत्वेनाप्रकटं प्रकटं करोति,
स्फोरयति ॥ तस्मै ..... नमः ॥
बाल्यादिषु, तथा जाग्रदादिष्वपि, सर्वास्ववस्थासु
व्यावृत्तास्वनुवर्तमानं सदा अन्तरहमिति स्फुरन्तं, भजतां,
(प्रत्यगात्मानं ) यो भद्रया, मुद्रया, स्वात्मानं प्रकटीकरोति, तस्मै
... ... नमः इत्यन्वयः ॥ ७॥
ननु ब्रह्मव्यतिरिक्तं चेत् किमपि न वस्त्वस्ति तर्हि कथं
परमार्थोपदेशादिव्यवहारः ? न हि जातु कश्चित्तत्र बद्धोऽस्ति, येन
बन्धनिवृत्तये विद्योपदेशः स्यात्, बन्धहेतोः कस्याप्यभावात् । नापि
विद्यावतो मुक्तिस्संभवति, तद्वेतुगुरुशास्त्रादीनामभावादित्याशङ्क्य,
अनाद्यनिर्वचनीयपरमात्माध्यस्तमायावशादेव सर्वो व्यवहारः
ब्रह्मसाक्षात्कारपर्यन्तं घटते इत्यभिप्रेत्याह -- विश्वं
पश्यतीति ॥
विश्वं पश्यति कार्यकारणतया स्वस्वामिसंबन्धतः
शिष्याचार्यतया तथैव पितृपुत्राद्यात्मना भेदतः ।
स्वप्ने जाग्रति वा य एव पुरुषो मायापरिभ्रामितः
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ८॥
पुरुषः - पूर्णः, यः - श्रुत्यन्तप्रसिद्धः परमेश्वरः,
मायापरिभ्रामितः - स्वोपाधिभूतमायया, मलिनसत्त्वप्रधानया,
कार्यकारणसंघाताकारेण परिणतया स्वेन प्रविष्टया, परिभ्रामितः-
बहुविधं भ्रमं प्रापितः, एषः - सर्वप्राण्यपरोक्षजीवस्सन्
संसारित्वेन भावितः, विश्वं - जगत्, भेदतः - बहुभेदभिन्नतया,
पश्यति - अवलोकयति । भेदमेव दर्शयति - कार्यकारणतयेत्यादिना ।
अयमर्थः - यद्यपि परमार्थतो ब्रह्मव्यतिरिक्तं किमपि
नास्त्येव, ``नेह नानास्ति किञ्चन” इत्यादिश्रुत्या निषेधात्;
तथापि अनाद्यनिर्वाच्याविद्यावशान्मुधैव भ्रान्तो जीवः प्रपञ्चं
बहुभेदभिन्नं पश्यति निद्रापरवश इवानेकविधं स्वप्नम् । तस्य
च वस्तुतो ब्रह्मैव सन्तमात्मानं निखिलानर्थसङ्कुलतया मायया
भ्राम्यतः स्वभ्रान्तिसिद्धगुरुशास्त्रन्यायादिभ्यः विद्योत्पत्तौ अविद्या
सवासना निवर्तते, निद्राणस्येव स्वप्नव्याघ्रदर्शनसमुपजातभयेन
प्रबुद्धस्य स्वप्नः । ततस्संसारान्मुक्तः स्वस्वरूपे सच्चिदानन्दात्मनि
निरतिशयमहत्वसम्पन्न एव रममाणोऽवतिष्ठते ॥
तदुक्तं सर्वज्ञात्ममुनिभिः --
तस्मात् ब्रह्माविद्यया जीवभावं
प्राप्य स्थित्वा तावके तु स्वरूपे ।
त्वच्चित्तेन स्पन्दितं विश्वजातं
आकाशादिक्ष्मावसानं च पश्येः ॥
स्वीयाविद्याकल्पिताचार्यवेद -
न्यायादिभ्यो जायते तस्य विद्या ।
विद्याजन्मध्वस्तमोहस्य तस्य
स्वीये रूपेऽवस्थितिः स्वप्रकाशे ॥ इति ।
संक्षेपशारीरकम् अ १६२,१६३
ततः सर्वस्य परमार्थतो ब्रह्ममात्रत्वेऽपि मायावशात् भ्रान्त्या
सर्वमुपपद्यत इति ॥
कार्यं - जन्यं, कारणं - जनकं, स्वं -गृहक्षेत्रधनादि,
स्वामी - तद्वान् देवदत्तादिः, शिष्यः - विद्याग्रहणार्थं
विधिवद्गुरुमुपसन्नः, आचार्यः - विद्योपदेष्टा, पिता - निषेक्ता,
पुत्रः - तच्छुक्रसम्भवः, इत्यादिरूपेण, विश्वं यः पश्यति ।
तस्मै - नम इति संबन्धः ॥ ८॥
इदानीमुक्तरूपब्रह्मापरोक्षज्ञाने मन्दाधिकारिणामष्टमूर्त्युपासनं
क्रममुक्तिदायकं, उत्तमाधिकारिणां श्रोतव्यादिश्रुतिसिद्धवेदान्त
तद्विषयब्रह्मविचारस्साधनमित्यभिप्रेत्याह - भूरम्भांसीति ॥ ८ ॥
भूरम्भांस्यनलोऽनिलोम्बरमहर्नाथो हिमांशुः पुमान्
इत्याभाति चराचरात्मकमिदं यस्यैव मूर्त्यष्टकम् ।
नान्यत्किञ्चन विद्यते विमृशतां यस्मात्परस्मात् विभोः
तस्मै श्रीगुरुमूर्तये नम इदं श्रीदक्षिणामूर्तये ॥ ९॥
भूः - पृथिवी, अम्भांसि - जलानि, अनलः - अग्निः, अनिलः -
वायुः, अम्बरं - आकाशः, अहर्नाथः - सूर्यः, हिमांशुः - चन्द्रः,
पुमान् - सकलकर्मविद्याधिकारी जीवः, इति - एवंप्रकारेण,
चराचरात्मकमिदं - जगत्, यस्यैव - परमेश्वरस्य सर्वज्ञस्य
सर्वशक्तेः सच्चिदानन्दाद्वयस्य सदाशिवस्यैव मूर्त्यष्टकं,
मूर्तीनां विग्रहभूतानामष्टकम्, आभाति - आसमन्तात् भाति ।
अयमर्थः --- उपासकः स्वदेहे वर्तमानपञ्चभूतानि
व्यष्टिभूतानि समष्टिभूतैः, प्राणापानौ च
सूर्यशशाङ्काभ्यामेकीकृत्य पञ्चभूतात्मकशरीराभिमानिनं
स्वात्मानमष्टमूर्तिपरमेश्वरेणैकीकृत्य, सकलव्यापी अष्टमूर्त्यात्मकः
सदाशिवोऽस्मीति चिन्तयेत् ॥
ततो भावनातिशयेन तत्सायुज्यं प्राप्य
सर्वैश्वर्यसम्पन्नोऽन्ते तत्प्रसादसादिततत्त्वज्ञानेन
तत्त्वसाक्षात्कारेण विमुच्यत इति । विमृशतां - तत्त्वं विधिवद्
गुरुतः श्रुतिभ्यो युक्त्या चानिशं विचारयतां पुरुषाणां, परस्मात् -
सर्वकारणात्, विभोः - विविधप्रपञ्चात्मना भवतो विवर्तमानात्,
यस्मात् - सर्वाधिष्ठानात् सच्चिदानन्दात्मकात् परमेश्वरादन्यत्-
पृथक् किञ्चन - किन्ञ्चिदपि, न विद्यते - न भवति,
सर्वस्य तस्मिन् परमेश्वरेध्यस्तत्वेन तन्मात्रत्वात् ॥
तथाचोक्तं महिम्नस्तवे --
त्वमर्कस्त्वं सोमस्त्वमसि पवनस्त्वं हुतवह-
स्त्वमापस्त्वं व्योम त्वमु धरणिरात्मा त्वमिति च ।
परिच्छिन्नामेवं त्वयि परिणतां बिभ्रति गिरं
न विद्मस्तत्तत्वं वयमिह तु यत्त्वं न भवसि ॥ इति ॥
श्रुतिश्च --
``विश्वं भूतं भुवनं चित्रं बहुधा जातं जायमानं चा यत् ।
सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमोऽस्तु ॥ (तैत्तिरीय आरण्यक १०-२४-१)
यस्मात्परं नापरमस्ति किञ्चिद्यस्मान्नाणीयो न ज्यायोस्ति कश्चित्
वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णम् पुरुषेण सर्वम्
॥ इत्याद्या ॥
स्तब्धः - निश्चलः, दिवि - स्वप्रकाशे स्वरूपे ॥
तथा चोक्तरूपब्रह्मात्मज्ञानात् उत्तमाधिकारिणामिहैव
सच्चिदानन्दाद्वयपरशिवरूपेणावस्थानलक्षणा मुक्तिरासाद्यते ``अत्र
ब्रह्म समश्नुते” इत्यादिश्रुतेरिति भावः ॥ तस्मै ज्ञानोपदेष्ट्रे
गुरुरूपाय दक्षिणामूर्तये परमेश्वराय नमोऽस्त्विति ॥ ९ ॥
इदानीमेतत्स्तोत्रपाठादौ प्रवृत्तानां पुरुषधौरेयाणां अवश्यं भावि
फलं कीर्तयन् स्तोत्रमुपसंहरति सर्वात्मत्वमिति ।
सर्वात्मत्वमिति स्फुटीकृतमिदं यस्मादमुष्मिंस्तवे
तेनास्य श्रवणात्तदर्थमननात् ध्यानाच्च संकीर्तनात् ।
सर्वात्मत्वमहाविभूतिसहितं स्यादीश्वरत्वं स्वतः
सिद्ध्येत्तत्पुनरष्टधा परिणतं चैश्वर्यमव्याहतम् ॥ १०॥
इति - उक्तप्रकारेन, अमुष्मिंस्तवे - अस्मिन् स्तोत्रे, इदम्-
श्रुतिषु ``इदं सर्वं यदयमात्मा” इत्यादिषु श्रुयमाणं,
सर्वात्मत्वं - प्रत्यगात्मनः स्वरूपत्वं, स्फुटीकृतं -
स्फुटमावेदितं, यस्मात् तेनास्य - स्तोत्रस्य, श्रवणात् -
गुरुतो विधिवच्छ्रवणात्, तदर्थमननात् - श्रुतस्यार्थस्य
युक्तिभिरनुचिन्तनात्, ध्यानात् - श्रवणमननाभ्यां निर्णीनस्य
तथैव सोऽहं सर्वात्मा परमेश्वरोऽस्मीति विजातीयप्रत्ययतिरस्कारेण
सजातीयप्रत्ययैकविषयीकरणात्, संकीर्तनात् - सम्यक्
पाठात्, सम्यक्परेभ्यः कथनाद्वा, सर्वात्मत्वमहाविभूतिसहितं-
सर्वात्मत्वमेव महाविभूतिः, महती सिद्धिरणिमाद्यपेक्षया, तस्य
त्रिविधपरिच्छेदशून्यत्वात्, तया सहितं युक्तं, ईश्वरत्वं-
सत्यज्ञानानन्दलक्षणपरमेश्वरत्वं, तत्- श्रुतिप्रसिद्धं,स्वतः -
एव नित्यं विद्यमानं, स्यात् - भवेत् अधुना ज्ञायत इत्यर्थः ।
पुनः - भूयः,अष्टधा - ष्टप्रकारेण,अरिणतं - मायापरिणामरूपं,
अश्वर्यं - च अणिमादिकं, अव्याहतं - क्वचिदप्यप्रतिहतं, सिद्ध्येत् -
``स एकधा भवति त्रिधा भवति, स यदि पितृलोककामो भवति संकल्पादेवास्य
पितरस्समुत्तिष्ठन्ते”, इत्यादि श्रुत्युक्तं सर्वं भवेदित्यर्थः ॥ १०॥
वमेषा कृता व्याख्या दक्षिणाशामुखस्तुतेः ।
यथामति, तया तुष्टो दक्षिणामूर्तिरस्तु नः ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यकैवल्यानन्दयोगीन्द्र-
पादकमलभृङ्गायमाण - स्वयंप्रकाशयति विरचित
श्रीदक्षिणामूर्तिस्तोत्रव्याख्या लघुतत्त्वसुधाख्या समाप्ता ॥
ॐ तत् सत् ॥ हरिः ॐ ॥
Encoded Br. Pranipata Chaitanya pranipatachaitanya at yahoo.co.in
Proofread by Sunder Hattangadi