महाभारतं भारतपुण्यभूमिः

महाभारतं भारतपुण्यभूमिः

(ओट्टूर् उण्णि नम्पूतिरिप्पाट् विरचितम्) स्थाने तदेतद्भरतस्य राज्यं यत्सूरयो वर्षमिति ब्रुवन्ति । यस्मादसाधारणनित्यवर्षो यत्रैव जातो भगवत्कृपायाः ॥ १॥ यस्मादिहैवेश्वरनित्यदीप्ति- र्यस्मादिहैवाखिलधर्मरोहः । यस्मादिदं दैत्यरिपोः कलत्रं तस्मादिदं क्षेत्रमुदीरयन्ति ॥ २॥ आत्मद्युतिर्वा भगवत्प्रभा वा भाशब्दलक्ष्यार्थतयाऽवधार्या । यद्दिव्यतेजस्यनिशं रतत्वात् प्रख्यायते भारतसंज्ञयैतत् ॥ ३॥ अध्यात्मविद्यामृतमस्ति नाभ्यां कलाणगात्र्या अजनाभधात्र्याः । वाह्नाशुगैरासुरधर्मरूपै- र्यच्छोषणादेव मृता भवेत् सा ॥ ४॥ एतन्महाभारतदिव्यवर्षं साक्षान्महाभारतवन्महिष्ठम् । वाल्मीकिरामायणवत्पवित्रं श्रीमन्महाभागवताभिरामम् ॥ ५॥ यत्रैव जागर्ति हिमालयाख्य- शैलाधिपस्संयमिनां शरण्यः । गौरीगुरुर्ज्ञानतपस्समाधि- मन्त्रौषधीनामधिवासभूमिः ॥ ६॥ यत्रैवता भागवतादिरूपा गङ्गाभिरूपा द्विविधास्तटिन्यः । सर्वं पुनन्त्यस्तृणवीरुधोऽपि मुक्तिं नयन्त्यः परितस्सरन्ति ॥ ७॥ यत्रैव काशी बदरी प्रयागो कामेश्वरं पञ्चवटी कुमारी । वृन्दावनं मारुतमन्दिरं च स्मृत्यैव संसारहराणि सन्ति ॥ ८॥ यत्रैव वृन्दावनदिव्यधूली गङ्गाजगन्नाथमहाप्रसादः । एतत्त्रयं मुक्तजनैर्निषेव्यं मूर्त्तं चिदानन्द सतत्त्वमस्ति ॥ ९॥ यत्रैव रामायणमादिकाव्यं श्रीभारतं पञ्चमवेदसंज्ञम् । वल्मीकजात्सत्यवतीसुताच्च विज्ञानसूर्यद्वयमाविरासीत् ॥ १०॥ यत्रैव निश्शेषपुराणगुह्यं सच्चिन्मयं भागवतं बभूव । यत्कृष्णमेवाखिलधर्मगुप्त्यै ग्रन्थात्मना भुग्यवतीर्णमाहुः ॥ ११॥ युद्धेषु दिक्पालजितोऽतिशूरा- स्सत्याय सर्वस्वमुचोऽतिधीराः । कारुण्यतो दग्द्धधियो महान्तो यत्रैव जाताश्शतकोटिसङ्ख्याः ॥ १२॥ स्वर्णे तृणे तुल्यदृशो विमुक्ता मुक्तौ विरक्ताः परमार्थभक्ताः । ईशस्य नानामधुरावतारा यत्रैव निर्लोभतया बभूवुः ॥ १३॥ तातं त्रिलोकेश्वरनिर्विशेषं ज्येष्ठं तु तातेन समानकक्षम् । जेष्ठेन तुल्यं वयसाधिकांश्च सम्भावयन्तो यत एव जाता ॥ १४॥ दृष्टिं निवर्त्यावयवान्तरेभ्यः पादारविन्दं परसुन्दरीणाम् । अम्बाङ्घ्रिबुद्ध्या सततं नमन्तो यत्रैव जाताः पुरुषास्सुशीलाः ॥ १५॥ यत्रैव सर्वात्मसमर्पणेन श्रित्वा तुरुं निश्चलभक्तिपूर्वम् । मुक्तिं तृणीकृत्य समर्च्चयन्त- श्शिष्याग्रगण्या अभवन्नसङ्ख्याः ॥ १६॥ यत्रोदपद्यन्त किलोपमन्यु- रुत्तङ्क उद्दालक एकलव्यः । आचार्यभक्तेर्मकुटाभिषिक्त- दृष्टान्तभूता महनीयशिष्याः ॥ १७॥ भूतेष्वनागस्सु बिभर्ति दण्डं यो निर्दयस्स त्रिदिवेश्वरोऽस्तु । अन्योऽस्तु वा तस्य भुजं प्रसह्य- छेत्तुं सशौर्या यत एव जाताः ॥ १८॥ बालेषु वृद्धेष्वबलासु गोषु विप्रेषु संन्यासिषु तापसेषु । दीनेषु भीतेष्वरणागतेषु सन्यस्तशस्त्रा यत एव जाताः ॥ १९॥ धर्मस्य हेतोस्तनयं कलत्रं राज्यं शरीरं त्रिदिवं विमोक्षम् । सर्वान् पदार्थांस्तृणवद्विहातुं यत्ता महान्तो यत एव जाताः ॥ २०॥ धर्मस्य हेतोर्गुरुणा सुतेन तातेन मात्रा श्रुतिभिस्सुरेशैः । विश्वेश्वरेणापि च विग्रहीतु- मुद्रिक्तधैर्या यत एव जाताः ॥ २१॥ निष्किञ्चना अप्यतिथीनशेषान् सर्वस्वदानैः परितोषयन्तः । अन्यादृशा अद्भुतदानशूरा यस्मिन्महाभारत एव जाताः ॥ २२॥ निश्शेषमन्नं च मुदातिथिभ्यो दत्वा स्वयं त्वभ्यवहारहीनाः । क्षुत्क्षामदेहा निधनं गता ये यत्रैव जाता ग्रहमेधिनस्ते ॥ २३॥ क्षुधानिवृत्त्यै स्वगृहागतानां सुदुस्त्यजं स्वाङ्गमपि प्रदाय । कृतार्थभावेन मृता गृहस्था विहङ्गवंशेष्वपि यत्र जाताः ॥ २४॥ दीनानुसेवां पुरुषार्थयन्तः कैवल्यसौख्यं तृणतूलयन्तः । कैवल्यनाथं निजभृत्ययन्तो यस्यामजायन्त महानुभावाः ॥ २५॥ आलिङ्ग्य भर्त्तुः कुणपं चितायां तल्पे यथा पुष्पमये शयानाः । सम्प्रीतिपूर्वं ज्वलने दहन्त्य- श्चारित्रवत्यो यत एव जाताः ॥ २६॥ संस्तम्भयन्त्यो रथमुष्णरश्मे- र्निर्वीर्ययन्त्यश्शमनस्य पाशम् । वैश्वानरं चन्दनपङ्कयन्त्यो यत्रैव साध्वीमणयोऽभिजाताः ॥ २७॥ अरङ्गसीबस्य भयप्रदायी मराट्टदेशस्य विमोक्षकारी । अभिज्ञलोकस्य पदाब्जसेवी बभाज यत्रैव जनिं शिवाजी ॥ २८॥ प्रतापसिंहो यवनेन्द्रदन्ति- प्रतापविध्वंसविदग्द्धसिंहः । पळश्शिराट् चाङ्गल भीमसैन्य- गलेकुठारो यत एव जातौ ॥ २९॥ नार्थं न कामं न दिवं न मोक्षं किं त्वार्त्तिमेवाखिलदेहाभाजाम् । स्वस्योपभुक्त्यै कृपया मुकुन्दा- द्वृण्वन् यतोऽजायत रन्तिदेवः ॥ ३०॥ अन्धं विदित्वा निजजीवितेशं चैलस्य खण्डेन विलोचने स्वे । सम्यक्पिधायाऽमरणं स्थिता या सा यत्र जज्ञे धृतराष्ट्रपत्नी ॥ ३१॥ अत्यन्तबाल्ये वयसि स्थिता या पूर्णत्रयीशं परिरभ्य सद्यः । अन्तर्हिताऽभूद्वपुषैव साकं सा धन्य कन्या च यतोऽजनिष्ट ॥ ३२॥ काचित्कुरूराख्यगृहस्य नाथा नाधीतविद्या विधवा वराकी । भूदेवतन्वी पिठरे रुरोध यत्रैव साक्षात् परमं पुमांसम् ॥ ३३॥ गोदा यतोऽजायत रङ्गनाथो निर्माल्यधारित्वमियाय यस्याः । मीरा च यस्या हरिगानमाध्वीं पीत्वा शिलापि प्रणयादरोदीत् ॥ ३४॥ यत्रैव सीता शबरी जटायुः श्रीरामभद्रो भरतो हनूमान् । भिष्मोम्बरीषो विदुस्सुदामा राधा यशोदा पशुपाश्च जाताः ॥ ३५॥ निम्बार्करामानुजमाध्वमुख्यः कण्णप्पनन्दद्रविडार्भकाद्याः । नानाक्तुकाराम पुरस्सराश्च यत्रैव जाता अमितप्रभावाः ॥ ३६॥ यत्रोदिता रूपसनातनाद्या लक्ष्मीधरश्रीधरयामुनाद्याः । ज्ञानेश्वरश्रीतुलसीपुरोगाः श्रीसूरदासप्रमुखाश्च भक्ताः ॥ ३७॥ माणिक्यसम्बन्धपुरन्दराद्याः पून्तानलीलाशुकवल्लभाद्याः । त्रैलिङ्गपावारिसदाशिवाद्या उद्दामवीर्या यत एव जाताः ॥ ३८॥ स बुद्धदेवः करुणासमुद्र- स्स शङ्करो ज्ञानमहासुमेरुः । स गौरकृष्णः प्रणयामृतांशु- स्त्रयोऽपि यत्रैव समाविरासन् ॥ ३९॥ यत्रैव साक्षादवतारवर्यः श्रीरामकृष्णस्सकलाभिरामाम् । आश्चर्यरूपां निजदिव्यलीला- मस्मत्समक्षं प्रकटीचकार ॥ ४०॥ यत्रैव कृष्णः स्वयमेव साक्षात् पूर्णं परं ब्रह्म समाविरासीत् । यद्दिव्यकेलीरससिन्धुमध्ये पोप्लूयतेऽद्यापि समस्तलोकः ॥ ४१॥ यस्या महाभारतभूजनन्या- स्तन्यामृतं सुष्ठु पिबन्त एव । वृद्धिङ्गता व्यासशुकाम्बरीष- प्रह्लादवृत्रादि समस्ताभक्ताः ॥ ४२॥ पादाब्जधूल्या करुणादृशा च विश्वं समस्तं पुनतां बहूनाम् । पुण्यात्मनां भागवतोत्तमानां जन्मक्षितिं तां भजे भारताम्बाम् ॥ ४३॥ यत्रैव वृन्दारकमृग्यमाणो धर्मात्मको रोहति कल्पवृक्षः । यः पूरयत्यर्थिजनस्य हस्तं मोक्षादिभिस्सर्ववरप्रदानैः ॥ ४४॥ यत्रैव वेदोपनिषत्पुराण- तन्त्रादि नानाकनकाचलानाम् । योगादिनानासरितां च सत्त्वात् सर्वस्य हस्तस्थ इवाऽमृताब्धिः ॥ ४५॥ यत्रैव सद्धर्मपवित्रदुद्धं शुद्धाद्वयज्ञानमरन्दयूषम् । सर्वेश्वरस्नेहघृतं च धृत्वा नित्यं स्रवन्ति त्रिविधाश्च कल्याः ॥ ४६॥ कामार्थयोर्धर्मपरायणत्वं धर्मस्य निर्मुक्तिविधेयभावः । मुक्तेस्तथा भक्तिपदाब्जदास्यं यत्रैव जागर्ति यथाप्रधानम् ॥ ४७॥ वाताशनानां गगनाम्बराणां योगीश्वराणां चरणाब्जदास्यम् । साम्राज्यलक्ष्मीः पृथिवीपतीनां यत्रैव सप्रश्रयमातनोति ॥ ४८॥ वाणिज्यकृष्यादिसमस्तयत्ना- स्साहित्यगीतादिसमस्तविद्याः । आहारनिद्रादिसमस्तभोगा यत्रैव निःश्रेयसलक्ष्यबद्धाः ॥ ४९॥ यत्र द्विपाः स्युर्निखिला गणेशाः कीशा अशेषा हनुमत्स्वरूपाः । श्येनास्समस्ता गरुडांशभूता- स्सर्पाश्च सर्वे शिवभूषणानि ॥ ५०॥ भक्तोत्तमानां निजसन्ततीना- मुन्मत्तनृत्यैर्हरिकीर्तनैश्च । आपादचूडं पुलकानुविद्धा यस्यास्तनूरेव सदा चकास ॥ ५१॥ नान्नं न पेयं नच मन्त्रवर्णो नाध्यात्मविद्या नच लोकविद्या । आपद्य विक्रेयपदार्थकक्षां यद्यज्ञभुव्येव कदाप्यदुष्यत् ॥ ५२॥ वार्द्धक्यकालेऽप्यर्षिवृत्तिशून्यो गेहे शयित्वा मरणं प्रपन्ना । दुर्भाग्यपूर्णस्सुजनानुशोच्यो यद्भूतले नाजनि कोऽपि भूपः ॥ ५३॥ तारुण्यकाले समराङ्गणे वा वार्द्धक्यकाले विपिनस्थले वा । शस्त्रेण वा योगबलेन वा च यत्र क्षितीशा विजहुश्शरीरम् ॥ ५४॥ दुष्पुत्रवश्यो जनुषान्तचक्षु- र्भोगैकलोलो दुरितप्रवृत्तिः । यद्धर्मराष्ट्रे धृतराष्ट्रभूपो- ऽप्यन्ते हिमाद्रिं तपसे जगाम ॥ ५५॥ सङ्ग्रामभूमेरितरत्र शूरा यत्रैव शत्रून्न कदापि जघ्नुः । विद्वेषबुद्ध्याऽहनि युध्यमानाः प्रेम्णा तु रात्रावुपगूहमानाः ॥ ५६॥ अद्रोहनाम्ना श्रवणाभिराम- श्शान्तिस्वरूपेण विराजमानः । भीरुत्वकापट्यमहाविलासो नो यत्र सद्धर्मतया प्रशस्तः ॥ ५७॥ निर्भाग्यतां भोगधनापहृत्या यस्या विधातुं बहवोऽपिशेकः । तेजोवधं योगधनापहृत्या यस्यास्तु कर्त्तुं कतमोऽपि नैष्ट ॥ ५८॥ यत्रैव न ब्रह्मविदां मुनीनां सन्तानविच्छित्तिरभूत्कदापि । यत्रैव चात्मानुभवप्रदीपो निर्वापितो जातु न कालवातैः ॥ ५९॥ यैवार्षपृथ्वी प्रथवे प्रसन्ना देवादिवृक्षान्तचराचरेभ्यः । छन्दस्तपोधर्मसुधादिदोहां- श्छन्दानुरूपानखिलान्दुदोह ॥ ६०॥ कामार्थयोर्धर्मविमोक्षतोऽपि ज्यायः पदं कल्पयितुं कदापि । नैवोपपन्नं हृदि मन्वतेस्म यत्र प्रजाभर्त्तृषु ये विशिष्टाः ॥ ६१॥ कैवल्यरूपं मनसोतिदूरं ब्रह्माद्वितीयं शिथिलेन दाम्नम् । यैका यशोदाऽपरनामधेया कस्मिंश्चनोलूखलके बबन्ध ॥ ६२॥ पादेन यत्स्पर्शनशङ्कयैव देवं वियद्वर्त्मनि सञ्चरन्ती । यस्यामवाप्तुं जनिभागधेयं न प्रार्थयन्ते तदिच्छवोऽपि ॥ ६३॥ यद्भक्तितो वैश्रवणस्य पुत्रौ शापापदेशेन तरुस्वरूपौ । भूत्वाचिरं तस्थतुरूर्द्ध्वपादौ मूर्द्धा तरूणां खलु मूलमेव ॥ ६४॥ यद्व्योममार्गाः क्रतुधूमधूम्रा यद्वारिधारा बलिपुष्पकीर्णाः । यद्रेणुपुञ्जास्सुजनाङ्घ्रिपूता- स्तां धन्यधन्यां भज भारतोर्वीम् ॥ ६५॥ मुक्ताफलौघेष्विव हेमसूत्रं भूतेष्वनुस्यूततया प्रविष्टम् । गूढं मिथोयोजकमात्मतत्त्वं यत्रैव साक्षादुपलब्धमासीत् ॥ ६६॥ यत्रैव भाषामतजातिदैव- ताचारशास्त्रादिषु दृश्यमानम् । नानात्वमेकत्वविशुद्धदृष्टिं प्रेमप्रवृत्तिं च न जातु हन्ति ॥ ६७॥ यत्राभवन् द्वादश पुल्कसस्त्री- तोकानि पाक्कप्रभृतीनि तानि । यैः स्थापितं शाश्वतमैक्यमत्यं वर्णाश्रमध्वंसनमन्तरैव ॥ ६८॥ सत्स्वप्यसङ्ख्येषु मतप्रभेदे- ष्वन्योन्यवैरेण तु तन्निमित्तः । यत्रैव नैकोऽपि रणःप्रवृत्तो नैकोऽपि रक्तस्य पपात बिन्दुः ॥ ६९॥ अन्येषु राज्येषु किरातकल्पै- र्मुखैर्जनैरध्युषितेषु सत्सु । यत्रैव देवैरपि वन्द्यमाना वर्षे वसन्तिस्म महानुभावाः ॥ ७०॥ निष्पीडिता निष्ठुरनास्तिकौघै- र्देवार्चनं कर्तुमपारयन्तः । द्वीपान्तरेभ्यो बहवो मतस्था आगत्य यत्रैव गतिं ह्यविन्दन् ॥ ७१॥ यत्रैव संन्यास इवाश्रमत्वे- नाङ्गीकृता साधुगृहस्थवृत्तिः । यत्रैव देवालयतुल्यभक्त्या शिष्टालयस्तीर्थतया प्रशस्तः ॥ ७२॥ द्रोहान्निवृत्तिर्मुनिमण्डलानां युद्धे प्रवृत्तिश्च महीपतीनाम् । आपाततोऽन्योन्यविरुद्धमेत- द्धर्मद्वयं यत्र बभाज सख्यम् ॥ ७३॥ ज्ञानस्य धर्मस्य च सूक्ष्मतत्त्वं जिज्ञासुरेकः कुलवान्मुनीन्द्रः । यत्रैव चण्डालकुलोद्भवस्य व्याधस्य पादं शरणं प्रपेदे ॥ ७४॥ निर्मानमोहस्समदृक्प्रशान्तो गूढश्चरन्कश्चन योगिवर्यः । कारुण्यशक्त्या नतु दास्यवृत्त्या यत्रैव राज्ञश्शिबिकामुवाह ॥ ७५॥ भूमण्डलेशस्सुयशा दिलीपो ब्रह्माण्डनाथो भगवान्हरिश्च । धेनुं सवित्रीमिव सेवमानौ यत्रैव सञ्चेरतुरप्रमत्तौ ॥ ७६॥ यत्रैव पुण्यद्विजयज्ञवेदि- स्संशान्तवाचंयम पर्णशाला । अत्युग्रपृथ्वीश्वरयुद्धभूमि- रासंस्त्रयश्चोपनिषज्जनन्यः ॥ ७७॥ यत्रैव दामोदरपार्थयोश्च वृत्रेन्द्रयोश्चाद्भुतसूक्तिधाराः । धर्मास्पदा ब्रह्मपराश्च शान्ता- स्सङ्ग्राममूर्धन्यपि सम्प्रवृत्ताः ॥ ७८॥ आपाततोऽन्योन्यविरुद्धरूपान् नानाप्रकारान् मतसम्प्रदायान् । साम्येन यैका परिरक्ष्य चक्रे सर्वंसहा नाम निजं यथार्थम् ॥ ७९॥ यस्यास्तु कोशे भुवनत्रयस्य पोषाय पर्याप्तमनन्यसिद्धम् । अक्षय्यमाध्यात्मिकवित्तमस्ति विश्वम्भरां तां भज भारताख्याम् ॥ ८०॥ स्तनन्धयोऽपीशकथां श‍ृणोति शुकोऽपि गायत्यभिधां मुरारेः । विल्वादिवृक्षोऽपि ददाति मुक्तिं यत्रैव तद्भारतमेव सेवे ॥ ८१॥ यत्रैव साक्षात्तुलसी विरूढा यत्रैव गीतोपनिषत् प्रगीता । यत्रैव गायत्र्युदयं प्रपेदे तत्रैव मे सम्पततात्प्रणामः ॥ ८२॥ यत्रैव धेनुर्जननीव पूज्या यत्रैव माता गिरिजेव वन्द्या । यत्रैव भिक्षुर्हरिवत्समर्च्य- स्तस्यै नमो भारतधर्मभूम्यै ॥ ८३॥ यत्रैव मेघा अमृतं किरन्ति यत्रैव वाताः प्रणवं जपन्ति । यत्रैव वृक्षा अतिथीन् भजन्ति तस्मात् किमन्यत् प्रणमानि वर्षम् ॥ ८४॥ तीर्थस्थलानां सुरकेतनानां पुण्याश्रमाणां निगमागमानाम् । भक्तिक्रियाज्ञानतपःपथानां क्रीडाधरण्यै नम आर्षभूम्यै ॥ ८५॥ सत्यव्रतानां पतिदेवतानां भक्तोत्तमानां मुनिपुङ्गवानाम् । योगीश्वराणामवतारपुंसां वन्दे सवित्रीमजनाभधात्रीम् ॥ ८६॥ अध्यात्मचैतन्यघनायमाणा- मेकैकधूलीकणिकां यदीयाम् । मेने नरेन्द्रश्शिवलिङ्गकल्पां तस्यै निबद्धोऽञ्जलिरार्षभूम्यै ॥ ८७॥ यस्याः स्मृतिर्लोचनमश्रुपूर्णं हस्ताम्बुजं कोरकितं शरीरम् । रोमाञ्चितं सन्मनसां विधत्ते तस्यै नमोऽस्त्वार्षवसुन्धरायै ॥ ८८॥ यत्सेवनार्थं बहवो विमुक्ता हस्तस्थितं योगसमाधिसौख्यम् । त्यक्त्वा मुदाऽवृण्वत जन्ममृत्यु- दुःखानि तामार्षभुवं भजामि ॥ ८९॥ यज्जीवनाडी परमात्मविद्या यन्मातृका त्यागपरायणत्वम् । यत्पोषणं शाश्वतधर्मरक्षा तां पुण्यभूमिं प्रणमाम्यभीक्ष्णम् ॥ ९०॥ या कर्मणां पावनयज्ञभूमि-- र्या योगिनां निर्ज्जनवन्यभूमि- । र्या ज्ञानिनां केवलमोक्षभूमि- स्सा वर्द्धतां भारतपुण्यभूमिः ॥ ९१॥ इति श्री ओट्टूर् उण्णि नम्पूतिरिप्पाट् विरचितं महाभारतं सम्पूर्णम् । शुभं The 91 verses are on the greatness and glory of Bharata. First few verses explain various names of the country, like bharata, ajanabhavarsha, etc. The poet's name is Ottur Unni Nambudiripad of Kerala, who has received Presidential award for his contribution to Sanskrit literature. Unni Nambudiripad, Ottoor was an outstanding devotional and mystic poet and commentator of Puraanams, Unni (real name, Subrahmanian) Nambudiripad was born in 1904 in the well-known Ottoor Mana. Upto the age of 15, his study was mainly concentrated on the Vedams and a few Kaavyams of Sanskrit. Ill health did not allow him to study beyond the 9th standard. He was a gifted poet and a blessed soul who could realize God. He wrote numberless devotional poems eulogizing Him from various angles. He was also a talented prose writer and short story writer. He is the author of books without number, the major ones being ᳚Naamaambika᳚, ᳚Shyaamasundaran᳚, ᳚Mandaakini᳚, ᳚Aanandamurali᳚, ᳚Yamunaakunjam᳚, ᳚Neelachandrika᳚ apart from ᳚Satheerthhyante Kaazhcha (drama), ᳚Pooppaalika᳚, and ᳚Thriveni᳚ (short story collections). ᳚Rasamaadhuri᳚ and ᳚Sreeramakrishna Karnaamrutham᳚ (Sanskrit books) and many poems yet to be collected and published in book form. He almost became a recluse or ᳚Samnyaasi᳚ towards the end of his life. He breathed his last in 1989. The M. Phil. Thesis The Sanskrit Poet in Ottur (link below in Indextra) of Dr. C. Sreekumaran of Guruvayoorappan college, Calicut reveals more of this great poet's work. (From namboothiri.com). He was a great devotee of Krishna and received mantra from Swami Nirmalananda, a direct disciple of Sri Ramakrishna. The verses are in anushtup and are in simple Sanskrit, so that even beginners can understand them easily. Encoded and proofread by Shankara
% Text title            : mahAbhAratam by oTTUruNNinampUtirippAT
% File name             : mahAbhAratamoTTUruNNinampUtirippAT.itx
% itxtitle              : mahAbhAratam (oTTUruNNinampUtirippAT virachitam)
% engtitle              : mahAbhAratamoTTUruNNinampUtirippAT
% Category              : major_works
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : Unni Nambudiripad, Ottoor
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Shankara
% Proofread by          : Shankara
% Source                : Serialised in a Malayalam magazine along with Malayalam translation
% Indexextra            : (Author Info 1, 2, 3)
% Latest update         : February 10, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org