श्रीराघवेन्द्रतीर्थविरचितं महाभारततात्पर्यनिर्णयभावसङ्ग्रहः
योऽग्रेऽभूद्विश्वगर्भः सुखनिधिरमितैः वासुदेवादिरूपैः
क्रीडन् देवैरजाद्यैः अगणितसुगुणो नित्यनीचोच्चभावैः ।
वेदैर्वेद्योऽस्तदोषोऽप्यसुरजनमनो मोहयन् मर्त्यवृत्या
भक्तानां मुक्तिदाता द्विषदसुखकरः पातु सोऽस्मान् रमेशः ॥ १॥
सद्ग्रन्थानां समूहे जगति विलुलिते येन तद्भावमुच्चैः
वक्तुं मध्वो नियुक्तो व्यधित सुवचसामुद्धृतिं भारतस्य ।
वेदोत्कृष्टस्य विष्णोः परमपुरुषतां तारतम्यं सुराणां
वायोर्जीवोत्तमत्वादिकमपि वदतां व्यासमीडे तमीशम् ॥ २॥
आदौ रूपचतुष्टयीं सृजति यो देवान् पुरानुक्रमात्
ब्रह्माण्डं पुरमब्जजादिविबुधान् सृष्ट्वा हरत्यन्ततः ।
स्रष्टा पूर्ववदस्य सर्वजगतो मत्स्यादिरूपैर्भवन्
रामोऽभूदनुजान्वितो दशरथात् पायात् स नः श्रीपतिः ॥ ३॥
यद्वृद्धिर्जनमोहिनी मुदमिता यद्दर्शनात् सज्जनाः
येनर्षिप्रियकारिणा निशिचरीहन्त्रा क्रतू रक्षितः ।
योऽहल्यां सपतिं व्यधात् हरधनुर्भङ्क्त्वाऽवहज्जानकीं
जेता वर्त्मनि भार्गवस्य नगरीं रामो गतोऽव्यात् स माम् ॥ ४॥
त्यक्त्वा राज्यमितो वनं वचनतो मातुश्च काकाक्षिगं
दैत्यं व्यस्य विकर्णघोणखचरीबन्धून् खरादीन् खलान् ।
मारीचं च निहत्य रावणहृतां सीतां विचिन्वन्निव
प्राप्तो वायुसुतेन सूर्यजयुजा रामोऽवताद्वन्दितः ॥ ५॥
सुग्रीवेण सखित्वमाप्य शपथं कृत्वा वधे वालिनः
तालान् सप्तविभिद्य वालिनिधनं कृत्वा स्वराज्ये स्थितम् ।
मार्ताण्डिं च विधाय मारुतियुजा याम्यां दिशं गच्छता
सीतान्वेषणं इच्छताब्धितरणे रामोऽवतात् संस्तुतः ॥ ६॥
यस्य श्रीहनुमाननुग्रहबलात् तीर्णाम्बुधिः लीलया
लङ्कां प्राप्य निशाम्य रामदयितां भङ्क्त्वा वनं राक्षसान् ।
अक्षादीन् विनिहत्य वीक्ष्य दशकं दग्ध्वा पुरीं तां पुनः
तीर्णाब्धिः कपिभिर्युतो यमनमत् तं रामचन्द्रं भजे ॥ ७॥
सिन्धुं दक्षिणमागतो दशमुखभ्रात्रिष्टदोऽब्ध्यर्थितो
बध्वा सेतुमवाप्य राक्षसपुरीं सैन्यैः कपीनां युतः ।
हत्वेन्द्रारि करीरकर्णदशकादीन् राक्षसान् जानकीं
आदायाप्य पुरीं स्वराज्यपदवीं प्राप्तोऽवताद्राघवः ॥ ८॥
प्राप्तः साम्राज्यलक्ष्मीं प्रियतमभरतं यौवराज्येऽभिषिच्य
स्वीयान् रक्षन् सुतौ द्वौ जनकदुहितरि प्राप्य यज्ञैर्यजन् स्वम् ।
सीताहेतोर्विमोह्य क्षितिजदितिसुतानर्थितो देवसङ्घैः
सद्भिर्युक्तो हनूमद्वरद उपगतः स्वं पदं पातु रामः ॥ ९॥
क्षीराब्ध्युन्मथनादिकात्मचरितं देवैर्गृणद्भिः स्तुतः
सज्ञानाय पराशराख्यमुनिना यः सत्यवत्यामभूत् ।
व्यासत्वेन विधाय वेदविवृतिं शास्त्राणि सर्वाण्यपि
ज्ञानं सत्सु निधाय सद्गतकलिं निघ्नन् स नोऽव्याद्धरिः ॥ १०॥
भूपा यत्र पुरूरवः प्रभृतयो जाता विधोरन्वये
यद्वाद्या भरतादयो कुरुमुखा भीष्माम्बिकेयादयः ।
भूभारक्षयकाङ्क्षिभिः सुरवरैरभ्यर्थितः श्रीपतिः
तत्राविर्भवितुं सहामरवरैरिच्छन् हरिः पातु माम् ॥ ११॥
देवक्यां वसुदेवतोऽग्रजयुतो जातो व्रजं यो गतो
बालघ्नीशकटाक्षहा स्वजननीमान्यस्तृणावर्तहा ।
यत्पूर्वं परतश्च पाण्डुतनया यत्सेवनं जज्ञिरे
कर्तुं धर्ममरुद् वृषाश्विन इमं नन्दात्मजं नौमि तम् ॥ १२॥
संस्कारान् प्राप्य गर्गात् बहुशिशुचरितैः प्रीणयन् गोपगोपीः
वत्सान् धेनूश्च रक्षन्नहिपतिदमनो यः पपौ काननाग्निम् ।
विप्रस्त्रीप्रीतिकारी धृतधरणिधरो गोपिकाभिर्निशासु
क्रीडन् मल्लांश्च कंसं न्यहनदुपगतोऽव्यात्स कृष्णः पुरीं स्वाम् ॥ १३॥
पित्रोर्बन्धं निरस्य क्षितिपतिमकरोदुग्रसेनं गुरोर्यः
पुत्रं प्रादात्परेतं युधि विजितजरासन्धपूर्वारिवर्गः ।
पार्थान् पित्रा विहीनानुपगतनगरान् यस्त्वजोऽपाद्विपद्भ्यः
नन्दादीनुद्धवोक्त्या गतविरहशुचः कारयन् सोऽवतान्माम् ॥ १४॥
यस्मात् व्यासस्वरूपादपि विदितसुविद्या अवापुः प्रमोदं
पार्था द्रोणः सुतार्थं प्रतिगतभृगुपो यन्नियत्याऽर्थकामः ।
तस्मादाप्तोरुविद्यो द्रुपदमुपगतोऽनाप्तकामोऽस्त्रविद्याः
शिष्येभ्यः कौरवेभ्यो रविजनिरसनोऽदात्सनोऽव्यान्मुरारिः ॥ १५॥
भूयस्त्वागतमाहवे सह जरासन्धं नृपैर्नीतये
ज्ञात्वा यस्सहजान्वितोऽतिगहनं गोमन्तमत्रागतात् ।
तार्क्ष्याल्लब्धकिरीट उन्नत गिरेराप्लुत्य जित्वा रिपून्
हत्वा स्वीयसृगालमात्मनगरीं प्राप्तः स नोऽव्याद्धरिः ॥ १६॥
भग्नाशान् नृपतीनरीन् व्यधित यः स्वर्गाधिपाग्र्यासने
लग्नो भीष्मकसत्कृतोऽथ यवनं जघ्ने सतीमात्मनः ।
निघ्नां योऽकृत रुक्मिणीं समजयद् दुर्गर्विरुक्म्यादिकान्
विघ्नं सत्रजिदात्मजापतिरसौ मे घ्नन् भवेत्सर्वदा ॥ १७॥
अस्त्रज्ञेष्वधिकोऽर्जुनोऽथ यदनुक्रोशेन भीमं विना
सद्धर्मे निरतं ददौ स्वगुरवे बध्वा नृपं पार्षतम् ।
पुत्रौ स द्रुपदोऽपि वह्निविबुधात् स्त्रीरूपकं प्राप्तवान्
इष्टां धर्मज आप राज्यपदवीं स प्रीयतां मे हरिः ॥ १८॥
यत्कारुण्यबलेन पाण्डुतनया निस्तीर्य नानापदो
भिक्षान्नाशिन आगमाभ्यसनिनो हत्वा बकं द्रौपदीम् ।
उद्वाह्याखिलभूपतीनपि रणे जित्वागताः स्वां पुरीं
इन्द्रप्रस्थपुरेऽवसन् कृतधरारक्षाः स नोऽव्याद्धरिः ॥ १९॥
यः पार्थान् परिपालयन् हरिपुरे स्त्रीपुत्रसम्पद्युतान्
संहर्ता शतधन्वनोऽष्टमहिषीभर्ता सुरर्षिस्तुतः ।
हत्वा भौममपाहरत्सुरतरुं बह्वीरुवाहाङ्गनाः
प्रायच्छद्धरिसूनवे स्वसहजां पायात्स नः केशवः ॥ २०॥
पार्थान् लब्धसभान् विधाय मयतः प्राप्तः पुरं स्वां गतः
क्षेत्रं कौरवमर्कपर्वणि पुरीं सम्प्राप्य कर्ता क्रतोः ।
पाण्डून् प्राप्य जरासुते विनिहते तैः कारयित्वाऽध्वरं
प्राप्तः स्वं पुरमच्युतो विजयते द्यूते जितैश्च स्मृतः ॥ २१॥
पार्था याता अरण्यं निहतनिशिचराः प्रीणयन्तो द्विजौघान्
वार्तां श्रुत्वा स्वकीयामुपगतहरिणा मानिता सिन्धुराजम् ।
जित्वा दुर्योधनादीन् हरिहयपुरुषव्रातबद्धान्विमोच्य
प्राप्ता धर्मप्रसादं यमथ मधुरिपुं तुष्टुवुस्तं प्रपद्ये ॥ २२॥
अन्यं वेषमुपागताः पृथगितो गत्वा विराटालयं
तद्देहस्थहरेर्निषेवणपरा मल्लं तथा कीचकान् ।
हत्वा गोग्रहणोद्यतानपि कुरून् जित्वा विराटार्चिताः
पार्थाः स्वान्तिकमागतं यमजितं भेजुस्तमीडेऽच्युतम् ॥ २३॥
यत्सम्मत्या पृषततनुजप्रेषितब्राह्मणोक्त्या
राज्यं नादादनुजजनितस्याम्बिकेयोऽर्जुनस्य ।
यः साहाय्यं व्यधित नगरीं कौरवाणामवाप्तः
स्वोक्ते कृष्णस्तदनभिमतेऽवाप्तपार्थः स नोऽव्यात् ॥ २४॥
सेनां वीक्ष्य रणोन्मुखे करुणया शस्त्रोज्झितं फल्गुनं
सद्गीतामुपदिश्य कार्मुकधरं चक्रेऽस्य यः सारथिः ।
अन्योन्यं कुरुपाण्डवैश्च पृतनां योऽजीघनत् स्यन्दनात्
यो भीष्मं निरपातयत् सुतशरैः पाण्डोस्तमीडेऽच्युतम् ॥ २५॥
द्रोणे युध्यति पाण्डवैर्विनिहतं प्राग्ज्योतिषं पार्थतः
कृत्वा तस्य सुते हते निशि शिवं नीत्वार्जुनं सैन्धवम् ।
तद्दत्तास्त्रबलादजीघनदतो द्रोणे हते द्रौपदेः
यो भीमं च निजास्त्रनम्रमकरोत् तं नौमि नारायणम् ॥ २६॥
यत्सामर्थ्यबलेन सूर्यतनुजे पार्थेन युद्धे जिते
पश्चाच्छल्यमवाप्य सारथिवरं धर्मात्मजं सायकैः ।
शीर्णाङ्गं कृतवत्यमुं शिबिरगं पार्थं च मृत्योरपात्
यः पार्थेन हतेऽर्कजे नृपनुतः पायात्स नः केशवः ॥ २७॥
शल्ये धर्मसुताद्धते कुरुबले पार्थैः समस्ते हते
भीमेनानुजसंयुत् विनिहत् दुर्योधने द्रौणिना ।
सुप्तानां निधने कृते निशि ततो मुक्त्वा विधेरस्त्रतः
पार्थान् राज्यमितांश्च तत्सुतसुतं योऽपात्स नोऽव्याद्धरिः ॥ २८॥
कृष्णाभ्यामपि भूसुरैर्नृपसुतो राज्येऽभिषिक्तो द्विजैः
दग्धे निन्दति भिक्षुके खलतरे स्वं विप्रतीसारतः ।
राज्यं त्यक्तुमथोद्यतो वचनतो यस्याप्त भीष्मात्ततः
शुश्रावाखिलधर्मनिर्णयमदः कृष्णद्वयं धीमहि ॥ २९॥
स्मृत्वा यं द्युसरित्सुतो वसुरभूद्राजा यदाशासितो
निर्दुःखोऽथ जुगोप धर्मनिरतो जित्वा स्वराज्ये कलिम् ।
यः पार्थं समबोधयत् मृतशिशुं योऽजीवयत्पाण्डवैः
यो यज्ञं समकारयत् बहुधनैः ध्यायामि तं केशवम् ॥ ३०॥
यद्युक्ताः पाण्डुपुत्राः क्षितिमथ जुगुपुः धर्मराजः त्वरावान्
धर्मे यत्प्रीतयेऽभूत् पवनजवचनैराम्बिकेयं विरक्तम् ।
व्यासात्मा यो वनस्थं त्वकृत निजमनोऽभीष्टवन्तं गतं स्वं
नाथं पार्थाः स्मरन्तो मुमुदुरपि पदं यस्य कृष्णं तमीडे ॥ ३१॥
यो यष्टा विप्रशापाद्यदुकुलमवधीत् अर्थितोऽगात् स्वलोकं
देवैर्भैष्म्याद्युपेतो यदनु निजपदं पाण्डवा अप्यवापुः ।
दैत्या यद्वेषतोऽन्धे तमसि निपतिता बुद्धरूपोऽभवद्यः
कल्क्यात्मान्ते कले यः कुजननिधनकृत् पातु सोऽस्मान् मुकुन्दः ॥ ३२॥
महाभारत तात्पर्यनिर्णयाशयसङ्ग्रहः ।
राघवेन्द्रेण यतिना कृतः सज्जनसंविदे ॥
इति श्रीराघवेन्द्रतीर्थविरचितं महाभारततात्पर्यनिर्णयभावसङ्ग्रहः सम्पूर्णः ।
Encoded and proofread by Aaditya Kalyanaraman