श्रीराघवेन्द्रतीर्थविरचितं महाभारततात्पर्यनिर्णयभावसङ्ग्रहः

श्रीराघवेन्द्रतीर्थविरचितं महाभारततात्पर्यनिर्णयभावसङ्ग्रहः

योऽग्रेऽभूद्विश्वगर्भः सुखनिधिरमितैः वासुदेवादिरूपैः क्रीडन् देवैरजाद्यैः अगणितसुगुणो नित्यनीचोच्चभावैः । वेदैर्वेद्योऽस्तदोषोऽप्यसुरजनमनो मोहयन् मर्त्यवृत्या भक्तानां मुक्तिदाता द्विषदसुखकरः पातु सोऽस्मान् रमेशः ॥ १॥ सद्ग्रन्थानां समूहे जगति विलुलिते येन तद्भावमुच्चैः वक्तुं मध्वो नियुक्तो व्यधित सुवचसामुद्धृतिं भारतस्य । वेदोत्कृष्टस्य विष्णोः परमपुरुषतां तारतम्यं सुराणां वायोर्जीवोत्तमत्वादिकमपि वदतां व्यासमीडे तमीशम् ॥ २॥ आदौ रूपचतुष्टयीं सृजति यो देवान् पुरानुक्रमात् ब्रह्माण्डं पुरमब्जजादिविबुधान् सृष्ट्वा हरत्यन्ततः । स्रष्टा पूर्ववदस्य सर्वजगतो मत्स्यादिरूपैर्भवन् रामोऽभूदनुजान्वितो दशरथात् पायात् स नः श्रीपतिः ॥ ३॥ यद्वृद्धिर्जनमोहिनी मुदमिता यद्दर्शनात् सज्जनाः येनर्षिप्रियकारिणा निशिचरीहन्त्रा क्रतू रक्षितः । योऽहल्यां सपतिं व्यधात् हरधनुर्भङ्क्त्वाऽवहज्जानकीं जेता वर्त्मनि भार्गवस्य नगरीं रामो गतोऽव्यात् स माम् ॥ ४॥ त्यक्त्वा राज्यमितो वनं वचनतो मातुश्च काकाक्षिगं दैत्यं व्यस्य विकर्णघोणखचरीबन्धून् खरादीन् खलान् । मारीचं च निहत्य रावणहृतां सीतां विचिन्वन्निव प्राप्तो वायुसुतेन सूर्यजयुजा रामोऽवताद्वन्दितः ॥ ५॥ सुग्रीवेण सखित्वमाप्य शपथं कृत्वा वधे वालिनः तालान् सप्तविभिद्य वालिनिधनं कृत्वा स्वराज्ये स्थितम् । मार्ताण्डिं च विधाय मारुतियुजा याम्यां दिशं गच्छता सीतान्वेषणं इच्छताब्धितरणे रामोऽवतात् संस्तुतः ॥ ६॥ यस्य श्रीहनुमाननुग्रहबलात् तीर्णाम्बुधिः लीलया लङ्कां प्राप्य निशाम्य रामदयितां भङ्क्त्वा वनं राक्षसान् । अक्षादीन् विनिहत्य वीक्ष्य दशकं दग्ध्वा पुरीं तां पुनः तीर्णाब्धिः कपिभिर्युतो यमनमत् तं रामचन्द्रं भजे ॥ ७॥ सिन्धुं दक्षिणमागतो दशमुखभ्रात्रिष्टदोऽब्ध्यर्थितो बध्वा सेतुमवाप्य राक्षसपुरीं सैन्यैः कपीनां युतः । हत्वेन्द्रारि करीरकर्णदशकादीन् राक्षसान् जानकीं आदायाप्य पुरीं स्वराज्यपदवीं प्राप्तोऽवताद्राघवः ॥ ८॥ प्राप्तः साम्राज्यलक्ष्मीं प्रियतमभरतं यौवराज्येऽभिषिच्य स्वीयान् रक्षन् सुतौ द्वौ जनकदुहितरि प्राप्य यज्ञैर्यजन् स्वम् । सीताहेतोर्विमोह्य क्षितिजदितिसुतानर्थितो देवसङ्घैः सद्भिर्युक्तो हनूमद्वरद उपगतः स्वं पदं पातु रामः ॥ ९॥ क्षीराब्ध्युन्मथनादिकात्मचरितं देवैर्गृणद्भिः स्तुतः सज्ञानाय पराशराख्यमुनिना यः सत्यवत्यामभूत् । व्यासत्वेन विधाय वेदविवृतिं शास्त्राणि सर्वाण्यपि ज्ञानं सत्सु निधाय सद्गतकलिं निघ्नन् स नोऽव्याद्धरिः ॥ १०॥ भूपा यत्र पुरूरवः प्रभृतयो जाता विधोरन्वये यद्वाद्या भरतादयो कुरुमुखा भीष्माम्बिकेयादयः । भूभारक्षयकाङ्क्षिभिः सुरवरैरभ्यर्थितः श्रीपतिः तत्राविर्भवितुं सहामरवरैरिच्छन् हरिः पातु माम् ॥ ११॥ देवक्यां वसुदेवतोऽग्रजयुतो जातो व्रजं यो गतो बालघ्नीशकटाक्षहा स्वजननीमान्यस्तृणावर्तहा । यत्पूर्वं परतश्च पाण्डुतनया यत्सेवनं जज्ञिरे कर्तुं धर्ममरुद् वृषाश्विन इमं नन्दात्मजं नौमि तम् ॥ १२॥ संस्कारान् प्राप्य गर्गात् बहुशिशुचरितैः प्रीणयन् गोपगोपीः वत्सान् धेनूश्च रक्षन्नहिपतिदमनो यः पपौ काननाग्निम् । विप्रस्त्रीप्रीतिकारी धृतधरणिधरो गोपिकाभिर्निशासु क्रीडन् मल्लांश्च कंसं न्यहनदुपगतोऽव्यात्स कृष्णः पुरीं स्वाम् ॥ १३॥ पित्रोर्बन्धं निरस्य क्षितिपतिमकरोदुग्रसेनं गुरोर्यः पुत्रं प्रादात्परेतं युधि विजितजरासन्धपूर्वारिवर्गः । पार्थान् पित्रा विहीनानुपगतनगरान् यस्त्वजोऽपाद्विपद्भ्यः नन्दादीनुद्धवोक्त्या गतविरहशुचः कारयन् सोऽवतान्माम् ॥ १४॥ यस्मात् व्यासस्वरूपादपि विदितसुविद्या अवापुः प्रमोदं पार्था द्रोणः सुतार्थं प्रतिगतभृगुपो यन्नियत्याऽर्थकामः । तस्मादाप्तोरुविद्यो द्रुपदमुपगतोऽनाप्तकामोऽस्त्रविद्याः शिष्येभ्यः कौरवेभ्यो रविजनिरसनोऽदात्सनोऽव्यान्मुरारिः ॥ १५॥ भूयस्त्वागतमाहवे सह जरासन्धं नृपैर्नीतये ज्ञात्वा यस्सहजान्वितोऽतिगहनं गोमन्तमत्रागतात् । तार्क्ष्याल्लब्धकिरीट उन्नत गिरेराप्लुत्य जित्वा रिपून् हत्वा स्वीयसृगालमात्मनगरीं प्राप्तः स नोऽव्याद्धरिः ॥ १६॥ भग्नाशान् नृपतीनरीन् व्यधित यः स्वर्गाधिपाग्र्यासने लग्नो भीष्मकसत्कृतोऽथ यवनं जघ्ने सतीमात्मनः । निघ्नां योऽकृत रुक्मिणीं समजयद् दुर्गर्विरुक्म्यादिकान् विघ्नं सत्रजिदात्मजापतिरसौ मे घ्नन् भवेत्सर्वदा ॥ १७॥ अस्त्रज्ञेष्वधिकोऽर्जुनोऽथ यदनुक्रोशेन भीमं विना सद्धर्मे निरतं ददौ स्वगुरवे बध्वा नृपं पार्षतम् । पुत्रौ स द्रुपदोऽपि वह्निविबुधात् स्त्रीरूपकं प्राप्तवान् इष्टां धर्मज आप राज्यपदवीं स प्रीयतां मे हरिः ॥ १८॥ यत्कारुण्यबलेन पाण्डुतनया निस्तीर्य नानापदो भिक्षान्नाशिन आगमाभ्यसनिनो हत्वा बकं द्रौपदीम् । उद्वाह्याखिलभूपतीनपि रणे जित्वागताः स्वां पुरीं इन्द्रप्रस्थपुरेऽवसन् कृतधरारक्षाः स नोऽव्याद्धरिः ॥ १९॥ यः पार्थान् परिपालयन् हरिपुरे स्त्रीपुत्रसम्पद्युतान् संहर्ता शतधन्वनोऽष्टमहिषीभर्ता सुरर्षिस्तुतः । हत्वा भौममपाहरत्सुरतरुं बह्वीरुवाहाङ्गनाः प्रायच्छद्धरिसूनवे स्वसहजां पायात्स नः केशवः ॥ २०॥ पार्थान् लब्धसभान् विधाय मयतः प्राप्तः पुरं स्वां गतः क्षेत्रं कौरवमर्कपर्वणि पुरीं सम्प्राप्य कर्ता क्रतोः । पाण्डून् प्राप्य जरासुते विनिहते तैः कारयित्वाऽध्वरं प्राप्तः स्वं पुरमच्युतो विजयते द्यूते जितैश्च स्मृतः ॥ २१॥ पार्था याता अरण्यं निहतनिशिचराः प्रीणयन्तो द्विजौघान् वार्तां श्रुत्वा स्वकीयामुपगतहरिणा मानिता सिन्धुराजम् । जित्वा दुर्योधनादीन् हरिहयपुरुषव्रातबद्धान्विमोच्य प्राप्ता धर्मप्रसादं यमथ मधुरिपुं तुष्टुवुस्तं प्रपद्ये ॥ २२॥ अन्यं वेषमुपागताः पृथगितो गत्वा विराटालयं तद्देहस्थहरेर्निषेवणपरा मल्लं तथा कीचकान् । हत्वा गोग्रहणोद्यतानपि कुरून् जित्वा विराटार्चिताः पार्थाः स्वान्तिकमागतं यमजितं भेजुस्तमीडेऽच्युतम् ॥ २३॥ यत्सम्मत्या पृषततनुजप्रेषितब्राह्मणोक्त्या राज्यं नादादनुजजनितस्याम्बिकेयोऽर्जुनस्य । यः साहाय्यं व्यधित नगरीं कौरवाणामवाप्तः स्वोक्ते कृष्णस्तदनभिमतेऽवाप्तपार्थः स नोऽव्यात् ॥ २४॥ सेनां वीक्ष्य रणोन्मुखे करुणया शस्त्रोज्झितं फल्गुनं सद्गीतामुपदिश्य कार्मुकधरं चक्रेऽस्य यः सारथिः । अन्योन्यं कुरुपाण्डवैश्च पृतनां योऽजीघनत् स्यन्दनात् यो भीष्मं निरपातयत् सुतशरैः पाण्डोस्तमीडेऽच्युतम् ॥ २५॥ द्रोणे युध्यति पाण्डवैर्विनिहतं प्राग्ज्योतिषं पार्थतः कृत्वा तस्य सुते हते निशि शिवं नीत्वार्जुनं सैन्धवम् । तद्दत्तास्त्रबलादजीघनदतो द्रोणे हते द्रौपदेः यो भीमं च निजास्त्रनम्रमकरोत् तं नौमि नारायणम् ॥ २६॥ यत्सामर्थ्यबलेन सूर्यतनुजे पार्थेन युद्धे जिते पश्चाच्छल्यमवाप्य सारथिवरं धर्मात्मजं सायकैः । शीर्णाङ्गं कृतवत्यमुं शिबिरगं पार्थं च मृत्योरपात् यः पार्थेन हतेऽर्कजे नृपनुतः पायात्स नः केशवः ॥ २७॥ शल्ये धर्मसुताद्धते कुरुबले पार्थैः समस्ते हते भीमेनानुजसंयुत् विनिहत् दुर्योधने द्रौणिना । सुप्तानां निधने कृते निशि ततो मुक्त्वा विधेरस्त्रतः पार्थान् राज्यमितांश्च तत्सुतसुतं योऽपात्स नोऽव्याद्धरिः ॥ २८॥ कृष्णाभ्यामपि भूसुरैर्नृपसुतो राज्येऽभिषिक्तो द्विजैः दग्धे निन्दति भिक्षुके खलतरे स्वं विप्रतीसारतः । राज्यं त्यक्तुमथोद्यतो वचनतो यस्याप्त भीष्मात्ततः शुश्रावाखिलधर्मनिर्णयमदः कृष्णद्वयं धीमहि ॥ २९॥ स्मृत्वा यं द्युसरित्सुतो वसुरभूद्राजा यदाशासितो निर्दुःखोऽथ जुगोप धर्मनिरतो जित्वा स्वराज्ये कलिम् । यः पार्थं समबोधयत् मृतशिशुं योऽजीवयत्पाण्डवैः यो यज्ञं समकारयत् बहुधनैः ध्यायामि तं केशवम् ॥ ३०॥ यद्युक्ताः पाण्डुपुत्राः क्षितिमथ जुगुपुः धर्मराजः त्वरावान् धर्मे यत्प्रीतयेऽभूत् पवनजवचनैराम्बिकेयं विरक्तम् । व्यासात्मा यो वनस्थं त्वकृत निजमनोऽभीष्टवन्तं गतं स्वं नाथं पार्थाः स्मरन्तो मुमुदुरपि पदं यस्य कृष्णं तमीडे ॥ ३१॥ यो यष्टा विप्रशापाद्यदुकुलमवधीत् अर्थितोऽगात् स्वलोकं देवैर्भैष्म्याद्युपेतो यदनु निजपदं पाण्डवा अप्यवापुः । दैत्या यद्वेषतोऽन्धे तमसि निपतिता बुद्धरूपोऽभवद्यः कल्क्यात्मान्ते कले यः कुजननिधनकृत् पातु सोऽस्मान् मुकुन्दः ॥ ३२॥ महाभारत तात्पर्यनिर्णयाशयसङ्ग्रहः । राघवेन्द्रेण यतिना कृतः सज्जनसंविदे ॥ इति श्रीराघवेन्द्रतीर्थविरचितं महाभारततात्पर्यनिर्णयभावसङ्ग्रहः सम्पूर्णः । Encoded and proofread by Aaditya Kalyanaraman
% Text title            : Mahabharata Tatparyanirnaya Bhavasangraha
% File name             : mahAbhAratatAtparyanirNayabhAvasangrahaH.itx
% itxtitle              : mahAbhArata tAtparyanirNaya bhAvasaNgrahaH (rAghavendratIrthavirachitaH)
% engtitle              : mahAbhArata tAtparyanirNaya bhAvasangrahaH
% Category              : major_works, raama, rAghavendra
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : Raghavendra Swami
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Aaditya Kalyanaraman
% Proofread by          : Aaditya Kalyanaraman
% Description/comments  : This is a summary of Madhvacharya's Mahabharata TatparyanirNaya in verse form.
% Indexextra            : (Meaning, Kannada, tAtparyanirNayaH Texts 2, Scans 1, 2, 3, 4, English 1, 2, Philosphic Vision, Videos 1, 2, 3, 4, 5)
% Latest update         : October 6, 2025
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org