मेघदूतं सञ्जीविन्या समेतम्

मेघदूतं सञ्जीविन्या समेतम्

पूर्वमेघः

मातापितृभ्यां जगतो नमो वामार्धजानये । सद्यो दक्षिणदृक्पातसङ्कुचद्वामदृष्टये ॥ अन्तरायतिमिरोपशान्तये शान्तपावनमचिन्त्यवैभवम् । तं नरं वपुषि कुञ्जरं मुखे मन्महे किमपि तुन्दिलं महः ॥ शरणं करवाणि कामदं ते चरणं वाणि चराचरोपजीव्यम् । करुणामसृणैः कटाक्षपातैः कुरु मामम्ब कृतार्थसार्थवाहम् ॥ इहान्वयमुखेनैव सर्वं व्याख्यायते मया । नामूलं लिख्यते किञ्चिन्नानपेक्षितमुच्यते ॥ ``आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्'' इति शास्त्रात्काव्यादौ वस्तुनिर्देशात्कथां प्रस्तौति - कश्चित्कान्ताविरहगुरुणा स्वाधिकारात्प्रमत्तः शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः । यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु स्निग्धच्छायातरुषु वसतिं रामगिर्याश्रमेषु ॥ १॥ कश्चिदिति ॥ स्वाधिकारात्स्वनियोगात्प्रमत्तोऽनवहितः ॥ ``प्रमादोऽनवधानता'' इत्यमरः । ``जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानम्'' इत्यपादानत्वम् । तस्मात्पञ्चमी ॥ अतएवापराधाद्धेतोः । कान्ताविरहेण गुरुणा दुर्भरेण । दुस्तरेणेत्यर्थः ॥ ``गुरुस्तु गीष्पतौ श्रेष्ठे गुरौ पितरि दुर्भर'' इति शब्दार्णवे ॥ वर्षभोग्येण संवत्सरभोग्येण ॥ ``कालाध्वनोरत्यन्तसंयोगे'' इति द्वितीया । ``अत्यन्तसंयोगे च'' इति समासः । ``कुमति च'' इति णत्वम् । भर्तुः स्वामिनः शापेन । अस्तङ्गमितो महिमा सामर्थ्यं यस्य सोऽस्तङ्गमितमहिमा ॥ अस्तमिति मकारान्तमव्ययम् । तस्य ``द्वितीया-'' इति योगविभागात्समासः । कश्चिदनिर्दिष्टनामा यक्षो देवयोनिविशेषः ॥ ``विद्याधराप्सरोयक्षरक्षोगन्धर्वकिन्नराः । पिशाचो गुह्यकः सिद्धो भूतोऽमी देवयोनयः'' इत्यमरः ॥ जनकतनयायाः सीतायाः स्नानरवगाहनैः पुण्यानि पवित्राण्युदकानि येषु तेषु । पावनेष्वित्यर्थः ॥ छायामधानास्तरवच्छायातरवः ॥ शाकपार्थिवादित्वात्समासः ॥ स्निग्धाः सान्द्राश्छायातरवो नमेरुवृक्षा येषु तेषु । वसतियोग्येष्वित्यर्थः ॥ ``स्निग्धं तु मसृणे सान्द्रे'' इति । ``छायावृक्षो नमेरुः स्यात्'' इति च शब्दार्णवे ॥ रामगिरेश्चित्रकूटस्याश्रमेषु वसतिम् ॥ ``वहिवस्यर्तिभ्यश्च'' इत्यौणादिको । अतिप्रत्ययः ॥ चक्रे कृतवान् ॥ अत्र रसो विप्रलम्भाख्यः श‍ृङ्गारः । तत्राप्युन्मादावस्था । अतएवैकत्रानवस्थानं सूचितमाश्रमेष्विति बहुवचनेन ॥ सीतां प्रति रामस्य हनुमत्सन्देशं मनसि निधाय मेघसन्देशं कविः कृतवानित्याहुः ॥ अत्र काव्ये सर्वत्र मन्दाक्रान्तावृत्तम् । तदुक्तम्-`मन्द्राक्रान्ता जलधिषडगैर्म्भौ नतौताद्गुरुचेत्'' इति ॥ तस्मिन्नद्रौ कतिचिदबलाविप्रयुक्तः स कामी नीत्वा मासान्कनकवलयभ्रंशरिक्तप्रकोष्ठः । आषाढस्य प्रथमदिवसे मेघमाश्लिष्टसानुं वप्रक्रीडापरिणतगजप्रेक्षणीयं ददर्श ॥ २॥ तस्मिन्निति ॥ तस्मिन्नद्रौ चित्रकूटाद्रौ । अबलाविप्रयुक्तः कान्ताविरही । कनकस्य वलयः कटकम् ॥ ``कटकं वलयोऽस्त्रियाम्'' इत्यमरः ॥ तस्य भ्रंशेन पातेन रिक्तः शून्यः प्रकोष्ठः कूर्परादधः प्रदेशो यस्य स तथोक्तः ॥ ``कक्षान्तरे प्रकोष्ठः स्यात्मकोष्ठः कूर्परादधः'' इति शाश्वतः` ॥ विरहदुःखात्कृश इत्यर्थः । कामी कामुकः स यक्षः । कतिचिन्मासान् । अष्टौ मासानित्यर्थः । ``शेषान्मासान्गमय चतुरः'' इति वक्ष्यमाणत्वात् ॥ नीत्वा यापयित्वा । आषाढानक्षत्रेण युक्ता पौर्णमास्याषाढी ॥ ``नक्षत्रेण युक्तः कालः'' इत्यण् । ``टिड्ढाणञ्-'' इत्यादिना ङीप् ॥ साषाढ्यस्मिन्पौर्णमासीत्याषाढो मासः ॥ ``सांस्मिन्पौर्णमासीति संज्ञायाम्'' इत्यण् ॥ तस्य प्रथमदिवसे आश्लिष्टसानुमाक्रान्तकूटम् । वप्रक्रीडा उत्खातकेलयः ॥ ``उत्खातकेलिः क्रीडाद्यैर्वमक्रीडा निगद्यते'' इति शब्दार्णवे ॥ तासु परिणतस्तिर्यग्दन्तप्रहारः ॥ ``तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः'' इति हलायुधः ॥ स चासौ गजश्च तमिव प्रेक्षणीयं दर्शनीयं मेघं ददर्श ॥ गजप्रेक्षणीयमित्यत्रेवलोपालुप्तोपमा ॥ केचित् ``आषाढस्य मथमदिवसे'' इत्यत्र` प्रत्यासन्नेनभसि'' इति वक्ष्यमाण नभोमासस्य प्रत्यासस्य ``प्रशमदिवसे'' इति पाठं कल्पयन्ति तदसङ्गतम् । प्रथमातिरेके कारणाभावान्न भोमासस्य प्रत्यासत्त्यर्थमित्युक्तमिति चेन्न । प्रत्यासत्तिमात्रस्य मासप्रत्यासत्त्यैव प्रथमदिवसस्याप्युपपत्तेः । अत्यन्तप्रत्यासत्तेरुपयोगाभावेनाविवक्षितत्वात् । विवक्षितत्वे वा स्वपक्षेऽपि प्रथमदिवसातिक्रमेण मेघदर्शन कल्पनायां प्रमाणाभावेन तदसम्भवात् । प्रत्युतास्मत्पक्ष एव कुशल सन्देशस्य भाव्यनर्थप्रतीकारार्थस्य पुरतएवानुमानमुक्तं भवतीत्युपयोग सिद्धिः ॥ ननून्मत्तस्य नायं विवेक इति चेन्न । उन्मत्तस्य नानर्थस्य प्रतीकारार्थं प्रवृत्तिरपीति सन्देश एव मा भूत् ॥ तथा च काव्यारम्भ एवाप्रसिद्धः स्यादित्वहो मूलच्छेदी पाण्डित्यप्रकर्षः । कथं तर्हि ``शापान्तो'' मे भुजगशयनादुत्थिते शार्ङ्गपाणौ'' इत्यादिना भगवत्प्रबोधावधिकस्य शापस्य मासचतुष्टयावशिष्टस्योक्तिः । दशदिवसाधिक्यादिति चेत्सपक्षेऽपि कथं सा विंशतिदिवसैन्यूनत्वादिति सन्तोष्टव्यम् । तस्मादीषद्वैषम्यमविवक्षितमिति सुष्ठूक्तं ``प्रथमदिवसे'' इति ॥ तस्य स्थित्वा कथमपि पुरः कौतुकाधानहेतो- रन्तर्बाष्पश्विरमनुचरो राजराजस्य दध्यौ । मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे ॥ ३॥ ``तस्येति ॥ राजानो यक्षाः ॥ ``राजा प्रभौ नृपे चन्द्रे यक्षे क्षत्रियशक्रयोः'' इति विश्वः ॥ राज्ञां राजा राजराजः कुबेरः ॥ ``राजराजो धनाधिपः'' इत्यमरः । ``राजाह सखिभ्यष्टच्'' इति टच्प्रत्ययः ॥ तस्यानुचरो यक्षः । अन्तर्बाष्पो धीरोदात्तत्वादन्तः स्तम्भिताश्रुः सन् । कौतुकाधानहेतोरभिलाषोत्पादकारणस्य ॥ ``कौतुकं चाभिलाषेस्यादुत्सवे नर्महर्षयोः'' इति विश्वः ॥ तस्य मेघस्य पुरोऽग्रे कथमपि । गरीयसा प्रयत्नेनेत्यर्थः ॥ ``ज्ञान हेतुविवक्षायामप्यादि कथमव्ययम् । कथमादि तथाप्यन्तं / यत्नगौरवबाढयोः'' इत्युज्ज्वलः ॥ स्थित्वा चिरं दध्यौ चिन्तयामास ॥ ``ध्यै चिन्तायाम्'' इति धातोर्लिट् ॥ मनोविकारोपशमनपर्यन्तमिति शेषः ॥ विकारहेतुमाहमेघालोक इति ॥ मेघालोके मेघदर्शने सति सुखिनोऽपि प्रियादिजनसङ्गतस्यापि चेतश्चित्तमन्यथाभूता वृत्तिर्व्यापारो यस्य तदन्यथावृत्ति भवति । विकृतिमापद्यत इत्यर्थः कण्ठाश्लेषप्रणयिनि कण्ठालिङ्गनार्थिनि जने । दूरे संस्था स्थितिर्यस्य तस्मिन्दूरसंस्थे सति किं पुनः । विरहिणः किमुत वक्तव्यमित्यर्थः । विरहिणां मेघसन्दर्शनमुद्दीपनं भवतीति भावः ॥ अर्थान्तरन्यासोऽलङ्कारः । तदुक्तं दण्डिना - ``ज्ञेयः सोऽर्थान्तरन्यासो वस्तु प्रस्तुत्य किञ्चन । तत्साधनसमर्थस्य न्यासो योऽन्यस्य वस्तुनः'' इति ॥ अथ समाहितान्तःकरणः सन्किं कृतवानित्यत आह- प्रत्यासन्ने नभसि दयिताजीवितालम्बनार्थी जीमूतेन स्वकुशलमयीं हारयिष्यन्प्रवृत्तिम् । स प्रत्यग्रैः कुटजकुसुमैः कल्पितार्घाय तस्मै प्रीतः प्रीतिप्रमुखवचनं स्वागतं व्याजहार ॥ ४॥ प्रत्यासन्न इति ॥ स यक्षः । यश्चिरं दध्यौ स इत्यर्थः । नभसि श्रावणे ``नमः । श्रावणो नभाः'' इत्यमरः ॥ प्रत्यासन्ने आषाढस्यानन्तरं सन्निकृष्टे । प्राप्ते सतीत्यर्थः । दयिताजीवितालम्बनार्थी सन् । वर्षाकालस्य विरहदुःखजनकत्वात् ``उत्पन्नानर्थ प्रतीकारादनर्थोत्पत्तिप्रतिबन्ध एव वरम्'' इति न्यायेन प्रागेव प्रियाप्राणधारणोपायं चिकीर्षुरित्यर्थः । जीवनस्योदकस्य मूतः पटबन्धो वस्त्रबन्धो जीमूतः ॥ पृषोदरादित्वात्साधुः । ``मूतः स्यात्पटबन्धेऽपि'' इति रुद्रः ॥ तेन जीमूतेन जलधरेण प्रयोज्येन स्वकुशलमयीं स्वक्षेमप्रधानां प्रवृत्तिं वार्ताम् ॥ ``वार्ता प्रवृत्तिर्वृत्तान्तः'' इत्यमरः ॥ हारयिष्यन्प्रापयिष्यन् ऌट् शेषे च इति चकारात्क्रियार्थक्रियोपपदालृट्प्रत्ययः । जीवनार्थं कर्म जीवनप्रदेनैव कर्तव्यमिति भाव ॥ ``ऋक्रोरन्यतरस्याम्'' इति कर्मसंज्ञाया विकल्पात् । पक्षे कर्तरि तृतीया ॥ प्रत्यग्रैरभिनवैः कुटजकुसुमैर्गिरिमल्लिकाभिः ॥ ``कुटजो गिरिमल्लिका।'' इति हलायुधः ॥ कल्पितार्थाय कल्पितोऽनुष्ठितः पूजाविधिर्यस्मै तस्मै ॥ ``मूल्ये पूजाविधावर्घः'' इत्यमरः ॥ तस्मै जीमूताय ॥ ``क्रियाग्रहणमपि कर्तव्यम्'' इति सम्प्रदानत्वाच्चतुर्थी ॥ प्रीतिप्रमुखानि प्रीतिपूर्वकाणि वचनानि यस्मिन्कर्मणि तत्प्रीतिप्रमुखवचनं यथा तथा । शोभनमागतं स्वागतं स्वागतवचनं प्रीतः सन्व्याजहार । कुशलागमनं पप्रच्छेत्यर्थः ॥ नाथेन त्वत्र ``प्रत्यासन्ने मनसि'' इति साधीयान्पाठः कल्पितः । प्रत्यासन्ने प्रकृतिमापन्ने सतीत्यर्थः । यस्तु तेनैव पूर्वपाठविरोधः प्रदर्शितः सोऽस्माभिः ``आषाढस्य प्रथमदिवसे'' इत्येतत्पाठविकल्प समाधानेनैव समाधाय परिहृतः ॥ ननु चेतन साध्यमर्थं कथमचेतनेन कारयितुं प्रवृत्त इत्यपेक्षायां कविः समाधत्ते- धूमज्योतिःसलिलमरुतां सन्निपातः क्व मेघः सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः । इत्यौत्सुक्यादपरिगणयन्गुह्यकस्तं ययाचे कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु ॥ ५॥ धूमेति ॥ धूमश्च ज्योतिश्च सलिलं च मरुद्वायुश्च तेषां सन्निपातः सङ्घातो मेघः क्व । अचेतनत्वात्सन्देशानर्ह इत्यर्थः । पटुकरणैः समर्थेन्द्रियैः ॥ ``करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि इत्यमरः ॥ प्राणिभिश्चेतनैः ॥ ``प्राणी तु चेतनो जन्मी'' इत्यमरः ॥ प्रापणीयाः प्रापयितव्याः । सन्दिश्यन्त इति सन्देशास्त एवार्थाः क्व । इत्येवमौत्सुक्यादिष्टार्थोद्युक्तत्वात् ॥ ``इष्टार्थोद्युक्त उत्सुकः''इत्यमरः ॥ सम्प्रदानत्वात्कुशलप्रश्नेनाभिमुखीचकारेत्यर्थः । अपरिगणयन्नविचारयन्गुह्यको यक्षस्तं मेघं ययाचे याचितवान् ॥ ``याचृ याच्ञायाम्'' ॥ तथाहि । कामार्ता मदनातुराश्चेतनाश्चेतनाश्च तेषु विषये प्रकृतिकृपणाः स्वभावदीनाः । कामान्धानां युक्तायुक्तविवेकशून्यत्वादचेतनयाच्ञा न विरुध्यत इत्यर्थः ॥ अत्र मेघसन्देश योर्विरूपयोर्घटनाद्विषमालङ्कारः । तदुक्तं - ``विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेत् । विरूपघटना चासौ; विषमालङ्कृतिस्त्रिधा'' ॥ इति । सा चार्थान्तरन्यासानु प्राणिता तत्समर्थकत्वेनैव चतुर्थपादे तस्योपन्यासात् ॥ सम्प्रति याचनाप्रकारमाह- जातं वंशे भुवनविदिते पुष्करावर्तकानां जानामि त्वां प्रकृतिपुरुषं कामरूपं मघोनः । तेनार्थित्वं त्वयि विधिवशाद्दूरबन्धुर्गतोऽहं याञ्च्या मोघा वरमधिगुणे नाधमे लब्धकामा ॥ ६॥ जातमिति ॥ हे मेघ त्वां भुवनेषु विदिते भुवनविदिते ॥ ``निष्ठा'' इति भूतार्थे क्तः । ``मतिबुद्धि-'' इत्यादिना वर्तमानार्थत्वेऽपि ``क्तस्य च वर्तमाने'' इति भुवनशब्दस्य षष्ठयन्ततानियमात्समासो न स्यात् । ``तेन च पूजायाम्'' इति निषेधात् ॥ पुष्कराश्चावर्तकाश्च केचिन्मेघानां श्रेष्ठास्तेषां वंशे जातम् । महाकुलप्रसूतमित्यर्थः । कामरूपमिच्छाधीनविग्रहम् । दुर्गादिसञ्चारक्षममित्यर्थः । मघोन इन्द्रस्य प्रकृतिपुरुषं प्रधानपुरुषं जानामि । तेन महाकुलप्रसूतत्वादिगुणयोगित्वेन हेतुना विधिवशाद्दैवायत्तत्वात् ॥ ``विधिर्विधाने दैवे च'' इत्यमरः ॥ वशमापत्ते ॥ वशमिच्छाप्रभुत्वयोः'' इति विश्वः ॥ दूरे बन्धुर्यस्य स दूरबन्धुर्वियुक्तभार्योऽहं त्वय्यर्थित्वं गतः ॥ ननु याचकस्य याच्ञायां याच्यगुणोत्कर्षः कुत्रोपयुज्यत इत्याशङ्क्य दैवाद्याच्ञा भङ्गेऽपि लाघवदोवाभाव एवोपयोग इत्याह-याच्ञेति । तथाहि । अधिगुणेऽधिकगुणे पुंसि विषये याच्ञा मोघा निष्फलापि वरमीषत्प्रियम् । दातुर्गुणाढ्यत्वात्प्रियत्वं याच्या वैफल्यादोषत्मियत्वमिति भावः ॥ अधमे निर्गुणे याच्ञा लब्धकामापि सफलापि न वरम् । ईषत्प्रियमपि न भवतीत्यर्थः ॥ ``दैवाहृते वरः श्रेष्ठे त्रिषु क्लिबं मनाक्प्रिये इत्यमरः ॥ अर्थान्तरन्यासानुप्राणितः प्रेयोऽलङ्कारः । तदुक्तं दण्डिना-᳚प्रेयः प्रियतराख्यानम्'' इति ॥ एत दाद्ये पादत्रये चतुर्थपादस्थेनार्थान्तरन्यासेनोपजीवितमिति सुव्यक्तमेतत् ॥ सन्तप्तानां त्वमसि शरणं तत्पयोद प्रियायाः सन्देश मे हर धनपतिक्रोधविश्लेषितस्य । गन्तव्या ते वसतिरलका नाम यक्षेश्वराणां बाह्योद्यानस्थितहरशिरश्चन्द्रिका धौतहर्म्या ॥ ७॥ सन्तप्तानामिति ॥ हे पयोद, त्वं सन्तप्तानामातपेन वा प्रवासविरहेण वा सञ्ज्वरितानाम् ॥ ``सन्तापः सञ्ज्वरः समौ'' इत्यमरः ॥ शरणं पयोदामेनातपखिन्नानां मोषितानां स्वस्थानप्रेरणया च रक्षकोऽसि ॥ ``शरणं गृहरक्षित्रोः'' इत्यमरः ॥ तत्तस्मात्कारणाद्धनपतेः कुबेरस्य क्रोधेन विश्लेषितस्य प्रियया वियोजितस्य मे मम सन्देशं वार्ता प्रियाया हर । प्रियां प्रति नयेत्यर्थः । सम्बन्धसामान्ये षष्ठी ॥ सन्देशहरणेनावयोः सन्तापं नुदेत्यर्थः । कुत्र स्थाने सा स्थिता तत्स्थानस्य वा किं व्यावर्तकं तत्राह -गन्तव्येति ॥ बहिर्भवं बाह्यम् ॥ ``बहिर्देव पञ्चजनेभ्यश्च'' इति यञ् ॥ बाह्य उद्याने स्थितस्य हरस्य शिरसि या चन्द्रिका तया धौतानि निर्मलानि हर्म्याणि धनिकभवनानि यस्यां सा तथोक्ता ॥ ``हर्म्यादि धनिनां वासः'' इत्यमरः ॥ अनेन व्यावर्तकमुक्तम् ॥ अलका नामालकेति प्रसिद्धा यक्षेश्वराणां वसतिः स्थानं ते तव गन्तव्या । त्वया गन्तव्येत्यर्थः ॥ ``कृत्यानां कर्तरि वा'' इति षष्ठी ॥ मदर्थं प्रस्थितस्य ते पथिकाङ्गनाजनाश्वासममानुषङ्गिकं फलमित्याह- त्वामारूढं पवनपदवीमुद्गृहीतालकान्ताः प्रेक्षिष्यन्ते पथिकवनिताः प्रत्ययादाश्वसन्त्यः । कः सन्नद्धे विरहविधुरां त्वय्युपेक्षेत जायां न स्यादन्योऽप्यहमिव जनो यः पराधीनवृत्तिः ॥ ८॥ त्वामिति ॥ पवनपदवीमाकाशमारूढं त्वाम् । पन्थानं गच्छन्ति ते पथिकाः ॥ ``पथः ष्कन्'' इति ष्कन्प्रत्ययः ॥ तेषां वनिताः प्रोषितभर्तृकाः। प्रत्ययात्प्रियागमनविश्वासात् ॥ ``प्रत्ययोऽधीनशपथज्ञानविश्वासहेतुषु'' इत्यमरः ॥ आश्व्स्यन्त्यो विश्वसिताः ॥ श्वसिधातोः शत्रन्तात् ``उगितश्च'' इति ङीप् । तथोद्गृहीतालकान्ता दृष्टिप्रसारार्थमुन्नमय्य धृतालकाग्राः सत्यः प्रेक्षिष्यन्ते । अत्युत्कण्ठवया द्रक्ष्यन्तीत्यर्थः ॥ मदागमनेन पथिकाः कथमागमिष्यन्तीत्यत्राह -तथाहि । त्वयि सन्नद्धे व्यापृते सतिविरहेण विधुरां विवशां जायां क उपेक्षेत । न कोऽपीत्यर्थः । अन्योऽपि मद्दयतिरिक्तोऽपि यो जनोऽहमिव परार्धनिवृत्तिः परायत्तजीवनको न स्यात् । स्वतन्त्रस्तु न कोऽप्युपेक्षेतेति भावः ॥ अत्रार्थान्तरन्यासोऽलङ्कारः । तदुक्तम्-`कार्यकारणसामान्यविशेषाणां परस्परम् । समर्थनं यत्र सोऽर्थान्तरग्यास उदाहृतः ॥ ``इति लक्षणात् ॥ निमित्तान्यपि ते शुभानि दृश्यन्त इत्याह- मन्दं मन्दं नुदति पवनश्वानुकूलो यथा त्वां वामश्चायं नदति मधुरं चातकस्ते सगन्धः । गर्भाधानक्षणपरिचयान्नूनमाबद्धमालाः सेविष्यन्ते नयनसुभगं खे भवन्तं बलाकाः ॥ ९॥ मन्दं मन्दमिति ॥ अनुकूलः पवनो वायुस्त्वां मन्द मन्दम् । अतिमन्दमित्यर्थः ॥ अत्र कथञ्चिद्वीप्सायामेवः द्विरुक्तिर्निर्वाह्या । ``प्रकारे गुणवचनस्य'' इत्येतदाश्रयणे तु कर्मधारयवद्भावे सुब्लुकि मन्दमन्दमिति स्यात् । तदेवाह वामनः-`मन्दमन्दमित्यत्र प्रकारार्थे द्विर्भाव इति । यथा सदृशम् । भाविफलानुरूपमित्यर्थः ॥ ``यथा । सादृश्ययोग्यत्ववीप्सास्वर्थानतिक्रमे'' इति यादवः ॥ नुदति प्रेरयति । अयं सगन्धः सगर्वः । सम्बन्धीति के चित् ॥ गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः'' इत्युभयत्रापि विश्वः ॥ ते तव वामो वामभागस्थः ॥ ``वामस्तु वक्रे रम्ये स्यात्सव्ये वामगतेऽपि च'' इति शब्दार्णवे ॥ चातकः पक्षिविशेषश्च मधुरं श्राव्यं नदति व्याहरतिः ॥ इदं निमित्तद्वयं वर्तते वर्तिष्यते चापरं निमित्तमित्याहगर्भेति ॥ गर्भः कुक्षिस्थो जन्तुः ॥ गर्भोऽपकारके ह्यग्नौ सुखे पनसकण्टके । कुक्षौ कुक्षिस्थजन्तौ च'' इति यादवः ॥ तस्याधानमुत्पादनं तदेव क्षण उत्सवः । सुख हेतुत्वादिति भावः ॥ ``निर्व्यापार स्थितौ कालविशेषोत्सवयोः क्षणः'' इत्यमरः ॥ तस्मिन्परिचयादभ्यासाद्धेतोः खे व्योम्नि । आबद्धमालाः ॥ गर्भाधानसुखार्थं त्वत्समीपे बद्धपङ्क्तयः य इत्यर्थः ॥ ऊक्तं च कर्णेदये-`गर्भबलाका दधतेऽभ्रयोगान्नाके निबद्धावलयः समन्तात्'' इति ॥ बलका बलाकाङ्गना नयनसुभगं दृष्टिप्रियं भवन्तं नूनं सत्यं सेविष्यन्ते ॥ अनुकूलमारुतचातकशब्दितबलाकादर्शनानां शुभसूचकत्वं शकुनशास्त्रे दृष्टं तद्विस्तरभयान्नालेखि ॥ न च तस्या नाशाद्व्रतस्खलनाद्वा निरर्थकस्त्वत्प्रयास इत्याह- तां चावश्यं दिवसगणना तत्परारामेकपत्नी- मव्यापन्नामविहतगतिर्द्रक्ष्यसि भ्रातृजायाम् । आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां सद्यःपति प्रणयि हृदयं विप्रयोगे रुणद्धि ॥ १०॥ तां चेति ॥ हे मेघ, दिवसानामवशिष्टदिनानां गणनायां सङ्ख्याने तत्परामासक्ताम् ॥ ``तत्परे प्रतितासक्तौ'' इत्यमरः ॥ अतएवाव्यापन्नाममृताम् । शापावसाने मदामनमत्याशया जीवन्तीमित्यर्थः । एकः पतिर्यस्याः सैकपत्नी ताम् । पतिव्रतामित्यर्थः ॥ ``नित्यं सपत्न्यादिषु'' इति ङीप् नकारश्च ॥ भ्रातुर्मे जायां भ्रातृजायाम् । मातृर्वन्निःशङ्कदर्शनीयामित्याशयः । तां मत्प्रियामविहतगतिरविच्छिन्नगतिः सन्नवश्यं द्रक्ष्यसि चालोकयिष्यसि एव ॥ तथाहि । आशातितृष्णा ॥ ``आशा दिगतितृष्णयोः'' इति यादवः ॥ बध्यतेऽनेनेति बन्धो बन्धनम् । वृन्तमिति यावत् । आशैव बन्ध आशाबन्धः कर्ता ॥ प्रणयि प्रेमयुक्तमत एव कुसुमसदृशम् । सुकुमारमित्यर्थः । अत एव विप्रयोगे विरहे सद्यःपाति सद्योभ्रंशनशीलमङ्गनानां हृदयं जीवितम् ॥ ``हृदयं जीविते चित्ते वक्षस्याकृतयोः'' इति शब्दार्णवे ॥ प्रायशः प्रायेण रुणद्धि प्रतिबध्नाति ॥ अर्थान्तरन्यासः ॥ सम्प्रति सहाय सम्पत्तिश्चास्तीत्याह- कर्तुं यच्च प्रभवति महीमुच्छिलन्धामवन्ध्यां तच्छ्रुत्वा ते श्रवणसुभगं गर्जितं मानसोत्काः । आ कैलासाब्दिसाकसलयच्छेदपाथेयवन्तः सम्पत्स्यन्ते नभसि भवतो राजहंसाः सहायाः ॥ ११॥ कर्तुमिति ॥ यद् गर्जितं कर्तृमहीमुच्छिलन्ध्रामुद्भूतकन्दलिकाम् ॥ कन्दल्यां च शिलीन्ध्रा स्यात्'' इतिशब्दार्णवे ॥ अत एवावन्ध्यां सफलां कर्तुं प्रभवति शक्नोति । शिलीन्ध्राणां भाविसस्यसम्पत्तिसूचकत्वादिति भावः । तदुक्तं निमित्तनिदाने - ``कालाभ्रयोगादुदिताः शिलीन्ध्राः सम्पन्न सस्यां कथयन्ति धात्रीम्'' इति ॥ तच्छ्रवणसुभगं श्रोत्रसुखम् । लोकस्येति शेषः । ते तव गर्जितं श्रुत्वा मानसोत्का मानसे सरस्युन्मनसः । उत्सुका इति यावत् ॥ ``उत्क उन्मनाः इति निपातनात्साधु ॥ कालान्तरे मानसस्य हिमदुष्टत्वाहिमस्य च हंसानां रोगहेतुत्वादन्यत्र गता हंसाः पुनर्वर्षासु मानसमेव गच्छन्तीति प्रसिद्धिः ॥ बिसकिसलयानां मृणालाग्राणां छेदैः शकलैः पाथेयवन्तः । पथि साधु पाथेयं पथि भोज्यम् ॥ ``पथ्यतिथिवसतिस्वपतेर्दञ्'' ॥ तद्दन्तः । मृणालकन्दशकलसम्बलवन्त इत्यर्थः । राजहंसा हंसविशेषाः ॥ ``राजहंसास्तु ते चञ्चु चरणैर् लोहितैःसिताः'' इत्यमरः ॥ नभसि व्योम्नि भवतस्तव । आकैलासात्कैलासपर्यन्तम् ॥ पदद्वयं चैतत् ॥ सहायाः सयात्राः ``सहायस्तु सयात्रः स्यात्'' इति शब्दार्णवे ॥ सम्पत्स्यन्ते भविष्यन्ति ॥ आपृच्छस्व प्रियसखममुं तुङ्गमालिङ्गय शैलं वन्द्यैः पुंसां रघुपतिपदैरङ्कितं मेखलासु । काले काले भवति भवतो यस्य संयोगमेत्य स्नेहव्यक्तिश्चिरविरहजं मुञ्चतो बाष्पमुष्णम् ॥ १२॥ आपृच्छस्वेति । प्रियं सखायं प्रियसखम् ॥ ``राजाहःसखिभ्यष्टच्'' इति टच् समासान्तः ॥ तुङ्गमुन्नतं पुंसां वन्धैर्नराराधनीयै रघुपतिपदै रामपादन्यासैर्मेखलासु कटकेषु ॥ ``अथ मेखला । श्रोणिस्थानेऽद्रिकटके कटिबन्धेभबन्धने'' इति यादवः ॥ अङ्कितं चिह्नितम् । इत्थं सङ्खित्वान्महत्त्वात्पवित्रत्वाच्च सम्भावनार्हम् । अमुं शैलं चित्रकूटाद्रिमालिङ्गन्यापृच्छस्व साधो यामीत्यामन्त्रणेन सभाजय ॥ ``आमन्त्रणसभाजने । आप्रच्छन्नम्'' इत्यमरः ॥ ``आङि नुप्रच्छचोरुपसङ्ख्यानम्'' इत्यात्मनेपदम् ॥ सखित्वं निर्वाहयति -काल इति ॥ काले काले प्रतिप्रावृट्कालम् । सुहृत्समागमनकालश्च कालशब्देनोच्यते । वीप्सायां द्विरुक्तिः ॥ भवतः संयोगं सम्पर्कमेत्य चिरविरहजमुष्णं बाष्पमूष्माणं नेत्रजलं च ॥ ``बाष्पो नेत्रजलोष्मणोः'' इति विश्वः ॥ मुञ्चतो यस्य शैलस्यः स्नेहव्यक्तिः प्रेमाविर्भावो भवति । स्निग्धानां हि चिरविर हसङ्गतानां बाष्पपातो भवतीति भावः ॥ सम्प्रति तस्य मार्ग कथयति- मार्गं तावच्छृणु कथयतस्त्वत्प्रयाणानुरूपं, सन्देशं मे तदनु जलद श्रोष्यसि श्रोत्रपेयम् । खिन्नः खिन्नः शिखरिषु पदं न्यस्य गन्तासि यत्र क्षीणः क्षीणः परिलघु पयः स्रोतसां चोपभुज्य ॥ १३॥ मार्गमिति ॥ हे जलद, तावदिदानीं कथयतः । मत्त इति शेषः । त्वत्प्रयाणस्यानुरूपमनुकूलं मार्गमध्वानम् ॥ ``मार्गो मृगपदे मासि सौम्यर्थे ऽन्वेषणेऽध्वनि'' इति यादवः । श‍ृणु । तदनु मार्गश्रवणानन्तरं श्रोत्राभ्यां पेय पानार्हम् । अतितृष्णया श्रोतव्यमित्यर्थः ॥ पेयग्रहणात्सन्देशस्यामृतसाम्यं गम्यते ॥ मे सन्देशं वाचिकम् ॥ ``सन्देशवाग्वाचिकं स्यात्'' इत्यमरः ॥ श्रोष्यसि । यत्र मार्गे खिन्नः खिन्नोऽभीक्ष्णं क्षीणबलः सन् ॥ ``नित्यवीप्सयोः'' इति नित्यार्थे द्विर्भावः ॥ शिखरिषु पर्वतेषु पदं न्यस्य निक्षिप्य । पुनर्बललाभार्थं क्वचिद्विश्रम्येत्यर्थः । क्षीणः क्षीणोऽभीक्ष्णं कृशाङ्गः सन् । अत्रापि कृदन्तत्वात्पूर्ववद्विरुक्तिः ॥ स्रोतसां परिलघु गुरुत्वदोषरहितम् । उपलास्फालनभेदितत्वात्पथ्यमित्यर्थः । तथा च वाग्भटः᳚उपलास्फालनक्षेपविच्छेदैः खेदितोदकाः । हिमवन्मलयोद्भूताः पथ्या नद्यो भवन्त्यमूः ॥ ``इति ॥ पयः पानीयमुपभुज्य शरीरपोषणार्थमभ्यवहृत्य च गन्तासि गमिष्यसि ॥ गमेर्लुट् ॥ अद्रेः श‍ृङ्गं हरति पवनः किंस्विदित्युन्मुखीभि- र्दृष्टोत्साहश्चकितचकितं मुग्धसिद्धाङ्गनाभिः । स्थानादस्मात्सरसनिचुलादुत्पतोदङ्मुखः खं दिङ्गागानां पथि परिहरन्स्थूलहस्तावलेपान् ॥ १४॥ अद्रेरिति ॥ पवनो वायुरद्रेश्चित्रकूटस्य श‍ृङ्गं हरति किंस्वित् ॥ किंस्विच्छब्दो विकल्पवितर्कार्थादिषु पठितः ॥ इति शङ्कयोन्मुखीभिरुन्नतमुखीभिः ॥ ``स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्'' इति ङीष् । मुग्धाभिर्मूढाभिः ``मुग्धः सुन्दरमूढयोः'' इत्यमरः । सिद्धानां देवयोनि विशेषाणामङ्गनाभिश्चकितचकितं चकितप्रकारं यथा तथा ॥ ``प्रकारे गुणवचनस्य'' इति द्विर्भावः । दृष्टोत्साहो दृष्टोद्योगः सन् सरसा आर्द्रा निचुलाः स्थलवेतसा यस्मिंस्तस्मात् ॥ ``वानीरे कविभेदे स्यान्निचुलः स्थलवेतसे'' इति शब्दार्णवे ॥ अस्मात्स्थानादाश्रमात्पथि नभोमार्गे दिङ्गागानां दिग्गजानां स्थूला ये हस्ताः करास्तेषामवलेपानाक्षेपान्परिहरन् । ``हस्तो नक्षत्रभेदे स्यात्करे भकरयोरपि'' इति । ``अवलेपस्तु गर्वे स्यात्क्षेपणे दूषणेऽपि च'' इति च विश्वः ॥ उदङ्मुखः सन् । अलकाया उदीच्यत्वादित्याशयः ॥ खमाकाशमुत्पतोद्गच्छ ॥ अत्रेदमप्यर्थान्तरं ध्वनयति - रसिको निचुलो नाम महाकविः कालिदासस्य सहाध्यायः परापादितानां कालिदासमबन्धदूषणानां परिहर्ता यस्मिन्स्थाने तस्मात्स्थानादुदङ्मुखोनिर्दोषत्वादुन्नतमुखःसन्पथि सारस्वतमार्गे दिङ्नागानाम् ॥ पूजायां बहुवचनम् ॥ दिङ्नागाचार्यस्य कालिदासप्रतिपक्षस्य हस्तावलेपान्हस्तविन्यासपूर्वकाणि दूषणानि परिहरन् ॥ ``अवलेपस्तु गर्वे स्यात्क्षेपणे दुषणेऽपि च'' इति विश्वः ॥ अद्रेरद्रिकल्पस्य विनागाचार्यस्य श‍ृङ्गं प्राधान्यम् ॥ ``श‍ृङ्गं प्राधान्यसान्वोश्च'' इत्यमरः ॥ हरति किंस्विदिति हेतुना सिद्धैः सारस्वतसिद्धैमहाकविभिरङ्गनाभिश्च दृष्टोत्साहः सन्खमुत्पतोच्चैर्भवेति स्वप्रबन्धमात्मानं वा प्रति कवेरुक्तिरिति ॥ ``संसर्गतो दोषगुणा भवन्तीत्येतन्मृषा येन जलाशयेऽपि । स्थित्वानुकूलं निचुलश्चलन्तमात्मानमारक्षति सिन्धुवेगात् ॥ ``इत्ये तच्छ्लोकनिर्माणात्तस्य कनिञ्चुल संज्ञेत्याहुः ॥ रत्नच्छायाव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ता- द्वल्मीकाग्रात्प्रभवति धनुःखण्डमाखण्डलस्य । येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते बर्हेणेव स्फुरितरुचिना गोपवेषस्य विष्णोः ॥ १५॥ रत्नेति ॥ रत्नच्छायानां पद्मरागादिमणिप्रभाणां व्यतिकरो मिश्रणमिव प्रेक्ष्यं दर्शनीयमाखण्डलस्येन्द्रस्यैतद्धनुःखण्डम् ॥ एतदिति हस्तेन निर्देशो विवक्षितः । पुरस्तादग्रे वल्मीकाग्राद्वामलूरविवरात् ॥ ``वामलूरश्च नाकुश्च वल्मीकं पुन्नपुंसकम्'' इत्यमरः ॥ प्रभवत्याविर्भवति । येन धनुःखण्डेन ते तव श्यामं वपुः । स्फुरितरुचिनोज्वल कान्तिना बर्हेण पिच्छेन ॥ ``पिच्छबर्हे नपुंसके'' इत्यमरः ॥ गोपवेषस्य विष्णोर्गोपालस्य कृष्णस्य श्यामं वपुरिव । अतितरां कान्ति शोभामापत्स्यते प्राप्स्यते ॥ त्वय्यायत्तं कृषिफलमिति भ्रूविलासानभिज्ञैः प्रीतिस्निग्धैर्जनपदवधूलोचनैः पीयमानः । सद्यः सीरोत्कषणसुरभि क्षेत्रमारुह्य मालं किञ्चित्पश्चाद्व्रज लघुगतिर्भूय एवोत्तरेण ॥ १६॥ त्वयीति ॥ कृषेर्हलकर्मणः फलं सस्यं त्वयि ॥ अधिकरणविवक्षायां सप्तमी ॥ आयत्तमधीनम् ॥ अधीनो विघ्न आयत्तः'' इत्यमरः ॥ इति हेतोः प्रीत्या स्निग्धैः । अकृत्रिमप्रेमार्द्रैरित्यर्थः । भ्रूविलासानां भ्रूविका राणामनभिज्ञैः । पामरत्वादिति शेषः । जनपदवधूनां पल्लीयोषितां लोचनैः पीयमानः सादरं वीक्ष्यमाणः सन् । मालं मालाख्यं क्षेत्रं शैलप्रायमुन्नतस्थलम् ॥ ``मालमुन्नतभूतलम्'' इत्युत्पलमालायाम् ॥ सद्यस्तत्कालमेव सीरैर्हलैरुत्कषणेन कर्षणेन सुरभि घ्राणतर्पणं यथा तथारुह्य ॥ तत्राभिव्रुष्येत्यर्थः ॥ ``सुरभिर्घाणतर्पणः'' इत्यमरः ॥ किञ्चित्पश्चाल्लघुगतिस्तत्र निर्वृष्टत्वात्क्षिप्रगमनः सन् ``लघु क्षिप्रतरं द्रुतम्'' इत्यमरः ॥ भूयः पुनरप्युत्तरेणैवोत्तरमार्गेणैव व्रज गच्छ ॥ तृतीयाविधाने ``प्रकृत्यादिभ्य उपसङ्ख्यानम्'' इति तृतीया ॥ यथा कश्चिद्बहुवल्लभः पतिः कुत्रचित्क्षेत्रे कलत्रे गूढं विहृत्य ॥ ``क्षेत्रं शरीरेकेदारे सिद्धस्थान कलत्रयोः'' इति विश्वः ॥ दाक्षिण्यभङ्गभयान्निचमार्गेण निर्गत्य पुनः सर्वाध्यक्ष इव सञ्चरति तद्वदिति ध्वनिः ॥ त्वामासारप्रशमितवनोपप्लवं साधु मूर्ध्ना वक्ष्यत्यध्वश्रमपरिगतं सानुमानाम्रकूटः । न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय प्राप्ते मित्रे भवति विमुखः किं पुनर्यस्तथोच्चैः ॥ १७॥ त्वामिति ॥ आम्राश्चूताः कूटेषु शिखरेषु यस्य स आम्रकूटो नाम सानुमान्पर्वतः ॥ ``आम्रश्चूतो रसालोऽ सौ'' इति । ``कूटोऽस्त्री शिखरं श‍ृङ्गम्'' इति चामरः ॥ आसारो धारावृष्टिः ॥ ``धारासम्पात आसारः'' इत्यमरः ॥ तेन प्रशमितो वनोपप्लवो दावाग्निर्येन तम् । कृतोपकारमित्यर्थः । अध्व श्रमेण परिगतं व्याप्तं त्वां साधु सम्यक् मूर्ध्ना वक्ष्यति वोढा ॥ बहेर्लृट् ॥ तथाहि । क्षुद्रः कृपणोऽपि ॥ ``क्षुद्रो दरिद्रे कृपणे नृशंसे'' इति यादवः ॥ संश्रयणाय मित्रे सुहृदि ॥ ``अथः मित्रं सखाः सुहृत्'' इत्यमरः ॥ प्राप्त आगते सति । प्रथम सुकृतापेक्षया पूर्वोपकारपर्यालोचनया विमुखो न भवति । यस्तथातेन प्रकारेगाच्चैरुन्नतः स आम्रकूटः किं पुनर्विमुखो न भवतीति किमु वक्तव्यमित्यर्थः ॥ एतेन प्रथमावसथे सौख्यलाभात्ते कार्यसिद्धिरस्तीति सूचितम् । तदुक्तं निमित्तनिदाने - ``प्रथमावसथे यस्य सौख्यं तस्याखिलेऽध्वनि । शिवं भवति यात्रायामन्यथा त्वशुभं ध्रुवम्'' ॥ इति । छन्नोपान्तः परिणतफलद्योतिभिः काननाम्रै- स्त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे । नूनं यास्यत्यमरमिथुन प्रेक्षणीयामवस्थां मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः ॥ १८॥ छन्नेति ॥ हे मेघ, परिणतैः परिपक्कैः फलैद्योतन्त इति तथोक्तैः । आषाढे वनचूताः फलन्ति पच्यन्तेः च मेघवातेनेत्याशयः । काननाम्रैर्वनचूतैश्छन्नोपान्त आवृत पार्श्वेऽचल आम्रकूटाद्रिः स्निग्धवेणीसवर्णे मसृणकेशबन्धच्छाये । श्यामवर्णं इत्यर्थः ॥ ``वेणी तु केशबन्धे जलस्रुतौ'' इति यादवः । त्वयि शिखरं श‍ृङ्गमारूढे सति ॥ ७ यस्य च भावेन भावलक्षणम्'' इति सप्तमी ॥ मध्ये श्यामः शेषे मध्यादन्यत्र विस्तारे परितः पाण्डुर्हरिणः ॥ ``हरिणः पाण्डुरः पाण्डुः'' इत्यमरः ॥ भुवः स्तन इव । अमरमिथुनानाम् । खेचराणामिति भावः । प्रेक्षणीयां दर्शनीयामवस्थां नूनं यास्यति । मिथुनग्रहणं कामिनामेव स्तनत्वेनोत्प्रेक्षा सम्भवतीति कृतम् । यथा परिश्रान्तः कश्चित्कामी कामिनीनां कुचकलशे विश्रान्तः सन्स्वपिति तद्भवानपि भुवो नायिकायाः स्तन इति ध्वनिः ॥ स्थित्वा तस्मिन्वनचरवधूभुक्तकुञ्जे मुहूर्तं तोयोत्सर्गब्रुततरगतिस्तत्परं वर्त्म तीर्णः । रेवां द्रक्ष्यस्युपलविषमे विन्ध्यपादे विशीर्णां भक्तिच्छेदैरिव विरचितां भूतिमङ्गे गजस्य ॥ १९॥ स्थित्वेति ॥ हे मेघ, वने चरन्ति ते वनचराः ॥ तत्पुरुषे कृति बहुलम्'' इति बहुलग्रहणालुग्भवति ॥ तेषां वधूभिर्मुक्ताः कुञ्जा लतागृहा यत्र तस्मिन् ॥ निकुञ्जकुञ्जौ वा क्लीबे लतादिपिहितोदरे इत्यमरः ॥ तत्र ते नयनविनोदोऽस्तीत्यर्थः । तस्मिनाम्रकूटे मुहूर्तमल्पकालम् । न तु चिरं स्वकार्यविरोधादिति भावः ॥ ``मुहूर्तमल्पकाले स्याघटिकाद्वितयेऽपि च'' इति शब्दार्णवे ॥ स्थित्वा विश्रम्य । तोयोत्सर्गेण ``त्वामासार-'' इत्युक्तवर्षेणेन द्रुततरगतिलीघवाद्धेतोरतिक्षिप्रगमनः सन् । तस्माद्राम्र कूटात्परमनन्तरं तत्परं वर्त्म मार्गन्तीर्णोऽतिक्रान्तः । उपलैः पाषाणैर्विषमे विन्ध्यस्याद्रेः पादे प्रस्यन्तपर्वते ॥ ``पादाः प्रत्यन्तपर्वताः'' इत्यमरः ॥ विशीर्णो समन्ततो विसृमराम् ॥ एतेन कस्याश्चित्कामुक्या प्रियतम चरणपातोऽपि ध्वन्यते ॥ रेवां नर्मदाम् ॥ ``रेवा तु नर्मदा सोमाद्भवा मेखलकन्यका'' इत्यमरः ॥ गजस्याङ्गे शरीरे भक्तयो रचनाः । रेवा इति यावत् ॥ ``भक्तिर्निषेवणे भागे रचनायाम्'' इति शब्दार्णवे ॥ तासां छेदैभङ्गिभिर्भाभिर्विरचितां भूतिं श‍ृङ्गारमिव भसितमिव वा ॥ ``भूतिर्मातङ्गश‍ृङ्गारे जातौ मस्मनि सम्पदि'' इति विश्वः ॥ द्रक्ष्यसि । अयमपि महांस्ते नयन कौतुकलाभ इति भावः ॥ तस्यास्तिक्तैर्वनगजमदैर्वासितं वान्तवृष्टिः जम्बूकुञ्जप्रतिहतरयं तोयमादाय गच्छेः । अन्तःसारं घन तुलयितुं नानिलः शक्ष्यति त्वां रिक्तः सर्वो भवति हि लघुः पूर्णता गौरवाय ॥ २०॥ तस्या इति ॥ हे मेघ वान्तवृष्टिरुद्गीर्णवर्षः सन् । कृतवमनश्च व्यज्यते । तिक्तैः सुगन्धिभिस्तिक्तरसवद्भिश्च ॥ ``तिक्तो रसे सुगन्धौ च'' इति विश्वः ॥ वनगजमदैर्वासितं सुरभितं भावितं च । हिमवद्विन्ध्यमलया गजानां प्रभवा इति विन्ध्यस्य गजप्रभवत्वादिति भावः । जम्बूकुञ्जैः प्रतिहतरयं प्रतिबद्धवेगम् । सुखपेयमित्यर्थः । अनेन लघुत्वं कषायभावना च व्यज्यते । तस्या रेवायास्तोयमादाय गच्छेर्व्रज । हे घन मेघ, अन्तः सारो बलं यस्य तं त्वामनिल आकाशवायुः । शरीरस्थश्च गम्यते । तुलयितुं न शक्ष्यति शक्तो न भविष्यति । तथाहि । रिक्तोऽन्तः । सारशून्यः सर्वोऽपि लघुर्भवति । प्रकम्प्यो भवतीत्यर्थः । पूर्णता सारवत्ता गौरवायाप्रकम्प्यत्वाय भवतीत्यर्थः । अयमत्र ध्वनिः-आदौ वमनशोधितस्य पुंसः पञ्चाच्छेष्मशोषणाय लघुतिक्तकषायाम्बुपानाल्लब्धबलस्य वातप्रकम्पो न स्यादिति । यथाह वाग्भटः - ``कषायाः स्वादवोष्यस्य विशुद्धौ श्लेष्मणो हिताः । किमु तिक्तकषायाःवा ये निसर्गात्कफापहाः ॥ कृतशुद्धेः क्रमात्पीतपेयादेः पथ्य भोजिनः । वातादिभिर्न बाधा स्यादिन्द्रियैरिव योगिनः ॥ ``इति ॥ नीपं दृष्टा हरितकपिशं केशरैर्धरूढै- राविर्भूतप्रथममुकुलाः कन्दलीश्चानुकच्छम् । जग्ध्वारण्येष्वधिकसुरभिं गन्धमाघ्राय चोर्व्याः सारङ्गास्ते जललवमुचः सूचयिष्यन्ति मार्गम् ॥ २१॥ नीपमिति ॥ सारङ्गा मतङ्गजाः कुरङ्गा भृङ्गा वा ॥ ``सारङ्गश्चातके भृङ्गे कुरङ्गे च मतङ्गजे'' इति विश्वः ॥ अर्धरूढैरेकदेशोद्गतैः केसरैः किञ्जल्कैर्हरितं पालाशवर्ण कपिशं कृष्णपीतं च ॥ ``पालाशो हरितो । हरित्'' इति । ``श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते'' इति चामरः ॥ श्यामवर्णमिति यावत् ॥ ``वर्णो वर्णेन इति समासः ॥ नीपं स्थलकदम्बकुसुमम् ॥ ``अथ स्थकदम्बके । नीपः स्यात्पुलके'' इति शब्दार्णवे ॥ दृष्ट्वा सम्प्रेक्ष्य । विदित्वेति यावत् । तथा कच्छेवनूपेष्नुकच्छम् ॥ ``अव्ययं विभक्ति-'' इत्यादिना विभक्त्यर्थेऽव्ययीभावः ॥ ``जलपायमनूपं स्यात्पुंसि कच्छ स्वथाविधः'' इत्यमरः ॥ आविर्भूताः प्रथमाः प्रथमोत्पन्ना मुकुला यासां ताः कन्दलीर्भूमिकदलीः ॥ द्रोणपर्णी स्निग्धकन्दा कन्दली भूकदल्यपि इति शब्दार्णवे ॥ जग्ध्वा भक्षयित्वा ॥ ``अदो जग्धिः-'' इति जग्ध्यादेशः ॥ अरण्येष्वधिकसुरभिमतिघ्राणतर्पणं ``दग्धारण्येषु'' इति पाठे ``दग्धम्'' इत्यधिकविशेषणम् ॥ अर्थवशात्कन्लीश्च दृष्ट्वैवेत्यन्वयो द्रष्टव्यः ॥ उर्व्या भूमेर्गन्धमाघ्राय जललवमुचोः मेघस्य ते तव मार्गं सूचयिष्यन्त्यनुमापयिष्यन्ति । यत्र यत्र वृष्टिकार्यं कन्दली मुकुलनीपकुसुमादिकं दृश्यते तत्र तत्रः त्वया वृष्टमित्यनुमीयत इति भावः ॥ प्रक्षिप्तमपि व्याख्यायते अम्भोबिन्दुग्रहणचतुरांश्चातकान्वीक्षमाणाः श्रेणीभूताः परिगणनया निर्दिशन्तो बलाकाः । त्वामासाद्य स्तनितसमये मानयिष्यन्ति सिद्धाः सोत्कम्पानि प्रियसहचरीसम्भ्रमालिङ्गितानि ॥ अम्भ इति ॥ अम्भोबिन्दूनां वर्षोदबिन्दूनां ग्रहणेः । ``सर्वं सहा पतितमम्बु न चातकस्य हितम्'' इति शास्त्राः भूस्पृष्टोदकस्य तेषां रोगहेतुत्वादन्तराल एव स्वीकारे । च तुरांश्चातकान्वीक्षमाणाः कौतुकात्पश्यन्तः श्रेणीभूता बद्धपङ्क्तिः ॥ अभूततद्भावे च्विः ॥ बलाका बकपङ्कीः परिगणनयैका द्वे तिस्र इति सङ्ख्यानेन निर्दिशन्तो हस्तेन, दर्शयन्तः सिद्धाः स्तनितसमये त्वद्गर्जितकाले सोत्कम्पाः न्युत्कम्पपूर्वकाणि प्रियसहचरीणां सम्भ्रमेणालिङ्गितान्याः साद्य । स्वयं ग्रहणा श्लेषसुखमनुभूयेत्यर्थः ॥ त्वां मानायष्यन्ति । त्वन्निमित्तत्वात्सुखलाभस्येति भावः ॥ २४ उत्पश्यामि द्रुतमपि सखे मत्प्रियार्थ यियासोः कालक्षेपं ककुभसुरभौ पर्वते पर्वते ते । शुक्लापाङ्गैः सजलनयनैः स्वागतीकृत्य केकाः प्रत्युद्यातः कथमपि भवान्गन्तुमाशु व्यवस्येत् ॥ २२॥ उत्पश्यामीति ॥ हे सखे मेघ, मत्प्रियार्थं यथा तथा द्रुतं क्षिप्रम् ॥ ``लघु क्षिप्रमरं द्रुतम्'' इत्यमरः ॥ यियासोर्यातुमिच्छोरपि ॥ यातेः सन्नन्तादुप्रत्ययः ॥ ते तव ककुभैः कुटजकुसुमैः सुरभौ सुगन्धिनि ॥ ककुभः कुजेऽर्जुने'' इति शब्दार्णवे ॥ पर्वते पर्वते प्रतिपर्वतम् ॥ वीप्सायां द्विरुक्तिः ॥ कालक्षेपं कालविलम्बम् ॥ ``क्षेपो विलम्बे निन्दायाम्'' इति विश्वः ॥ उत्पश्याम्युत्प्रेक्षे ॥ विलम्ब हेतुं दर्शयन्नाशुगमनं प्रार्थयते -शुक्लेति ॥ सजलानि सानन्दबाष्पाणि नयनानि येषां तैः शुक्लापाङ्गैर्मयूरैः ॥ ``मयूरो बर्हिणो बर्ही शुक्लापाङ्गः शिखावलः'' इति यादवः ॥ केकाः स्ववाणीः ॥ केका वाणी मयूरस्य'' इत्यमरः ॥ स्वागतीकृत्य स्वागतवचनीकृत्य प्रत्युद्यातः प्रत्युद्भवः । मयूरवाणीकृतातिथ्य इत्यर्थः । भवान्कथमपि यथाकथञ्चिदाशु गन्तुं व्यवस्पेदुद्युञ्जीत ॥ प्रार्थने लिङ् । ``शेषे प्रथमः'' इति प्रथमपुरुषः । शेषश्चायं भवच्छब्दो युष्मदस्मच्छब्दव्यतिरेकात् ॥ ``स्वागतीकृत्य केकाः'' इत्यत्र केकास्वारोप्यमाणस्य स्वागतवञ्चनस्य प्रकृतप्रत्युद्गमनोपयोगात्परिणामालङ्कारः । तदुक्तमलङ्कार सर्वस्वे - ``आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः'' इति ॥ पाण्डुच्छायोपवनवृतयः केतकैः सूचिभिन्नै- नीडारम्भैर्गृहवलिभुजामाकुलग्रामचैत्याः । त्वय्यासने परिणतफलश्यामजम्बूवनान्ताः सम्पत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः ॥ २३॥ पाविति ॥ हे मेघ, त्वय्यासने सन्निकृष्टे सति दशार्णो नाम जनपदाः सूचिभिन्नैः सूचिषु मुकुलाग्रेषु भिन्नैर्विकसितैः ॥ ``केतकी मुकुलाग्रेषु सूचिः स्यात् इति शब्दार्णवे ॥ केतकैः केतकीकुसुमैः पाण्डुच्छाया हरितवर्णा उपवनानां वृतयः कण्टकशाखावरणा येषु ते तथोक्ताः ॥ ``प्राकारो वरणः सालः प्राचीरं प्रान्ततो वृतिः'' इत्यमरः ॥ तथा गृहबलिभुजां काकादिग्रामपक्षिणां नीडारम्भैः कुलाय निर्माणैः ॥ ``कुलायो नीडमस्त्रियाम्'' इत्यमरः ॥ चित्याया इमानि चैत्यानि रथ्यावृक्षाः ॥ ``चैत्यमायतने बुद्धबन्द्ये चोदेशपादपे'' इति विश्वः ॥ आकुलानि सङ्कीर्णानि ग्रामेषु चैत्यानि येषु ते तथोक्ताः । तथा परिणतैः पक्कैः फलैः श्यामानि यानि जम्बूवनानि तैरन्ता रम्याः ॥ ``मृताववसिते रम्ये समाप्तावन्त इष्यते'' इति शब्दार्णवे ॥ तथा कतिपयेष्वेव दिनेषु स्थायिनो हंसा येषु ते तथोक्ता एवंविधाः सम्पत्स्यन्ते भविष्यन्ति ॥ ``पोटायुवतिस्तोककतिपय-'' इत्यादिना कविपयशब्दस्योत्तरपदत्वेऽपि न तच्छब्दस्योत्तरत्वमस्त्यस्य शास्त्रस्य प्रायिकत्वात् ॥ तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं गत्वा सद्यः फलमविकलं कामुकत्वस्य लब्धा । तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यस्मात् सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोर्मि ॥ २४॥ तेषामिति ॥ दिक्षु प्रथितं प्रसिद्धं विदिशेति लक्षणं नामधेयं यस्यास्ताम् ॥ ``लक्षणं नाम्नि चिन्हे च'' इति विश्वः ॥ तेषां दशार्णानां सम्बन्धिनीं ।धीयन्तेऽस्यामिति धानी ॥ ``करणाधिकरणयोश्च'' इति ल्युट् ॥ राज्ञां धानी राजधानी ॥ ``कृद्योगलक्षणा षष्ठी समस्यते'' इति वक्तव्यात्समासः ॥ तां प्रधाननगरीम् ॥ ``प्रधाननगरी राज्ञां राजधानीति कथ्यते'' इति शब्दार्णवे ॥ गत्वा प्राप्य सद्यः कामुकत्वस्य विलसितायाः ॥ ``विलासी कामुकः कामी स्त्रीपरो रतिलम्पटः'' इति शब्दार्णवे ॥ अविकलं समग्रं फलं प्रयोजनं लब्धा लप्स्यते । त्वयेति शेषः ॥ कर्मणि लुट् ॥ कुतः । यस्मात्कारणात्स्वादुः मधुरम् । चला ऊर्मयो यस्य तच्चलोर्मि तरङ्गितं वेत्रवत्या नाम नद्याः पयः सभ्रूभङ्ग भ्रुकुटियुक्तम् । दशनपीडयेति भावः । मुखमिवाधरमिवेत्यर्थः । तीरोपान्ते तटप्रान्ते यत्स्तनितं गर्जितं तेन सुभगं यथा तथा स्तनितशब्देन भणितमपि व्यपदिश्यते । ``ऊर्ध्वमुच्चलितकण्ठनासिकं हुङ्कृतं स्वनितमल्पघोषवत्'' इति लक्षणात् ॥ पास्यसि । पिबतेरॢट् ॥ ``कामिनामधरास्वादः सुरतादतिरिच्यते'' इति भावः ॥ नीचैराख्यं गिरिमधिवसेस्तत्र विश्रामहेतो- स्त्वत्सम्पर्कात्पुलकितमिव प्रौढपुष्पैः कदम्बैः । यः पण्यस्त्रीरतिपरिमलोद्गारिभिर्नागराणा- मुद्दामानि प्रथयति शिलावेश्मभिर्यौवनानि ॥ २५॥ नीचैरिति ॥ हे मेव, तत्र विदिशासमीपे । विश्रामो विश्रमः खेदापनयः ॥ भावार्थे घञ्प्रत्ययः ॥ तस्य हेतोः । विश्रामार्थमित्यर्थः ॥ ``षष्ठी हेतुप्रयोगे'' इति षष्ठी ॥ विश्रामेत्यत्र ``नोदात्तोपदेशस्य मान्तस्यानाच मेः'' इति पाणिनीये वृद्धिप्रतिषेधेऽपि ``विश्रामो वा'' इति चन्द्रव्याकरणे विकल्पेन वृद्धिविधानादूपसिद्धिः ॥ प्रौढपुष्पैः प्रबुद्धकुसुमैः कदम्बैनीपवृक्षैस्त्वत्सम्पर्कात्तव सङ्गात् । पुलका अस्य जाताः पुलकितमिव सञ्जातपुलकमिव स्थितम् ॥ तारकादित्वादितच्प्रत्ययः ॥ नीचैरित्याख्या यस्य तं नीचैराख्यं गिरिमधिवसेः । गिरौ वसेरित्यर्थः ॥ ``उपान्वध्याङ्वसः'' इति कर्मत्वम् ॥ यो नीचैर्गिरिः । पण्याः क्रेयाः स्त्रियः पण्यस्त्रियो वेश्याः ॥ ``वारस्त्री गणिका वेश्या पण्यस्त्री रूपजीविनी'' इति शब्दार्णवे ॥ तासां रतिषु यः परिमलो गन्धविशेषः ॥ ``विमर्दोत्थे परिमलो गन्धे जनमनोहरे'' इत्यमरः । तमुद्गिरन्त्याविष्कुर्वन्तीति तथोक्तानि तैः । शिलावेश्मभिः कन्दरैर्नागराणां पौराणामुद्दामान्युत्कटानि यौवनानि प्रथयति प्रकटयति ॥ उत्कटयौवनाः क्वचिदनुरक्ता वाराङ्गना विश्रम्भविहाराका ड्क्षिण्यो मात्राद्दिभयान्निशथिसमये कञ्चन विविक्तं देशमाश्रित्य रमन्ते । तच्चात्र बहुलमस्तीति प्रसिद्धिः ॥ अत्रोद्वारशब्दो गौणार्थत्वान्न जुगुप्सावहः । प्रत्युत काव्यस्यातिशोभाकर एव । तदुक्तं दण्डिना - ``निष्ठयूतोद्गीर्णवान्तादि गौणवृत्तिव्यपाश्रयम् । अतिसुन्दरमन्यत्र ग्राम्यकक्षां विगाहते ॥ ``इति ॥ विश्रान्तः सन्व्रज वननदीतीरजातानि सिञ्च- नुद्यानानां नवजलकणैर्यूथिकाजालकानि । गण्डस्वेदापनयनरुजाक्लान्तकर्णोत्पलानां छायादानात्क्षणपरिचितः पुष्पलावीमुखानाम् ॥ २६॥ विश्रान्त इति ॥ विश्रान्तः संस्तत्र नीचैर्गिरौ विनीताध्वश्रमः सन् । अथ विश्रान्तेरनन्तरम् । वनेऽरण्ये या नद्यस्तासां तीरेषु जातानि स्वयंरूढानि । अकृत्रिमाणीत्यर्थः ॥ नदनदी - ``इति पाठे'' पुमान्स्त्रिया इत्येकशेषो दुर्वारः ॥ तेषामुद्यानानामारामाणां सम्बन्धीनि यूथिकाजालकानि मागधीकुसुममुकुलानि ॥ ``अथ मागधी । गणिका यूथिका'' इत्यमरः ॥ ``कोरकजालककलिका कुड्मलमुकुलानि तुल्यानि'' इति हलायुधः ॥ नवजलकणैः सिञ्चन्नाद्रकुर्वन् ॥ अत्र सिञ्चतेराद्रीकरणार्थत्वाद्द्रवद्रव्यस्य करणत्वम् । यत्र तु क्षरणमर्थस्तत्र द्रवद्रव्यस्य कर्मत्वम् । यथा ``रेतः सिक्त्वा कुमारीषु'' । ``सुखैर्निषिञ्चन्तमिवामृतं त्वचि'' इत्येवमादि । एवं किरतीत्यादीनामपि ``रजः किरति मारुतः'' । अवाः किरन्वयोवृद्धास्तं लाजैः पौरयोषितः'' इत्यादिष्वर्थभेदाश्रयणेन रजोलाजादीनां कर्मत्वकरणत्वे गमयितव्ये ॥ तथा गण्डयोः कपोलयोः स्वेदस्यापनयनेन प्रमार्जनेन या रुजा पीडा ॥ भिदादित्वादङ्प्रत्ययः ॥ तया क्लान्तानि म्लानानि कर्णोत्पलानि येषां तेषां तथोक्तानाम् । पुष्पाणि लुनन्तीति पुष्पलाव्यः पुष्षावचायिकाः खियः ॥ ``कर्मण्यण् । टिड्ढाणञ्-'' इत्यादिना ङीप् । तासाम्मुखानाम् । छायाया अनातपस्य दानात् । कान्तिदानञ्च ध्वन्यते ॥ छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः'' इत्यमरः ॥ कामुकदर्शनात्कामिनीनां मुखानेकाशो भवतीति भावः ॥ क्षणपरिचितः क्षणं संसृष्टः सन् । न तु चिरम् । गच्छ ॥ वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तराशां सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः । विद्युद्दामस्फुरितचकितैस्तत्र पौराङ्गनानां लोलापाङ्गैर्यदि न रमसे लोचनैर्वञ्चितोऽसि ॥ २७॥ वक्र इति ॥ उत्तराशामुदीचीं दिशं प्रति प्रस्थितस्य -भवतः पन्था उज्जयिनीमार्गो वक्रो यदपि । दूरो यद्यपीत्यर्थः । विन्ध्यादुत्तरवाहिन्या निर्विन्ध्यायाः प्राग्भागे कियत्यपि दूरे स्थितोज्जयिनी । उत्तरपथस्तु निर्विन्ध्यायाः पश्चिम इतिवक्रत्वम् ॥ तथाप्युज्जीयन्या विशालनगरस्य ॥ ``वि-शालोज्जयिनी समा'' इत्युत्पलः । सौधानामुत्सङ्गेषूपरिभागेषु प्रणयः परिचयः ॥ ``प्रणयः स्यात्परिचये यात्रायां सौहृदेऽपि च'' इति यादवः ॥ तस्य विमुखः पराङ्मुखो मा स्म भूः । न भवेत्यर्थः ॥ ``स्मोत्तरे लङ् च'' इति चकारादाशीरर्थे लङ् । न माङ्योगे'' इत्यडागमप्रतिषेधः ॥ तत्रोज्जयिन्यां विद्युद्दाम्नां विद्युलतानां स्फुरितेभ्यः स्फुरणेभ्यश्च कितैर्लोलापाङ्गैश्चञ्चलकटाक्षैः पौराङ्गनानां लोचनैर्न रमसे यदि तर्हि त्वं वञ्चितः प्रतारितोऽसि । जन्मवैफल्यं भवेदित्यर्थः ॥ सम्प्रत्युज्जयिनीं गच्छतस्तस्य मध्येमार्गं निर्विन्ध्यासम्बन्धमाहस्या- वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः । निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः सन्निपत्य स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु ॥ २८॥ वीचीति ॥ हे सखे, पथ्युज्जयिनीपथे वाचिक्षोभेण तरङ्गन्चलनेन स्तनितानां मुखराणाम् ॥ कर्तरि क्तः ॥ विहगानां हंसानां श्रेणिः पङ्तिरेव काञ्चीगुणो यस्यास्तस्याः स्खलितेनोपस्खलनेन मदस्खलितेन च सुभगं यथा तथा संसर्पन्त्याः प्रवहन्त्या गच्छन्त्याश्च तथा दर्शितः प्रकटित आवर्तेऽम्भसां भ्रम एव नाभिया ॥ दावर्तोऽम्भसां भ्रमः इत्यमरः ॥ निष्क्रान्ता विन्ध्यानिर्विन्ध्या नाम नदीम् ॥ ``निरादयः क्रान्ताद्यर्थे पञ्चम्याः'' इति समासः । ``द्विगुप्राप्ता पन्नालम्-'' इत्यादिना परवल्लिङ्गताप्रतिषेधः ॥ तस्या नद्याः सन्निपत्य सङ्गत्य । रसो जलमभ्यन्तरे यस्य सः । अन्यत्र रसेन श‍ृङ्गारेणाभ्यन्तरोऽन्तरङ्गो भव । सर्वथा तस्या रसमनुभबेत्यर्थः ॥ ``श‍ृङ्गारादौ जले वीर्ये सुवर्णे विषशुक्रयोः । तिक्तादावमृते चैव निर्यासे पारदे ध्वनौ ॥ आस्वादे च रसं प्राहुः'' इति शब्दार्णवे ॥ ननु तत्प्रार्थनामन्तरेण कर्थं तत्रानुभवो युज्यत इत्यत आह -स्त्रीणामिति ॥ स्त्रीणां प्रियेषु विषये विभ्रमो विलास एवाद्यं प्रणयवचनं प्रार्थनावाक्यं हि । स्त्रीणामेष स्वभावो यद्विलासैरेव रागप्रकाशनम् । न तु कण्ठत इति भावः ॥ विभ्रमश्चात्र नाभिसन्दर्शनादिरुक्त एव ॥ निर्विन्ध्याया विरहावस्थां वर्णयंस्तन्निराकरणं प्रार्थयते- वेणीभूतप्रतनुसलिलासावतीतस्य सिन्धुः पाण्डुच्छाया तटरुहतरुभ्रंशिभिजीर्णपर्णैः । सौभाग्यं ते सुभग विरहावस्थया व्यञ्जयन्ती कार्श्य येन त्यजति विधिना स त्वयैवोपपाद्यः ॥ २९॥ वेणीति ॥ अवेणी वेणीभूतं वेण्याकारं प्रतनु स्तोकं च सलिलं यस्याः सा तथोक्ता । अन्यत्र वेणीभूत केशपाशेति च ध्वन्यते । रुहन्तीति रुहाः ॥ इगुपधलक्षणः कप्रत्ययः ॥ तटयो रुहा ये तरवस्तेभ्यो भ्रश्यन्तीति तथोक्तैः । जीर्णपर्णैः शुष्कपत्रैः पाण्डुच्छाया पाण्डुवर्णा । अत एव हे सुभग, विरहावस्थया पूर्वोक्तप्रकारया करणेन ॥ अतीतस्यैतावन्तं कालमतीत्य गतस्य । प्रोषितस्येत्यर्थः । ते तव सौभाग्यं सुभगत्वम् ॥ ``हृद्वगसिन्ध्वन्ते पूर्वपदस्य च'' इत्युभयपदवृद्धिः ॥ व्यञ्जयन्ती प्रकाशयन्ती । स खलु सुभगो यमङ्गनाः कामयन्त इति भावः । असौ पूर्वोक्ता सिन्धुर्नदी निर्विन्ध्या ॥ स्त्री नद्यां ना नदे सिन्धुर्देशभेदेऽम्बुधौ गजे'' इति वैजयन्ती ॥ येन विधिना व्यापारेण कार्य त्यजति स विधिस्त्वयैवोपपाद्यः । कर्तव्य इत्यर्थः । स च विधिरेकत्र वृष्टिरन्यत्र सम्भोगस्तदभावनिबन्धनत्वात्कार्शस्येति भावः ॥ इयं पञ्चमी मदनावस्था । तदुक्तं रतिरहस्ये - ``नयनप्रीतिः प्रथमं चित्तासङ्गस्ततोऽथ सङ्कल्पः । निद्राच्छेदस्तनुता विषयनिवृत्तिस्त्रपानाशः ॥ उन्मादो मूर्छा मृतिरित्येताः स्मरदशा दशैवस्युः ॥ ``इति ॥ ``तामतीतस्य'' इति पाठमाश्रित्य सिन्धुर्नाम नद्यन्तरमिति व्याख्यातम् । किन्तु सिन्धुर्नाम कश्वचिन्नदः काश्मीरदेशेऽस्ति । नदी तु कुत्रापि नास्तीत्युपेक्ष्यमित्याचक्षेत ॥ प्राप्यावन्तीनुदयनकथाकोविदग्रामवृद्धान् पूर्वोद्दिष्टामनुसर पुरीं श्रीविशालां विशालाम् । स्वल्पीभूते सुचरितफले स्वर्गिणां गां गतानां शेषः पुण्यैर्हृतमिव दिवः कान्तिमत्खण्डमेकम् ॥ ३०॥ प्राप्येति ॥ विदन्तीति विदाः ॥ इगुपधलक्षणः कः ॥ ओकसो वेद्यस्थानस्य विदाः कोविदाः ॥ ओकारलुप्ते ष्टषोदरादित्वात्साधुः ॥ उदयनस्य वत्सराजस्य कथानां ॥ वासवदत्ता हरणाद्यद्भुतोपाख्यानानां कोविदास्तत्त्वज्ञा ग्रामेषु ये वृद्वास्ते सन्ति येषु तानवन्तींस्तन्नामजनपदान्प्राप्य तत्र पूर्वोद्दिष्टां पूर्वोक्तां ``सौधोत्सङ्गमणयविमुखो मा स्म भूरुन्जयिन्याः इत्युक्तां श्रीविशालां सम्पत्तिमहतीम् ॥ ``शोभासम्पत्तिपद्मासु लक्ष्मीः श्रीरिव दृश्यते'' इति १। शाश्वतः ॥ विशालां पुरीमुज्जयिनीमनुसर व्रज ॥ कथमिव स्थिताम् । सुचरितफले पुण्यफले स्वर्गोपभोगलक्षणे स्वल्पीभूते । अत्यल्पावशिष्टे सतीत्यर्थः । गां भूमिं गतानाम् ॥ ``गौरिला कुम्भिनी क्षमा'' इत्यमरः ॥ पुनरपि भूलोकगतानामित्यर्थः । स्वर्गिणां स्वर्गवतां जनानां शेषभुङ्क्तशिष्टैः पुण्यैः सुकृतैर्हृतमानीतम् । स्वर्गार्थानुष्ठितकर्मशेषाणां स्वर्गदानावश्यम्भावादिति भावः । कान्ति रस्यास्तीति कान्तिमदुज्ज्वलम् । सारभूतमित्यर्थः । एकं भुक्तादन्यत् ॥ ``एके मुख्यान्यकेवलाः'' इत्यमरः ॥ दिवः स्वर्गस्य खण्डमिव स्थितामित्युत्प्रेक्षा । एतेनातिक्रा न्तसकल भूलोकनगर सौभाग्यसारत्वमुज्जयिन्या व्यज्यते ॥ दीर्घीकुर्वन्पटु मदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥ ३१॥ दीर्घीकुर्वन्निति ॥ यत्र विशालायां प्रत्यूषेष्वहर्मुखेषु ॥ ``प्रत्यूषोऽहर्मुखं कल्यम्'' इत्यमरः ॥ पटु प्रस्फुटम् । मदकलं मदेनाव्यक्तमधुरम् ॥ ``ध्वनौ तु मधुरास्फुटे । कलः'' इत्यमरः ॥ सारसानां पक्षिविशेषाणाम् ॥ ``सारसो मैथुनी कामी गोनर्दः पुष्कराष्ट्र्यः'' इति यादवः ॥ यद्वा सारसानां हंसानाम् ॥ ``चक्राङ्गः सारसो हंसः'' इति शब्दार्णवे ॥ कूजितं रुतं दीर्घीकुर्वन् । विस्तारयन्नित्यर्थः । यावद्वातं शब्दानुवृत्तेरिति भावः । एतेन प्रियतमः स्वचाटुवाक्यानुसारि क्रीडापक्षिकूजितमविच्छिन्नी कुर्वन्नितिच गम्यते । स्फुटितानां विकसितानां कमलानामामोदेन परिमलेन सह या मैत्री संसर्गस्तेन कषायः सुरभिः ॥ ``रागद्रव्ये कषायोऽस्त्री निर्यासे सौरभे रसे'' इति यादवः ॥ अन्यत्रः विमर्दगन्धीत्यर्थः ॥ ``विमर्दोत्थे परिमलो गन्धे जन मनोहरे । आमोदः सोऽतिनिर्हारी'' इत्यमरः ॥ अङ्गानुकूलो गात्रसुखस्पर्शः । अन्यत्र गाढालिङ्गनदत्तगात्र संवाहन इत्यर्थः । भवभूतिना चोक्तं - ``अशिथिलपरिरम्मैदेत्तसंवाहनानि'' इति ॥ संवाह्यन्ते च सुरतश्रान्ताः प्रियैयुवतयः । एतत्कविरेव वक्ष्यति - ``सम्भोगान्ते मम समुचितो हस्तसंवाहनानाम्'' इति ॥ शिप्रा नाम काचित्तत्या नदी तस्या वातः शिप्रावातः ॥ शिप्राग्रहणं शैत्यद्योतनार्थम् ॥ प्रार्थना सुरतस्य याञ्चा तत्र चाटु करोतीति तथोक्तः । पुनः सुरतार्थं प्रियवचन प्रयोक्तेत्यर्थः ॥ कर्मण्यण्प्रत्ययः ॥ प्रियतमो वल्लभ इव स्त्रीणां सुरतग्लानिं सम्भोगखेदं हरति नुदति । चाटूक्तिभिर्विस्मृतपूर्व रतिखेदाः स्त्रियः प्रियतमप्रार्थनां सफलयन्तीति भावः ॥ ``प्रार्थनाचाटुकारः'' इत्यत्र ``खण्डितनायिकानुनीता'' इति व्याख्याने सुरत ग्लानिहरणं न सम्भवति । तस्याः पूर्वं सुरताभावात्पश्चात्तनसुरतग्लानिहरणं तु नेदानीन्तन कोपशमनार्थं चाटुवचनसाध्यमित्युत्प्रेक्षैवोचिता विवेकिनाम् ॥ ``ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्याकषायिता'' इति दशरूपके ॥ इतः परं मक्षिप्तमपि श्लोकत्रयं व्याख्यायते ॥ हारांस्तारांस्तरलगुटिकान्कोटिशः शङ्खशुक्तीः शष्पश्यामान्मरकतमणीनुन्मयूख प्ररोहान् । दृष्ट्वा यस्यां विपणिरचितान्विद्रुमाणां च भङ्गान् संलक्ष्यन्ते सलिलनिधयस्तोयमात्रावशेषाः ॥ हारानिति ॥ यस्यां विशालायां कोटिशो विपणिषु पण्यवीथिकासु । ``विपणिः पण्यवीथिका'' इत्यमरः ॥ रचितान्प्रसारितान् ॥ इदं विशेषणं यथालिङ्गं सर्वत्र सम्बध्यते ॥ ताराञ्छ्रुद्धान् ॥ ``तारो मुक्तादिसंशुद्धौ तरणे शुद्धमौक्तिके'' इति विश्वः ॥ तरलगुटिकान्मध्यमणीभूतमहारत्नान् ॥ ``तरलो हारमध्यगः'' इत्यमरः ॥ ``पिण्डे मणौ महारत्ने गुटिका बद्धपारदे'' इति शब्दार्णवे । हारान्मुक्तावलीः । तथा कोटिशः शङ्खांश्च शुक्तीश्च मुक्तास्फोटांश्च ॥ ``मुक्तास्फोटः स्त्रियां शुक्तिः शङ्खः स्यात्कम्बुरस्त्रियौ'' इत्यमरः ॥ शष्पं बालतृणं तद्वच्छयामान् ॥ ``शष्पं बालतृणं घासो यवसं तृणमर्जुनम्'' इत्यमरः ॥ उन्मयूखमरोहानुद्गतरम्याङ्करान्मरकतमणीन्गारुडरत्नानि । तथा निद्रुमाणां भङ्गान्प्रवालखण्डांश्च दृष्ट्वा सलिलनिधयः समुद्रास्तोयमाश्रमवशेषो येषां ते तादृशाः संलक्ष्यन्ते । तथानुमीयन्त इत्यर्थः । रत्नाकरादप्यतिरिच्यते रत्न सम्पद्विरिति भावः ॥ प्रद्योतस्य प्रियदुहितरं वत्सराजोऽत्र जह्रे हैमं तालद्रुमवनमभूदत्र तस्यैव राज्ञः । अत्रोद्भ्रान्तः किल नलगिरिः स्तम्भमुत्पाट्य दर्पा- दित्यागन्तून्रमयति जनो यत्र बन्धूनभिज्ञः ॥ प्रद्योतस्येति ॥ अत्र प्रदेशे वत्सराजो वत्सदेशाधीश्वर उदयनः । प्रद्योतस्य नामोज्जयिनीनायकस्य राज्ञः प्रियदुहितरं वासवदत्तां जहे जहार । अत्र स्थले तस्यैव राज्ञ प्रद्योतस्य हैमं सौवर्णं तालद्रुमवनमभूत् । अत्र नलगिरिर्नामेन्द्रदत्तस्तदयो गजो दर्पान्मदात्स्तम्भमालानमुत्पाट्योद्धृत्योद्भ्रान्त उत्पत्य भ्रमणं कृतवान् । इतीत्थम्भूताभिः कथाभिरित्यर्थः । अभिज्ञः पूर्वोक्तकथाभिज्ञः कोविदोजन आगन्तून्देशान्तरादागतान् ॥ औणादिकस्तुन्प्रत्ययः ॥ -बन्धून्यत्र विशालायां रमयति विनोदयति ॥ अत्र भाविकालङ्कारः । तदुक्तं - ``अतीतानागते यत्र प्रत्यक्षत्वेन लक्षिते । अत्यद्भुतार्थकथनाद्भाविकं तदुदाहृतम् ॥ ``इति ॥ पत्रश्यामा दिनकर हयस्पर्धिनो यत्र वाहाः शैलोदग्रास्त्वमिव करिणो वृष्टिमन्तः प्रभेदात् । योधाग्रण्यः प्रतिदशमुखं संयुगे तस्थिवांसः प्रत्यादिष्टाभरणरुचयश्चन्द्रहासव्रणाङ्कैः ॥ पत्रेति ॥ हे जलद, यत्र विशालायां वाहा हयाः पत्र श्यामाः पलाशवर्णा अत एव दिनकरहयस्पर्धिनो वर्णतो वेगतश्च सूर्याश्वकल्पास्तथा शैलोदग्राः शैलवदुन्नताः करिणः प्रभेदान्मदस्रावाद्धेतोस्त्वमिव वृष्टिमन्तः । अग्रं नयन्तीत्यग्रण्यः ॥ ``सत्स्रुद्विष-'' इत्यादिना क्विप् ॥ ``अग्रग्रामाभ्यां नयतेः'' इति वक्तव्याण्णत्वम् ॥ योधानामग्रयो भटश्रेष्ठाः संयुगे युद्धे प्रतिदशमुखमभिरावणं तस्थिवांसः स्थितवन्तः । अत एव चन्द्रहासस्य रावणासेर्व्रणान्क्षतान्येवाङ्कश्चिहानि तैः ॥ ``चन्द्रहासो रावणासावसिमात्रेऽपि च क्वचित्'' इति शाश्वतः ॥ प्रत्यादिष्टाभरणरुचयः प्रतिविद्धभूषणकान्तयः । शस्त्रप्रहारा एव वीराणां भूषणमिति भावः । अत्रापि भाविकालङ्कारः ॥ जालोद्गीर्णेरुपचितवपुः केशसंस्कार धूपैः बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्योपहारः । हर्मैष्वस्याः कुसुमसुरभिष्वध्वखेदं नयेथा लक्ष्मीं पश्यञ्ललितवनितापादरागाङ्कितेषु ॥ ३२॥ जालोद्गीर्णैरिति ॥ जालोद्गीणैर्गवाक्षमार्गनिर्गतैः ॥ ``जालं गवाक्ष आनाये जालके कपटे गणे'' इति यादवः । केशसंस्कारधूपैः । वनिताकेशवासनार्यैर्गन्धद्रव्यधूपैरित्यर्थः ॥ अत्र संस्कार धूपयोस्तादर्थ्येपि यूपदार्वादिवत्प्रकृतिविकारत्वाभावादश्वघासादिषत्षष्ठीसमासो न चतुर्थीसमासः ॥ उपचितवपुः परिपुष्टशरीरः । बन्धौ बन्धुरिति वा प्रीत्या भवन शिखिभिर्गृह मयूरैर्दत्तो नृत्यमेवोपहार उपायनं यस्मै स तथोक्तः ॥ ``उपायनमुपग्राह्यमुपहारस्तथोपदा'' इत्यमरः ॥ कुसुमैः सुरभिषु सुगन्धिषु ॥ -ललितवनिताः सुन्दरस्त्रियः ॥ ``ललितं त्रिषु सुन्दरम्'' इति शब्दार्णवे । तासां पादरागेण लाक्षारसेनाङ्कितेषु चिहितेषु हर्म्येषु धनिक भवनेष्वस्या उज्जयिन्या लक्ष्मीं पश्यन्नध्वनाध्वगमनेन खेदं क्लेशं नयेथा अपनय ॥ भर्तुः कण्ठच्छविरिति गणैः सादरं वीक्ष्यमाणः पुण्यं यायास्त्रिभुवनगुरोर्धाम चण्डीश्वरस्यः । धूतोद्यानं कुवलयरजोगन्धिभिर्गन्धवत्या- स्तोयक्रीडानिरतयुवतिस्नानतिक्तैर्मरुद्भिः ॥ ३३॥ भर्तुरिति ॥ भर्तुः स्वामिनो नीलकण्ठस्य भगवतः कण्ठस्येव छविर्यस्यासौ कण्ठच्छविरिति हेतोर्गणैः प्रमथैः ॥ ``गणस्तु गणनायां स्याद्वशे प्रमथे चये'' इति शब्दार्णवे ॥ सादरं यथा तथा वीक्ष्यमाणः सन् । प्रियवस्तुसादयादतिप्रियत्वं भवेदिति भावः । त्रयाणां भुवनानां समाहारस्त्रिभुवनम् ॥ ``तद्धितार्थ-'' इत्यादिना समासः ॥ तस्य गुरोत्रैलोक्यनाथस्य चण्डीश्वरस्यः कात्यायनीवल्लभस्य पुण्यं पावनं धाम महाकालाख्यं स्थानं याया गच्छ ॥ विध्यर्थे लिङ् ॥ श्रेयस्करत्वात्सर्वथा यातव्यमिति भावः ॥ उक्तं च स्कान्दे - ``आकाशे तारकं लिङ्गं पाताले हाटकेश्वरम् । मर्त्यलोके महाकालं दृष्ट्वा काममवाप्नुयात् ॥ ``इति ॥ न केवलं मुक्तिस्थानमिदं किन्तु विलासस्थानमपीत्याह -धूतेति ॥ कुवलयरजोगन्धिभिरुत्पलपरागगन्धवद्भिस्तोयक्रीडासु निरतानामासक्तानां युवतीनां स्नानं स्नानीयं चन्दनादि ॥ करणे ल्युट् ॥ ``स्नानीयेऽभिषवे स्नानम्'' इति यादवः ॥ तेन तिक्तैः सुरभिभिः ``कटुतिक्तकषायास्तु सौरभे च प्रकीर्तिताः'' इति हलायुधः । सौगन्ध्यातिशयार्थं विशेषणद्वयम् । गन्धवत्या नाम नद्यास्तत्रत्याया मरुद्भिर्मारुतैर्धूतोद्यानं कम्पिताक्रीडमिति धाम्नो विशेषणम् ॥ अप्यन्यस्मिञ्जलधर महाकालमासाद्य काले स्थातव्यं ते नयनविषयं यावदत्येति भानुः । कुर्वन्सन्ध्याबलिपटहतां शूलिनः श्लाघनीया- मामन्द्राणां फलमविकलं लप्स्यसे गर्जितानाम् ॥ ३४॥ अपीति ॥ युग्मं ! हे जलधर, महाकालं नाम पूर्वोक्तं चण्डीश्वरस्थानमन्यस्मिन्सन्न्ध्यातिरिक्तेऽपि कालासाद्य प्राप्य ते तवं स्थातव्यम् । त्वया स्थातव्यमित्यर्थः ॥ ``कृत्यानां कर्तरि वा'' इति षष्ठी ॥ यावद्यावता कालेन भानुः सूर्ये नयनविषयं दृष्टिपथमत्येत्यतिक्रामति । अस्तमयकालपर्यन्तं स्थातव्यमित्यर्थः ॥ यावदित्येतदवधारणार्थे । ``यावत्तावच्च साकल्येऽवधौ मानवधारणे'' इत्यमरः ॥ किमर्थमत आह-कुर्वन्निति ॥ श्लाघनीयां प्रशस्यां शूलिनः शिवस्य सन्ध्यायां बलिः पूजा तत्र पटहतां कुर्वन्सम्पादयन्नामन्द्राणामीषद्गम्भीराणां गर्जितानामविकलमखण्डं फलं लप्स्यसे प्राप्स्यसि ॥ लभेः कर्तरि ऌट् ॥ महाकालनाथबलिपटहत्वेन विनियोगात्ते गर्जितसाफल्यं स्यादित्यर्थः ॥ पादन्यासैः क्वणितरशनास्तत्र लीलावधूतै- रत्नच्छायाखचितवलिभिश्चामरैः क्लान्तहस्ताः । वेश्यास्त्वत्तो नखपद सुखान्प्राप्य वर्षाग्रबिन्दू- नामोक्ष्यन्ते त्वयि मधुकर श्रेणिदीर्घान्कटाक्षानू ॥ ३५॥ पादन्यासैरिति । तत्र सन्ध्याकाले ॥ पादन्यासैश्चरणनिक्षेपैर्नृत्याङ्गैः क्वणिताः शब्दायमाना रशना यासां तास्तथोक्ताः ॥ क्वणतेरकर्मकत्वात् ``गत्यर्थाकर्मक-'' इत्यादिना कर्तरि क्तः ॥ लीलया विलासेनावधूतैः कम्पितैरत्नानां कङ्कणमणीनां छायया कान्त्या खचिता रूषिता वलयश्चामरदण्डा येषां तैः ॥ ``वलिश्चामरदण्डे च जराविश्लथचर्मणि'' इति विश्वः ॥ चामरैर्वालव्यजनैः क्लान्तहस्ताः ॥ एतेन दैशिकं नृत्यं सूचितम् । तदुक्तं नृत्यसर्वस्वे-`खड्गकन्दुकवस्त्रादिदण्डिकाचामरस्रजः । वीणां च धृत्वा यत्कुर्युर्नृत्यं तद्दैशिकं भवेत् ॥ '' इति ॥ वेश्या महाकाल नाथमुपेत्य नृत्यन्त्यो गणिकास्त्वत्तो नखपदेषु नखक्षतेषु सुखान्सुखकरान् ॥ ``सुखहेतौ सुखे सुखम्'' इति शब्दार्णवे ॥ वर्षस्याग्रबिन्दून्प्रथम बिन्दून्प्राप्य त्वयि मधुकरश्रेणिदीर्घान्कटाक्षानपाङ्गानामोक्ष्यन्ते । ``परैरूपकृताः सन्तः सद्यः प्रत्युपकुर्वते'' इति भावः । कामिनीदर्शनीयत्वलक्षणं शिवोपासनाफलं सद्यो लप्स्यस इति ध्वनिः ॥ पश्चादुच्चैर्भुजतरुवनं मण्डलेनाभिलीनः सान्ध्यं तेजः प्रतिनवजपापुष्परक्तं दधानः । नृत्यारम्भे हर पशुपतेरार्द्रनागाजिनेच्छां शान्तोद्वेगस्तिमितनयनं दृष्टभक्तिर्भवान्या ॥ ३६॥ पश्चादिति । पश्चात्सन्ध्याबल्यनन्तरं पशुपतेः शिवस्य नृत्यारम्भे ताण्डवप्रारम्भे प्रतिनवजपापुष्परक्तं प्रत्यग्रजपाकुसूमारुणं सन्ध्यायां भवं सान्ध्यं तेजो दधानः । उच्चैरुन्नतं भुजा एव तरवस्तेषां वनं मण्डलेन मण्डलाकारेणामिलीनोऽभिव्याप्तः सन् ॥ कर्तरि क्तः ॥ भवान्या भवपत्त्न्या ॥ ``इन्द्रवरुणभवशर्वरुद्रमृडहिमारण्ययवयवन मातुलाचार्याङ्गामानुक्'' इति ङीष् आनुगागमश्च ॥ शान्त उद्वेगो । नागाजिनदर्शन भयं ययोस्ते अत एव स्तिमिते निश्चलेः नयने यस्मिन्कर्मणि तत्तथोक्तम् ॥ ``उद्वेगस्त्वरिते क्लेशे भये मन्थरगामिनि'' इति शब्दार्णवे ॥ भक्तिः पूज्येष्वनुरागः ॥ भावार्थे क्तिन्प्रत्ययः ॥ दृष्टा भक्तिर्यस्य स दृष्टभक्तिः सन् । पशुपतेरार्द्रं शोणितार्द्रं यन्नागाजिनं गजचर्म ॥ ``अजिनं चर्म कृत्तिः स्त्री'' इत्यमरः ॥ तत्रेच्छां हर निवर्तय । त्वमेव तत्स्थाने भवेत्यर्थः । गजासुरमर्दनानन्तरं भगवान्महादेवस्तदीयमार्द्राजिनं भुजमण्डलेन बिभ्रत्ताण्डवं चकारेति प्रसिद्धिः ॥ दृष्टभक्तिरिति कथं रूपसिद्धिः । दृष्टशब्दस्य ``स्त्रियाः पुंवत्-'' इत्यादिना पुंवद्भावस्य दुर्घटत्वादपूरणीप्रियादिष्विति निषेधात् । भक्तिशब्दस्य प्रियादिषु पाठादिति । तदेतच्चोद्यम् । दृढभक्तिरिति शब्दमाश्रित्य प्रतिविहितं गणव्याख्याने दृढं भक्तिरस्येति नपुंसकं पूर्वपदम् । अदार्च्चनिवृत्तिपरत्वे दृढशब्दा लिङ्गविशेषस्यानुपकारित्वात्स्त्रीत्वमविवक्षितमिति ॥ भोजराजस्तु᳚भक्तौ च कर्मसाधनायामित्यनेन सूत्रेण भज्यते सेव्यत इति कर्मार्थत्वे भवानीभक्तिरित्यादि भवति । भावसाधनायां तु स्थिरमक्तिर्भवान्यामित्यादि भवति'' इत्याह । तदेतत्सर्वं सम्यग्विवेचितं रघुवंशसञ्जीविन्यां ``दृढभक्तिरिति ज्येष्ठे'' इत्यत्र । तस्माद्दृढभक्तिरित्यत्रापि मतभेदेन पूर्वपदस्य स्त्रीत्वेन नपुंसकत्वेन च रूपसिद्धिरस्तीति स्थितम् ॥ इत्थं महाकालनाथस्य सेवामकारमभिधाय पुनरपि ``नगरसञ्चाररप्रकारमाह- गच्छन्तीनां रमणवसतिं योषितां तत्र नक्तं रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः । सौदामन्या कनकनिकषस्निग्धया दर्शयोवीं तोयोत्सर्ग स्तनितमुखरो मा स्म भूर्विक्लवास्ताः ॥ ३७॥ गच्छन्तीनामिति ॥ तत्रोज्जयिन्यां नक्तं रात्रौ रमणवसतिं प्रियभवनं प्रति गच्छतीनां योषिताम् । अभिसारिकाणामित्यर्थः । सूचिभिर्भेद्यैः । अतिसान्द्रैरित्यर्थः । तमोभी रुद्धालोके निरुद्धदृष्टिप्रसारे नरपतिपन्थे राजमार्गे कनकस्य निकषो निकष्यत इति व्युत्पत्त्या निकष उपलगतरेखा तस्येव स्निग्धं तेजोयस्यास्तया ॥ ``स्निग्धं तु मसृणे सान्द्रे रम्ये क्लिबे च तेजसि'' इति शब्दार्णवे ॥ सुदाम्नाद्रिणैकदिक्सौदामनी विद्युत् ॥ ``तेनैकदिक्'' इत्यण्प्रत्ययः ॥ मेघदूतम् । तयोर्वीं मार्गं दर्शय । किञ्च तोयोत्सर्ग स्तनिताभ्यां वृष्टिगर्जिताभ्यां मुखरः शब्दायमानो मा स्म भूः । कुतः । ता योषितो विक्लवा भीरवः । ततो दृष्टिगर्जिते न कार्ये इत्यर्थः ॥ नात्रतोयोत्सर्गसहितं स्तनितमिति विग्रहः । विशिष्टस्येव केवलस्तनितस्याप्यनिष्टत्वात् । न च द्वन्द्वपक्षेऽल्पाच्तरपूर्वनिपातशास्त्रविरोधः । ``लक्षण हेत्वोः क्रियायाः'' इति सूत्र एव विपरीत निर्देशेन पूर्वनिपातशास्त्रस्यानित्यत्वज्ञापनादिति ॥ तां कस्याञ्चिद्भवनवलभौ सुप्तपारावतायां नीत्वा रात्रिं चिरविलसनात्खिन्नविद्युत्कलत्रः । दृष्टे सूर्ये पुनरपि भवान्वाहयेदध्वशेषं मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ ३८॥ तामिति ॥ चिरं विलसनात्स्फुरणात्खिन्नं विद्युदेव कलत्रं यस्य स भवान्सुप्ताः पारावताः कलरवा यस्यां तस्यां विविक्तायामित्यर्थः ॥ ``पारावतः कलरवः कपोतः'' इत्यमरः ॥ जनसञ्चारस्तत्रासम्भावित एवेति भावः । कस्याञ्चिद्भवनवलभौ । गृहाच्छादनोपरिभाग इत्यर्थः ॥ ``आच्छादनं स्याद्वलभी गृहाणाम्'' इति हलायुधः ॥ तां रात्रिं नीत्वा सूर्ये दृष्टे सति । उदिते सतीत्यर्थः पुनरप्यध्वशेषं वाहयेत् । तथाहि सुहृदां मित्राणामभ्युपेताङ्गीकृतार्थस्य प्रयोजनस्य कृत्या क्रिया यैस्ते । अभ्युपेतसुहृदर्था इत्यर्थः ॥ सापेक्षत्वेऽपि गमकत्वात्समासः ॥ ``कृत्या क्रियादेवतयोः कार्ये स्त्री कुपिते त्रिषु'' इति यादवः ॥ ``कृञः श च'' इति चकारात्क्यप् ॥ न मन्दायन्ते खलु न मन्दा भवन्ति हि । न विलम्बन्त इत्यर्थः ॥ ``लोहितादिडाज्भ्यः क्यष्'' इति क्यष् । ``वा क्यषः'' इत्यात्मनेपदम् ॥ तस्मिन्काले नयनसलिलं योषितां खण्डितानां शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु । प्रालेयास्त्रं कमलवदनात्सोऽपि हर्तुं नलिन्याः प्रत्यावृत्तस्त्वयि कररुधि स्यादनल्पाभ्यसूयः ॥ ३९॥ तस्मिन्निति । तस्मिन्काले पूर्वोक्ते सूर्योदयकाले प्रणयिभिः प्रियतमैः खण्डितानां योषितां नायिका विशेषाणाम् ॥ ``ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्याकषायिता'' इति दशरूपके ॥ नयनसलिलं शान्तिं नेयं नेतव्यम् ॥ नयतिर्द्विकर्मकः ॥ अतो हेतोर्भानोर्वर्माशु शीघ्रं त्यज । तस्यावरको मा भूरित्यर्थः ॥ विपक्षेऽनिष्टमाचष्टे -सोऽपि भानुः । नलान्यम्बुजानि यस्याः सन्तीति नलिनी पद्मिनी ॥ ``तृणेऽम्बुजे नलं ना तु राज्ञि नाले तु न स्त्रियाम्'' इति शब्दार्णवे ॥ तस्याः स्वकान्तायाः कमलं स्वकुसुममेव वदनं तस्मात्प्रालेयं हिममेवास्रमश्रु हर्तुं शमयितुं प्रत्यावृत्तः प्रत्यागतः । नलिन्याश्च भर्तुर्भानोर्देशान्तरे नलिन्यन्तरगमनात्खण्डितात्वमित्याशयः । ततस्त्वयि । करानंशून्रुणद्धीति कररुत् । क्विप् । तस्मिन्कररुधि सति । हस्तरोधिनि सतीति च गम्यते ॥ ``बलिहस्तांशवः कराः'' इत्यमरः ॥ अनल्पाभ्यसूयोऽधिकविद्वेषः स्यात् । प्रायेणेच्छाविशेषविघाताद्वेषो रोषविशेषश्च कामिनां भवतीति भावः । किं च ``आत्मानं चार्कमीशानं विष्णुं वा द्वेष्टि यो जनः । श्रेयांसि तस्य नश्यन्ति रौरवं च भवेद्ध्रुवम् ॥ ``इति निषेधात्कार्यहानिर्भविष्यतीति ध्वनिः ॥ गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम् । तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्या- न्मोघीकर्तुं चटुलशफरोद्दर्तनप्रेक्षितानि ॥ ४०॥ गम्भीराया इति ॥ गम्भीरा नाम सरित् ॥ उदात्तनायिका च ध्वन्यते ॥ तस्याः प्रसन्नेऽनुरक्तत्वाद्दोषरहिते चेतसीव प्रसन्नेऽतिनिर्मले पयसि । प्रकृत्या स्वभावेनैव सुभगः सुन्दरः ॥ ``सुन्दरेऽधिकभाग्ये च दुर्दिनेतरवासरे । तुरीयांशे श्रीमति च सुभगः'' इति शब्दार्णवे ॥ ते तव छायाचासावात्मा च । सोऽपि प्रतिबिम्बशरीरं च प्रवेशं लप्स्यते । अपिशब्दात्मवेशमनिच्छोरपीति भावः । तस्माच्छायाद्वारापि प्रवेशावश्यम्भावित्वादस्या गम्भीरायाः । कुमुदवद्विशदानि धवलानि चटुलानि शीघ्राणि शफराणां मीनानामुद्वर्तनान्युलुण्ठनान्येव प्रेक्षितान्यवलोकनानि ॥ ``त्रिषु स्याच्चटुलं शीघ्रम्'' इति विश्वः ॥ एतावदेव गम्भीराया अनुरागलिङ्गम् । धैर्याद्धाष्टर्षात् । वैयात्यादिति यावत् । मोघीकर्तुं विफलीकर्तुं नार्हसि । नानुरक्ता विप्रलधव्येत्यर्थः ॥ धूर्तलक्षणं तु - ``क्लिश्नाति नित्यं गमितां कामिनीमिति सुन्दरः । उपैत्यरक्तां यत्नेन रक्तां धूर्तों विमुञ्चति ॥ ``इति ॥ तस्याः किञ्चित्करधृतमिव प्राप्तवानीरशाखं नीत्वा नीलं सलिलवसनं मुक्तरोधोनितम्बम् । प्रस्थानं ते कथमपि सखे लम्बमानस्य भावि ज्ञातास्वादो वितजघनां को विहातुं समर्थः ॥ ४१॥ तस्या इति ॥ हे सखे, प्राप्ता वानीरशाखा वतेसशाखा येन तत्तथोक्तमतएव किञ्चिदीषत्करधृतं हस्तावलम्बितमिव स्थितम् । मुक्तस्त्यक्तो रोधस्तटमेव नितम्बः कटिन तत्तथोक्तम् ॥ ``नितम्बः पश्चिमे श्रोणिभागेऽद्रिकटके कटौ'' इति यादवः ॥ नीलं कृष्णवर्णं तस्या गम्भीरायाः सलिलमेव वसनं नीत्वापनीय ॥ प्रस्थानसमये प्रेयसीवसनग्रहणं विरहतापविनोदनार्थमिति प्रसिद्धम् ॥ लम्बमानस्य पीतसलिलभराल्लम्बमानस्य । अन्यत्र जघनारूढस्य । ते तव प्रस्थानं प्रयाणं कथमपि कृच्छ्रेण भावि ॥ कृच्छ्रत्वे हेतुमाह -ज्ञातेति ॥ ज्ञातास्वादोऽनु भूतरसः कः पुमान्विवृतं प्रकटीकृतं जघनं कटिस्तत्पूर्वभागो वा यस्यास्ताम् ॥ ``जघनं स्यात्कटौ पूर्वश्रोणिमागापरांशयोः'' इति यादवः ॥ विहातुं त्यक्तुं समर्थः । नकोऽपीत्यर्थः ॥ त्वन्निष्यन्दोच्छसितवसुधागन्धसम्पर्करम्यः स्रोतोरन्धध्वनितसुभगं दन्तिभिः पीयमानः । नीचैर्वास्यत्युपजिगमिषोर्देवपूर्वं गिरिं ते शीतो वायुः परिणमयिता काननोदुम्बराणाम् ॥ ४२॥ त्वदिति ॥ त्वन्निष्यन्देन तव दृष्टयोच्छु सिताया उपबृंहिताया वसुधाया भूमेर्गन्धस्य सम्पर्केण रम्यः । सुरभिरित्यर्थः ॥ स्रोतः शब्देनेन्द्रियवाचिना तद्विशेषो घ्राणं लक्ष्यते ॥ ``स्रोतोऽम्बुवेगेन्द्रिययोः'' इत्यमरः ॥ स्रोतोरन्ध्रेषु नासाग्रकुहरेषु यवनितं शब्दस्तेन सुभगं यथा तथा दन्तिभिर्गजैः पीयमानः । वसुधागन्धलोभादाघ्रायमाण इत्यर्थः । अनेन मान्द्यमुच्यते । काननेषु वनेषूदुम्बराणां जन्तुफलानाम् ॥ ``उदुम्बरो जन्तुफलो यज्ञाङ्गो हेमदुग्धकः'' इत्यमरः ॥ परिणमयिता परिपाकयिता ॥ ``मितां ह्रस्वः'' इति ह्रस्वः ॥ शीतो वायुः । देवपूर्वं देवशब्दपूर्वं गिरिम् । देवगिरिमित्यर्थः । उपजिगमिषोरुपगन्तुमिच्छाः ॥ गमेः सन्नन्तादुप्रत्ययः ॥ ते तव नीचैः शनैर्वास्यति । त्वां वीजयिष्यतीत्यर्थः ॥ सम्बन्धमात्रविवक्षायां षष्ठी ॥ ``देवपूर्वं गिरिम्'' इत्यत्र देवपूर्वत्वं गिरिशब्दस्य । न तु संज्ञिनस्तदर्थस्येति । संज्ञायाः संज्ञित्वाभावादवाच्यवचनं दोषमाहुरालङ्कारिकाः । तदुक्तमेकावल्यां - ``यदवाच्यस्य वचनमवाच्यवचनं हि तत्'' इति ॥ समाधानं तु देवशब्दविशेषितेन गिरिशब्देन शब्दपरेण मेघोपगमनयोग्यो देवगिरिर्लक्ष्यत इति कथञ्चिसम्पाद्यम् ॥ तत्र स्कन्दं नियतवसतिं पुष्पमेघीकृतात्मा पुष्पासारैः स्नपयतु भवान्व्योमगङ्गाजलार्द्रैः । रक्षाहेतोर्नवशशिभृता वासवीनां चमूना- मत्यादित्यं हुतवहमुखे सम्भृतं तद्धि तेजः ॥ ४३॥ तत्रेति ॥ तत्र देवगिरौ नियता वसतिर्यस्य तम् । नित्यसन्निहितमित्यर्थः ॥ पुरा किल तारकाख्यासुरविजयसन्तुष्टः सुरप्रार्थनावशाद्भगवान्भवानीनन्दनः स्कन्दो नित्यमहमिह सह शिवाभ्यां वसामीत्युक्त्वा तत्र वसतीति प्रसिद्धिः ॥ स्कन्दं कुमारं स्वामिनम् । पुष्पाणां मेघः पुष्पमेघः । पुष्पमेघीकृतात्मा कामरूपत्वात्पुष्पवर्षुकमेघीकृतविग्रहः सन्व्योमगङ्गाजलार्द्रैः । पुष्पासारैः पुष्पसम्पातैः ``धारासम्पात आसारः'' इत्यमरः ॥ भवान्स्वयमेव स्त्रपयत्वभिषिञ्चतु । स्वयम्पूजाया उत्तमत्वादिति भावः ॥ तथा च शम्भुरहस्ये - ``स्वयं यजति चेद्देवमुत्तमा सोदरात्मजैः । मध्यमा या यजेद्धृत्यैरधमा याजनक्रिया ॥ `` इति ॥ स्कन्दस्य पूज्यत्वसमर्थनेनार्थेनार्थान्तरं न्यस्यति रक्षेति ॥ तद्भगवान् । स्कन्द इत्यर्थः ॥ विधेयप्राधान्यानपुंसकनिर्देशः ॥ वासवस्येमा वासव्यः ॥ ``तस्येदमः'' इत्यण् ॥ तासां वासवीनामैन्द्रीणां चमूनां सेनानां रक्षया कारणेन । रक्षार्थमित्यर्थः ॥ षष्ठी हेतुप्रयोगे'' इति षष्ठी ॥ नवशशिभृता भगवता चन्द्रशेखरेण । वहतीति वहः ॥ पचाद्यच् ॥ हुतस्य वहो हुतवहो वह्निस्तस्य मुखे सम्भृतं सञ्चितं आदित्यमतिक्रान्तमत्यादित्यम् ॥ ``अत्यादयः क्रान्ताद्यर्थे द्वितीयया'' इति समासः ॥ तेजो हि साक्षाद्भगवतो हरस्यैव मूर्त्यन्तरमित्यर्थः । अतः पूज्यमिति भावः । मुखग्रहणं तु शुद्धत्वसूचनार्थम् । तदुक्तं शम्भुरहस्ये - ``गवां पश्चाद्विजस्याङ्घ्रियोगिनां त्वत्कवेर्वचः । परं शुचितमं विद्यान्मुखं स्त्रीवह्निवाजिनाम् ॥ ``इति ॥ ज्योतिर्लेखावलयि गलितं यस्य बर्हं भवानी पुत्रप्रेम्णा कुवलयदलप्रापि कर्णे करोति । धौतापाङ्गं हरशशिरुचा पावकेस्तं मयूरं पश्चादद्रिग्रहणगुरुभिर्गर्जितैर्नर्तयेथाः ॥ ४४॥ ज्योतिरिति ॥ ज्योतिषस्तेजसो लेखा राजयस्तासां बल्यं मण्डलं यस्यास्तीति तथोक्तम् । गलितं भ्रष्टम् । न तु लौल्यात्स्वयं छिन्नमिति भावः । यस्य मयूरस्य बर्हे पिच्छम् । ``पिच्छबर्हे नपुंसके'' इत्यमरः ॥ भवानी गौरी । पुत्रप्रेम्णा पुत्रस्नेहेन कुवलयस्य दलं पत्रं तत्प्रापि तद्योगि यथा तथा कर्णे करोति । दलेन सह धारयती-त्यर्थः । यद्वा कुवलयस्य दलप्रापि दलभाजि दलार्हे कर्णं करोति ॥ क्लिबन्तात्सप्तमी ॥ दलं परिहृत्य तत्स्थाने बर्हे धत्त इत्यर्थः ॥ नाथस्तु ``कुवलयदलक्षेपि'' इति पाठमनुसृत्य ``क्षेपो निन्दापसारणं वा इति'' व्याख्यातवान् ॥ हरशशिरुचा हरशिरश्चन्द्रिकया धौतापाङ्गं स्वतोऽपि शौक्ल्यादतिधवलितनेत्रान्तम् ॥ ``अपाङ्गौ नेत्रयोरन्तौ'' इत्यमरः ॥ पावकस्याग्नेरपत्यं पावकिः स्कन्दः ॥ ``अत इञ्'' इति इञ् ॥ तस्य तं पूर्वोक्तं मयूरं पश्चात्पुष्पाभिषेचनानन्तरमद्रेर्देवगिरेः कर्तुः ॥ ग्रहणेन गुहासङ्क्रमणेन गुरुभिः । प्रतिध्वानमहद्भिरित्यर्थः । ॥ गजितैर्नर्तयेथा नृत्यं कारय । मार्दङ्गिकभावेन भगवन्तं कुमारमुपासस्वेति भावः ॥ ``नर्तयेथाः'' इत्यत्र ``अणावकर्मकाच्चित्तवत्कर्तृकात्'' इत्यात्मनेपदापवादः । ``निगरणचलनार्थेभ्यश्च'' इति परस्मैपदं न भवति तस्य न पादम्याङ्यमाङ्यसपरिमुहरु चिन्नृतिवदवसः'' इति प्रतिषेधात् ॥ आराध्यैनं शरवणभवं देवमुल्लङ्गिताध्वा सिद्धद्वन्द्वैर्जलकणभयाद्द्वीणिभिर्मुक्तमार्गः । व्यालम्बेथाः सुरभितनयालम्भजां मानयिष्यन् स्रोतोमूर्त्या भुवि परिणतां रन्तिदेवस्य कीर्तिम् ॥ ४५॥ आराध्येति ॥ एनं पूर्वोक्तं शरा बाणतृणानि ॥ ``शरो बाणे बाणतृणे'' इति शब्दार्णवे ॥ तेषां वनं शरवणं ``प्रनिरन्तः शरे-'' इत्यादिना णत्वम् । तत्र भवो जन्म यस्य तं शरवणभवम् ॥ ``अवर्ज्यो बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः'' इति वामनः । अवर्ज्योऽगतिकत्वादाश्रयणीय इत्यर्थः ॥ देवं स्कन्दम् ॥ ``शरजन्मा षडाननः'' इत्यमरः ॥ आराध्योपास्य वीणिभिवणावद्भिः ॥ व्रीह्यादित्वादिनिः ॥ सिद्धद्वन्द्वैः सिद्धमिथुनैः । भगवन्तं स्कन्दमुपवीणयितुमागतैरिति भावः । जलकणभयात् । जलसेकस्य वीणाक्वणनप्रतिबन्धकत्वादिति भावः । मुक्तमार्गस्त्यक्तवर्मा सन्नुल्लङ्घिताध्वा । कियन्तमध्वानं गत इत्यर्थः । सुरभितनयानां गवामालम्भेन संज्ञपनेन जायत इति तथोक्ताम् । भुवि लोके स्रोतोमूर्त्या प्रवाहरूपेण परिणतां रूपविशेषमापन्नां रन्तिदेवस्य दशपुरपतेर्महाराजस्य कीर्तिम् । चर्मण्वत्याख्यां नदीमित्यर्थः । मानविष्यन्सत्कारयिष्यन्व्यालम्बेथाः । आलम्ब्यावतरेरित्यर्थः ॥ पुरा किल राज्ञो रन्तिदेवस्य गवालम्भेष्वेकत्र सम्भृताद्रक्त निष्यन्दाच्चर्मराशेः काचिन्नदी सस्यन्दे । सा चर्मण्वतीत्याख्यायत इति ॥ त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्प्रवाहम् । प्रेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टी- रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनीलम् ॥ ४६॥ त्वयीति ॥ शार्ङ्गिणः कृष्णस्य वर्णस्य कान्तेश्चौरे वर्णचौरे । तत्तुल्यवर्ण इत्यर्थः । त्वयि जलमादातुमवनते सति पृथुमपि दूरत्वात्तनुं सूक्ष्मतया प्रतीयमानं तस्याः सिन्धोश्चर्मण्वत्याख्यायाः प्रवाहम् । गगने गतिर्येषां ते गगनगतयः खेचराः सिद्धगन्धर्वादयः ॥ अयमपि बहुव्रीहिः पूर्ववज्जन्माद्युत्तरपदेषु द्रष्टव्यः ॥ नूनं सत्यं दृष्टीरावर्ज्य नियम्यैकमेकयष्टिकं स्थूलो महान्मध्यो मध्यमणीभूत इन्द्रनीलो यस्य तं भुवो भूमेर्मुक्तागुणं मुक्ताहारमिव प्रेक्षिष्यन्ते ॥ अत्रात्यन्तनीलमेघसङ्गतस्य प्रवाहस्य भूकण्ठमुक्तागुणत्वेनोत्प्रेक्षणादुत्प्रेक्षैवेय मितीवशब्देन व्यज्यते । निरुक्तकारस्तु ``तत्र तत्रोपमा यत्र इवशब्दस्य दर्शनम्'' इतीवशब्ददर्शनादत्राप्युपमैवेति बभ्राम ॥ तार्मुत्तीर्य व्रज परिचितभ्रूलताविभ्रमाणां पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशारप्रभाणाम् । कुन्दक्षेपानुगमधुकर श्रीमुषामात्मबिम्बं पात्रीकुर्वन्दशपुरवधूनेत्रकौतूहलानाम् ॥ ४७॥ तामिति ॥ तां चर्मण्वतीमुत्तीर्य भ्रुवो लता इव भ्रूलताः । उपमितसमासः । तासां विभ्रमा विलासाः परिचिताः क्लृप्ता येषु तेषां पक्ष्माणि नेत्रलोमानि ॥ ``पक्ष्म सूत्रे च सूक्ष्मांशे किञ्जल्के नेत्र लोमनि'' इति विश्वः ॥ तेषामुत्क्षेपादुन्नमनाद्धेतोः । कृष्णाश्च ताः शाराश्च कृष्णशारा नीलशबलाः ॥ ``वर्णो वर्णेन'' इति समासः ॥ ``कृष्णरक्तसिताः शाराः'' इति यादवः । ततश्च शारशब्दादेव सिद्धे कार्ष्ण्ये पुनः कृष्णपदोपादानं कार्ष्ण्यप्राधान्यार्थम् । रक्तत्वं तु न विवक्षितमुपमानानुसारात्तस्य स्वा भाविकस्य स्त्रीनेत्रेषु सामुद्रिकविरोधादितरस्याप्रसङ्गात् । क्वचिद्भावकथनं तूपपत्तिविषयम् ॥ उपरि विलसन्त्यः कृष्णशाराः प्रभा येषां तेषाम् । कुन्दानि माध्यकुसुमानि ॥ ``माध्यं कुन्दम्'' इत्यमरः । तेषां क्षेप इतस्ततश्चलनं तस्यानुग अनुसारिणो ये मधुकरास्तेषां श्रियं मुष्णन्तीति तथोक्तानाम् । क्षिप्यमाणकुन्दानुविधायिमधुकर कल्पानामित्यर्थः । दशपुरं रन्तिदेवस्य नगरं तस्य वध्वः स्त्रियः ॥ ``वधूर्जाया स्नुषा स्त्री च इत्यमरः ॥ तासां नेत्रकौतूहलानां नेत्राभिलाषाणाम् । साभिलाषदृष्टीनामित्यर्थः । आत्मबिम्बं स्वमूर्ति पात्रीकुर्वन्विषयीकुर्वन्त्रज गच्छ ॥ ब्रह्मावर्तं जनपदमथ च्छायया गाहमानः क्षेत्रं क्षत्रप्रधनपिशुनं कौरवं तद्भजेथाः । राजन्यानां सितशरशतैर्यत्र गाण्डीवधन्वा धारापातैस्त्वमिव कमलान्यभ्यवर्षन्मुखानि ॥ ४८॥ ब्रह्मावर्तमिति ॥ अथानन्तरं ब्रह्मावर्त नाम जनपदं देशम् ॥ अत्र मनुः - ``सरस्वतीदृषद्वत्योर्देवनद्योर्यदन्तरम् । तं देवनिर्मितं देशं ब्रह्मावर्त प्रचक्षते ॥ ``इति ॥ छाययानातपमण्डलेन गाहमानः प्रविशन्न तु स्वरूपेण ! पीठक्षेत्राश्रमादीनि परिवृत्यान्यतो व्रजेत्'' इति वचनात् । क्षत्रप्रधनपिशुनम् । अद्यापि शिरःकपालादिमत्तया कुरुपाण्डवयुद्धसूचकमित्यर्थः ॥ ``युद्धमायोधनं जन्यं मधनं प्रविदारणम्'' इत्यमरः ॥ तत्मसिद्धं कुरूणामिदं कौरवं क्षेत्रं भजेथाः । कुरुक्षेत्रं व्रजेत्यर्थः गाण्ड्यस्यास्तीति गाण्डीवं धनुर्विशेषः ॥ संज्ञायाम्'' इति मत्वर्थीयो वप्रत्ययः ॥ ``गाण्ड्यजगा-'' कपिध्वजस्य गाण्डीवगाण्डिवौ पुन्नपुंसकौ'' इत्यमरः ॥ तद्धनुर्यस्य स गाण्डीवधन्वाऽर्जुनः ॥ ``वा संज्ञायाम्'' इत्यनङादेशः ॥ सितशरशतैर्निशितबाणसहसै राजन्यानां राज्ञां मुखानि धाराणामुदकधाराणां पातैः कमलानि त्वमिवाभ्यवर्षदभिमुखं दृष्टवान् । शरवर्षेण शिरांसि विच्छेदेत्यर्थः ॥ हित्वा हालामभिमतरसां रेवतीलोचनाङ्कां बन्धुप्रीत्या समरविमुखो लाङ्गली याः सिषेवे । कृत्वा तासामभिगममपां सौम्य सारस्वतीना- मन्तः शुद्धस्त्वमपि भविता वर्णमात्रेण कृष्णः ॥ ४९॥ हित्वेति ॥ बन्धुप्रीत्या कुरुपाण्डवस्नेहेन । न तु भयेन । समरविमुखो युद्धनिःस्पृहः । लाङ्गलमस्यास्तीति लाङ्गली हलधरः । अभिमतरसामभीष्टस्वादां तथा रेवत्याः स्वप्रियाया लोचने एवाङ्कः प्रतिबिम्बितत्वाच्चिह्नं यस्यास्तां हालां सुराम् ॥ ``सुरा हलिप्रिया हाला'' इत्यमरः ॥ ``अभिप्रयुक्तं देशभाषापदमित्यत्र सूत्रे हालेति देशमाषापदमप्यतीव कविप्रयोगात्साधु'' इत्युदाजहार वामनः ॥ हित्वा त्यक्त्वा । दुस्त्यजामपीति भावः । याः सारस्वती-अपः सिषेवे । हे सौम्य सुभग, त्वं तासां सरस्वत्या नद्या इमाः सारस्वत्यस्तासामभिगमं सेवां कृत्वान्तोऽन्तरात्मनि शुद्धो निर्मलो निर्दोषो भविता ॥ ``ण्वुल्तृचौ'' इति तृच् ॥ अपि सद्य एव पूतो भविष्यसीत्यर्थः ॥ ``वर्तमानसामीप्ये वर्तमानवद्वा'' इति वर्तमानप्रत्ययः ॥ वर्णमाश्रेण वर्णेनैव कृष्णः श्यामः । न तु पापेनेत्यर्थः । अन्तः शुद्धिरेव सम्पाद्या न तु बाह्या । बहिःशुद्धोऽपि सूतवधप्रायश्चित्तार्थं सारस्वतसलिलसेवी तत्र भगवान्बलभद्र एव निदर्शनम् । अतो भवतापि सरस्वती सर्वथा सेवितव्येति भावः ॥ तस्माद्गच्छेरनुकनखलं शैलराजावतीर्णां जह्नो कन्यां सगरतनयस्वर्गसोपानपङ्क्तिम् । गौरीवक्त्रभ्रुकुटिरचनां या विहस्येव फेनैः शम्भोः केशग्रहणमकरोदिन्दुलग्नोर्मिहस्ता ॥ ५०॥ तस्मादिति ॥ तस्मात्कुरुक्षेत्रात्कनखलस्याद्रेः समीपेऽनुकनखलम् ॥ ``अनुर्यत्समया'' इत्यव्ययीभावः ॥ शैलराजाद्धिमवतोऽवतीर्णा सगरतनयानां स्वर्गसोपानपङ्किम् । स्वर्गप्राप्तिसाधनभूतामित्यर्थः । जह्नोर्नाम राज्ञः कन्यां जाह्नवीं गच्छेर्गच्छ ॥ विध्यर्थे लिङ् ॥ या जाह्नवी गौर्या वक्त्रे या भ्रुकुटिरचना सापत्न्यरोषादद्भ्रूभङ्गकरणं तां फेर्नैर्विहस्यावहस्येव ॥ धावल्यात्फेनानां हासत्वनोत्प्रेक्षा ॥ इन्दौ शिरोमाणिक्यभूते लग्ना ऊर्मय एव हस्ता यस्याः सेन्दुलग्नोमिंहस्ता सती शम्भोः केशग्रहणमकरोत् । यथा काचित्प्रौढा नायिका सपत्नीमसहमाना स्ववाल्लभ्यं प्रकटयन्ती स्वभर्तारं सह शिरोरत्नेन केशेष्वाकर्षति तद्वदिति भावः ॥ इदं च पुरा किल भगीरथमार्थनया भगवतीं गगनपथात्पतन्तीं गङ्गां गङ्गाधरो जटाजूटेन जाति कथामुपजीव्योक्तम् ॥ तस्याः पातुं सुरगज इव व्योम्नि पश्चार्धलम्बी त्वं चेदच्छस्फटिकविशदं तर्कथेस्तिर्यगम्भः । संसर्पत्या सपदि भवतः स्रोतसि च्छाययासौ स्यादस्थानोपगतयमुनासङ्गमेवाभिरामा ॥ ५१॥ तस्या इति ॥ सुरगज इव कश्चिद्दिग्गज इव व्योम्नि पश्चादर्थं पश्चार्धम् । पश्चिमार्धमित्यर्थः ॥ पृषोदरादित्वात्साधुः ॥ तेन लम्बत इति पश्चार्धलम्बी सन्पश्चार्धभागेन व्योम्नि स्थित्वा । पूर्वार्धेन जलोन्मुख इत्यर्थः । अच्छ स्फटिकविशदं निर्मलस्फटिकावदातं तस्या गङ्गाया अम्भस्तिर्यक्तिरश्चीनं यथा तथा पातुं त्वं तर्कयेविचारयेश्चेत् । सपदि स्रोतसि प्रवाहे संसर्पन्त्या सङ्क्रामन्त्या भवतश्छायया प्रतिबिम्बेनासौ गङ्गास्थाने प्रयागादन्यत्रोपगतः प्राप्तो यमुनासङ्गमो यया सा तथाभूतेवाभिरामा स्यात् ॥ आसीनानां सुरभितशिलं नाभिगन्धैर्मृगाणां तस्या एव प्रभवमचलं प्राप्य गौरं तुषारैः । वक्ष्यस्यध्वश्रमविनयने तस्य श‍ृङ्गे निषण्णः शोभां शुभ्रत्रिनयनषोखातपङ्कोपमेयाम् ॥ ५२॥ आसीनानामिति ॥ आसीनानामुपविष्टानां मृगाणां कस्तूरिकामृगाणाम् ॥ अन्यथा नाभिगन्धानुपपत्तेः ॥ नाभिगन्धैः कस्तूरीगन्धैस्तेषां तदुद्भवत्वात् । अत एव मृगगनाभिसंज्ञा च ॥ ``मृगनाभिर्मृगमदः कस्तूरी च'' इत्यमरः ॥ अथवा नाभयः कस्तूर्यः ॥ ``नाभिः प्रधाने कस्तूरीमदे च क्वचिदीरितः'' इति विश्वः ॥ तासां गन्धैः सुरभिताः सुरभीकृताः शिला यस्य तं तस्या गङ्गाया एव प्रभवत्यस्मादिति प्रभवः कारणम् । तुषारैगौरं सितम् ॥ अवदातः सितो गौरः इत्यमरः ॥ अचलं प्राप्य । विनीयतेऽनेनेति विनयनम् ॥ करणे ल्युट् ॥ अध्वश्रमस्य विनयनेऽपनोदके तस्य हिमाद्रेः श‍ृङ्गे निषण्णः सन् । शुभ्रो यस्त्रिनयनस्य त्र्यम्बकस्य वृषो वृषभः ॥ ``सुकृते वृषभे वृषः'' इत्यमरः ॥ तेनोत्खातेन विदारितेन पङ्केन सहो पमेयामुपमातुमर्हा शोभां वक्ष्यसि वोढासि ॥ वहतेऌट् ॥ ``त्रिनयन-'' इत्यत्र ``पूर्वपदात्संज्ञायामगः'' इति णत्वं न भवति ``क्षुभ्रादिषु च'' इति निषेधात् ॥ तस्याः प्रभवमित्यादिना हिमाद्रौ मेवस्य वैवाहिको गृहविहारो ध्वन्यते ॥ तं चेद्वायौ सरति सरलस्कन्धसङ्घट्टजन्मा बाधेतोल्काक्षपितचमरीबालभारो दवाग्निः । अर्हस्येनं शमयितुमलं वारिधारासहस्रै- रापन्नार्तिप्रशमनफलाः सम्पदो ह्युत्तमानाम् ॥ ५३॥ तमिति ॥ वायौ वनवाते सरति वाति सति सरलानां देवदारुद्रुमाणां स्कन्धाः प्रदेशविशेषाः ॥ ``अस्त्री प्रकाण्डः स्कन्धः स्यान्मूलाच्छाखावधेस्तरोः'' इत्यमरः ॥ तेषां सङ्घट्टनेन सङ्घर्षगेन जन्म यस्य स तथोक्तः ॥ जन्मोत्तरपदत्वाद्वचधिकरणोऽपि बहुव्रीहिः साधुरित्यक्तम् ॥ उल्काभिः स्फुलिङ्गैः क्षपिता निर्दग्धाश्वमरीणां बालभाराः केशसमूहा येन । दव एवाग्निर्दवाग्निर्वनवह्निः ॥ ``वने च वनवह्नौ च दवो दाव इतीष्यते'' इति यादवः ॥ तं हिमाद्रिं बाधेत चेत्पीडयेद्यदि । एनं दवाग्निं वारिधारासहस्रैः शमयितुमर्हसि ॥ युक्तं चैतदित्याह -उत्तमानाम्महतां सम्पदः समृद्धय आपन्नानामार्तनामार्तिप्रशमनमापनिवारणमेव फलं प्रयोजनं यासां तास्तथोक्ता हि । अतो हिमाचलस्य दावानलस्त्वया शमयितव्य इति भावः ॥ ये संरम्भोत्पतनरभसाः स्वाङ्गभङ्गाय तस्मिन् मुक्ताध्वानं सपदि शरभा लङ्घयेयुर्भवन्तम् । तान्कुर्वीथास्तुमुलकरकावृष्टिपातावकीर्णान् के वा न स्युः परिभवपदं निष्फलारम्भयत्नाः ॥ ५४॥ य इति ॥ तस्मिन्हिमाद्रौ संरम्भः कोपः ॥ ``संरम्भः सङ्क्रमे कोपे'' इति शब्दार्णवे ॥ तेनोत्पतन उत्प्लवने रभसो वेगो येषां ते तथोक्ताः ॥ ``रमसो वेगहर्षयोः'' इत्यमरः ॥ ये शरभा अष्टापद मृगविशेषाः ॥ शरभः शलभे चाष्टापदे प्रोक्तो मृगान्तरे'' इति विश्वः ॥ मुक्तोऽध्वा शरभोत्प्लवनमार्गों येन तं भवन्तं सपदि स्वाङ्गभङ्गाय लङ्घयेयुः ॥ सम्भावनायां लिङ् ॥ भवतोऽतिदूरत्वात्स्वाङ्गभङ्गाविरिक्तं फलं नास्ति लङ्घनस्येत्यर्थः । तान् शरभांस्तुमुलाः सङ्कुलाः करका वर्षोपलाः ॥ ``वर्षो पलस्तु करका'' इत्यमरः ॥ तासां वृष्टिस्तस्याः पातेनावकीर्णान्विक्षिप्तान्कुर्वीथाः कुरुष्व ॥ विध्यर्थे लिङ् ॥ क्षुद्रोऽप्यधिक्षिपन्प्रतिपक्षः सद्यः प्रतिक्षेप्तव्य इति भावः । तथाहि निष्फलायम्भरत्नाः आरम्भन्त इत्यारम्भाः कर्माणि तेषु यत्न उद्योगः स निष्पलो येषां ते तथोक्ताः । निष्कर्मोपक्रमा इत्यर्थः । अतः के वा परिभवपदं तिरस्कारपदं नं स्युर्न भवन्ति सर्व एव भवन्तीत्यर्थः ॥ यदत्र ``घनो पलस्तु करके'' इति यादववचनात्करकशब्दस्य नियतपुंलिङ्गताभिप्रायेण ``करकाणामावृष्टिः'' इति केषाञ्चिद्व्याख्यानं तदन्ये नानुमन्यन्ते । ``वर्षोपलस्तु करका इत्यमरवचन व्याख्याने क्षरिस्वामिना । ``कमण्डलौ च करकः सुगते च विनायके'' इति नानार्थे पुंस्यपि वक्ष्यतीति वदतोभयलिङ्गताप्रकाशनात् । यादवस्य तु पुंलिङ्गताविधाने तात्पर्यं न तु स्त्रीलिङ्गतानिषेध इति न तद्विरोधोऽपि । ``करकस्तु करञ्के स्याद्दाडिमे च कमण्डलौ । पक्षिभेदे करे चापि करका च घनोपले'' इति विश्वप्रका शवचने तूभयलिङ्गता व्यक्तैवेति न कुत्रापि विरोधवार्ता । अत एव रुद्रः-`वर्षोपलस्तु करका करकोऽपि च दृश्यते'' इति ॥ तत्र व्यक्तं दृषदि चरणन्यासमर्धेन्दुमौलेः शश्वत्सिद्धै परिचितबलिं भक्तिनम्रः परीयाः । यस्मिन्दृष्टे करणविगमादूर्ध्वमुद्धूतपापाः सङ्कल्पन्ते स्थिरगणपदप्राप्तये श्रद्दधानाः ॥ ५५॥ तत्रेति ॥ तत्र हिमाद्रौ द्रुषदि कस्यांविच्छिलायां व्यक्तं प्रकटं शश्वत्सदा सिद्धयोगिभिः ॥ ``सिद्धिर्निष्पत्तियोगयोः'' इति विश्वः ॥ उपचितबलि रचितपूजाविधिम् ॥ ``बलिः पूजोपहारयोः'' इति यादवः ॥ अर्धश्चासाबिन्दुश्चेत्यर्धेन्दुः ॥ ``अर्धः खण्डे समेंऽशके'' इति विश्वः ॥ स मौलौ यस्य तस्येश्वरस्य चरणन्यासं पादविन्यासम् । भक्तिः पूज्येष्वनुरागस्तया नम्रः सन्परीयाः प्रदक्षिणं कुरु ॥ परिपूर्वादिणो लिङ् ॥ यस्मिन्पादन्यासे दृष्टे सत्युद्भूतपापा निरस्तकल्मषाः सन्तः श्रद्दधाना विश्वसन्तः पुरुषाः । श्रद्धा विश्वासः । आस्तिक्य बुद्धिरिति यावत् । ``श्रदन्तरोरुपसर्गवद्वृत्तिर्वक्तव्या'' इति श्रत्पूर्वाद्दधातेः शानच् ॥ करणस्य क्षेत्रस्थ विगमादूर्ध्वं देहत्यागानन्तरम् ॥ ``करणं साधकतमं क्षेत्रगात्रेन्द्रियेषु च इत्यमरः ॥ स्थिरं शाश्वतं गणानां प्रमथानां पदं स्थानम् ॥ ``गणाः प्रमथसङ्ख्यौघाः'' इति वैजयन्ती । तस्य प्राप्तये सङ्कपन्ते समर्थ भवन्ति ॥ क्लृप्तेः पर्याप्तिवचनस्यालमर्थत्वात्तद्योगे ``नमःस्वस्ति-'' इत्यादिना चतुर्थी ॥ ``अलमिति पर्याप्त्यर्थग्रहणम्'' इति भाष्यकारः ॥ व्यक्तं व्यञ्जयामास शिवः श्रीचरणद्वयम् ॥ हिमाद्रौ शाम्भवादीनां सिद्धये सर्वकर्मणाम् ॥ दृष्ट्वा श्रीचरणन्यासं साधकः स्थितये तनुम् ॥ इच्छाधीनशरीरो हि विचरेच्च जगत्त्रयम् ॥ ``इति शम्भुरहस्ये ॥ शब्दायन्ते मधुरमनिलैः कीचकाः पूर्यमाणाः संसक्ताभिस्त्रिपुरविजयो गीयते किन्नरीभिः । निर्ह्रादस्ते मुरज इव चेत्कन्दरेषु ध्वनिः स्यात् सङ्गीतार्थो ननु पशुपतेस्तत्र भावी समग्रः ॥ ५६॥ शब्दायन्त इति ॥ हे मेघ, अनिलैः पूर्यमाणाः कीचका वेणुविशेषाः ॥ ``वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः'' इत्यमरः । ``कीचको दैत्यभेदे स्याच्छुष्कवंशे द्रुमान्तरे'' इति विश्वः ॥ मधुरं श्रुतिसुखं यथा तथा शब्दायन्ते शं कुर्वन्ति । स्वनन्तीत्यर्थः ॥ शब्दवैरकलहाभ्रकण्वमेधेभ्यः करणे'' इत्यादिना क्यङ् ॥ अनेन वंशवाद्य सम्पत्तिरुक्ता । संसक्ताभिः संयुक्ताभिर्वंशवाद्यानुषक्ताभिर्वा ॥ ``संरक्ताभिः'' इति पाठे संरक्तकण्ठीभिरित्यर्थः ॥ किन्नरीभिः किन्नरस्त्रीभिः । त्रयाणां पुराणां समाहारस्त्रिपुरम् ॥ तद्धितार्थोत्तरपद-'' इति समासः । पात्रादित्वान्नपुंसकत्वम् ॥ तस्य विजयो गीयते । कन्दरेषु दरीषु ॥ ``दरी तु कन्दरो वा स्त्री'' इत्यमरः ॥ ते तव निर्ह्रादो मुरजे वाद्यभेदे ध्वनिरिव । मुरजध्वनिरिवेत्यर्थः । स्याच्चेत्तार्हि तत्र चरणसमीपे पशुपतेर्नित्यसन्निहितस्य शिवस्य सङ्गीतम् ॥ ``तौर्यत्रिकं तु सङ्गीतं न्यायारम्भे प्रसिद्धके । तूर्याणां त्रितये च'' इति शब्दार्णवे ॥ तदेवार्थः सङ्गीतार्थः सङ्गीतवस्तु ॥ ``अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु'' इत्यमरः ॥ समग्रः सम्पूर्णो भावी ननु भविष्यति खलु ॥ भविष्यति गम्यादयः'' इति भविष्यदर्थे णिनिः ॥ प्रालेयादेरुपतमतिक्रम्य तांस्तान्न्विशेषान् हंसद्वारं भृगुपतियशोवर्त्म यत्क्रौञ्चरन्धम् । तेनोदीचीं दिशमनुसरे स्तिर्यगायामशोभी श्यामः पादो बलिनियमनाभ्युद्यतस्येव विष्णोः ॥ ५७॥ प्रालेयेति ॥ प्रालेयाद्रेर्हिमाद्रेरुपतरं तटसमीपे ॥ ``अव्ययं विभक्ति - ``इत्यादिना समीपार्थेऽव्ययीभावः ॥ ताम् । स्तान् ॥ विप्सायां द्विरुक्तिः ॥ विशेषान्द्रष्टव्यर्थान् ॥ ``विशेषोऽवयवे द्रव्ये द्रष्टव्योत्तमवस्तुनि'' इति शब्दार्णवे ॥ अतिक्रम्यानुसरेर्गच्छेरित्यनागतेन सम्बन्धः ॥ हंसानां द्वारं हंसद्वारम् ॥ मानसप्रस्थायिनो हंसाः क्रौञ्चरन्ध्रेण सञ्चरन्ते इत्यागमः ॥ भृगुपतेर्जामदग्न्यस्य यशोवर्त्म । यशःप्रवृत्तिकारणमित्यर्थः । यत्क्रौञ्चस्याद्रे रन्ध्रमस्ति तेन क्रौञ्चबिलेन बलेदैत्यस्य नियमने बन्धनेऽभ्युद्यवस्य प्रवृत्तस्य विष्णोर्व्यापकस्य त्रिविक्रमस्य श्यामः कृष्णवर्णः पाद इव तिर्यगायामेन क्षिप्रवेशनार्थं तिरश्चीनदैर्घ्येण शोभत इति तथाविधः सन्नुदीचीमुत्तरां दिशमनुसरेरनुगच्छ ॥ पुरा किल भगवतो देवाद्धूर्जटेर्धनुरुपनिषदमधीयानेन भृगुनन्दनेन स्कन्धस्य स्पर्धया क्रौञ्चशिखरिणमतिनिशितविशिखमुखेन हेलया मृत्पिण्डभेदं भित्त्वा तत एव क्रौञ्चक्रोडादेव सद्यः समुज्जृम्भिते कस्मिन्नपि यशःक्षीरनिधौ निखिलमपि जगज्जालमाप्लावितमिति कथा श्रूयते ॥ गत्वा चोर्ध्वं दशमुखभुजोच्छ्वासितप्रस्थसन्धेः कैलासस्य त्रिदशवनितादर्पणस्यातिथिः स्याः । श‍ृङ्गोच्छ्रायैः कुमुदविशदेर्यो वितत्य स्थितः खं राशीभूतः प्रतिदिनमिव त्र्यम्बकस्याट्टहासः ॥ ५८॥ गत्वेति ॥ क्रौञ्चबिलनिर्गमनानन्तरमूर्ध्वं च गत्वा दशमुखस्य रावणस्य भुजैर्बाहुभिरुच्छ्वासिता विश्लेषिताः प्रस्थानां सानूनां सङ्घयो यस्य तस्य ॥ एतेन नयनकौ तुकसद्भाव उक्तः ॥ त्रिर्दशपरिमाणमेषामस्तीति त्रिदशाः ॥ ``सङ्ख्ययाव्यया-'' इत्यादिना बहुव्रीहिः । ``बहुव्रीहौ सङ्ख्यये डच्-'' इत्यादिना समासान्तो डजिति क्षीरस्वामी ॥ त्रिदशानां देवानां वनितास्तासां दर्पणस्य ॥ कैलासस्य स्फटिकत्वाद्रजतत्वाद्वा बिम्बग्राहित्वेनेदमुक्तम् ॥ कैलासस्यातिथिः स्याः । यः कैलासः कुमुदविशदैर्मिर्मलैः श‍ृङ्गाणामुच्छ्रायैरौन्नत्यैः खमाकाशं वितत्य व्याप्य प्रतिदिनं दिने दिने राशीभूतस्त्र्यम्बकस्य त्रिलोचनस्याट्ट्सोऽतिहास इव स्थितः ॥ ``अट्टावतिशयक्षौमौ'' इति यादवः ॥ धावल्याद्धासत्वेनोत्प्रेक्षा । हासादीनां धावल्यं कविसमयसिद्धम् ॥ उत्पश्यामि त्वयि तटगते स्निग्धानाञ्जनाभे सद्यः कृत्तद्विरददशनच्छेदगौरस्य तस्य । शोभामद्रेः स्तिमितनयनप्रेक्षणीयां भवित्री- मंसन्यस्ते सति हलभृतो मेचके वाससीव ॥ ५९॥ उत्पश्यामीति ॥ स्निग्धं मसृणं भिन्नं मर्दितं च यदञ्जनं कज्जलं तस्यामेवाभा यस्य तस्मिंस्त्वयि तटगते सानुं गते सति सद्यः कृत्तस्य छिन्नस्य द्विरददशनस्य गजदन्तस्य छेदवद्भौरस्य धवलस्य तस्याद्रेः कैलासस्य मेचके श्यामले ॥ ``कृष्णे नीलासितश्यामकालश्वामलमेचकाः'' इत्यमरः ॥ वाससि वस्त्रेऽसन्यस्ते सति हलभृतो बलभद्रस्येव स्तिमिताभ्यां नयनाभ्यां प्रेक्षणीयां शोभां भवित्रीं भाविनीमुत्पश्यामि । शोभा भविष्यतीति तर्कयामीत्यर्थः ॥ श्रोती पूर्णोपमालङ्कारः ॥ हित्वा तस्मिन्भुजगवलयं शम्भुना दत्तहस्ता क्रीडाशैले यदि च विचरेत्पादचारेण गौरी भङ्गीभक्त्या विरचितवपुः स्तम्भितान्तर्जलौघः सोपानत्वं कुरु मणितटारोहणायाग्रयायी ॥ ६०॥ हित्वेति ॥ तस्मिन्क्रीडाशैले कैलासे ॥ ``कैलासः कनकाद्रिश्च मन्दरो गन्धमादनः । क्रीडार्थं निर्मिताः शम्भोदेवैः क्रीडाद्रयोऽभवन् ॥ ``इति शम्भुरहस्ये । शम्भुना शिवेन भुजग एव वलयः कङ्कणं हित्वा गौर्या भीरुत्वात्य क्त्वा दत्तहस्ता सती गौरी पादचारेण विचरेद्यदि तर्ह्य पुरोगतस्तथा स्तम्भितो घनीभावं प्रापितोऽन्तर्जलस्यौः प्रवाहो यस्य स तथाभूतः । भङ्गीनां पर्वणां भक्त्या रचनया विरचितवपुः कल्पितशरीरः सन् । मणीनां तटं मणितटं तस्यारोहणाय सोपानत्वं कुरु । सोपानभावं भजेत्यर्थः ॥ तत्रावश्यं वलयकुलिशोदट्टनोद्गीर्णतोयं नेष्यन्ति त्वां सुरयुवतयो यन्त्रधारागृहत्वम् । ताभ्यो मोक्षस्तव यदि सखे घर्मलब्धस्य न स्या- क्रीडालोलाः श्रवणपरुषैर्गर्जितैर्भाय येस्ताः ॥ ६१॥ तत्रेति । तत्र कैलासेऽवश्यं सर्वथा सुरयुवतयो वलयकुलिशानि कङ्कणकोटयः ॥ शतकोटिवाचिना कुलिशशब्देन कोटिमात्रं लक्ष्यते ॥ तैरुद्धट्टनानि प्रहारास्तैरुद्रीर्णमुत्सृष्टं तोयं येन तं त्वां यन्त्रेषु धारा यन्त्रधारास्तासां गृहत्वं कृत्रिमधारागृहत्वं नेष्यन्ति प्रापयिष्यन्ति ॥ हे सखे मित्र, घर्मे निदाघे लब्धस्य ॥ घर्मलब्धत्वं चास्य देवभूमिषु सर्वदा सर्वर्तुसमाहारात्प्राथमिक मेघत्वाद्वा । यथोक्तं ``आषाढस्य प्रथम-'' इति ॥ तव ताभ्यः सुरयुवतिभ्यो मोक्षो न स्याद्यदि तदा क्रीडालोलाः क्रीडासक्ताः । प्रमत्ता इत्यर्थः । ताः सुरयुवतीः श्रवणपरुषैः कर्णकटुभिर्गर्जितैः करणैर्भाययेस्त्रासयेः । अत्र हेतुभयाभावादात्मनेपदं षुगागमश्च न ॥ हेमाम्भोजप्रसवि सलिलं मानसस्याददानः कुर्वन्कामं क्षणमुखपटप्रीतिमैरावतस्य । धुन्वन्कल्पद्रुमकिसलयान्यंशुकानीव वात- र्नानाचेष्टैर्जलद ललितैर्निर्विशेस्तं नगेन्द्रम् ॥ ६२॥ हेमेति ॥ हे जलद, हेमाम्भोजानां प्रसवि जनकम् ॥ ``जिदृक्षि-'' इत्यादिनेनिप्रत्ययः ॥ मानसस्य सरसः सलिलमाददानः । पिबन्नित्यर्थः । तथैरावतस्येन्द्रगजस्य । कामचारित्वाद्वा शिवसेवार्थमिन्द्रागमनाद्वा समागतस्येति भावः । क्षणे जलादानकाले मुखे पटेन या प्रीतिस्तां कुर्वन् । तथा कल्पद्रुमाणां किसलयानि पल्लवभूतान्यंशुकानि सूक्ष्मवस्त्राणीव ॥ ``अंशुकं वस्त्रभात्रे स्यात्परिधानोत्तरीययोः । सूक्ष्मवस्त्रे नाऽतिदीप्तौ'' इति शब्दार्णवे ॥ वातैर्मेववातैर्धुन्वन् । नाना बहुविधाश्चेष्टास्तोयपानादयो येषु तैर्ललितैः क्रीडितैः ॥ ``ना भावभेदे स्त्रीनृत्ये ललितं त्रिषु सुन्दरे । अस्त्रियां प्रमदागारे क्रीडिते जातपल्लवे'' इति शब्दार्णवे ॥ तं नगेन्द्रं कैलासं कामं यथेष्टं निर्विशेः समुपभुङ्क्ष्व ॥ ``निर्देशो भृतिभोगयोः'' इत्यमरः । यथेच्छविहारो मित्रगृहेषु मैत्र्याः फलम् । सहजमित्रं च ते कैलासः । मेघपर्वतयोरब्जसूर्ययोरब्धिचन्द्रयोः शिखिजीमूतयोः समीराग्ज्योर्मित्रता स्वयमिति भावः ॥ तस्योत्सङ्गे प्रणयिन इव स्रस्तगङ्गादुकूलां न त्वं दृष्ट्वा न पुनरलकां ज्ञास्यसे कामचारिन् । या वः काले वहति सलिलोद्गारमुच्चैर्विमाना मुक्ताजालग्रथितमलकं कामिनीवाभ्रवृन्दम् ॥ ६३॥ तस्येति ॥ प्रणयिनः प्रियतमस्येव तस्य कैलास स्यो त्सङ्ग ऊर्ध्वभागे कटौ च ॥ ``उत्सङ्गो मुक्तसंयोगे सक्थन्यूर्ध्वतलेऽपि च'' इति मालतीमालायाम् ॥ गङ्गा दुकूलम शुभ्रवस्त्रमिवेत्युपमितसमासः ॥ ``दुकूलं सूक्ष्म वस्त्रेस्यादुत्तरीये सितांशुके'' इति शब्दार्णवे ॥ अन्यत्र तु गङ्गैव दुकूलम् ॥ तत्स्रस्तं यस्यास्तां तथोक्तामलकां कु बेरनगरीं दृष्ट्वा । कामिनीमिवेति शेषः । हे कामचारिन्, त्वं पुनस्त्वं तु न ज्ञास्यस इति न । किं तु ज्ञास्यस एवेत्यर्थः ॥ कामचारिणस्ते पूर्वमपि बहुकृत्वो दर्शन सम्भावादज्ञानमसम्भावितमेवेति निश्चयार्थं नञ्द्वयप्रयोगः । तदुक्तम्᳚स्मृतिनिश्चयसिद्ध्यर्थेषु नद्वयप्रयोगः'' इति ॥ उच्चै रुन्नतानि विमानानि सप्तभूमिकभवनानि यस्यां सा ॥ ``विमानोऽस्त्री देवयाने सप्तभूमौ च सद्मनि'' इति यादवः ॥ मेघसंवाहनस्थानसूचनार्थमिदं विशेषणम् ॥ अन्यत्र विमाना निष्कोपा या अलका । वो युष्माकं काले । मेघकाल इत्यर्थः ॥ कालस्य सर्वमेघसाधारण्याद्व इति बहुवचनम् ॥ सलिलमुद्गिरतीति सलिलोद्गारम् । स्रवत्सलिलधारामित्यर्थः ॥ अभ्रवृन्दं मेघकदम्बकं कामिनी स्त्री मुक्ताजालैमौक्तिकसरैर्ग्रथितं प्रत्युप्तम् ॥ ``पुंश्चल्या मौक्तिके मुक्ता'' इति यादवः ॥ अलकमिव चूर्णकुन्तलानीव ॥ जातावे कवचनम् ॥ ``अलकाश्चूर्णकुन्तलाः'' इत्यमरः ॥ वहति बिभर्ति ॥ अत्र कैलासस्यानुकूलनायकत्व मलकायाश्च स्वाधीनपतिकाख्यनायिकात्वं ध्वन्यते । ``एकायत्तोऽनुकूलः स्यात्'' इति । ``प्रियोपलालिता नित्यं स्वाधीनपतिका मता इति च लक्षयन्ति । उदाहरन्ति च - लालयन्नलकप्रान्तान्रचयन्पत्रमञ्जरीन् । एकां विनोदयन्कान्तां छायावदनुवर्तते ॥ ``इति ॥ इति श्रीमहोपाध्याय मल्लिनाथसूरिविरचितया सञ्जीविनीसमाख्यया व्याख्यया समेतो महाकविश्रीकालिदासविरचिते मेघदूते काव्ये पूर्वमेघः समाप्तः ।

मेघदूतं उत्तरमेघः

विद्युत्वन्तं ललितवनिताः सेन्द्रचापं सचित्राः सङ्गिताय प्रहतमुरजाः स्निग्धगम्भीर घोषम् । अन्तस्तोयं मणिमयभुवस्तुङ्गमभ्रंलिहाग्राः- प्रासादास्त्वां तुलयितुमलं यत्र तैस्तैर्विशेषैः ॥ १॥ विद्युत्वन्तमिति ॥ यत्रालकायां ललिता रम्या वनिताः स्त्रियो येषु ते । सह चित्रैर्वर्तन्त इति सचित्राः ॥ ``आलेख्याश्चर्ययोश्चित्रम्'' इत्यमरः ॥ ``तेन सहेति तुल्ययोगे'' इति बहुव्रीहिः । ``वोपसर्जनस्य'' इति सहशब्दस्य समासः ॥ सङ्गीताय तौर्यत्रिकाय प्रहतमुरजास्ताडितमृदङ्गाः ॥ ``मुरजा तु मृदङ्गे स्याङ्कक्कामुरजयोरपि'' इति शब्दार्णवे ॥ मणिमया मणिविकारा भुवो येषु । अभ्रं लिहन्तीत्यभ्रंलिहान्यभ्रं कषाणि ॥ ``वहाभ्रे लिहः'' इति खश्प्रत्ययः । ``अरुर्द्विष-'' इत्यादिना मुमागमः ॥ अग्राणि शिखराणि येषां ते तथोक्ताः । अतितुङ्गा इत्यर्थः । प्रासादा देवगृहाणि ॥ ``प्रासादो देवभूभुजाम्'' इत्यमरः ॥ विद्युतोऽस्य सन्तीति विद्युत्वन्तम् । सेन्द्रचापमिन्द्रचापवन्तम् । स्निग्धः श्राव्यो गम्भीरो घोषो गर्जितं यस्य तम् । अन्तरन्तर्गतं तोयं यस्य तम् । तुङ्गमुन्नतं त्वां तैस्तैर्विशेषैर्ललितवनितत्वादिधर्मैस्तुलयितुं समीकर्तुमलं पर्याप्ताः ॥ ``अलं भूषणपर्याप्तिशक्तिवारणवाचकम्'' इत्यमरः ॥ अत्रोपमानोपमेयभूतमेघप्रासादधर्माणां विद्युद्वनितादीनां यथासङ्ख्यमन्योन्यसादृश्यान्मेघप्रासादयोः साम्यसिद्धिरिति । बिम्बप्रतिबिम्बभावेनेयं पर्णोपमा । वस्ततो भिन्नयोः परस्परसादृश्यादभिन्नयोरुपमानोपमेयधर्मयोः पृथगुपादानाद्विम्बप्रतिबिम्बभावः ॥ सम्प्रति सर्वदा सर्वर्तुसम्पत्तिमाह- हस्ते लीलाकमलमलके बालकुन्दानुविद्धं नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीः । चूडापाशे नवकुरबकं चारु कर्णे शिरीषं सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम् ॥ २॥ हस्त इति ॥ यत्रालकायां वधूनां स्त्रीणां हस्ते लीलार्थं कमलं लीलाकमलम् ॥ शरल्लिङ्गमेतत् । तदुक्तम्-`शरत्पङ्कजलक्षणा'' इति ॥ अलके कुन्तले ॥ जातावेकवचनम् ॥ अलकेष्वित्यर्थः । बालकुन्दैः प्रत्यग्रमाघ्यकुसुमैरनुविद्धम् । अनुवेध ग्रन्थनम् ॥ नपुंसके भावे क्तः ॥ यद्यपि कुन्दानां शैशिरत्वमस्ति ``माघ्यं कुन्दम्'' इत्यभिधानात्तथापि हेमन्ते प्रादुर्भावः शिशिरे प्रौढत्वमिति व्यवस्थाभेदेन हेमन्तकार्यत्वमित्याशयेन बालेति विशेषणम् ॥ ``अलकम्'' इति प्रथमान्तपाठे सप्तमी प्रक्रम भङ्गः स्यात् । नाथस्तु नियतपुंलिङ्गताहानिश्चेइति दोषान्तरमाह । तदसत् । ``स्वभाववक्राण्यलकानि तासां'' । ``निर्धूतान्यलकानि पातितमुरः कृत्स्नोऽधरः खण्डितः'' इत्यादिषु प्रयोगेषु नपुंसकलिङ्गतादर्शनात् ॥ आनने मुखे लोघ्रप्रसवानां लोघ्रपुष्पाणां शैशिराणां रजसां परागेण ॥ ``प्रसवस्तु फले पुष्पे वृक्षाणां गर्भमोचने'' इति विश्वः ॥ पाण्डुतां नीता श्रीः शोभा । चूडापाशे केशपाशे नवकुर बकं वासन्तः पुष्पविशेषः । कर्णे चारु पेशल शिरीषं गैष्मः पुष्पविशेषः । सीमन्ते मस्तक केशवी ध्याम् ॥ ``सीमन्तमस्त्रियां मस्तकेशवीथ्या मुदाहृतम्'' इति शब्दार्णवे ॥ तवोपगमः । मेवागम इत्यर्थः । तत्र जातं त्वदुपगमजम् । वार्षिकमित्यर्थः । नीपं कदम्बकुसुमम् । सर्वत्रास्तीति शेषः अस्तिर्भवतिपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्तीतिन्यायात् । इत्थं कमलकुन्दादि तत्तत्कार्यसमाहाराभिधानादर्थात्सर्वर्तु समाहारसिद्धिः । कारणं विना कार्यस्यासिद्धेरिति भावः ॥ यत्रोन्मत्तभ्रमरमुखराः पादपा नित्यपुष्पा हंसश्रेणीरचितरशना नित्यपद्मा नलिन्यः । केकोत्कण्ठा भवनशिखिनो नित्यभास्वत्कलापा नित्यज्योत्स्नाः प्रतिहततमोवृत्ति रम्याः प्रदोषाः ॥ यत्रेति ॥ यत्रालकायां पादपा वृक्षाः । नित्यानि पुष्पाणि येषां ते तथा । न त्वृतुनियमादिति भावः । अत एवोन्मत्तैर्भ्रमरैर्मुखराः शब्दायमानाः । नलिन्यः पद्मिन्यो नित्यानि पद्मानि यासां तास्तथा न तु हेमन्तवर्जितमित्यर्थः । अत एव हंसश्रेणीभी रचितरशनाः । नित्यं हंसपरिवेष्टिता इत्यर्थः । भवनशिखिनः क्रीडामयूरा नित्यं भास्वन्तः कलापा बर्हाणि येषां ते तथोक्ताः । न तु वर्षास्वेव । अत एव केकाभिरुत्कण्ठा उद्ग्रीवाः । प्रदोषा रात्रयो नित्या ज्योत्स्ना येषां ते । न तु शुक्लपक्ष एव । अत एव प्रतिहता तमसां वृत्तिर्व्याप्तिर्येषां ते च ते रम्याश्चेति तथोक्ताः ॥ आनन्दोत्थं नयनसलिलं यत्र नान्यैर्निमित्तै र्नान्यस्तापः कुसुमशरजादिष्टसंयोग साध्यात् । नाप्यन्यस्मात्प्रणयकलहाद्दिप्रयोगोपपत्ति वित्तेशानां न च खलु वयो यौवनादन्यदस्ति ॥ आनन्देति ॥ यत्रालकायां वित्तेशानां यक्षाणाम् ॥ ``वित्ताधिपः कुबेरः स्यात्प्रभौ धनिकयक्षयोः'' इति शब्दार्णवे ॥ आनन्दोत्थमानन्दजन्यमेव नयनसलिलम् । अन्यैर्निमित्तैः शोकादिभिर्न । इष्टसंयोगेन प्रियजनसमागमेन साध्यान्निर्वर्तनीयात् । न त्वप्रतीकार्यादित्यर्थः । कुसुमशरजान्मदनशरजादन्यस्तापो नास्ति । प्रणयकलहादन्यस्मात्कारणाद्विप्रयोगोपपत्तिर्विरहमाप्तिरपि नास्ति । किं च यौवनादन्यद्वयो वार्धकं नास्ति ॥ श्लोकद्वयं प्रक्षिप्तम् ॥ यस्यां यक्षाः सितमणिमयान्येत्य हर्म्यस्थलानि ज्योतिश्छायाकुसुमरचितान्युत्तमस्त्री सहायाः । आसेवन्ते मधु रतिफलं कल्पवृक्षप्रसूतं त्वद्गम्भीर ध्वनि शनकैः पुष्करेष्वाहतेषु ॥ ३॥ यस्यामिति ॥ यस्यामलकायां यक्षा देवयोनिविशेषा उत्तमस्त्रीसहाया ललिताङ्गनासहचराः सन्तः सितमणिमयानि स्फटिकमणिमयानि चन्द्रकान्तमयानि वा । अत एव ज्योतिषां तारकाणां छायाः प्रतिबिम्बान्येव कुसुमानि तै रचितानि परिष्कृतानि ॥ ``ज्योतिस्ताराग्निभाज्यालादृक्पुत्रार्थाध्वरात्मसु'' इति वैजयन्ती ॥ एतेन पानभूमेरम्लानशोभत्वमुक्तम् । हर्म्यस्थलान्येत्य प्राप्य । त्वद्गम्भीरध्वनिरिव ध्वनिर्येषां तेषु पुष्करेषु वाद्यभाण्डमुखेषु ॥ ``पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले'' इत्यमरः ॥ शनकैर्मन्दमाहतेषु सत्सु ॥ एतच्च नृत्यगीतयोरप्युपलक्षणम् ॥ कल्पवृक्षप्रसूतं कल्पवृक्षस्य काङ्क्षितार्थप्रदत्वान्मध्वपि तत्र प्रसृतम् । रतिः फलं यस्य तद्रतिफलाख्यं मधु मद्यमासेवन्ते । आदृत्य पिबन्तीत्यर्थः ॥ ``तालक्षीरसितामृतामलगुडोन्मत्तास्थिकालाह्व्ह्यादर्विन्द्रद्रुममोरटेक्षुकदलीगुग्लुमसूनैर्युतम् । इत्थं चेन्मधुपुष्पभङ्गयुपचितं पुष्पद्रुमूलावृतं क्वाथेन स्मरदीपनं रतिफलाख्यं स्वादु शीतं मधु ॥ ``इति मदिरार्णवे ॥ मन्दाकिन्याः सलिलशिशिरैः सेव्यमाना मरुद्भि- र्मन्दाराणामनुतटरुहां छायया वारितोष्णाः । अन्वेष्टव्यैः कनकसिकतामुष्टिनिक्षेपगूढैः सङ्क्रीडन्ते मणिभिरमरप्रार्थिता यत्र कन्याः ॥ ४॥ मन्दाकिन्या इति ॥ यत्रालकायाममरैः प्रार्थिताः । सुन्दर्य इत्यर्थः । कन्या यक्षकुमार्यः ॥ ``कन्या कुमारिकानार्योः'' इति विश्वः ॥ मन्दाकिन्या गङ्गायाः सलिलेन शिशिरैः शीतलैर्मरुद्भिः सेव्यमानाः सत्यः । तथाऽनुतटं तटेषु रोहन्तीत्यनुतटरुहः ॥ क्विप् ॥ तेषां मन्दाराणां छाययानतपेन वारितोष्णाः शमितातपाः सत्यः कनकस्य सिकतासु मुष्टिभिर्निक्षेपेण गूढैः संवृतैरत एवान्वेष्टव्यैर्मृग्यैर्म णिभी रत्नैः सङ्क्रीडन्ते । गुप्तमणिसंज्ञया दैशिकक्रीडया सम्यक्क्रीडन्तीत्यर्थः ॥ क्रीडोस्नुसम्परिभ्यश्च'' इत्यात्मनेपदम् ॥ ! ``रत्नादिभिर्वालुकादौ गुप्तैर्द्रष्टव्यकर्मभिः । कुमारीभिः कृता क्रीडा नाम्ना गुप्तमणिः स्मृता ॥ रासकीडा गूढमणिर्गुडा गूढमणिर्गुप्त केलिस्तु लायनम् । पिच्छकन्दुकदण्डाद्यैः स्मृता दैशिककेलयः'' इति शब्दार्णवे ॥ नीवीबन्धोच्छ्वसितशिथिलं यत्र बिम्बाधराणां क्षौमं रागादनिभूतकरेष्वाक्षिपत्सु प्रियेषु । अर्चिस्तुङ्गानभिमुखमपि प्राप्य रत्नप्रदीपान् ह्रीमूढानां भवति विफलप्रेरणा चूर्णमुष्टिः ॥ ५॥ नीवीति ॥ यत्रालकायामनिभृतकरेषु चपलहस्तेषु प्रियेषु । नीवी वसनग्रन्थिः ॥ ``नीवी परिपणे ग्रन्थौ स्त्रीणां जघनवाससि'' इति विश्वः ॥ सैव बन्धो नीवीबन्धः ॥ चूतवृक्षवदपौनरुक्त्यम् ॥ तस्योच्छ्वसितेन त्रुटितेन शिथिलं क्षौमं दुकूलं रागादा क्षिपत्स्वाहरत्सु सत्सुं ह्रीमूढानां लज्जाविधुराणाम् । बिम्बं बिम्बिकाफलम् ॥ ``बिम्बं फले बिम्बिकायाः प्रतिबिम्बे च मण्डले'' इति विश्वः ॥ बिम्बमिवाधरो यासां तासां बिम्बाधराणां स्त्रीविशेषाणाम् ॥ ``विशेषाः कामिनीकान्ताभीरुविम्बाधराङ्गनाः शब्दार्णवे ॥ चूर्णस्य कुङ्कुमादेर्मुष्टिः । अर्चिर्भिर्मयूखैस्तुङ्गन् ॥ ``अचिर्मयूखशिखयोः'' इति विश्वः ॥ रत्नान्येव प्रदीपानभिमुखं यथा तथा प्राप्यापि विफलप्रेरणा दीपनिर्वापिणाक्षमत्वान्निष्फलक्षेपा भवति । अत्राङ्गनानां रत्त्रपदीपनिर्वापणप्रवृत्त्या मौग्ध्यं व्यज्यते ॥ इति नेत्रा नीताः सततगतिना यद्विमानाग्रभूमी- रालेख्यानां नवजलकणैर्दोषमुत्पाद्य सद्यः । शङ्कास्पृष्टा इव जलमुचस्त्वादृशो जालमार्गै र्धूमोद्गारानुकृतिनिपुणा जर्जरा निष्पतन्ति ॥ ६॥ नेत्रेति ॥ हे मेघ, नेत्रा प्रेरकेण सततगतिना सदागतिना वायुना ॥ ``मातरिश्वा सदागतिः'' इत्यमरः ॥ यस्या अलकाया विमानानां सप्तभूमिकभवनानामग्रभूमीरुपरिभूमिका नीताः प्रापिताः । त्वामेव दृश्यन्त इति त्वादृशः । त्वत्सदृशा इत्यर्थः ॥ ``त्यदादिषु दृशोऽनालोचने कञ्च'' इति कञ्प्रत्ययः ॥ जलमुचो मेघाः । आलेख्यानां सचित्राणाम् ॥ ``चित्रं लिखितरूपाढ्यं स्यादालेख्यं तु यत्नतः'' इति शब्दार्णवे ॥ नवजलकणैर्दोषं स्फोटनमुत्पाद्य सद्यः शङ्कास्पृष्टा इव सापराधत्वाद्भयाविष्टा इव शङ्का वितर्कभययोः इति शब्दार्णवे ॥ धूमोद्गारस्य धूम निर्गमस्यानुकृतानुकरणे निपुणाः कुशला जर्जरा विशीर्णाः सन्तो जालनमार्गैर्गवाक्षरन्धैर्निष्पतन्ति निष्क्रामन्ति ॥ यथा केनचिदन्तःपुरसञ्चारवता दूतेन गूढवृत्त्या रहस्यभूमिं प्रापितास्तत्र स्त्रीणां व्यभिचारदोषमुत्पाद्य सद्यः साशङ्काः क्लृप्तवेशान्तरा जाराः क्षुद्रमार्गैर्निष्क्रामन्ति तद्वदिति ध्वनिः । प्रकृतार्थे शङ्कास्पृष्टा इवेत्युत्प्रेक्षा ॥ यत्र स्त्रीणां प्रियतमभुजालिङ्गनोच्छवासिताना- मङ्गग्लानिं सुरतजनितां तन्तुजालावलम्बाः । त्वरसंरोधापगमविशदैश्चन्द्रपादैर्निशीथे व्यालुम्पन्ति स्फुटजललवस्यन्दिनश्चन्द्रकान्ताः ॥ ७॥ यत्रेति ॥ यत्रालकायां निशीथेऽर्धरात्रे ॥ ``अर्धरात्रनिशीथौ द्वौ'' इत्यमरः ॥ तत्संरोधस्य मेघावरणस्पापगमेन विशदैर्निर्मलैश्चन्द्रपादैश्चन्द्ररश्मिभिः ॥ ``पादा रश्म्यङ्गितुर्याशां'' इत्यमरः ॥ स्फुटजललवस्यन्दिन् उल्बणाम्बुकण स्राविणस्तन्तुजालावलम्बा वितानलम्बिसूत्रपुञ्जाधाराः । तद्गुणगुम्फिता इत्यर्थः । चन्द्रकान्ताश्चन्द्रकान्तमणयः । प्रियतमानां भुजैरालिङ्गनेषूच्छ्वासितानां प्रशिथिलीकृतानाम् । श्रान्त्या जलसेकाय वा शिथिलतालिङ्गनानामिति यावत् । स्त्रीणां सुरतजनितामङ्गग्लानिं शरीरखेदम् । अवयवानां ग्लानतामिति यावत् । व्यालुम्पन्त्यनुदन्ति ॥ अक्षय्यान्तर्भवननिधयः प्रत्यहं रक्तकण्ठै- रुद्गायद्भिर्धनपतियशः किन्नरैर्यत्र सार्धम् । वैभ्राजाख्यं विबुधवनितावार मुख्यासहाया बद्धालापा बहिरुपवनं कामिनो निर्विशन्ति ॥ ८॥ अक्षय्येति । यत्रालकायाम् । क्षेतुं शक्याः क्षय्याः ॥ ``क्षय्यजय्यौ शक्यार्थे'' इति निपातः । ततो नञ्समासः ॥ भवनानामन्तरन्तर्भवनम् ॥ ``अव्ययं विभक्ति-'' इत्यादिनाव्ययीभावः ॥ अक्षय्या अन्तर्भवने निधयो येषां ते तथोक्ताः ॥ यथेच्छाभोगसम्भावनार्थमिदं विशेषणम् ॥ विबुधवनिता अप्सरसस्ता एव वारमुख्या वेश्यास्ता एव सहाया येषां ते तथोक्ताः ॥ ``वारस्त्री गणिका वेश्या रूपाजीवाथसा जनैः । सत्कृता वारमुख्या स्यात्'' इत्यमरः ॥ बद्धालापाः सम्भावितसंलापाः कामिनः कामुकाः प्रत्यहमहन्यहनि ॥ ``अव्ययं विभक्ति-'' इत्यादिना समासः ॥ रक्तो मधुरः कण्ठः कण्ठध्वनिर्येषां ते तैः सुन्दरकण्ठध्वनिभिर्धनयतियशः कुबेरकीर्तिमुद्रायद्भिरुच्चैर्गायनशीलैः । देवगानस्य गान्धारग्रामत्वात्तारतरं गायद्भिरित्यर्थः ॥ किन्नरैः सार्धं सह । विभ्राजस्येदं वैभ्राजम् । वैभ्राजमित्याख्या यस्य तद्वै भ्राजाख्यम् ॥ ``विभ्राजेन गणेन्द्रेण त्रातं वैभ्रा जमाख्यया'' इति शम्भुरहस्ये ॥ चैत्ररथस्य नामान्तरमेतत् । बहिरुपवनं ब्राह्योद्यानं निर्विशन्त्यनुभवन्ति ॥ गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः पत्रच्छेदैः कनककमलैः कर्णविभ्रंशिभिश्च । मुक्ताजालैः स्तनपरिसरच्छिन्नसूत्रैश्च हांरै- र्नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥ ९॥ गतीति ॥ यत्राकायां कामिनीनामभिसारिकाणाम् । निशि भवो नैशो मार्गः सवितुरुदये सति गत्या गमनेनोत्कम्पश्चलनं तस्माद्धेतोरलकेभ्यः पतितैर्मन्दारपुष्पैः सुरतरुकुसुमैः । तथा पत्राणां पत्रलतानां छेदैः खण्डैः । पतितैरिति शेषः ॥ तथा कर्णेभ्यो विभ्रश्यन्तीति कर्णविभ्रंशीनि तैः कनकस्य कमलैः ॥ षष्ट्या विवक्षितार्थलाभे सति मयटा विग्रहेऽध्याहारदोषः । एवमन्यत्राप्यनुसन्धैयम् ॥ तथा मुक्ताजालै मौक्तिकसरैः । शिरोनिहितैरित्यर्थः । तथा स्तनयोः परिसरः प्रदेशस्तत्र छिन्नानि सूत्राणि येषां तैर्हारैश्च सूच्यते ज्ञाप्यते । मार्गपतितमन्दारकुसुमादिलिङ्गैरयमभिसारिकाणां पन्था इत्यनुमीयत इत्यर्थः ॥ मत्वा देवं धनपतिसखं यत्र साक्षादसन्तं प्रायश्चापं न वहति भयान्मन्मथः षट्पदज्यम् । सभ्रूभङ्गप्रहितनयनैः कामिलक्ष्येष्वमोघै- स्तस्यारम्भश्चतुरवनिताविभ्रमैरेव सिद्धः ॥ १०॥ मत्वेति ॥ यत्रालकायां मन्मथः कामः । धनपतेः कुबेरस्य सखेति धनपतिसखः ॥ ``राजाहः सखिभ्यष्टच्'' । तं देवं महादेव साक्षाद्वसन्तं सखि स्नेहान्निजरूपेण वर्तमानं मत्वा ज्ञात्वा भयाद्भाले क्षणभयात्षट्पदा एव ज्या मौर्वी यस्य तं चापं प्रायः प्राचुर्येण न वहति न बिभर्ति । कथं तर्हि तस्य कार्यसिद्धिरताह-सभ्रूभङ्गेति ॥ तस्य मन्मथस्यारम्भः कामिजनविजयव्यापारः सभ्रूभङ्ग प्रहितानि प्रयुक्तानि नियुक्तानि नयनानि दृष्टयो येषु तैस्तथोक्तैः कामिन एव लक्ष्याणि तेष्वमोधैः । सफल प्रयोगैरित्यर्थः ॥ मन्मथचापोऽपि क्वचिदपि मोघः स्यादिति भावः ॥ चतुराश्च ता वनिवाश्च तासां विभ्रमैर्विलासैरेव सिद्धो निष्पन्नः । यदनर्थङ्करं पाक्षिकफलं च तत्प्रयोगाद्वरं निश्चितसाधनप्रयोग इति भावः ॥ ``कचधार्यं देहधार्यं परिधेयं विलेपनम् । चतुर्धा भूषणं प्राहुः स्त्रीणामन्यच्च दैशिकम् ॥ इति रसाकरे । तदेवैतदाह- वासश्चित्रं मधु नयनयोर्विभ्रमादेशदक्षं पुष्पोद्भेदं सह किसलयैर्भूषणानां विकल्पान् । लाक्षारागं चरणकमलन्यासयोग्यं च यस्या- मेकः सूते सकलमबलामण्डनं कल्पवृक्षः ॥ ११॥ वास इति ॥ यस्यामलकायां चित्रं नानावर्णं वासो वसनम् । परिधेयमण्डनमेतत् । नयनयोर्विभ्रमाणामादेश उपदेशे दक्षम् । अनेन विभ्रमद्वारा मधुनो मण्डनत्वमनुसन्धेयम् । तच्च मण्डनादिवद्देहधार्येऽन्तर्भाव्यम् । मधु मद्यम् । किसलयैः पल्लवैः सह पुष्पोद्भेदम् । उभयं चेत्यर्थः ॥ इदं तु कचधार्यम् । भूषणानां विकल्पान्विशेषान् । देहधार्यमेतत् । तथा चरणकमलयोर्न्यासस्य समर्पणस्य योग्यम् । रज्यतेऽनेनेति रागो रञ्जकद्रव्यं लाक्षैव रागस्तं लाक्षारागं च ॥ चकारोऽङ्गरागादिविलेपनमण्डनोपलक्षणार्थः ॥ सकलं सर्वम् । चतुर्विधमपीत्यर्थः । अबलामण्डनं योषित्प्रसाधनजातमेकः कल्पवृक्ष एव सूते जनयति । न तु नानासाधनसम्पादन प्रयास इत्यर्थः ॥ इत्थमलकां वर्णयित्वा तत्र स्वभवनस्याभिज्ञानमाह- तत्रागारं धनपतिगृहादुत्तरेणास्मदीयं दूरालक्ष्यं सुरपतिधनुश्चारुणा तोरणेन । यस्योपान्ते कृतकतनयः कान्तया वर्धितो मे हस्तप्राप्यस्तबकनमितो बालमन्दारवृक्षः ॥ १२॥ तत्रेति ॥ तत्रालकायां धनपतिगृहान्कुबरगृहादुत्तरेणोत्तरस्मिन्नदूरदेशे ॥ ``एनवन्यतरस्यामन्दूरेऽपञ्चम्याः'' इत्येनप्प्रत्ययः । ``एनपा द्वितीया'' इति द्वितीया ॥ ``गृहाः पुंसि च भूम्न्येव'' इत्यमरः ॥ अथवा ``उत्तरेण'' इति नैनप्प्रत्ययान्तं किन्तु ``तोरणेन'' इत्यस्य विशेषणं तृतीयान्तम् ॥ धनपतिगृहादुत्तरस्यां दिशि यत्तोरणं बहिद्वारं तेन लक्षितमित्यर्थः ॥ अस्माकमिदमस्मदीयम् ॥ वृद्धाच्छः'' इति पक्षे छप्रत्ययः ॥ अगारं गृहम् । सुरपतिधनुश्चारुणा मणिमयत्वादभ्रं कषत्वाच्चेन्द्रचापसुन्दरेण तोरणेन बहिर्द्वारेण दूरालक्ष्यं दृश्यम् । अनेनाभिज्ञान दूरतएव ज्ञातुं शक्यमित्यर्थः ॥ अभिज्ञानान्तरमाहयस्यागारस्योपान्ते प्राकारान्तः पार्श्वदेशे मे मम कान्तया वर्धितः पोषितः कृतकतनयः कृत्रिम सुतः । पुत्रत्वेनाभिमन्यमान इत्यर्थः ॥ हस्तेन प्राप्यैर्हस्तावचेयैः स्तबकैर्गुच्छैर्नमितः ॥ स्यादुच्छकस्तु स्तबकः'' इत्यमरः ॥ बालो मन्दारवृक्षः कल्पवृक्षोऽस्तीति शेषः ॥ इतः परं चतुर्भिः श्लोकैरभिज्ञानान्तरमाह- वापी चास्मिन्मरकतशिलाबद्ध सोपानमार्गा हैमैश्छन्ना विकचकमलैः स्निग्धवैदूर्यनालैः । यस्यास्तोये कृतवसतयो मानसं सन्निकृष्टं नाध्यास्यन्ति व्यपगतशुचस्त्वामपि प्रेक्ष्य हंसाः ॥ १३॥ वापीति ॥ अस्मिन्मदीयागारे मरकतशिलाभिर्बद्धः सोपानमार्गो यस्याः सा तथोक्ता । विदुरे भवा वैदूर्याः ॥ ``विदूराञ्यः'' इति यप्रत्ययः ॥ वैदूर्याणां विकारा वैदूर्याणि ॥ विकारार्थेऽण्प्रत्ययः ॥ स्निग्धानि वैदूर्याणि नालानि येषां तैर्हैमैः सौवर्णैर्विकचकमलैश्छन्ना वापी च । अस्तीति शेषः ॥ यस्या वाप्यास्तोये कृतवसत्यः कृतनिवासा हंसास्त्वां मेघं प्रेक्ष्यापि व्यपगतशुचो वर्षाकालेऽपि व्यपगतकलुषजलत्वाद्वीतदुःखाः सन्तः सन्निकृष्टं सन्निहितम् । सुगममपीत्यर्थः । मानसं मानससरो नाध्यास्यन्ति नोत्कण्ठया स्मरिष्यन्ति ॥ ``आध्यानमुत्कण्ठास्मरणम्'' इति काशिकायाम् ॥ तस्यास्तीरे रचितशिखरः पेशलैरिन्द्रनीलैः क्रीडाशैलः कनककदलीवेष्टनप्रेक्षणीयः । मद्गेहिन्याः प्रिय इति सखे चेतसा कातरेण । प्रेक्ष्योपान्तस्फुरिततडितं त्वां तमेव स्मरामि ॥ १४॥ तस्या इति ॥ तस्या वाप्यास्तीरे पेशलैश्चारुभिः ॥ ``चारौ दक्षे च पेशलः'' इत्यमरः ॥ इन्द्रनीलै रचितशिखरः । इन्द्रनीलमणिमयशिखर इत्यर्थः । कनककदलीनां वेष्टनेन परिधिना प्रेक्षणीयो दर्शनीयः क्रीडाशैलः । अस्तीति शेषः ॥ हे सखे, उपान्तेषु प्रान्तेषु स्फुरितास्ताडितो यस्य तत्तथोक्तम् ॥ इदं विशेषणं कदलीसाम्यार्थमुक्तम् ॥ इन्द्रनीलसाम्यं तु मेघस्य स्वाभाविकमित्यनेन सूच्यते ॥ त्वां प्रेक्ष्य मद्गेहिन्याः प्रिय इति हेतोः ॥ तस्य शैलस्य मद्गृहिणीप्रियत्वाद्धेतोरित्यर्थः ॥ कातरेण भीतेन चेतसा भयं चात्र सानन्दमेव । ``वस्तूनामनुभूतानां तुल्यश्रवणदर्शनात् । श्रवणात्कीर्तनाद्वापि सानन्दा भीर्यथा भवेत् ॥ `` इति रसाकरे दर्शनात् ॥ तमेव क्रीडाशैलमेव स्मरामि ॥ एवकारो विषयान्तरव्यवच्छेदार्थः । सदृशवस्त्वनुभवादिटार्थस्मृतिर्जायते इत्यर्थः । अत एवात्र स्मरणाख्योऽलङ्कारः । तदुक्तं - ``सदृशानुभवादन्यस्मृतिः स्मरणमुच्यते इति ॥ निरुक्तकारस्तु ``त्वां तमेव स्मरामि'' इति योजयित्वा मे शैलत्वारोपमाचष्टे । तदसङ्गतम् । अद्र्याकारारोपस्य पुरोवर्तिन्यनुभवात्मकत्वेन स्मरतिशब्दप्रयोगानुपपत्तेः ॥ शैलत्वभावनास्मृतिरित्यपि नोपपद्यते । भावनायाः स्मृतित्वे प्रमाणाभावादनुभवायोगात्सादृश्योपन्यासस्य वैयर्थ्याच्च विसदृशेऽपि शालग्रामे हरिभावनादर्शनादिति ॥ रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः प्रत्यासन्नौ कुरहकवृते र्माधवीमण्डपस्य । एकः सख्यास्तव सह मया वामपादाभिलाषी काङ्क्षत्यन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥ १५॥ रक्तेति ॥ अत्र क्रीडाशैले कुंरबका एव वृतिरावरणं यस्य तस्य । मधौ वसन्ते भवा माधव्यस्तासां मण्डपस्तस्थातिमुक्तलतागृहस्य ॥ ``अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता इत्यमरः ॥ प्रत्यासन्नौ सन्निकृष्टौ चलकिसलयश्चञ्चलपल्लवः । अनेन वृक्षस्य पादताडनेषु प्राञ्जलित्तुं व्यज्यते । रक्ताशोकः । रक्तविशेषणं तस्य स्मरोद्दीपकत्वादुक्तम् । ``प्रसूनकैरशोकस्तु श्वेतो रक्त इति द्विधा । बहुतिद्धिकरः श्वेतो रक्तोऽत्रस्मरखर्थनः ॥ इत्यशोककल्पे दर्शनात् ॥ कान्तः कमनीयः केसरो बकुअथ केसरे । बकुलो बञ्जुलः'' इत्यमरः ॥ स्त इति शेषः ॥ एकस्तयोरन्यतरः । प्राथमिकत्वादशोक इत्यर्थः ॥ मया संह व सख्याः । स्वप्रियाया इत्यर्थः ॥ वामपादाभिलाषी । दोहदच्छद्मनेत्यत्रापि सम्बन्धनीयम् ॥ स चाहं च । अभिलाषेणावित्यर्थः ॥ अन्यः केसरः । दोहदं वृक्षादीनां प्रसवकारणं संस्कारद्रव्यम् ॥ ``तरुगुल्मलतादीनामकाले कुशलैः कृतम् । पुष्पाद्युत्पादकं द्रव्यं दोहदं स्यात्तु तत्क्रिया ॥ ``इति शब्दार्णवे ॥ तस्य छद्मना व्याजेन ॥ ``कपटोस्स्त्री व्याजदम्भोषधयःछद्मकैतवे'' इत्यमरः ॥ अस्यास्तव सख्या वदनमदिरां गण्डूषमद्यं काङ्क्षति ॥ मया सहेत्यत्रापि सम्बन्धनीयम् ॥ अशोकबकुलयोः श्रीपादताडनगण्डूषमदिरे दोहदमिति प्रसिद्धिः ॥ ``स्त्रीणां स्पर्शात्प्रिङ्गुर्विकसति नकुलः सीधुगण्डूषसेकात्पादाघातादशोकस्तिलक कुरबकौ वीक्षणालिङ्गनाभ्याम् । मन्दारो नर्मवाक्यात्पटु मृदु हसनाच्चम्पको वक्त्रवाताच्चूतो गीतान्नमेरुर्विकसति च पुरो नर्तनात्कर्णिकारः'' । तन्मध्ये च स्फटिकफलका काञ्चनी वासयष्टि- र्मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः । तालैः शिञ्जावलयसुभगैर्नर्तितः कान्तया मे यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृद्वः ॥ १६॥ तन्मध्य इति ॥ किं चेति चार्थः ॥ तन्मध्ये तयोवृक्षयोर्मध्ये नतिमीढानामनतिकठोराणां वंशानां प्रकाश इव प्रकाशो येषां तैस्तरुणवेणुस च्छायैर्मणिभिर्मरकतशिलाभिर्मूले बद्धा । कृतवेदिकेत्यर्थः ॥ स्फटिकं स्फटिकमयं फलकं पीठं यस्याः सा । काञ्चनस्य विकारः काञ्चनी सौवर्णी वासयष्टिर्निवासदण्डः । अस्तीति शेषः ॥ शिञ्जा भूषणध्वनिः ॥ ``भूषणानां तु शिञ्जितं'' इत्यमरः ॥ भिदादित्वादङ् ॥ शिञ्जिधातुरयं तालव्यादिर्न तु दन्त्यादिः ॥ शिञ्जाप्रधानानि वलयानि तैः सुभगा रम्यास्तैस्तालैः करतलवादनैर्मे मम कान्तया नर्तितो वो युष्माकं सुहृत्सखा नीलकण्ठो मयूरः ॥ ``मयूरो बर्हिणो बर्हि नीलकण्ठो भुजङ्गभुक्'' इत्यमरः ॥ दिवस विगमे सायङ्काले यां यष्टिकामध्यास्ते । यष्टयामास्त इत्यर्थः ॥ ``अधिशीङ्ग्स्थासां कर्म इति'' कर्मत्वाद्वितीया ॥ ``वत्रागारम्'' इत्यारभ्य पञ्चसु श्लोकेषु समृद्धवस्तुवर्णनादुदात्तालङ्कारः । तदुक्तम्-`उदुदात्तं भवेद्यत्र समृद्धं वस्तु वर्ण्यते'' इति ॥ न चैषा स्वभावोक्तिर्भाविकं वा तत्र यथास्थितवस्तुवर्णनात् । अत्र तु ``कविप्रतिभोत्थापितसम्भाव्यमानैश्वर्यशालिवस्तुवर्णनादारोपितविषयत्वमिति ताभ्यामस्य भेदः'' इत्यलङ्कार सर्वस्वकारः । एभिः साधो हृदयनिहितैर्लक्षणैर्लक्षयेथा द्वारोपान्ते लिखितवपुषौ शङ्खपद्मौ च दृष्ट्वा । क्षामच्छायं भवनमधुना मद्दियोगेन नूनं- सूर्यापाये न खलु कमलं पुष्यति स्वामभिख्याम् ॥ १७॥ एभिरिति ॥ हे साधो नपुण । ``साधुः समर्थो निपुणो वा'' इति काशिकायाम् । हृदयनिहितैः । अविस्मृतैरित्यर्थः ॥ एभिः पूर्वोक्तैर्लक्षणैस्तोरणादिभिरभिज्ञानैर्दारोपान्ते ॥ एकवचनमविवक्षितम् ॥ द्वारपार्श्वयोरित्यर्थः ॥ लिखिते वपुषी आकृती ययोस्तौ तथोक्तौ शङ्खपद्म नाम निधिविशेषौ ॥ ``निधिर्ना शेवधिर्भेदाः पद्मशङ्खादयो निधेः'' इत्यमरः ॥ दृष्ट्वा च नूनं सत्यमधुनेदानीम् ॥ ``अधुना'' इति निपातः ॥ मद्वियोगेन मम प्रवासेन क्षामच्छायं मन्दच्छायमुत्सवोपरमात्क्षीणकान्ति भवनं मद्गृहं लक्षयेथा निश्चिनुयाः । तथाहि । सूर्यापाये सति कमलं पद्मं स्वामात्मीयामभिरूपां शोभाम् ॥ ``अभिख्या नामशोभयोः'' इत्यमरः ॥ न पुष्यति नोपचिनोति खलु । सूर्यविरहितं पद्ममिव पतिविरहितं गृहं न शोभत इत्यर्थः । निजगृहनिश्चयानन्तरं कृत्यमाह- गत्वा सद्यः कलभतनुतां शीघ्र सम्पातहेतोः क्रीडाशैले प्रथमकथिते रम्यसनौ निषण्णः । अर्हस्यन्तर्भवनपतितां कर्तुमल्पाल्पभासं खद्योतालीविलसितनिभां विद्यदुन्मेषदृष्टिम् ॥ १८॥ गत्वेति ॥ हे मेघ, शीघ्रसम्पात एव हेतुस्तस्य । शीघ्रप्रवेशार्थमित्यर्थः ॥ ``षष्ठी हेतुप्रयोगे'' इति षष्ठी ॥ ``सम्पातः पतने वेगे प्रवेशे वेदसंविदे'' इति शब्दार्णवे ॥ सद्यः सपदि कलभस्य करिपोतस्य तनुरिव तनुर्यस्य तस्य भावस्तामल्पशरीरतां गत्वा प्राप्य प्रथमकथिते ``तस्यास्तीरे'' इत्यादिना पूर्वोद्दिष्टे रम्यसानौ । निषीदनयोग्य इत्यर्थः । क्रीडाशैले निषण्ण उपविष्टः सन् । अल्पाल्पाऽल्पप्रकारा भाः प्रकाशो यस्यास्ताम् ॥ ``प्रकारे गुणवचनस्य'' इति द्विरुक्तिः ॥ खद्योतानामाली तस्या विलसितेन स्फुरितेन निभां समानां विद्युदुन्मेषो विद्युत्प्रकाशः स एव दृष्टिस्तां भवनस्यान्तरन्तर्भवनं तत्र पतितां प्रविष्टां कर्तुमर्हसि । यथा कश्चित्किचिदन्विष्यन्वचिदुन्नते स्थित्वा शनैः शनैरतितरां द्राघीयसीं दृष्टिमिष्टदेशे पातयति तद्वदित्यर्थः ॥ सम्प्रति दृष्टिपात फलस्याभिज्ञानं श्लोकद्वयेनाह- तन्वी श्यामा शिखरिदशना पक्वबिम्बाधरोष्ठी मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः । श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्यां या तत्र स्याद्युवतिविषये सृष्टिराद्येव धातुः ॥ १९॥ तन्वीति ॥ तन्वी कृशाङ्गी । न तु पीवरी ॥ ``श्लक्ष्णं दभ्रं कृशं तनु'' इत्यमरः ॥ ``वोतो गुणवचनात्'' इति ङीष् ॥ श्यामा युवतिः ॥ ``श्यामा यौवनमध्यस्था'' इत्युत्पलमालायाम् ॥ शिखराण्येषां सन्तीति शिखरिणः कोटिमन्तः ॥ ``शिखरं शैलवृक्षाग्रकक्षापुलककोटिषु'' इति विश्वः ॥ शिखरिणो दशना दन्ता यस्याः सा । एतेनास्या भाग्यवत्त्वं पत्यायुष्करत्वं च सूच्यते । तदुक्तं सामुद्रिके`स्निग्धाः समानरूपाः सुपङ्क्तयः शिखरिणः श्लिष्टाः । दन्ता भवन्ति यासां तासां पादे जगत्सर्वम् ॥ ताम्बूलरसरक्तेऽपि स्फुटमासः समोदयाः । दन्ताः शिखरिणी यस्या दीर्घ जीवति तत्प्रियः ॥ `` इति ॥ पक्वं परिणत बिम्बं बिम्बिकाफलमिवाधरोष्ठो यस्याः सा पक्वबिम्बाधरोष्ठी ॥ ``शाकपार्थिवादित्वान्मध्यमपदलोपी समासः'' इति वामनः ॥ ``नासिकोदरौष्ठ-'' इत्यादिना ङीष् ॥ मध्ये क्षामा । कृशोदरीत्यर्थः । चकितहरिण्याः प्रेक्षणानीव प्रेक्षणानि दृष्टयो यस्याः सा तथोक्ता ॥ एतेनास्याः पद्मिनीत्वं व्यज्यते । तदुक्तं रतिरहस्ये पद्मिनीलक्षणप्रस्तावे-`चकितमृगदृशाभे प्रान्तरक्ते च नेत्रे'' इति ॥ निम्ननाभिर्गम्भीरनाभिः ॥ अनेन ``नारीणां नाभिगाम्मीर्यान्मदनातिरेकः'' इति कामसूत्रार्थः सूच्यते । श्रोणीभारादलसगमना मन्दगामिनी । न तु जङ्घादोषात् ॥ स्तनाभ्यां स्तोकनम्रदवनता । न तु वपुर्दोंषात् ॥ युवतय एव विषयस्तस्मिन्युवतिविषये । युवतीरधिकृत्येत्यर्थः । धातुर्ब्रह्मण आद्या सृष्टिः प्रथमशिल्पमिव स्थितेत्युत्प्रेक्षा ॥ प्रथमनिर्मिता युवतिरियमेवेत्यर्थः ॥ प्रायेण शिल्पिनां प्रथमनिर्माणे प्रयत्नातिशयवशाच्छिल्पनिर्मागसौष्ठवं दृश्यत इत्याद्यविशेषणम् । तथा चास्मिम्प्रपञ्चे न कुत्राप्येवंविधं रमणीयं रमणीरत्नेष्वस्तीति भावः । तदेवम्भूता या स्त्री तत्रान्तर्भवने स्यात् । तत्र निधसेदित्यर्थः । तामित्युत्तरश्लोकेन सम्बन्धः ॥ तां जानीथाः परिमितकथां जीवितं मे द्वितीयं दूरीभूते मयि सहचरे चक्रवाकीमिवैकाम् । गाढोत्कण्ठां गुरुषु दिवसेष्वेषु गच्छत्सु बालां जातां मन्ये शिशिरमथितां पद्मिनीं वान्यरूपाम् ॥ २०॥ तामिति ॥ सहचरे सहचारिणि । अनेन वियोगासहिष्णुत्वं व्यज्यते । मयि दूरीभूते दूरस्थिते सति । सहचरे चक्रवाके दूरीभूते सति चक्रवाकीं चक्रवाकवधूमिव ॥ ``जातेरस्त्रीविषयादयोपधात्'' इति ङीष् ॥ परिमितकथां परिमितवाचम् । एकामेकाकिनीं स्थितां तामन्तर्भवनगतां मे द्वितीयं जीवितं जानीथाः । जीविततुल्यां मत्प्रेयसीमवगच्छेरित्यर्थः । ``तन्वी'' इत्यादिपूर्वलक्षणैरिति शेषः ॥ लक्षणानामन्यथाभावभ्रममाशङ्कयाह -गाढेति ॥ गाढोत्कण्ठां प्रवलविरहवेदनाम् । ``रागे त्वलब्धविषये वेदना महती तु या । संशोषणी तु गात्राणां तामुत्कण्ठां विदुर्बुधाः ॥ ``इत्यभिधानात् ॥ बालां गुरुषु विरहमहत्स्वेषु वर्तमानेषु दिवसेषु गच्छत्सु सत्सु शिशिरेण शिशिरकालेन मथितां पद्मिनीं वा पद्मिनीमिव ॥ ``इववद्वायथाशब्द'' इति दण्डी ॥ अन्यरूपां पूर्वविपरीताकारां जातां मन्ये । हिमहतपद्मिनीव विरहेणान्यादृशी जातेति तर्कयामीत्यर्थः । एतावता नेयमन्येति भ्रमितव्यमिति भावः ॥ नूनं तस्याः प्रबलरुदितोच्छूननेत्रं प्रियाया निःश्वासानामशिशिरतया भिन्नवर्णाधरोष्ठम् । हस्तन्यस्तं मुखमसकलव्यक्ति लम्बालकत्वा- दिन्दोन्दैन्यं वदनुसरणक्लिष्टकान्तेर्बिभर्ति ॥ २१॥ नूनमिति ॥ प्रबलरुदितेनोच्छूने उच्छ्वसिते नेत्रे यस्य तत् ॥ उच्छूनेति श्वयतेः कर्तरि क्तः ॥ ``ओदितश्च'' इति निष्ठानत्वम् । ``वचिस्वपि-'' इत्यादिना सम्प्रसारणम् । ``सम्प्रसारणाच्च'' इति पूर्वरूपत्वम् । ``हलः'' इति दीर्घः ॥ ``च्छ्वोः शूडनुनासिके च'' इत्यूठादेशे कृते रूपसिद्धिरिति वर्तमानसामीप्यप्रक्रिया प्रामादिकीत्युपेक्ष्या । तथा सति धातोरिकारस्य गत्यभावादूठा देशे च्छ्वोरन्त्यसेन विशेषणाच्चेति ॥ एतेन विषादो व्यज्यते । निःश्वासानामशिशिरतयान्तस्तापोष्णत्वेन भिन्नवर्णो विच्छायोऽधरोष्ठो यस्य तत् । हस्ते न्यस्तं हस्तन्यस्तम् । -एतेन चिन्ता व्यज्यते ॥ लम्बालकत्वात्संस्काराभावलम्बमानकुन्तलत्वाद सकलव्यक्त्यसम्पूर्णाभिव्यक्ति तस्याः प्रियाया मुखं त्वदनुसरणेन त्वदुपरोधेन । मेघानुसरणेनेति यावत् । क्लिष्टकान्तेः क्षीणकान्तेरिन्दोर्दैन्यं शोच्यतां बिभर्ति । नूनमिति वितर्के ॥ नूनं तर्केऽर्थनिश्चये'' इत्यमरः ॥ पूर्ववत्तथापि न भ्रमितव्यमिति भावः ॥ सर्वविरहिणीसाधारणानि लक्षणानि सम्भावनयोत्प्रेक्ष्या णीत्याह ``आलोके'' इत्यादिभिस्त्रिभिः- आलोके ते निपतति पुरा सा बलिव्याकुला वा मत्सादृश्यं विरहतनु वा भावगम्यं लिखन्ती । पृच्छन्ती वा मधुरवचनां सारिकां पञ्जरस्थां कच्चिद्भर्तुः स्मरसि रसिके त्वं हि तस्य प्रियेति ॥ २२॥ आलोकेति ॥ हे मेघ, सा मत्प्रिया । बलिषु नित्येषु प्रोषितागमनार्थेषु च देवताराधनेषु व्याकुला व्यापृता वा । विरहेण तनु कृशं भावगम्यम् । तत्कार्यस्यादृष्टचरत्वात्सम्प्रति सम्भावनयोत्प्रेक्ष्यमित्यर्थः । मत्सादृश्यं मदाकारसाम्यम् । मत्प्रतिकृतिमित्यर्थः । यद्यपि सादृश्यं नाम प्रसिद्धवस्त्वन्तरगतमाकारसाम्यं तथापि प्रतिकृतित्वेन विवक्षितमितरथा लेख्यत्वासम्भवात् । अक्षय्यकोशे ``आलेख्येऽपि च सादृश्यम्'' इत्यभिधानात् ॥ लिखन्ती क्वचित्फलकादौ विन्यस्यन्ती वा चित्रदर्शनस्य विरहिणीविनोदोपायत्वादिति भावः ॥ एतच्च कामशास्त्रसंवादेन सम्यग्विवेचितमस्माभी रघुवंश सञ्जीविन्यां ``'' सादृश्यप्रतिकृतिदर्शनैः प्रियायाः'' इत्यत्र । मधुरवचनां मञ्जुभाषिणीम् । अतएव पञ्जरस्थाम् । हिंस्रेभ्यः कृतसंरक्षणामित्यर्थः । सारिकां स्त्रीपक्षिविशेषाम् । हे रसिके, भर्तुः स्वामिनः स्मरसि कच्चित् ॥ ``कच्चित्कामप्रवेदने इत्यमरः ॥ भर्तारं स्मरति किमित्यर्थः ॥ ``अधीगर्थदशां कर्मणि'' इति कर्मणि पष्ठी ॥ स्मरणे कारणमाह-हि यस्मात्कारणात्वं तस्य भर्तुः । प्रीणातीति प्रिया ॥ ``इगुपधज्ञाप्रीकिरः कः'' इति कप्रत्ययः ॥ अतः प्रेमास्पदत्वात्स्मर्तुमर्हसीति भावः । इत्येवं पृच्छती वा ॥ वाशब्दो विकल्पे ॥ ``उपमायां विकल्पे वा'' इत्यमरः ॥ तवालोके दृष्टिपथे पुरा निपतति । सद्यो निपतिष्यवीत्यर्थः ॥ ``स्यात्मबन्धे पुरातीते निकटागामिके पुरा इत्यमरः ॥ ``यावत्पुरानिपातयोर्लट्'' इति लट् ॥ उत्सङ्गे वा मलिनवसने सौम्य निक्षिप्य वीणां मद्गोत्राङ्कं विरचितपदं गेयमुद्गातुकामा । तन्त्रीमार्द्रा नयनसलिलैः सारयित्वा कथञ्चिद् भूयो भूयः स्वयमपि कृतां मूर्च्छनां विस्मरन्ती ॥ २३॥ उत्सङ्गेति ॥ हे सौम्य साधो, मलिनवसने । प्रोषिते मलिना कृशा'' इति शास्त्रादित्यर्थः ॥ उत्सङ्ग ऊरौ वीणां निक्षिप्य । मम गोत्रं मन्नामाङ्किं यस्मिंस्तन्मद्रोत्राङ्कं मन्नामाङ्कं यथा तथा ॥ ``गोत्रं नाम्नि कुलेऽपि च इत्यमरः ॥ विरचितानि पदानि यस्य तत्तथोक्तं गेयं गानार्हं प्रबन्धादि ॥ ``गीतम्'' इति पाठे स एवार्थः ॥ उद्दातुमुच्चैर्गातुं कामो यस्याः सा ॥ ``तुं काममनसोरपि इति मकारलोपः ॥ देवयोनित्वाद्गान्धारग्रामेण गातुकामेत्यर्थः । तदुक्तं - ``षड्जमध्यमनामानौ ग्रामौ गायन्ति मानवाः । न तु गान्धारनामानं स लभ्यो देवयोनिभिः ॥ ``इति ॥ तथा नयनसलिलैः प्रियतमस्मृतिजनितैरश्रुभिराद्री तन्त्रीं कथञ्चित्कृच्छ्रेण सारयित्वा । आर्द्रत्वापहरणाय करेण प्रमृज्यान्यथा कणनासम्भवादिति भावः । भूयो भूयः पुनः पुनः स्वयमात्मना कृतामपिम् । विस्मरणानहमपीत्यर्थः । मूच्र्छनां स्वरारोहावरोहक्रमम् । ``स्वराणां स्थापनाः सान्ता मूर्च्छनाः सप्त सप्त हि'' इति सङ्गीतरत्नाकरे ॥ विस्मरन्ती वा । ``आलोके ते निपतति'' इति पूर्वेणान्वयः ॥ विस्मरणं चात्र दयितगुणस्मृतिजनितमूर्च्छावशादेव ॥ तथा च रसरत्नाकरे - ``वियोगायोगयोरिष्टगुणानां कीर्तनात्स्मृतेः । साक्षात्कारोऽथवा मूच्छ दशधा जायते तथा ॥ इति ॥ मत्सादृश्यमित्यादिना मनःसङ्गानुवृत्तिः सूचिता ॥ शेषान्मासान्विरहदिवसस्थापितस्यावधेर्वा विन्यस्यन्ती भुवि गणनया देहलीदत्तपुष्पैः । मत्सङ्गं वा हृदयनिहितारम्भमास्वादयन्ती प्रायेणैते रमणविरहेष्वङ्गनानां विनोदाः ॥ २४॥ शेषानिति ॥ अथवा विरहस्य दिवसस्तस्मात्स्थापि तस्य तत आरभ्य निश्चितस्यावधेरन्तस्य शेषान्गतावशिष्टान्मासान्देहलीदत्तपुष्पैः ॥ देहली द्वारस्याधारदारु ॥ ``गृहावग्रहणी देहली'' इत्यमरः ॥ तत्र दत्तानि राशीकृतत्वेन निहितानि यानि पुष्पाणि तैर्गणनया एको द्वावित्यादिसङ्ख्यानेन भुवि भूतले विन्यस्यन्ती वा । पुष्पविन्यासैर्मासान्गणयन्तीं वेत्यर्थः ॥ यद्वा हृदये निहितो मनसि सङ्कल्पित आरम्भ उपक्रमो यस्य तम् । अथवा हृदयनिहिता आरम्भ चुम्बनादयो व्यापारा यस्मिंस्तं मत्सङ्गं मत्सम्भोगरतिमास्वादयन्तीं वा । ``आलोके ते निपतति'' इति पूर्वेण सम्बन्धः ॥ ननु कथमयं निश्चय इत्याशङ्कामर्थान्तरन्यासेन परिहरति । प्रायेण बाहुल्येनाङ्गनानां रमण विरहेष्वेते पूर्वोक्ता विनोदाः कालयापनोपायाः । एतेन सङ्कल्पावस्थोक्ता । तदुक्तं - ``सङ्कल्पो नाथविषये मनोरथ उदाहृतः इति ॥ त्रिभिः कुलकम् ॥ `` सव्यापारामहनि न तथा पीडयेन्मद्वियोगः शङ्के रात्रौ गुरुतरशुचं निर्विनोदां सखीं ते । मत्सन्देशैः सुखयितुमलं पश्य साध्वीं निशीथे तामुनिद्रामवनिशयनां सौधवातायनस्थः ॥ २५॥ सव्यापारामिति ॥ हे सखे, अहनि दिवसे सव्यापारां पूर्वोक्तबलिचित्रलेखनादिव्यापारवतीं ते सखीं स्वप्रियां मद्वियोग मद्विरहस्तथा तेन प्रकारेण ॥ ``प्रकारवचने थाल्'' इति थाल्प्रत्ययः ॥ न पीडयेत् । यथा रात्राविति शेषः ॥ किं तु रात्रौ निर्विनोदां निर्व्यापारां ते सखीं गुरुतरा शुग्यस्यास्तां गुरुतरशुचमतिदुर्भरदुःखां शङ्के तर्कयामि ॥ `` शङ्का वितर्कभययोः'' इति शब्दार्णवे ॥ अतो निशीथेऽर्धरात्र उन्निद्रामुत्सृष्टनिद्राम् । अवनिरेव शयनं शय्या यस्यास्ताम् ॥ नियमार्थं स्थण्डिलशायिनीम् । साध्वीं पतिव्रताम् ॥ ``साध्वी पतिव्रता इत्यमरः ॥ अतो नान्यथा शङ्कितव्यमिति भावः । वां त्वत्सखीं मत्सन्देशैर्मद्वार्ताभिरलं पर्याप्तं सुखयितुमानन्दयितुं सौधवातायनस्थः सन्पश्य ॥ ``सखा धात्री च पितरौ मित्रदूतशुकादयः । सुखयन्तीष्टकथनमुखोपायैर्वियोगिनीम् ॥ ``इति रत्नाकरे ॥ दूतश्चायं मेघ इति भावः ॥ अनेन जागरावस्थोक्ता ॥ पुनस्तामेव विशिनष्टि ``आधिक्षामाम्'' इत्यादिभिश्चतुर्भिः- आधिक्षामां विरहशयने सन्निषण्णैकपार्श्वां प्राचीमूले तनुमिव कलामात्रशेषां हिमांशोः । नीता रात्रिः क्षण इव मया सार्धमिच्छारतैर्या तामेवोष्णैर्विरहमहतीमश्रुभिर्यापयन्तीम् ॥ २६॥ आधिक्षामामिति ॥ आधिना मनोव्यथया क्षामां कृशाम् ॥ ``पुंस्याधिर्मानसी व्यथा'' इत्यमरः ॥ क्षायतेः कर्तरि क्तः ॥ ``क्षायो मः'' इति निष्ठातकारस्य मकारः ॥ विरहे शयनं तस्मिन्विरहशयने । पल्लवादिरचित इत्यर्थः । सन्निषण्णमेकं पार्श्वे यस्यास्ताम् । अत एव प्राच्याः पूर्वस्या दिशो मूले । उदयगिरिप्रान्त इत्यर्थः ॥ प्राचीग्रहणं क्षीणावस्थाद्योतनार्थम् । मूलग्रहणं दृश्यतार्थम् ॥ कलामात्रं कलैव शेषो यस्यास्तां हिमांशोस्तनुं मूर्तिमिव स्थिताम् । तथा या रात्रिर्मया सार्धमिच्छया कृतानि रतानि तैः ॥ शाकपार्थिवादित्वान्मध्यमपदलोपी समासः ॥ क्षण इव नीता या पिता तां तज्जातीयामेव रात्रिं विरहेण महतीं महत्त्वेन प्रतीयमानामुष्णैरश्रुभिर्यापयन्तीम् ॥ यातेर्ण्यन्ताच्छतृप्रत्ययः ॥ ``अर्तिह्री-'' इत्यादिना पुगागमः ॥ स एव कालः सुखिनामल्पः प्रतीयते । दुःखिनां तु विपरीत इति भावः । एतेन कार्श्यावस्थोक्ता ॥ पादानिन्दोरमृतशिशिराञ्जालमार्गप्रविष्टान् पूर्वप्रीत्या गतमभिमुखं सन्निवृत्तं तथैव । चक्षुः खेदात्सलिलगुरुभिः पक्ष्मभिश्छादयन्तीं साभ्रेऽङ्ग्नीव स्थलकमलिनीं नप्रबुद्धां नसुप्ताम् ॥ २७॥ पादानिति ॥ जालमार्ग प्रविष्टान्गवाक्षविवरगतान मृताशशिरानिन्दोः पादानरश्मीन्पूर्वप्रीत्या पूर्वस्नेहेन । पूर्ववदानन्दकरा भविष्यन्तीति बुद्धयेति भावः । अभिमुखं यथा तथागतं तथैव सन्निवृत्तं यथागतं तथैव प्रतिनिवृत्तम् । तदा तेषामतीव दुःसहत्वादिति भावः । चक्षुर्दृष्टिं खेदात्सलिलगुरुभिरश्रुवुर्भरः पक्ष्मभिश्छादयन्तीम् । अतएव साभ्रे दुर्दिनेऽङ्ह्नि दिवसे नप्रबुद्धां मेघावरणादविकसितां नसुप्तामहरित्यमुकुलिताम् ॥ उभयत्रापि नञर्थत्य नशब्दस्य सुप्सुपेति समासः ॥ स्थलकमलिनीमिव स्थिताम् । एतेन विषयद्वेषाख्या षष्ठी दशा सूचिता ॥ निःश्वासेनाधर किसलयक्लेशिना विक्षिपन्तीं शुद्धस्नानात्परुपमलकं नूनमागण्डलम्वम् । मत्सम्भोगः कथमुपनयेत्स्वप्नजोऽपीति निद्रा- माकाङ्क्षन्तीं नयनसलिलोत्पीडरुद्धावकाशाम् ॥ २८॥ निःश्वासेति ॥ शुद्धस्नानात्तैलादिरहितस्नानात्परुषं कठिनस्पर्श नूनमागण्डलम्बम् ॥ सुप्पोति समासः ॥ अलकं चूर्णकुन्तलान् ॥ जातावेकवचनम् ॥ अधरकिसलयं केशयति क्लिश्नातीति वा वेन तथोक्तेन । उष्णेनेत्यर्थः ॥ क्लिश्यतेर्ण्यन्तात्किलिश्नातेरण्यन्ताद्वा ताच्छील्ये णिनिः ॥ निःश्वासेन विक्षिपन्तीं चालन्तीं तथा स्वप्नजोऽपि स्वप्नावस्थाजन्योऽपि । साक्षात्सम्भोगासम्भवादिति भावः । मत्सम्भोगः कथं केनापि प्रकारेणोपनयेत् । आगच्छेदित्याशयेनेति शेषः ॥ इतिनैवोक्तार्थत्वादप्रयोगः । ``प्रयोगे चापौनरुक्त्यम्'' इत्यालङ्कारिकाः ॥ प्रार्थनायां लिङ् ॥ नयनसलिलोत्पीडेनाश्रुप्रवृत्त्या रुद्धावकाशामाक्रान्तस्थानाम् । दुर्लभाभित्यर्थः । निद्रामाकाङ्क्षन्तीम् । स्नेहातुरत्वादिति भावः ॥ अत्राश्रुविसर्जनेन लज्जात्यागो व्यज्यते ॥ आद्ये बद्धा विरहदिवसे या शिखा दाम हित्वा शापस्यान्ते विगलितशुचा तां मयोद्वेष्टनीयाम् । स्पर्शक्लिष्टामयमितनखेनासकृत्सारयन्तीं गण्डाभोगात्कठिनविषमामेकवेणीं करेण ॥ २९॥ आद्य इति ॥ आद्ये विरहदिवसे दाम मालां हित्वा त्यक्त्वा या शिखा बद्धा ग्रथिता शापस्यान्ते विगलितशुचा वीतशोकेन मयोद्वेष्टनीयां मोचनीयां स्पर्शक्लिष्टाम् । स्पर्शे सति मूल केशेषु सव्यथामित्यर्थः । कठिना च सा विषमा निम्नोन्नता च ताम् ॥ खञ्जकुब्जादिवदन्यतरस्य ``प्राधान्यविवक्षया'' ``विशेषणं विशेष्येण बहुलम्'' इति समासः ॥ एकवेणीमेकीभूतवेणीम् ॥ ``पूर्वकाल-'' इत्यादिनाः तत्पुरुषः ॥ तां शिखाम् । अयमिता अकर्तितोपान्ता नखा यस्य तेन करेण गण्डाभोगात्कपोलविस्तारादसकृन्मुहुर्मुहुः सारयन्तीमपसारयन्तीम् । ``तां पश्य'' इति पूर्वेण सम्बन्धः । असकृत्सारणाच्चित्तविभ्रमदशा सूचिता ॥ सा संन्यस्ताभरणमबला पेशलं धारयन्ती शय्योत्सङ्गे निहितमसकृद्दुःखदुःखेन गात्रम् । त्वामप्यस्रं नवजलमयं मोचयिष्यत्यवश्यं प्रायः सर्वो भवति करुणावृत्तिरार्द्रान्तरात्मा ॥ ३०॥ सेति ॥ अबला दुर्बला संन्यस्ताभरणं कृशत्वात्परित्यक्ताभरणमसकृदनेकशो दुःखदुःखेन दुःखप्रकारेण ॥ ``प्रकारे गुणवचनस्य'' इति द्विर्भावः ॥ शय्योत्सङ्गे निहितं पेशलं मृदुलं गात्रं शरीरं धारयन्ती वहन्ती ॥ अनेनात्यन्ताशक्त्या मूर्च्छावस्था सूच्यते ॥ सा त्वत्सखी त्वामपि नवजलमयं नवाम्बुरूपमस्रं बाष्पमवश्यं सर्वथा मोचयिष्यति ॥ द्विकर्मसु पचादीनामुपसङ्ख्यानम्'' इति मुचेः पचादित्वाद्विकर्मकत्वम् ॥ तथाहि । प्रायः प्रायेणार्द्रान्तरात्मा मृदुहृदयः । मेघस्तु द्रवान्तःशरीरः । सर्वः करुणा करुणामयी वृत्तिरन्तःकरुणावृत्तिर्यस्य स करुणावृत्तिर्भवति । हि यस्मात् । अस्मिन्नवसरे सर्वथा त्वया शीघ्रं गन्तव्यमनन्तरदशापरिहारायेति सन्दर्भाभिप्रायः ॥ ननु किमिदमादिमां चक्षुःप्रीतिमुपेक्ष्यावस्थान्तराण्येव तत्रभवान्कविरादृतवान् । उच्यते - ``सम्भोगो विप्रलम्भश्चद्विधा श‍ृङ्गार उच्यते । संयुक्तयोस्तु सम्भोगो विप्रलम्भो वियुक्तयोः ॥ पूर्वानुरागमानाख्यप्रवास करुणात्मना । विमलम्भश्चतुर्धात्र प्रवासस्तत्र च त्रिधा ॥ कार्यतः सम्भ्रमाच्छापादस्मिन्काव्ये तु शापजः । प्रागसङ्गतयोर्यूनोः सति पूर्वानुरञ्जने ॥ चक्षुः मीत्यादयोऽवस्था दश स्युस्तत्क्रमोयथा । दृङ्गनःसङ्गसङ्कल्पा जागरः कृशता रतिः ॥ हीत्यागोन्मादमूर्च्छान्ता इत्यनङ्गदशा दश । पूर्वसङ्गतयोरेव प्रवास इति कारणात् ॥ न तत्रापूर्ववच्चक्षुः प्रीतिरुत्पत्तिमर्हति । सत्सङ्गस्य तु सिद्धस्याप्यविच्छेदोऽत्र वर्ण्यते ॥ अन्यथा पूर्ववद्वाच्या इति तावद्वयवस्थितः । वैयर्थ्यादादिमां हित्वा वैरस्यादन्तिमां तथा ॥ हृत्सङ्गादीरिहाचष्ट कविरष्टाविति स्थितिः । मत्सादृश्यं लिखन्तीति पद्येऽस्मिन्प्रतिपादिता ॥ चक्षुःप्रीतिरिति मोक्तं निरुत्तरकृताननम् । चक्षुःप्रीतिर्भवेच्चित्रेष्वदृष्टचरदर्शनात् ॥ यथा मालविकारूपमग्निमित्रस्य पश्यतः । प्रोषितानां च भर्तृणां क्व दृष्टादृष्टपूर्वता ॥ अथ तत्रापि सन्देहे सङ्कलत्राणि पृच्छतु । किम्भर्तृप्रत्यभिज्ञा स्यात्किं वैदेशिकभावना ॥ प्रवासादागतेस्वस्मिन्नित्यलं कलहैर्व्वथा ॥ ``इति ॥ नन्वीदृशीं दशामापन्नेति कथं त्वया निश्चितमत आह- जाने सख्यास्तव मयि मनः सम्भृतस्नेहमस्मा- दित्थम्भूतां प्रथमविरहे तामहं तर्कयामि । वाचालं मां न खलु सुभगम्मन्यभावः करोति प्रत्यक्षं ते निखिलमचिराद्भ्रातरुक्तं मया यत् ॥ ३१॥ जान इति ॥ हे मेघ, तव सख्या मनो मयि सम्भृतस्नेहं सञ्चितानुरागं जाने । अस्मात्स्नेहज्ञानकारणात्प्रथमविरहे । प्रथमग्रहणं दुःखातिशयद्योतनार्थम् । तां त्वत्सखीमित्थम्भूतां पूर्वोक्तावस्थामापन्नां तर्कयामि ॥ ननु सुभगमानिनामेष स्वभावो यदात्मनि स्त्रीणामनुरागप्रकटनं तत्राह -वाचालमिति ॥ सुभगमात्मानं मन्यत इति सुभगम्मन्यः ॥ ``आत्ममाने खश्च'' इति खश्प्रत्ययः । ``अरुर्द्विषद्-'' इत्यादिना मुमागमः ॥ तस्य भावः सुभगं मन्यभावः । सुभगमानित्वं मां वाचालं बहुभाषिणं न करोति खलु । सौन्दर्याभिमानितां न प्रकटयामीत्यर्थः ॥ ``स्याज्जल्पाकस्तु वाचालो वाचाटो बहुगर्ह्यवाक्'' इत्यमरः ॥ ``आलजाटचौ बहुभाषिणि'' इत्यालच्प्रत्ययः ॥ किं तु हे भ्रातः मयोक्तं यत् ``आधिक्षामाम्'' इत्यादि तन्निखिलं सर्वमचिराच्छीघ्रमेव ते तव प्रत्यक्षम् । भविष्यतीति शेषः ॥ रुद्धापाङ्गप्रसरमलकैरञ्जनस्नेहशून्यं प्रत्यादेशादपि च मधुनो विस्मृतभ्रूविलासम् । स्वय्यासन्ने नयनमुपरिस्पन्दि शङ्के मृगाक्ष्या मीनक्षोभाच्चलकुवलयश्रीतुलामेष्यतीति ॥ ३२॥ रुद्धेति ॥ अलकै रुद्धा अपाङ्गयोः प्रसरा यस्य तत्तथोक्तम् । अञ्जनेन स्नेहः स्त्रैग्ध्यं तेन शून्यम् । स्त्रि ग्धाञ्जनरहितमित्यर्थः । अपि च किं च मधुनो मद्यस्य प्रत्यादेशान्निराकरणात् । परित्यागादित्यर्थः ॥ प्रत्यादेशो निराकृतिः'' इत्यमरः ॥ विस्मृतो भ्रूविलासो भ्रूभङ्गो येन तत् । नयनस्य रुद्धापाङ्गप्रसरत्वादिकं विरहसमुत्पन्नमिति भावः । त्वय्यासन्ने सति । स्वकुशलवार्ताशंसिनीति शेषः । उपर्यूर्ध्वभागे स्पन्दते स्फुरन्तीत्युपरिस्पन्दि । तथा च निमित्तनिदाने --`स्पन्दान्मूर्ध्नि च्छत्रलाभं ललाटे पट्टमंशुकम् । इष्टप्राप्तिं दृशोर्ध्वमपाङ्गे हानिमादिशेत् ॥ ``इति ॥ मृगाक्ष्यास्त्वत्सख्या नयनम् । वाममिति शेषः । ``वामभागस्तु नारीणां पुंसां श्रेष्ठस्तु दक्षिणः । दाने देवादिपूजायां स्पन्देऽलङ्करणेऽपि च ॥ ``इति स्त्रीणां वामभागमाशस्त्यात् ॥ मीनक्षोभान्मीन चलनाचलस्य कुवलयस्य श्रियाः शोभायास्तुलां सादृश्यमेष्यतीति शङ्के तर्कयामि ॥ वामश्चास्याः कररुहपदैर्मुच्यमानो मदीयै- र्मुक्ताजालं चिरपरिचितं त्याजितो दैवगत्या । सम्भोगान्ते मम समुचितो हस्तसंवाहनानां यास्यत्यूरुः सरसकदलीस्तम्भगौरश्वलत्वम् ॥ ३३॥ वाम इति ॥ मदीयैः कररुहपदैर्नखपदैः ॥ ``पुनर्भवः कररुहो नखोऽस्त्री नखरोऽस्त्रियाम्'' इत्यमरः ॥ मुच्यमानः परिहीयमाणः । नखाङ्करहित इत्यर्थः । ऊर्वोर्नखपदास्पदत्वं तु रतिरहस्ये - ``कण्ठकुङ्क्षि कुचपार्श्वभुजोरुश्रोणिसक्थिषु नखास्पदमाहुः इति ॥ चिरपरिचितं चिराभ्यस्तं मुक्ताजालं मौक्तिकसरमयं कटिभूषणं दैवगत्या दैववशेन त्याजितः । सम्प्रति नखपदोष्माभावेन शीतोपचारस्य तस्य वैयर्थ्यादिति भावः ॥ त्यजतेर्ण्यन्तात्कर्मकर्तरिक्तः । ``द्विकर्मसु पचादीनां चोपसङ्ख्यानमिष्यते'' इति पचादित्वाद्विकर्मकत्वम् ॥ सम्भोगान्ते मम हस्तसंवाहनान्नां हस्तेन मर्दनानाम् ॥ ``संवाहनं मर्दनं स्यात्'' इत्यमरः ॥ समुचितो योग्यः ॥ सरसो रसार्द्रः परिपक्वो न शुष्कश्च स एव विवक्षितः । तत्रैव पाण्डिमसम्भवात् । स चासौ कदलीस्तम्भश्च स एव गौरः पाण्डुरः ॥ ``गौरः करीरे सिद्धार्थे शुके पीतेऽरुणेऽपि च'' इति मालतीमालायाम् ॥ अस्याः प्रियाया वाम ऊरुश्चलत्वं स्पन्दनं यास्यति प्राप्स्यते ॥ ``ऊरोः स्पन्दाद्रतं विद्यादूर्वोः प्राप्तिं सुवाससः'' इति निमित्तनिदाने ॥ तस्मिन्काले जलद यदि सा लव्धनिद्रासुखा स्यात् अन्वास्यैनां स्तनितविमुखो याममात्रं सहस्व । मा भूदस्याः प्रणयिनि मयि स्वप्नलब्धे कथञ्चि- त्सद्यः कण्ठच्युत भुजलताग्रन्थि गाढोपगूढम् ॥ ३४॥ तस्मिन्निति ॥ हे जलद, तस्मिन्काले त्वदुपसर्पणकाले सा मत्प्रिया लब्धं निद्रासुखं यया तादृशी स्याद्यदि स्याच्चेत् । एनां निद्राणामन्वास्य । पश्चादासित्वेत्यर्थः ॥ उपसर्गवशात्सकर्मकत्वम् ॥ स्तनितविमुखो गर्जितपराङ्मुखो निःशब्दः सन् । अन्यथा निद्राभङ्गः स्यादिति भावः । याममात्रं प्रहरमात्रम् ॥ ``द्वौ यामप्रहरौ समौ इत्यमरः ॥ सहस्व प्रतीक्षस्व ॥ प्रार्थनायां लोट् ॥ शक्तयोरेकवारसुरतस्य यामावधिकत्वात्स्वमेऽपि तथा भवितव्यमित्यभिप्रायः । तथा च रतिसर्वस्वे - ``एकवारावधिर्यामो रतस्य परमो मतः । चण्डशक्तिमतोर्यूनो रुद्भट क्रमवतिनोः ॥ ``इति ॥ यामसहनस्य प्रयोजनमाह- मा भूदिति ॥ अस्याः प्रियायाः प्रणयिनि प्रेयसि मयि कथञ्चित्कृच्छ्रेण स्वप्नलब्धे सति । गाढोपगूढं गाढालिङ्गनम् ॥ नपुंसके भावे क्तः ॥ सद्यस्तत्क्षणं कण्ठाच्च्युतः स्रस्तो भुजलतयोर्ग्रन्थिर्बन्धो यस्य तन्मा भून्मास्तु । कथञ्चिल्लब्धस्यालिङ्गनस्य सद्यो विघातो मा भूदित्यर्थः । न चात्र निद्रोक्तिः ``तामुन्निद्राम्'' इति पूर्वोक्तेन निद्राच्छेदेन विरुध्यते पुनः सप्तम्याद्यवस्थासु पाक्षिकनिद्रासम्भवात् ॥ तथा च रसरत्नाकरे - ``आसक्ती रोदनं निद्रा निर्लज्जानर्थवाग्भ्रमः । सप्तमादिषु जायन्ते दशाभेदेषु वासुके ।'' इति तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् । विद्युद्गर्भः स्तिमितनयनां त्वत्सनाथे गवाक्षे वक्तुं धीरः स्तनितवचनैर्मानिनीं प्रक्रमेथाः ॥ ३५॥ तामिति ॥ तां प्रियां स्वस्य जलकणिकाभिर्जलनिन्दुभिः शीतलेनानिलेनोत्थाप्य प्रबोध्य । एतेन तस्याः प्रभुत्वाद्व्यजनानिलसमाधियन्यते । यथाह भोजराजः᳚मृदुभिर्मर्दनैः पादे शीतलैर्व्यजनैः स्तनौ । श्रुतौ च मधुरैगतईर्निद्रातो बोधयेत्प्रभुम्'' इति ॥ अभिनवैर्नूतनैमालतीनां जालकैः समं जातीमुकुलैः सह ॥ ``सुमना मालती जातिः'' इति । ``साकं सत्रा समं सह इति । ``क्षारको जालकं क्लीबे कलिका कोरकः पुमान्'' इति चामरः ॥ प्रत्याश्वस्तां सुस्थिताम् । अन्यञ्च पुनरुच्छ्वसिताम् ॥ श्वसेः कर्तरि क्तः । ``उगितश्च'' इति चकारादित्प्रतिषेधः ॥ एतेनास्याः कुसुमसौकुमार्यं गम्यते ॥ त्वत्सना त्वत्सहिते ॥ ``सनाथं प्रभुमित्याहुः सहिते चित्ततापिनि'' इति शब्दार्णवे ॥ गवाक्षे स्तिमितनयनां कोऽसाविति विस्मयान्निश्चलनेत्रां मानिनीं मनस्विनीम् । जनानौचित्यासहिष्णुमित्यर्थः । विद्युद्गर्भोऽन्तःस्थो यस्य स विद्युद्गर्भः । अन्तर्लीनविद्युत्क इत्यर्थः ॥ ``गर्भोऽपवनकेऽन्तस्थे गर्भोऽग्नौ कुक्षिणोऽर्भके'' इति शब्दार्णवे ॥ दृष्टिप्रतिघातेन वक्तुर्मुखावलोकन प्रतिबन्धकत्वान्न विद्युता द्योतितव्यमिति भावः । धीरो धैर्यविशिष्टश्च सन् । अन्यथाशीलत्वादिनैतदनाश्वासनप्रसङ्गादिति भावः । स्तनितवचनैः स्तनितान्यवे वचनानि तैर्वक्तुं प्रक्रमेथा उपक्रमस्व ॥ विध्यर्थे लिङ् ॥ ``मोपाभ्यां समर्थाभ्याम्'' इत्यात्मनेपदम् ॥ सम्प्रति दूतस्य श्रोतृजनाभिमुखीकरणचातुरीमुपदिशति- भर्तुर्मित्रं प्रियमविधवे विद्धि मामम्बुवाहं तत्सन्देशैर्हृदयनिहितैरागतं त्वत्समीपम् । यो वृन्दानि त्वरयति पथि श्राम्यतां प्रोषितानां मन्द्रस्निग्धैर्ध्वनिभिरबलावेणिमोक्षोत्सुकानि ॥ ३६॥ भर्तुरिति ॥ विधवा गतभर्तृका न भवतीत्यविधवा सभईङ्का । हे अविधवे । अनेन भर्तृजीवनसूचनादनिष्टाशङ्कां वारयति । मां भर्तुस्तव पत्युः मित्रं मित्रं प्रियसुहृदम् । तत्रापि हृदयनिहितैर्मनसि स्थापितैस्तत्सन्देशैस्तस्य भर्तुः सन्देशैस्त्वत्समीपमागतम् । भर्तुः सन्देशकथनार्थमागतमित्यर्थः । अम्बुवाहं मेघं विद्धि जानीहि ॥ न केवलमहं वार्ताहरः किन्तु घटकोऽपीत्याशयेनाह । योऽम्बुवाहो मेघो मन्द्रस्निग्धैः स्निग्धगम्भीरैर्ध्वनिभिर्गजितैः करणैः अबलानां स्त्रीणां वेणयस्तासां मोक्षे मोचन उत्सुकानि पथि श्राम्यतां श्रान्तिमापन्नानां प्रोषितानां प्रवासिनाम् । पान्थानामित्यर्थः । वृन्दानि सङ्घांस्त्वरयति । पान्योपकारिणो मे किमुवक्त सुहृदुपकारित्वमिति भावः ॥ भर्तृसख्यादिज्ञापनस्य फलमाह- इत्याख्याते पवनतनयं मैथिलीवोन्मुखी सा त्वामुत्कण्ठोच्छ्वसितहृदया वीक्ष्य सम्भाव्य चैवम् । श्रोष्यत्यस्मात्परमवहिता सौम्य सीमन्तिनीनां कान्तोदन्तः सुहृदुपनतः सङ्गमात्किञ्चिदूनः ॥ ३७॥ इतीति ॥ इत्येवमाख्याते सति पवनतनयं हनूमन्तं मैथिलीव सीतेव सा मत्प्रिया । उन्मुख्युत्कण्ठयौत्सुक्येनोच्छ्वसितहृदया विकसितचित्ता सती त्वां वीक्ष्य सम्भाव्य सत्कृत्य च । अस्माद्भर्तृमैत्रीज्ञापनात्परं सर्वं श्रोतव्यम् । अवहिताऽप्रमत्ता सती श्रोष्यत्येव ॥ अत्र सीताहनूमदुपाख्यानादस्याः पातिव्रत्यं मेघस्य दूतगुणसम्पत्तिश्च व्यज्यते । तद्गुणास्तु रसाकरे - ``ब्रह्मचारी बली धीरो मायावी मानवर्जितः । धीमानुदारो निःशङ्को वक्ता दूतः स्त्रियां भवेत् ॥ ``इति ॥ ननु वार्तामात्रश्रवणादस्याः को लाभ इत्याशङ्कयार्थान्तरमुपन्यस्यति -हे सौम्य साधो, सीमन्तिनीनां वधूनाम् ॥ ``नारी सीमन्तिनी वधूः `` इत्यमरः ॥ सुहृदा सुहृन्मुखेनोपनतः प्राप्तः सन् । सुहृत्पदं विप्रलम्भशङ्कानिवारणार्थम् । कान्तस्योदन्तो वार्ता कान्तोदन्तः ॥ ``वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्यात्'' इत्यमरः ॥ सङ्गमात्कान्तसम्पर्कात्किञ्चिदून ईषदूनस्तद्वदेवानन्दकारीत्यर्थः ॥ सम्प्रति सन्दिशति- तामायुष्मन्मम च वचनादात्मनश्चोपकर्तुं ब्रूयादेवं तव सहचरो रामगिर्याश्रमस्थः । अव्यापन्नः कुशलमबले पृच्छति त्वां वियुक्तः पूर्वाभाष्यं सुलभविपदां प्राणिनामेतदेव ॥ ३८॥ तामिति । हे आयुष्मन् ॥ प्रशंसायां मतुप् ॥ परोपकारश्लाघ्यजीवितेत्यर्थः । मम वचनं प्रार्थनावचनं तस्माच्चात्मनःस्वस्यापकर्तुं च । परोपकारेणात्मानं कृतार्थयितुमित्यर्थः ॥ उपकारक्रियां प्रति कर्मत्वेऽपि तस्यापकरोतीत्यादिवत्सम्बन्धमात्रविवक्षायामात्मन इति षष्ठी न विरुध्यते । यथा भारविः-`सा लक्ष्मीरुपकुरुते यया परेषां'' इति । तथा श्रीहर्षश्च - ``साधूनामुपकर्तुं लक्ष्मीं द्रष्टुं विहायसा गन्तुम् । न कुतूहलिकस्य मनश्चरितं च महात्मनां श्रोतुम् ॥ ``इति । तथा च ``क्वचित्कचिद्वितीयादर्शनात्सर्वस्य तथा'' इति नाथवचनमनाथवचनमेव ॥ तां प्रियामेवं ब्रूयात् । भवानिति शेषः ॥ किमित्याह -हे अबले, तव सहचरो भर्ता रामगिरोश्चत्रकूटस्याश्रमेषु तिछतीति रामगिर्याश्रमस्थः सन्नव्यापन्नः । न मृत इत्यर्थः । अमरणे हेतुमाह -वियुक्तो वियोगं प्राप्तो दुःखी संस्त्वाँ कुशलं पृच्छति ॥ दुह्यादित्वात्पृच्छतोर्द्वकर्मकत्वम् ॥ तथाहि । सुलभविपदामयत्त्नसिद्धविपत्तीनां प्राणिनामेतदेव कुशलमेव पूर्वभाष्यमेतदेव प्रथममवश्यं प्रष्टव्यम् ॥ ``कृत्याश्च'' इत्यावश्यकार्थे ण्यत्प्रत्ययः ॥ अङ्गेनाङ्गं प्रतनु तनुना गाढतप्तेन तप्तं सास्रेणाश्रुतमविरतोत्कण्ठमुस्कण्ठितेन । उष्णोच्छ्वासं समधिकतरोच्छ्वासिना दूरवर्ती सङ्कल्पैस्तैर्विशति विधिना वैरिणा रुद्धमार्गः ॥ ३९॥ अङ्गेनेति ॥ किं च । दूरवर्ती दूरस्थः । न चागन्तुं श क्यत इत्याह । वैरिणा विरोधिना विधिना देवैने रुद्धमार्गः प्रतिबद्धवर्त्मा स ते सहचरः । तनुना कृशेन गाढतप्तेनात्यन्तसन्तप्तेन सास्रेण साश्रुणा । उत्कण्ठा वेदनास्य जातोत्कण्ठितस्तेनोत्कण्ठितेन ॥ ``तदस्य सञ्जातम्-'' इत्यादिनेतच्प्रत्ययः । उत्कण्ठतेर्वा कर्तरि क्तः ॥ समधिकतरमधिकमुच्छ सितीति समधिकतरोच्ङ्गासी तेन । दीर्घनिःश्वासिनेत्यर्थः ॥ ताच्छील्ये णिनिः ॥ अङ्गेन स्वशरीरेण मतनुं कृशं तप्तं वियोगदुःखेन सन्तप्तमश्रुद्रुतमश्रुविन्नम् । अनेत्राम्बु रोदनं चास्रमश्रु च इत्यमरः ॥ अविरतोत्कण्ठमविच्च्छिन्नवेदनमुष्णोच्छ्वासं तीव्रानिःश्वासम् ॥ ``तिग्मं तीव्रं खरं तीक्ष्णं चण्डमुष्णं समं स्मृतम्'' इति हलायुधः ॥ अङ्गं त्वदीयं शरीरं तैः स्वसंवेद्यैः सङ्कल्पैर्मनोरथैर्विंशति । एकीभवतीत्यर्थः । अत्र समरागित्वद्योतनाय नायकेन नायिकायाः समानावस्थत्वमुक्तम् ॥ सम्प्रति स्वावस्थानिवेदनाय मस्तौति- शब्दाख्येयं यदपि किल ते यः सखीनां पुरस्ता- त्कर्णे लोलः कथयितुमभूदाननस्पर्शलोभात् । सोऽतिक्रान्तः श्रवणविषयं लोचनाभ्यामदृष्ट- स्त्वामुत्कण्ठाविरचितपदं मन्मुखेनेदमाह ॥ ४०॥ शब्दाख्येयमिति ॥ हे अबले, यस्ते प्रियः सखीना पुरस्तादग्र आननस्पर्शे त्वन्मुखसम्पर्के लोभाद्गार्ध्न्यात् । अधरपानलोभादित्यर्थः । शब्दाख्येयं शब्देन रवेणाख्येयमुच्चैर्वाञ्च्यमपि यत्तत् । वचनमपीति शेषः । कर्णे कथयितुं लोलो लालसोऽभूत्किल ॥ ``लोलुपो लोलुभो लोलो लालसो लम्पटोऽपि च'' इति यादवः ॥ श्रवणविषयं कर्णपथमतिक्रान्तः । तथा लोचनाभ्यामदृष्टः । अतिदूरत्वाद्द्द्रष्टुं श्रोतुं च न शक्य इति भावः । स ते प्रियः । त्वामुत्कण्ठया विरचितानि पदानि सुप्तिङन्तशब्दा वाक्यानि वा यस्य तत्तथोक्तम् ॥ ``पदं शब्दे च वाक्ये च'' इति विश्वः ॥ इदं वक्ष्यमाणं ``श्यामास्वङ्ग-'' म्'' इत्यादिकं मन्मुखेनाह । मन्मुखेन स एव नूत इत्यर्थः ॥ सादृश्यप्रतिकृतिस्वप्नदर्शन तदङ्गस्पृष्टस्पर्शाख्यानि चत्वारि विरहिणां विनोदस्थानानि । तथा चोक्तं गुणपताकायां - ``वियोगावस्थासु प्रियजन सदृक्षानुभवनं ततश्चित्रं कर्म स्वपनसमये दर्शनमपि । तदङ्गस्पृष्टानामुपनतवतां दर्शनमपि प्रतीकारोऽनङ्गव्यथितमनसां कोऽपि गदितः ॥ `` इति ॥ तत्र सदृशवस्तुदर्शनमाह- श्यामास्वङ्गं चकितहरिणप्रेइक्षणे दृष्टिपातं वक्त्रच्छायां शशिनि शिखिनां बर्हभारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान् हन्तैकस्मिन्क्वचिदपि न ते चण्डि सादृश्यमस्ति ॥ ४१॥ श्यामास्विति ॥ श्यामासु प्रियङ्गुलतासु ॥ ``श्यामा तु महिलाह्वया । लता गोवन्दनी गुन्द्रा प्रियङ्गुः फलिनी फली'' इत्यमरः ॥ अङ्गं शरीरमुत्पश्यामि । सौकुमार्यादिसाम्यादङ्गमिति तर्कयामीत्यर्थः । तथा चकितहरिनां प्रेक्षणे ते दृष्टिपातं शशिनि चन्द्रे वक्त्रच्छायां मुखकान्विम् । तथा शिखिनां बर्हिणां बर्हभारेषु बर्हसमूहेषु केशान् । प्रतनुषु स्वल्पासु नदीनां वीचिषु ॥ अत्र वीचीनां विशेषणोपादाने नानुक्तगुणग्रहो दोषः । भ्रूसाम्यनिर्वाहाय महत्त्वदोषनिराकरणार्थत्वात्तस्येति । तदुक्तं रसरत्नाकरे - ``ध्वन्युत्पादे गुणोत्कर्षे भोगोक्तौ दोषवारणे । विशेषणादिदोषस्य नास्त्यनुक्तगुणग्रहः ॥ इति ॥ भ्रूविलासान् ॥ ``भ्रूपताकाः'' इति पाठे भ्रुवः पताका'' इवेत्युपमितसमासः ॥ उत्पश्यामीति सर्वत्र सम्बध्यते ॥ तथापि नास्ति मनोनिरृतिरित्याशयेनाह -हन्तेति ॥ हन्त विषादे ॥ ``हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोः'' इत्यमरः ॥ हे चण्डि कोपने ॥ ``चण्डस्त्वत्यन्तकोपनः'' इत्यमरः । गौरादित्वात् ङीष् ॥ उपमानकथनमात्रेण न कोपितव्यमिति भावः । क्वचिदपि कस्मिन्नयेकस्मिन्वस्तुनि ते तव सादृश्यं नास्ति । अतो न निर्व्वणोमीत्यर्थः । अनेनास्याः सौन्दर्यमनुपममिति व्यज्यते ॥ सम्प्रति प्रतिकृतिदर्शनमाह- त्वामालिख्य प्रणयकुपितां धातुरागैः शिलाया- मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । अस्रैस्तावन्मुहुरुपचितैर्दृष्टिरालुप्यते मे क्रूरस्तस्मिन्नपि न सहते सङ्गमं नौ कृतान्तः ॥ ४२॥ त्वमिति ॥ हे प्रिये, प्रणयेन प्रेमातिशयेन कुपितां कुपितावस्थायुक्तां त्वाम् । त्वत्प्रतिकृतिमित्यर्थः । धातवो गैरिकादयः ॥ ``धातुर्वातादिशब्दादिगैरिकादिष्वजादिषु'' इति यादवः ॥ त एव रागा रञ्जकद्रव्याणि ॥ ``चित्रादिरञ्जकद्रव्ये लाक्षादी प्रणयेच्छयोः । सारङ्गादौ च रागःस्यादारुण्ये रञ्जने पुमान्'' इति शब्दार्णवे ॥ तैर्धातुरागैः । शिलायां शिलापट्ट आलिख्य निर्मायात्मानं मामः । मत्प्रतिकृतिमित्यर्थः । ते तव । चित्रगताया इत्यर्थः । चरणपतितं कर्तुं तथा लेखितुं यावदिच्छामि तावदिच्छासमकालं मुहुरुपचितैः प्रवृद्धैरसैरश्रुभिः कर्तृभिः ॥ ``अस्मश्रुणि शोणिते'' इति विश्वः ॥ मे दृष्टिरालुप्यते । आव्रियत इत्यर्थः । ततो दृष्टिप्रतिबन्धनालेखनं प्रतिबध्यत इति भावः । किम्बहुना क्रूरो घातुकः ॥ ``नृशंसो घातुकः क्रूरः इत्यमरः ॥ कृतान्तो दैवम् ॥ ``कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु'' इत्यमरः ॥ तस्मिअपि चित्रेऽपि ॥ नावावयोः ॥ ``युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थ योवनावौ'' इति नावादेशः ॥ सङ्गमं सहवासं न सहते । सङ्गम लेखनमप्यावयोरसहमानं दैवमावयोः सङ्ग न सहत इति किमु वक्तव्यमित्यपिशब्दार्थः ॥ अधुना स्वप्नदर्शनमाह- मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतो- र्लब्धायास्ते कथमपि मया स्वप्नसन्दर्शनेषु । पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति ॥ ४३॥ मामिति ॥ सुप्तस्य विज्ञानं स्वप्न ॥ ``स्वप्नः सुप्तस्य विज्ञानम्'' इति विश्वः ॥ सन्दर्शनं संवित् ॥ ``दर्शनं समये शास्त्रे दृष्टौ स्वप्नेऽक्ष्णि संविदि'' इति शब्दार्णवे ॥ स्वप्नसन्दर्शनानि स्वप्नज्ञानानि ॥ चूतवृक्षादिवत्सामान्यविशेषभावेन सहप्रयोगः ॥ तेषु मया कथमपि महता प्रयत्नेन लब्धाया गृहीतायाः । दृष्टाया इति यावत् ॥ ते तव निर्दयाश्लेषो गाढालिङ्गनं स एव हेतुस्तस्य । निर्दयाश्लेषार्थमित्यर्थः ॥ ``षष्ठी हेतुप्रयोगे'' इति षष्ठी ॥ आकाशे निर्विषये प्रणिहितभुजं प्रसारितबाहुं मां पश्यन्तीनां स्थलीदेवतानां मुक्ता मौक्तिकानीव स्थूला अश्रुलेशा बाष्पविन्दवस्तरुकिसलयेषु । अनेन चेलाञ्चलेनाश्रुधारणसमाधिर्ध्वन्यते । बहुशो न पतन्तीति न । किन्तु पतन्त्येवेत्यर्थः ॥ निश्चये नञ्द्वयप्रयोगः । तथा चाधिकारसूत्रम्--`स्मृतिनिश्चयसिद्धार्थेषु नञ्द्वयप्रयोगः सिद्धः'' इति । ``महात्मगुरु देवानामश्रुपातः क्षितौ यदि । देशभ्रंशो महद्दुःखं मरणं च भवेदुवम् ॥ ``इति क्षितौ देवताश्रुपातनिषेधदर्शनाद्यक्षस्य मरणभावसूचनार्थं तरुकिसलयेषु पतन्तीत्युक्तम् ॥ इदानीं तदङ्गस्पृष्टवस्तुदर्शनमाह- भित्त्वा सद्यः किसलयपुटान्देवदारुद्रुमाणां ये तत्क्षीरस्रुतिसुरभयो दक्षिणेन प्रवृत्ताः । आलिङ्गयन्ते गुणवति मया ते तुषाराद्रिवाताः पूर्वं स्पृष्टं यदि किल भवेदङ्गमेभिस्तवेति ॥ ४४॥ भित्वेति ॥ देवदारुदुमाणां किसलयपुटान्पल्लवपुटान सद्यो भित्त्वा । तत्क्षीरसुतिसुरभयस्तेषां देवदारुद्रुमाणां क्षीरस्रुतिभिः क्षीरनिष्यन्दैः सुरभयः सुगन्धयः । तुषाराद्रिजातत्वे लिङ्गमिदम् । ये वाता दक्षिणेन दक्षिणमार्गेण ॥ तृतीय विधाने प्रकृत्यादिभ्य उपसङ्ख्यानात्तृतीया । समेन धावतीतिवत् । तत्रापि करणत्वस्य प्रतीयमानत्वात् । कर्तृकरणयोरेव तृतीया'' इति भाष्यकारः ॥ प्रवृत्ताश्चलिताः । हे गुणवति सौशील्यसौकुमार्यादिगुणसम्पन्ने, ते तुषाराद्रिवाताः पूर्वं प्रागेभिर्वातैस्तवाङ्गं स्पृष्टं भवेद्यदि । किलेति सम्भावितमेतदिति बुद्धयेत्यर्थः ॥ ``वार्ता सम्भाव्ययोः किल'' इत्यमरः ॥ मयालिङ्गयन्त आश्लिष्यन्ते ॥ अत्र वायूनां स्पृश्यत्वेऽप्यमूर्तत्वेनालिङ्गनायोगादालिङ्गन्यन्त इत्यभिधानम् । यक्षस्योन्मत्तत्वात्प्रलपितमित्यदोष इति वदन्निरुक्तकारः स्वयमेवोन्मत्तप्रलापीत्युपेक्षणीयः ॥ सङ्क्षिप्येत क्षण इव कथं दीर्घयामा त्रियामा सर्वावस्थास्वहरपि कथं मन्दमन्दातपं स्यात् । इत्थं चेतश्चटुलनयने दुर्लभप्रार्थनं मे गाढोष्माभिः कृतमशरणं त्वद्वियोगव्यथाभिः ॥ ४५॥ सङ्क्षिप्येतेति ॥ दीर्घा यामाः प्रहरा यस्यां सा दीर्घयामा । विरहवेदनया तथा प्रतीयमानेत्यर्थः । त्रियामा रात्रिः ॥ ``आद्यन्तयोरर्धयामयोर्दिन व्यवहारात्रियामा'' इति क्षीरस्वामी ॥ क्षण इव कथं केन प्रकारेण सङ्क्षिप्येत लघुक्रियेत । अहरपि सर्वावस्थासु । सर्वकालेष्वित्यर्थः । मन्दमन्दो मन्दप्रकारः ॥ ``प्रकारे गुणवचनस्य'' इति द्विरुक्तिः । ``कर्मधारयवदुत्तरेषु'' इति कर्मधारयवद्भावात्सुपो लुक् ॥ मन्दमन्दातपमत्यल्प सन्तापं कथं स्यात् । न स्यादेव । हे चटुलनयने चञ्चलाक्षि, इत्थमनेन प्रकारेण दुर्लभप्रार्थनमप्राप्यमनोरथं मे मम चेतो गाढोष्माभिरतितीव्राभिस्त्वद्वियोगव्यथाभिरशरणमनाथं कृतम् ॥ न च मदीयदुर्दशाश्रवणाद्भेतव्यमित्याह- वात्मानं बहु विगणयन्नात्मनैवावलम्बे तत्कल्याणि त्वमपि नितरां मा गमः कातरत्वम् । कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेण ॥ ४६॥ नन्विति ॥ नन्वित्यामन्त्रणे ॥ ``प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु'' इत्यमरः ॥ ननु प्रिये बहु विगणयापान्तेः सत्येवमेवं करिष्यामीत्यावर्तयन्नात्मानमात्मनैव स्वेनैव ॥ ``प्रकृत्यादिभ्य उपसङ्ख्यानम्'' इति तृतीया ॥ अवलम्बे धारयामि । यथाकथञ्चिज्जीवामीत्यर्थः । तत्तस्मात्कारणात् । कल्याणि सुभगे, त्वत्सौभाग्येनैव जीवामीति भावः ॥ ``बड्वादिभ्यश्च'' इति ङीष् ॥ त्वमपि नितरामत्यन्तं कातरत्वं भीरुत्वं मा गमः मा गच्छ ॥ ``न माङच्चोगे'' इत्यडागमाभावः ॥ तादृक्सुखिनोरावयोरीदृशि दुःखे कथं न विभेमीत्याशङ्कयाह -कस्येति ॥ कस्य जनस्यात्यन्तं नियतं सुखमुपनतं प्राप्तमेकान्ततो नियमन दुःखं वोपनतम् । किं तु दशावस्था चक्रस्य रथाङ्गस्य नेमिस्तदन्तः ॥ ``चक्रं रथाङ्गं तस्यान्ते नेमिः स्त्री स्थात्प्रधिः पुमान्'' इत्यमरः ॥ तस्याः क्रमेण परिपाव्या ॥ ``क्रमः शक्तौ परीपाट्याम्'' इति विश्वः ॥ नीचैरध उपरि च गच्छति प्रवर्तते । एवं जन्तोः सुखदुःखे पर्यावर्तेते इत्यर्थः ॥ न च निरवधिकमेतदुःखमित्याह- शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ शेषान्मासान्गमय चतुरो लोचने मीलयित्वा । पश्चादावां विरहगुणितं तं तमात्माभिलाषं निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ ४७॥ शापान्त इति ॥ पाणौ शार्ङ्गं यस्य स तस्मिञ्शार्ङ्गपाणी विष्णौ ॥ ``सप्तमीविशेषणे-'' इत्यादिना बहुवीहिः । ``प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः'' इति वक्तव्यात्पाणिशब्दस्योत्तरनिपातः ॥ भुजगः शेष एव शयनं तस्मादुत्थिते सति मे शापान्तः शापावसानम् । भविष्यतीत्तिशेषः । शेषानवशिष्टांश्चतुरो मासान् । मेघदर्शनप्रभृति हरिबोधनदिनान्तमित्यर्थः । दशदिवसाधिक्यं त्वत्र न । विवक्षितमित्युक्तमेव । लोचने मीलयित्वा निमील्य गमय । धैर्येणातिवाहयेत्यर्थः । पश्चादनन्तरं त्वं चाहं चावाम् ॥ ``त्यदादीनि सर्वैर्नित्यम्'' इत्येकशेषः ॥ त्यदादीनां मिथो द्वन्द्वे यत्परं तच्छिष्यते'' इत्यस्मदः शेषः ॥ विरहे गुणितमेवमेवं करिष्यातीति मनस्यावर्तितम् । तं तम् ॥ वीप्सायां द्विरुक्तिः ॥ आत्मनोरावयोरभिलाषं मनोरथम् । परिणताः शरच्चन्द्रिका यासां तासु क्षपासु रात्रिषु ॥ निर्वेक्ष्यावो भोक्ष्यावहे ॥ विशतेर्लृट् ॥ ``निर्वेशो भृतिभोगयोः'' इत्यमरः ॥ अत्र कैश्चित् ``नभोनभस्ययोरेव वार्षिकत्वात्कथमाषाढादिचतुष्टयस्य वार्षिकत्वमुक्तमिति चोदयित्वर्तुत्रयपक्षाश्रयणादविरोधः'' इति पर्यहारि तत्सर्वमसङ्गतम् । अत्र गतशेषाश्चत्वारो मासा इत्युक्तं कविना न तु ते वार्षिका इति । तस्मादनुक्तोपालम्भ एव । यच्च नाथेओक्तं ``कथमाषाढा दिचतुष्टयात्परं शरत्कालः'' इति । तत्राप्याकार्तिकसमाप्तेः शरत्कलानुवृत्तेः परिणतशरच्चन्द्रिकास्वित्युक्तम् । न तु तदैव शरत्प्रादुर्भाव उक्तइत्यविरोध एव ॥ सम्प्रति तस्या मेघवञ्चकत्वशङ्कानिरासायातिगूढमभिधेयमुपदिशति- भूयश्चाहं त्वमपि शयने कण्ठलग्ना पुरा मे निद्रां गत्वा किमापे रुदती सस्वनं विप्रबुद्धा । सान्तर्हासं कथितमसकृत्पृच्छतश्च त्वया मे दृष्टः स्वप्ने कितवरमयन्कामपि त्वं मयेति ॥ ४८॥ भूय इति ॥ हे अबले, भूयः पुनरप्याह । त्वद्भर्ता मन्मुखेनेति शेषः । मेघवचनमेतत् । किमित्यत आहपुरा पूर्वम् । पुराशब्दश्चिरातीते ॥ ``स्यात्प्रबन्धे चिरातीते निकटागामि पुरा'' इत्यमरः ॥ शयने मे कण्ठलग्नापि त्वम् । गले बद्धस्य कथमपि गमनं न सम्भवेदिति भावः । निद्रां गत्वा किमपि । केन वा निमित्तेनेत्यर्थः । सस्वनं सशब्दम् । उच्चैरित्यर्थः । रुदती सती विप्रबुद्धा । आसीदिति शेषः । असकृद्बहुशः पृच्छतः । रोदन हेतुमिति शेषः । मे मम । हे कितव, त्वं कामपि रमयन्मया स्वप्ने दृष्ट इति त्वया सान्तर्हासमन्दहासं यथा तथा कथितं चेति । त्वद्भर्ता भूयञ्चाहेति योजना । एतस्मान्मां कुशलिनमभिज्ञानदानाद्विदित्वा मा कौलीनाच्चकितनयने मय्यविश्वासिनी भूः । स्नेहानाहुः किमपि विरहे ध्वंसिनस्ते त्वभोगा दिष्टे वस्तुन्युपचितरसाः प्रेमराशीभवन्ति ॥ ४९॥ एतस्मादिति । एतस्मात्पूर्वोक्तात् । अभिज्ञायतेऽनेनेत्यभिज्ञानं लक्षणं तस्य दानात्प्रापणान्मां कुशलिनं क्षेमवन्तं विदित्वा ज्ञात्वा । हे चकितनयने, कुले जनसमूहे भवात्कौलीनाल्लोकमवादात् । एतावता कालेन परासुनो चेदागच्छतीति जनप्रवादादित्यर्थः ॥ ``स्यात्कौलीनं लोकवादे युद्धे पश्चहिपक्षिणाम्'' इत्यमरः ॥ मयि वि षयेऽविश्वासिनी मरणशङ्किनीं मा भूर्न भव ॥ भवतेर्लुङ । ``न माङयोगे'' इत्यडागमप्रतिषेधः ॥ न च दीर्घकालविप्रकर्षात्पूर्वस्नेहनिवृत्तिराशङ्कयेत्याह - स्नेहानिति ॥ किमपि किञ्चिन्निमित्तम् ॥ न विद्यत इति शेषः । स्नेहान्मीतीविरहे सत्यन्योन्यविप्रकर्षे सति ध्वंसिनो विनश्वरानाहुः । तत्तथा न भवतीत्यभिप्रायः । किन्तु ते स्नेहा अभोगाद्दिर हे भोगाभावाद्धेतोः ॥ प्रसज्जप्रतिषेधेऽपि नञ्समास इष्यते ॥ इष्टे वस्तुनि विषयेम् । उपचितो रसःस्वादो येषु त उपचितरसाः सन्तः । मवृद्धवृष्णा इत्यर्थः ॥ ``रसो गन्धरसे स्वादे तिक्तादौ विषरागयोः'' इति विश्वः ॥ प्रेमराशीभवन्ति । वियोगासहिष्णुत्वमापद्यन्त इत्यर्थः ॥ स्नेह प्रेम्णोरवस्थाभेदाद्भेदः । तदुक्तं - ``आलोकनाभिलाषौ रागस्ने हौततः प्रेमा । रतिश‍ृङ्गारौ योगे वियोगता विप्रलम्भश्च ॥ इति । तदेव स्फुटीकृतं रसाकरे - ``प्रेमादिदृक्षारम्येषु तच्चिन्ता त्वभिलाषकः । रागस्तत्सङ्गबुद्धिः स्यात्स्ने हस्तत्वणक्रिया ॥ तद्वियोगासहं प्रेम रतिस्तत्सहवर्तनम् । श‍ृङ्गारस्तत्समः क्रीडा संयोगः सप्तधा क्रमात् ॥ ``इति ॥ इत्थं स्वकुशलं सन्दिश्य तत्कुशलसन्देशानयनमिदानीं याचते- आश्वास्यैवं प्रथमविरहोदग्रशोकां सखीं ते शैलादाशु त्रिनयनवृषोत्खातकूटानिवृत्तः । साभिज्ञानप्रहितकुशलैस्तद्वचोभिर्ममापि प्रातः कुन्दप्रसवशिथिलं जीवितं धारयेथाः ॥ ५०॥ आश्वास्येति ॥ प्रथमविरहेणोदग्रशोकां तीव्रदुःखां ते सखीमेवं पूर्वोक्तरीत्याश्वास्योपजीव्य त्रिनयनस्य ध्यम्बकस्य वृषेण वृषभेणोत्खाता अवदारिताः कूटाः शिखराणि यस्य तस्मात् ॥ ``कूटोऽस्त्री शिखरं श‍ृङ्गम्'' इत्यमरः ॥ शैलात्कैलासादाशु निवृत्तः सन्प्रत्यावृत्तः सन्साभिज्ञानं सलक्षणं यथातथा प्रहितं प्रेषितं कुशलं येषु तैस्तस्यास्त्वत्सख्या वचोभिर्ममापि प्रातः कुन्दप्रसवमिव शिथिल दुर्बलं जीवितं धारयेथाः स्थापय । प्रार्थनायां लिङ् ॥ सम्प्रति मेघस्य प्रार्थनाङ्गीकारं प्रश्नपूर्वकं कल्पयति- कच्चित्सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे प्रत्यादेशान्न खलु भवतो धीरतां कल्पयामि । निःशब्दोऽपि प्रदिशसि जलं याचितश्चातकेभ्यः प्रत्युक्तं हि प्रणयिषु सतामीप्सितार्थक्रियैव ॥ ५१॥ कच्चिदिति ॥ हे सौम्य साधो, इदं मे बन्धुकृत्यं बन्धुकार्यम् ॥ देवदत्तस्य गुरुकुलमितिवत्प्रयोगः ॥ व्यवसितं कच्चित्करिष्यामीति निश्चितं किम् ॥ ``कच्चित्काममवेदने'' इत्यमरः ॥ अभिप्रायज्ञापनं कामप्रवेदनम् ॥ न चतूष्णीम्भावादनङ्गीकारं शङ्के यतस्ते स एवोचित इत्याह-प्रत्यादेशात्करिष्यामि इति प्रतिवचनात् ॥ ``उक्तिराभाषणं वाक्यमादेशो वचनं वचः'' इति शब्दार्णवे ॥ भवतस्तव धीरतां गम्भीरत्वं न कल्पयामि न समर्थये खलु । तर्हि कथमङ्गीकारज्ञानं तत्राह -याचितः सन्निःशब्दोऽपि निर्गजितोऽपि । अप्रतिजानानोऽपीत्यर्थः । चातकेभ्यो जलं प्रदिशसि ददासि । युक्तं चैतदित्याहहि यस्मात्सतां सत्पुरुषाणां प्रणयिषु याचकेषु विषय ईप्सितार्थक्रियैवापेक्षितार्थसम्पादनमेव प्रत्युक्तं प्रतिवचनम् । क्रिया केवल मुत्तरमित्यर्थः ॥ ``गर्जति शरदि न वर्षति वर्षति वर्षासु निःस्वनो मेघः । नीचो वदति न कुरुते न वदति सुजनः करोत्येव ॥ ``इति भावः ॥ सम्प्रति स्वापराधसमाधानपूर्वकं स्वकार्यस्यावश्यं करणं प्रार्थयमानो मेघं विसृजति- एतत्कृत्वा प्रियमनुचितप्रार्थनावर्तिनो मे सौहार्दाद्वा विधुर इति वा मय्यनुक्रोशबुद्धया । इष्टान्देशाञ्जलद विचर प्रावृषा सम्भृतश्री- र्मा भूदेवं क्षणमपि च ते विद्युता विप्रयोगः ॥ ५२॥ एतदिति ॥ हे जलद, सौहार्दात्सुहृद्भावात् ॥ ``हद्भगसिन्ध्वन्ते पूर्वपदस्य च'' इत्युभयपदवृद्धिः ॥ विधुरो वियुक्त इति हेतोर्वा ॥ ``विधुरं तु प्रविश्लेषे'' इत्यमरः ॥ मयि विषयेऽनुक्रोशबुद्धया करुणाबुद्ध्या वा । अनुचिता तवाननुरूपा या प्रार्थना प्रियां प्रति ``सन्देशं मे हर'' इत्येवंरूपा तत्र वर्तिनो निर्बन्धात्परस्य मे ममैतत्सन्देशहरणरूपं प्रियं कृत्वा सम्पाद्य प्रावृषा वर्षाभिः ॥ ``स्त्रियां प्रावृट् स्त्रियां गति वर्षाः'' इत्यमरः ॥ सम्भृतश्रीरुपचितशोभः सन् । इष्टान्स्वाभिलषितान्देशान्विचर । यथेष्टदेशेषु विहरेत्यर्थः ॥ ``देशकालाध्वगन्तव्याः कर्मसंज्ञा ह्यकर्मणाम्'' इति वचनात्कर्मत्वम् ॥ एवं मद्दत्क्षणमपि स्वल्पकालमपि ते तव विद्युता । कलत्रेणेति शेषः । विप्र योगो विरहो मा भून्मास्तु ॥ माङित्याशिषि लुङ् ॥ ``अन्ते काव्यस्य नित्यत्वात्कुर्यादाशिषमुत्तमाम् । सर्वत्र व्याप्यते विद्वानायकेच्छानुरूपिणीम् ॥ ``इति सारस्व तालङ्कारे दर्शनात्काव्यान्ते नायकेच्छानुरूपोऽयमाशीर्वादः प्रयुक्त इत्यनुसन्धेयम् ॥ इति श्रीमहोपाध्यायमल्लिनाथसूरि विरचितया सं जीविनीसमाख्यया व्याख्यया समेतो महाकविश्रीकालिदासविरचिते मेघदूते काव्ये उत्तरमेघः समाप्तः । अन्त इमे क्षेपका दृश्यन्ते - तस्माददेर्निगदितुमथो शीघ्रमेत्यालकायां यक्षागारं विगलितनिभं दृष्टचिह्नौर्विदित्वा । यत्सन्दिष्टं प्रणयमधुरं गुह्यकेन प्रयत्ना त्तद्गेहिन्याः सकलमवदत्कामरूपी पयोदः ॥ तं सन्देशं जलधरवरो दिव्यवाचा चचक्षे प्राणांस्तस्या जनहितरतो रक्षितुं यक्षवध्वाः । प्राप्योदन्तं प्रमुदितमना सापि तस्थौ स्वभर्तुः केषां न स्यादभिमतफला प्रार्थना ह्युत्तमेषु ॥ श्रुत्वा वार्ता जलदकथितां तां धनेशोऽपि सद्यः शापस्यान्ते सदयहृदयः संविधायास्तकोषः । संयोज्यैतौ निगलित शुचौ दम्पती हृष्टचित्तौ भोगानिष्टानविरतसुखं भोजयामास शश्वत् ॥ Proofread by Mandar Mali
% Text title            : Meghadutam with Sanjivini Commentary
% File name             : meghadUtamsavyAkhyA.itx
% itxtitle              : meghadUtam sanjIvinyA sametam
% engtitle              : meghadUtam savyAkhyA sanjIvinyA sametam
% Category              : major_works
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Language              : Sanskrit, Hindi
% Subject               : philosophy/hinduism/religion
% Proofread by          : Mandar Mali
% Indexextra            : (Scan, Audio)
% Latest update         : June 20, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org