॥ नैष्कर्म्यसिद्धिः ॥

अथ प्रथमोऽध्यायः । आब्रह्मस्तम्बपर्यन्तैः सर्वप्राणिभिः सर्वप्रकारस्यापि दुःखस्य स्वरसत एव जिहासितत्वात्तन्निवृत्त्यर्था प्रवृत्तिरस्ति स्वरसत एव । दुःखस्य च देहोपादानैकहेतुत्वाद्देहस्य च पूर्वोपचितधर्माधर्ममूलत्वादनुच्छित्तिः । तयोश्चविहितप्रतिषिद्धकर्ममूलत्वादनिवृत्तिः । कर्मणश्च रागद्वेषास्पदत्वाद्रागद्वेषयोश्च शोभनाशोभनाध्यासनिबन्धनत्वादध्यासस्य चाविचारितसिद्धद्वैतवस्तुनिमित्तत्वाद्द्वैतस्य च शुक्तिकारजतादिवत्सर्वस्यापि स्वतस्सिद्धाद्वितीयात्मानवबोधमात्रोपादानत्वादव्यावृत्तिः । अतः सर्वानर्थहेतुरात्मानवबोध एव । सुखस्य चानागमापायिनोऽपरतन्त्रस्यात्मस्वभावत्वात्तस्यानवबोधः पिधानम् । अतस्तस्यात्यन्तोच्छित्तावशेषपुरुषार्थपरि- समाप्तिः । अज्ञाननिवृत्तेश्च सम्यग्ज्ञानस्वरूपलाभ- मात्रहेतुत्वात्तदुपादानम् । अशेषानर्थहेत्वात्मानवबोध- विषयस्य चानागमिकप्रत्यक्षादिलौकिकप्रमाणाविषयत्वा- द्वेदान्तागमवाक्यादेव सम्यग्ज्ञानम् । अतोऽशेषवेदान्तसारसंग्रहप्रकरणमिदमारभ्यते । तत्राभिलषितार्थप्रचयाय प्रकरणार्थसंसूत्रणाय चायमाद्यः श्लोकः । खानिलाग्न्यब्धरित्र्यन्तं स्रक्फणीवोद्गतं यतः । ध्वान्तच्छिदे नमस्तस्मै हरये बुद्धिसाक्षिणे ॥ १॥ स्वसम्प्रदायस्य चोदितप्रमाणपूर्वकत्वज्ञापनाय विशिष्टगुणसम्बन्धसंकीर्तनपूर्विका गुरोर्नमस्कारक्रिया । अलब्ध्वातिशयं यस्माद्व्यावृत्तास्तमबादयः । गरीयसे नमस्तस्मा अविद्याग्रन्थिभेदिने ॥ २॥ नमस्कारनिमित्तस्वाशयाविष्करणार्थः । वेदान्तोदरसंगूढं संसारोत्सारि वस्तुगम् । ज्ञानं व्याकृतमप्यन्यैर्वक्ष्ये गुर्वनुशिक्षया ॥ ३॥ किंविशयं प्रकरणमिति चेत्तदुपन्यासः । यत्सिद्धाविदमः सिद्धिर्यदसिद्धौ न किंचन । प्रत्यग्धर्मैकनिष्ठस्य याथात्म्यं वक्ष्यते स्फुटम् ॥ ४॥ विवक्षितप्रकरणार्थप्ररोचनायानुक्तदुरुक्ताप्रामाण्यकारण- शङ्काव्युदासेनस्वगुरोः प्रामाण्योपवर्णनम् । गुरूक्तो वेदराद्धान्तस्तत्र नो वच्म्यशक्तितः । सहस्रकिरणव्याप्ते खद्योतः किं प्रकाशयेत् ॥ ५॥ गुरुणैव वेदार्थस्य परिसमापितत्वात्प्रकरणोक्तौ ख्यात्याद्यप्रामाण्य- कारणाशङ्केति चेत्तद्व्युदासार्थमाह । न ख्यातिलाभपूजार्थं ग्रन्थोऽस्माभिरुदीर्यते । स्वबोधपरिशुद्ध्यर्थं ब्रह्मविन्निकषाश्मसु ॥ ६॥ अनर्थानर्थहेतुपुरुषार्थतद्धेतुप्रकरणार्थसंग्रहज्ञाप - नायोपन्यासः । ऐकात्म्याप्रतिपत्तिर्या स्वात्मानिभवसंश्रया । साऽविद्या संसृतेर्बीजं तन्नाशो मुक्तिरात्मनः ॥ ७॥ पुरुषार्थहेतोरवशिष्टत्वात्तदभिव्याहारः । वेदावसानवाक्योत्थसम्यग्ज्ञानाशुशुक्षणिः । दन्दहीत्यात्मनो मोहं न कर्माप्रतिकूलतः ॥ ८॥ प्रतिज्ञातार्थसंशुद्ध्यर्थं पूर्वपक्षोक्तिः । तत्र ज्ञानमभ्युपगम्य तावदुपन्यासः । मुक्तेः क्रियाभिः सिद्धत्वाज्ज्ञानं तत्र करोति किम् । कथं चेच्छृणु तत्सर्वं प्रणिधाय मनो यथा ॥ ९॥ अकुर्वतः क्रियाः काम्या निषिद्धास्त्यजतस्तथा । नित्यनैमित्तिकं कर्म विधिवच्चानुतिष्ठतः ॥ १०॥ किमतो भवति । काम्यकर्मफलं तस्माद्देवादीमं न ढौकते । निषिद्धस्य निरस्तत्वान्नारकीं नैत्यधोजनिम् ॥ ११॥ देहारम्भकयोश्च धर्माधर्मयोर्ज्ञानिना सह कर्मिणः समानौ चोद्यपरिहारौ । वर्तमानमिदं याभ्यां शरीरं सुखदुःखदम् । आरब्धं पुण्यपापाभ्यां भोगादेव तयोः क्षयः ॥ १२॥ काम्यप्रतिषिद्धकर्मफलत्वात्संसारस्य तन्निरासेनैवाशेषानर्थनिरासस्य सिद्धत्वात्किं नित्यानुष्ठानेनेति चेत्तन्न । तदकरणादप्यनर्थप्रसक्तेः । नित्यानुष्ठानतश्चैनं प्रत्यवायो न संस्पृशेत् । अनादृत्यात्मविज्ञानमतः कर्माणि संश्रयेत् ॥ १३॥ अभ्युपेत्यैवमुच्यते न तु यथावस्थितात्मवस्तुविषयं ज्ञानमस्ति । तत्प्रतिपादकप्रमाणाभावात् । यावन्त्यश्चेह विद्यन्ते श्रुतयस्स्मृतिभिस्सह । विदधत्युरुयत्नेन कर्मातो भूरिसाधनम् ॥ १४॥ स्यात्प्रमाणसम्भवो भवदपराधादिति चेत्तन्न । यतः । यत्नतो वीक्षमाणोऽपि विधिं ज्ञानस्य न क्वचित् । श्रुतौ स्मृतौ वा पश्यामि विश्वासो नान्यतोऽस्ति नः ॥ १५॥ स्यात्प्रवृत्तिरन्तरेणापि विधिं लोकवदिति चेत्तन्न । यतः । अन्तरेण विधिं मोहाद्यः कुर्यात्साम्परायिकम् । न तत्स्यादुपकाराय भस्मनीव हुतं हविः ॥ १६॥ अभ्युपगतप्रामाण्यवेदार्थविज्जैमिन्यनुशासनाच्च । ᳚आम्नायस्य क्रियार्थत्वादानर्थक्यम् ᳚ इतोऽन्यथा । इति साटोपमाहोच्चैर्वेदविज्जैमिनिः स्वयम् ॥ १७॥ मन्त्रवर्णाच्च । ᳚कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ᳚ । इति मन्त्रोऽपि निश्शेषं कर्मण्यायुरवासृजत् ॥ १८॥ ज्ञानिनश्च वस्तुनि वाक्यप्रामाण्याभ्युपगमाद्वाक्यस्य च क्रियापदप्रधानत्वात्ततश्चाभिप्रेतज्ञानाभावः । विरहय्य क्रियां नैव संहन्यन्ते पदान्यपि । न समस्त्यपदं वाक्यं यत्स्याज्ज्ञानविधायकम् ॥ १९॥ ज्ञानाभ्युपगमेऽपि न दोषः । यतः । कर्मणोऽङ्गाङ्गिभावेन स्वप्रधानतयाऽथवा । सम्बन्धस्येह संसिद्धेर्ज्ञाने सत्यप्यदोषतः ॥ २०॥ यस्माज्ज्ञानाभ्युपगमानभ्युपगमेऽपि न ज्ञानान्मुक्तिः । अतः सर्वाश्रमाणां हि वाङ्मनःकायकर्मभिः । स्वनुष्ठितैर्यथाशक्ति मुक्तिः स्यान्नान्यसाधनात् ॥ २१॥ असदर्थप्रलापोऽयमिति दूषणसम्भावनायाह । इति हृष्टधियां वाचः स्वप्रज्ञाऽऽध्मातचेतसाम् । घुष्यन्ते यज्ञशालासु धूमानद्धधियां किल ॥ २२॥ दूषणोपक्रमावधिज्ञापनायाह । अत्राभिदध्महे दोषान् क्रमशो न्यायबृंहितैः । वचोभिः पूर्वपक्षोक्तिघातिभिर्नातिसम्भ्रमात् ॥ २३॥ चतुर्विधस्यापि कर्मकार्यस्य मुक्तावसम्भवान्न मुक्तेः कर्मकार्यत्वम् । अज्ञानहानमात्रत्वान्मुक्तेः कर्म न साधनम् । कर्मापमार्ष्टि नाज्ञानं तमसीवोत्थितं तमः ॥ २४॥ कर्मकार्यत्वाभ्युपगमेऽपि दोष एव । एकेन वा भवेन्मुक्तिर्यदि वा सर्वकर्मभिः । प्रत्येकं चेद्वृथान्यानि सर्वेभ्योऽप्येककर्मता ॥ २५॥ सर्वप्रकारस्यापि कर्मण उत्पत्तित एव विशिष्टसाध्याभि- सम्बन्धान्न परिशेष्यन्यायसिद्धिः । दुरितक्षपणार्थत्वान्न नित्यं स्याद्विमुक्तये । स्वर्गादिफलसम्बन्धात्काम्यं कर्म तथैव न ॥ २६॥ प्रमाणासम्भवाच्च । साध्यसाधनभावोऽयं वचनात्पारलौकिकः । नाश्रौषं मोक्षदं कर्म श्रुतेर्वक्त्रात्कथंचन ॥ २७॥ अभ्युपगताभ्युपगमाच्च श्वश्रूनिर्गच्छोक्तिवद्भवतो निष्प्रयोजनः प्रलापः । निषिद्धकाम्ययोस्त्यागस्त्वयापीष्टो यथा मया । नित्यस्याफलवत्त्वाच्च न मोक्षः कर्मसाधनः ॥ २८॥ एवं तावत् ᳚मुक्तेः क्रियाभिः सिद्धत्वात् ᳚ इति निरस्तोऽयं पक्षः । अथाधुना सर्वकर्मप्रवृत्तिहेतुनिरूपणेन यथावस्थितात्मवस्तुविषयकेवलज्ञानमात्रादेव सकलसंसारानर्थनिवृत्तिरितीमं पक्षं द्रढयितुकाम आह । इह चेदं परीक्ष्यते । किं यथा प्रतिषिद्धेषु यादृच्छिकेषु च कर्मसु स्वाभाविकस्वाशयोत्थनिमित्तवशादेवेदं हितमिदमहितमिति विशेषान् परिकल्प्य मृगतृष्णिकोदकपिपासुरिव लौकिकप्रमाणप्रसिद्धान्येव साधनान्युपादाय हितप्राप्तयेऽहितनिरासाय च स्वयमेव प्रवर्तते निवर्तते च तथैवादृष्टार्थेषु काम्येषु नित्येषु च कर्मसु किं वान्यदेव तत्र प्रवृत्तिनिवृत्तिनिमित्तमिति । किंचातः । यद्येवं श्रुणु । यदि तावद्यथावस्थितवस्तुसम्यग्ज्ञानं प्रमाणभूतं लौकिकमागमिकं वा प्रवृत्तिनिमित्तमिति निश्चीयते निवृत्तिशास्त्रं च नाभ्युपगम्यते तदा हताः कर्मत्यागिनो भ्रान्तिविज्ञानमात्रावष्टम्भादलौकिक- प्रमाणोपात्तकर्मानुष्ठानत्यागित्वाच्च । अथ मृगतृष्णिकोदकपिपासुप्रवृत्तिनिमित्तवदयथावस्तुभ्रान्ति- विज्ञानमेव सर्वप्रवृत्तिनिमित्तं तदा वर्द्धामहे वयं हताः स्थ यूयमिति । हितं सम्प्रेप्सतां मोहादहितं च जिहासताम् । उपायान्प्राप्तिहनार्थान् शास्त्रं भासयतेऽर्कवत् ॥ २९॥ एवं तावत्प्रत्यक्षानुमानागमप्रमाणावष्टम्भादात्मनो निरतिशयसुखहिताव्यतिरेकसिद्धेरहितस्य च षष्ठगोचरवत्स्वत एवानभिसम्बन्धादेवंस्वाभाव्या- त्मानवबोधमात्रादेव हितं मे स्यादहितं मे मा भूदिति मिथ्याज्ञानं तूषरशुक्तिकानवबोधोत्थमिथ्याज्ञानवत्- प्रवृत्तिनिमित्तमिति निर्धारितम् । शास्त्रं च न पदार्थशक्त्याधानकृदिति । अथैतस्यैवोत्तरत्र प्रपञ्च आरभ्यते । न परीप्सां जिहासां वा पुंसः शास्त्रं करोति हि । निजे एव तु ते यस्मात्पश्वादावपि दर्शनात् ॥ ३०॥ उक्तं तावदनवबुद्धवस्तुयाथात्म्य एव विधिप्रतिषेशशास्त्रेष्वधिक्रियत इति । लिप्सतेऽज्ञानतोऽलब्धं कण्ठे चामीकरं यथा । वर्जितं च स्वतो भ्रान्त्या छायायामात्मनो यथा ॥ ३१॥ भयान्मोहावनद्धात्मा रक्षः परिजिहीर्षति । पच्चापरिहृतं वस्तु तथालब्धं च लिप्सते ॥ ३२॥ तत्रैतेषु चतुर्षु विषयेषु प्राप्तये परीहाराय च विभज्य न्यायः प्रदर्श्यते । प्राप्तव्यपरिहार्येषु ज्ञात्वोपायाञ्छृतेः पृथक् । कृत्वाथ प्राप्नुयात्प्राप्यं तथानिष्टं जहात्यपि ॥ ३३॥ अथावशिष्टयोः स्वभावत एव । परिहृतावाप्तयोर्बोधाद्धानप्राप्ती न कर्मणा । मोहमात्रान्तरायत्वात्क्रियया ते न सिध्यतः ॥ ३४॥ कस्मात्पुनरात्मवस्तुयाथात्म्यावबोधमात्रादेवाभिलषित- निरतिशयसुखावाप्तिनिश्शेषदुःखनिवृत्ती भवतो न तु कर्मणेति । उच्यते । कर्माज्ञानसमुत्थत्वान्नालं मोहापनुत्तये । सम्यग्ज्ञानं विरोध्यस्य तामिस्रस्यांशुमानिव ॥ ३५॥ नन्वात्मज्ञानमप्यविद्योपादानम् । न हि शास्त्रशिष्याचार्याद्यनुपादायात्मज्ञानमात्मानं लभतः इति । नैष दोषः । यत आत्मज्ञानं हि स्वतस्सिद्धपरमार्थात्मवस्तुस्वरूपमात्राशयादेवाविद्यातदुत् पन्न कारकग्रामप्रध्वंसि स्वात्मोपतावेव शास्त्रादपेक्ष्यते नोत्पन्नमविद्यानिवृत्तौ । कर्म पुनः स्वात्मोत्पत्तावुत्पन्नं च । न हिक्रिया कारकनिस्स्पृहा कल्पकोटिव्यवहितफलदानाय स्वात्मानं बिभर्ति साध्यमानमात्ररूपत्वात्तस्याः । न च क्रियात्मज्ञानवत्स्वात्मप्रतिलम्भकाल एव स्वर्गादिफलेन कर्तारं सम्बध्नाति । आत्मज्ञानं पुनः पुरुषार्थसिद्धौ नोत्पद्यमानस्वरूपव्यतिरेकेणान्यद्रूपान्तरं साधनान्तरं वापेक्षते । कुत एतत् । यतः । बलवद्धि प्रमाणोत्थं सम्यग्ज्ञानं न बाध्यते । आकाङ्क्षते न चाप्यान्यद्बाधनं प्रति साधनम् ॥ ३६॥ स्वपक्षस्य हेत्ववष्टम्भेन समर्थितत्वानिराशङ्क- मुपसंह्रियते । तस्माद्दुःखोदधेर्हेतोरज्ञानस्यापनुत्तये । सम्यग्ज्ञानं सुपर्याप्तं क्रिया चेन्नोक्तहेतुतः ॥ ३७॥ ननु बलवदपि सम्यग्ज्ञानं सदप्रमाणोत्थेन बाध्यमानमुपलभामहे यत उत्पन्नपरमार्थबोधस्यापि कर्तृत्वभोक्तृत्वरागद्वेषाद्यनवबोधोत्थप्रत्यया आविर्भवन्ति । न ह्यबाधिते सम्यग्ज्ञाने तद्विरुद्धानां प्रत्ययानां सम्भवोऽस्ति । नैतदेवम् । कुतः । बाधितत्वादविद्याया विद्यां सा नैव बाधते । तद्वासना निमित्तत्वं यान्ति विद्यास्मृतेर्ध्रुवन् ॥ ३८॥ ᳚कर्माज्ञानसमुत्थत्वात् ᳚ इत्युक्तो हेतुस्तस्य च समर्थनं पूर्वमेवाभिहितं ᳚हितं सम्प्रेप्सताम् ᳚ इत्यादिना । तदभ्युच्चयार्थमविद्यान्वयेन च संसारान्वयित्वं प्रदर्शयिष्यामीत्यत आह । ब्राह्मण्याद्यात्मके देहे लात्वा नात्मेति भावनाम् । श्रुतेः किङ्करतामेति वाङ्मनःकायकर्मसु ॥ ३९॥ यस्मात्कर्माज्ञानसमुत्थमेव तस्मात्तद्व्यावृत्तौ निवर्तत इत्युच्यते । दग्धाखिलाधिकारश्चेद्ब्रह्मज्ञानाग्निना मुनिः । वर्तमानः श्रुतेर्मूर्ध्नि नैव स्याद्वेदकिङ्करः ॥ ४०॥ अथेतरो घनतराविद्या पटलसंवीतान्तःकरणोऽङ्गीकृत- कर्तृत्वाद्यशेषकर्माधिकारकारणो विधिप्रतिषेधचोदनासंदंशोपदष्टः कर्मसु प्रवर्तमानः । शुभैः प्राप्नोति देवत्वं निषिद्धैर्नारकीं गतिम् । उभाभ्यां पुण्यपापाभ्यां मानुष्यं लभतेऽवशः ॥ ४१॥ आब्रह्मस्तम्बपर्यन्ते घोरे दुःखोदधौ घटीयन्त्रवदारोहावरोहन्यायेनाधममध्यमोत्तमसुखदुःख- मोहविद्युच्चपलसम्पातदायिनीर्विचित्रयोनीश्चण्डोत्पिञ्जल- कश्वसनवेगाभिहताम्भोधिमध्यवर्तिशुष्कालाबुवच्छुभा- शुभव्यामिश्रकर्मवायुसमीरितः । एवं चङ्क्रम्यमाणोऽयमविद्याकामकर्मभिः । पाशितो जायते कामी म्रियते चासुखावृतः ॥ ४२॥ यथोक्तेऽर्थ आदरविधानाय प्रमाणोपन्यासः । श्रुतिश्चेमं जगादार्थं कामस्य विनिवृत्तये । तन्मूला संसृतिर्यस्मात्तन्नाशोऽज्ञानहानतः ॥ ४३॥ का त्वसौ श्रुतिरिति चेत् । ᳚यदा सर्वे प्रमुच्यन्त ᳚ ᳚इति नु ᳚ इति च वाजिनः । कामबन्धनमेवेदं व्यासोऽप्याह पदेपदे ॥ ४४॥ एष संसारपन्था व्याख्यातः । अथेदानीं तद्व्यावृत्तये कर्माण्यारादुपकारकत्वेन यथा मोक्षहेतुतां प्रतिपद्यन्ते तथाभिधीयते । तस्यैवं दुःखतप्तस्य कथंचित्पुण्यशीलनात् । नित्येहाक्षालितधियो वैराग्यं जायते हृदि ॥ ४५॥ कीदृग्वैराग्यमुत्पद्यत इति । उच्यते । नरकाद्भीर्यथास्याभूत्तथा काम्यफलादपि । यथार्थदर्शनात्तस्मान्नित्यं कर्म चिकीर्षति ॥ ४६॥ एवं नित्यनैमित्तिककर्मानुष्ठानेन । शुध्यमानं तु तच्चित्तमीश्वरार्पितकर्मभिः । वैराग्यं ब्रह्मलोकादौ व्यनक्त्यथ सुनिर्मलम् ॥ ४७॥ यस्माद्रजस्तमोमलोपसंसृष्टमेव चित्तं कामबडिशेनाकृष्य विषयदुरन्तसूनास्थानेष निक्षिप्यते तस्मान्नित्यनैमित्तिककर्मानुष्ठानपरिमार्जनेनापविद्ध- रजस्तमोमलं प्रसन्नमनाकृलं संमार्जितस्फटिकशिलाकल्पं बाह्यविषयहेतुकेन च रागद्वेषात्मकेनातिग्रहबडिशेना- नाकृष्यमाणं विधूताशेषकल्मषं प्रत्यङ्मात्रप्रवणं चित्तदर्पणमवतिष्टते । अत इदमभिधीयते । व्युत्थिताशेषकामेभ्यो यदा धीरवतिष्ठते । तदैव प्रत्यगात्मानं स्वयमेवाविविक्षति ॥ ४८॥ अतःपरमवसिताधिकाराणि कर्माणि प्रत्यक्प्रवणवत्वसूनौ कृतसम्प्रत्तिकानि चरितार्थानि सन्ति । प्रत्यक्प्रवणतां बुद्धेः कर्माण्युत्पाद्य शुद्धितः । कृतार्थान्यस्तमायान्ति प्रावृडन्ते घना इव ॥ ४९॥ यतो नित्यकर्मानुष्ठानस्यैष महिमा । तस्मान्मुमुक्षुभिः कार्यमात्मज्ञानाभिलाषिभिः । नित्यं नैमित्तिकं कर्म सदैवात्मविशुद्धये ॥ ५०॥ यथोक्तेऽर्थे सर्वज्ञवचनं प्रमाणम् । ᳚आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते । योगारूढस्य तस्यैव शम᳚ एवेति च स्मृतिः ॥ ५१॥ नित्यकर्मानुष्ठानाद्धर्मोत्पत्तिर्धर्मोत्पत्तेः पापहानिस्ततश्चित्तशुद्धिस्ततः संसारयाथात्म्यावबोधस्ततो वैराग्यं ततो मुमुक्षुत्वं ततस्तदुपायपर्येषणं ततः सर्वकर्मतत्साधनसंन्यासस्ततो योगाभ्यासस्ततश्चित्तस्य प्रत्यक्प्रवणता ततस्तत्त्वमस्यादिवाक्यार्थपरिज्ञानं ततोऽविद्योच्छेदस्ततश्च स्वात्मन्ये- वावस्थानं ᳚ब्रह्मैव सन् ब्रह्माप्येति ᳚ ᳚विमुक्तश्च विमुच्यते ᳚ इति । पारम्पर्येण कर्मैवं स्यादविद्यानिवृत्तये । ज्ञानवन्नाविरोधित्वात्कर्माविद्यां निरस्यति ॥ ५२॥ न च कर्मणः कार्यमण्वपि मुक्तौ सम्भाव्यते नापि मुक्तौ यत्सम्भवति तत्कर्मापेक्षते । तदुच्यते । उत्पाद्यमाप्यं संस्कार्यं विकार्यं च क्रियाफलम् । नैवं मुक्तिर्यतस्तस्मात्कर्म तस्या न साधनम् ॥ ५३॥ एवं तावत्केवलं कर्म साक्षादविद्यापनुत्तये न पर्याप्तमिति प्रपञ्चितम् । मुक्तौ च मुमुक्षुज्ञानत- द्विषयस्वाभाव्यानुरोधेन सर्वप्रकारस्यापि कर्मणोऽसम्भव उक्तो ᳚हितं सम्प्रेप्सताम् ᳚ इत्यादिना । यादृशश्चारादुपकारकत्वेन ज्ञानोत्पत्तौ कर्मणां समुच्चयः सम्भवति तथा प्रतिपादितम् । अविद्योच्छित्तौ तु लब्धात्मस्वभावस्यात्मज्ञानस्यैवासाधारणं साधकतमत्वं नान्यस्य प्रधानभूतस्य गुणभूतस्य चेत्येतदधुनोच्यते । तत्र ज्ञानं गुणभूतं तावदहेतुरित्येतदाह । संनिपत्य न च ज्ञानं कर्माज्ञानं निरस्यति । साध्यसाधनभावत्वादेककालानवस्थितेः ॥ ५४॥ समप्रधानयोरप्यसम्भव एव । बाध्यबाधकभावाच्च पञ्चास्योरणयोरिव । एकदेशानवस्थानान्न समुच्चयता तयोः ॥ ५५॥ कुतो बाध्यबाधकभावः । यस्मात् । अयथावस्त्वविद्या स्याद्विद्या तस्या विरोधिनी । समुच्चयस्तयोरेवं रविशार्वरयोरिव ॥ ५६॥ तस्मादकारकब्रह्मात्मनि परिसमाप्तावबोधस्याशेषकर्म- चोदनानामचोद्यस्वाभाव्यात्कुण्ठता । कथं तत् । अभिधीयते । बृहस्पतिसवे यद्वत्क्षत्रियो न प्रवर्तते । ब्राह्मणत्वाद्यहंमानी विप्री वा क्षत्रकर्मणि ॥ ५७॥ यथायं दृष्टान्त एवं दार्ष्टान्तिकोऽपीत्येतदाह । विदेहो वीतसन्देहो नेतिनेत्यवशेषितः । देहाद्यनात्मदृक्तद्वत्क्रियां वीक्षतेऽपि न ॥ ५८॥ तस्यार्थस्याविष्करणार्थमुदाहरणम् । मृत्स्नेभके यथेभत्वं शिशुरध्यस्य वल्गति । अध्यस्यात्मानि देहादीन्मूढस्तद्वत्विचेष्टते ॥ ५९॥ न च वयं ज्ञानकर्मणोः सर्वत्रैव प्रत्याचक्ष्महे । यत्र प्रयोज्यप्रयोजकभावो ज्ञानकर्मणोस्तत्र नास्मत्पित्रापि शक्यते निवारयितुम् । तत्र विभागप्रदर्शनायोदाहरणं प्रदर्श्यते । स्थाणुं चोरधियालाय भीतो यद्वत्पलायते । बुद्ध्यादिभिस्तथात्मानं भ्रान्तोऽध्यारीप्य चेष्टते ॥ ६०॥ एवं यत्रयत्र ज्ञानकर्मणोः प्रयोज्यप्रयोजकभावस्तत्र सर्वत्रायं न्यायः । यत्र तु न समकालं नापि क्रमेणोपपद्यते समुच्चयः सविषय उच्यते । स्थाणोः सतत्त्वविज्ञानं यथा नाङ्गं पलायते । आत्मनस्तत्त्वविज्ञानं तद्वन्नाङ्गं क्रियाविधौ ॥ ६१॥ यस्माद्गुणस्यैतत्स्वाभाव्यम् । यद्धि यस्यानुरोधेन स्वभावमनुवर्तते । तत्तस्य गुणभूतं स्यान्न प्रधानाद्गुणो यतः ॥ ६२॥ यस्मात् । कर्मप्रकरणाकाङ्क्षिज्ञानं कर्मगुणो भवेत् । यद्धि प्रकरणे यस्य तत्तदङ्गं प्रचक्षते ॥ ६३॥ स्वरूपलाभमात्रेण यत्त्वविद्यां निहन्ति नः । न तदङ्गं प्रधानं वा ज्ञानं स्यात्कर्मणः क्वचित् ॥ ६४॥ समुच्चयपक्षवादिनाप्यवश्यमेतदभ्युपगन्तव्यम् । यस्मात् । अज्ञानमनिराकुर्वज्ज्ञानमेव न सिध्यति । विपन्नकारकग्रामं ज्ञानं कर्म न ढौकते ॥ ६५॥ इदं चापरं कारणं ज्ञानकर्मणोः समुच्चयनिबर्हि । हेतुस्वरूपकार्याणि प्रकाशतमसोरिव । विरोधीनि ततो नास्ति साङ्गत्यं ज्ञानकर्मणोः ॥ ६६॥ एवमुपसंहृते केचित्स्वसम्प्रदायबलावष्टम्भादाहुर्यदे- तद्वेदान्तवाक्यादहं ब्रह्मेति विज्ञानं समुत्पद्यते तन्नैव स्वोत्पत्तिमात्रेणाज्ञानं निरस्यति । किं तर्हि । अहन्यहनि द्राघीयसा कालेनोपासीनस्य सतो भावनोपचयान्निश्शेषम् अज्ञानमपगच्छति ᳚देवो भूत्वा देवानप्येति ᳚ इति श्रुतेः । अपरे तु ब्रुवते वेदान्तवाक्यजनितमहं ब्रह्मेति विज्ञानं संसर्गात्मकत्वादात्मवस्तुयाथात्म्यावगाह्येव न भवति । किं तर्हि । एतदेव गङ्गास्रोतोवत्सततमभ्यस्यतोऽन्यदेवावाक्यार्थात्मकं विज्ञानान्तरमुत्पद्यते । अस्य पक्षद्वयस्य निवृत्तय इदमभिधीयते । सकृत्प्रवृत्त्या मृद्नाति क्रियाकारकरूपभृत् । अज्ञानमागमज्ञानं साङ्गत्यं नास्त्यतोऽनयोः ॥ ६७॥ एवं तावदनानात्वे ब्रह्मणि ज्ञानकर्मणोः समुच्चयो निराकृतः । अथाधुना पक्षान्तराभ्युपगमेनापि प्रत्यवस्थाने पूर्ववदनाश्वासो यथा तथाभिधीयते । अनुत्सारितनानात्वं ब्रह्म यस्यापि वादिनः । तन्मतेनापि दुस्साध्यो ज्ञानकर्मसमुच्चयः ॥ ६८॥ तस्य विभागोक्तिर्दूषणविभागप्रज्ञप्तये । ब्रह्मात्मा वा भवेत्तस्य यदि वानात्मरूपकम् । आत्मानाप्तिर्भवेन्मोहादितरस्याप्यनात्मनः ॥ ६९॥ तत्र यदि तावद्वास्तवेनैव वृत्तेन ब्रह्म प्राप्तमात्मस्वाभाव्यात्केवलमासुरमोहापिधानमात्र- मेवानाप्तिनिमित्तं तस्मिन्पक्षे । मोहापिधानभङ्गाय नैव कर्माणि कारणम् । ज्ञानेनैव फलावाप्तेस्तत्र कर्म निरर्थकम् ॥ ७०॥ अनात्मरूपके तु ब्रह्मणि न कर्म साधनभावं प्रतिपद्यते नापि ज्ञानं कर्मसमुच्चितमसमुच्चितं वा यस्मादन्यस्य स्वत एव साधकस्य ब्रह्मणोऽप्यन्यत्वं स्वत एव सिद्धम् । तत्रैवम् । अन्यस्यान्यात्मताप्राप्तौ न क्वचिद्धेतुसम्भवः । तस्मिन् सत्यपि नो नष्टः परात्मानं प्रपद्यते ॥ ७१॥ अपरस्मिंस्तु पक्षे विधिः । परमात्मानुकूलेन ज्ञानाभ्यासेन दुःखिनः । द्वैतिनोऽपि प्रमुच्येरन्न परात्मविरोधिना ॥ ७२॥ इतरस्मिंस्तु पक्षे विधेरेवानवकाशत्वम् । कथम् । समस्तव्यस्तभूतस्य ब्रह्मण्येवावतिष्ठतः । ब्रूत कर्मणि को हेतुः सर्वानन्यत्वदर्शिनः ॥ ७३॥ सर्वकर्मनिमित्तसम्भवासम्भवाभ्यां सर्वकर्मसङ्करश्च प्राप्नोति । यस्मात् । सर्वजात्यादिमत्त्वेऽस्य नितरां हेतसम्भवः । विशेषं ह्यनुपादाय कर्म नैव प्रवर्तते ॥ ७४॥ स्याद्विधिरध्यात्मभिमानादिति चेन्नैवम् । यस्मात् । न चाध्यात्माभिमानोऽपि विदुषोऽस्त्यासुरत्वतः । विदुषोऽप्यासुरश्चेत्स्यान्निष्फलं ब्रह्मदर्शनम् ॥ ७५॥ अज्ञानकार्यत्वान्न समकालं नापि क्रमेण ज्ञानकर्मणोर्वस्त्ववस्तु- तन्त्रत्वात्सङ्गतिरस्तीत्येवं निराकृतोऽपि काशं कुशं वावलम्ब्याह ॥ अथाध्यात्मं पुनर्यायादाश्रितो मूढतां भवेत् । स करोत्येव कर्माणि को ह्यज्ञं विनिवारयेत् ॥ ७६॥ सिद्धत्वाच्च न साध्यम् । यतः । सामान्येतररूपाभ्यां कर्मात्मैवास्य योगिनः । निश्श्वासोच्छ्वासवत्तस्मान्न नियोगमपेक्षते । ॥ ७७॥ अस्तु तर्हि भिन्नाभिन्नात्मकं ब्रह्म । तथा च सति ज्ञानकर्मणो सम्भवतो भेदाभेदविषयत्वात्तयोः । तत्र तावदयं पक्ष एव न सम्भवति । किं कारणम् । न हि भिन्नोऽयमित्यभेदबुद्धिमनिराकृत्य भेदबुद्धिः पदार्थमालिङ्गते । एवं ह्यनभ्युपगमे भिन्नाभिन्न- पदार्थयोरलौकिकत्वं प्रसज्येत । अथ निष्प्रमाणकम- प्याश्रीयते तदप्युभयपक्षाभ्युपगमादभेदपक्षे दुःखि ब्रह्म स्यादत आह । भिन्नाभिन्नं विशेषैश्चेद्दुःखि स्याद्ब्रह्म ते ध्रुवम् । अशेषदुःखिता च स्यादहो प्रज्ञात्मवादिनाम् ॥ ७८॥ तस्मात्सम्यगेवाभिहितं न ज्ञानकर्मणोः समुच्चय इत्युपसंह्रियते । तमोऽङ्गत्वं यथा भानोरग्नेश्शीताङ्गता यथा । वारिणश्चोष्णता यद्वज्ज्ञानस्यैवं क्रियाङ्गता ॥ ७९॥ यथोक्तोपपत्तिबलेनैव पूर्वपक्षस्योत्सारितत्वाद्वक्तव्यं नावशेषितमित्यतः प्रतिपत्तिकर्मवत्पूर्वपक्षपरिहाराय यत्किञ्चिद्वक्तव्यमित्यत इदमभिधीयते । ᳚मुक्तेः क्रियाभिः सिद्धत्वात् ᳚ इत्याद्यनुचितं बहु । यदभाणि तदन्याय्यं यथा तदधुनोच्यते ॥ ८०॥ योऽयं काम्यानां प्रतिषिद्धानां च त्यागः प्रतिज्ञायते सा प्रतिज्ञा तावन्न शक्यतेऽनुष्ठातुम् । किं कारणम् । कर्मणो हि निर्वृत्तात्मनो द्वाभ्यां प्रकाराभ्यां निवृत्तिः सम्भवत्यारब्धफलस्योपभोगेनानारब्धफलस्याशुभस्य प्रायश्चित्तैरिति । तृतीयोऽपि त्यागप्रकारोऽकर्त्रा- त्मावबोधात् स त्वात्मज्ञानानभ्युपगमाद्भवता नाभ्युपगम्यते । तत्र यान्यनुपभुक्तफलान्यनारब्धफलानि तानीश्वरेणापि केनचिदपि न शक्यन्ते परित्यक्तुम् । अथारब्धफलानि त्यज्यन्ते तान्यपि न शक्यन्ते त्यक्तुम् । किं कारणम् । अनिवृत्तेः । अनिर्वृत्तं हि चिकीर्षितं कर्म शक्यते त्यक्तुं प्रवृत्तिनिवृत्ती प्रति कर्तुः स्वातन्त्र्यात् । निर्वृत्ते तु कर्मणि तदसम्भवाद्दुरनुष्ठेयः प्रतिज्ञानार्थः । अशक्यप्रतिज्ञानाच्च । न च शक्यते प्रतिज्ञातुं यावज्जीवं काम्यानि प्रतिषिद्धानि च कर्माणि न करिष्यामीति सुनिपुणानामपि सूक्ष्मापराधदर्शनात् । प्रमाणाभावाच्च । न च प्रमाणमस्ति मोक्षकामो नित्यनैमित्तिके कर्मणी कुर्यात्काम्यप्रतिषिद्धे च वर्जयेदारब्धफले चोपभोगेन क्षपयेदिति । आनन्त्याच्च । न चोपचितानां कर्मणामियत्तास्ति संसारस्यानादित्वात् । न च काम्यैः प्रतिषिधैर्वा तेषां निवृत्तिरस्ति शुद्ध्यशुद्धिसाम्ये सत्यविरोधादित्याह । न कृत्स्नकाम्यसंत्यागोऽनन्तत्वात्कर्तुमिष्यते । निषिद्धकर्मणश्चेत्तु व्यतीतानन्तजन्मसु ॥ ८१॥ स्यान्मतं व्यतीताननन्तजन्मोपात्तानां कर्मणाम् । क्षयो नित्येन तेषां चेत्प्रायश्चित्तैर्यथैनसः । निष्फलत्वान्न नित्येन काम्यादेर्विनिवारणाम् ॥ ८२॥ प्रमाणाभावाच्च । कथम् । पापापनुत्तये वाक्यात्प्रायश्चित्तं यथा तथा । गभ्यते काम्यहानार्थं नित्यं कर्म न वाक्यतः ॥ ८३॥ अथापि स्यात्काम्यैरेव काम्यानां पूर्वजन्मोपचितानां क्षयो भविष्यतीति । तन्न । यतः । पाप्मनां पाप्मभिर्नास्ति यथैवेह निराक्रिया । काम्यैरपि तथैवास्तु काम्यानामविरोधतः ॥ ८४॥ एवं तावत् ᳚मुक्तेः क्रियाभिः सिद्धत्वात् ᳚ इति निराकृतम् ॥ अथात्मज्ञानस्य सद्भावे प्रमाणासम्भव उक्तस्तत्परिहारायाह । श्रुतयस्स्मृतिभिस्सामानन्त्यात्कामिनामिह । विदधत्युरुयत्नेन कर्मातो बहुकामदम् ॥ ८५॥ न च बाहुल्यं प्रामाण्ये कारणभावं प्रतिपद्यते । अत आह । प्रामाण्याय न बाहुल्यं न ह्येकत्र प्रमाणताम् । वस्तुन्यटन्ति मानानि त्वेकत्रैकस्य मानता ॥ ८६॥ यत्तूक्तं ᳚यत्नतो वीक्षमाणोऽपि ᳚ इति -- तत्रापि भवत एवापराधः । कस्मात् । यतः । ᳚परीक्ष्य लोकान् ᳚ इत्याद्या आत्मज्ञानविधायिनीः । नैष्कर्म्यप्रवणास्साध्वीः श्रुतीः किं न शृणोषि ताः ॥ ८७॥ ननु ᳚ आत्मेत्येवोपासीत ᳚ ᳚आत्मा वा अरे द्रष्टव्यः᳚ इत्यपूर्वविधिश्रुतेः पुरुषस्यात्मदर्शनक्रियायां नियोगोऽवसीयत इति । नैवम् । अपुरुषतन्त्रत्वाद्वस्तुयाथात्म्यज्ञानस्य सकलानर्थबीजात्मानवबोधोत्सारिणो मुक्तिहेतोरिति । विध्यभ्युपगमेऽपि नापूर्वविधिरयम् । अत आह । नियमः परिसंख्या वा विध्यर्थोऽपि भवेद्यतः । अनात्मादर्शनेनैव परात्मानमुपास्महे ॥ ८८॥ यच्चोक्तं ᳚विश्वासो नान्यतोऽस्ति नः᳚ इति -- तदपि निद्रातुरचेतसा त्वया स्वप्नायमानेन प्रलपितम् । किं कारणम् । न हि वयं प्रमाणबलेनैकात्म्यं प्रतिपद्यामह ऐकात्म्यस्य स्वत एवानुभवमात्रात्मकत्वात् । अत एव सर्वप्रमाणावतारासम्भवं वक्ष्यति । प्रमाणव्यवस्थायाश्चनुभवमात्राश्रयत्वात् । अत आह । वाक्यैकगम्यं यद्वस्तु नान्यस्मात्तत्र विश्वसेत् । नाऽप्रमेये स्वतस्सिद्धेऽविश्वासः कथमात्मनि ॥ ८९॥ यदप्युक्तं ᳚अन्तरेण विधिम् ᳚ इति-- तदप्यबुद्धिपूर्वकमिव नः प्रतिभाति । यस्मात्कालान्तरफलदायिषु कर्मस्वेतद्घटते । आत्मलाभकाल एव फलदायिनि त्वात्मज्ञाने नैतत्समञ्जसमित्याह । ज्ञानात्फले ह्यवाप्तेऽस्मिन्प्रत्यक्षे भवघातिनि । उपकाराय तन्नेति न न्याय्यं भाति नो वचः ॥ ९०॥ यदपि जैमिनीयं वचनमुद्घाटयसि -- तदपि तद्विवक्षापरिज्ञानादेवोद्भाव्यते । किं कारणम् । यतो न जैमिनेरयमभिप्राय आम्नायः । सर्व एव क्रियार्थ इति । यदि ह्ययमभिप्रायोऽभविष्यत् ᳚ अथातो ब्रह्मजिज्ञासा । जन्माद्यस्य यतः ᳚ इत्येवमादिब्रह्मवस्तुस्वरूपमात्रयाथात्म्यप्रकाशनपरं गम्भीरन्यायसंदृब्धं सर्ववेदान्तार्थमीमांसनं श्रीमच्छारीरकं नासूत्रयिष्यत् । असूत्रयच्च । तस्माज्जैमिनेरेवायमभिप्रायो यथैव विधिवाक्यानां स्वार्थमात्रे प्रामाण्यमेवमैकात्म्यवाक्यानामप्यनधिगत- वस्तुपरिच्छेदसाम्यादिति । अत इदमभिधीयते । अधिचोदनं य आम्नायस्तस्यैव स्यात्क्रियार्थता । तत्त्वमस्यादिवाक्यानां ब्रूत कर्मार्थता कथम् ॥ ९१॥ अपि च । ऐकात्म्यपक्ष इवादृष्टार्थकर्मसु भवत्पक्षेऽपि प्रवृत्तिर्दुर्लक्ष्या । यतः । स्वर्गं यियासुर्जुहुयादग्निहोत्रं यथाविधि । देहाद्व्युत्थापितस्यैवं कर्तृत्वं जैमिनेः कथम् ॥ ९२॥ न च प्रत्याख्याताशेषशरीरादिकर्मसाधनस्वभाव- स्यात्ममात्रस्य कर्मस्वधिकारः । यस्मात् । सर्वप्रमाणासम्भाव्यो ह्यहंवृत्त्यैकसाधनः । युष्मदर्थमनादित्सुर्जैमिनिः प्रेर्यते कथम् ॥ ९३॥ प्रवृत्तिकारणाभावाच्च । यस्मात् । सुखदुःखादिभिर्योग आत्मनो नाहमेक्ष्यते । पराक्त्वात्प्रत्यगात्मत्वाज्जैमिनिः प्रेर्यते कथम् ॥ ९४॥ किंच । न तावद्योग एवास्ति शरीरेणात्मनः सदा । विषयैर्दूरतो नास्ति स्वर्गादौ स्यात्कथं सुखम् ॥ ९५॥ यस्मादन्यथा नोपपद्यते । नराभिमानिनं तस्मात्कारकाद्यात्मदर्शिनम् । मन्त्र आहोररीकृत्य ᳚कुर्वन्᳚ इति न निर्द्वयम् ॥ ९६॥ यच्चोक्तं ᳚विरहय्य ᳚ इति तदपि न सम्यगेव । तथापि तु न या काचित्क्रिया यत्र क्व चाध्याहरणीया किं तु या यत्राभिप्रेतसम्बन्धं घटयितुं शक्नोत्याकाङ्क्षां च वाक्यस्य पूरयति सैवाध्याहरणीया । एवंविशिष्टा च क्रियास्माभिरभ्युपगतैव । सा तूपादित्सितवाक्यार्था- विरोधिन्येव नाभूतार्थप्रादुर्भावफलेति । षड्भावविकाररहितात्मवस्तुनो निर्धूताशेष- द्वैतानर्थस्यापराधीनप्रकाशस्य विजिज्ञापयिषितत्वादस्यस्मीत्यादिक्रियापदं स्वमहिमसिद्धार्थप्रतिपादनसमर्थमभ्युपगन्तव्यं न विपरीतार्थप्रतिपादनपरमिति । धावेदिति न दानार्थे पदं यद्वत्प्रयुज्यते । एधीत्यादि तथा नेच्छेत्स्वतः सिद्धार्थवाचिनि ॥ ९७॥ न च यथोक्तवस्तुवृत्तप्रतिपादनव्यतिरेकेण तत्त्वमस्यादिवाक्यं वाक्यार्थान्तरं वक्तीति शक्यमध्यवसातुमित्याह । तत्त्वमस्यादिवाक्यानां स्वतस्सिद्धार्थबोधनात् । अर्थान्तरं न संद्रष्टुं शक्यते त्रिदशैरपि ॥ ९८॥ यस्मादेवम् । अतः सर्वाश्रमाणां तु वाङ्मनःकायकर्मभिः । स्वनुष्ठितैर्न मुक्तिः स्याज्ज्ञानादेव हि सा यतः ॥ ९९॥ तस्माच्च कारणादेतदप्युपपन्नम् । स्वमनोरथसंक्लृप्तप्रज्ञाध्मातधियामतः । श्रोत्रियेष्वेव वाचस्ताः शोभन्ते नात्मवेदिषु ॥ १००। इति प्रथमोऽध्यायः ॥ १॥ अथ द्वितीयोऽध्यायः । प्रत्यक्षादीनामनेवंविषयत्वात्तेषां स्वारम्भक- विषयोपनिपातित्वादात्मनश्चाशेषप्रमेयवैलक्षण्या- त्सर्वानर्थैकहेत्वज्ञानापनोदिज्ञानदिवाकरोदयहेतुत्वं वस्तुमात्रयाथात्म्यप्रकाशनपटीयसस्तत्त्वमस्यादेर्वचस एवेति बह्वीभिरुपपत्तिभिः प्रदर्शितम् । अतस्तदर्थारतिपत्तौ यत्कारणं तदपनयनाय द्वितीयोऽध्याय आरभ्यते । श्रावितो वेत्ति वाक्यार्थं नचेत्तत्त्वमसीत्यतः । त्वम्पदार्थानभिज्ञत्वादतस्तत्प्रक्रियोच्यते ॥ १॥ योऽयमहम्ब्रह्मेति वाक्यार्थस्तत्प्रतिपत्तिर्वाक्यादेवेति प्रत्यक्षादीनामनेवंविषयत्वादित्यवादिषं तस्य विशुद्ध्यर्थमनैकात्त्रिकत्वं पूर्वपक्षत्वेनोपस्थाप्यते । कृत्स्नानात्मनिवृत्तौ च कश्चिदाप्नोति निर्वृतिम् । श्रुतवाक्यस्मृतेश्चान्यः स्मार्यते च वचोऽपरः ॥ २॥ एतत्प्रसङ्गेन श्रोत्रन्तरोपन्यासमुभयत्रापि सम्भावनायाह । वाक्यश्रवणमात्राच्च पिशाचकवदाप्नुयात् । त्रिषु यादृच्छिकी सिद्धिः स्मार्यमाणे तु निश्चिता ॥ ३॥ नायमनैकान्तिको हेतुः । यतः । सर्वोऽयं महिमा ज्ञेयो वाक्यस्यैव यथोदितः । वाक्यार्थं न ह्यृते वाक्यात्कश्चिज्जानाति तत्त्वतः ॥ ४॥ वाक्यं च प्रतिपादनाय प्रवृत्तं सत्प्रतिपादयत्येव सर्वप्रमाणानामप्येवंवृत्तत्वात् । नाहंग्राह्ये न तद्धीने न प्रत्यङ्नापि दुःखिनि । विरोधः सदसीत्यस्माद्वाक्याभिज्ञस्य जायते ॥ ५॥ नाविरक्तस्य संसारान्निविवृत्सा ततो भवेत् । न चानिवृत्ततृष्णस्य पुरुषस्य मुमुक्षुता ॥ ६॥ न चामुमुक्षोरस्तीह गुरुपादोपसर्पणम् । न विना गुरुसम्बन्धं वाक्यस्य श्रवणं भवेत् ॥ ७॥ तथा पदपदाथौ च न स्तो वाक्यमृते क्वचित् । अन्वयव्यतिरेकौ च तावृते स्तां कैमाश्रयौ ॥ ८॥ अन्वयव्यतिरेकाभ्यां विना वाक्यार्थबोधनम् । न स्यात्तेन विनाज्ञानप्रहाणं नोपपद्यते ॥ ९॥ विनाज्ञानप्रहाणेन पुरुषार्थः सुदुर्लभः । तस्माद्यथोक्तसिद्ध्यर्थं परो ग्रन्थोऽवतार्यते ॥ १०॥ वर्चस्कं त्वन्नकार्यत्वाद्यथा नात्मेति गम्यते । तद्भागः सेन्द्रियो देहस्तद्वत्किमिति नेक्ष्यते ॥ ११॥ आद्यन्तयोरनात्मत्वे प्रसिद्धे मध्येऽपि कः प्रतिबन्धः । प्रागनात्मैव जग्धं सदात्मतामेत्यविद्यया । स्रगालेपनवद्देहं तस्मात्पश्येद्विविक्तधीः ॥ १२॥ अथैवमपि मद्वचनं नाद्रियसे स्वयमेवैतस्माच्छरीराद्- अशुचिराशेर्निराशो भविष्यसि । मन्यसे तावदस्मीति यावदस्मान्न नीयसे । श्वभिः क्रोडीकृते देहे नैवं त्वमभिमंस्यसे ॥ १३॥ शिर आक्रम्य पादेन भर्त्सयत्यपरान् शुनः । दृष्ट्वा साधारणं देहं कस्मात्सक्तोऽसि तत्र भोः ॥ १४॥ श्रुतिपरिप्रापितोऽयमर्थोऽनात्मा बुद्ध्यादिदेहान्त इतीदमाह । बुसव्रीहिपलालांशैर्बीजमेकं त्रिधा यथा । बुद्धिमांसपुरीषांशैरन्नं तद्वदवस्थितम् ॥ १५॥ यथोक्तार्थप्रतिपत्तौ सत्यां न रागद्वेषाभ्यां विक्रियते विपश्चिदित्यस्यार्थस्य प्रतिपत्तये दृष्टान्तः । वर्चस्के सम्परित्यक्ते दोषतश्चावधारिते । यदि दोषं वदेत्तस्मै किं तत्रोच्चरितुर्भवेत् ॥ १६॥ तद्वत्सूक्ष्मे तथा स्थूले देहे त्यक्ते विवेकतः । यदि दोषं वदेत्ताभ्यां किं तत्र विदुषो भवेत् ॥ १७॥ एतावदेव ह्यहं ब्रह्मास्मीति वाक्यार्थाप्रतिपत्तौ कारणं यदुत बुद्ध्यादौ देहान्ते ह्यहंममेति निस्सन्धिबन्धनो ग्रहः । तद्व्यतिरेके हि न कुतश्चिद्विभज्यत एकल एव प्रत्यगात्म- न्यवतिष्ठत इत्याह । रिपौ बन्धौ स्वदेहे च समैकात्म्यं प्रपश्यतः । विवेकिनः कुतः कोपः स्वदेहावयवेश्विव ॥ १८॥ इतश्चानात्मा देहादिः । घटादिवच्च दृश्यत्वात्तैरेव करणैर्दृशेः । स्वप्ने चानन्वयाज्ज्ञयो देहोऽनात्मेति सूरिभिः ॥ १९॥ देहादिकार्यकरणसंघातव्यतिरेकाव्यतिरेकदर्शिनः प्रत्यक्षत एव विरुद्धं कार्यमुपलभ्यते । चतुर्भिरुह्यते यत्तत्सर्वशक्त्या शरीरकम् । तूलायते तदेवाहंधियाघ्रातमचेतसाम् ॥ २०॥ प्रसिद्धत्वाप्रकरणार्थोपसंहारायाह । स्थूलं युक्त्या निरस्यैवं नभसो नीलतामिव । देहं सूक्ष्मं निराकुर्यादतो युक्तिभिरात्मनः ॥ २१॥ कथं देहं सूक्ष्मं निराकृर्यादिति । उच्यते । अहंममत्वयत्नेच्छा नात्मधर्माः कृशत्ववत् । कर्मत्वेनोपलभ्यत्वादपायित्वाच्च वस्त्रवत् ॥ २२॥ वैधर्म्ये दृष्टान्तः । नोष्णिमानं दहत्यग्निः स्वरूपत्वाद्यथा ज्वलन् । तथैवात्मात्मनो विद्यादहं नैवाविशेषतः ॥ २३॥ एकस्यात्मनः कर्मकर्तृभावः सर्वथा नोपपद्यत इति श्रुत्वा मीमांसकः प्रत्यवतिष्ठते । अहम्प्रत्ययग्राह्यत्वाद्ग्राहक आत्मेति तन्निवृत्त्यर्थमाह । यत्कर्मको हि यो भावो नासौ तत्कर्तृको यतः । घटप्रत्ययवत्तस्मान्नाहं स्याद्द्रष्टृकर्मकः ॥ २४॥ अत्राह प्रत्यक्षेणात्मनः कर्मकर्तृत्वाभ्युपगमे तत्पादोपजीविनानुमानेन प्रत्यक्षोत्सारणमयुक्तमिति चोद्यं तन्निराकरणाय प्रत्यक्षोपन्यासः । यत्र यो दृश्यते द्रष्ट्रा तस्यैवासौ गुणो न तु । द्रष्टृस्थं दृश्यतां यस्मान्नैवेयाद्द्रष्टृबोधवत् ॥ २५॥ प्रत्यक्षेणैव भवदभिमतस्य प्रत्यक्षस्याभासीकृतत्वात्- सुस्थमेवानुमानम् । अतस्तदेव प्रक्रियते तत्र च विकल्पदूषणाभिधानम् । नात्मना न तदंशेन गुणः स्वस्थोऽवगम्यते । अभिन्नत्वात्समत्वाच्च निरंशत्वादकर्मतः ॥ २६॥ न युगपन्नपि क्रमेणोभयथा चैकस्य धर्मिणो ग्राह्यग्राहकत्वमुपपद्यत इति प्रतिपादनायाह । द्रष्टृत्वेनोपयुक्तत्वात्तदैव स्यान्न दृश्यता । कालान्तरे चेद्दृश्यत्वं न ह्यद्रष्टृकमिष्यते ॥ २७॥ सन्तु काममनात्मधर्मा ममत्वादयो यथोक्तन्यायबलादनात्मतयैव च तेषु व्यवहारादहंरूपस्य तु प्रत्यगात्मसम्बन्धितयैव प्रसिद्धेरहम्ब्रह्मास्मीति श्रुतेश्चानात्मधर्मत्वमयुक्तमिति चेत्तन्न । अहन्धर्मस्त्वभिन्नश्चेदहम्ब्रह्मेति वाक्यतः । गौरोऽहमित्यनैकान्तो वाक्यं तद्व्यपनेतृ तत् ॥ २८॥ कथं वाक्यं तद्व्यपनेतृ तदिति । उच्यते । योऽयं स्थाणुः पुमानेष पुन्धिया स्थाणुधीरिव । ब्रह्मास्मीतिधियाशेषा ह्यहम्बुद्धिर्निवर्त्यते ॥ २९॥ अहम्परिच्छेदव्यावृत्तौ न किंचिदव्यावृत्तं द्वैतजातमवशिष्यते द्वितीयसम्बन्धस्य तन्मूलत्वात् । अत आह । निवृत्तायामहम्बुद्धौ ममधीः प्रविलीयते । अहम्बीजा हि सा सिद्ध्येत्तमोऽभावे कुतः फणी ॥ ३०॥ विवक्षितदृष्टान्तांशज्ञापनाय दृष्टान्तव्याख्या । तमोऽभिभूतचित्तो हि रज्ज्वां पश्यति रोषणम् । भ्रान्त्या भ्रान्त्या विना तस्मान्नोरगं स्रजि वीक्षते ॥ ३१॥ अनन्वयाच्च नात्मधर्मोऽहङ्कारः । आत्मनश्चेदहन्धर्मो यायान्मुक्तिसुषुप्तयोः । यतो नान्वेति तेनायमन्यदीयो भवेदहम् ॥ ३२॥ आत्मधर्मत्वाभ्युपगमेऽपरिहार्यदोषप्रसक्तिश्च । यद्यात्मधर्मोऽहङ्कारो नित्यत्वं तस्य बोधवत् । नित्यत्वे मोक्षशास्त्राणां वैयर्थं प्राप्नुयाद्ध्रुवम् ॥ ३३॥ स्यात्परिहारः स्वाभाविकधर्मत्वाभ्युपगमेऽप्याम्रादिफलवदिति चेत्तन्न । आम्रादेः परिणामित्वाद्गुणहानिर्गुणान्तरैः । अविकारि तु तद्ब्रह्म ᳚न हि द्रष्टुरि᳚तिश्रुतेः ॥ ३४॥ अहङ्कारस्य चागमापायित्वात्तद्धर्मिणश्चानित्यत्वं प्राप्नोति । आगमापायिनिष्ठत्वादनित्यत्वमियाद्दृशिः । उपयन्नपयन्धर्मो विकरोति हि धर्मिणम् ॥ ३५॥ अस्त्वनित्यत्वं कमुपालभेमहि प्रमाणोपपन्नत्वादिति चेत्तन्न । सदाविलुप्तसाक्षित्वं स्वतस्सिद्धं न पार्यते । अपह्नोतुं घटस्येव कुशाग्रीयधियात्मनः ॥ ३६॥ एतस्माच्च हेतोरहंकारस्यानात्मधर्मत्वमवसीयताम् । प्रमाणैश्चावगम्यत्वाद्घटादिवदहंदृशेः । यतो राधिः प्रमाणानां स कथं तैः प्रसिध्यति ॥ ३७॥ धर्मधर्मिणोश्चेतरेतरविरुद्धात्मकत्वादसङ्गतिः । धर्मिणश्च विरुद्धत्वान्न दृश्यगुणसङ्गतिः । मारुतान्दोलितज्वालं शैत्यं नाग्निं सिसृप्सति ॥ ३८॥ तस्माद्विस्रब्धमुपगम्यताम् । द्रष्टृत्वं दृश्यता चैव नैकस्मिन्नेकदा क्वचित् । दृश्यदृश्यो न च द्रष्टा द्रष्टुर्दर्शी दृशिर्न च ॥ ३९॥ सर्वसंव्यवहारलोपश्च प्राप्नोति । यस्मात् । द्रष्टापि यदि दृश्याया आत्मेयात्कर्मतां धियः । यौगपद्यमदृश्यत्वं वैयर्थ्यं चाप्नुयाच्छृतिः ॥ ४०॥ कुतः । यस्मात् । नालुप्तदृष्टेर्दृश्यत्वं दृश्यत्वे द्रष्टृता कुतः । स्याच्चेद्दृगेकं निर्दृश्यं जगद्वा स्यादसाक्षिकम् ॥ ४१॥ उक्तयुक्तिं दृढीकर्तुमागमोदाहरणोपन्यासः । आर्तमन्यद्दृशेः सर्वं ᳚नेति नेती᳚ति चासकृत् । वदन्ती निर्गुणं ब्रह्म कथं श्रुतिरुपेक्ष्यते ॥ ४२॥ ᳚महाभूतान्यहंकार᳚ इत्येतत्क्षेत्रमुच्यते । न दृशेर्द्वैतयोगोऽस्ति विश्वेश्वरमतादपि ॥ ४३॥ अधुना प्रकृतार्थोऽपसंहारः । एवमेतद्धिरुग्ज्ञेयं मिथ्यासिद्धमनात्मकम् । मोहमूलं सुदुर्बोधं द्वैतं युक्तिभिरात्मनः ॥ ४४॥ कुतो मिथ्यासिद्धत्वं द्वैतस्येति चेत् । न पृथङ्नात्मना सिद्धिरात्मनोऽन्यस्य वस्तुनः । आत्मवत्कल्पितस्तस्मादहंकारादिरात्मनि ॥ ४५॥ तस्मादज्ञानविजृम्भितमेतत् । दृश्याः शब्दादयः क्लृप्ता द्रष्टृ च ब्रह्म निर्गुणम् । अहं तदुभयं बिभ्रद्भ्रान्तिमात्मनि यच्छति ॥४६॥ तत एवेयमभिन्नस्यात्मनो भेदबुद्धिः । दृगेका सर्वभूतेषु भाति दृश्यैरनेकवत् । जलभाजनभेदेन मयूखस्रग्विभेदवत् ॥ ४७॥ यथोक्तार्थस्य प्रतिपत्तये दृष्टान्तः । मित्रोदासीनशत्रुत्वं यथैकस्यान्यकल्पनात् । अभिन्नस्य चित्तेस्तद्वद्भेदोऽन्तःकरणाश्रयः ॥ ४८॥ अपहारो यथा भानोः सर्वतो जलपात्रकैः । तत्क्रियाकृतिदेशाप्तिस्तथा बुद्धिभिरात्मनः ॥ ४९॥ न च विरुद्धधर्मणामेकत्रानुपपत्तिः । कल्पितानामवस्तुत्वात्स्यादेकत्रापि सम्भवः । कमनीयाशुचिः स्वाद्वीत्येकस्यामिव योषिति ॥ ५०॥ न चायं क्रियाकारकफलात्मक आभास ईषदपि परमार्थवस्तु स्पृशति तस्य मोहमात्रोपादानत्वात् । अभूताभिनिवेशेन स्वात्मानं वञ्चयत्ययम् । असत्यपि द्वितीयेऽर्थे सोमशर्मपिता यथा ॥ ५१॥ वस्तुयाथात्म्यानवबोधपटलावनद्धाक्षः सन् । सुभ्रूः सुनासा सुमुखी सुनेत्रा चारुहासिनी । कल्पनामात्रसंमोहाद्रामेत्यालिङ्गतेऽशुचिम् ॥ ५२॥ सर्वस्यानर्थजातस्य जिहासितस्य मूलमहंकार एव तस्यात्मनात्मोपरागात् । न तु परमार्थत आत्मनोऽविद्यया तत्कार्येण वा सम्बधोऽभूदस्ति भविष्यति वा तस्यापरिलिप्तदृष्टिस्वाभाव्यात् । दृश्यानुरक्तं तद्द्रष्टृ दृश्यं द्रष्ट्रनुरञ्जितम् । अहंवृत्त्योहयं रक्तं तन्नाशेऽद्वैततात्मनः ॥ ५३॥ इह केचिच्चोदयन्ति योऽयमन्वयव्यतिरेकाभ्यामनात्मत- योत्सारितोऽहंकारो वाक्यार्थप्रतिपत्तये सोऽयं विपरीतार्थः संवृत्तो यस्मादहं ब्रह्मास्मीति ब्रह्माहम्पदार्थयोः सामानाधिकरण्यश्रवणादनात्मार्थेन सामानाधिकरण्यं प्राप्नोति । वक्तव्या च प्रत्यगात्मनि तस्य वृत्तिरिति सोच्यते प्रसिद्धलक्षणागुणवृत्तिभिः । नाज्ञासिषमिति प्राह सुषुप्तादुत्थितोऽपि हि । अयोदाहादिवत्तेन लक्षणं परमात्मनः ॥ ५४॥ प्रत्यक्त्वादतिसूक्ष्मत्वादात्मदृष्ट्यनुशीलनात् । अतो वृत्तीर्विहायान्या ह्यहंवृत्त्योपलक्षते ॥ ५५॥ आत्मना चाविनाभावमथवा विलयं व्रजेत् । न तु पक्षान्तरं यायादतश्चाहंधियोच्यते ॥ ५६॥ कीदृक्पुनर्वस्तु लक्ष्यम् । नामादिभ्यः परो भूमा निष्कलोऽकारकोऽक्रियः । स एवात्मवतामात्मा स्वतस्सिद्धः स एव नः ॥ ५७॥ अज्ञानोत्थबुद्ध्यादिकर्तृत्वोपाधिमात्मानं परिगृह्यैवान्वयव्यतिरेकाभ्यामहं सुखी दुःखी चेत्यहंकारादेरनात्मधर्मत्वमुक्तं केवलात्माभ्युपगमेऽशक्यत्वात्फलाभावाच्च । अथेदानीमविद्यापरिकल्पितं साक्षित्वमाश्रित्य कर्तृत्वाद्यशेषपरिणामप्रतिषेधायाह । एष सर्वधियां नृत्तमविलुप्तैकदर्शनः । वीक्षतेऽवीक्षमाणोऽपि निमिषत्तद्ध्रुवोऽध्रुवम् ॥ ५८॥ ननु सर्वसिद्धान्तानामपि स्वस्वदृष्ट्यपेक्षयोपपन्नत्वा- दितरेतरदृष्ट्यपेक्षया दुस्स्थितसिद्धिकत्वान्नैकत्रापि विश्वासं पश्यामो न च सर्वतार्किकैरदूषितं समर्थितं सर्वतार्किकोपद्रवापसर्पणाय वर्त्म सम्भावयामः । उच्यते । विस्रब्धैः सम्भाव्यतामनुभवमात्रशरणत्वात्- सर्वतार्किकप्रस्थानानाम् । तदभिधीयते । इमं प्राशिकमुद्दिश्य तर्कज्वरभृशातुराः । त्वाच्छिरस्कवचोजालैर्मोहयन्तीतरेतरम् ॥ ५९॥ अत्रापि चोदयन्ति । अनुभवात्मनोऽपि विक्रियाभ्युपगमेऽन- भ्युपगमेऽपि दोष एव । यस्मादाह । ᳚वर्षातपाभ्यां किं व्योम्नश्चर्मण्येव तयोः फलम् । चर्मोपमश्चेत्सोऽनित्यः खतुल्यश्चेदसत्समः ᳚ ॥ ६०॥ बुद्धिजन्मनि पुंसश्च विकृतिर्यद्यनित्यता । अथाविकृतिरेवायं प्रमातेति न युज्यते ॥ ६१॥ अस्य परिहारः । ऊर्ध्वं गच्छति धूमे खं भिद्यते स्विन्न भिद्यते । न भिद्यते चेत्स्थास्नुत्वं भिद्यते चेद्भिदास्य का ॥ ६२॥ इत्येतत्प्रतिपत्त्यर्थमाह । अविक्रियस्य भोक्तृत्वं स्यादहम्बुद्धिविभ्रमात् । नौयानविभ्रमाद्यद्वन्नगेषु गतिकल्पनम् ॥ ६३॥ यथोक्तार्थाविष्करणाय दृष्टान्तान्तरोपादानम् । यथा जात्यमणेः शुभ्रा ज्वलन्ती निश्चला शिखा । संनिध्यसंनिधानेषु घटादीनामविक्रिया ॥ ६४॥ अयमत्रांशो विवक्षित इति ज्ञापनायाह । यदवस्था व्यनक्तीति तदवस्थैव सा पुनः । भण्यते न व्यनक्तीति घटादीनामसंनिधौ ॥ ६५॥ तत्र च । सर्वधीव्यञ्जकस्तद्वत्परमात्मा प्रदीपकः । संनिध्यसंनिधानेषु धीवृत्तिनामविक्रियः ॥ ६६॥ न प्रकाशक्रिया काचिदस्य स्वात्मनि विद्यते । उपचारात्क्रिया सास्य यः प्रकाशस्य संनिधिः ॥ ६७॥ मैवं शङ्किष्ठाः सांख्यराध्यान्तोऽयमिति । यतः । यथा विशुद्ध आकाशे सहसैवाभ्रमण्डलम् । भूत्वा विलीयते तद्वदात्मनीहाखिलं जगत् ॥ ६८॥ तस्मादेष कूटस्थो न द्वैतं मनागपि स्पृशति । यतः । शब्दाद्याकारनिर्भासाः क्षणप्रध्वंसिनीर्दृशा । नित्योऽक्रमदृगात्मैको व्याप्नोतीव धियोऽनिशम् ॥ ६९॥ एवं च सति बुद्धेः परिणामित्वं युक्तम् । अतीतानागतेहत्यान्युगपत्सर्वगोचरान् । वेत्त्यात्मवन्न धीर्यस्मात्तेनेयं परिणामिनी ॥ ७०॥ ततश्चैतत्सिद्धम् । अपश्यन्पश्यतीं बुद्धिमशृण्वन् शृण्वतीं तथा । निर्यत्नोऽविक्रियोऽनिच्छन्निच्छन्तीं चाप्यलुप्तदृक् ॥ ७१॥ द्विषन्तीमद्विषन्नात्मा कुप्यन्तीं चाप्यकोपनः । निर्दुःखो दुःखिनीं चैव निस्सुखः सुखिनीमपि ॥ ७२॥ अमुह्यमानो मुह्यन्तीं कल्पयन्तीमकल्पयन् । स्मरन्तीमस्मरंश्चैव शयानामस्वपन्मुहुः ॥ ७३॥ सर्वाकारां निराकारः स्वार्थोऽस्वार्थां निरिङ्गनः । निस्त्रिकालस्त्रिकालस्थां कूटस्थः क्षणभङ्गुराम् ॥ ७४॥ निरपेक्षश्च सापेक्षां पराचीं प्रत्यगद्वयः । सावधिं निर्गतेयत्तः सर्वदेहेषु पश्यति ॥ ७५॥ एतस्माच्च कारणादयमर्थो व्यवसीयताम् । दुःखी यदि भवेदात्मा कस्साक्षी दुःखिनो भवेत् । दुःखिनः साक्षितायुक्ता साक्षिणो दुःखिता तथा ॥ ७६॥ पूर्वस्यैव व्याख्यानार्थमाह । नर्ते स्याद्विक्रियां दुःखी साक्षिता का विकारिणः । धीविक्रियासहस्राणां साक्ष्यतोऽहमविक्रियः ॥ ७७॥ एवं सर्वस्मिन् व्यभिचारिण्यात्मवस्त्वेवाव्यभिचारीत्यनुभवतो व्यवस्थापनायाह । प्रमाणतन्निभेष्वस्या नोच्छित्तिर्मम संविदः । मत्तोऽन्यद्रूपमाभाति यत्तत्स्यात्क्षणभङ्गि हि ॥ ७८॥ उत्पत्तिस्थितिभङ्गेषु कुम्भस्य वियतो यथा । नोत्पत्तिस्थितिनाशास्स्युर्बुद्धेरेवं ममापि च ॥७९॥ सुखदुःखसम्बन्धानां च प्रत्यक्षत्वान्न श्रद्धामात्रग्राह्यमेतत् । सुखदुःखादिसम्बन्धां यथा दण्डेन दण्डिनम् । राधको वीक्षते बुद्धिं साक्षी तद्वदसंहतः ॥ ८०॥ एतस्माच्च हेतोर्धियः परिणामित्वं युक्तम् । येनैवास्या भवेद्योगः सुखकुम्भादिना धियः । तं विदन्ती तदैवान्यं वेत्ति नातो विकारिणी ॥ ८१॥ अस्याश्च क्षणभङ्गरत्वे स्वयमेवात्मा साक्षी । न हि कूटस्थावबोधमन्तरेण बुद्धेरेवाविर्भावतिरोभावादि- सिद्धिरस्ति । परिणामिधियां वृत्तं नित्याक्रमदृगात्मना । षड्भावविक्रियामेति व्याप्तं खेनाङ्करो यथा ॥ ८२॥ सत आत्मनश्चाविकारित्वे युक्तिः । स्मृतिस्वप्नप्रबोधेषु न कश्चित्प्रत्ययो धियः । दृशाव्याप्तोऽस्त्यतो नित्यमविकारी स्वयंदृशिः ॥ ८३॥ एवं तावत्पराभ्युपगतप्रक्रियाप्रस्थानेन निरस्ताशेषविकारैकात्म्यं प्रतिपादितमुपपत्तिभिः । अथाधुना श्रौतीं प्रक्रियामवलम्ब्योच्यते । अस्तु वा परिणामोऽस्य दृशेः कूटस्थरूपतः । कल्पितोऽपि मृषैवासौ दण्डस्येवाप्सु वक्रता ॥ ८४॥ षट्सु भावविकारेषु निषिद्धेश्वेवमात्मनि । दोषः कश्चिदिहासक्तुं न शक्यस्तार्किकश्वभिः ॥ ८५॥ प्रकृतमेवोपादाय बुद्धेः परिणामित्वमात्मनश्च कूटस्थत्वं युक्तिभिरुच्यते । प्रत्यर्थं तु विभिद्यन्ते बुद्धयो विषयोन्मुखाः । न भिदावगतेस्तद्वत्सर्वास्ताश्चिन्निभा यतः ॥ ८६॥ स्वसम्बद्धार्थ एव । सावशेषपरिच्छेदिन्यत एव न कृत्स्नवित् । नो चेत्परिणमेद्बुद्धिः सर्वज्ञा स्वात्मवद्भवेत् ॥ ८७॥ अतोऽवगतेरेकत्वात् । चण्डालबुद्धेर्यर्दृष्टृ तदेव ब्रह्मबुद्धिदृक् । एकं तदुभयोर्ज्योतिर्भास्यभेदादनेकवत् ॥ ८८॥ कस्मात् । अवस्थादेशकालादिभेदो नास्त्यनयोर्यतः । तस्माज्जगद्धियां वृत्तं ज्योतिरेकं सदेक्षते ॥ ८९॥ सर्वदेहेष्वात्मैकत्वे प्रतिबुद्धपरमार्थतत्त्वस्या- प्यप्रतिबुद्धदेहसम्बद्धादशेषदुःखसम्बन्ध इति चेत्तन्न । बोधात्प्रागपि दुःखित्वं नान्यदेहोत्थमस्ति नः । बोधादूर्ध्वं कुतस्तत्स्याद्यत्र स्वगतमप्यसत् ॥ ९०॥ न चेयं स्वमनीषिकेति ग्राह्यम् । कुतः । श्रुत्यवष्टम्भात् । शब्दाद्याकारनिर्भासा हानोपादानधर्मिणी । भास्येत्याह श्रुतिर्दृष्टिरात्मनोऽपरिणामिनः ॥ ९१॥ का त्वसौ श्रुतिः । दृष्टेर्द्रष्टारमात्मानं न पश्येर्दृश्यमानया । विज्ञातारमरे केन विजानीयाद्धियां पतिम् ॥ ९२॥ यस्मात्सर्वप्रमाणोपपन्नोऽयमर्थस्तस्मादतोऽन्यथावादिनो जात्यन्धा इवानुकम्पनीया इत्याह । तदेतदद्वयं ब्रह्म निर्विकारं कुबुद्धिभिः । जात्यन्धगजदृष्ट्येव कोटिशः परिकल्प्यते ॥ ९३॥ प्रमाणोपपनस्यार्थस्यासम्भावनात्तदनुकम्पनीयत्वसिद्धिः । तदेतदाह । यद्यद्विशेषणं दृष्टं नात्मनस्तदनन्वयात् । खस्य कुम्भादिवत्तस्मादात्मा स्यान्निर्विशेषणः ॥ ९४॥ अतश्चात्मनो भेदासंस्पर्शो भेदस्य मिथ्यास्वाभाव्यादत आह । अवगत्यात्मनो यस्मादागमापायि कुम्भवत् । साहंकारमिदं विश्वं तस्मात्तत्स्यात्कचादिवत् ॥ ९५॥ सर्वस्यैवानुमानव्यापारस्य फलमियदेव यद्विवेकग्रहणम् । तदुच्यते । बुद्धेरनात्मधर्मत्वमनुमानात्प्रसिद्ध्यति । आत्मनोऽप्यद्वितीयत्वमात्मत्वादेव सिद्ध्यति ॥ ९६॥ यद्यप्ययं ग्रहीतृग्रहणग्राह्यगृहीतितत्फलात्मक आब्रह्मस्तम्बपर्यन्तः संसारोऽन्वयव्यतिरेकाभ्यामनात्मतया निर्माल्यवदपविद्धः । तथापि तु नैवासौ स्वतस्सिद्धात्म- व्यतिरिक्तानात्मप्रकृतिपदार्थव्यपाश्रयः सांख्यानामिव । किं तर्हि । स्वतस्सिद्धानुदितानस्तमितकूटस्थात्मप्रज्ञानमात्र- शरीरप्रतिबिम्बिताविचारितसिद्धात्मानवबोधाश्रय एव तदुपादानत्वात्तस्येतीममर्थं निर्वक्तुकाम आह । ऋते ज्ञानं न सन्त्यर्था अस्ति ज्ञानमृतेऽपि तान् । एवं धियो हिरुग्ज्योतिर्विविच्यादनुमानतः ॥ ९७॥ यस्मात्प्रमाणप्रमेयव्यवहार आत्मानवबोधाश्रय एव तस्मात्सिद्धमात्मनोऽप्रमेयत्वम् । नैव हि कार्यं स्वकारणमतिलङ्घ्यान्यत्राकारक आस्पदमुपनिबध्नाति । अत आह । व्यवधीयन्त एवामी बुद्धिदेहघटादयः । आत्मत्वादात्मनः केन व्यवधानं मनागपि ॥ ९८॥ स्वयमनवगमात्मकत्वादनवगमात्कत्वं च मोहमात्रोपादानत्वात् । प्रमाणमन्तरेणैषां बुद्ध्यादीनामसिद्धता । अनुभूतिफलार्थित्वादात्मा ज्ञः किमपेक्षते ॥ ९९॥ वक्ष्यमाणेतरेतराध्याससिद्ध्यर्थमुक्तव्यतिरेकानुवादः । घटबुद्धेर्घटाच्चर्थाद्द्रष्टुर्यद्वद्विभिन्नता । अहम्बुद्धेरहङ्गम्याद्दुःखिनश्च तथा दृशेः ॥ १००॥ एवमेतयोरात्मानात्मनोः स्वतः परतः सिद्धयोर्लौकिकरज्जु- सर्पाध्यारोपवदविद्योपाश्रय एवेतरेतराध्यारोप इत्येतदाह । अभ्रयानं यथा मोहाच्छशभृत्यध्यवस्यति । सुखित्वादीन्धियो धर्मांस्तद्वदात्मनि मन्यते ॥ १०१ ॥ दग्धृत्वं च यथा वह्नेरयसो मन्यते कुधीः । चैतन्यं तद्वदात्मीयं मोहात्कर्तरि मन्यते ॥ १०२॥ सर्व एवायमात्मानात्मविभागः प्रत्यक्षादिप्रमाणवर्त्म- न्युनपतितोऽविद्योत्सङ्गवर्त्येव न परमात्मव्यपाश्रयः । अस्याश्चाविद्यायाः सर्वानर्थहेतोः कुतो निवृत्तिरिति चेत्तदाह । दुःखराशेर्विचित्रस्य सेयं भ्रान्तिश्चिरन्तनी । मूलं संसारवृक्षस्य तद्बाधस्तत्त्वदर्शनात् ॥ १०३॥ तद्बाधस्तत्त्वदर्शनादिति कुतः सम्भाव्यत इति चेदत आहागोपालाविपालपण्डितमियमेव प्रसिद्धिः । अप्रमोत्थं प्रमोत्थेन ज्ञानं ज्ञानेन बाध्यते । अहिरज्ज्वादिवद्बाधो देहाद्यात्ममतेस्तथा ॥ १०४॥ लौकिकप्रमेयवैलक्षण्यादात्मनो नेहानधिगताधिगमः प्रमाणफलम् । अविद्यानाशमात्रं तु फलमित्युपचर्यते । नाज्ञातज्ञापनं न्याय्यमवगत्येकरूपतः ॥ १०५॥ यस्मादात्मानवबोधमात्रोपादानाः प्रमात्रादयस्तस्मात् । न विदन्त्यात्मनः सत्तां द्रष्टृदर्शनगोचराः । न चान्योन्यमतोऽमीषां ज्ञेयत्वं भिन्नसाधनम् ॥ १०६॥ द्रष्ट्रादेरसाधारणरूपज्ञापनायाह । बाह्य आकारवान् ग्राह्यो ग्रहणं निश्चयादिमत् । अन्वय्यहमिति ज्ञेयः साक्षी त्वात्मा ध्रुवः सदा ॥ १०७॥ सर्वकारकक्रियाफलविभागात्त्मकसंसारशून्य आत्मेति कारकक्रियाफलविभागसाक्षित्वादात्मनस्तदाह । ग्राहकग्रहणग्राह्यविभागे योऽविभागवान् । हानोपादानयोस्साक्षी हानोपादानवर्जितः ॥ १०८॥ ग्राहकादिनिष्ठैव ग्राहकादिभावाभावविभागसिद्धिः कस्मान्नेति चेत्तदाह । स्वसाधन स्वयं नष्टो न नाशं वेत्त्यभावतः । अत एव न चान्येषामतोऽसौ भिन्नसाक्षिकः ॥ १०९॥ ग्राहकादेरन्यसाक्षिपूर्वकत्वसिद्धेः स्वसाक्षिणोऽप्यन्यसाक्षिपूर्वकत्वा- दनवस्थेति चेत्तन्न साक्षिणो व्यतिरिक्तहेत्वनपेक्षत्वादत आह । धीवन्नापेक्षते सिद्धिमात्मान्यस्मादविक्रियः । निरपेक्षमपेक्ष्यैव सिद्धन्त्यन्ये न तु स्वयम् ॥ ११०॥ यतो ग्राहकादिष्वात्मभावोऽविद्यानिबन्धन एव तस्मादन्वयव्यतिरेकाभ्यां विभज्यानात्मनः स्वयम् । उत्पत्तिस्थितिनाशेषु योऽवगत्यैव वर्तते । जगतोऽविकारयावेहि तमस्मीति न नश्वरम् ॥ १११॥ स्वतस्सिद्धात्मचैतन्यप्रतिबिम्बिताविचारितसिद्धिकात्मानव- बोधोत्थेतरेतरस्वभावापेक्षसिद्धत्वात्स्वतश्चासिद्धे- रनात्मनो द्वैतेन्द्रजालस्य । न स्वयं स्वस्य नानात्वं नावगत्यात्मना यतः । नोभाभ्यामप्यतस्सिद्धमद्वैतं द्वैतबाधया ॥ ११२॥ यथोक्तार्थप्रतिपत्तिद्रढिम्ने श्रुत्युदाहरणोपन्यासः । नित्यावगतिरूपत्वात्कारकादिर्न चात्मनः । अस्थूलं नेतिनेतीति न जायत इति श्रुतिः ॥ ११३॥ सर्वस्यास्य ग्राहकादेर्द्वैतप्रपञ्चस्यात्मानवबोध- मात्रोपादानस्य स्वयं सेद्धुमशक्यत्वादात्मसिद्धेश्चा- नुपादेयत्वात् । आत्मनश्चेन्निवार्यन्ते बुद्धिदेहघटादयः । षष्ठगोचरकल्पास्ते विज्ञेयाः परमार्थतः ॥ ११४॥ कुतो न्यायबलादेवं निश्चितं प्रतीयते । यस्मात् । नित्यां संविदमाश्रित्य स्वतस्सिद्धामविक्रियाम् । सिद्धायन्ते धियो बोधास्तांश्चाश्रित्य घटादयः ॥ ११५॥ यस्मान्न कयाचिदपि युक्त्यात्मनः कारकत्वं क्रियात्वं फलत्वं चोपपद्यते तस्मादात्मवस्तुयाथात्म्यानवबोध- मात्रोपादानत्वान्नभसीव रजोधूमतुषार नीहारनील- त्वाद्यध्यासो यथोक्तात्मनि सर्वोऽयं क्रियाकारकफलात्मक- संसारोऽहंममत्वयत्नेच्छादिमिथ्याध्यास एवेति सिद्धमिममर्थमाह । अहंमिथ्याभिशापेन दुःख्यात्मा तद्बुभुत्सया । इतः श्रुतिं तया नेतीत्युक्तः कैवल्यमास्थितः ॥ ११६॥ तस्यास्य मुमुक्षोः श्रौताद्वचसः स्वप्ननिमित्तोत्सारितनिद्रस्येवेयं निश्चितार्था प्रमा जायते । नाहं न च ममात्मत्वात्सर्वदानात्मवर्जितः । भानाविव तमोध्यासोऽपह्नवश्च तथा मयि ॥ ११७॥ सोऽयमेवम्प्रतिपान्नस्वभावमात्मानं प्रतिपन्नोऽनुक्रोशति । यत्र त्वस्येति साटोपं कृत्स्नद्वैतनिषेधिनीम् । प्रोत्सारयन्तीं संसारमप्यश्रौषं न किं श्रुतिम् ॥ ११८॥ इत्योमित्यवबुद्धात्मा निष्कलोऽकारकोऽक्रियः । विरक्त इव बुद्ध्यादेरेकाकित्वमुपेयिवान् ॥ ११९॥ इति द्वितीयोऽध्यायः ॥ २॥ अथ तृतीयोऽध्यायः । सर्वोऽयं प्रमितिप्रमाणप्रमेयप्रमातृलक्षण आब्रह्मस्तम्बपर्यन्तो मिथ्याध्यास एवेति बहुश उपपत्तिभिरतिष्ठिपम् । आत्मा च जन्मादिषड्भावविकारवर्जितः कूटस्थबोध एवेति स्फुटीकृतम् । तयोश्च मिथ्याध्यासकूटस्थात्मनोर्नान्तरेणाज्ञानं सम्बन्धोऽन्यत्र चोदनापरिप्रापितात् यथा ᳚इयमेवर्गग्निः साम᳚ इति । तच्चाज्ञानं स्वात्ममात्र निमित्तं न सम्भवतीति कस्यचित्कस्मिंश्चिद्विषये भवतीत्यभ्युपगन्तव्यम् । इह च पदार्थद्वयं निर्द्धारितमात्मानात्मा च । तत्रानात्मनस्तावन्नाज्ञानेनाभिसम्बन्धः । तस्य हि स्वरूपमेवाज्ञानं न हि स्वतोऽज्ञानस्याज्ञानं घटते । सम्भवदप्यज्ञानस्वभावेऽज्ञानं कमतिशयं जनयेत् । न च तत्र ज्ञानप्राप्तिरस्ति येन तत्प्रतिषेधात्मकमज्ञानं स्यात् । अनात्मनश्चाज्ञानप्रसूतत्त्वात् । न हि पूर्वसिद्धं सत्ततोलब्धात्मलाभस्य सेत्स्यत आश्रयस्याश्रयि सम्भवति । तदनपेक्षस्य च तस्य निस्स्वभावत्वात् । एतेभ्य एव हेतुभ्यो नानात्मविषयमज्ञानं सम्भवतीति ग्राह्यम् । एवं तावन्नानात्मनोऽज्ञानित्वं नापि तद्विषयमज्ञानम् । पारिशेष्यादात्मन एवास्त्वज्ञानं तस्याज्ञोऽस्मीत्यनुभवदर्शनात् । ᳚सोऽहं भगवो मन्त्रविदेवास्मि नात्मवित् ᳚इति श्रुतेः । न चात्मनोऽज्ञानस्वरूपता तस्य चैतन्यमात्रस्वाभाव्या- दतिशयश्च सम्भवति ज्ञानविपरिलोपो ज्ञानप्राप्तेश्च सम्भवस्तस्य ज्ञानकारित्वात् । न च अज्ञानकार्यत्वं कूटस्थात्मस्वाभाव्यादज्ञानानपेक्षस्य चात्मनः स्वत एव स्वरूपसिद्धेर्युक्तमात्मन एवाज्ञत्वम् । किंविषयं पुनस्तदात्मनोऽज्ञानम् । आत्मविषयमिति ब्रूमः । नन्वात्मनोऽपि ज्ञानस्वरूपत्वादनन्यत्वाच्च ज्ञानप्रकृतित्वादिभ्यश्च हेतुभ्यो नैवाज्ञानं घटते । घटत एव । कथम् । अज्ञानमात्रनिमित्तत्वात्तद्विभागस्य सर्पात्मतेव रज्ज्वाः । तस्मात्तदपनुत्तौ द्वैतानर्थाभावः । तदपनोदश्च वाक्यादेव तत्पदपदार्थाभिज्ञस्य । अतो वाक्यव्याख्यानायाध्याय आरभ्यते । तत्र यथोक्तेन प्रकारेण तत्त्वमस्यादिवाक्योपनिविष्टपदपदार्थयोः कृतान्वयव्यतिरेकः । यदा ना तत्त्वमस्यादेर्ब्रह्मास्मीत्यवगच्छति । प्रध्वस्ताहंममो नैति तदा गीर्मनसोः सृतिम् ॥ १॥ यदैव तदर्थं त्वमर्थेऽवैति तदैवावाक्यार्थतां प्रतिपद्यते गीर्मनसोः सृतिं न प्रतिपद्यत इति । कुत एतद्ध्यवसीयते । यस्मात् । तत्पदं प्रकृतार्थं स्यात्त्वम्पदं प्रत्यगात्मनि । नीलोत्पलवदेताभ्यां दुःख्यनात्मत्ववारणे ॥ २॥ एवं कृतान्वयव्यतिरेको वाक्यादेवावाक्यार्थं प्रतिपद्यत इत्युक्तमतस्तद्व्याख्यानाय सूत्रोपन्यासः । सामानाधिकरण्यं च विशेषणविशेष्यता । लक्ष्यलक्षणसम्बन्धः पदार्थप्रत्यगात्मनाम् ॥ ३॥ अस्मिन् सूत्र उपन्यस्ते कश्चिच्चोदयति योऽयं वाक्यार्थप्रतिपत्तौ पूर्वाध्यायेनान्वयव्यतिरेकलक्षणो न्यायः सर्वकर्मसंन्यासपूर्वकोऽभिहितः किमयं विधिपरिप्रापितः किं वा स्वरसत एवात्र पुमान्प्रवर्तत इति । किंचातः । शृणु । यद्यात्मवस्तुसाक्षात्करणाय विधिपरिप्रापितोऽयं न्यायस्तदावश्यमात्मवस्तुसाक्षात्करणाय व्यावृत्तशुभाशुभकर्मराशिरेकाग्रमना अन्वयव्यतिरेकाभ्यां यथोक्ताभ्यामात्मदर्शनं करोति । अपरिसमाप्यात्मदर्शनं ततः प्रच्यवमान आरूढपतितो भवति । यदि पुनर्यदृच्छातः प्रवर्तते तदा न कश्चिद्दोष इति । विधिपरिप्रापित इति ब्रूमो यत आह । शमादिसाधनः पश्येदात्मन्यात्मानमञ्जसा । अन्वयव्यतिरेकाभ्यां त्यक्त्वा युष्मदशेषतः ॥ ४॥ युष्मदर्थे परित्यक्ते पूर्वोक्तैर्हेतुभिः श्रुतिः । वीक्षापन्नस्य कोऽस्मीति तत्त्वमित्याह सौहृदात् ॥ ५॥ अत्रापि चोदयन्ति सांख्याः । शरीरेन्द्रियमनोबुद्धि- ष्वनात्मस्वात्मेति निस्सन्धिबन्धनं मिथ्याज्ञानमज्ञानं तन्निबन्धनो ह्यात्मनोऽनेकानर्थसम्बन्धस्तस्य चान्वयव्यतिरेकाभ्यामेव निरस्तत्त्वान्निर्विषयं तत्त्वमस्यादिवाक्यं प्राप्तम् । तस्माद्वाक्यस्य चैष महिमा योऽयमात्मानात्मनोर्विभाग इति । तन्निराकरणायेदमुच्यते । भेदसंविदिदं ज्ञानं भेदाभावश्च साक्षिणि । कार्यमेतदविद्याया ज्ञात्मना त्याजयेद्वचः ॥ ६॥ ज्ञात्मना त्याजयेद्वच इत्युपश्रुत्याह कश्चित् । मिथ्याज्ञानव्यतिरेकेणात्मानवबोधस्याभावात्किं वाक्येन निवर्तते । अज्ञानं हि नाम ज्ञानाभावस्तस्य चावस्तुस्वाभाव्यात्कुतः संसारकारणत्वं न ह्यसतः सज्जन्मेष्यते ᳚कुतस्तु खलु सोम्यैवं स्यात् ᳚ इति ᳚कथमसतः सज्जायेत ᳚ इति श्रुतेरिति । अत्रोच्यते । अज्ञात एव सर्वोऽर्थः प्राग्यतो बुद्धिजन्मनः । एकेनैव सता संश्च सन्नज्ञातो भवेत्ततः ॥ ७॥ सन्नज्ञातो भवेत्तत इत्युक्तमधस्ततेन श्लोकेन । कोऽसौ सन्नज्ञात इत्यपेक्षायां तत्स्वरूपप्रतिपादनायाह । प्रमित्सायां य आभाति स्वयं मातृप्रमाणयोः । स्वमहिम्ना च यस्सिद्धः सोऽज्ञातार्थोऽवसीयताम् ॥ ८॥ अत्र केचिदाहुः । यत्किंचिदिह वाक्यं लौकिकं वैदिकं वा तत्सर्वं संसर्गात्मकमेव वाक्यार्थं गमयति । अतस्तत्त्वमस्यादिवाक्येभ्यः संसर्गात्मकमहं ब्रह्मेति विज्ञाय तावन्निदिध्यासीत यावदवाक्यार्थात्मकः प्रत्यगात्मविषयोऽवबोधोऽहं ब्रह्मेति समभिजायते । तस्मादेव विज्ञानात्कैवल्यमाप्नोतीति तन्निराकरणायेदमुच्यते । सामानाधिकरण्यादेर्घटेतरखयोरिव । व्यावृत्तेः स्यादवाक्यार्थः साक्षान्नस्तत्त्वमर्थयोः ॥ ९॥ कुतोऽवाक्यार्थोऽवसीयत इति चेत्तत्प्रतिपत्त्यर्थं विशेषणविशेष्ययोः सामर्थ्योक्तिः । निर्दुःखित्वं त्वमर्थस्य तदर्थेन विशेषणात् । प्रत्यक्ता च तदर्थस्य त्वम्पदेनास्य संनिधेः ॥ १०॥ उक्तं सामानाधिकरण्यं विशेषणविशेष्यभावश्च संक्षेपतोऽथ लक्ष्यलक्षणव्याख्यानायाह । कूटस्थबोधप्रत्यक्त्वमनिमित्तं सदात्मनः । बोद्धृताहन्तयोर्हेतुस्ताभ्यां तेनोपलक्ष्यते ॥ ११॥ बुद्धेः कूटस्थबोधप्रत्यक्त्वनिमित्ते बोद्धृताप्रत्यक्त्वे ये त्वसाधारणे तयोर्विशेषवचनम् । बोद्धृता कर्तृता बुद्धेः कर्मता स्यादहन्तया । तयोरैक्यं यथा बुद्धौ पूर्वयोरेवमात्मनि ॥ १२॥ यथा बुद्धौ पूर्वयोरेवमात्मनीत्यतिदेशेन बुद्धिसाधर्म्य- विधानान्नानात्वप्रसक्तौ तदपवादार्थमाह । धर्मधर्मित्वभेदोऽस्याः सोऽपि नैवात्मनो यतः । प्रत्यग्ज्योतिरतोऽभिन्नं भेदहेतोरसम्भवात् ॥ १३॥ भेदहेतसम्भवं दर्शयन्नाह । न कस्यांचिदवस्थायां बोधप्रत्यक्त्वयोर्भिदा । व्यभिचारोऽथवा दृष्टो यथाहन्तद्विदोस्सदा ॥ १४॥ यस्मादज्ञानोपादानाया एव बुद्धेर्भेदो नात्मनस्तस्मादेतत्सिद्धम् । कूटस्थबोधतोऽद्वैतं साक्षात्त्वं प्रत्यगात्मनः । कूटस्थबोधाद्बोद्ध्री धीः स्वतो हीयं विनश्वरी ॥ १५॥ अथाधुना प्रकृतस्यैव परिणामिनः कूटस्थस्य च लक्षणमुच्यते । विशेषं कंचिदाश्रित्य यत्स्वरूपं प्रतीयते । प्रत्यभिज्ञाप्रमाणेन परिणामी स देहवत् ॥ १६॥ सामान्याच्च विशेषाच्च स्वमहिम्नैव यो भवेत् । व्युथ्यायाप्यविकारी स्यात्कुम्भाकाशादिवत्तु सः ॥ १७॥ आत्मनो बुद्धेश्च बोधप्रत्यगात्मत्वमभिहितं तयोरसाधारणलक्षणाभिधानार्थमाह । बुद्धेर्यत्प्रत्यगात्मत्वं तत्स्याद्देहाद्युपाश्रयात् । आत्मनस्तु स्वरूपं तन्नभसः सुषिता यथा ॥ १८॥ बोद्धृत्वं तद्वदेवास्याः प्रत्ययोत्पत्तिहेतुतः । आत्मनस्तु स्वरूपं तत्तिष्ठन्तीव महीभृतः ॥ १९॥ तयोः कूटस्थपरिणामिनोरात्मानवबोध एव सम्बन्धहेतुर्न पुनर्वास्तवः कश्चिदपि सम्बन्ध उपपद्यत इत्याह । सम्यक्संशयमिथ्यात्वैर्धीरेवेयं विभज्यते । हानोपादानतामीषां मोहादध्यस्यते दृशौ ॥ २०॥ कुतः कूटस्थात्मसिद्धिरिति चेद्यतः । न हानं हानमात्रेण नोदयोऽपीयता यतः । तत्सिद्धिः स्यात्तु तद्धीने हानादानविधर्मके ॥ २१॥ एवम् । आगमापायिहेतुभ्यां धूत्वा सर्वाननात्मनः । ततस्तत्त्वमसीत्येतद्धन्त्यस्मदि निजं तमः ॥ २२॥ इत्यादि पुनःपुनरुच्यते ग्रन्थलाघवाद्बुद्धिलाघवं प्रयोजकमिति । तत्र यद्यपि तत्त्वमस्यादिवाक्यादुपादि- त्सिताद्वितीयात्मार्थवत्पारोक्ष्यसद्वितीयार्थः प्रतीयते । तथापि तु नैवासावर्थः श्रुत्या तात्पर्येण प्रतिपिपादयिषितः प्रागपेतस्य प्रतीतत्वादितीममर्थमाह । तदित्येतत्पदं लोके बह्वर्थप्रतिपादकम् । अपरित्यज्य पारोक्ष्यमभिधानोत्थमेव तत् ॥ २३॥ त्वमित्यपि पदं तद्वत्साक्षान्मात्रार्थवाचि तु । संसारितामसंत्यज्य सापि स्यादभिधानजा ॥ २४॥ विरुद्धोद्देशनत्वाच्च पारोक्ष्यदुःखित्वयोरविवक्षितत्वमित्याह । उद्दिश्यमानं वाक्यस्थं नोद्देशनगुणात्वितम् । आकाङ्क्षितपदार्थेन संसर्गं प्रतिपद्यते ॥ २५॥ यत एतदेवमतोऽनुपादित्सितयोरपि तत्त्वमर्थयोर्विशेषणविशेष्यभावो भेदसंसर्गरहितवाक्यार्थलक्षणायैवेत्युपसंहारः । तदो विशेषणार्थत्वं विशेष्यत्वं त्वमस्तथा । लक्ष्यलक्षणसम्बन्धस्तयोः स्यात्प्रत्यगात्मना ॥ २६॥ कथं पुनरविवक्षितविरुद्धनिरस्यमानस्य लक्षणार्थत्वम् । लक्षणं सर्पवद्रज्ज्वाः प्रतीचः स्यादहं तथा । तद्बाधेनैव वाक्यार्थं वेत्ति सोऽपि तदाश्रयात् ॥ २७॥ इयं चावाक्यार्थप्रतिपत्तिरन्वयव्यतिरेकाभिज्ञस्यैव । यस्मात् । यावद्यावन्निरस्यायं देहादीन्प्रत्यगञ्चति । तावत्तावत्तदर्थोऽपि त्वमर्थं प्रविविक्षति ॥ २८॥ कस्मात्पुनः कारणाद्देहाद्यनात्मत्वप्रतिपत्तावेवात्मा तदर्थमात्मत्वेनाभिलिङ्गते न विपर्यय इति । उच्यते । प्रत्यगात्मानवबोधस्यनात्मस्वाभाव्यात्तदभिनिर्वृत्तश्चायं बुद्ध्यादिदेहान्तस्तस्मिन्नात्मत्वमविद्याकृतमेवात्मत्वमिवाना- त्मत्वमपि साविद्यस्यैव । यतो निरविद्यो विद्वानवाक्यार्थरूप एव केवलोऽवशिष्यते तस्मादुच्यते । देहादिव्यवधानत्वात्तदर्थं स्वयमप्यतः । पारोक्ष्येणैव जानाति साक्षात्त्वं तदनात्मनः ॥ २९॥ यथोक्तार्थप्रतिपत्तिसौकर्याय दृष्टान्तोपादानाम् । प्रत्यगुद्भुतपित्तस्य यथा बाह्यार्थपीतता । चैतन्यं प्रत्यगात्मीयं बहिर्वद्दृश्यते तथा ॥ ३०॥ यस्मादेवमतो विशुद्धमवसीयताम् । पदान्युद्धृत्य वाक्येभ्यो ह्यन्वयव्यतिरेकतः । पदार्थाँल्लोकतो बुद्ध्वा वेत्ति वाक्यार्थमञ्जसा ॥ ३१॥ कुतः पुनः सामान्यमात्रवृत्तेः पदस्य वाक्यार्थप्रतिपत्तिहेतुत्वमिति । बाढम् । सामान्यं हि पदं ब्रूते विशेषो वाक्यकर्तृकः । श्रुत्यादिप्रतिबद्धं सद्विशेषार्थं भवेत्पदम् ॥ ३२॥ अन्वयव्यतिरेकपुरस्सरं वाक्यमेव सामानाधिकरण्यादिनाविद्या- पटलप्रध्वंसद्वारेण मुमुक्षुं स्वाराज्येऽभिषेचयति न त्वन्वयव्यतिरेकमात्रसाध्योऽयमर्थ इत्याह । बुद्ध्यादीनामनात्मत्वं लिङ्गादपि च सिध्यति । निवृत्तिस्तावता नेतीत्यतो वाक्यं समाश्रयेत् ॥ ३३॥ न केवलमनुमानमात्रशरणोऽभिलषितमर्थं न प्राप्नोतीत्यनर्थं चाप्नोतीत्याह । अनादृत्य श्रुतिं मोहादतो बौद्धास्तमस्विनः । आपेदिरे निरात्मत्वमनुमानैकचक्षुषः ॥ ३४॥ न चानादरे कारणमस्ति । यस्मात्सर्वत्रैवानादरनिमित्तं प्रमाणस्य प्रमाणान्तरप्रतिपन्नप्रतिपादनं वा विपरीतप्रतिपादनं वा संशयितप्रतिपादनं वा न वा प्रतिपादनमिति-- न चैतेषामन्यतमदपि कारणमस्ति । यत आह । मानान्तरानवष्टब्धं निर्दुःख्यात्मानमञ्जसा । बोधयन्ती श्रुतिः केन न प्रमाणमितीर्यते ॥ ३५॥ न च संशयितव्यमवगमयति । यतः । सर्वसंशयहेतौ हि निरस्ते कथमात्मनि । जायेत संशयो वाक्यादनुमानेन युष्मदि ॥ ३६॥ अपि च । यत्र स्यात्संशयो नासौ ज्ञेय आत्मेति पण्डितैः । न यतः संशयप्राप्तिरात्मनोऽवगतित्वतः ॥ ३७॥ अनवबोधकत्वं तु दूरोत्सारितमेव । यत आह । बोधेऽप्यनुभवो यस्य न कथंचन जायते । तं कथं बोधयेच्छास्त्रं लोष्टं नरसमाकृतिम् ॥ ३८॥ अन्वयव्यतिरेकपुरस्सरं वाक्यमेवावाक्यार्थरूपमात्मानं प्रतिपादयतीत्यस्य पक्षस्य द्रढिम्न श्रुत्युदाहरणमुपन्यस्यति । जिघ्राणीममहं गन्धमिति यो वेत्त्यविक्रियः । स आत्मा तत्परं ज्योतिः शिरसीदं वचः श्रुतेः ॥ ३९॥ यथा ᳚तत्सत्यं स आत्मा तत्त्वमसि ᳚ इत्यस्य शेषत्वेनान्वयव्यतिरेकश्रुतिर्यथा ᳚य एषोऽक्षिणि पुरुषो दृश्यते ᳚ इत्याद्या ᳚अथ यो वेदेदं जिघ्राणि ᳚ इत्यन्ता तथा ᳚अहं ब्रह्मास्मि ᳚ इत्यस्य शेषः । अहमः प्रत्यगात्मार्थो निरस्ताशेषयुष्मदः । बम्भणीति श्रुतिर्न्याय्या योऽयमित्यादिनाऽसकृत् ॥ ४०॥ कथं पुनरयमर्थोऽवसीयते अहंव्याजेनात्रात्मार्थो बुबोधयिषित इति । यतः । एष आत्मा स्वयंज्योती रविसोमाग्निवाक्षु सः । इतेष्वस्तं दृगेवास्ते भासयंचित्तचेष्टितम् ॥ ४१॥ निर्णेनेक्ति च पृष्टो मुनिः । आत्मनैवेत्युपश्रुत्य कोऽयमात्मेत्युदीरिते । बुद्धेः परं स्वतोमुक्तमात्मानं मुनिरभ्यधात् ॥ ४२॥ यस्माच्चात्मात्राहंव्याजेन प्रत्यङ्मात्रो जिग्राहयिषितस्तस्मादहंवृत्तिः स्वरूपस्य विलयेनैव वाक्यार्थावगमाय कारणत्वं प्रतिपद्यत इतीममर्थमाह । अहंवृत्त्यैव तद्ब्रह्म यस्मादेषोऽवगच्छति । तत्स्वरूपलयेनातः कारणं स्यादहंकृतिः ॥ ४३॥ अत एव च यः प्रतिज्ञातोऽर्थो ᳚नाहंग्राह्ये न तद्धीने ᳚इत्यादिः स युक्तिभिरुपपादित इति कृत्वोपसंह्रियते । गृहीताहम्पदार्थश्चेत्कस्माज्ज्ञो न प्रपद्यते । प्रत्यक्षादिविरोधाच्चेत्प्रतीच्युक्तिर्न युष्मदि ॥ ४४॥ पूर्वस्यैव श्लोकार्थस्य विस्पष्टार्थमाह । पराञ्च्येव तु सर्वाणि प्रत्यक्षादीनि नात्मनि । प्रतीच्येव प्रवृत्तं तत्सदसीति वचोऽञ्जसा ॥ ४५॥ तस्मात्प्रमातृप्रमाणप्रमेयेभ्यो हीयमानोपादीयमानेभ्योऽन्वयव्यतिरेकाभ्यां मुञ्जेषीकावदशेषबुद्धिविक्रियासाक्षितयात्मानं निष्कृष्य तत्त्वमस्यादिवाक्येभ्योऽपूर्वादिलक्षणमात्मानं विजानीयात् । तदेतदाह । अहं दुःखी सुखी चेति येनायं प्रत्ययोऽध्रुवः । अवगत्यन्त आभाति स म आत्मेति वाक्यधीः ॥ ४६॥ प्रमाणान्तरानवष्टब्धं निरस्ताशेषकार्य- कारणात्मकद्वैतप्रपञ्चं सत्यज्ञानानन्द- लक्षणमात्मानं तत्त्वमस्यहम्ब्रह्मास्मीत्यादिवाक्यं संशयितमिथ्याज्ञानाज्ञानप्रध्वंसमुखेन साक्षादपरोक्षात्करतलन्यस्तामलकवत्प्रतिपादयत्येवे- त्यसकृदभिहितम् । तत्र केचिदाहुः--तत्त्वमस्यादिवाक्यै- र्यथावस्थितवस्तुयाथात्म्यान्वाख्याननिष्ठैर्न यथोक्तोऽर्थः प्रतिपत्तुं शक्यतेऽभिधाश्रुतित्वात्तेषाम् । न हि लोकेऽभिधाश्रुतेः प्रमाणान्तरनिरपेक्षाया नद्यास्तीरे फलानि सन्तीत्यादिकायाः प्रामाण्यमभ्युपगतम् । अतो नियोगमुखेनैवाभिधाश्रुतेः प्रामाण्यं युक्तं प्रमाणान्तरनिरपेक्षत्वान्नियोगस्य । अस्य परिहारार्थ- मशेषप्रत्यक्षादिप्रमेयत्वनिराकरणद्वारेणातीन्द्रियार्थ- विषयत्वादभिधाश्रुतेः प्रामाण्यं सुप्तपुरुषप्रबोधक- वाक्यस्येव वक्तव्यमित्ययमारम्भः । नित्यावगतिरूपत्वादन्यमानानपेक्षणात् । शब्दादिगुणहीनत्वात्संशयानवतारतः ॥ ४७॥ तृष्णानिष्ठीवनैर्नात्मा प्रत्यक्षाद्यः प्रमीयते । प्रत्यगात्मत्वहेतोश्च स्वार्थत्वादप्रमेयतः ॥ ४८॥ श्रुतिरपीममर्थं निर्वदति । दिद्दक्षितपरिछिन्नपराग्रूपादिसंश्रयात् । विपरीतमतो दृष्ट्या स्वतोबुद्धं न पश्यति ॥ ४९॥ न्यायसिद्धमतो वक्ति दृष्टेर्द्रष्टारमात्मनः । न पश्येत्प्रत्यगात्मानं प्रमाणं श्रुतिरादरात् ॥ ५०॥ अनुमानाविषयत्वेऽन्यदपि कारणमुच्यते । प्रत्यक्षस्य पराक्त्वान्न सम्बन्धग्रहणं यतः । आत्मनोऽतोऽनुमित्यास्यानुभवो न कथंचन ॥ ५१॥ एवमयं प्रमातृप्रमाणप्रमेयव्यवहारः सर्व एव पराचीनविषय एव न प्रतीचिनमात्मानमवगाहयितुमलम् । एवं च सत्यनेनैव यथोक्तोऽर्थोऽवसातुं शक्यत इत्याह । प्रमाणव्यवहारोऽयं सर्व एव पराग्यतः । सुविचार्याप्यतोऽनेन युष्मद्येव दिदृक्षते ॥ ५२॥ यस्माल्लौकिकप्रत्यक्षादिप्रमाणानधिगम्योऽहम्ब्रह्मास्मीति वाक्यार्थस्तस्मात् । अन्वयव्यतिरेकाभ्यां निरस्याप्राणतो यतेः । वीक्षापन्नस्य कोऽस्मीति तदसीति श्रुतिर्जगौ ॥ ५३॥ सोऽयमन्वयव्यतिरेकन्याय एतावानेव यदवसानो वाक्यार्थस्त- दभिज्ञस्याहम्ब्रह्मास्मीत्याविर्भवति । द्रष्टृदृश्यविभागेनागमापायि- साक्षिविभागेन च श्रुत्यभ्युपगमतः संक्षिप्योच्यते । दृश्यत्वाद्घटवद्देहो देहवच्चेन्द्रियाण्यपि । मनश्चेन्द्रियवज्ज्ञेयं मनोवन्निश्चयादिमत् ॥ ५४॥ तथा सकलकार्यकारणागमापायि विभागसाक्षित्वेनापि । प्रागसद्याति पश्चात्सत्सच्च यायादसत्तथा । अनात्माभिजनं तत्स्याद्विपरीतः स्वयं दृशिः ॥ ५५॥ तत्र घटादीनां दृश्यानामनात्मत्वं द्रष्ट्रात्मपूर्वकं प्रत्यक्षेणैव प्रमाणेनोपलभ्यानात्मनश्चासाधारणान्- धर्मानवधार्य तैर्दृश्यत्वागमापायादिभिर्धर्मैः शरीरेन्द्रियमनोनिश्चयादिवृत्तीरनात्मतया व्युदस्याहंवृत्तिमतोऽपि दृश्यत्वाविशेषाद्द्रष्टृ- पूर्वकत्वमवसीयते । तदेतदाह । घटादयो यथा लिङ्गं स्युः परम्परयाहमः । दृश्यत्वादहमप्येवं लिङ्गं स्याद्द्रष्टुरात्मनः ॥ ५६॥ ननु द्रष्टृदर्शनदृश्यानां जाग्रत्स्वप्नसुषुप्ते- ष्वागमापायदर्शनाद्यसाक्षिकौ तेषामागमापायौ स आगमापायविभागरहित आत्मा यथा यन्निबन्धनौ जगतः प्रकाशाप्रकाशौ स प्रकाशाप्रकाशविभागरहितः सूर्य इति । यदा चैवं तदा वाक्यावगम्यस्यार्थस्यानुदितानस्तमित- विज्ञानमात्रस्वभावस्यानुमानेनैव प्रतिपन्नत्वात्पुनरपि वाक्यस्य निर्विषयत्वप्रसङ्गः । नैष दोषः । लिङ्गव्यवधानेन तत्प्रतिपत्तेः । ननु साक्षादपरोक्षा- दात्मस्वभावेनानात्मनो हानोपादानयोः सम्बन्धग्रहणात्कमतिशयं वाक्यं कुर्यात् । मैवं वोचः । लिङ्गाधीनत्वात्तत्प्रतिपत्तेः । न हि लिङ्गव्यवधानेनात्मप्रतिपत्तिः साक्षात्प्रतिपत्तिर्भवति ᳚यमेवैष वृणुते तेन लभ्यः ᳚ इति श्रुतेः । अत आह । लिङ्गमस्तित्वनिष्ठत्वान्न स्याद्वाक्यार्थबोधकम् । सदसद्व्युत्थितात्माऽयमतो वाक्यात्प्रतीयते ॥ ५७॥ ननु यदि व्यावृत्तसदसद्विकल्पजालं वस्त्वभीष्टं वाक्याद्भवतस्तथापि तूत्सार्यते वाक्यविषया तृष्णा--यस्मादन्तरेणापि वाक्यश्रवणं निरस्ताशेषविकल्पमागोपालाविपालपण्डितं सुषुप्ते वस्तु सिद्धमतो नार्थो वाक्यश्रवणेन । नैतदेवम् । किं कारणम् । सर्वानर्थबीजस्यात्मानवबोधस्य सुषुप्ते सम्भवात् । यदि हि सुषुप्तेऽज्ञानं नाभविष्यदन्तरेणापि वेदान्तवाक्यश्रवणमनन- निदिध्यासनान्यहं ब्रह्मास्मीत्यध्यवसायात्सर्वप्राण- भूतामपि स्वरसत एव सुषुप्तप्रतिपत्तेः सकलसंसारो- च्छित्तिप्रसङ्गः । न च कैवल्यात्पुनरुत्थानं न्याय्य- मनिर्मोक्षप्रसङ्गात् । न चान्य एव सुषुप्तोऽन्य एवोत्थित इति शक्यं वक्तुं नाद्राक्षमहं सुषुप्तेऽन्यत्- किंचिदपीत्युत्तितस्य प्रत्यभिज्ञादर्शनात् । तस्मादवश्यं सुषुप्तेऽज्ञानमभ्युपगन्तव्यम् । ननु यदि तत्राज्ञान- मभविष्यद्रागद्वेषघटाज्ञानादिवत्प्रत्यक्षमभविष्य- द्यथेह लोके घटं न जानामीत्यज्ञानमव्यवहितं प्रत्यक्षम् । अत्रोच्यते । न । अभिव्यञ्जकाभावात् । कथमभिव्यञ्जकाभाव इति चेच्छृणु । बाह्यां वृत्तिमनुत्पाद्य व्यक्तिः स्यान्नाहमो यथा । नर्तेऽन्तःकरणं तद्वद्ध्वान्तस्य व्यक्तिराञ्जसी ॥ ५८॥ कश्चिदतिक्रान्तं प्रतिस्मृत्य ᳚दृश्यत्वादहमप्येवं लिङ्गं स्याद्द्रष्टुरात्मनः ᳚ इति निर्युक्तिकमभिहितमित्याह । किं कारणम् । अहंतज्ज्ञात्रोर्विवेकाप्रसिद्धेः । यथेह घटदेवदत्तयोर्ग्राह्यग्राहकत्वेन स्फुटतरो विभागः प्रसिद्धो लोके न तथेहाहंकारतज्ज्ञात्रोर्विभागोऽस्तीति तस्मादसाध्वेतदभिहितमिति । अत्रोच्यते । दाह्यदाहकतैकत्र यथा स्याद्वह्निदारुणोः । ज्ञेयज्ञातृकतैवं स्यादहंज्ञात्रोः परस्परम् ॥ ५९॥ एवं तावदविद्योत्थस्यान्तःकरणस्य बाह्यविषयनिमित्त- रूपावच्छेदायाहंवृत्तिर्व्याप्रियते । तयावच्छिन्नं सत्कूटस्थप्रत्यगात्मोपादानावबोधरूपस्याव्यवधानतया विषयभावं प्रतिपद्यत इति । तत्र तयोर्ज्ञात्रहंतारूपयो- रवभासकावभास्यसम्बन्धव्यतिरेकेण नान्यत्सम्बन्धान्तर- मुपपद्यते । अहंतारूपं त्वात्मसात्कृत्वाऽहंकञ्चुकं परिधायोपकार्यत्वोपकारकत्वक्षमः सन् बाह्यविषये- णोपकारिणापकारिणा वात्मात्मीयं सम्बन्धं प्रतिपद्यते । तदभिधीयते । इदं ज्ञानं भवेज्ज्ञातुर्ममज्ञानं तथाहमः । अज्ञानोपाधिनेदं स्याद्विक्रियातोऽहमो मम ॥ ६०॥ एकस्यैव ज्ञातुरन्तर्बाह्यनिमित्तभेदाद्विभिन्नेऽपि विषय इदं ममेति ज्ञानं द्वैरूप्यं जायत इत्युक्तम् । अत्रोपक्रियमाणापक्रियमाणस्यैव ज्ञातुर्विषये ममप्रत्ययो भवति विपर्यये चेदम्प्रत्यय इति कथमवगम्यते । अवगम्यतामन्वयव्यतिरेकाभ्याम् । तत्कथमित्याह । अनुपक्रियमाणत्वान्न ज्ञातुः स्यादहं मम । घटादिवदिदं तु स्यान्मोहमात्रव्यपाश्रयात् ॥ ६१॥ मोहतत्कार्याश्रयत्वाज्ज्ञातृत्वविक्रिययोः पूर्वत्रेदंममज्ञान्वयः प्रदर्शितः । अथाधुना तद्व्यतिरेकेण व्यतिरेकप्रदर्शनार्थाह । विक्रियाज्ञानशून्यत्वान्नेदं न च ममात्मनः । उत्थितस्य सतोऽज्ञानं नाहमज्ञासिषं यतः ॥ ६२॥ आत्मानात्मविवेकस्येयत्ताप्रदर्शनार्थमाह । वाक्यप्रत्यक्षमानाभ्यामियानर्थः प्रतीयते । अनर्थकृत्तमोहानिर्वाक्यादेव सदात्मनः ॥ ६३॥ द्वितीयाध्यायादौ श्रोतृचतुष्टयमुपन्यस्तम् । तत्र कृत्स्नानात्मनिवृत्तौ सत्यां यः प्रत्यगात्म- न्यवाक्यार्थतां प्रतिपद्यते स क्षपिताशेषान्तरायहेतुरिति न तं प्रति वक्तव्यं किंचिदप्यवशिष्यते । योऽपि वाक्यश्रवणमात्रादेव प्रतिपद्यते तस्याप्यतीन्द्रिय- शक्तिमत्त्वान्न किंचिदप्यपेक्षितव्यमस्ति । यश्च श्राविततत्त्वमस्यादिवाक्यः स्वयमेवान्वयव्यतिरेको कृत्वा तदवसान एव वाक्यार्थं प्रतिपद्यतेऽसावपि यथार्थं प्रतिपन्न इति पूर्ववदेवोपेक्षितव्यः । यः पुनरन्वयव्यतिरेकौ कारयित्वापि पुनःपुनर्वाक्यं श्राव्यते यथाभूतार्थप्रतिपत्तये तस्य कृतान्वयव्यतिरेकस्य सतः कथं वाक्यं श्राव्यत इति । उच्यते । नवसंख्याहृतज्ञानो दशमो विभ्रमाद्यथा । न वेत्ति दशमोऽस्मीति वीक्षमाणोऽपि तान्नव ॥ ६४॥ अथ दृष्टान्तगतमर्थं दार्ष्टान्तिकार्थे समर्पयिष्यन्नाह । अपविद्धद्वयोऽप्येवं तत्त्वमस्यादिना विना । वेत्ति नैकलमात्मानं नान्वेष्यं चात्र कारणम् ॥ ६५॥ नान्वेष्यं चात्र कारणमित्युक्तं तत्कस्मादिति चोदिते प्रत्याहान्वेषणासहिष्णुत्वात् । तत्कथमित्याह । सेयं भ्रान्तिर्निरालम्बा सर्वन्यायविरोधिनी । सहते न विचारं सा तमो यद्वद्दिवाकरम् ॥ ६६॥ तस्याः खल्वस्या अविद्याया भ्रान्तेः सम्यग्ज्ञानोत्पत्तिद्वारेण निवृत्तिः । बुभुत्सोच्छेदिनी चास्य सदसीत्यादिना दृढम् । प्रतीचि प्रतिपत्तिः स्यान्नासौ मानान्तराद्भवेत् ॥ ६७॥ कथं पुनर्वाक्यं प्रतिपादयत्येवेति चेद् दृष्टान्तोक्तिः । जिज्ञासोर्दशमं यद्वन्नवातिक्रम्य ताम्यतः । त्वमेव दशमोऽसीति कुर्यादेवं प्रमां वचः ॥ ६८॥ सा च तत्त्वमस्यादिवाक्यश्रवणजा प्रमोत्पन्नवादेव । न च नैवमिति प्रत्ययान्तर जायते । तदेतद्दृष्टान्तेन प्रतिपादयति । दशमोऽसीति वाक्योत्था न धीरस्य विहन्यते । आदिमध्यावसानेषु न नवस्वस्य संशयः ॥ ६९॥ एवं तत्त्वमसीत्यस्माद्द्वैतनुत्प्रत्यगात्मनि । सम्यग्ज्ञातत्वमर्थस्य जायेतैव प्रमा दृढा ॥ ७०॥ प्रत्यगात्मनि प्रमोपजायत इत्युक्तं तत्र चोद्यते । किं यथा घटादिप्रमेयविषया प्रमा कर्त्रादि- कारकभेदानपह्नवेन जायते तथैवोताशेषकारक- ग्रामोपमर्देन कर्तुः प्रत्यगात्मनीति । उच्यते । प्रत्यक्तास्य स्वतोरूपं निष्क्रियाकारकाफलम् । अद्वितीयं तदिद्धा धीः प्रत्यगात्मेव लक्ष्यते ॥ ७१॥ यस्मादेवम् । विपश्चितोऽप्यतस्तस्यामात्मभावं वितन्वते । दवीयस्स्विन्द्रियार्थेषु क्षीयते ह्युत्तरोत्तरम् ॥ ७२॥ आह । यदि वाक्यमेव यथाभूतार्थवबोधकमथ कस्य हेतोरविद्योत्थापितस्य कर्तृत्वादेरुपदेश इत्युक्ते प्रतिविधीयते । भ्रान्तिप्रसिद्ध्यानूद्यार्थं तत्तत्वं भ्रान्तिबाधया । अयं नेत्युपदिश्येत तथैवं तत्त्वमित्यपि ॥ ७३॥ इममर्थं दृष्टान्तेन बुद्धावारोहयति । स्थाणुः स्थाणुरितीवोक्तिर्न नृबुद्धिं निरस्यति । व्यनुवादात्तथैवोक्तिर्भ्रान्तिं पुंसो न बाधते ॥ ७४॥ यस्माच्छ्रोतृप्रसिद्धानुवाद्येव त्वमितिपदं तस्मादुद्दिश्यमानस्थत्वाद्दुःखित्वादेरविवक्षितत्वमेव । विधीयमानत्वे हि सति विरोधप्रसङ्गो न तु विधीयमाना- नूद्यमानयोरिति । स्वप्रधानयोर्हि पदयोर्विरोधाशङ्का सामान्यलिङ्गतत्वात्तयोर्न विपर्यये । अनालिङ्गितसामान्यौ न जिहासितवादिनौ । व्युत्थितौ तत्त्वमौ तस्मादन्योन्याभिसमीक्षणौ ॥ ७५॥ अपास्तसामान्यार्थत्वादनुवादस्थत्वाद्विधीयमानेन च सह विरोधाद्दुःखित्वादेरस्तु कामं जिहासितार्थयो- रसंसर्गो यथोपन्यस्तदोषविरहात्तत्त्वमर्थयोः संसर्गोऽस्तु नीलोत्पलवदिति चेन्नैवमप्युपपद्यते । तस्मात् । तदर्थयोस्तु निष्ठात्मा द्वयपारोक्ष्यवर्जितः । नाद्वितीयं विनात्मानं नात्मा नित्यदृशा विना ॥ ७६॥ अत्राह । किमिह जिहासितं किं वोपादित्सितमिति । उच्यते । प्रत्यगात्मार्थाभिधायिनस्त्वम्पदादुभयं प्रतीयतेऽहं दुःखी प्रत्यगात्मा च । तत्र च प्रत्यगात्मनोऽहं दुःखीत्यनेनाभिसम्बन्ध आत्मयाथात्म्यानवबोधहेतुक एव । अतोऽहमर्थोऽपसृष्टत्वादज्ञानोत्थत्वाच्च हेय इति प्रत्यक्षतोवसीयते । तदर्थे किं हेयं किं वोपादेयमिति नावध्रियते । तत इदमभिधीयते । पारोक्ष्यं यत्तदर्थे स्यात्तद्धेयमहमर्थवत् । प्रतीचेवाहमोऽभेदः पारोक्ष्येणात्मनोऽपि मे ॥ ७७॥ कथं पुनस्तदर्थोऽद्वितीयलक्षणः प्रत्यगात्मोपाश्रयं सद्वितीयत्वं दुःखित्वं निरन्वयमपनुदतीति । उच्यते । न चैतयोर्निवर्तकनिवर्त्यभावं वयं ब्रूमः । कथं तर्हि । त्वमर्थे प्रत्यगात्मनि प्रागनवबुद्धाद्वितीयता सानेनावबोध्यते । अतोऽनवबोधनिरासेन तदुत्थस्य सद्वितीयत्वस्य त्वमर्थत्वस्य परोक्षत्वस्य च तदर्थस्थस्य निरसनान्न वैयधिकरण्यादि- चोद्यस्यावसरोऽस्तीति । तदिदमभिधीयते । तत्त्वमर्थेन सम्पृक्तो नानात्वं विनिवर्तयेत् । नापरित्यक्तपारोक्ष्यं त्वं तदर्थं सिसृप्सति ॥ ७८॥ कस्मात्पुनः कारणात्तदर्थोऽद्वितीयलक्षणस्त्वमर्थेन प्रत्यगात्मना पृथगर्थः सन्नविद्योत्थं सद्वितीयत्वं निहन्तीति । उच्यते । विरोधात् । तदुच्यते । संसारिताद्वितीयेन पारोक्ष्यं चात्मना सह । प्रासङ्गिकं विरुद्धत्वात्तत्त्वम्भ्यां बाधनं तयोः ॥ ७९॥ तत्त्वमर्थयोस्तु बाधकत्वेऽन्यदपि कारणमुच्यते । अज्ञातपुरुषार्थत्वाच्छ्रौतत्वात्तत्त्वमर्थयोः । स्वमर्थमपरित्यज्य बाधकौ स्तां विरुद्धयोः ॥ ८०॥ एवं तावद्यथोपक्रान्तेन प्रक्रियावर्त्मना न प्रत्यक्षादिप्रमाणान्तरैर्विरोधगन्धोऽपि सम्भाव्यते । यदा पुनः सर्वप्रकारेणापि यतमाना नैवेमं वाक्यार्थं सम्भावयामः प्रत्यक्षादिप्रमाणान्तरविरोधत एव तस्मिन्नपि पक्ष उच्यते । प्रत्यक्षादिविरुद्धं चेद्वाक्यमर्थं वदेत्क्वचित् । स्यात्तु तद्दृष्टिविध्यर्थं योषाग्निवदसंशयम् ॥ ८१॥ यदा तु तत्त्वमस्यादिवाक्यं सर्वप्रकारेणापि विचार्यमाणं न क्रियां कटाक्षेणापि वीक्षते तदा प्रसंख्यानादिव्यापारो दुस्सम्भाव्य इति । तदुच्यते । वस्त्वेकनिष्ठं वाक्यं चेन्न तस्य स्यात्क्रियार्थता । वस्तुनो ह्येकरूपत्वाद्विकल्पस्याप्यसम्भवः ॥ ८२॥ भिन्नविषयत्वाच्च न प्रमाणान्तरविरोधः । कथम् । उच्यते । अपूर्वाधिगमं कुर्वत्प्रमाणं स्यान्न चेन्न तत् । न विरोधस्ततो युक्तो विभिन्नार्थावबोधिनोः ॥ ८३॥ य एवमपि भिन्नविषयाणां विरोधं वक्ति सोऽत्रापि विरोधं ब्रूयात् । नायं शब्दः कुतो यस्माद्रूपं पश्यामि चक्षुषा । इति यद्वत्तथैवायं विरोधोऽक्षजवाक्ययोः ॥ ८४॥ प्रमाणानां सतां न विरोधः श्रोत्रादीनामिव भिन्नविषयत्वात् । ययोश्चाभिन्नविषयत्वं तयोराखुनकुलयोरिव प्रतिनियत एव बाध्यबाधकभावः स्यात् । अतस्तदुच्यते । प्रत्यक्षं चेन्न शाब्दं स्याच्छाब्दं चेदक्षजं कथम् । प्रत्यक्षाभासः प्रत्यक्षे ह्यागमाभास आगमे ॥ ८५॥ न च प्रतिज्ञाहेतुदृष्टान्तन्याय इह सम्भवति शब्दादीनां प्रत्येकं प्रमाणत्वादत आह । स्वमहिम्ना प्रमाणानि कुर्वन्त्यर्थावबोधनम् । इतरेतरसाचिव्ये प्रामाण्यं नेष्यते स्वतः ॥ ८६॥ न च सुखदुःखादिसम्बन्धोऽवगत्यात्मनः प्रत्यक्षादिप्रमाणैर्गृह्यते येन विरोधः प्रत्यक्षादिप्रमाणैरुद्धाट्यते । दुःखितावगतिश्चेत्स्यान्न प्रमीयेत सात्मवत् । कर्मण्येव प्रमा न्याय्या न तु कर्तर्यपि क्वचित् ॥ ८७॥ अभ्युपगमेऽपि च प्रसंख्यानशतेनापि नैव त्वं सम्भावितदोषान्मुच्यते । अत आह । प्रमाणबद्धमूलत्वाद्दुःखित्वं केन वार्यते । अग्न्युष्णवन्निवृत्तिश्चेन्नैरात्म्यं ह्येति सौगतम् ॥ ८८॥ अथ मतम् । निराकुर्यात्प्रसंख्यानं दुःखित्वं चेत्स्वनुष्ठितम् । प्रत्यक्षादिविरुद्धत्वात्कथमुत्पादयेत्प्रमाम् ॥ ८९॥ ननु प्रसंख्यानं नाम तत्त्वमस्यादिशब्दार्थान्वय- व्यतिरेकयुक्तिविषयबुद्ध्याम्रेडनमभिधीयते तच्चानुष्ठीयमानं प्रमितिवर्धनया परिपूर्णां प्रमितिं जनयति न पुनरैकाग्र्यवर्धनयेति । यथाशेषाशुचिनीडे स्त्रीकृणपे कामिनीति निर्वस्तुकः पुरुषायासमात्रजनितः प्रत्यय इति । तन्न । यतः । अभ्यासोपचयाद्बुद्धेर्यत्स्यादैकाग्र्यमेव तत् । न हि प्रमाणान्यभ्यासात्कुर्वन्त्यर्थावबोधनम् ॥ ९०॥ अभ्यासोपचिता कृत्स्नं भावना चेन्निवर्तयेत् । नैकान्तिकी निवृत्तिरस्स्याद्भावनाजं हि तत्फलम् ॥ ९१॥ अपि चाह । दुःखस्मीत्यपि चेद्ध्वस्ता कल्पकोट्युपबृंहिता । स्वल्पीयोऽभ्यासजास्थास्न्वी भावनेत्यत्र का प्रमा ॥ ९२॥ ननु शास्त्रात्स्थास्नुत्वं भविष्यति । नैवम् । यथावस्थितवस्तुयाथात्म्यावबोधमात्रकारित्वाच्छास्त्रस्य । न हि पदार्थशक्त्याधानकृच्छास्त्रम् । प्रसिद्धं च लोके । भावनाजं फलं यत्स्याद्यच्च स्यात्कर्मणः फलम् । न तत्स्थास्न्विति मन्तव्यं द्रविडेष्विव सङ्गतम् ॥ ९३॥ यद्यपि प्रत्यक्षादिप्रमाणोपातमात्मनो दुःखित्वम् । तथापि तत्त्वमस्यादिवाक्योत्थप्रत्यय एव बलीयानिति निश्चयोऽव्यभिचारिप्रामाण्यवाक्योपत्तत्वात्प्रमेयस्य च स्वत एव निर्दुःखित्वसिद्धेः । प्रत्यक्षादेस्तु व्यभिचारित्वा- त्सम्भावनायाश्च पुरुषपरिकल्पनामात्राव- ष्टम्भत्वाच्चेति । निर्दुःखित्वं स्वतस्सिद्धं प्रत्यक्षादेश्च दुःखिता । को ह्यात्मानमनादृत्य विश्वसेद्बाह्यमानतः ॥ ९४॥ सम्बन्धार्थ एव । अपि प्रत्यक्षबाधेन प्रवृत्तिः प्रत्यगात्मनि । ᳚पराञ्चि खानि᳚ त्येतस्माद्वचसो गम्यते श्रुतेः ॥ ९५॥ अभ्युपगम्यैवमुच्यते न तु प्रमाणं सत्प्रमाणान्तरेण विरुध्यत इत्यसकृदवोचाम । यत्रापि वाक्यप्रत्यक्षयोर्विरोधाशङ्का तत्रापि पुरुषमोहवशादेव सा जायते न तु परमार्थत इति । अत आह । प्रमां चेज्जनयेद्वाक्यं प्रत्यक्षादिविरोधिनीम् । गौणीं प्रत्यक्षतां ब्रूयान्मुख्यार्थासम्भवाद्बुधः ॥ ९६॥ तस्यार्थस्य सुखप्रतिपत्त्यर्थमुदाहरणम् । अग्निस्सम्यगधीतेऽसौ जहासोच्चैश्च मञ्चकः । यथा तद्वदहंवृत्त्या लक्ष्यतेऽनर्हयापि सः ॥ ९७॥ कस्मात्पुनः कारणात्साक्षादेवात्मा नाभिधीयते किमनया कल्पनयेति तत्राह । त्वमित्यतद्विहायान्यन्न वर्तात्मावबोधते । समस्तीह त्वमर्थोऽपि गुणलेशेन वर्तते ॥ ९८॥ कस्मात्पुनर्हेतोर्ह्यहमित्येतदपि गुणलेशेन वर्तते न पुनः साक्षादेवेति । विधूतसर्वकल्पनाकारणस्वाभाव्यादात्मनः अत आह । व्योम्नि धूमतुषाराभ्रमलिनानीव दुर्धियः । कल्पयेयुस्तथा मूढाः संसारं प्रत्यगात्मनि ॥ ९९॥ ननु सर्वकल्पनानामप्यात्मन्यत्यन्तासम्भवे समानेऽहंवृत्तौ कः पक्षपाते हेतुर्येन वृत्त्यन्तराणि विधूयाहंवृत्त्यैवात्मोपलक्ष्यत इति । उच्यते । चिन्निभेयमहंवृत्तिः प्रतीचीवात्मनोऽन्यतः । पूर्वोक्तेभ्यश्च हेतुभ्यस्तस्मादाअत्मानयोच्यते ॥ १००॥ वृत्तिभिर्युष्मदर्थाभिर्लक्ष्यते चेद्दृशिः परः । अनात्मत्वं भवेत्तस्य वितथं च वचः श्रुतेः ॥ १०१॥ यथोक्तेन । अनेन गुणलेशेन ह्यत्यहंकर्तृकर्मया । लक्ष्यतेऽसावहंवृत्त्या नाञ्जसात्राभिधीयते ॥ १०२॥ नाञ्जसात्राभिधीयत इति को हेतुरिति चेत् । षष्ठीगुणक्रियाजातिरूढयः शब्दहेतवः । नात्मन्यन्यतमोऽमीषां तेनात्मा नाभिधीयते ॥ १०३॥ यदि शब्दोऽभिधानाभिधेयत्वसम्बन्धाङ्गीकारेण नात्मनि वर्तते कथं शब्दादहं ब्रह्मास्मीति सम्यग्बोधोत्पत्तिः । उच्यते । असत्ये वर्त्मनि स्थित्वा निरुपायमुपेयते । आत्मत्वकारणाद्विद्मो गुणवृत्त्या विबोधिताः ॥ १०४॥ कथं पुनरभिधानमभिधेयेनानभिसम्बद्धं सदनभिधेयेऽर्थे प्रमां जनयतीति । शृणु यथानभिसम्बद्धमप्यनभिधे- येऽर्थेऽविद्यानिराकरणमुखेन बोधयतीत्याह । शयानाः प्रायशो लोके बोध्यमानाः स्वनामभिः । सहसैव प्रबुध्यन्ते यथैवं प्रत्यगात्मनि ॥ १०५॥ न हि नाम्नास्ति सम्बन्धो व्युत्थितस्य शरीरतः । तथापि बुध्यते तेन यथैवं तत्त्वमित्यतः ॥ १०६॥ यथा च । बोधाबोधौ नभोऽस्पृष्ट्वा कृष्णधीनीडगौ यथा । बाध्येतरात्मकौ स्यातां तथेहात्मनि गम्यताम् ॥ १०७॥ ᳚असत्ये वर्त्मनि स्थित्वा᳚ इत्युपश्रुत्यातिविस्मितो महता सम्भ्रमेण कश्चिच्चोदयति । नासन्नुपायो लोकेऽस्ति परमार्थविनिश्चये । नासल्लिङ्गाद्धि बाष्पदेः कश्चिदग्निं प्रपद्यते ॥ १०८॥ इत्येवं चोदयेद्योऽपि जोषयेत्तं घटादिना । सदसद्भ्यां विभक्तोऽसौ पर्यायश्च न चानयोः ॥ १०९॥ एवं कुचोद्यमुन्मूल्याथेदानीं प्रकृतमभिधीयते । प्रकृतं चानभिधेये कथमभिधाश्रुतिरविद्याध्वंस्यात्मनि ज्ञानं जनयतीति । तत्रैव कारणान्तरमुच्यते । अतिदुस्स्थोऽप्रबोधोऽत्र ह्यात्मैवास्य प्रबुद्धता । निमित्तमात्राव्द्येत्येषा नासाग्रे बदरं यथा ॥ ११०॥ अनुदितानस्तमितकूटस्थबोधमात्रस्वाभाव्यादात्मनो दुस्सम्भाव्योऽविद्यासद्भाव इति चेन्न । अविद्याप्रसिद्ध्यैव तत्सद्भावसिद्धेरुलूकनिशावदित्यत इदमुच्यते । अहो धार्ष्ट्यमविद्याया न कश्चिदतिवर्तते । प्रमाणं वस्त्वनादृत्य परमात्मेव तिष्ठति ॥ १११॥ यस्मादविद्याप्रसिद्ध्यैवाविद्यासद्भावसिद्धिरत आत्मवस्तुवृत्तानुरोधेन न कथंचनापि तत्सम्भावनाप्यस्ति यत आह । ज्ञानं यस्य निजं रूपं क्रियाकारकवर्जितम् । सम्भावनाप्यविद्यायास्तत्र स्यात्केन हेतुना ॥ ११२॥ सोऽयमेवमनुदितानस्तमितावगतिमात्रशरीर आत्मापि सन्नविचारितप्रसिद्धाविद्यामात्रव्यवहित एवातथैवेक्ष्यते यतोऽतः । अनुमानादयं भावाव्द्यावृत्तोऽभावमाश्रितः । ततोऽप्यस्य निवृत्तिः स्याद्वाक्यादेव बुभुत्सतः ॥ ११३॥ न व्यावृत्तिर्यथा भावाद्भावेनैवाविशेषतः । अभावादप्यभावत्वाद्व्यावृत्तिर्न तथेष्यते ॥ ११४॥ भाववदभावादपि निवृत्तिरनुमानादेव किमिति न भवतीति चेच्छृणु । यतो नानुमानेन व्याविद्धाशेषक्रियाकारकफलात्मनि स्वाराज्येऽभिषेक्तुं शक्यते तस्मात् । अविद्यानिद्रया सोऽयं प्रसुप्तो दुर्विवेकया । भावाभावव्युदासिन्या श्रुत्यैव प्रतिबोध्यते ॥ ११५॥ अत्राहानुदितानस्तमितविज्ञानात्ममात्रस्वरूपत्वाद्दुस्सम्भाव्या अविद्येति । नैतदेवम् । कुतः । यत आह । कुतो अविद्येति चोद्यं स्यान्नैव प्राग्घेत्वसम्भवात् । कालत्रयापरिच्छित्तेर्न चोर्ध्वं चोद्यसम्भवः ॥ ११६॥ यस्मात्तत्त्वमस्यादिवाक्यमेवात्मनोऽशेषामविद्यां निरन्वयामपनुदति तस्मात् । अद्धातममनादृत्य प्रमाणं सदसीति ये । बुभुत्सन्तेऽन्यतः कुर्युस्तेऽक्ष्णापि रसवेदनम् ॥ ११७॥ एवमप्रतिहतामहं ब्रह्मेति प्रमां तत्त्वमस्यादिवाक्यं कुर्वदपि न प्रतिपादयतीति चेदभिमतं न कुतश्चनापि प्रतिपत्तिः स्यादत आह । इदं चेदनृतं ब्रूयात्सत्यामवगतावपि । न चान्यत्रापि विश्वासो ह्यवगत्यविशेषतः ॥ ११८॥ न चोपादित्सिताद्वाक्यार्थाद्वाक्यार्थान्तरं कल्पयितुं युक्तम् । यस्मात् । न चेदनुभवोऽतः स्यात्पदार्थावगतावपि । कल्प्यं विध्यन्तरं तत्र न ह्यन्योऽर्थोऽवगम्यते ॥ ११९॥ न च यथाभिमतोऽर्थो यथोक्तेन न्यायेन नावसीयते । कोऽसौ न्याय इत्याह । नामादिभ्यो निराकृत्य त्वमर्थं निष्परिग्रहः । निस्स्पृहो युष्मदर्थेभ्यः शमादिविधिचोदितः ॥ १२०॥ भङ्क्त्वा चान्नमयादींस्तान्पञ्चानात्मतयार्गलान् । अहं ब्रह्मेति वाक्यार्थं वेत्ति चेन्नार्थ ईहया ॥ १२१॥ न चेदेवमुपगम्यते वाक्यस्य प्रमाणस्य सतोऽप्रामाण्यं प्राप्नोति । तदाह । यदर्थं च प्रवृत्तं यद्वाक्यं तत्र न चेच्छ्रुतम् । प्रमामुत्पादयेत्तस्य प्रामाण्यं केन हेतुना ॥ १२२॥ अथ मन्यसे । जानीयाच्चेत्प्रसंख्यानाच्छब्दस्सत्यवचाः कथम् । पारोक्ष्यं शब्दो नः प्राह प्रसंख्यानात्त्वसंशयम् ॥ १२३॥ न च युक्तिशब्दावृत्तिलक्षणात्प्रसंख्यानाद्यथाव- त्प्रतिपत्तिर्भविष्यतीति सम्भावयामः । यस्मात् । युक्तिशब्दौ पुराप्यस्य न चेदकुरुतां प्रमाम् । साक्षादावर्तनात्ताभ्यां किमपूर्वं फलिष्यति ॥ १२४॥ अथैवमपि प्रसंख्यानमन्तरेण प्राणान्धारयितुं न शक्नोषीति चेच्छ्रवणादावेव सम्पादयिष्यामः । कथम् । प्रसंख्याने श्रुतावस्य न्यायोऽस्त्वाम्रेडनात्मकः । ईषच्छ्रुतं सामिश्रुतं सम्यक्श्रुत्वावगच्छति ॥ १२५॥ ननु प्रसंख्यानविधिमनभ्युपगच्छतः पारमहंसी चर्या बौद्धादिचर्यावदशास्त्रपूर्विका प्राप्नोति ततश्चारूढपतितत्वं न स्यादशेषकर्मणां च निवृत्तिर्न प्राप्नोतीति । उच्यते । त्वमर्थस्यावबोधाय विधिरप्याश्रितो यतः । तमन्तरेण ये दोषास्तेऽपि नायान्त्यहेतवः ॥ १२६॥ इति तृतीयोऽध्यायः ॥ ३॥ अथ चतुर्थोऽध्यायः । पूर्वाध्यायेषु यद्वस्तु विस्तरेणोदितं स्फुटम् । संक्षेपतोऽधुना वक्ष्ये तदेव सुखवित्तये ॥ १॥ संक्षेपविस्तराभ्यां हि मन्दोत्तमधियां नृणाम् । वस्तूच्यमानमेत्यन्तःकरणं तेन भण्यते ॥ २॥ आत्मानात्मा च लोकेऽस्मिन्प्रत्यक्षादिप्रमाणतः । सिद्धस्तयोरनात्मा तु सर्वत्रैवात्मपूर्वकः ॥ ३॥ अनात्मत्वं स्वतस्सिद्धं देहाद्भिन्नस्य वस्तुनः । ज्ञातुरप्यात्मता तद्वन्मध्ये संशयदर्शनम् ॥ ४॥ असाधारणांस्तयोर्धर्मान् ज्ञात्वा धूमाग्निवद्बुधः । अनात्मनोऽथ बुद्ध्यन्तान् जानीयादनुमानतः ॥ ५॥ इदमित्येव बाह्येऽर्थे ह्यहमित्येव बोद्धरि । द्वयं दृष्टं यतो देहे तेनायं मुह्यते जनः ॥ ६॥ केन पुनर्न्यायेनात्मानात्मनोरश्वमहिषयोरिव विभागः क्रियत इति । उच्यते । न्यायः पुरोदितोऽस्माभिरात्मानात्मविभागकृत् । तेनेदमर्थमुत्सार्य ह्यहमित्यत्र यो भवेत् ॥ ७॥ विद्यात्तत्त्वमसीत्यस्माद्भावाभावदृशं सदा । अनन्तरमबाह्यार्थं प्रत्यक्स्थं मुनिरञ्जसा ॥ ८॥ उच्यतां तर्हि कया तु परिपाय्या वाक्यार्थं वेत्तीति । उच्यते । अन्वयव्यतिरेकाभ्याम् । त्यक्तकृत्स्नेदमर्थत्वात्त्यक्तोऽहमिति मन्यते । नावगच्छाम्यहं यस्मान्निजात्मानमनात्मनः ॥ ९॥ अथ शरीरादिबुद्धिपर्यन्तः स सर्वोऽनात्मैवेति प्रमाणाद्विनिश्चित्य किमिति बुभुत्सातो नोपरमते । शृणु । अनुच्छिन्नबुभुत्सश्च प्रत्यग्घेतोरनात्मनः । दोलायमानचित्तोऽयं मुह्यते भौतवन्नरः ॥ १०॥ अविलुप्तविज्ञानात्मन आत्मत्वादेव नित्यसान्निध्याद्बुभुत्सुः किमिति न प्रतिपद्यत इति। यस्मात् । यैरद्राक्षीत्पुरात्मानं यमनात्मेति वीक्षते । दृष्टेर्द्रष्टारमात्मानं तैः प्रसिद्धैः प्रमित्सति ॥ ११॥ कस्मात्पुनर्हेतोः पराचीनाभिः शब्दाद्यवलेहिनीभिर्बुद्धिभि- रात्मानमनात्मवन्न वीक्षत इति । उच्यते । चक्षुर्न वीक्षते शब्दमतदात्मत्वकारणात् । यथैवं भौतिकी दृष्टिर्नात्मानं परिपश्यति ॥ १२॥ प्रत्यक्षादिप्रमाणस्वाभाव्यानुरोधेन तावत्तददर्शनकारणमुक्तम् । अथ प्रमेयस्वाभाव्यानुरोधेन प्रतिषेध उच्यते । धीविक्रियासहस्राणां हानोपादानधर्मिणाम् । सदा साक्षिणमात्मानं प्रत्यक्त्वान्नाहमीक्षते ॥ १३॥ क्व पुनरियं विवेकबुद्धिः किमात्मन्युतानात्मनीति । किंचातः । यद्यात्मनि कूटस्थत्वव्याघातोऽनात्मदर्शित्वात् । अथानात्मनि तस्याप्यचैतन्यान्न विवेकसम्बन्ध इति । उच्यते । ᳚दाह्यदाहकतैकत्र᳚ इत्युक्तपरिहारात् । बुद्धावेव विवेकोऽयं यदनात्मतया भिदा । बुद्धिमेवोपमृद्नाति कदलीं तत्फलं यथा ॥ १४॥ सोऽयमतत्त्वे तत्त्वदृक् । अनुमानप्रदीपेन हित्वा सर्वाननात्मनः । संसारैकावलम्बिन्या तदभावं धियेप्सति ॥ १५॥ योऽयमन्वयव्यतिरेकजो विवेक आत्मानात्मविभाग लक्षणोऽनात्मस्थः स्थाणौ संशयावबोधवत्- प्रतिपत्तव्योऽन्यथावस्तुस्वाभाव्यान्मृगतृष्णिकोदक- प्रबोधववदित्यत आह । संसारबीजसंस्थोऽयं तद्धिया मुक्तिमिच्छति । शशो निमीलनेनेव मृत्युं परिजिहीर्षति ॥ १६॥ अस्यार्थस्य द्रढिम्ने श्रुत्युदाहरणम् । इममर्थं पुरस्कृत्य श्रुत्या सम्यगुदाहृतम् । ᳚यच्चक्षुषे᳚ति विस्रब्धं ᳚न दृष्टे ᳚रिति च स्फुटम् ॥ १७॥ बुद्ध्यन्तमपविद्ध्यैवं को न्वहं स्यामितीइक्षितुः । श्रुतिस्तत्त्वमसीत्याह सर्वमानातिगामिनी ॥ १८॥ एष संक्षेपतः पूर्वाध्यायत्रयस्यार्थ उक्तः । सोऽयं न्याय्योऽपि वेदान्तार्थः शास्त्राचार्यप्रसाद- लभ्योऽप्यनपेक्षितशास्त्राचार्यप्रसादोऽनन्यापेक्ष- सिद्धस्वभावत्वात्कैश्चिच्छ्रद्धधानैर्न प्रतीयते । तेषां संग्रहार्थमभिमतप्रामाण्योदाहरणम् । भगवत्पूज्यपादैश्च उदाहार्येवमेव तु । सुविस्पष्टोऽस्मदुक्तोऽर्थः सर्वभूतहितैषिभिः ॥ १९॥ किं परमात्मन उपदेश उतापरमात्मन इति । किं चातः । यदि परमात्मनस्तस्योपदेशमन्तरेणैव मुक्तत्वान्निरर्थक उपदेशः । अथापरमात्मनस्तस्यापि स्वत एव संसार- स्वभावत्वान्निष्फल उपदेशः । एवमुभयत्रापि दोषवत्त्वादत आह । ᳚अविविच्योभयं वक्ति श्रुतिश्चेत्स्याद्ग्रहस्तथा ᳚ । इति पक्षमुपादाय पूर्वपक्षं निशात्य च ॥ २०॥ तच्चेदमविवेकात्स्वतो विविक्तात्मने तत्त्वमसीत्युपदिष्टम् । युष्मदस्मद्विभागज्ञे स्यादर्थवदिदं वचः । यतोऽनभिज्ञे वाक्यं स्याद्बधिरेष्विव गायनम् ॥ २१॥ तस्य च युष्मदस्मद्विभागविज्ञानस्य का युक्तिरुपायभावं प्रतिपद्यते । शृणु । ᳚अन्वयव्यतिरेकौ हि पदार्थस्य पदस्य च । स्यादेतदहमित्यत्र युक्तिरेवावधारणम् ᳚ ॥ २२॥ कथं तौ युक्तिरित्यत्राह । ᳚नाद्राक्षमहमित्यस्मिन् सुषुप्तेऽन्यन्मनागपि । न वारयति दृष्टिं स्वां प्रत्ययं तु निषेधति ᳚ ॥ २३॥ ᳚एवं विज्ञातवाच्यार्थे श्रुतिलोकप्रसिद्धितः । श्रुतिस्तत्त्वमसीत्याह श्रोतुर्मोहापनुत्तये ᳚ ॥ २४॥ तत्र त्वमिति पदं यत्र लक्षणया वर्तते सोऽर्थ उच्यते । ᳚अहं शब्दस्य या निष्ठा ज्योतिषि प्रत्यगात्मनि । सैवोक्ता सदसीत्येवं फलं तत्र विमुक्तता ᳚ ॥ २५॥ अन्यच्चान्वयव्यतिरेकोदाहरणम् । तथा । ᳚छित्त्वा त्यक्तेन हस्तेन स्वयं नात्मा विशेष्यते । तथा शिष्टेन सर्वेण येनयेन विशेष्यते ॥ २६॥ विशेषणमिदं सर्वं साध्वलंकरणं यथा । अविद्याध्यस्तमतः सर्वं ज्ञात आत्मन्यसद्भवेत् ॥ २७॥ तस्मात्त्यक्तेन हस्तेन तुल्यं सर्वं विशेषणम् । अनात्मत्वेन तस्माज्ज्ञो मुक्तः सर्वविशेषणैः ॥ २८॥ ज्ञातैवात्मा सदा ग्राह्यो ज्ञेयमुत्सृज्य केवलः । अहमित्यपि यद्ग्राह्यं व्यपेताङ्गसमं हि तत् ᳚ ॥ २९॥ ᳚दृश्यत्वादहमित्येष नात्मधर्मो घटादिवत् । तथान्ये प्रत्यया ज्ञेया दोषाश्चात्मामलो ह्यतः ᳚ ॥ ३०॥ सर्वन्यायोपसंग्रहः । ᳚नित्यमुक्तत्वविज्ञानं वाक्याद्भवति नान्यतः । वाक्यार्थस्यापि विज्ञानं पदार्थस्मृतिपूर्वकम् ॥ ३१॥ अन्वयव्यतिरेकाभ्यां पदार्थस्स्मर्यते ध्रुवम् । एवं निर्दुःखमात्मानमक्रियं प्रतिपद्यते ॥ ३२॥ सदेवेत्यादिवाक्येभ्यः प्रमा स्फुटतरा भवेत् । दशमस्त्वमसीत्यस्माद्यथैवं प्रत्यगात्मनि ᳚ ॥ ३३॥ वीक्षापन्नस्योदाहरणम् । ᳚नवबुद्ध्यपहाराद्धि स्वात्मानं दशपूरणम् । अपश्यन् ज्ञातुमेवेच्छेत्स्वमात्मानं जनस्तथा ॥ ३४॥ अविद्याबद्धचक्षुष्ट्वात्कामापहृतधीः सदा । विविक्तं दृशिमात्मानं नेक्षते दशमं यथा ᳚ ॥ ३५॥ सोऽयमेवमविद्यापटलावगुण्ठितदृष्टिः सन् कथमुत्थाप्यत इत्याह । यथा स्वापनिमित्तेन स्वप्नदृक्प्रतिबोधितः । करणं कर्म कर्तारं स्वाप्नं नैवेक्षते स्वतः ॥ ३६॥ अनात्मज्ञस्तथैवायं सम्यक् श्रुत्यावबोधितः । गुरुं शास्त्रं तथा मूढं स्वात्मनोऽन्यं न पश्यति ॥ ३७॥ स किं सकलसंसारप्रविविक्तमात्मानं वाक्यात्प्रतिपद्यत उत नेतीति । अत्र ब्रूमः । कूटस्थावगतिशेषमात्रत्वा- त्प्रतिपत्तेरत आह । दण्डावसाननिष्ठस्स्याद्दण्डसर्पो यथा तथा । नित्यावगतिनिष्ठं स्याद्वाक्याज्जगदसंशयम् ॥ ३८॥ कुत एतत् । यस्मात् । पश्यन्निति यदाहोच्चैः प्रत्यक्त्वमजमव्ययम् । अपूर्वानपरानन्तं त्वमा तदुपलक्ष्यते ॥ ३९॥ तत्त्वमस्यादिवाक्योत्थविज्ञानैव बाध्यते । यस्मात् । अस्माद्यदपरं रूपं नास्तीत्येव निरूप्यते । अन्यथाग्रहणाभावाद्बीजं तत्स्वप्नबोधयोः ॥ ४०॥ अस्यार्थस्य द्रढिम्न उदाहरणम् । ᳚कार्यकारणबद्धौ ताविष्येते विश्वतैजसौ । प्राज्ञः कारणबद्धस्तु द्वौ तौ तुर्ये न सिध्यतः ᳚ ॥ ४१॥ ᳚अन्यथागृहणतः स्वप्नो निद्रा तत्त्वमजानतः । विपर्यासे तयोः क्षीणे तुरीयं पदमश्नुते ᳚ ॥ ४२॥ तथा भगवत्पादीयमुदाहरणम् । ᳚सुषुप्ताख्यं तमोऽज्ञानं बीजं स्वप्नप्रबोधयोः । आत्मबोधप्रदग्धं स्याद्बीजं दग्धं यथाभवम् ᳚ ॥ ४३॥ एवं गौडैर्द्राविडैर्नः पूज्यैरयमर्थः प्रभाषितः । अज्ञानमात्रोपाधिस्सन्नहमादिदृगीश्वरः ॥ ४४॥ तत्रान्यथाग्रहणवदन्यथाग्रहणबीजमग्रहणमनात्मधर्म एवेत्याह । इदं ज्ञानमहं ज्ञाता ज्ञेयमेतदिति त्रयम् । योऽविकारो विजानाति परागेवास्य तत्तमः ॥ ४५॥ यत एतदेवमतस्तस्यैव बीजात्मनस्तमसश्चित्तधर्मविशिष्टस्य स्वकार्यद्वितीयाभिसम्बन्धो न त्वविकारिण आत्मन इत्याह दृष्टान्तेन । रूपप्रकाशयोर्यद्वत्संगतिर्विक्रियावतः । सुखदुःखादिसम्बन्धश्चित्तस्यैवं विकारिणः ॥ ४६॥ तदेतदन्वयव्यतिरेकाभ्यां दर्शयिष्यन्नाह । सम्प्रसादेऽविकारित्वादस्तं याते विकारिणि । पश्यतो नात्मनः किंचिद्द्वितीयं स्पृशतेऽण्वपि ॥ ४७॥ सोऽयं कूटस्थज्ञानमूर्तिरात्मा । यथा प्राज्ञे तथैवायं स्वप्नजागरितान्तयोः । पश्यन्नप्यविकारित्वाद्द्वितीयं न पश्यति ॥ ४८॥ एवं ज्ञानवतो नास्ति ममाहंमतिसंश्रयः । भास्वत्प्रदीपहस्तस्य ह्यन्धकार इवाग्रतः ॥ ४९॥ तत्र दृष्टान्तः । आ प्रबोधाद्यथासिद्धिर्द्वैतादन्यस्य वस्तुनः । बोधादेवमसिद्धत्वं बुद्ध्यादेः प्रत्यगात्मनः ॥ ५०॥ स एष विद्वान्हानोपादानशून्यमात्मानमात्मनि पश्यन् । सर्वमेवानुजानाति सर्वमेव निषेधति । भेदात्मलाभोऽनुज्ञा स्यान्निषेधोऽतत्स्वभावतः ॥ ५१॥ सर्वस्योक्तत्वादुपसंहारः । परमाथार्थनिष्ठं यत्सर्ववेदान्तनिश्चितम् । तमोपनुद्धियां ज्ञानं तदेतत्कथितं मया ॥ ५२॥ एतावदिहोक्तम् । नेहात्मविन्मदन्योऽस्ति न मत्तोऽज्ञोऽस्ति कश्चन । इत्यजानन्विजानाति यस्स ब्रह्मविदुत्तमः ॥ ५३॥ एवमात्मानं ज्ञात्वा किं प्रवर्तितव्यमुत निवर्तितव्यमाहोस्वि- न्मुक्तप्रग्रहतेति । उच्यते । ज्ञेयाभिन्नमिदं यस्माज्ज्ञेयवस्त्वनुसार्यतः । न प्रवृत्तिं निवृत्तिं वा कटाक्षेणापि वीक्षते ॥ ५४॥ कुत एतज्ज्ञेयाभिन्नमिति । यतः । प्रागात्मबोधाद्बोधोऽयं बाह्यवस्तूपसर्जनः । प्रध्वस्ताखिलसंसार आत्मैकालम्बनः श्रुतेः ॥ ५५॥ एवमवगतपरमार्थतत्त्वस्य न शेषशेषिभाव- स्तत्कारणस्योत्सारितत्वादित्याह । वास्तवेनैव वृत्तेन निरुणद्धि यतो भवम् । निवृत्तिमपि मृद्नाति सम्यग्बोधः प्रवृत्तिवत् ॥ ५६॥ सकृदात्मप्रसूत्यैव निरुणद्ध्यखिलं भवम् । ध्वान्तमात्रनिरासेन न ततोऽन्यान्यथामतिः ॥ ५७॥ देशकालाद्यसम्बद्धाद्देशादेर्मोहकार्यतः । नानुत्पन्नमदग्धं वा ज्ञानमज्ञानमस्त्यतः ॥ ५८॥ सम्यग्ज्ञानशिखिप्लुष्टमोहतत्कार्यरूपिणः । सकृन्निवृत्तेर्बाध्यस्य किं कार्यमवशिष्यते ॥ ५९॥ वास्तवेनैव वृत्तेनाविद्यायाः प्रध्वस्तत्वान्न किंचिदवशिष्यत इत्युक्तः परिहारः । अथापरस्साम्प्रदायिकः परिहारः । निवृत्तसर्पस्सर्पोत्थं यथा कम्पं न मुञ्चति । विध्वस्ताखिलमोहोऽपि मोहकार्यं तथात्मवित् ॥ ६०॥ यतः प्रवृत्तिबीजमुच्छिन्नं तस्मात् । तरोरुत्खातमूलस्य शोषेणैव यथा क्षयः । तथा बुद्धात्मतत्त्वस्य निवृत्त्यैव तनुक्षयः ॥ ६१॥ अथालेपकपक्षनिरासार्थमाह । बुद्धद्वैतसत्त्वस्य यथेष्टाचरणं यदि । शुनां तत्त्वदृशां चैव को भेदोऽशुचिभक्षणे ॥ ६२॥ कस्मान्न भवति । यस्मात् । अधर्माज्जायतेऽज्ञानं यथेष्टाचरणं ततः । धर्मकार्ये कथं तत्स्याद्यत्र धर्मोऽपि नेष्यते ॥ ६३॥ प्रत्याचक्षाण आहातो यथेष्टाचरणं हरिः । ᳚यस्य सर्वे समारम्भाः ᳚ ᳚प्रकाशं चे ᳚ति सर्वदृक् ॥ ६४॥ तिष्ठतु तावत्सर्वप्रवृत्तिबीजघस्मरं ज्ञानं मुमुक्ष्ववस्थायामपि न सम्भवति यथेष्टाचरणम् । तदाह । ᳚ यो हि यत्र विरक्तः स्यान्नासौ तस्मै प्रवर्तते । लोकत्रयविरक्तत्वान्मुमुक्षुः किमितीहते ᳚ ॥ ६५॥ तत्र दृष्टान्तः । ᳚क्षुधया पीड्यमानोऽपि न विषं ह्यत्तुमिच्छति । मिष्टान्नध्वस्ततृड् जानन्नामूढस्तज्जिघत्सति ᳚ ॥ ६६॥ यतोऽवगतपरमार्थतत्त्वस्य यथेष्टाचरणं न मनागपि घटते मुमुक्षुत्वेऽपि च तस्मात् । रागो लिङ्गमबोधस्य चित्तव्यायामभूमिषु । कुतः शाड्वलता तस्य यस्याग्निः कोटरे तरोः ॥ ६७॥ सकलपुरुषार्थसमाप्तिकारिणोऽस्यात्मावबोधस्य कुतः प्रसूतिरिति । उच्यते । अमानित्वादिनिष्ठो यो यश्चाद्वेष्ट्रादिसाधनः । ज्ञानमुत्पद्यते तस्य न बहिर्मुखचेतसः ॥ ६८॥ उत्पन्न आत्मविज्ञाने किमविद्याकार्यत्वात्प्रवृत्तिवन्निवृत्त्या- त्मकामानित्वदयो निवर्तन्त उत नेति । नेति ब्रूमः । किं कारणम् । निवृत्तिशास्त्राविरुद्धस्वाभाव्यात्परमात्मनो न तु नियोगवशात् । कथं तर्हि । शृणु । उत्पन्नात्मप्रबोधस्य त्वद्वेष्टृत्वादयो गुणाः । अयत्नतो भवन्त्यस्य न तु साधनरूपिणः ॥ ६९॥ यत एतदेवमतः । इमां ग्रन्थमुपादित्सुरमानित्वादिसाधनः । यत्नतः स्यान्न दुर्वृत्तः प्रत्यग्धर्मानुगो ह्ययम् ॥ ७०॥ न दातव्यश्चायं ग्रन्थः । नाविरक्ताय संसारान्नानिरस्तैषणाय च । न चायमवते देयं वेदान्तार्थप्रवेशनम् ॥ ७१॥ ज्ञात्वा यथोदितं सम्यग्ज्ञातव्यं नावशिष्यते । न चानिरस्तकर्मेदं जानीयादञ्जसा ततः ॥ ७२॥ निरस्तसर्वकर्माणः प्रत्यक्प्रवणबुद्धयः । निष्कामा यतयः शान्ता जानन्तीदं यथोदितम् ॥ ७३॥ श्रीमच्छङ्करपादपद्मयुगलं संसेव्य लब्ध्वोचिवान् ज्ञानं पारमहंस्यमेतदमलं स्वान्तान्धकारापनुत् । मा भूदत्र विरोधिनी मतिरतः सद्भिः परीक्ष्यं बुधैः सर्वत्रैव विशुद्धये मतमिदं सन्तः परं कारणम् ॥ ७४॥ सुभाषितं चार्वपि नामहात्मनां दिवाकरो नक्तदृशामिवामलः । प्रभाति भात्येव विशुद्धचेतसां निधिर्यथापास्ततृषां महाधनः ॥ ७५॥ विष्णोः पादानुगां यां निखिलभवनुदं शंकरोऽवाप योगात् सर्वज्ञं ब्रह्मसंस्थं मुनिगणसहितं सम्यगभ्यर्च्य भक्तया । विद्यां गङ्गामिवाहं प्रवरगुणनिधेः प्राप्य वेदान्तदीप्तां कारुण्यात्तामवोचं जनिमृतिनिवहध्वस्तये दुःखितेभ्यः ॥ ७६॥ वेदान्तोदरवर्ति भास्वदमलं ध्वान्तच्छिदस्मद्धियो दिव्यं ज्ञानमतीद्रियेऽपिविषये व्याहन्यते न क्वचित् । यो नो न्यायशलाकयैव निखिलं संसारबीजं तमः प्रोत्सार्याविरकार्षीद्गुरुगुरुः पूज्याय तस्मै नमः ॥ ७७॥ सम्बन्धोक्तिरियं साध्वी प्रतिश्लोकमुदाहृता । नैष्कर्म्यसिद्धेर्ज्ञात्वेमां व्याख्यातासौ भवेद्ध्रुवम् ॥ ७८॥ इति चतुर्थोऽध्यायः ॥ ४॥ इति । Encoded and proofread by Sunder Hattangadi sunderh@hotmail.com

% Text title            : naiShkarmyasiddhiH
% File name             : naishk.itx
% itxtitle              : naiShkarmyasiddhiH
% engtitle              : Naishkarmyasidhi
% Category              : major_works
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : Sunder Hattangadi sunderh at hotmail.com
% Proofread by          : Sunder Hattangadi
% Latest update         : December 24, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org
This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP