॥ नाट्यशास्त्रम् अध्यायः १६ ॥

॥ श्रीरस्तु ॥ भरतमुनिप्रणीतं नाट्यशास्त्रम् अथ षोडशोऽध्यायः विभूषणं चाक्षरसंहतिश्च शोभाभिमानौ गुणकीर्तनं च । प्रोत्साहनोदाहरणे निरुक्तं गुणानुवादोऽतिशयश्च हेतुः ॥ १॥ सारूप्यमिथ्याध्यवसायसिद्धि पदोच्चयाक्रन्दमनोरथाश्च । आख्यानयाञ्चाप्रतिषेधपृच्छा दृष्टान्तनिर्भासनसंशयाश्च ॥ २॥ आशीः प्रियोक्तिः कपटः क्षमा च प्राप्तिश्च पश्चात्तपनं तथैव । अर्थानुवृत्तिर्ह्युपपत्तियुक्ती कार्योऽनुनीतिः परिदेवनं च ॥ ३॥ षट्त्रिंशदेतानि हि लक्षणानि प्रोक्तानि वै भूषणसंमितानि । काव्येषु भावार्थगतानि तज्ज्ञैः सम्यग् प्रयोज्यानि यथारसं तु ॥ ४॥ अलङ्कारैर्गुणैश्चैव बहुभिः समलङ्कृतम् । भूषणैरिव विन्यस्तैस्तद् भूषणमिति स्मृतम् ॥ ५॥ यत्राल्पैरक्षरैः श्लिष्टैर्विचित्रमुपवर्ण्यते । तमप्यक्षरसङ्घातं विद्याल्लक्षणसंज्ञितम् ॥ ६॥ सिद्धैरर्थैस्समं कृत्वा ह्यसिद्धोऽर्थः प्रसाध्यते । यत्र श्लक्ष्णविचित्रार्था सा शोभेत्यभिधीयते ॥ ७॥ धार्यमाणस्तु बहुभिर्वचनैः कार्ययुक्तिभिः । न यः पर्यवतिष्ठेत सोऽभिमानस्तु संज्ञितः ॥ ८॥ कीर्त्यमानैर्गुणैर्यत्र विविधार्थसमुद्भवैः । दोषा न परिकथ्यन्ते तज्ज्ञेयं गुणकीर्तनम् ॥ ९॥ लोके गुणातिरिक्तानां बहूनां यत्र नामभिः । एकोऽभिशब्द्यते यस्तु विज्ञेयं गुणकीर्तनम् ॥ १०॥ उत्साहजननैः स्पष्टैरर्थैरोपम्यसंश्रयैः । प्रसिद्धैरुपगूढं च ज्ञेयं प्रोत्साहनं बुधैः ॥ ११॥ यत्रैकस्यापि शब्दस्य दर्शनात्सुबहून्यपि । यान्ति सिद्धिमनुक्तानि तदुदाहरणं स्मृतम् ॥ १२॥ निरुक्तं द्विविधं प्रोक्तं तथ्यं चातथ्यमेव वा । सिद्धिप्रसाधितं तथ्यमतथ्यं चाप्रसाधितम् ॥ १३॥ गुणानुवादो हीनानामुत्तमैरुपमाकृतः । उत्तमार्थविशेषो यः स चाप्यतिशयः स्मृतः ॥ १४॥ बहूनां भाषमाणानामेकस्यार्थविनिर्णयात् । सिद्धोपमानवचनं हेतुरित्यभिसंज्ञितः ॥ १५॥ अपदेशस्तु परोक्षो यस्मादुत्पद्यतेऽनुकरणेन । लक्षणसमानकरणात् सारूप्यं तत्तु निर्देश्यम् ॥ १६॥ अभूतपूर्वैर्यत्रार्थैस्तुल्यस्यार्थस्य निर्णयः । स मिथ्याध्यवसायस्तु प्रोच्यते काव्यलक्षणे ॥ १७॥ बहूनां तु प्रधानानां मध्ये यन्नाम कीर्त्यते । एकार्थसाधनकृतं सा सिद्धिरिति कीर्त्यते ॥ १८॥ गुणैर्बहुभिरेकार्थैः पदैर्यः सम्प्रशस्यते । पदोच्चयं तु तद्विद्यान्नानार्थग्रथनात्मकम् ॥ १९॥ आत्मभावमुपन्यस्य परसादृश्ययुक्तिभिः । तीव्रार्थभाषणं यत्स्यादाक्रन्दः स तु कीर्तितः ॥ २०॥ हृदयस्थस्य भावस्य सुस्पष्टार्थप्रदर्शनम् । अन्यापदेशकथनैर्मनोरथ इति स्मृतः ॥ २१॥ अपृष्टैरथवा पृष्टैर्निर्णयः क्रियते तु यः । आख्यानमिति तज्ज्ञेयं लक्षणं नाटकाश्रयम् ॥ २२॥ आदौ यत्क्रोधजननमन्ते हर्षप्रवर्धनम् । यत्तु प्रियं पुनर्वाक्यं सा याञ्चा परिकीर्तिता ॥ २३॥ कार्येषु विपरीतेषु यदि किञ्चित् प्रवर्तते । निवार्यते च कार्यज्ज्ञैः प्रतिषेधः प्रकीर्तितः ॥ २४॥ यत्राकारोद्भवैर्वाक्यैरात्मानमथवा परम् । पृच्छन्निवाभिधत्तेऽर्थं सा पृच्छेत्यभिसंज्ञिता ॥ २५॥ विद्वान् पूर्वोपलब्धौ यत्समत्वमुपपादयेत् । निदर्शनकृतस्तज्ज्ञैः स दृष्टान्त इति स्मृतः ॥ २६॥ अनेकयुक्तिमद्वाक्यमनेकार्थप्रसाधकम् । अनेकवाक्यसंयुक्तं तन्निर्भासनमुच्यते ॥ २७॥ अपरिज्ञाततत्त्वार्थं यत्र वाक्यं समाप्यते । सोऽनेकत्वाद्विचाराणाअं संशयः परिकीर्तितः ॥ २८॥ यत्र शास्त्रार्थसम्पन्नां मनोरथसमुद्भवाम् । अप्रार्थनीयामन्यां वा विदुस्तामाशिषं बुधाः ॥ २९॥ आदौ यत् क्रोधजननमन्ते हर्षप्रवर्धनम् । तत् प्रियं वचनं ज्ञेयमाशीर्वादसमन्वितम् ॥ ३०॥ छलयुक्त्या त्वन्येषामभिसन्धानाभिभावकंकपटम् । द्वित्रिप्रयोगयुक्तो विज्ञेयः कपटसङ्घातः ॥ ३१॥ दुर्जनोदाहृतै रूक्षैः सभामध्येऽतिताडितः । अक्रोधः क्रोधजननैर्वाक्यैर्यः सा क्षमा भवेत् ॥ ३२॥ दृष्ट्वैवावयवं कञ्चिद्भावो यत्रानुमीयते । प्राप्तिं तामभिजानीयाल्लक्षणं नाटकाश्रयम् ॥ ३३॥ अकार्यं सहसा कृत्वाऽकृत्वा कार्यमथापि वा । सन्तापो मनसो यस्तु पश्चात्तापः प्रकीर्तितः ॥ ३४॥ प्रश्रयेणार्थसंयुक्तं यत्परस्यानुवर्तनम् । स्नेहाद्दाक्षिण्ययोगाद्वा सानुवृत्तिस्तु संज्ञिता ॥ ३५॥ प्राप्तानां यत्र दोषाणां क्रियते शमनं पुनः । सा ज्ञेया ह्युपपत्तिस्तु लक्षणं नाटकाश्रयम् ॥ ३६॥ साध्यते योऽर्थसम्बन्धो महद्भिः समवायतः । परस्परानुकूल्येन सा युक्तिः परिकीर्तिता ॥ ३७॥ यत्रापसारयन् दोषं गुणमर्थेन योजयेत् । गुणाभिवादं दोषान् वा कार्यं तल्लक्षणं विदुः ॥ ३८॥ अपूर्वक्रोधजनितमपराधं प्रमृज्य यत् । सेवार्थं मधुरं वाक्यमनुनीतिः प्रकीर्तिता ॥ ३९॥ दोषैर्यदन्यनामोक्तैः प्रसिद्धार्थैः प्रयोजयेत् । अन्यत्रार्थेन सम्बद्धं ज्ञेयं तत् परिदेवनम् ॥ ४०॥ उपमा रूपकं चैव दीपकं यमकं तथा । अलङ्कारास्तु विज्ञेया चत्वारो नाटकाश्रयाः ॥ ४१॥ यत्किञ्चित् काव्यबन्धेषु सादृश्येनोपमीयते । उपमा नाम सा ज्ञेया गुणाकृतिसमाश्रया ॥ ४२॥ एकस्यैकेन सा कार्या ह्यनेकेनाथवा पुनः । अनेकस्य तथैकेन बहूनां बहुभिस्तथा ॥ ४३॥ तुल्यं ते शशिना वक्त्रमित्येकेनैकसंश्रया । शशाङ्कवत् प्रकाशन्ते ज्योतींषीति भवेत्तु या ॥ ४४॥ एकस्यानेकविषया सोपमा परिकीर्तिता । श्येनबर्हिणभासानां तुल्यार्थमिति या भवेत् ॥ ४५॥ एकस्य बहुभिः साम्यादुपमा नाटकाश्रया । बहूनां बहुभिर्ज्ञेया घना इव गजा इति ॥ ४६॥ प्रशंसा चैव निन्दा च कल्पिता सदृशी तथा । या किञ्चित्सदृशी ज्ञेया सोपमा पञ्चधा बुधैः ॥ ४७॥ प्रशंसा यथा - दृष्ट्वा तु तां विशालाक्षीं तुतोष मनुजाधिपः । मुनिभिः साधितां कृच्छ्रात् सिद्धिं मूर्तिमतीमिव ॥ ४८॥ निन्दा यथा - सा तं सर्वगुणैर्हीनं सस्वजे कर्कशच्छविम् । वने कण्टकिनं वल्ली दावदग्धमिव द्रुमम् ॥ ४९॥ कल्पिता यथा - क्षरन्तो दानसलिलं लालामन्थरगामिनः । मतङ्गजा विराजन्ते जङ्गमा इव पर्वताः ॥ ५०॥ सदृशी यथा - यत्त्वयाद्य कृतं कर्म परिचित्तानुरोधिना । सदृशं तत्तवैव स्यादतिमानुषकर्मणः ॥ ५१॥ किञ्चित्सदृशी यथा - सम्पूर्णचन्द्रवदना नीलोत्पलदलेक्षणा । मत्तमातङ्गगमना सम्प्राप्तेयं सखी मम ॥ ५२॥ उपमाया बुधैरेते भेदा ज्ञेयाः समासतः । शेषा ये लक्षणैर्नोक्तास्ते ग्राह्याः काव्यलोकतः ॥ ५३॥ नानाधिकरणार्थानां शब्दानां सम्प्रदीपकम् । एकवाक्येन संयुक्तं तद्दीपकमुच्यते ॥ ५४॥ प्रसृतं मधुरं चापि गुणैः सर्वैरलङ्कृतम् । काव्ये यन्नाटके विप्रास्तद्दीपकमिति स्मृतम् ॥ ५५॥ यथा - सरांसि हंसैः कुसुमैश्च वृक्षा मत्तैर्द्विरेफैश्च सरोरुहाणि । गोष्ठीभिरुद्यानवनानि चैव तस्मिन्नशून्यानि सदा क्रियन्ते ॥ ५६॥ स्वविकल्पेन रचितं तुल्यावयवलक्षणम् । किञ्चित्सादृश्यसम्पन्नं यद्रूपं रूपकं तु तत् ॥ ५७॥ नानाद्रव्यानुरागाद्यैर्यदौपम्यगुणाश्रयम् । रूपनिर्वर्णनायुक्तं तद्रूपकमिति स्मृतम् ॥ ५८॥ यथा - पद्माननास्ताः कुमुदप्रहासा विकासिनीलोत्पलचारुनेत्राः । वापीस्त्रियो हंसकुलैर्नः स्वनद्भिर्विरेजुरन्योन्यमिवाह्वयन्त्यः ॥ ५९॥ शब्दाभ्यासस्तु यमकं पदादिषु विकल्पितम् । विशेषदर्शनञ्चास्य गदतो मे निबोधत ॥ ६०॥ पादान्तयमकं चैव काञ्चीयमकमेव च । समुद्गयमकं चैव विक्रान्तयमकं तथा ॥ ६१॥ यमकं चक्रवालं च सन्दष्टयमकं तथा । पदादियमकञ्चैव ह्याम्रेडितमथापि च ॥ ६२॥ चतुर्व्यवसितञ्चैव मालायमकमेव च । एतादृशविधं ज्ञेयं यमकं नाटकाश्रयम् ॥ ६३॥ चतुर्णां यत्र पादानामन्ते स्यात्सममक्षरम् । तद्वै पादान्तयमकं विज्ञेयं नामतो यथा ॥ ६४॥ दिनक्षयात् संहृतरश्मिमण्डलं दिवीव लग्नं तपनीयमण्डलम् । विभाति ताम्रं दिवि सूर्यमण्डलं यथा तरुण्याः स्तनभारमण्डलम् ॥ ६५॥ लोकानां प्रभविष्णुर्दैत्येन्द्रगदानिपातनसहिष्णुः । जयति सुरदैत्यजिष्णुर्भगवानसुरवरमथनकारी विष्णुः ॥ ६६॥ पादस्यान्ते तथा चादौ स्यातां यत्र समे पदे । तत्काञ्चीयमकं चैव विज्ञेयं सूरिभिर्यथा ॥ ६७॥ यामं यामं चन्द्रवतीनां द्रवतीनां व्यक्ताव्यक्ता सारजनीनां रजनीनाम् । फुल्ले फुल्ले सम्भ्रमरे वाभ्रमरे वा रामा रामा विस्मयते च स्मयते च ॥ ६८॥ अर्धेनैकेन यद्वृत्तं सर्वमेव समाप्यते । समुद्गयमकं नाम तज्ज्ञेयं पण्डितैर्यथा ॥ ६९॥ केतकीकुसुमपाण्डुरदन्तः शोभते प्रवरकाननहस्ती । केतकीकुसुमपाण्डुरदन्तः शोभते प्रवरकाननहस्ती ॥ ७०॥ एकैकं पादमुत्क्रम्य द्वौ पादौ सदृशौ यदि । विक्रान्तयमकं नाम तद्विज्ञेयमिदं यथा ॥ ७१॥ स पूर्वं वारणो भूत्वा द्विशृङ्ग इव पर्वतः । अभवद्दन्तवैकल्याद्विशृङ्ग इव पर्वतः ॥ ७२॥ पूर्वस्यान्तेन पादस्य परस्यादिर्यदा समः । चक्रवच्चक्रवालं तु विज्ञेयं नामतो यथा ॥ ७३॥ तुल्यात्पादद्वयादन्त्यादेकेनादिर्यदा समः । सर्वत्र चक्रवालन्तु तद्विज्ञेयं बुधैर्यथा ॥ ७४॥ शैला यथा शत्रुभिराहता हता हताश्च भूयस्त्वनुपुङ्खपुङ्खगैः । खगैश्च सर्वैर्युधि सञ्चिताश्चिता- श्चिताधिरूढा निहितास्तलैस्तलैः ॥ ७५॥ आदौ द्वौ यत्र पादौ तु भवेतामक्षरे समौ । सन्दष्टयमकं नाम विज्ञेयं तद्बुधैर्यथा ॥ ७६॥ पश्य पश्य रमणस्य मे गुणान् येन येन वशगां करोति माम् । येन येन हि समेति दर्शनं तेन तेन वशगां करोति माम् ॥ ७७॥ आदौ पादस्य तु यत्र स्यात् समावेशः समाक्षरः । पादादियमकं नाम तद्विज्ञेयं बुधैर्यथा ॥ ७८॥ विष्णुः सृजति भूतानि विष्णुः संहरते प्रजाः । विष्णुः प्रसूते त्रैलोक्यं विष्णुर्लोकाधिदैवतम् ॥ ७९॥ पादस्यान्तं पदं यत्र द्विर्द्विरेकमिहोच्यते । ज्ञेयमाम्रेडितं नाम यमकं तत्र सूरिभिः ॥ ८०॥ विजृम्भितं निःश्वसितं मुहुर्मुहुः कथं विधेयं स्मरणं पदे पदे । यथा च ते ध्यानमिदं पुनः पुन- र्धुवंगता ते रजनी विना विना ॥ ८१॥ सर्वे पादाः समा यत्र भवन्ति नियताक्षराः । चतुर्व्यवसितं नाम तद्विज्ञेयं बुधैर्यथा ॥ ८२॥ वारणानामयमेव कालो वारणानामयमेव कालः । वारणानामयमेव कालो वारणानामयमेव कालः ॥ ८३॥ नानारूपैः स्वरैर्युक्तं यत्रैकं व्यञ्जनं भवेत् । तन्मालायमकं नाम विज्ञेयं पण्डितैर्यथा ॥ ८४॥ लली बली हली माली खेली माली सली जली । खलो बलोऽबलो माली मुसली त्वाभिरक्षतु ॥ ८५॥ असौ हि रामा रतिविग्रहप्रिया रहःप्रगल्भा रमणं मनोगतम् । रतेन रात्रिं रमयेत् परेण वा न चेदुदेष्यत्तरुणः परो रिपुः ॥ ८६॥ न पुष्कराक्षः क्षतजोक्षिताक्षः क्षरत्क्षतेव्यः क्षतजंदुरीक्षः । क्षतैर्गवाक्षैरिव संवृताज्ञः साक्षात् सहस्राक्ष इवावभाति ॥ ८७॥ एभिरर्थक्रियापेक्षैः कार्यं काव्यं तु लक्षणैः । अतः परं प्रवक्ष्यामि काव्ये दोषान् गुणांस्तथा ॥ ८८॥ गूढार्थमर्थान्तरमर्थहीनं भिन्नार्थमेकार्थमभिप्लुतार्थम् । न्यायावपेतं विषमं विसन्धि शब्दच्युतं वै दश काव्यदोषाः ॥ ८९॥ पर्यायशब्दाभिहतं गूढार्थमभिसंज्ञितम् । अवर्ण्यं वर्ण्यते यत्र तदर्थान्तरमिष्यते ॥ ९०॥ अर्थहीनं त्वसम्बद्धं सावशेषार्थमेव च । भिन्नार्थमभिविज्ञेयमसभ्यं ग्राम्यमेव च ॥ ९१॥ विवक्षितोऽन्य एवार्थो यत्रान्यार्थेन भिद्यते । भिन्नार्थं तदपि प्राहुः काव्यं काव्यविचक्षणाः ॥ ९२॥ अविशेषाभिधानं यत् तदेकार्थमिति स्मृतम् । अभिप्लुतार्थं विज्ञेयं यत् पदेन समस्यते ॥ ९३॥ न्यायादपेतं विज्ञेयं प्रमाणपरिवर्जितम् । वृत्तभेदो भवेद्यत्र विषमं नाम तद्भवेत् ॥ ९४॥ अनुपशिष्टशब्दं यत् तद्विसन्धीति कीर्तितम् । शब्दच्युतञ्च विज्ञेयमशब्दस्वरयोजनात् ॥ ९५॥ एते दोषास्तु विज्ञेयाः सूरिभिर्नाटकाश्रयाः । गुणा विपर्ययादेषां माधुर्यौदार्यलक्षणाः ॥ ९६॥ श्लेषः प्रसादः समतासमाधिर्माधुर्यमोजः पदसौकुमार्यम् । अर्थस्य च व्यक्तिरुदारता च कान्तिश्च काव्यस्य गुणा दशैते ॥ ९७॥ ईप्सितेनार्थजातेन सम्बद्धानां परस्परम् । श्लिष्टता या पदानां हि श्लेष इत्यभिधीयते ॥ ९८॥ विचारगहनं यत्स्यात् स्फुटञ्चैव स्वभावतः । स्वतः सुप्रतिबद्धञ्च श्लिष्टं तत् परिकीर्त्यते ॥ ९९॥ अप्यनुक्तो बुधैर्यत्र शब्दोऽर्थो वा प्रतीयते । सुखशब्दार्थसंयोगात् प्रसादः परिकीर्त्यते ॥ १००॥ नातिचूर्णपदैर्युक्ता न च व्यर्थाभिदायिभिः । दुर्बोधनैश्च न कृता समत्वात् समता मता ॥ १०१॥ अन्योन्यसदृशा यत्र तथा ह्यन्योन्यभूषणाः । अलङ्कारा गुणाश्चैव समाः स्युः समतां मताः ॥ १०२॥ अभियुक्तैर्विशेषस्तु योऽर्थस्येहोपलक्ष्यते । तेन चार्थेन सम्पन्नः समाधिः परिकीर्त्यते ॥ १०३॥ उपमास्विह दृष्टानामर्थानां यत्नतस्तथा । प्राप्तानां चातिसंक्षेपात् समाधिर्निर्णयो यतः ॥ १०४॥ बहुशो यच्छ्रुतं वाक्यमुक्तं वापि पुनः पुनः । नोद्वेजयति यस्माद्धि तन्माधुर्यमिति स्मृतम् ॥ १०५॥ समासवद्भिर्विविधैर्विचित्रैश्च पदैर्युतम् । सानुस्वारैरुदारैश्च तदोजः परिकीर्त्यते ॥ १०६॥ अवगीतोऽपि हीनोऽपि स्यादुदात्तावभासकः । यत्र शब्दार्थसम्पत्तिस्तदोजः परिकीर्तितम् ॥ १०७॥ सुखप्रयोज्यैर्यच्छब्दैर्युक्तं सुश्लिष्टसन्धिभिः । सुकुमारार्थसंयुक्तं सौकुमार्यं तदुच्यते ॥ १०८॥ सुप्रसिद्धाभिधाना तु लोककर्मव्यवस्थिता । या क्रिया क्रियते काव्ये सार्थव्यक्तिः प्रतीयते ॥ १०९॥ यस्यार्थानुप्रवेशेन मनसा परिकल्प्यते । अनन्तरं प्रयोगस्तु साऽर्थव्यक्तिरुदाहृता ॥ ११०॥ दिव्यभावपरीतं यच्छृङ्गाराद्भुतयोजितम् । अनेकभावसंयुक्तमुदारत्वं प्रकीर्तितम् ॥ १११॥ अनेकार्थविशेषैर्यत् सूक्तैः सौष्ठवसंयुतैः । उपेतमतिचित्रार्थैः उदात्तं तच्च कीर्त्यते ॥ ११२॥ यन्मनश्श्रोत्रविषयमाह्लादयति हीन्दुवत् । लीलाद्यर्थोपपन्नां वा तां कान्तिं कवयो विदुः ॥ ११३॥ यो मनश्श्रोत्रविषयः प्रसादजनको भवेत् । शब्दबन्धः प्रयोगेण स कान्त इति भण्यते ॥ ११४॥ एवमेते ह्यलङ्कारा गुणा दोषाश्च कीर्तिताः । प्रयोगमेषां च पुनर्वक्ष्यामि रससंश्रयम् ॥ ११५॥ लघ्वक्षरप्रायकृतमुपमारूपकाश्रयम् । काव्यं कार्यं तु नाट्यज्ञैः वीररौद्राद्भुताश्रयम् ॥ ११६॥ गुर्वक्षरप्रायकृतं बीभत्से करुणे तथा । कदाचिद्रौद्रवीराभ्यां यदाघर्षणजं भवेत् ॥ ११७॥ रूपदीपकसंयुक्तमार्यावृत्तसमाश्रयम् । शृङ्गारे च रसे वीरे काव्यं स्यान्नाटकाश्रयम् ॥ ११८॥ उत्तरोत्तरसंयुक्तं वीरे काव्यं तु यद्भवेत् । जगत्यतिजगत्यां वा संकृत्यां वापि तद्भवेत् ॥ ११९॥ तथैव युद्धसम्फेटा उत्कृत्यां सम्प्रकीर्तितौ । करुणे शक्वरी ज्ञेया तथैवातिधृतिर्भवेत् ॥ १२०॥ यद्वीरे कीर्तितं च्छन्दः तद्रौद्रेऽपि प्रयोजयेत् । शेषाणामर्थयोगेन च्छन्दः कार्यः प्रयोक्तृभिः ॥ १२१॥ यच्छन्दः पूर्वमुद्दिष्टं विषमार्धसमे समम् । उदारमधुरैः शब्दैस्तत्कार्यं तु रसानुगम् ॥ १२२॥ शब्दानुदारमधुरान् प्रमदाभिधेयान् नाट्याश्रयेषु कृतिषु प्रययेत कर्तुम् । तैर्भूषिता बहु विभान्ति हि काव्यबन्धाः पद्माकरा विकसिता इव राजहंसैः ॥ १२३॥ त्रिविधं ह्यक्षरं कार्यं कविभिर्नाटकाश्रयम् । ह्रस्वं दीर्घं प्लुतञ्चैव रसभावविभावकम् ॥ १२४॥ एकमात्रं भवेद् ह्रस्वं द्विमात्रं दीर्घमिष्यते । प्लुतं चैव त्रिमात्रं स्यादक्षरं स्वरयोजनात् ॥ १२५॥ स्मृते चासूयिते चैव तथा च परिदेविते । पठतां ब्राह्मणानाञ्च प्लुतमक्षरमिष्यते ॥ १२६॥ अकारस्तु स्मृते कार्यं ऊकारश्चाप्यसूयिते । परिदेविते तु हाकार ॐकारोऽध्ययने तथा ॥ १२७॥ ह्रस्वदीर्घप्लुतानीह यथाभावं यथारसम् । काव्ययोगेषु सर्वेषु ह्यक्षराणि प्रयोजयेत् ॥ १२८॥ चेक्रीडितप्रभृतिभिर्विकृतैस्तु शब्दैः युक्ता न भान्ति ललिता भरतप्रयोगाः । यज्ञक्रियेव रुरुचर्मधुरैः कृताक्तैः वेश्या द्विजैरिव कमण्डलुदण्डहस्तैः ॥ १२९॥ मृदुललितपदार्थं गूढशब्दार्थहीनं बुधजनसुखभोग्यं युक्तिमन्नृत्तयोग्यम् । बहुरसकृतमार्गं सन्धिसन्धानयुक्तं भवति जगति योग्यं नाटकं प्रेक्षकाणाम् ॥ १३०॥ अनुबन्धः भूषणाक्षरसङ्घातौ शोभोदाहरणे तथा । हेतुसंशयदृष्टान्ताः प्राप्ताभिप्राय एव च ॥ १३१॥ निदर्शनं निरुक्तं च सिद्धिश्चाथ विशेषणम् । गुणातिपातातिशयौ तुल्यतर्कः पदोच्चयः ॥ १३२॥ दृष्टं चैवोपदिष्टं च विचारस्तद्विपर्ययः । भ्रंशश्चानुनयो माला दाक्षिण्यं गर्हणं तथा ॥ १३३॥ अर्थापत्तिः प्रसिद्धिश्च पृच्छा सारूप्यमेव च । मनोरथश्च लेशश्च क्षोभोऽथ गुणकीर्तनम् ॥ १३४॥ ज्ञेयान्यनुक्तसिद्धिश्च प्रियं वचनमेव च । षट्त्रिंशल्लक्षणान्येव काव्यबन्धेषु निर्दिशेत् ॥ १३५॥ अलङ्कारैर्गुणैश्चैव बहुभिः समलंकृतम् । भूषणैरिव चित्रार्थैस्तद् भूषणमिति स्मृतम् ॥ १३६॥ यत्राल्पैरक्षरैः श्लिष्टैर्विचित्रमुपवर्ण्यते । तमप्यक्षरसङ्घातं विद्याल्लक्षणसंज्ञितम् ॥ १३७॥ सिद्धैरर्थैः समं कृत्वा ह्यसिद्धोऽर्थः प्रयुज्यते । यत्र श्लिष्टा विचित्रार्था सा शोभेत्यभिधीयते ॥ १३८॥ यत्र तुल्यार्थयुक्तेन वाक्येनाभिप्रदर्शनात् । साध्यन्ते निपुणैरर्थास्तदुदाहरणं स्मृतम् ॥ १३९॥ यत् प्रयोजनसामर्थ्यात् वाक्यमिष्टार्थसाधकम् । समासोक्तं मनोग्राहि स हेतुरिति संज्ञितः ॥ १४०॥ अपरिज्ञाततत्त्वार्थं वाक्यं यत्र समाप्यते । अनेकत्वाद्विचाराणां स संशय इति स्मृतः ॥ १४१॥ सर्वलोकमनोग्राहि यस्तु पक्षार्थसाधकः । हेतोर्निदर्शनकृतः स दृष्टान्त इति स्मृतः ॥ १४२॥ दृष्ट्वैवावयवान् कांश्चिद् भावो यत्रानुमीयते । प्राप्तिं तामपि जानीयाल्लक्षणं नाटकाश्रयम् ॥ १४३॥ अभूतपूर्वो योऽप्यर्थः सादृश्यात्परिकल्पितः । लोकस्य हृदयग्राही सोऽभिप्राय इति स्मृतः ॥ १४४॥ यत्रार्थानां प्रसिद्धानां क्रियते परिकीर्तनम् । परापेक्षाद्युदासार्थं तन्निदर्शनमुच्यते ॥ १४५॥ निरवद्यस्य वाक्यस्य पूर्वोक्तार्थप्रसिद्धये । यदुच्यते तु वचनं निरुक्तं तदुदाहृतम् ॥ १४६॥ बहूनां च प्रधानानां नाम यत्राभिकीर्त्यते । अभिप्रेतार्थसिद्ध्यर्थं सा सिद्धिरभिधीयते ॥ १४७॥ सिद्धान् बहून् प्रधानार्थान् उक्त्वा यत्र प्रयुज्यते । विशेषयुक्तं वचनं विज्ञेयं तद्विशेषणम् ॥ १४८॥ गुणाभिधानैर्विविधैर्विपरीतार्थयोजितैः । गुणातिपातो मधुरैर्निष्ठुरार्थैर्भवेदथ ॥ १४९॥ बहून् गुणान् कीर्तयित्वा सामान्यजनसम्भवान् । विशेषः कीर्त्यते यस्तु ज्ञेयः सोऽतिशयो बुधैः ॥ १५०॥ रूपकैरुपसाभिर्वा तुल्यार्थैः सुप्रयोजितैः । अप्रत्यक्षार्थसंस्पर्शस्तुल्यतर्कः प्रकीर्तितः ॥ १५१॥ बहूनां च प्रयुक्तानां पदानां बहुभिः पदैः । उच्चयः सदृशार्थो यः स विज्ञेयः पदोच्चयः ॥ १५२॥ यथादेशं यथाकालं यथारूपं च वर्ण्यते । यत्प्रत्यक्षं परोक्षं वा दृष्टं तद्वर्णतोऽपि वा ॥ १५३॥ परिगृह्य तु शास्त्रार्थं यद्वाक्यमभिधीयते । विद्वन्मनोहरं स्वन्तमुपदिष्टं तदुच्यते ॥ १५४॥ पूर्वाशयसमानार्थैरप्रत्यक्षार्थसाधनैः । अनेकोपाधिसंयुक्तो विचारः परिकीर्तितः ॥ १५५॥ विचारस्यान्यथाभावस्तथा दृष्टोपदिष्टयोः । सन्देहात्कल्प्यते यस्तु स विज्ञेयो विपर्ययः ॥ १५६॥ वाच्यमर्थं परित्यज्य दृष्टादिभिरनेकधा । अन्यस्मिन्नेव पतनादिह भ्रंशः स इष्यते ॥ १५७॥ उभयोः प्रीतिजननो विरुद्धाभिनिविष्टयोः । अर्थस्य साधकश्चैव विज्ञेयोऽनुनयो बुधैः ॥ १५८॥ ईप्सितार्थप्रसिद्ध्यर्थं कीर्त्यते यत्र सूरिभिः । प्रयोजनान्यनेकानि सा मालेत्यभिसंज्ञिता ॥ १५९॥ हृष्टैः प्रसन्नवदनैर्यत्परस्यानुवर्तनम् । क्रियते वाक्यचेष्टाभिस्तद्दाक्षिण्यमिति स्मृतम् ॥ १६०॥ यत्र संकीर्तयन् दोषं गुणमर्थेन दर्शयेत् । गुणातिपाताद् दोषाद्वा गर्हणं नाम तद्भवेत् ॥ १६१॥ अर्थान्तरस्य कथने यत्रान्योऽर्थः प्रतीयते । वाक्यमाधुर्यसम्पन्ना सार्थापत्तिरुदाहृता ॥ १६२॥ वाक्यैः सातिशयैरुक्ता वाक्यार्थस्य प्रसाधकैः । लोकप्रसिद्धैर्बहुभिः प्रसिद्धिरिति कीर्तिता ॥ १६३॥ यत्राकारोद्भवैर्वाक्यैरात्मानमथवा परम् । पृच्छ्यते चाभिधत्तेऽर्थं सा पृच्छेत्यभिसंज्ञिता ॥ १६४॥ दृष्टश्रुतानुभूतार्थकथनादिसमुद्भवम् । सादृश्यं क्षोभजननं सारूप्यमिति संज्ञितम् ॥ १६५॥ हृदयस्थस्य वाक्यस्य गूढार्थस्य विभावकम् । अन्यापदेशैः कथनं मनोरथ इति स्मृतः ॥ १६६॥ यद्वाक्यं वाक्यकुशलैरुपायेनाभिधीयते । सदृशार्थाभिनिष्पत्त्याः स लेश इति कीर्तितः ॥ १६७॥ परदोषैर्विचित्रार्थैर्यत्रात्मा परिकीर्त्यते । अदृष्टोऽप्यन्योऽपि वा कश्चित् स तु क्षोभ इति स्मृतः ॥ १६८॥ लोके गुणातिरिक्तानां गुणानां यत्र नामभिः । एकोऽपि शब्द्यते तत्तु विज्ञेयं गुणकीर्तनम् ॥ १६९॥ प्रस्तावेनैव शेषोऽर्थः कृत्स्नो यत्र प्रतीयते । वचनेन विनानुक्तसिद्धिः सा परिकीर्तिता ॥ १७०॥ यत्प्रसन्नेन मनसा पूज्यं पूजयितुं वचः । हृष्टप्रकाशनार्थं तु सा प्रियोक्तिरुदाहृता ॥ १७१॥ एतानि काव्यस्य च लक्षणानि षट्त्रिंशदुद्देशनिदर्शनानि । प्रबन्धशोभाकरणानि तज्ज्ञैः सम्यक् प्रयोज्यानि रसायनानि ॥ १७२॥ इति भरतीये नाट्यशास्त्रे वागभिनये काव्यलक्षणो नाम षोडशोऽध्यायः । Encoded by Sowmya Krishnapur krsowmya@yahoo at com
% Text title            : naaTyashaastra adhyaaya 16 vaagabhinaye kaavyalakShaNo
% File name             : natya16.itx
% itxtitle              : nATyashAstram adhyAyaH 16
% engtitle              : Natya Shastra Chapter 16
% Category              : natyashastra, major_works, bharata
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Sage Bharata
% Language              : Sanskrit
% Subject               : philosophy/hinduism/culture/Dance/Drama
% Transliterated by     : Sowmya Krishnapur krsowmya at yahoo.com
% Proofread by          : Sowmya Krishnapur krsowmya at yahoo.com
% Latest update         : May 26, 2005
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.


Sanskrit Documents Home Home Sitemap Sanskrit Links Blog Contributors Support GuestBook FAQ Search

BACK TO TOP