श्रीभरतमुनिप्रणीतं नाट्यशास्त्रम् अध्याय ३१
॥ श्रीरस्तु ॥
अथैकत्रिंशोऽध्यायः ।
वाद्यं तूर्यायनं प्रोक्तं कलापातलयान्वितः ।
कलास्तस्य(कालस्तस्य) प्रमाणं हि विज्ञेयं तालयोगतः ॥ १॥
या लौकिकी कला काष्ठा निमेषश्च स्मृतो बुधैः ।
न सा तालकला ज्ञेया ह्यन्यैषा तालजा कला ॥ २॥
निमेषाः पञ्च विज्ञेया गीतकाले कलान्तरम् ।
ततः कलाकालकृतो लय इत्यभिसञ्ज्ञितः ॥ ३॥
त्रयो लयास्तु विज्ञेया द्रुतमध्यविलम्बिताः ।
यस्तत्र तु लयो मध्यस्तत्प्रमाणकला स्मृता ॥ ४॥
कलाकालप्रमाणेन ताल इत्यभिसञ्ज्ञितः ।
त्रिविधा सा च विज्ञेया त्रिमार्गनियमा बुधैः ॥ ५॥
चित्रे द्विमात्रा कर्तव्या वृत्तौ सा द्विगुणा स्मृता ।
चतुर्गुणा दक्षिणे स्यादित्येवं त्रिविधा कला ॥ ६॥
त्र्यस्रश्च चतुरस्रश्च स तालो द्विविधः स्मृतः ।
द्विविधस्यापि तालस्य त्वेका प्रकृतिरिष्यते ॥ ७॥
तथा योनिद्वयं ताला चान्यामानं निबोधत ।
चञ्चूपुटस्तु विज्ञेया तथा चायपुटा बुधैः ॥ ८॥
चतुरस्रस्तु विज्ञेयस्तालश्चञ्चूपुटो बुधैः ।
त्र्यस्रश्चञ्चूपुटश्चैव गुरुलघ्वक्षरान्वितः ॥ ९॥
आदौ द्वे गुरुणी यस्य लघ्वेकं प्लुतमेव च ।
अक्षराणां निवेशेन स तु चञ्चूपुटस्तदा ॥ १०॥
आदौ गुर्वक्षरं ?? अन्ते लघूनि चैव हि ।
त्र्यस्रः स खलु विज्ञेयस्तालश्चञ्चूपुटाश्रयः ॥ ११॥
सन्निपातस्ततः शम्या तालः शम्यामथापि वा ।
सन्निपातादिको ज्ञेयः शम्यादिश्च तथापरः ॥ १२॥
तालादिश्च त्रिभिर्भेदैः पुनश्चञ्चूपुटो भवेत् ।
शम्यादिकस्तु विज्ञेयस्तज्ज्ञैरासारितादिषु ॥ १३॥
तालादिकस्तथा प्रोक्तो विद्वद्भिः पाणिकादिषु ।
चञ्चूपुटस्य ये भावाः सन्निपातादयस्तु ये ॥ १४॥
त एव भेदा विज्ञेया बुधैश्चञ्चूपुटस्य च ।
सन्निपातादिकः स्वस्य बलवान्नेतरस्तथा ॥ १५॥
षट्कलोऽष्टकलश्चैव तालो ह्यस्मात्प्रवर्तते ।
द्विप्रकारः पुनश्चायं निःशब्दः शब्दवांस्तथा ॥ १६॥
अनयोर्मिश्रब्ःअवं तु मिश्रस्तालः प्रकीर्तितः ।
शम्यातालप्रवेशेन ?? विधीयते ॥ १७॥
षट्पितापुत्रककृतः पञ्चपाणिरुदाहृतः ।
आद्यं प्लुतं द्वितीयं च लघु यत्राक्षरं भवेत् ॥ १८॥
तृतीयं च चतुर्थं च गुरूणि पञ्चमं लघु ।
प्लुतान्तः षट्पितापुत्रो गुरुलाघवसंयुतः ॥ १९॥
पञ्चपाणिः स विज्ञेयः षट्पातस्तु षदक्षरः ।
सन्निपातस्ततस्तालः शम्या तालस्तथैव च ॥ २०॥
शम्या चैव हि तालश्च षट्पातस्तस्य कीर्तितः ।
तालादिस्त्र्यस्रभेदोऽन्यः सम्पत्केष्टकसञ्ज्ञितः ॥ २१॥
गुरुपञ्चाक्षराद्यन्तप्लुतमात्रासमन्वितः ।
त्र्यस्रं सर्वगुरुं कृत्वा निष्कामं त्वत्र योजयेत् ॥ २२॥
शम्याद्वयं ततस्तेषु उद्बद्धः कथितो बुधैः ।
व्युदस्य युग्मतो ये च पञ्चताला भवन्ति हि ॥ २३॥
मिश्रा गीतङ्गसंयुक्ता ज्ञेया ह्युद्बद्धकादयः ।
कलाः पञ्च तथा सप्त पुनर्नव च कीर्तिताः ॥ २४॥
दशैकादश चैवैते सङ्कीर्णाः समुदाहृताः ।
न ह्येषामुपयोगोऽस्ति सप्तरूपे ध्रुवासु च ॥ २५॥
प्रवृतादिषु कर्तव्या एते भूयः प्रयोक्तृभिः ।
यथाक्षरोऽथ द्विकलस्तथैव च चतुष्कलः ॥ २६॥
त्रयो भेदा हि तालस्य ?? द्विगुणाः स्मृताः ।
चतुरस्रस्त्रिभिर्भेदैस्तालस्तु परिकीर्तितः ॥ २७॥
चतुष्कलो ह्यष्टकलः कलाः षोदश चैव हि ।
त्र्यस्रकालस्तु षड्भेदस्त्रिकलः षट्कलस्तथा ॥ २८॥
कला द्वादश चैवास्याश्चतुर्विंशतिरेव च ।
चत्वारिंशत्तथाष्टौ च तथा षण्णवतिः कलाः ॥ २९॥
तालो नवविधश्चायं समासात्परिकीर्तितः ।
तत्र चालाप(चात्माथ)निष्क्रामौ विक्षेपोऽथ प्रवेशनम् ॥ ३०॥
चतुर्द्विकल इत्येवं निःशब्दः परिकीर्तितः ।
शम्यातालो ध्रुवश्चैव सन्निपातस्तथा परे ॥ ३१॥
इति शब्देन संयुक्तो विज्ञेयस्तु चतुर्विधः ।
एतेषां चैव वक्ष्यामि हस्ताङ्गुलिविकल्पनम् ॥ ३२॥
उत्तानाङ्गुलिसङ्कोच आलाप इति सञ्ज्ञितः ।
निष्क्रमोऽधोगतस्य(गतानां) स्यादङ्गुलीनां प्रसारणात् ॥ ३३॥
तस्य दक्षिणतः क्षेपो विक्षेप इति सञ्ज्ञितः ।
निवर्तनं च हस्तस्य प्रवेशोऽधोमुखस्य तु ॥ ३४॥
यदा चतुष्कलो योगस्तदा त्वेष विधिः स्मृतः ।
निष्क्रमश्च प्रवेशश्च द्विकले परिकीर्तितौ ॥ ३५॥
एषामन्तरपातास्तु पातसञ्ज्ञाः प्रकीर्तिताः ।
सहव्यस्तनिपातस्तु सम्यनालश्च वामतः ॥ ३६॥
हस्तयोस्तु समः पातः सन्निपात इति स्मृतः ।
कला या त्रिविधा प्रोक्ता तस्याः पातो ध्रुवः स्मृतः ॥ ३७॥
यथाक्षरस्य तालस्य ?? गुर्वक्षरे स्मृतः ।
यथाक्षरकृतैः पातैस्ताले ज्ञेयो यथाक्षरः ॥ ३८॥
गुर्वक्षरैस्तु विश्लिष्टैः स नवद्विकलः स्मृतः ।
द्विर्भावा द्विकलस्यात्र विज्ञेयस्तु चतुष्कलः ॥ ३९॥
त्र्यस्रश्च चतुरस्रश्च षट्कलोऽष्टकलस्तथा ।
ध्रुवाणां तु भवेत्तालैस्तं च वक्ष्यामि तत्त्वतः ॥ ४०॥
कनिष्ठाङ्गुलिनिष्क्रामः शम्या(सम्या) चैव ततो भवेत् ।
कनिष्ठानामिकाभ्यां तु निष्क्रामोऽतो विधीयते ॥ ४१॥
ततश्च तालः कर्तव्या शम्या चैव तु पञ्चमी ।
प्रवेशो ?? षष्ठः कर्तव्यस्तर्जनीकृतः ॥ ४२॥
निष्क्रामसन्निपातान्ते नित्यमष्टकलो भवेत् ।
एष युग्मे कलापातविकल्पोऽङ्गुलिभिः कृतः ॥ ४३॥
कनिष्ठाङ्गुलिनिष्क्रामः प्रथमे तु कले भवेत् ।
शम्यापातो द्वितीया च तृतीया ताल एव च ॥ ४४॥
शम्या तत्र चतुर्थी च पञ्चमी तर्जनीक्रमात् ।
षष्ठश्च सन्निपातः स्यदेष वै षट्कलो विधिः ॥ ४५॥
एष त्र्यस्रे कलापाते विकल्पोऽङ्गुलिभिः कृतः ।
कनिष्ठाङ्गुलिनिष्क्रामे प्रवेशश्च तथा भवेत् ॥ ४६॥
कनिष्ठानामिकास्थाने तालो ज्ञेयस्तृतीयके ।
शम्यापातश्चतुर्थी स्यान्निष्क्रामो मध्यमाकृतः ॥ ४७॥
षष्ठतालस्तथा ज्ञेयो निष्क्रामस्तर्जनीकृतः ।
शम्याष्टमी ततस्तालो नवमी तु कला स्मृता ॥ ४८॥
कनिष्ठिकाप्रवेशस्तु दशमी तु कला भवेत् ।
निष्क्रामश्चैव तर्जन्यास्तदनन्तरमिश्यते ॥ ४९॥
सन्निपातस्तथा ते च कलाद्वादशकं भवेत् ।
एषतो वापविक्षेपव्यवधानश्च पण्डितैः ॥ ५०॥
विधिष्चतुष्कलो ज्ञेयः प्रागुक्ताङ्गुलिभिः कृतः ।
द्विकलश्चतुष्कलश्च पादभागः प्रकीर्तितः ॥ ५१॥
चत्वारः पादभागाश्च ?? हि परिनाट्यते ।
चञ्चत्पुटस्य तालस्य तथा चञ्चूपुटस्य च ॥ ५२॥
पञ्चबाणैश्च विज्ञेया भेदा ह्येते पृथक्पृथक् ।
एवमेष मया तालः समासात्परिकीर्तितः ॥ ५३॥
आसारिते वर्धमाने गीतेष्वपि हि यः स्मृतः ।
अथासारितकानां तु सम्प्रवक्ष्यामि लक्षणम् ॥ ५४॥
भेदश्चञ्चत्पुटस्यादौ तथा गुरुलघुप्लुतैः ।
पञ्चपाणिं ततः कुर्याद्द्विरभ्यस्तं प्रयोगवित् ॥ ५५॥
यथाक्षरं तु सर्वत्र यथावद्विनिवेशयेत् ।
शम्यातालः पुनश्चैव शम्यातालमथापि च ॥ ५६॥
आद्येऽक्षरे सन्निपातं पञ्चबाणश्च यो भवेत् ।
तालं शम्यां च तालं च शम्यातालौ ततः परम् ॥ ५७॥
एष एव द्वितीयेऽपि पञ्चबाणो विधिः स्मृतः ।
प्लुतच्छेदेऽपि तस्येष्टः सन्निपातः प्रयोक्तृभिः ॥ ५८॥
एवं यथाक्षरं ज्ञेयं कनिष्ठासारितं बुधैः ।
यथाक्षरस्याक्षरैश्च तालपातान्निबोधत ॥ ५९॥
चकारे तु भवेच्छम्या द्वितीये ताल एव च ।
पुकारे तु भवेच्छम्या टकारे ताल एव च ॥ ६०॥
एवं चञ्चूपुटे ज्ञेयं पञ्चपाणेरतः परम् ।
षडारे सन्निपातः स्यात्पिङ्कारे तल एव च ॥ ६१॥
तकारे तु भवेच्छम्या एकारे ताल एव च ।
त्रकारे तु भवेच्छम्या ककारे ताल एव च ॥ ६२॥
द्वितीयेऽप्येवमेव स्यात्सन्निपातस्ततः परम् ।
गुर्वक्षराणां विश्लेषादेवमेव तु मध्यमम् ॥ ६३॥
विश्लेषितानामेषां तु द्विर्भावे या कला भवेत् ।
पातान्ते सा प्रयोक्तव्या यथावदनुपूर्वशः ॥ ६४॥
द्विर्भावान्मध्यमस्येव ज्येष्थमित्यभिधीयते ।
मध्यमस्य विधनेन न्यसेच्च द्विगुणाः कलाः ॥ ६५॥
सन्निपातैर्निपातैश्च तेषां वस्तु प्रकीर्तितम् ।
समानलक्षणांश्चैव गदतो मे निबोधत ॥ ६६॥
निहत्य दानवं घोरं रुद्रेणामिततेजसा ।
नृत्यमुत्पादितं चित्रं पूर्वं ताण्डवसञ्ज्ञितम् ॥ ६७॥
अथ भूतगणैः सर्वैस्तस्मिन्काले महात्मभिः ।
वर्धमानमिदं दृष्टं पिण्डीबन्धैर्विभूषितम् ॥ ६८॥
परितुष्टश्च तद्दृष्ट्वा सपत्नीको वृषध्वजः ।
प्रददौ तु वरं श्रेष्ठं सह देवगणाधिपैः ॥ ६९॥
लक्ष्यलक्षणसम्पन्ना मार्गयुक्तविधि(धिः) क्रमैः ।
वर्धमानप्रयोक्तारो यास्यन्ति शिवगोचरम् ॥ ७०॥
एवमेतन्मया दृष्टं पिण्डीबन्धनिमित्ततः ।
अधुना तु प्रवक्ष्यामि लक्षणं शृणुत द्विजाः ॥ ७१॥
वृत्तिदक्षिणचित्रेषु मार्गेषु विनियोजितम् ।
द्विविधं वर्धमानं स्यात्स्वप्रमाणविनिर्मितम् ॥ ७२॥
अतालं च सतालं च तत्प्रमाणं द्विजाः स्मृतम् ।
चतस्रः काण्डिकाश्चैव तावन्त्यासारितानि तु ॥ ७३॥
ध्रुवकेण कलाभिस्तु कण्डिका देवकल्पिता ।
वर्धमानशरीरे तु क्रियते मार्गयोजना ॥ ७४॥
आद्या नवकला तु स्यादष्टाभिस्तत्परा स्मृता ।
दश षट्च तथा चैव तृतीया कण्डिकेष्यते ॥ ७५॥
चतुर्थी कण्डिका चैव द्वात्रिंशत्कलिका स्मृता ।
कलाभिरेवं निर्दिष्टा कण्डिका वर्धमानके ॥ ७६॥
केवलं मार्गसम्भूता स्वालयोपाङ्गवर्जिता ।
एकद्वित्रिचतुर्योगात्ताभिरासारितानि तु ॥ ७७॥
वर्धमाने प्रसूयन्ते मार्गतालाङ्गयोगतः ।
प्रथमां कण्डिकां कृत्वा बालतालप्रयोजितम् ॥ ७८॥
अन्तिमार्धकलाहीनं कुर्यादेवं कनिष्ठकम् ।
द्वितीयां कण्डिकां कृत्वा प्रथमा सकला यदि ॥ ७९॥
योज्यते पूर्वतालेन तदा तत्स्याल्लयान्तरम् ।
वर्धमानं विना चित्रे न हि वृत्तौ लयान्तरम् ॥ ८०॥
बहिर्वा वर्धमाने वा कनिष्ठां न हि दक्षिणे ।
द्विगुणक्षीर(गुणाक्षर)संयोगादन्यमार्गनियोजनात् ॥ ८१॥
नृत्यकालविशेषाच्च बालादन्यल्लयान्तरम् ।
तृतीया सद्वितीया च प्रथमा चैव तत्कला ॥ ८२॥
द्विकलं योगमाश्रित्य मध्यमासारितं तु तत् ।
चतुर्थीमादितः कृत्वा चतस्रः कण्डिका यथा ॥ ८३॥
चतुष्कलो न ?? ज्येष्थमासारितं तु तत् ।
प्रयोगस्तु यदा त्वेषां पिण्डीबन्धैविकल्पते ॥ ८४॥
प्रत्येकं तु(त्व)ङ्गिन्यासस्तदा तेषां पृथक्पृथक् ।
मुखं प्रतिमुखं चैव देहसंहरणं तथा ॥ ८५॥
अङ्गान्येतानि चत्वारि सर्वेष्वासारितेष्विह ।
उपोहनं मुखं तेषां युग्मं प्रतिमुखं भवेत् ॥ ८६॥
ओजः शरीरसंहारावयमङ्गविधिक्रमः ।
इत्येव चतुरङ्गानि ज्ञेयान्यासारितानि तु ॥ ८७॥
चतुरासारितैर्बद्धं वर्धमानकमुच्यते ।
वर्णताललयग्रन्थवाद्याभिनयवर्धनात् ॥ ८८॥
पात्राणां वृद्धियोगाच्च वर्धमानकमुच्यते ।
वर्धमाने शरीरस्य भवेदासारितस्य च ॥ ८९॥
कार्यकारणभावेन परस्परविकल्पनम् ।
यथा वृक्षाद्भवेद्बीजो बीजाद्वृक्षस्य सम्भवः ॥ ९०॥
अन्योन्यहेतुसंयोगः प्रसर्तव्यस्तथैव तु ।
योगादेककलात्सूते कनिष्ठकलयान्तरे ।
द्विकलान्मध्यमं चैव ज्येष्ठं चैव चतुष्कलात् ॥ ९१॥
चञ्चत्पुटपरिवर्तः शम्यादि द्वौ च पञ्चपाणिकृतौ ।
अन्ते च सन्निपातः पातविधिरयं कनिष्ठस्य ॥ ९२॥
अयमेव तालयोगो विशेषसिद्धिश्च सूर्यवद्दिष्टा ।
भवतीह लयान्तरिते शब्दाद्भेदो लयश्चैव ॥ ९३॥
उत्तरकालान्कृत्वा त्वादौ विप्राः कलाः परित्यज्य ।
एतत्पातविधानं मध्यमकासारिते प्रोक्तम् ॥ ९४॥
ज्येष्ठस्य भवति नियमादादावेका चतुष्कला मात्रा ।
मात्रा कृन्दुगता स्यात्कृत्वौतौ द्वौ च परिवर्तौ ॥ ९५॥
वालं नवकलं वेषां न तेषां साधु सम्मतम् ।
सन्निपाताङ्गविन्यासं कलानियमतः कृतम् ॥ ९६॥
तेषां सम्मुखतालं ध्रुवपातैरेव नियमतात्मानम् ।
तस्य कलापाक्षरगुरुलघुवर्णस्थितिं वक्ष्ये ॥ ९७॥
ज्येष्ठस्य कला ह्यष्टौ मुखं भवेन्मध्यमस्य समूलकम् ।
षडिर्लयान्तरे स्यात्पञ्चैव कलाः कनिष्ठस्य ॥ ९८॥
आदावन्ते गुरूणी मध्ये च लघूनि बालतः प्रभृति ।
अष्टौ द्वादश षोडश विंशतिरपि वाक्षराणि स्युः ॥ ९९॥
आसारितोपवहनेष्वादावासारणानि युक्तानि ।
तान्यक्षराणि वक्ष्ये यानि पुरा ब्रह्मगीतानि ॥ १००॥
यथा-
कूहुं जगति यदि गिनि गिजं हुं प्रथमे लयान्तरे वापि
तितिजलकुचक्रलयमध्ये इति तिकुचवलितकज्येष्ठे ।
इत्यक्षरपतनकलागुरुलघुवर्णस्थितिप्रतिविभक्तः ।
आसारितमुखसञ्ज्ञे उपवहनविधिः समुद्दिष्टः ॥ १०१॥
एवमेतत्सविस्तारं कथितं परिमाणकम् ।
चत्वारस्तु गुणा युग्मे ओजे षट्परिकीर्तिताः ॥ १०२॥
पञ्चपाणौ द्वितीये तु सार्धषट्परिकीर्तिताः ।
कनीय एवं कर्तव्यमकरौस्तालमानतः ॥ १०३॥
यथा-
देवं देवैः संस्तुतं नमितं दैत्यैर्यज्ञैर्नागैः पितृभिश्च
नमितचरणं त्रैलोक्यहेतुमीशं रुद्रं शरणमस्म्यहमुपगतः ।
अष्टावेव गणाः कार्याः पूर्वताले यथविधि ।
द्वादशैव तु कर्तव्याः कथिताः पुत्रके गणाः ॥ १०४॥
अर्धत्रयोदशगणास्तृतीये वसुसञ्ज्ञिताः ।
एवमक्षरविन्यासो मध्यमासारिते स्मृतः ॥ १०५॥
यथा -
भूताधिपतिं भगनेत्रहरं देवैर्वेद्यं सुरवरमथनं रौद्रं
भयदं गजचर्मवृतं शम्भुं त्र्यक्षं ज्वलननिभजटम् ।
भुजगपरिकरं त्रिदशगणवृतं दैत्यैर्नित्यं
परिपठितचरितममरपतिनमितमभिमतसुखदं शरणं
सुरनुतचरणमहमुपगतः ।
कार्याः षोडश युग्माख्ये ताले तु प्रथमे गणाः ।
चतुर्विंशतिरोजाख्ये द्वितीये वसुसञ्ज्ञिते ॥ १०६॥
चतुर्विंशतिरर्धं च तृतीये वसुसञ्ज्ञिके ।
ज्येष्ठेष्वासारिते कार्य एवमक्षरसञ्चयः ॥ १०७॥
यथा-
अमरप्रवरं मदनाङ्गहरं भुवनैकनाथमभयप्रदं
त्रिपुरान्तकरं देवं तमहं प्रणतः सुरपितृगणनतचरणं
पृथिवीसलिलज्वलनभैरवरूपं खट्वाङ्गकपालधारं
पवनः सूर्यश्चन्द्रो यजारमाप्योमाख्याः कार्या मुनिभिर्यस्य
प्रोक्तास्त्रैलोक्यगुरुं तमचिन्त्यमजं विद्यानिलयं भैरवरूपं
खट्वाङ्गकपालधारं स्थित्युत्पत्तिप्रलयनिमित्तं
चन्द्रार्धधरं तिलकार्धधरं रसनार्धधरं
बहुभिर्विकृतैर्विविधैर्विकटैर्विद्यति विमुखैः प्रथमैः
परिवृतमीशं सुखदं सततं प्रणतः॥
आसारितानां सर्वेषां ये भेदाः परिकीर्तिताः ।
यथाक्षरं द्विसङ्ख्यातं त्रिसङ्ख्यातं यथापि वा ॥ १०८॥
तालोच्छेदो द्विगुणितैः समवर्णगणैः कृतम् ।
अनिवृत्ताक्षरपदं यथाक्षरमिति स्मृतम् ॥ १०९॥
निवृत्त्या यत्समायुक्तं द्विसङ्ख्यातं तमुच्यते ।
निर्वृत्तद्वयसम्पन्नं त्रिसङ्ख्यातमितीष्यते ॥ ११०॥
चतुष्कादौ चतुर्मात्रा यथोक्तगुरुलाघवाः ।
यथायोगं गणाः कार्या गीतेष्वासारितेषु च ॥ १११॥
अक्षरैर्या चतुर्मात्रा द्विमात्रा वर्णतस्तु सा ।
चित्रे कला भवेद्य तु वृत्तौ सा द्विगुणा स्मृता ॥ ११२॥
वृत्तौ या वर्णमात्राभिश्चतुर्मात्राः प्रकीर्तिता ।
द्विगुणा दक्षिणे सा तु कला ज्ञेया प्रयोक्तृभिः ॥ ११३॥
न मार्गभेदोऽक्षरेषु कश्चिदप्युपपद्यते ।
वर्णमात्रा द्विगुणिताद्वर्णभेदः प्रकीर्तितः ॥ ११४॥
यथाक्षरेषु भूयिष्ठं गीतेष्वासारितेषु च ।
विधिरेष समुद्दिष्टो वर्णतालपदाश्रयः ॥ ११५॥
द्विसङ्ख्याते निवृत्तिस्तु कार्याद्यस्यार्धयोगतः ।
द्विसङ्ख्यातार्धयोगेन त्रिसङ्ख्यातेऽपि चेष्यते ॥ ११६॥
न चित्रे द्वित्रिसङ्ख्यातं कदाचिदपि योजयेत् ।
न च वृत्तित्रिसङ्ख्यातं गीतेष्वासारितेषु च ॥ ११७॥
दक्षिणे स्यात्त्रिसङ्ख्यातं द्विसङ्ख्यातं च वार्तिके ।
चित्रे यथाक्षरं प्रोक्तमिति मार्गविनिश्चयः ॥ ११८॥
दक्षिणेनैव गत्वादौ निवृत्तौ वृत्तिवद्व्रजेत् ।
चित्रवच्च यथान्यायं त्रिसङ्ख्याते विधिः स्मृतः ॥ ११९॥
अनेनैव विधानेन द्विसङ्ख्यातमपीष्यते ।
वृत्तौ वा दक्षिणो वापि प्रयोगोऽस्य सदैव तु ॥ १२०॥
वस्वादौ वसुमध्ये च वस्वन्ते या निवृत्तयः ।
प्रयोक्तव्यः प्रयोगज्ञैर्विचार्याङ्गबलाबलम् ॥ १२१॥
निवृत्तौ तु कला न्यूना यदा वस्तुवशाद्भवेत् ।
अकालपातनात्तस्या वर्णः कार्यो निवृत्तिमान् ॥ १२२॥
वर्णालङ्कारसौभाग्यं विच्छेदः करणस्य च ।
तत्त्वादीनां प्रयोगश्च निवृत्तीनां प्रयोजनम् ॥ १२३॥
आसारितेषु गीतेषु वर्धमानेषु चैव हि ।
वर्धमानं तु विज्ञेयं चतस्रः कण्डिका बुधैः ॥ १२४॥
विशाला सङ्गता चैव सुनन्दा सुमुखी तथा ।
उपोहनं विशालायाः कला(लाः) पञ्च भवेदिह ॥ १२५॥
षडङ्ग(षट्सङ्ग)ताया विज्ञेयाः सुनन्दायाश्च सप्त च ।
सुमुख्याश्चोपवहनं नित्यमष्टकलं भवेत् ॥ १२६॥
आदौ गुरुद्वयं कार्यं चतुर्दश लघून्यथ ।
उपोहनं विशालायाः पुनरन्ते गुरुः स्मृतः ॥ १२७॥
यथा- ऋन्दुं जगति अवलितकदिगिनिगिकुचकृततिति वा ।(?)
चतुर्भिरधिकैरेवं लघुभिर्गुरुसंस्तुतैः ।
सुनन्दायाश्च विज्ञेयो ह्यपोहनविधिर्बुधैः ॥ १२८॥
यथा- ऋन्दुं जगति अवलितकदिगिति ऋलकुचलति विभो ।(?)
षड्विंशतिर्लघूनि स्युः सुमुख्याश्च गुरूणि च ।
उपोहनविधानेन ज्ञेयानि मुनिसत्तमाः ॥ १२९॥
यथा- ऋन्दुं जगति अवलिकदिगिविगितितिऋलऋचकुलतिति जगतिति वा ।
उपोह्यन्ते स्वरा यत्र येन गीतं प्रवर्तते ।
तमादुपोहनं प्रोक्तं शुष्काक्षरसमन्वितम् ॥ १३०॥
अथवा मोह्यते यस्मात्प्रयोगसूचनादिभिः ।
तमादुपोहनं ह्येतज्जानभा(ता)ण्डसमाश्रयम् ॥ १३१॥
शम्या तालौ द्विरभ्यस्तौ सन्निपातान्त्य एव च ।
उपोहनं विशालायास्तालोऽयं परिकीर्तितः ॥ १३२॥
द्विकलः सङ्गतायाश्च तालश्चञ्चूपुटः स्मृतः ।
त्रिकलो युक्ततालादि सुनन्दायास्तथैव च ॥ १३३॥
चञ्चत्पुटस्तु द्विकलः सुमुख्याः स्यादुपोहने ।
उपोहने द्विरभ्यस्तैस्ततः कार्या तु कण्डिका ॥ १३४॥
एतान्युपोहनानीह चत्वारि गदितानि हि ।
आनुपूर्व्या प्रयोगं च कण्डिकानां निबोधत ॥ १३५॥
शम्या ?? पुनः शम्या ततस्तालो यथाक्रमम् ।
त्रिकलः सन्निपातश्च विशालायाः प्रकीर्तितः ॥ १३६॥
चञ्चत्पुटस्तु वि(द्वि)कलः संगताया अपि स्मृतः ।
चतुष्कलः सुनन्दायाः स एव गदितो बुधैः ॥ १३७॥
सन्निपातद्वयोपेता द्विचित्रस्तु प्रयोक्तृभिः ।
कार्यश्चतुष्कलो युग्मः सुमुख्याश्च यथाक्रमम् ॥ १३८॥
वर्धमानस्य तालोऽयं कण्डिकानां पृथक्पृथक् ।
मया प्रोक्तो मुनेश्चैव संहतानां निबोधत ॥ १३९॥
पूर्वं विशाला कर्तव्या सङ्गता तदनन्तरम् ।
सङ्गतायां ग्रहं कृत्वा विशाला पुनरिष्यते ॥ १४०॥
कनिष्ठासारिते तालो यो यथा परिकीर्तितः ।
स एव सर्वः कर्तव्यः प्रथमे कण्डिकोद्भवे ॥ १४१॥
सुनन्दा सङ्गता चैव विशाला च यथोदिता ।
सुनन्दायां ग्रहं कृत्वा ततश्चैव प्रयोजयेत् ॥ १४२॥
मध्यमासारिते तालो यो मया परिकीर्तितः ।
शम्यास्त्रयस्य कर्तव्यः सुनन्दाद्यस्य पण्डितैः ॥ १४३॥
सुमुखी च सुनन्दा च सङ्गतप्रथमा तथा ।
सुमुख्यादौ ग्रहं कृत्वा यथोक्तं सम्प्रयोजयेत् ॥ १४४॥
ज्येष्ठासारितके तालो निःशब्दः शब्दवांस्तथा ।
स सर्व एव कर्तव्यो बुधैश्चतसृणामपि ॥ १४५॥
संयोगः कण्डिकानां तु तालोऽयं परिकीर्तितः ।
एवमासां समायोगाद्वर्धमानकमिष्यते ॥ १४६॥
वालं न सुकलं(चतुष्कलं) ज्ञेयं दशशब्दलयान्तरम् ।
पञ्चषष्टिकलं ज्येष्ठं त्रयस्त्रिंशत्तु मध्यमम् ॥ १४७॥
कलानां वृद्धिमासाद्य त्वक्षराणां तु वर्धनात् ।
लयस्य वर्धनाच्चापि वर्धमानकमुच्यते ॥ १४८॥
आसारितेषु गीतेषु वर्धमानेषु चैव हि ।
द्विगुणस्तालयोगेन कार्यो ह्यक्षरजो विधिः ॥ १४९॥
?? सन्निपातो यदा भवेत् ।
अन्त्या कला द्विमात्रा तु तदा ज्ञेया प्रयोक्तृभिः ॥ १५०॥
एवमेतन्मया प्रोक्तं वर्धमानस्य लक्षणम् ।
आसारितानां वक्ष्यामि विस्तारं लघुलक्षणम् ॥ १५१॥
अन्यूनायां कलायां तु ध्रुवं प्राज्ञो निवेदयेत् ।
अथ तालाक्षरवशास्त्वेषां ये तांश्च (वशाच्छेषानन्तांश्च) योजयेत् ॥१५२॥
प्लुते लघ्वक्षरे चैव ध्रुवे साम्यं न विद्यते ।
न विद्यते त्रिभिः पातैः समत्वमुपदिश्यते ॥ १५३॥
तालैश्च सन्निपातैश्च शम्याभिश्च ध्रुवेण च ।
कनिष्ठासारितं कार्यं मध्यमं ज्येष्ठमेव च ॥ १५४॥
??
?? ॥ १५५॥
प्रस्तारेण कलानां शम्यातालान्तरोपेतम् ।
पूर्वं शम्या कार्या द्विकलस्तालः कलाद्वयं शम्या ॥ १५६॥
पुनरेककस्तालस्त्रिकलः स्यात्सन्निपातश्च ।
त्रिकलोऽन्यस्मिंस्तालः शम्यैकः ??कलाद्वये तालः ॥ १५७॥
द्विकला च पुनः शम्या तालः क?? ।
?? ॥ १५८॥
त्रिकलश्च सन्निपातो भूयो विधिरेष कर्तव्यः ।
द्वादश कलास्तृतीये तस्यान्ते सन्निपातश्च ॥ १५९॥
प्रथमस्त्वष्टकलः स्याद्द्वादशकलिकौ तथापरौ ज्ञेयौ ।
अन्त्यश्च सन्निपातो मध्यस्यासारितस्योक्तः ॥ १६०॥
ये पूर्वमङ्गुलिकृताः प्रवेशान्नि(शनि)ष्क्रामसञ्ज्ञया गदिताः ।
ते सर्वे कर्तव्या मध्ये त्वासारिते तज्ज्ञैः ॥ १६१॥
?? ज्येष्ठे तु कर्तव्यं शम्यातालकलान्वितम् ।
शतत्रयोऽथ निष्क्रामो विक्षेपोऽथ प्रवेशनम् ।
अङ्गुलीनां तु कर्तव्यं कलामानं चतुष्कलम् ॥ १६२॥
पूर्वं शम्या कार्या चतुष्कलोऽन्यो भवेत्ततस्तालः ।
शम्या चतुष्कला स्याद्विकलस्तालस्तथा चैव ॥ १६३॥
कार्यस्य सन्निपातोऽपि षट्कलः षट्कलस्तु तालः स्यात् ।
द्विकला च पुनः शम्या चतुष्कलः स्यात्पुनस्तालः ॥ १६४॥
शम्या चतुष्कला स्याद्द्विकलस्तालश्च कर्तव्यः ।
पुनरेव सन्निपातश्च षट्कलः संविधातव्यः ॥ १६५॥
विधिरेष एव कृत्स्नः पुनस्तृतीयेऽपि सन्निपाते तु ।
पुनरेव ?? अङ्गुलिविक्षेपात्सम्प्रवक्ष्यामि ॥ १६६॥
पूर्वं शम्या तथावापो निष्क्रामश्च ततः पुनः ।
विक्षेपोऽथ पुनस्तालः पुनरावाप एव च ॥ १६७॥
अनामिकीकनीयस्यान्नि(स्योर्नि)ष्क्रामश्च पुनस्ततः ।
तभ्यामेव हि विक्षेपः शम्यथो ?? एव च ॥ १६८॥
मध्यमायां ततस्तालो विक्षेपोऽथ प्रवेशनम् ।
आवापश्च पुनः कार्यस्तर्जनीनिष्क्रमः पुनः ॥ १६९॥
विक्षेपश्च पुनः कार्यः सन्निपातस्तथैव व ।
कलाः सप्तदशैवैताः सन्निपातो भवेदयम् ॥ १७०॥
आवापश्च पुनः कार्यः कनीयस्याथ निर्गमः ।
विक्षेपश्च प्रवेशश्च आवापश्च ततः पुनः ॥ १७१॥
अनामिकाकनीयस्योस्ततस्तालो भवेत्पुनः ।
विक्षेपश्च पुनस्ताभ्यां ततः शम्याः प्रकीर्तिताः ॥ १७२॥
आवापस्य कनीयस्यां ततस्तालं नियोजयेत् ।
विक्षेपश्च प्रवेशश्च पुनरावाप एव च ॥ १७३॥
प्रदेशिन्या च निष्क्रामो विक्षेपश्च पुनः स्मृतः ।
सन्निपातः पुनश्चैव चतुर्विंशतिको भवेत् ॥ १७४॥
तृतीयः सन्निपातस्य एष एव विधिः स्मृतः ।
एवं ज्येष्ठस्य विज्ञेयस्तालाङ्गुलिविकल्पितः ॥ १७५॥
प्रथमः षोडशकलश्चतुर्विंशतिकस्तथा ।
द्वितीयश्च तृतीयश्च सन्निपातकलाधिकः ॥ १७६॥
प्रत्येकं पातनान्येषु दल्लाः सप्त भवन्ति हि ।
शम्यातालकृतानीह सन्निपातकृतानि च ॥ १७७॥
?? त्रिसन्निपातं त्रिवस्तु चाप्येवम् ।
सप्तदशपातयुक्तं विद्यादासारितं सम्यक् ॥ १७८॥
आसारितानामित्येवं गदितं लक्षणं मया ।
गीतानां वस्तुकानां च प्रयोगः परिकल्पते ॥ १७९॥
अत ऊर्ध्वं प्रवक्ष्यामि गीतानां वस्तुकेष्वपि ।
विवधैककवृत्तानि त्रीण्यङ्गानि समासतः ॥ १८०॥
एकैकं तु विदार्येका ते तु मद्विविधः स्मृतः ।
षट्परं त्र्यवरं वृत्तं द्व्यङ्गं सहरसं च तत् ॥ १८१॥
विवधैककयोः प्रायो मद्रके तु प्रयोजनम् ।
प्रवर्याश्चापि वस्व(स्त्व)र्धे पादे रोविन्दकस्य च ॥ १८२॥
रोविन्दकोत्तराभ्यां तु वृत्तमुल्लोपके तथा ।
पाणिकायां बहिर्गीता लास्ये वै ?? ॥ १८३॥
प्रवृत्तमवगाढं च द्विविधं सृत्व(वृत्त)मुच्यते ।
आरोहित्वादवगाढं प्रवृत्तमवरोहतः ॥ १८४॥
आरोहणं च द्विविधं तथा चैवावरोहणम् ।
न्यासापन्यासविहितं मार्गान्नटकृतं तथा ॥ १८५॥
त्र्यवरैकादशपरा विदार्यः परिकीर्तिताः ।
चतुर्विंशतिरेतासां प्रणामं परमं स्मृतम् ॥ १८६॥
अध्यर्द्वाद्धि तृतीयाच्च सन्निपाताः प्रमाणतः ।
उल्लोप्यके विदारी तु स्मृता वैहायसे तथा ॥ १८७॥
विवधेन तु तत्कार्यो युग्मवृत्तेन चैव हि ।
न ह्यर्धसन्निपाते तु भवेदङ्गसमापनम् ॥ १८८॥
गीतानि ससमद्रोकोल्लोप्यके च परान्तकम् ।
प्रकर्यो वैणकं चैव रोविन्दकमथोत्तरम् ॥ १८९॥
द्विविधं मद्रकं तत्र चतुर्वस्तु त्रिवस्तु च ।
शीर्षकेण समायुक्तं तच्च ज्ञेयं त्रिवस्तुकम् ॥ १९०॥
पञ्चषट्सप्त तानि स्युः शीर्षकं च परान्तके ।
प्रकर्यामथ चत्वारि स्युस्त्रीण्यर्धाधिकानि च ॥ १९१॥
रोविन्दकं तु सप्ताङ्गे षोडशाङ्गं परं स्मृतम् ।
द्वौ पादौ समवर्णौ तु एकको वात्र कीर्तितौ ॥ १९२॥
प्रवृत्तं विवधं वापि तस्मात्पादौ प्रयोजयेत् ।
सप्ताङ्गं द्वादशाङ्गं वा प्राक्षमोवेणकं बुधैः ॥ १९३॥
तत्र द्व्यन्तं तु सप्ताङ्गं त्र्यन्तं द्वादशकं तथा ।
पादः सन्धिर्माषघातोषजं(सज्जं) सम्पिष्टकं तथा ॥ १९४॥
एककं चतुरस्रं वाप्युपवर्तनमेव च ।
उत(उप)पातः प्रवेणी च द्व्यङ्गं संहरणं तथा ॥ १९५॥
अङ्गानि द्वादशाङ्गस्य स्मृतान्योवेणकस्य च ।
सम्पिष्टकोपपाताभ्यां प्रवेणीभ्यां विवर्जितम् ॥ १९६॥
उपवर्तनहनं च सप्ताङ्गपरिवर्जितम् ।
निवर्तनं तु सप्ताङ्गं तुल्यवर्नपदं स्मृतम् ॥ १९७॥
अन्तयोर्द्वादशाङ्गे तु तथान्यपदमिष्यते ।
उल्लोप्यकेऽपि चाङ्गानामेष एव विधिः स्मृतः ॥ १९८॥
अवगाढप्रवृत्तं च महाजनिकमेव च ।
आगात्तस्यात्तथा द्व्यङ्गो महाजनिकवर्जितः ॥ १९९॥
स्थितिप्रवृत्तं संयोगादेकाङ्गो यापि कीर्त्यते ।
एकाङ्गे संविधातव्यं महाजनिकमेव च ॥ २००॥
द्व्यङ्गं चितप्रवृत्तं वा चैकाङ्गं वापि कीर्तितम् ।
द्व्यङ्गे व्याससमासाभ्यां ध्रुवाधातुविधिः स्मृतः ॥ २०१॥
स्थितं प्रवृत्तं च तथा महाजनिकमेव च ।
त्र्यङ्गोत्त(ङ्गस्तु) स्यादथ द्व्यङ्गो महाजनिकवर्जितः ॥ २०२॥
एकाङ्गोऽपि विधातव्यो महाजनिकसंयुतः ।
एवं व्याससमासाभ्यां बहुधाङ्गविधिः स्मृतः ॥ २०३॥
चतुरस्रस्तथा त्र्यस्रो ?? प्रकीर्तितः ।
उवेणकस्य संहारो द्व्यङ्ग एकङ्ग एव च ॥ २०४॥
नादौ न मध्ये संहारे नित्यं चैव प्रयुज्यते ।
एककं विवधायापि कार्यो ह्यन्ते प्रयोक्तृभिः ॥ २०५॥
उल्लोप्येकं षडवरं शत्यं चैव परं स्मृतम् ।
तच्च संहरणे कार्यं सु(मु)खप्रतिमुखान्वितम् ॥ २०६॥
वैहायसकसंयुक्तं तेनापि च विवर्जितम् ।
त्रिष्वङ्गेष्ववरं ज्ञेयं परं स्याद्द्वादशस्वपि ॥ २०७॥
एकद्व्यङ्गवरं ज्ञेयं वैहायसकमेव च ।
अस्य चाङ्गत्रयेऽतीते प्रयोगमुपपादयेत् ॥ २०८॥
उल्लोप्यकोत्तराभ्यां तु मुखप्रतिमुखे स्मृते ।
ततोऽङ्गानां समासो वा विस्तारो वा विधीयते ॥ २०९॥
मुखप्रतिमुखे चैव ज्ञेये विविधसञ्ज्ञिते ।
वृत्तप्रतिमुखं च स्यादन्या यास्तु समासतः ॥ २१०॥
उल्लोप्यके तथा शाखा सोत्तरो साम्परान्तके ।
प्रतिशाख्या तथा चैव सवर्णान्यपदा स्मृताः ॥ २११॥
उत्तरं द्वादशपरं षडङ्गावरमिष्यते ।
आकारपादहीनेन तुल्यं रोविन्दकेन तु ॥ २१२॥
अन्ते चाथ विशेषेण स्थाप्यमस्य हि शीर्षकम् ।
एवमङ्गविधिः कार्यः सप्तरूपे प्रयोक्तृभिः ॥ २१३॥
अत ऊर्ध्वं प्रवक्ष्यामि गीतानायां सुकल्पनम् ।
गुरुवेदाष्टकं कृत्वा न्यसेल्लघ्वष्टकं पुनः ॥ २१४॥
तत्रोपवहनं कार्यं प्रथमे तु गुरुद्वये ।
गुर्वक्षरे तृतीये तु ततः स्यात्प्रत्युपोहनम् ॥ २१५॥
गुर्वक्षरे चतुर्थे तु शम्या कार्या तु पञ्चमे ।
षष्ठसप्तमयोस्तालः शम्या गुर्वक्षरेऽष्टमे ॥ २१६॥
ततोऽर्धकलिकान्पातान्कुर्याल्लघ्वक्षरेषु च ।
गुर्वक्षरे तालगीतपातास्तु कलिकाः स्मृताः ॥ २१७॥
शम्यातालौ तालशम्ये तेषु कुर्यात्क्रमेण तु ।
तालं शम्यां च तालं च सन्निपातं तथैव च ॥ २१८॥
एवमेककलो ज्ञेयः कलायोगस्तु भद्रके ।
गुरुविश्लेषपादेन द्विकलं परिकीर्तितम् ॥ २१९॥
विशेषेण कलास्तत्र पूर्वं पूर्वं निवेशयेत् ।
द्विकले भद्रके चैव त्रिकलं स्यादुपोहनम् ॥ २२०॥
कलिकं द्विकलं वापि न वा स्यात्प्रत्युपोहनम् ।
द्विकलैर्गुर्वक्षरकृतैः पादभानैर्यथाक्रमम् ॥ २२१॥
चतुर्भिस्तु भवेन्मात्रा त्रिमात्रं वस्तुसञ्ज्ञितम् ।
त्रिवस्तु द्विकलं ज्ञेयं भवेत्पातो विधीयते ॥ २२२॥
गुर्वक्षरेषु ये पाताः शम्यातालदयः स्मृताः ।
त एव पादभागेषु द्विकलेष्वत्र योजयेत् ॥ २२३॥
अष्टमी षोडशी शम्या दशमी च यथाक्रमम् ।
चतुर्दश्यां कलायां तु तान्वेदाद्वादशीयुतम् ॥ २२४॥
लघ्वष्टके पातविधिर्यथापूर्वं प्रकीर्तितः ।
वस्तुत्रयेऽपि द्विकले एवं पातान्प्रयोजयेत्
शीर्षकं चैव कर्तव्यं षट्कलं पञ्चपाणिना ॥ २२५॥
यथा-
क्रंडंक्रंडं(ऋन्दुं ऋन्दुं) शैलेन्द्रराजसंस्थितमीशं शान्तं
शिवं पन्नगेन्द्रपरिबद्धजटम् । मुनिगणनमितं ध्यानाभिरतं
ज्ञानमयं मदनाङ्गहरं विभुं प्रभुं शरणगतोऽहं दैत्यैर्नागैः
संस्तुतमीशं त्वां वेदमयं त्वां कर्तारं त्वां भुवनपतिं
सर्वलोकनमस्कृतम् ऋग्यजुःपतितं गङ्गाधरं शूलधरं
भुजगेन्द्रधरं प्रणतोऽस्मि शिवं मृगराजचर्मपरिबद्धतनुं
विपुलगतिं वृषभगतिं ज्वलनशिखिसदृशकपिलजटं तमहं
नमामि शिवं शिरसा ।
समाप्तं द्विकलमद्रकम्॥
देवं विमलं प्रणतार्तिहरं मायाधरं मायारूपं जटिलं
नमामि शिवं शिरसा ।
शीर्षकं षट्कलं समाप्तम् । द्विकलमद्रकम् ।
चतुष्कलं प्रवक्ष्यामि यथावद्द्विजसत्तमाः ।
चतुष्कलैः पादभाजै(गै)र्यथापूर्वमुदाहृतैः ॥ २२६॥
चतुर्भिस्तु भवेन्मात्रा त्रिमात्रं वस्तुसञ्ज्ञितम् ।
पातांश्चैव प्रवक्ष्यामि पादभागैर्यथाक्रमम् ॥ २२७॥
चतुर्थे पञ्चमे चैव शम्या कार्या तथाष्टके ।
?? द्वितीयां नवमे स्मृता ॥ २२८॥
षष्ठे तु सप्तमे ताला अन्ते च नवमस्य हि ।
दशमैकादशे चैव द्वितीयः समुदाहृतः ॥ २२९॥
आद्यं तु द्वादशे प्रोक्तं सन्निपातो वसानतः ।
एवं पातविधानं स्यात्सर्ववस्तु प्रयोजयेत् ॥ २३०॥
द्विर्भावाद्विकलस्यैवं विज्ञेयं च चतुष्कलम् ।
सप्तमे लघुनि त्वन्त्यो द्विर्भावोऽस्मिन्विधीयते ॥ २३१॥
चतुष्कलोऽत्र विहितः कलाष्टकमुपोहनम् ।
एका द्वे च चतुष्कश्च तथा स्यात्प्रत्युपोहनम् ॥ २३२॥
यथाक्षरस्य कर्तव्यं मद्रकस्य तु शीर्षकम् ।
चतुष्कलः पञ्चपाणिर्द्विकले द्विकल्ः स्मृतः ॥ २३३॥
चतुष्कलस्तु कर्तव्यो मद्रके तु चतुष्कले ।
त्रिवस्तु त्रिप्रमाणं ?? अस्रतालसमुद्भवम् ॥ २३४॥
इत्युक्तं मद्रकं पादैस्त्रयोदशभिरन्वितम् ।
गुर्वक्षराणि चत्वारि चत्वारि स्युर्लघूनि च ॥ २३५॥
तृतीये च चतुर्थे च शम्यातालो लघूष्व(न्य)पि ।
तालं शम्यां च ताले च सन्निपातं च योजयेत् ॥ २३६॥
लघ्वक्षरैककलिकैः पातैः सम्यक्प्रयोजयेत् ।
यथाक्षरं वधेष्वेतद्विज्ञेयं चापरान्तकम् ॥ २३७॥
आदौ कलोपवहनं विश्लेषाद्द्विगुणं भवेत् ।
द्विकले कलिकं ज्ञेयं द्विकलं चाप्युपोहनम् ॥ २३८॥
कलिकं कलिकं चेष्टं तथैव प्रत्युपोहनम् ।
एतदेव द्विगुणितं विज्ञेयं तु चतुष्कलम् ॥ २३९॥
लघ्वक्षरे तृतीये तु द्विर्भावेऽन्त्या कला स्मृता ।
अस्रतलसमुद्भूतं पातैः षड्भिर्विभूषितम् ॥ २४०॥
वस्तुशाखाख्यमित्येतद्गदितं त्वपरान्तकम् ।
यथा शाखा तथैवास्य प्रतिशाखा विधीयते ॥ २४१॥
पश्चिमार्धसमा सा तु तथैवान्यपदा स्मृताः ।
शिरश्चैककलेनापि कर्तव्यं पञ्चपाणिना ॥ २४२॥
वृत्तौ निवृत्तयोगश्च गते वस्तुचतुष्टये ।
शाखायां प्रतिशाखायां विशेषः पश्चिमे त्वयम् ॥ २४३॥
षट्कलापातसंयुक्ते तालिके तु ततः स्मृते ।
तथैककलयुक्तेऽस्ति विधिवत्पञ्चपाणिना ॥ २४४॥
यथाक्षरेणैव भवेदयनोरुपवर्तनम् ।
उपोहनं तु वस्त्वर्धं द्विकलं प्रत्युपोहनम् ॥ २४५॥
दक्षिने तु तथा वृत्तौ चतुष्कलमपीष्यते ।
उल्लोप्यकं तु द्विगुरु द्विलघ्वन्ते गुरुर्यथा ॥ २४६॥
शम्यातालौ द्विरभ्यस्तौ सन्निपातोऽन्त्य एव च ।
प्रत्यक्षरकृतैः पातैः पञ्चभिः समलङ्कृतम् ॥ २४७॥
चतुरस्रस्तु विच्छेदमेवं ज्ञेयं यथाक्षरम् ।
पूर्वोक्तेन विधानेन द्विचतुष्कलमुष्यते ॥ २४८॥
अस्य चाङ्गत्रये गीते वैहायसकमिष्यते ।
तदेकाङ्गपरं ज्ञेयं द्वादशाङ्गपरं तथा ॥ २४९॥
प्रमाणं द्वादशकलं तथापातमथापि च ।
अस्य तु द्विकला शम्या कालश्च द्विकलस्ततः ॥ २५०॥
द्विकलाश्च पुनः शम्या(स्)तालश्चैककलः स्मृतः ।
ततः शम्या ततस्तालः सन्निपातस्ततः परम् ॥ २५१॥
?? तु स्यादित्थमन्यपदा स्मृता ।
यद यस्य भवेदन्तस्तदन्ताहरणं बुधैः ॥ २५२॥
यथाक्षरेण नियमात्संहार्यं पञ्चपाणिना ।
स्वतालेनाथ हीनस्य संहारः परिकीर्त्यते ॥ २५३॥
द्विप्रकारनिवृत्तश्च त्र्यंशोऽथ त्रिविधस्तथा ।
त्र्यस्रश्च चतुरस्रश्च मिश्रश्चापि प्रकीर्तितः ॥ २५४॥
स्थितप्रवृत्ते तस्याङ्गे महाजनिकमेव च ।
स्यात्पञ्चपाणितालेन तदन्ताहरणं यदा ॥ २५५॥
तदा स्थितं भवेद्युग्मं तस्य पातविधिस्त्वयम् ।
शम्यापि द्विकला कार्या तालोऽपि द्विकलः स्मृतः ॥ २५६॥
चतुष्कलः सन्निपातः प्रवृत्तमत इष्यते ।
अस्य तु द्विकला शम्या तथैवैककला पुनः ॥ २५७॥
चञ्चत्पुटश्च तालादिः सन्निपातस्ततः परम् ।
स्थितं तालेन कर्तव्यं महाजनिकमस्य तु ॥ २५८॥
निवृत्ततालः कर्तव्यः प्रवृत्तस्यापि तत्त्वतः ।
अत्र तालविधिः श्रेष्ठः प्रायः समुपवर्तनम् ॥ २५९॥
आप्तमुद्धटकः कार्यः परिवर्तक एव च ।
युग्मे हि मिश्रतालत्वाद्युग्मे ह्यन्तः प्रयुज्यते ॥ २६०॥
विविधैककसंयुक्तपूर्वं पश्चाद्विधः स्मृतः ।
यथावदन्ततालोऽयं युग्मो मिश्रश्च कीर्तितः ॥ २६१॥
अतः परं प्रवक्ष्यामि त्र्यस्रतालविधिं प्रति ।
शम्या तु द्विकला पूर्वं ततस्तालो विधीयते ॥ २६२॥
त्रिकलः सन्निपातश्च प्रवृत्तं वाप्यतः परम् ।
प्रवृत्तमस्य कर्तव्यं यथावत्परिवर्तनम् ॥ २६३॥
यथा करप्रवृत्तेन विधिवत्पञ्चपाणिना ।
?? स्थिततलेन् महाजनिकमिष्यते ॥ २६४॥
निवृत्ततालः कर्तव्यस्तथात्र विनिवृत्तिमान् ।
युग्मौजमिश्रतालत्वान्मिश्रोऽप्यन्तः प्रवर्तनम् ॥ २६५॥
विवधैककसंयुक्तः सर्वश्चान्तविधेः स्मृतः ।
द्व्यङ्गमेकाङ्गमपि वा स्थितं कार्यं समासतः ॥ २६६॥
तत्र युग्मं भवेद्द्व्यङ्गं ?? च ।
प्रवृत्तमपि विज्ञेयं द्व्यङ्गमेकाङ्गमेव वा ॥ २६७॥
महाजनिकमेकाङ्गं द्व्यङ्गं संहरणं भवेत् ।
स्थितादिकः प्रवृत्ताङ्ग एवमन्तर्विधं बुधैः ॥ २६८॥
उल्लोप्यके सदा योज्य ऊहापोहविशारदैः ।
?? पाताश्चैकान्नविंशतिः ॥ २६९॥
वस्तुप्रमाणं कर्तव्यं तथैव च चतुष्कलम् ।
आद्यमात्राद्वयस्यान्तः शम्यातालान्वितो भवेत् ॥ २७०॥
मात्रात्रयस्य चान्यस्य शम्यैका तु ततः स्मृता ।
चतुर्थ्यां द्वादशस्तालः पञ्चम्यां चाष्टमः स्मृतः ॥ २७१॥
षष्ठ्यां तु द्विकला शम्या तालश्च द्विकलो भवेत् ।
पुनश्च द्विकलस्तालः शम्या च द्विकला पुनः ॥ २७२॥
शम्यातालश्च तु ?? शम्या तालस्तथैव च ।
शम्यातालसन्निपात इति वस्तु प्रकीर्तितम् ॥ २७३॥
यदा त्वर्धचतुर्थानि वस्तूनि प्रकरी भवेत् ।
पश्चिमार्धं तदस्यैव तदर्थं प्राग्निवेशयेत् ॥ २७४॥
कनिष्ठासारितेनास्य कार्यं संहरणं ततः ।
पादः पूर्वसमः कार्यस्त्वपरान्तकशाखया ॥ २७५॥
उवेणके द्वितीयोऽपि तस्यैव प्रतिशाखया ।
अनित्यः ?? तालो माषघातस्ततः परम् ॥ २७६॥
माषघातो द्वादशकलस्तस्य पातविधिः स्व(स्त्व)यम् ।
कर्तव्या द्विकला शम्या तालो द्विकल एव च ॥ २७७॥
पुनश्च द्विकलस्तालः शम्या च द्विकला पुनः ।
ततश्चैककलस्तालसन्निपातः कलात्रये ॥ २७८॥
प्रायेण माषघातश्च विवधाङ्गः प्रकीर्तितः ।
सन्निपातश्च पश्चार्धः कदाचिदुपवर्तनम् ॥ २७९॥
तस्य स्यात्कलिकेनैव तच्चोघं पञ्चपाणिना ।
सन्धिर्यथाक्षरेणैव कर्तव्यः पञ्चपाणिना ॥ २८०॥
एककं विवधो वापि तस्याङ्गं समुदाहृतम् ।
अन्यस्य चतुरस्रस्य प्रवृत्तो यो विधिः स्मृतः ॥ २८१॥
विवधाङ्गेन तेनैव चतुरस्रकमिष्यते ।
सन्धिवद्वज्रतालश्च द्विधा सम्पिष्टकं स्मृतम् ॥ २८२॥
सप्ताङ्गं द्वादशकलं द्वादशाङ्गे तथैव च ।
निष्क्राममादितः कृत्वा शम्यास्तिस्रः प्रयोजयेत् ॥ २८३॥
तालत्रयं ततश्चैव शम्यातालौ ततः परम् ।
शम्यातालौ ततः कार्यौ सन्निपातोऽन्त्य एव च ॥ २८४॥
तुवेणके तु सप्ताङ्गे सम्पिष्टकमिदं स्मृतम् ।
द्विशम्यातालयोगेन द्वादषाङ्गेऽपि चेष्यते ॥ २८५॥
पाता नवैकादश वा सम्पिष्टकमुदाहृतम् ।
वज्रवस्त्रं प्रयोक्तव्यमुपवर्तनमेव च ॥ २८६॥
युक्तविवधवृत्ताभ्यां प्रवेणी द्विविधा स्मृता ।
पञ्चपाणिः प्रकर्तव्या प्रवेण्या तु यथाक्षरा ॥ २८७॥
द्विकलो वापि मिश्रो वा प्रयोगोऽङ्गवशानुगः ।
अन्ते वास्याः प्रकर्तव्यः कदाचिदुपवर्तनम् ॥ २८८॥
पञ्चपाणिविधानेन यथोक्तेनैव तद्भवेत् ।
द्वितीयपाततालेन ह्यपपातश्च कीर्त्यते ॥ २८९॥
वज्रतालेन कर्तव्यं क्रमं संहरणस्य तु ।
रोविन्दके तु षण्मत्राः पाताश्चैकान्नविंशतिः ॥ २९०॥
?? मात्राणां पञ्चानां पात इष्यते ।
तालः शम्यार्धतालश्च शम्यातालस्तथैव च ॥ २९१॥
पञ्चानामपि मात्राणां विधिरेष यथाक्रमम् ।
चतुर्दशोऽपि पञ्चम्या मात्रायास्ताल इष्यते ॥ २९२॥
?? तु या तुल्या षष्ठी मद्रकमात्रया ।
इति पादस्तथाष्टौ च कलापादादुपोहनम् ॥ २९३॥
ततश्चैव प्रयोक्तव्यं द्विकलं प्रत्युपोहनम् ।
घातश्चेत्सन्निपातश्च विवधैकप्रयोजिताः ॥ २९४॥
वर्णानुकर्षोऽष्टकलः स्वल्पः प्रस्तार इष्यते ।
तुल्यवर्णोपनहनो द्वितीयः पाद इष्यते ॥ २९५॥
शरीरतालकर्तव्यः प्रकारोऽपि विशेषतः ।
द्विकलेनैव कर्तव्यो विशेषात्पञ्चपाणिना ॥ २९६॥
कला द्वादश निर्दिष्टं प्रमाणं चास्य तत्त्वतः ।
रोविन्दकशरीरं तु षट्कलोपोहनं स्मृतम् ॥ २९७॥
विवधं वापि वृत्तं वा तस्यादौ परिकीर्तिता ।
आकारवृत्तपरुषोऽत्र ?? ॥ २९८॥
?? त्रिवाक्यं स्याच्चतुर्वाक्यं गता स्मृता ।
कार्यं तथा निर्वहणं प्रत्येकं परिधानके ॥ २९९॥
इत्येतत्प्रथमं त्वङ्गं लास्ये गेयपदं स्मृतम् ।
स्थितपादस्य वक्ष्यामि विधानं चाप्यतः परम् ॥ ३००॥
वृत्तमेकप्रथमे द्वे योजयेत्पञ्चपाणिना ।
ततः परं ते भूयोऽपि युग्मतालेन वा स्मृते ॥ ३०१॥
अवसानं तु कर्तव्यं त्वरितं पञ्चपाणिना ।
द्विकलेनेति कर्तव्यं स्थितपाठ्यं प्रयोक्तृभिः ॥ ३०२॥
उपोह्य तालं त्र्यस्रं वा वृत्त्या तैस्तैः समैस्तथा ।
आसीनपाद्यं युञ्जीत सर्वभवैस्तु पौरुषैः ॥ ३०३॥
एवं चतुर्भिः पादैस्तु समैरर्थवशानुगैः ।
आसीनपाद्यं कर्तव्यं विधिवत्पञ्चपाणिना ॥ ३०४॥
अतीतयुग्मतलेन श्लोकः कार्यस्ततः परम् ।
अष्टादश द्वादश वा पदानि तु ततः पुनः ॥ ३०५॥
?? त्तरतालेन ताले निर्वहणं बुधः ।
एतदासीनपादस्य विधानं परिकीर्तितम् ॥ ३०६॥
स्यात्पुष्पगण्डिका नाम यदङ्गं तन्निबोधत ।
तत्रैकं पौरुषं श्लोकं समवृत्तं प्रयोजयेत् ॥ ३०७॥
चतुर्भिः सन्निपातैश्च ज्ञेयं चन्चूपुटाश्रयम् ।
पादे पादे तथेष्टं च वाद्यं नृत्यं तथैव च ॥ ३०८॥
ततश्चान्ये स्मृतं वृत्ते खञ्जनर्कुटसञ्ज्ञिते ।
अन्ते निर्वहणे चास्य शीर्षकं पञ्चपाणिना ॥ ३०९॥
आविद्धशर्याङ्गहारैरुद्धतैस्तत्प्रयोजयेत् ।
ज्योत्स्नायां मन्दिरायां वा सलिले दर्पणेऽपि वा ॥ ३१० ।
छायासदृशकान्तस्य प्रहर्ष्यथ विभूषितम् ।
नृत्यं प्रसादक्रीडायां हेलादिभिरलङ्कृतम् ॥ ३११॥
अङ्गप्रस्वेदकं तत्राविन्द्याल्लास्यं प्रयोगवित् ।
चञ्चत्पुटस्य तालेन तस्य प्रक्रीडितं भवेत् ॥ ३१२॥
मात्रावृत्तसमैः पादैः श्लोकबन्धो भवेदथ ।
बह्वक्षरार्थसंयुक्तं तोटकं पञ्चपाणिना ॥ ३१३॥
द्विकलेन प्रकर्त्व्यं मिश्रेणैककलेन वा ।
प्ररोचकं च कर्तव्यं गुरुप्रायोक्षरान्वितम् ॥ ३१४॥
यथाक्षरेण त्र्यस्रेण सन्निपातैस्तथाष्टभिः ।
विवधैककसंयुक्तं कैशिकीजातिमाश्रिता ॥ ३१५॥
त्र्यङ्गविच्छेदकं विन्द्याद्युक्तं प्रक्रीडितादिभिः ।
अनिष्ठुरश्लक्ष्णपदं गान्धारीजातिमाश्रितम् ॥ ३१६॥
चञ्चत्पुटेन योक्तव्यं ?? कलेन तु ।
चतुःषष्टिः सन्निपातास्तस्मिंश्चैव प्रकीर्तिताः ॥ ३१७॥
यथा मार्गकलोपेता विदारी विवधान्वितः ।
अङ्गहारान्सविष्कम्भान्नैव चात्र प्रयोजयेत् ॥ ३१८॥
केवलं पौरुषैर्भावैर्वाक्यं नाम्नापि तेन यत् ।
नर्कुटं खञ्जकं चैव त्रिविधं न प्रयोजयेत् ॥ ३१९॥
सैन्धवीमाश्रितं भाषां ज्ञेयं सैन्धवकं बुधैः ।
रूपवाद्यादिसंयुक्तं युग्मतालकृतं तथा ॥ ३२०॥
वितस्तालिप्तमार्गेण सैन्धवं वाद्यमिष्यते ।
न पाठ्यं स्वल्पमप्यत्र प्रकुर्वीत विचक्षणः ॥ ३२१॥
मुखप्रतिमुखोपेतं तथा चञ्चूपुटाश्रयम् ।
यथाक्षरैः सन्निपातैस्तथा द्वादशभिर्युतम् ॥ ३२२॥
नेकयुक्तिविचित्रार्थं पौरुषं भावमिश्रितम् ।
एकाङ्गशीर्षकं गत्या द्विभूषं परिकीर्तितम् ॥ ३२३॥
उत्तमोत्तमके त्वादौ नर्कुटं सम्प्रयोजयेत् ।
स्तोकं विचित्रार्थपदं तथा चैवोपपादयेत् ॥ ३२४॥
ततश्च वस्तुकं कार्यमपरान्तकशाखया ।
यथाक्षरेण कार्यं तु शीर्षकं पञ्चपाणिना ॥ ३२५॥
उत्तमोत्तमकं प्रोक्तं हेलानृत्यविभूषितम् ।
कोपप्रसादबहुलं सविक्षेपैरुपक्रमैः ॥ ३२६॥
संलापरचितैर्नित्यमुक्तप्रत्युक्तमिष्यते ।
वज्रार्धेन प्रकर्यास्तु तस्य तालविधिः स्मृतः ॥ ३२७॥
ततस्तु शीर्षकं कार्यं संयुक्तं पञ्चपाणिना ।
उक्तप्रत्युक्तमेवं हि यथोक्तं परिकीर्तितम् ॥ ३२८॥
एवमेतद्बुधैर्ज्ञेयं माणं तालप्रमाणतः ।
तद्गाथापाणिकादीनां सप्तरूपं प्रकीर्तितम् ॥ ३२९॥
यस्तु तालं न जानाति न स ?? न वादकः ।
तस्मात्सर्वप्रयत्नेन कार्यं तालावधारणम् ॥ ३३०॥
अङ्गभूता हि तालस्य यतिपाणिलयाः स्मृताः ।
त्रयो लयास्तु विज्ञेया द्रुतमध्यविलम्बिते ॥ ३३१॥
छन्दोक्षरपदानां हि समत्वं यत्प्रकीर्तितम् ।
कलाकलान्तरकृतः स लयो मानसञ्ज्ञितः ॥ ३३२॥
श्रोतोगता च गोपुच्छा ?? चात्र विधाय च ।
?? भृत्यवर्णानामक्षराणामथापि वा ॥ ३३३॥
?? ?? यतिः स्यात्तु गीतवाद्यसमाश्रयः ।
समपाणिश्च विज्ञेयो ह्यवपाणिस्तथैव च ॥ ३३४॥
तथैवोपरिपाणिश्च गीतवाद्यसमाश्रयः ।
लये नयं समं वाद्यं समपाणिः प्रकीर्त्यते ॥ ३३५॥
ब्रुवाद्यदवकृष्टं स्यात्सोऽर्धपाणिः प्रकीर्तितः ।
लयस्योपरि यद्वाद्यं पाणिः स उपकीर्त्यते ॥ ३३६॥
ततः स्थितलयो यो वै सन्निपातो विधीयते ।
स तु मध्यलयप्राप्य सन्निपातद्वयं भवेत् ॥ ३३७॥
रुतं चापि लयं प्राप्य सन्निपातचतुष्टयम् ।
यावत्तत्रान्तरकृता द्रुतमध्यलयो हि सः ॥ ३३८॥
सोऽर्धपाणिस्तु विज्ञेयास्त्वन्यैर्द्रुतलयाश्रयाः ।
अत ऊर्ध्वं प्रमाणं तु कलानां न विधीयते ॥ ३३९॥
इति भारतीये नाट्यशास्त्रे तालविधानो नामाध्याय एकत्रिंशः ।