नाट्यशास्त्रम् अध्याय ३२

नाट्यशास्त्रम् अध्याय ३२

अथ द्वात्रिंशोऽध्यायः । ध्रुवासञ्ज्ञानि यानि स्युर्नारदप्रमुखैर्द्विजैः । गीताङ्गानि तु सर्वाणि विनियुक्तान्यनेकशः ॥ १॥ या ऋचः पाणिका गाथाः सप्तरूपाङ्ग एव च । सप्तरूपप्रमाणं हि तद्ध्रुवेत्यभिसञ्ज्ञिमम् ॥ २॥ एभ्यस्त्वङ्गान्यथोद्धृत्य नानाच्छन्दःकृतानि तु । ध्रुवात्वं यानि गच्छन्ति तानि वक्ष्याम्यहं पुनः ॥ ३॥ मुखं प्रतिमुखं चैव वैहायसकमेव तु । स्थितप्रवृत्ते वज्रं च सन्धिः संहरणं तथा ॥ ४॥ प्रस्तारो माषघातः स्यादुपर्वतनमेव च । उपघातः प्रवेणी च चतुरश्रं सुशीर्षकम् ॥ ५॥ सम्पिष्टमन्ताहरणं माहाजनिकमेव च । ध्रुवाणामङ्गसञ्ज्ञानि पञ्चानामपि नित्यशः ॥ ६॥ एकवस्तु ध्रुवा ज्ञेया द्विवस्तु परिगीतिका । त्रिवस्तु मद्र कं ज्ञेयं चतुर्वस्तु चतुष्पदा ॥ ७॥ ध्रुवावर्णास्त्वलङ्कारा यतयः पाणयो लयाः । ध्रुवमन्योन्यसम्बद्धा यस्माद् तस्मात् ध्रुवाः स्मृताः ॥ ८॥ ध्रुवास्तु पञ्च विज्ञेया नानासंस्थानसंश्रयाः । एतासां सम्प्रवक्ष्यामि सप्तरूपाङ्गकारणम् ॥ ९॥ उपवृत्तं प्रवृत्तं च प्रावेशिक्यां प्रकीर्त्यते । वज्रं च शीर्षकं चैव शीर्षिकायां विनिर्दिशेत् ॥ १०॥ प्रस्वारो माषघातश्च माहाजनिकमेव च । प्रवेणी ह्युपपातश्च अड्डितायामथापि च ॥ ११॥ मुखप्रतिमुखोपेता ह्यवकृष्टा विधीयते । वैहायसान्ताहरणे स्थितायां सम्प्रकीर्त्यते ॥ १२॥ संहारश्चतुरश्रश्च नकुटे खञ्जके तथा । सन्धिः प्रस्वारसंयुक्ता अन्तरायां स्मृता तथा ॥ १३॥ यान्यङ्गानि कलाश्चैव गीतकान्तर्गतानि तु । तानि छन्दोगतैर्वृत्तैर्विभाव्यन्ते ध्रुवास्वथ ॥ १४॥ त्र्! यश्रश्च चतुरश्रश्च तालः कार्यो ध्रुवात्मकः । षट्कलोऽष्टकलश्चैव यस्तु पूर्वं प्रकीर्तितः ॥ १५॥ पूर्वेषामेव गीतानां यान्यङ्गानि स्मृतान्यथ । तेषां वृत्तविधौ कार्यमेककं विवधोऽथवा ॥ १६॥ एककं तु विदार्येको ते चोभे विवधः स्मृतः षट्परं त्र्! यवरं वाऽपि विदार्या वृत्तमिष्यते । पदवर्णसमाप्तिस्तु विदारीत्यभिसञ्ज्ञिता ॥ १७॥ एतेषां चापि वक्ष्यामि विधिं प्रकृतिसम्भवम् ज्येष्ठानां वृत्तसंयुक्तं कुर्यादादौ तथैव च । विवधं चैव मध्यानां नीचानामेककं तथा ॥ १८॥ त्र्! यश्रं वा चतुरश्रं वा योगं ज्ञात्वा प्रयोगजम् । तेन प्रमाणयोगेन ध्रुवा कार्याऽवसानिकी ॥ १९॥ गायत्र्! याश्चापि शक्वर्याश्चान्तरे वा व्यवस्थिता । तेन पादप्रमाणेन ध्रुवा कार्याऽवसानिकी ॥ २०॥ शक्वर्याश्चाति कृत्याश्च येऽन्तरे चावसानिकी । तेषां मात्रार्धविहिता ध्रुवा पादमया स्मृता ॥ २१॥ यतिच्छन्दोविधानेन गुरुलघ्वक्षरान्वितः । कार्यो मात्राप्रमाणेन ध्रुवापादोऽवसानिकः ॥ २२॥ मध्यमोत्तमयोः कार्या चतुरश्रावसानिकी । मध्याधमानां कर्तव्या त्र्! यश्रा चैवावसानिकी ॥ २३॥ अथ पूर्णपदी या तु तस्या वृत्तं प्रवेशजम् । तत्रेष्टवृत्तप्रामाण्याद्ध्रुवा कार्या प्रमाणतः ॥ २४॥ ध्रुवास्तु पञ्च विज्ञेया नानावृत्तसमुद्भवाः । यथास्थानरसोपेता ह्युत्तमाधममध्यमाः ॥ २५॥ कनीयसीग्रहा काचित् सन्निपातग्रहाऽपरा । तथाऽऽकाशग्रहा काचित्त्रिविधा तु ध्रुवा स्मृता ॥ २६॥ प्रावेशिकी तु प्रथमा द्वितीयाऽक्षेपिकी स्मृता प्रासाधिकी तृतीया च चतुर्थी चान्तरा ध्रुवा निष्क्रामिकी च विज्ञेया पञ्चमी वृत्तकर्मणि आसामेव प्रवक्ष्यामि छन्दोवृत्तसमन्वितम् गान्धर्वं यन् मया प्रोक्तं स्वरतालपदात्मकम् । पदं तस्य भवेद्वस्तु स्वरतालानुभावकम् ॥ २७॥ यत्स्यादक्षरसम्बद्धं तत्सर्वं पदसञ्ज्ञितम् । निबद्धं चानिबद्धं च येन तेन द्विधा स्मृतम् ॥ २८॥ अतालं च सतालं च द्विप्रकारं तदुच्यते । सतालं च ध्रुवाऽर्थेषु निबद्धं सर्वसाधकम् ॥ २९॥ यत्तु बाक्करणोपेतं सर्वातोद्यानुरञ्जकम् । अतालेन निबद्धं च पदतालं प्रकीर्तितम् ॥ ३०॥ नियताक्षरसम्बद्धं छन्दोयतिसमन्वितम् । निबद्धं तु पदं ज्ञेयं सतालपतनाक्षरम् ॥ ३१॥ अनिबद्धाक्षराणि स्युर्यान्य जातिकृतानि तु । आतोद्यकरणैस्तेषां विधानमभिनिर्मितम् ॥ ३२॥ अपदान्यनिबद्धानि तालेन रहितानि तु । आतोद्येषु नियुक्तानि तानि तानि तु रञ्जयेत् ॥ ३३॥ यानि चैवं निबद्धानि छन्दोवृत्तविधानतः । ध्रुवारूपाणि पूर्वाणि तानि वक्ष्यामि तत्त्वतः ॥ ३४॥ अत्युक्तं च प्रतिष्ठं च मध्यं गायत्रमेव च । एताः स्थितावकृष्टास्तु त्र्! यस्रा ज्ञेयास्तु जातयः ॥ ३५॥ उष्णिगनुष्टुब्बृहती पङ्क्तिश्चेतीह जातयः । एताः प्रासादिकीनां तु त्र्! यश्रा ज्ञेया यथाक्रमम् ॥ ३६॥ अनुष्टुब्बृहती चैव जगत्यथ विलम्बिता ध्रुता च चपला चैवमुद्गता कृतिरेव च । ध्रुवाणां जातयो ह्येताः प्रयोगेषु प्रकीर्तिताः ॥ ३७॥ प्रावेशिकीनां जातीनामुद्घतानां निबोधत पङ्क्तिस्त्रिष्टुप्सजगती तथाऽतिजगती पुनः । शक्वरी चेति निर्दिष्टा उद्घतानां तु जातयः ॥ ३८॥ सर्वासामेव जातीनां त्रिविधं वृत्तमुच्यते । गुरुप्रायं लघुप्रायं गुरुलघ्वक्षरं तथा ॥ ३९॥ गुरुप्रायाऽवकृष्टा स्याल्लघुप्राया द्रुता तथा । गुरुलघ्वक्षरप्रायाः शेषाः कार्या ध्रुवास्तथा ॥ ४०॥ वृत्तान्योजकृतानि स्युर्दुःखे यानि भवन्ति हि । तानि द्रुतासु योज्यानि लघुयुग्मकृतानि तु ॥ ४१॥ यानि चाल्पाक्षराणि स्युरल्पच्छन्दःकृतानि तु । तानि स्थितावकृष्टासु कार्या ह्याक्षेपिकीषु च ॥ ४२॥ गुर्वादिस्तु गुरुः कार्यो लघ्वादिश्च लघुस्तथा ये त्वोजच्छन्दसां युक्ता ज्ञेया ते क्षेपिकी तथा यान्योजयुग्मछन्दांसि ज्ञेयान्याक्षेपिकी तथा । लघुयुग्मकृता याऽस्या स्थिता साऽऽक्षेपिकी भवेत् ॥ ४३॥ विषमांशाक्षराणि स्युः पदैरर्थवशानुगाः । शम्यातालेन ता योज्या वर्णेनाकर्षितेन तु ॥ ४५॥ जातीनां त्वथ सर्वासां छन्दोऽवृत्तनिदर्शनम् । स्थानप्रमाणसञ्ज्ञाभिर्गदतो मे निबोधत ॥ ४६॥ गुरुर्गाथांशको यत्स्यात्सर्वपादेषु दृश्यते । श्रीरिति ख्यातनामा सा कीर्तिता प्रथमा ध्रुवा ॥ ४७॥ यथा । देवं शर्वमीशं वन्दे ॥ ४८॥ मध्यलघुनाथ विद्युत्पादे पादे समं विभक्तेन । आदिलघुना धृतिः स्याद्गणेन योज्या हि मात्रेण ॥ ४९॥ यथा । शङ्करः शूलधृत् पातु मां लोककृत् ॥ ५०॥ लघुः स्यात् पदादौ त्रिके या धृतिः सा ॥ ५१॥ यथा । उमेशः सुरेन्द्र स्तवायुः करोतु ॥ ५२॥ लघुनि गुरु वा कथिता रजनी ॥ ५३॥ यथा । विरहे मदनः अधिकं दहति ॥ ५४॥ एता नृत्ते च गीते च ज्ञेया वै गीतजातयः । प्रतिष्ठासुप्रतिष्ठाभ्यां भूयो वक्ष्यामि लक्षणम् ॥ ५५॥ द्वितीयं लघु सर्वत्र चतुर्णां यत्र दृश्यते । सा प्रतिष्ठा बुधैर्ज्ञेया सुप्रतिष्ठा द्वयेन तु ॥ ५६॥ प्रतिष्ठा यथा । सोसान्तो अङ्गआइं वादि वादो पुप्फवाही ॥ ५७॥ सुप्रतिष्ठा यथा । एदिसुए ऊसैआ अज्जैं मां हंसवहू ॥ ५८॥ लघुनी प्राग् गुरुणी द्वे यदि पादे भ्रमरी सा ॥ ५९॥ यथा । वनसण्डे अदिमत्तो वणहत्थी परिखिण्णो ॥ ६०॥ प्रथमं च तृतीयं च यस्याः स्याच्चतुरक्षरे । पादे लघ्वक्षरे नित्यं सा जयेत्यभिसञ्ज्ञिता ॥ ६१॥ यथा । हिमाहए वणन्तरे आं गओ पविण्णओ ॥ ६२॥ चतुर्णां यत्र पादानां तृतीयं च भवेल्लघु । विज्ञेया सुप्रयोगज्ञैर्विजया नाम नाप्नतः ॥ ६३॥ यथा । मारुल्लवो नज्जन्तओ मेहागमे सम्बद्दओ ॥ ६४॥ पादे पादे तु स्यात् सर्वैर्दीर्घैर्वृत्तेऽस्मिन् दृष्टा विद्युद्भान्ता ॥ ६५॥ मेहा गज्जन्ता लोअं छादन्तो तोयं मुञ्चन्ता सम्पत्ता मेहा ॥ ६६॥ आद्यप्रे द्वे यत्र तु ह्रस्वे ना खलु नाम्ना भूतलतन्वी ॥ ६७॥ यथा । मेहणिरुद्धं पेक्खिअ चन्द्रं सोऐ तारा अंसुकिलिण्णा ॥ ६८॥ यदि च गुरुः पदनिधने भवति हि सा कमलमुखी ॥ ६९॥ यथा । पवनहदो सलिलघणो भमै णहे उवफमसो ॥ ७०॥ प्रथमं च तृतीयं च त्वन्तं चैव यदा गुरु । दृश्यते प्रतिपादं तु सा ज्ञेया वागुरा यथा ॥ ७१॥ मेहणिरुद्धओ णट्ठजोह्णओ णिच्चणिप्पहो एस चन्दओ ॥ ७२॥ द्वितीयं नैधनं यत्र दीर्घाणि सर्वतः । सुप्रतिष्ठाकृते पादे शिखा ज्ञेया तु सा यथा ॥ ७३॥ वळाहएहिं पगज्जिदेहिं णहं समन्ता परुण्ण अंव ॥ ७४॥ लघुनि त्वादौ चरणे यस्या गदिता नाम्ना घनपङ्क्ति सा ॥ ७५॥ यथा । तडिसङ्खुद्धं स्वसम्बद्धं जलधाराहिं रुददीवब्भम् ॥ ७६॥ एतास्तु जातयो ज्ञेया सुप्रतिष्ठाध्रुवास्वथ । अत ऊर्ध्वं प्रवक्ष्यामि गायत्रीपरिकल्पनम् ॥ ७७॥ आद्ये पुनरन्त्ये पादे गुरुणी चेत् । ज्ञेया तनुमध्या गायत्रसमुत्था ॥ ७८॥ यथा । वज्जाहाकूटो धाउज्झरसोत्तो एसो गिरिरओ भूमिंविपतदीव ॥ ७९॥ आद्यं चतुर्थमन्त्यं च गुरूण्येतानि यस्य तु । गायत्र्! यधिकृते पादे ज्ञेया सा मालिनी यथा ॥ ८०॥ दीसदि पुण्णओ पुब्ददिसामुहे । जोह्ला समागओ पुण्णिमचन्दओ ॥ ८१॥ गुरुयुगमन्ते यदि परमस्या इह कथिता सा मकरकशीर्षा ॥ ८२॥ यथा । इह सिसिरम्मि मदजणणम्मि पमदवणम्मि विलसदि वादो ॥ ८३॥ लघुनी चतुर्थं चरणे तु यस्याः । भवतीह सा वै विमला तु नाम्ना ॥ ८४॥ कमलाअरेसुं भमरोणदेसुं सम सुद्धवत्ती विहआणवमत्ती ॥ ८५॥ यस्याःस्युश्चरणे त्रीण्यादौ निधनम् । दीर्घाणीह तु सा वीची नाम ॥ ८६॥ यथा । गज्ज्रन्तो जलदा णच्चन्ते सिहिणो गायन्ते भमरा रम्मे पाडसए ॥ ८७॥ त्रिलघुरादितो यदि च पञ्चमं भवति पादतः प्रकथिता गिरा ॥ ८८॥ यथा । जलदनादां सुणिअ कुञ्जरो णददि काणणे वडिगआउरो ॥ ८९॥ आद्ये चतुर्थकमन्त्ये तथा गुरु । यस्यास्तु पादतो ज्ञेया हि सा जला ॥ ९०॥ यथा एसा हि वाउणा विक्खित्तमुत्तां । दट्ढूण पादवं हंसी परुण्णिआ ॥ ९१॥ त्रीण्यादौ यदि स्युरन्ते द्वे च दीर्घे । ज्ञेया सा विधिज्ञैर्नाम्ना द्वे सुनन्दा ॥ ९२॥ यथा एदे गज्जमाणा अब्भं छादयन्ता । भीमा काळमेहा उव्वेदं जणन्ति ॥ ९३॥ आद्यं चतुर्थे च त्वन्त्यमुपान्त्यं च । यत्र गुरूणि स्युः सुललिता ज्ञेया ॥ ९४॥ यथा साह सुसब्भावं किंसि पिह कुद्धा । मा चिरसम्बद्धं पेच्छसि सब्भावम् ॥ ९५॥ लघुनी गुरु च द्विगुणं यदि चेच्चरणे चरणे कथिता नलिनी ॥ ९६॥ यथा । पवणाहतका तरुणा तरओ कुसुमागमए विअसन्ति विअ ॥ ९७॥ त्रीण्यादौ तु यदि चान्त्यं चाऽपि गुरु नाम्ना वै कथिता पङ्क्तिः सा तु यथा यथा एषा हंसवहू विद्धा काणणदो कान्तं सङ्गहुवा गन्तुं उत्सहिआ स्याद् द्वितीयं ह्रस्वं सर्वमन्त्यं दीर्घम् । यत्र पादे पादे नीलतोया वै सा ॥ ९८॥ यथा मेहवुन्दं वादो विक्खिरन्तो वादि । दूसहो आवादि पादवाणं लासो ॥ ९९॥ गायत्र्! या जातयो ह्येता विज्ञेयाः समवृत्तजाः । अत ऊर्ध्वं प्रवक्ष्यामि उष्णिग्जातिविकल्पनम् ॥ १००॥ गुरु निधनगतं यदि भवति सदा । भवति हि चपला द्रुतगतिरपि सा ॥ १०१॥ यथा सुरुचिरनयणं तव वाणमिदम् । रमणि रतिकरं मम मदजणणम् ॥ १०२॥ तृतीयं पञ्चमं चैव गुरुर्यत्र तु नैधनम् । सदा तूष्णिक्कृते पादे तन्वी सा नामतो यथा ॥ १०३॥ यथा पिअवादिवादओ सुवसन्त काळए । पिअकामुओ विअ मदणं जणेतओ ॥ १०४॥ गुरुणा लघुना चैव समं नीता तु या ध्रुवा । छन्दस्युष्णिहि वृत्तज्ञैर्विज्ञेया कामिनी यथा ॥ १०५॥ आद्यमन्तपञ्चमे स्यात्तृतीयमेव च । पादतो गुरूणि वै यस्य सा शिखा तु वा ॥ १०६॥ इत्येके पठन्ति पेक्खिऊण आअदं माहवं च इट्ठओ । पादवं वणोळळओ वादि वामवादओ ॥ १०७॥ आद्ये पुनरन्त्ये च यस्या गुरुणी पादे । ज्ञेया भ्रमरमाला नाम्ना प्रकथिता सा ॥ १०८॥ यथा हंसागमनधीरं कासं सुअविचित्रम् । एवं सरदिकाले रम्मं सरसि तोयम् ॥ १०९॥ आद्यचतुर्थगते अन्त्यतमं च गुरु । यत्र सदा चरणे सा खलु भोगवती ॥ ११०॥ यथा चक्कसनामवहू कान्तसहाइ णिआ । णिम्मळ अम्मि जळे हिण्डदि सङ्गदिआ ॥ १११॥ आदौ यदि गुरुणी अन्त्यं निधनगतम् । ज्ञेया मधुकरिका उष्णिह्यभिकथिता ॥ ११२॥ एसा पिआ लदा रम्मा भमरजया । काले मदजणणे जादा कुसुमवदी ॥ ११३॥ अन्त्यं च निधनं च गुरूणि स्युः । सुभद्रा नामतो यथा ॥ ११४॥ वणम्मि सुक्खरुक्खे पणट्ठपतोये । करेणुआ विहणो उवेइ मत्तहत्थी ॥ ११५॥ यदि तु भवन्त्येवं यदि यदि दीर्घाणि । त्रिगुरुरिह प्रोक्ता भवति तु मत्तेयम् ॥ ११६॥ यथा जलभरसम्भन्तो खिदिधरमूलम्मि । पिअजुवदीसत्तो पविचरिदो हत्थी ॥ ११७॥ यदि हि गुरूण्यन्ते चरणविधो त्रीणि तत इह विज्ञेया कुसुमवती नामा इति पाठान्तरम् द्वितीयं सतृतीयं तथाद्ये इह दीर्घम् । यदि त्रयं तु पादे भवेत्सा तु चित्रा ॥ ११८॥ यथा महामेहविदाणं बलाकाकुलबद्धम् । महाभीमणिणादं पदिण्णं गगणम्मि ॥ ११९॥ यदि चतुर्थमन्त्यं गुरु तथैव षष्ठम् । भवति सा तु नाम्ना निगदिता मनोज्ञा ॥ १२०॥ यथा कुसुमगन्धवाही सलिलरेणुपुण्णो । रमणि वादि वादो मणसिजं जणन्तो ॥ १२१॥ द्वितीयं च चतुर्थं च अन्त्योपान्त्ये तथैव च । यत्र पादे तु दीर्घाणि उष्णिक् सा तु विलम्बिता ॥ १२२॥ यथा गैन्दतोअखोआ पटीपरित्थहंसा । भमन्तचक्कवाआ नदी गआ समुद्दम् ॥ १२३॥ प्रथमं यत्र पादे लघुनी पञ्चमं च । कथिता सा तु दीप्ता सततं चेदमुष्णिक् ॥ १२४॥ यथा पवनो पुष्फहारी ऐसीदो समन्ता । सिसिरे वादि काले मम सोअं जणन्तो ॥ १२५॥ आद्यमथ पञ्चमं दीर्घमथ नैधनम् । यत्र यदि नाम चेच्चञ्चलगतिस्तु सा ॥ १२६॥ यथा मेहमलमुत्थओ निम्मलगहाउलो । सोहदि णहङ्गणे णिम्मलकरो ससी ॥ १२७॥ एतास्तु जातयो ज्ञेयाः स्थिताः प्रासादिकीष्वथ । अतःपरं प्रवक्ष्यामि त्वनुष्टुब्लक्षणं पृथक् ॥ १२८॥ लघुनी गुरुलघुनी लघुनि गुरु च यदि । चरणे नियतगतौ कथिता विमलजला ॥ १२९॥ यथा विकचाम्बुजहिसिरे भमरावलिमुहले । बहुणिम्मलसखिले विहगो सरदिभमै सरे ॥ १३०॥ पञ्चमं नैधनं चैव पादे स्यातां तु यत्र वै । नित्यमानुष्टुभे दीर्घे विज्ञेया ललितेति सा ॥ १३१॥ यथा कुसुमसुअन्धिअए मणसिजदीवणए । प्रमदवणङ्गणए विलसदि हंसवहू ॥ १३२॥ यदि च खलु षष्ठकाल्लघुगण इहादितः । पुनरपि च सप्तमं लघु भवति सा मही ॥ १३३॥ यथा बहुकुसुममोहिए कमलवणसण्डए । सहारसहाइणी परिसरदि हंसिआ ॥ १३४॥ लघुगण इव षट्के यदि भवति मुखे तु । चरणगतिविधौ सा मधुकरसदृशाख्या ॥ १३५॥ यथा विविधवणविचारी पमदवणसुअन्धी । कुसुमवणविबोधी लसदि सरदि वादो ॥ १३६॥ यदि खलु पञ्चमकं पुनरपि चान्त्यतमम् । गुरु चरणे तु भवेद्भवति हि सा नलिनी ॥ १३७॥ यथा पुलिनतलङ्गणए कमलिणिवासणिआ । पजब हि वासगिहं पारदि सारसिआ ॥ १३८॥ प्राग् यदि निधनगतं स्यादथ गुरुस्त तम् । यत्र हि चरणविधौ सा खलु भवति नदी ॥ १३९॥ यथा हंसकुलसम्मुदिदे सारसरुदमुहळे । मत्तमहुअरगणे हिण्डति महुअरिआ ॥ १४०॥ अनुष्टुब्जातयो ह्येताः प्रावेशिक्यः प्रकीर्तिताः । स्त्रीणामुत्तममध्यानामवकृष्टा निबोधत ॥ १४१॥ आद्ये चतुर्थमपि चान्त्ये दीर्घाणि यत्र चरणे । प्रावेशिकी तु बृहती सा नाम्ना तथैव रुचिराख्या ॥ १४२॥ यथा राहुपराअहदसोहं चन्दं णहिण्ण समिऊण । तारागणे विहदसोहो तेजस्सुएहि रुददिव्व ॥ १४३॥ यदि पञ्चमं हि सतृतीयं गुरुणी पदान्तरचिते द्वे । प्रमितेति सा भवति नाम्ना ह्यवकृष्टजातिरिह पङ्क्तिः ॥ १४४॥ यथा घणगब्भगेहपरिखित्तो अरुणप्पहापिहिदसोहा । गाणङ्गणेऽपिहिदरस्सि ण विभादि जोह्णरहि इन्दू ॥ १४५॥ यदि खलु षष्ठमथान्त्ये भवतो गुरुणी चरणयोगे । स्थितिलयकृता नु जगतीयं भुवि निगदिता विगतशोका ॥ १४६॥ यथा जलहरविहाणपिहिअङ्गो रविकिरणजालहदसोहो । गहमुहविणिग्गाविवण्णो असु विसदि अत्थगिरिमिन्दू ॥ १४७॥ आद्ये चतुर्थमपि चाष्टममक्षरं चैकादशं यदि भतेत्तु गुरु । सा त्रैष्टुभे भवति पादविधौ विश्लोकजातिरवकृष्टगता ॥ १४८॥ मेहत्थिओ रविकराभिहदो तारागणेहि विधुरे गमिदो । अत्थं उवेदि अरणाभिहदो चन्दो णहम्मि राणीसहिओ ॥ १४९॥ आद्ये चतुर्थे दशमं नैघनं ह्यष्टमं तथा । यत्र दीर्घाणि पादे स्युस्तद्वृत्तं ललितं स्मृतम् ॥ १५०॥ यथा एसो पमत्तगादूमिदाणणो दीणो पफुळ्ळवनवादवचाळिदी वासाभिवद्धचळणो गआणुगो रम्मं वणं गावरो । पलायदि ॥ १५१॥ यदि पञ्चमं हि सतृतीयनैघनं नवमं द्वितीयमपि तस्य तादृशम् चरणे गुरूणि यदि सातिपूर्विका जगती बुधैर्निगदिता सा मता मनोवती यथा घणसन्तदायदबिदाणमम्वरं अवलिम्विऊ रमणीमुहे ससी गहगाहसङ्कुइदमन्दजोह्णओ ण विराजदे सवदि किं पधाविऔ एतास्तु जातयो ज्ञेयाः स्थितानां हि प्रयोगजाः । आक्षेपिक्यवकृष्टानां सम्प्रवक्ष्यामि लक्षणम् ॥ १५२॥ सुप्रतिष्ठादिकं छन्दस्त्ववकृष्टासु योजयेत् । वृत्तान्यन्यानि यानि स्युर्देवस्तुत्याश्रयाणि तु ॥ १५३॥ अक्षराणां निवेशं तु यतयः पाणयस्तथा । अवकृष्टास्तु यस्याः स्युरवकृष्टा भवेत्तु सा ॥ १५४॥ स्थायिवर्णा स्थितलया कलान्तरकृताक्षरा । समपाणियतिश्चैव ह्यवकृष्टा विधीयते ॥ १५५॥ अवकृष्टध्रुवाणां हि कलान्तरकलासु च । अक्षराणां निवेशस्तु वृत्तजात्यां विधीयते ॥ १५६॥ अल्पवर्णान्तरा चैव ह्यवकृष्टा विधीयते । प्रावेशिक्यास्तु सङ्क्षेपः करणानां परिग्रहात् ॥ १५७॥ एवं ज्ञेयोऽवकृष्टानां जातीनां वृत्तसम्भवः । अत ऊर्ध्वं प्रवक्ष्यामि द्रुतानामपि लक्षणम् ॥ १५८॥ मुखे तु दोधकं कृत्वा शेषं ह्रस्वैस्तु योजयेत् । युग्ममोजं विमिश्रं च तथैव लघुसञ्चयः ॥ १५९॥ जगत्यादिर्भवेत् सा तु तथाऽतिघृतिनैधना । तथाभूता च च्छन्दोभिर्नानावृत्तसमुद्भवा ॥ १६०॥ अष्टावादो यस्याः सान्त्यं स्यान्नवमं दीर्घाणि स्थाप्ये शिष्टै च द्वे लघुनी वृत्तं ह्येतज्ज्ञेयं तज्ज्ञैर्वृत्तविधौ । गीते ह्येवं नित्यं विक्रान्ता जगती ॥ १६१॥ यथा एसो मेहो नाणद्दन्तो धूमणिहो विज्जुज्जुत्तो धाराएहिं भूमिदलम् जावाबद्धो भीमुव्विग्गो हत्थिणिहो । विण्णाकआविज्झो पीणाअन्तो णादिगओ ॥ १६२॥ अष्टावादौ दीर्घाणि स्युस्त्वतिजगती । अन्त्यं दीर्घं सा विज्ञेया मदनवती ॥ १६३॥ यथा एसो मेहो णाणद्धन्तो सबैणिहो । सद्दारन्तो विज्जुज्जोआ भमदि दुदम् ॥ १६४॥ पञ्च त्वादै यत्र हि गुर्वष्टमनवमम् अन्त्यं दीर्घं सा खलु नाम्ना विमलगतिः यथा एसो अंसं अंसुसहस्सो पवणसखो जाळाळोळो धूमसमिद्धो भमदि वणे ॥ आद्यचतुर्थे पञ्चमषष्ठे नवदशमे पादविभक्तौ यत्र तु दीर्घ निधनकृते । तत्र तु बोध्या पञ्चदशाख्ये भुवि हि सदा । भूतलतन्वी वृत्तविधानेत्यभिविहिता ॥ १६५॥ यथा पादपसण्डं कम्प प्रमाणो पटुण्णिदो सेलतडेसुं पक्खलमाणो विसमवदि रेणुसमूहं उद्धामाणो रुणकविलो । वाअदि वादो चण्डपवाही गगणवले ॥ १६६॥ आद्यचतुर्थकसप्तममन्त्यं दशमपरे । यक्ष गुरूण्यथ सा सुकुमारेत्यभिगदिता ॥ १६७॥ यथा मेहसमूहणिबद्धविदाणं जलमतिदम् । सौइ इन्दधणुज्जबमज्झं गगणदलम् ॥ १६८॥ यदि खलु पञ्चममष्टममन्त्यं दशमपरे । चरणगतानि गुरूणि तु माला भवति तदा ॥ १६९॥ यथा असणिरवाहदपादवकूडो धरणिधरो पगलिअकन्दरनिज्झरसानुरवो मुहुलो विवहविहङ्गमसेविअकुञ्जो जहजलदो । परहुअचम्पागीअसणाहो हसदि विअ ॥ १७०॥ तृतीयं च चतुर्थ च सप्तमं चाष्टमं तथा । नवमं द्वादशं चैव नैधनं सत्रयोदशम् ॥ १७१॥ यत्र दीर्घाणि पादे तु ध्रु तिच्छन्दःसमाश्रये । सा ज्ञेया गीतकविधौ ध्रुवा स्खलितविक्रमा ॥ १७२॥ दिवसं सूरसणाहं खे विअ चन्दो कुमुदवणे उदिदो दीसदि एसो दप्पेणबिम्बाकिदिसादिसी गहणे मेहविमुख्खे सोम्मसहाओ रतिसुहगो । वहलं विक्खिरमाणौ सारदो जोह्णं पजति दुदम् ॥ १७३॥ पञ्चमं ह्यष्टमं यत्र त्रयोदशमथापि च । गुरूण्यष्टादशं चैव द्रुता वै चपला तु सा ॥ १७४॥ यथा एवणविघुण्णिदपङ्कजकुसुमं सरसि जळं कमलिणिवत्तपसाहिदसुभहं फलिहणिहं वलदतरन्तविदाहिदकुसुमं चलितगद- क्खभिदविहङ्गविकम्पिदमुहलं हसदि विअ ॥ १७५॥ पादे पञ्चममन्त्ये च दीर्घ द्वादशमेव च । यदाऽतिधृत्यां सा ज्ञेया चपला मुखसंहिता ॥ १७६॥ यथा पिअसहि आइअगाणदले चपलतरमुही । पविचरदे मदसुरभिमुही सुरवरयुवदी ॥ १७७॥ एता ह्यष्टौ परित्याज्या ध्रुवाणां मूलजातयः । आभ्यौ विनिस्सृताश्चान्या युग्मौजां विषमाः पराः ॥ १७८॥ एतास्तु जातयो ज्ञेया द्रुतानां वृत्तसंश्रयाः । देवानां पार्थिवानां च ह्यौपम्यगुणसंश्रयाः ॥ १७९॥ सप्तदशद्वादशकैरेकादशपञ्चमाष्टमतृतीयैः । गुरुभिर्यस्याः पादः ता ज्ञेयाऽऽक्षिप्तिका नाम ॥ १८०॥ गुर्वादिरथलघ्वादिर्युग्मौजावथवेतरा । एतद्द्रुतगता या तु विज्ञेया सा ध्रुवा द्रुता ॥ १८१॥ आदौ द्वे गुरु निधने त्रीणि यस्याः पादेष्वथ चतुर्गुरूणियस्या स्युः ज्ञेया वृत्ते खलु बृहतीसंस्था नाम्ना सा कथितलता ॥ यथा एसो मेहो सिहरिनिहो नीलो धारापातैरतिभागो भूमिम् आपूरयन् पटुतरसन्नादो तोयापूर्णे गगनतल आभाति ॥ आद्ये ह्यथ निधने त्रीणि पादेऽथ यदि गुरूणि स्युः । ज्ञेया खलु बृहती नित्यं नाम्ना कनकलताऽऽक्षिप्तिका ॥ १८२॥ यथा एसो गगणदळे मेहो भीमो भाजणणो दिट्ठो भूमिं नवजलधाराहिं । सिञ्चन्तो भुवनतलं जादि ॥ १८३॥ भूमिं नवजलधाराभिः सिञ्चन् भुवनतलं याति ॥ यदि खलु पञ्चममन्त्ये चरणविधौ च गुरूणि भवन्ति तु । सा शशिलेखा भुवि बहती प्रथिता सा ॥ १८४॥ यथा गिरिवरधा खुभिदमहण्णवसहस्सपणादम् । पटुपवणेन विधूदं भमदि बलाहाजूहम् ॥ १८५॥ यदि तु खलु षष्ठमन्त्यं गुरु भवति पादयोगे । इति विगदितादिवृत्ते सततमविचालिता सा ॥ १८६॥ यथा शशिकिरणलम्बहारा उडुगणकदावदंसा । गहगणकदङ्गसोहा जुवदि विअ भादि राई ॥ १८७॥ यदि खलु चरणविधौ लघुवसुगणकमिदम् । भवति हि खलु बृहती मणिगुणनिकरकृता ॥ १८८॥ यथा ऋदु गणकुसुमवदी गहगणकिदतिळका । रजनि करमभिमुखी च यदि विअ असु णिसा ॥ १८९॥ चत्वार्यादौ गुरु निधनं ह्रस्वानि स्युर्यदि च तथा । नाम्ना ज्ञेया जगति हि सा सिंहाक्रान्ता खलु बृहती ॥ १९०॥ यथा आकम्पन्तो गगनदळं विक्खेवन्तो घरणिदळम् । विज्जुज्जोदा अवविहवो एसो मेही पविचरिदो ॥ १९१॥ बृहत्या जातयो ह्येता विज्ञेया वै प्रवेशजाः । अत ऊर्ध्वं प्रवक्ष्यामि पङ्क्तिजातिविकल्पनम् ॥ १९२॥ आद्यचतुर्थे परनिधने यक्ष गुरूणि प्रतिचरणम् । गीतविधाने भवति हि सा पङ्क्तिकृता वै सुरदयिता ॥ १९३॥ यथा पङ्कासण्डे विमळजले सारससङ्घे समणुगदो । कुन्दणिकासो ससिधवळो हंसजुवाणो परिभमिदो ॥ १९४॥ दीर्घाणि ह्यथ निधनगतं त्रीणि स्युर्यदि चरणविधौ । सा ज्ञेया कुसुमसमुदिता पङ्क्तिश्चेदपि च कुमुदिनी ॥ १९५॥ यथा वाजन्तो कुमुमसमुदितो वादन्तो कुसुमसुरहिणो । सोसन्तो पिअरहितजणं सम्पत्तो असु णवझरदो ॥ १९६॥ सप्तममाद्यचतुर्थयुतं यत्र हि नैधनमेव गुरु । पादविधौ यदि पङ्क्तिकृता सा कथिता खलु दोधकवत् ॥ १९७॥ यथा एस समुण्णामच्चरके मेहरवं सुणिऊण गओ । रोसवसेण समुज्जळिदो हिण्डति काणणए कुविदो ॥ १९८॥ त्रीण्यादौ तु गुरुणि यदा स्युः षष्ठं चान्त्यमुपान्त्यतमं च । सा ज्ञेया खलु पादविधाने पङ्क्तिः सा तु कृतोद्धतनाम्ना ॥ १९९॥ यथा अब्भं अम्बुधरेहि पिणद्धं विज्जुज्जोअखणन्तरदीवम् । वादाघण्णिदकम्पिददन्तं उप्पादेदिव हत्थिसमूहम् ॥ २००॥ आद्यचतुर्थे नैधनके न पञ्चषष्ठे यत्र तु दीर्घे । वृत्तसमुत्था सङ्कथिता सा पङ्क्तिरथैषा गीतकबन्धे ॥ २०१॥ यथा मेहसमूहं पीणबळाकं विज्जूपळिकं पेक्खिअ एसो । उट्ठितरोसो भीमणिणादो धावदि हत्थी रुक्खवणम्मि ॥ २०२॥ यदि खलु पञ्चममन्त्यं चरणविधावपि दीर्घं स्यात् । भवति तथाष्टममन्त्ये विपुलभुजा भुवि सा ज्ञेया ॥ २०३॥ यथा जलहरणादसमुव्विग्गो पगळितगण्ड्डुमहाणादो । वणगहणं कुविदो हत्थी सरभसगव्विदकं याति ॥ २०४॥ एतास्तु जातयः प्रोक्ताः पङ्क्त्यामेव समासतः । अतःपरं प्रवक्ष्यामि त्रिष्टुब्जातिविकल्पनम् ॥ २०५॥ आदाविह यदि खलु गुरुणी नित्यं निधनमपि च परतः । वृत्ते कविभिरपि निगदिता त्रिष्टुभ् चपलगतिरिह सदा ॥ २०६॥ यथा एदे खिदिघरवरसदिसा भीमा पडुपहसमरवा । मीळासिदखगकिदरसणा मेहा णहदळमभिपडिवा ॥ २०७॥ यदि खलु मध्ये त्वथ गुरुणी पुनरपि चान्त्यं गुरु चरणे । भवति हि नित्यं रुचिरमुखी कमलदलाक्षीति हि कषिता ॥ २०८॥ यथा परिधुणमाणो किरणपडं अभिरुहमाणो उदागिरिम् । उडुगणबन्धू कुसुदसहो उदयति चन्दो गगनदले ॥ २०९॥ यदि खलु पञ्चमकाष्टमके पुनरपि चान्त्यमकं तु गुरु । चरणविधाविह वृत्तविधौ भवति हि सा द्रुतपादगतिः ॥ २१०॥ यथा गगनतलङ्गणहिण्डणओ किरणसहस्सविहूसिदओ । विहुणिअमेहपडं तमसू विसै ससी गाणे विदुअम् ॥ २११॥ यदि खलु षष्ठं गुरुयुगलं निधनगतं चाप्यथ गुरुकम् भवति हि सैवं चरणविधौ मुखचपला त्रिष्टुभिरचिता ॥ यथा कुसुमसुअन्धी सुअपवणो विचरदि रम्मे णलिणिमने तरुवरळासे पमदवणे वहुकुसुमे स्सिण्णवसरदे ॥ तृतीयमन्त्यं चतुर्थं च पञ्चमं षष्ठमेव च । गुरुणी त्रैष्टुभे पादे यत्र सा विमला यथा ॥ २१२॥ यथा कुसुमाकिण्णे णिम्मळसळिळे णळिणीसण्डे छप्पदमुहळे । सवहूमज्झे सारसमुदिते समदो हत्थी सोमविचरिदो ॥ २१३॥ चतुर्थं पञ्चमं पूर्वमन्त्योपात्ये तथैव च । गुरूणि त्रैष्टुभे पादे यत्र सा रुचिरा यथा ॥ २१४॥ मेहविदाणं अवघुणमाणो कम्पामाणो सगावणाइम् । तोअसमूहं अवकिरमाणो वाअदि वादो कुविद इवासू ॥ २१५॥ यदि खलु चरणे तु सप्तमं पुनरपि नवमं सनिधनम् । गुरु तदपरवक्त्रमुच्यते नियतमिति निदर्शनं यथा ॥ २१६॥ गिरितडविवरे विघुण्णिदो असणिघनरवेण कम्पाम् । अभिपददि दुदं महीदळं पटुतरणिणादो महारवो ॥ २१७॥ त्रिष्टुभो जातयो ह्येता जगत्यास्तु निबोधत अष्टमं नैधनं चैव गुरूणि चरणे यदि । वृत्ते तु जगती सा तु ज्ञेया कमललोचना ॥ २१८॥ यथा दिअगणमुनिगणविवड्ढिअतेओ पविततकिरणसहस्सपिणद्धो विधुणिअतिमिरपडं जगदीवो । उदयति गगणदळे असु सूरो ॥ २१९॥ यदि खलु लघुगण इह निहितं पदि यदि गुरु निधनगतम् भवति हि खलु गतिरतिचपला । त्वरितगतिरधिकमतिजगती ॥ २२०॥ यथा विधुणिअ जळधरमसिदपडं दिअगणमुनिवरपरिपडिदो उदागिरिसिहरतटमुकुटे । विचरदि गगणतळमसु रवि ॥ २२१॥ यदि खलु पञ्चमनिधनगते द्वे चरणविधौ भवति हि गुरुणी तु । अतिजगती भुवि कथितगुणा सा मदकलितेव निगदितनामा ॥ २२२॥ यथा गगनतलङ्गणमभिरुहमाणो रजतमहागिरिसिहररूवो । रजतमओ विअ पिअकळसोसू पविचरिदो विअणिखि चन्दो ॥ २२३॥ एतास्तु जातयो ज्ञेयाः प्रावेशिक्यो द्रुतास्तथा । समवृत्तपदानां तु वर्धमानं निबोधत ॥ २२४॥ एतासां लक्षणं पूर्वं सर्वमुक्तं विधानतः । प्रतिष्ठादि यथाच्छन्दः सम्यक् पदविभागतः ॥ २२५॥ यथा प्रतिष्ठा मेहरवं णवसरदे । णिसमिअ कुद्धो भवै गावरो ॥ २२६॥ सुप्रतिष्ठा विज्जुकसाहि अभिहतं व । रुददिव गगां पसमिअगहतारम् ॥ २२७॥ गायत्री । मेघरवधातुकरनट्ठगुहचन्दां सकरंरुददि किअ णहदळम् ॥ २२८॥ उष्णिक् पुल्लिअतरुसण्डे सुरभिपयणहदे । विअरदि पमदवणे हंसो ससारिपरिवुदो ॥ २२९॥ वर्धमानं मयैवं तु त्र्! यश्राणामपि कीर्तितम् । पुनश्च चतुरश्राणामेवमेवं निबोधत ॥ २३०॥ अनुष्टुप् ताराबन्धवसणाहो विक्खिरमाणो मेहपडम् । किरणसहस्सविहूसिदी उदयदि एसो राणिअरो ॥ २३१॥ बृहती एसो सुमेरुवणतम्मि दिअ देवसिद्धपरिगीदो । सुरहिसुअङ्घवणचारी पविचरदिवि णहङ्गणदूतवातो ॥ २३२॥ पङ्क्तिः पादपसण्डं कम्पामाणो सुरहिसुअन्धसुवासिदओ । उपवणतरुगणलासगओ विअरति वरतणु वणपवणो ॥ २३३॥ त्रिष्टुप् कुमुदवनस्स विहूसणओ विघुणिअतिमिरपडं गगणे । उदागिरिसिहरमहिरुहन्तो राणिकरो उदयदि विमळकरो ॥ २३४॥ जगती दिअवरमुनिगणसंवुदओ तविअसुवण्णपिण्डसमदेहओ । गगणदलङ्गणमभिरुहमाणो विअरदि एस दिवसकरो ॥ २३५॥ एतास्तु जातयो ज्ञेयाश्चतुरश्रविवर्धिताः । अत ऊर्ध्वं प्रवक्ष्यामि गणमात्राविकल्पनम् ॥ २३६॥ त्र्! यश्रायां तुगणाः पञ्च सन्निपातो विधीयते । अष्टो च चतुरश्रायाः सन्निपातो भवेत्तथा ॥ २३७॥ द्वौ पादौ सन्निपातश्च ध्रुवाणां परिकीर्तिताः । द्रुतं च शीर्षकं चैव हित्वान्यानि भवन्ति वै ॥ २३८॥ अक्षरपिण्डस्त्र्! यश्रे पञ्चादिर्नवपरश्च विज्ञेयः । अष्टादिश्चतुरश्रे त्रयौदशपरस्तु विज्ञेयः ॥ २३९॥ सर्वगुरुश्चाष्टादिस्त्रयोदशपरश्च सर्वलघुः । एष त्र्! यक्षरपिण्डो विज्ञेयो वै ध्रुवाविधानज्ञैः ॥ २४०॥ गणमात्रांशविकल्पं व्याख्यास्यामि द्रुतायाश्च । अर्धषष्ठगणैः पादैः सन्निपातो द्रुतास्वघ ॥ २४१॥ मात्रा द्वाविंशतिश्चैव गुरुलघ्वक्षरान्विताः । शीर्षकाणामनियमो भवेत् पादविधानतः ॥ २४२॥ नानावृत्तसमुत्पन्नं कुर्याद्वै शीर्षकं बुधः । गुर्वादिरथलघ्वादिर्युग्मः सर्वलघुस्तथा ॥ २४३॥ चतुर्मात्रा गणो ज्ञेयः पूर्वच्छन्दोविकल्पितः । अर्धाष्टवगणाः पादाः शीर्षकस्य भवन्ति वै ॥ २४४॥ चतुर्मात्राश्च विज्ञेया युग्मौजाक्षरकैः पदैः । शीर्षकस्यैकविंशत्या षड्विंशतिपरस्तथा ॥ २४५॥ अक्षराणां भवेत् पिण्डः पादे ह्येकत्र निश्चयात् युग्मा ओजा मिश्रा वादौ कार्या गणास्तु चत्वारः । नियतं शीर्षविधाने पश्चाल्लघुसञ्चयः नार्यः ॥ २४६॥ त्रीणि गणा यस्य मुखे त्रीण्येव हि यस्य चावसानानि । मध्ये चेद् गुरुणी द्वे तच्चपलं शीर्षकं भवति ॥ २४७॥ पूर्वार्धेऽथ चतुर्ह्रस्वा मिश्रा गणास्तु चत्वारः । पादे भवन्ति नियतं पश्चाल्लघुसञ्चयः शेषः ॥ २४८॥ एकद्विकलं त्रिकला चतुष्कलाः षट्कलास्तथोष्टकला । कार्या ध्रुवाविधाने प्रासादिक्यन्तराक्षेपैः ॥ २४९॥ त्र्! यश्रे विरामस्त्रिकलश्चतुरश्रे चतुष्कलः । प्रावेशिक्या ध्रुवायास्तु नैष्क्रामिक्यास्तथैव च ॥ २५०॥ विरामो द्विकलोऽप्यन्तमन्तरायाः समासतः पादान्ते द्विविरामस्तु क्षिप्तायाश्च प्रकीर्तितः । स्थितायाश्च तथा ह्यर्थे प्रासादिक्यास्तथैव च ॥ २५१॥ कलाकलार्धयोगेन गुरुलघ्वक्षरान्विताः त्रयो ध्रुवाणां विज्ञेयाः संयोगा वृत्तसंश्रयाः । सर्वदीर्घः सर्वलघुर्गुरुह्रस्वाक्षरस्तथा ॥ २५२॥ गुरुप्राया स्थिता कार्या लघुप्राया द्रुता तथा । गुरुलघ्वक्षरप्राया प्रासादिक्यन्तरा तथा ॥ २५३॥ एवं ध्रुवाणां कर्तव्या जातयो वृत्तसम्भवाः । अत ऊर्ध्वं प्रवक्ष्यामि शीर्षकाणां तु लक्षणम् ॥ २५४॥ आद्यमन्त्यं तृतीयं च पञ्चमं सप्तमाष्टमे । गुरूणि यस्याः पादे तु सा श्येनो तु कृतौ यथा ॥ २५५॥ यथा सागरं समुधुणन्तो रप इव लघुगदिरभिभवदि पव्वदा समाहणन्तो तरुसु च जणादि भयमतुलम् रेणुजालमुक्खिवन्तो दिवसकरकिरणो । बोधां पजासु कामं विखरदि वरतनु सुहपवणो ॥ २५६॥ प्रकृत्यां पञ्चमान्त्ये तु ह्यष्टमैकादशे गुरू । द्वादशं चेति विज्ञेयं नामतश्चपला यथा ॥ २५७॥ मुनिगणमण्डविबन्धिदओजो विघुणिअ तिमिरपडम् कमलवणाइं विबोधिअमाणो गहगणपरिगणदो भुजगसहस्सविबन्धिदपासो वितवितकणकवपू । उदादि सम्पदि राविदलू वरतणु दिवसकरो ॥ २५८॥ पञ्च त्वादौ यत्र तु दीर्घं नवममपि च गुरुसमयकृतं दीर्घं चान्त्यं चाष्टममन्यल्लघु विरचितमिह चरणविधौ वृत्ते ज्ञेया जगतिरपीयं बहुविधनिचयचितविहिते । क्रौञ्चं नाम्ना छन्दसि चोक्ता द्विजगणमुनिगणपठिता ॥ २५९॥ यथा एसो चन्दो णिम्मलजोह्णा विधुणिअ घणमसिदपटणिहं लोकानन्दो लोकपदीवो उडुगणगहप्पणसमणुगदो वासादाणं कारश्रमाणो सितपडणिवसनमिव विपुलम् । लोकालोकं रञ्जामाणो विचरदि वरतणु गगणमसू ॥ २६०॥ आद्यचतुर्थं पञ्चमषष्ठं नवममथ च निधनगतं ये च ततोऽन्ये येषु लघुत्वं यदि भवति च चरणमतिविधौ सा निकृतिः स्यात्पुष्पविवृद्धा द्विजगणमुनिगणपरिपठिता । नामविकल्पाद्वृत्तकृता वैश्वशतलुलितमिह नभसि नदी ॥ २६१॥ पुप्फविदाणं उद्धुणमाणो रव इव पटुतरगतिरभिपतति पक्खळमाणो मेहतडेसुं तरुसु च गणयदि भयमतुळम् उम्मिसहस्सं उद्धुणमाणो सरसखुभिदसळिळकळकळो । भीमणिणादो चण्डपवाही विअरदि वरतणु सुहपवणो ॥ २६२॥ अन्त्यं च पञ्चमं षष्ठं सप्तमं दशमं परम् । वृत्ते सङ्कृतिसञ्ज्ञे तु सा भ्रान्ता नामतो यथा ॥ २६३॥ किरणसहस्सं विक्खिरमाणो फलिहमणिरुचिरधवळणिहो कुमुदवणाइं वोहामाणो कुमुददळनिअरसदिसवपू गहगणबन्धू लोकपदीवो उडुगणगहणसमणुगदो । उदयति चन्दो रोहिणिकन्तो णवसरदमुदितसुखजणणो ॥ २६४॥ आद्यमन्त्यं चतुर्थं च सप्तमं दशमं तथा । गुरूण्येकादशं चैव सङ्कृतौ वृत्तसंश्रयम् ॥ २६५॥ सघून्यन्यानि शेषाणि पादे यस्मिन् भवन्ति तु । तज्ज्ञेयं शीर्षकं तज्ज्ञैः स्खलितं नामतो यथा ॥ २६६॥ वातसमुद्धतवीचितरङ्गो स्फटिकनिकरसदृशजले पङ्कजरेणुपरागपिशङ्गे लुलितकमलकुवलयदले मोटितकल्पतरूत्थितशाखे सुरयुवतिनयनसमनुसृतः । क्रीडति दानसुगन्धिमहोच्चैः सुरगज इह सुरसरिः ॥ २६७॥ अष्टावादौ दीर्घाणि स्युर्यदि च पुनरपि हि भवति बहु लघुगणो भूयश्चान्ते दीर्घं त्वेकं यदि भवति पदि पदि पुनरपि च तथा मत्ताक्रीडा विद्युन्मालेत्यपि च विविधकविभिरपि बहुभिरुदिता । नाम्ना छन्दोवृत्ते देवीत्यभिकृतिगतिविधिषु च नियतमभिहिता ॥ २६८॥ यथा एसो मेहो सेलाभोयो असणिमुरजपटुपटहसमरओ णाणाविज्जुज्जोआलू घणपडळनिचयजळधरसमणुगदो णाणाषण्णो तोउग्गारी चरितदवळखगविचरितकुसुमयमो । सञ्जा अन्तो ळोअं याते गिरिरिव गिरिणिवह इव सुभसलिळळो ॥ २६९॥ पञ्चमं द्वादशं चेवं दीर्घमन्त्यं त्रयोदशम् । उत्कृत्यां तु भवेत् पादे वृत्तं वेगवती यथा ॥ २७०॥ गगणतलङ्गणमभिरुहमाणो उडुगणगहगणसमणुगदो युवतिजणाणं सुरुचितरूवो सुखितदयितजणमदणकरो किरणसहस्सविसुरचितवन्दो रजतगिरिसिहरसदिसवपू । उदादि सम्पदि असु जगदीवो कुमुदवणरुचिरविमळकरो ॥ २७१॥ एता ह्यष्टौ बुधैर्ज्ञेयाः शीर्षकाणां तु जातयः । पुनर्नर्कुटकानां तु सम्प्रवक्ष्यामि लक्षणम् ॥ २७२॥ अष्टौ नर्कुटकानां तु विज्ञेया जातयो बुधैः । दर्शनं लक्षणं त्वासां नामानि च निबोधत ॥ २७३॥ रथोत्तरं बुद्बुदकमुद्गतं वंशपत्रकम् । शिवाक्षरा हंसवती हंसास्यं तोटकं तथा ॥ २७४॥ प्रथमं च तृतीयं च सप्तमं नवमान्त्यके । गुरूणि त्रैष्टुभे यत्र नर्कुटं तद् रथोत्तरम् ॥ २७५॥ यथा एसिका कमलगब्भगेहके रेणुपिञ्जरितचारु गतिया । सारदे मदकलोपकूजिदा हिण्डदे सरवरम्मि छप्पदी ॥ २७६॥ पञ्चमं सप्तमं चैव नैधनं च गुरूण्यथ । पादे तु बृहतीसंस्थे यत्र बुद्बुह्यकं यथा ॥ २७७॥ यथा तडिगुणबन्धणिद्धओ सिदखगपन्तिसोहिदो । णहसि गजो समुग्गओ विचरदि एस मेहओ ॥ २७८॥ अन्ये तु सतृतीयपञ्चमनवमं त्रयोदशं षोडशं तथा यत्र वै गुरु भवतीह शेषलघुसंयुतं वृत्तौ स्याच्च संश्रितं प्रवदन्ति बुद्बुदकमेव नर्कुटं तद्धि नामतः चिरकालमभिसम्भरन्तपिअं गाणत्त मुहिदं ण रोद्धम् मुदिमाणैतडिदिदो काणणे घणे परिखेदिदे बहुविधे हि अणुणो वासराहरो तरुसन्धुवज्जुहिअए सञ्चसिओ भीदभीदओ असु कोधरं विसरै पासवा दवेच्छ दीणदीणओ ॥ तृतीयं पञ्चमं चैव नवमैकादशे तथा । द्वादशं षोडशं चैव चतुर्दशमथापि च ॥ २७९॥ अस्मिन्नष्टिकृते पादे गुरूण्येतानि सर्वशः । छन्दोज्ञेर्ज्ञेयमेतत्तु नर्कुटं ह्युद्गतं यथा ॥ २८०॥ वणखण्डं जहदि कोसिको वायसाहदो भयभीदओ अवदिपादपं दीणदीणओ तरुकोटरं वसदि सम्पदं ळोळणेत्तओ । समभिद्वदो णिसिग्नरो आं एदि सोहिदो ॥ २८१॥ अन्ये तु प्रथमे यदा तु गुरु यत्र चान्तं तृतीयकं यदि च द्वितीय --- ता गुरु अथ षोडशाक्षरे कृते तु पादे चतुर्थकं त्रिकमिहोद्घटम् ॥ नर्कुटं हि तदिति यत्तु चतुदशमनिधनगै- र्भूषितमक्षरैर्गुरुकृतैः श्रवणसुखकरैः तत्खलु वंशपत्रपतितं मुनिगणगदितं । नर्कुटकं वदन्ति नियमादतिधृतिरुचितम् ॥ २८२॥ यथा चूदवणं पुफुळळतिळकं कुरवासहिअं चारुअसोअसाळकळिदं कुसुमसमुदिदम् माधवकाणणं जुवदिआमदजणणं । हिण्डति कोकिला फळरसासवमहुररवा ॥ २८३॥ तृतीयं पञ्चमं चैव नवमं नैधनं तथा । गुरूण्येतानि पादे तु यत्र तत्प्रमिताक्षरा ॥ २८४॥ यथा कमळाअरेसु भमिरुण बुडं भमरीमुहासवसुकक्खणओ मधुभूसिदं सुरहि चूदवणं । परिहिण्डिदो सुतणु छप्पदओ ॥ २८५॥ नवमान्त्यपञ्चमतृतीय- गुरुलघुशेषमक्षरगतम् भवति चरणं तु यस्य सततं विविधं प्रमिताक्षरेति कथिता खलु सा तृतीयपञ्चमान्त्यानि प्रथमं सचतुर्थकम् । षष्ठं च नैधनं चाथ गुरूणि ध्वजिनी यथा ॥ २८६॥ यथा विलसन्तिअ कमलसण्डे पुप्फसुगन्धके कुसुमळुद्धा । तुरिअं पवीतमधुमता छप्पदिका कुळं समुपयाति ॥ २८७॥ दशमं सप्तमं यत्र चतुर्थकमथ षष्ठम् तृतीयं निधनं गुरु कथितं नर्कुटं जगतीगतम् दिअहंसा वसन्ते सळिळासए कुसुमासादळुद्धा कमळाअरे णळिणीपत्तमज्झे परिहिण्डिदा गमणाआसखिण्णा भमरावली ॥ यदि चान्त्यतृतीयकषष्ठगतैर्नवमेन च भूषितमेवम् । गुरुभिः सततं त्विह तद् घटितं तोटकमेव हि नर्कुटकम् ॥ २८८॥ यथा रमणीसहिदो राणीविरमे गगणङ्गणए खगकोसिअओ असए हि विघट्टिदओ । परिमण्टदि कोटरां सुरिदम् ॥ २८९॥ दशमं सप्तमं यत्र चतुर्थकमथ षष्ठम् । तृतीयं निधनं गुरु कथितं नर्कुटं जगतीगतम् ॥ २९०॥ दिअहंसा वसन्ते सलिलासए कुसुमासादलुद्धा कमलाअरे णळिणीपत्तमज्झे परिहिण्डिदा । गमणाआसखिण्णा भमरावली ॥ २९१॥ एतास्तु जातयः प्रोक्ता नर्कुटानां समासतः । पुनश्च खञ्जकानां च सम्प्रवक्ष्यामि लक्षणम् ॥ २९२॥ आमोदं कञ्जनो पूर्वं भावनी मत्तचेष्टितम् । एतास्त्रिस्रः समाख्याताः खञ्जकानां तु जातयः ॥ २९३॥ आद्यचतुर्थषष्ठदशमं सषोडशमथान्त्यमेव च । यदि द्वादशमेव यत्र चरणेषु सप्तदशकात्परं च विहितम् ॥ २९४॥ छन्दसि सततं चेत्तथा गुरु चेदथाकृतिगतं भवेत्तु सततम् । भद्र कमेव खञ्जकमिदं पुनश्च कथितं प्रमोदकमिदम् ॥ २९५॥ यथा माहवमाससोहितसमग्गके उववणम्मि फुल्लकुसुमे णिच्चमतजुत्तबहुपक्खिसङ्घपरिबुद्वघुट्ठणादमुहले फळिळदचूदयुण्डसहआरमञ्जरिविलोलनादपवणे । हिण्डदि छप्पदानुगदमग्गओ परहुदो विट्ठदाणो ॥ २९६॥ आद्यपञ्चमान्त्यसप्तमं स्यात्तृतीयमेव दीर्घकम् । यस्य पादयोगतो हि सा भाविनीति खञ्जकं तथा ॥ २९७॥ यथा जातिफुल्लपाणमत्तओ चूदरेखगुण्ठिदग्गओ । फुल्लपङ्कौवसोहिदो छप्पओ मुदं पधाविदो ॥ २९८॥ यदा तृतीयसप्तमं तदाद्यपञ्चमं लघु । तदा तु मत्तचेष्टितं वदन्ति खञ्जकं बुधाः ॥ २९९॥ यथा पफुळळपुप्पपादवं विहङ्गमोपसोहिदम् । वणं पगीदछप्पदं उवेइ एस कोकिला ॥ ३००॥ नर्कुटानां तु खञ्जानामेता वै मूलजातयः । आम्यो विनिस्सृताश्चान्या युग्मौजा विषमास्तथा ॥ ३०१॥ चतुष्षष्टिध्रुवाणां तु विज्ञेया मूलजातयः । समवृत्ताक्षरकृता अतोऽन्या विषमा मताः ॥ ३०२॥ समवृत्तास्तु जायन्ते ध्रुवास्तिस्रस्तु नित्यशः । युग्मौजाश्चापि मिश्राश्च विषमाश्च समा मताः ॥ ३०३॥ सुप्रतिष्ठादिकानि स्युर्बृहत्यादीनि यानि तु छन्दांसि तेषां मानेन त्र्! यश्रा कार्या ध्रुवा बुधैः ॥ उष्णिगादीनि यानि स्युः शक्वर्यन्तानि चैव हि छन्दांसि तेषां मानेन चतुरश्राध्रुवा मता ॥ त्रिष्टुबादीनि यानि स्युरुत्कृत्यन्तानि चैव हि छन्दांसि तेषां मानेन चतुरश्रा द्विपादिका ॥ इत्यन्ये तत्रार्धविषमाणां तु षट्पञ्चाशे शते स्मृते । एतदेव परीमाणं पिषमाणां प्रकीर्तितम् ॥ ३०४॥ सामान्यौजाश्च जायन्ते ध्रुवा विषमपादिकाः । स्वेन नाम्ना तु नामानि मासां कार्याणि वृत्ततः ॥ ३०५॥ एवं तु जातयः प्रोक्ता नानावृत्तसमुद्भवाः । अत ऊर्ध्वं प्रवक्ष्यामि विकल्पान् पञ्चहेतुकान् ॥ ३०६॥ जातिः स्थानं प्रकारश्च प्रमाणं नाम चैव च । ज्ञेयो ध्रुवाणां गानज्ञैर्विकल्पः पञ्चहेतुकः ॥ ३०७॥ वृत्ताक्षरप्रमाणं हि जातिरित्यभिसञ्ज्ञिता- समार्धविषमाभिश्च प्रकारः परिकीर्तितः ॥ ३०८॥ षट्कलाष्टकले चैव प्रमाणे द्विविघे स्मृते । यथागोत्रकुलाचारैर्नृणां नामाभिधीयते ॥ ३०९॥ एवं नामाश्रयोपेतं ध्रुवाणामपि चेष्यते प्रवेशाक्षेपनिष्क्रामप्रासादिकमथान्तरम् । गानं पञ्चविधं विद्याद् ध्रुवायोगसमन्वितम् ॥ ३१०॥ नानारसार्थयुक्ता नृणां या गीयते प्रवेशे तु । प्रावेशिकी तु नाम्ना विज्ञेया सा ध्रुवा तज्ज्ञैः ॥ ३११॥ अङ्कान्ते निष्क्रमणे पात्राणां गीयते प्रयोगेषु । निष्क्रामोपगतगुणां विद्यान्नैष्क्रामिकीं तां तु ॥ ३१२॥ क्रममुल्लङ्घ्य विधिज्ञैः क्रियते या द्रुतलयेन नाट्यविधौ । आक्षेपिकी ध्रुवासौ द्रुता स्थिता वाऽपि विज्ञेया ॥ ३१३॥ या च रसान्तरमुपगतमाक्षेपवशात्कृतं प्रसादयति । रागप्रसादजननीं विद्यात्प्रासादिकीं तां तु ॥ ३१४॥ विषण्णे मूर्च्छिते भ्रान्ते वस्त्राभरणसंयमे । दोषप्रच्छादना या च गीयते सान्तरा ध्रुवा ॥ ३१५॥ ध्रुवाणां चैव सर्वासां रसभावसमन्वितम् । यथास्थानं प्रवक्ष्यामि यत्र गेयं प्रयत्नतः ॥ ३१६॥ द्विविधं तु स्मृतं स्थानं परसंस्थात्मसंश्रयम् । यत्त्वाक्षेपसमायुक्तं तच्च मे सन्निबोधत ॥ ३१७॥ बद्धे निरुद्धे पतिते व्याधिते मूर्च्छिते मृते । अवकृष्टा ध्रुवा कार्या भावे च करुणाश्रये ॥ ३१८॥ औत्सुक्ये ह्यवहित्थे च चिन्तायां परिदेविते श्रमे दीने विषादे च स्थिता कार्या ध्रुवा बुधैः एतेष्वेव तु भावेषु करुणावेदितेषु च । ध्रुवा द्रुता च कर्तव्या करुणे भावसंश्रया ॥ ३२०॥ यत्र प्रत्यक्षजं दुःखं मृताभिहतदर्शनम् । स्थिता तत्र हि कर्तव्यः करुणै तु रसे बुधैः ॥ ३२१॥ उत्पातदर्शने चैव प्रहर्षेऽद्भुतदर्शने । विषादे च प्रसादे च रोषे सत्वस्य दर्शने ॥ ३२२॥ वीररौद्र भयाद्येषु प्रत्यक्षावेदितेषु च । ध्रुवा द्रुतलया कार्या ह्यावेगे सम्भ्रमे तथा ॥ ३२३॥ प्रसादेयावने चैव तथाऽनुस्मरणे पुनः । तथाऽतिशयवाक्येऽषु तथा च नयसङ्गमे ॥ ३२४॥ हर्षेऽथ प्रार्यने चैव शुङ्गाराद्भुतदर्शने । ध्रुवा प्रासादिकी कार्या तज्ज्ञैर्मध्यलयाश्रया ॥ ३२५॥ शरीरव्यसने रोषे पुनःसन्धानकर्मणि । सानुबन्धा बुधैः कार्या गीतज्ञैरन्तरा ध्रुवा ॥ ३२६॥ अध्रुवास्तु प्रवेशाः स्युर्गायतो रुदतस्तथा । सम्भ्रमे प्रेषणे चैव ह्युत्पाते विस्मये तथा ॥ ३२७॥ एवमर्थविधिं ज्ञात्वा देशकालमृतुं तथा । प्रकृतिं भावलिङ्गं तु ततो योज्या ध्रुवा बुधैः ॥ ३२८॥ शीर्षका चोद्घता चैव ह्यनुबन्धा विलम्बिता । अड्डिता चापकृष्टा च षट्प्रकारा ध्रुवा स्मृताः ॥ ३२९॥ शिरःस्थानीयमेतद्धि यस्मात्तस्मात्तु शीर्षिका । उद्घता तूद्घता यस्मात्तस्मात् ज्ञेया ध्रुवा बुधैः ॥ ३३०॥ यतिं लयं वाद्यगतिं पदं वर्णान् स्वराक्षरम् । अनुबध्नाति यत्रैवमनुबद्धा भवेत्तु सा ॥ ३३१॥ आक्रीडितप्रवृत्तो यश्चतुर्थलयकारकः । नाट्योपचारजनितः सोऽनुबन्धः प्रकीर्तितः ॥ ३३२॥ नाट्ये त्वरितसञ्चारा नाट्यधर्ममनुव्रता । सविलम्बितसञ्चारा भवेद्द्रुतविलम्बिता ॥ ३३३॥ अड्डिता तूत्कटगुणा श‍ृङ्गाररससम्भवा । यस्मात्सा न प्रसन्ना च तस्मादेषाड्डिता स्मृता ॥ ३३४॥ अन्यभावेषु कृष्टश्च कृष्टाहेतुषु गीयते । यस्मात्कारुण्यसंयुक्ता ह्यवकृष्टा भवेत्ततः ॥ ३३५॥ या तु प्रावेशिकी दीप्ता सा कार्या तूद्घता नृणाम् ॥ ३३६॥ या स्थिता साऽवकृष्टा तु या द्रुता सा विलम्बिता । याऽन्त वा सानुबन्धा च प्रकारास्तु प्रवेशजाः ॥ ३३७॥ शीर्षका चोद्घता चैव देवपार्थिवयोर्भवेत् । दिव्यपार्थिववेश्यानां स्त्रीणां योज्या तथाड्डिता ॥ ३३८॥ मध्यमानां प्रवेशे तु ज्ञेया द्रुतविलम्बिता । नीचानां चैव कर्तव्ये नृणां ये खञ्जनर्कुटे ॥ ३३९॥ खञ्जं च नर्कुटं चैव स्थाने प्रासादिकी तु सा । कस्माल्ललितभावत्वाद्धास्यश‍ृङ्गारयोर्यतः ॥ ३४०॥ कुर्यान्नीचे मृते चैव त्वनुबन्धं लयाश्रयम् । स्त्रीणां राजन्यवैश्यानामबकृष्टां तथैव च ॥ ३४१॥ सन्निपातास्तु चत्वारः प्रावेशिका भवन्ति हि । शेषा हि सन्निपातास्तु शीर्षिकाः षट्परा स्थिताः ॥ ३४२॥ स्थितं चाप्यड्डितं चैव नीचानां न हि कारयेत् । सर्वभावाश्रयगतैस्तेषां कार्यं तु नाटकम् ॥ ३४३॥ त्रयो भावा भवन्त्येषां हासशोकभयात्मकाः । एवं भावान् विदित्वा तु ध्रुवा कार्या प्रयोक्तृभिः ॥ ३४४॥ वस्तु प्रयोगं प्रकृतिं रसभावानृतुं वयः । देश कालमवस्थां तु ज्ञात्वा योज्या ध्रुवा बुधैः ॥ ३४५॥ वस्तुद्देशसमुत्थं तु पुनरारण्यसम्भवन् । प्रयोगश्चैष विज्ञेयो दिव्यमानुषसंश्रयः ॥ ३४६॥ उत्तमाधममध्या तु त्रिविधा प्रकृतिर्मता । रसभावौ तु पूर्वोक्तावृतुः कालकृतस्तथा ॥ ३४७॥ शिशुयौवनवृद्धत्वं वयश्चैव प्रकीर्तितम् । कक्ष्यादिग्भागजनितो देशस्तु द्विविधो मतः ॥ ३४८॥ कालो रात्रिन्दिवकृतो यामकालविनिर्मितः । अवस्था चैव विज्ञेया सुखदुःखाथसम्भवा ॥ ३४९॥ स्थानान्येतानि तु बुधैर्नानावस्थानि नित्यशः । प्रयोगे सम्प्रयोज्यानि रसभावौ समीक्ष्य तु ॥ ३५०॥ यानि वाक्यैस्तु न ब्रूयास्तानि गीतैरुपाहरेत् । न तैरेव तु वाक्यार्थैरन्यैः प्रवकेवलाश्रयैः ॥ ३५१॥ ध्रुवाणामाश्रयाः कार्याः औपम्यगुणसम्भवाः । उत्तमाधममध्यानां नृणां स्त्रीणामथापि च ॥ ३५२॥ आदित्यसोमपवना देवपार्थिवयोर्मताः । दैत्यानां राक्षसानां च मेघपर्वतसागराः ॥ ३५३॥ सिद्धगन्धर्वयक्षाणां ग्रहोडुवृषभा मताः । तपःस्थितानां सर्वेषां सूर्याग्निपवना मताः ॥ ३५४॥ हव्यवाहस्तु विप्राणां ये चान्ये तपसि स्थिताः । एतेषामेव या नार्यस्तासामौपम्यसंश्रयाः ॥ ३५५॥ विद्युदुल्कार्करश्म्याद्या विद्यानामपि च स्मृताः । देवानां तु प्रयोज्या ये नृपाणामपि ते स्मृताः ॥ ३५६॥ नागसिंहवृषार्थाश्च नैते दिव्येषु कीर्तिताः । महिषारुरुसिंहाश्च क्रव्यादाः पशवश्च ये ॥ ३५७॥ हिंस्रसत्वेषु ते कार्या यक्षराक्षसजातिषु । उत्तमानां प्रयोक्तव्या नानारससमाश्रयाः ॥ ३५८॥ मत्तमातङ्गसहिता राजहंसाश्च योक्तृभिः शिखिनः सारसाः क्रौञ्चाश्चक्राह्वाः कसुदाकराः । मध्यमानां प्रयोक्तव्या औपम्यगुणसंश्रयाः ॥ ३५९॥ कोकिलं षट्पदं ध्वाङ्क्षं कुररङ्कौशिकं वकम् । पारावतं सकादम्बमधमेषु प्रयोजयेत् ॥ ३६०॥ एवमेषां प्रयोक्तानां स्त्रियो यास्तु भवन्ति हि । उत्तमाधममध्यानां तासां चैव निबोधत ॥ ३६१॥ शर्वरी च सुधा ज्योत्स्ना नलिनी करिणी नदी । नृपस्त्रीणां भवन्त्येता औपम्यगुणसंश्रयाः ॥ ३६२॥ दीर्घिका कुररी वल्ली सारसी शिखिनी मृगी । मध्यमानां भवन्त्येता वेश्यास्त्रीणां च नित्यशः ॥ ३६३॥ षट्पदीं कुररीं ध्वाङ्क्षीं परपुष्टां च योजयेत् । अधमाः स्युर्ध्रुवा ह्येताः प्रयोक्तव्याः प्रयोक्तृभिः ॥ ३६४॥ गत्यर्थोपमिता याश्च चलनार्था भवन्ति हि । प्रावेशिक्या बुधैरेव नैष्क्राभिक्यास्तथैव च ॥ ३६५॥ प्रावेशिक्याश्रया यास्तु पूर्वाह्नार्धे तु ताः स्मृताः । नक्तन्दिवसमुत्थास्तु नैष्क्रामिक्याः स्वकालजाः ॥ ३६६॥ सौम्याः पूर्वाह्नकाले तु मध्याह्ने दीप्तिसंश्रयाः अपराह्ने तथा मध्याः सन्ध्यायां करुणाश्रयाः । चलनार्था हि ये प्रोक्ता आक्षेपिक्या भवन्त्यपि ॥ ३६७॥ आक्षेपा एवमेव स्युर्द्रुतस्थितगतास्तथा । रोषामर्षादिसम्पूर्णाः लोकाद्भुतभयानकाः ॥ ३६८॥ यद्द्रव्यं वसुधासंस्थमृते दैवतमानुषान् । तत्सर्वमुपनेयं तु गानयुक्त्योपमाश्रयम् ॥ ३६९॥ स्थावरैः स्थावरं कुर्याद्गत्यर्थेश्चपलाश्रयम् । सुखदुःखकृतैर्भावैरौपम्यगुणसंश्रयात् ॥ ३७०॥ भूमिस्थ वाजिकुञ्जरमृगपशु शिविकाविमानानाम् । गतिविभ्रमं हि दृष्ट्वा कर्तव्या तु ध्रुवा तज्ज्ञैः ॥ ३७१॥ रथपत्रवाजिवारणविमानशिबिकास्थपक्षियानेषु । द्रुतपदवर्णावर्णैः कर्तव्या तु ध्रुवा तज्ज्ञैः ॥ ३७२॥ ओजस्कृता तु सा वै गुरुवर्णा वृषगजेन्द्र सिंहेषु । सारसवानरहंसे तथा मयूरे विधातव्या ॥ ३७३॥ द्रुतगमने लघुवर्णा विलम्बितगतै च दीर्घवर्णकृता । एवंस्थितद्रुतानां ज्ञात्वा भावं ध्रुवा कार्या ॥ ३७४॥ नास्ति किञ्चिद्वृत्तं तु पदं गानसमाश्रयम् । तस्माद्गीतिमभिप्रेक्ष्य तद्वृत्तं योजयेद्ध्रुवाम् ॥ ३७५॥ तस्माद्वाहनगत्यर्थैर्ध्रुवा कार्याक्षरैस्तथा । अङ्गानां समता यत्र भाण्डवाद्ये करिष्यति ॥ ३७६॥ यद्वृत्तौ वाहनगतौ ध्रुवापादौ विधीयते । तद्वृत्तं तु भवेद्वाद्यमङ्गवाद्यसमं तथा ॥ ३७७॥ पूर्व गानं तसो वाद्यं ततो नृत्तं प्रयोजयेत् । गीतवाद्याङ्गसंयोगः प्रयोग इति सञ्ज्ञितः ॥ ३७८॥ हृदयस्थस्तु यो भावः सोङ्गाभिनयनैरथ निवृत्यङ्कुरसूचात्तु कार्यस्त्वभिनयान्वितः । तत्र प्रासादिकी योज्या प्रहर्षार्थगुणोद्भवा ॥ ३७९॥ आकाशपुरुषो यत्र यत्र चाकाशभाषणम् । अन्वर्था तत्र कर्तव्या ध्रुवा ह्याभावसंश्रिता ॥ ३८०॥ प्रासादिक्याश्रया चापि हीर्ष्याक्रोधाश्रयाऽपि वा । श‍ृङ्गाररसमासाद्य ध्रुवाऽन्वर्था प्रयोगतः ॥ ३८१॥ यानि प्रासादिकानि स्युः स्थानानि रससंश्रयात् । अन्वर्था तत्र कर्तव्या ध्रुवा प्रासादिकी तथा ॥ ३८२॥ भाषां तु शौरसेनीं हि ध्रुवाणां सम्प्रयोजयेत् । यदाऽपि मागधी यत्र कर्तव्यं नर्कुटं तथा ॥ ३८३॥ दिव्यानां संस्कृतं गानं प्रमाणैस्तु विधीयते । अर्धसंस्कृतमेवं तु मानुषाणां प्रयोजयेत् ॥ ३८४॥ ये त्वौपम्यकृता दिव्या यदि तेषां प्रयोगतः । प्रवेशो नाटके तु स्याच्छृणु तेषां समाश्रयम् ॥ ३८५॥ यस्त्वेषां सात्विको भावः कर्मसङ्कीर्तनं च यत् । तत्कार्यं गानयोगेऽपि प्रमाणगुणसंश्रयम् ॥ ३८६॥ छन्दःप्रमाणसंयुक्तं दिव्यानां गानमिष्यते । पुण्याश्रयं च तत्कार्यं कर्मसङ्कीर्तनादपि ॥ ३८७॥ माला वक्त्रं पुटं वृत्तं विश्लोका चूलिका तथा । उद्गताऽपरवक्त्रा च कर्तव्या वै प्रयोक्तृभिः ॥ ३८८॥ विधानं छन्दसामेतत् मया पूर्वमुदाहृतम् । जयाशीर्वादयुक्तानि कार्याण्येतानि दैवते ॥ ३८९॥ ऋग्गाथाः पाणिकाश्चैव द्र ष्टव्यास्तु प्रमाणतः । सुश्रवश्चैव यस्मात्तु तस्माद्गीतं प्रयोजयेत् ॥ ३९०॥ गान्धारमध्यमयुताः पञ्चमयुक्तास्तु जातयो यास्तु । ताभिः प्रमाणगानं कर्तव्यं दैवतोपेतम् ॥ ३९१॥ प्रासादिकं स्थितं चैव नैष्क्रामं सप्रवेशनम् । प्रमाणमपि कर्तव्यं चतुःस्थानसमन्वितम् ॥ ३९२॥ प्रायशः संस्कृतं योज्यमनुष्टुप्च्छन्दसा कृतम् । नानादैवतकार्येषु ह्यन्तरा या विना तथा ॥ ३९३॥ वक्त्रं चापरवक्त्रं च माला चेति प्रवेशजम् । पुटं च चूलिका चैव नैष्क्रामिकमथेष्यते ॥ ३९४॥ प्रासादिक्युद्गतावृत्तिस्थितं चानुष्टुभीष्यते । स्थानान्येतानि बोध्यानि प्रमाणस्य बुधैरथ ॥ ३९५॥ यदनुष्टुप्कृतं गानं स्थितस्थानसमाश्रयम् । स्वप्नभ्रंशाश्रयकृतं चिन्सादुःखसमन्वितम् ॥ ३९६॥ गुरुप्रायाक्षरकृतं करुणश्रुतिजातिकम् । प्रकृष्टवर्णबहुलं स्थितस्थानं तु तद्भवेत् ॥ ३९७॥ उत्पादनार्थं नॄणां तु तथा विहरणेष्वपि । दिव्यान्वयं तु कर्तव्यं गानं पात्रसमाश्रयम् ॥ ३९८॥ मानुषेष्ववतीर्णेषु मर्त्यस्य स्मरणाश्रयम् । प्रायेण गानं कर्तव्यं दिव्यस्य स्मरणाश्रयम् ॥ ३९९॥ अस्यैव दुःखविषयं शोकचिन्ताविनाशजम् । प्रमाणगानं कर्तव्यं शोकावस्थान्तराश्रयम् ॥ ४००॥ ध्रुवाणां हि विधानस्य ह्याश्रयस्य विशेषतः । यथा प्रयोगः कर्तव्यस्तच्च मे सन्निबोधत ॥ ४०१॥ स्थापिते भाण्डविन्यासे त्रिसाम्नि परिकीर्तिते आश्रावणाद्यं कर्तव्यं बहिर्गीतप्रयोगजम् । प्रयुज्य च बहिर्गीतं पूर्वरङ्गं प्रयोजयेत् ॥ ४०२॥ पूर्वरङ्गे प्रयुज्ये तु नाट्याचार्यसमाश्रये । ध्रुवा तत्र प्रयोक्तव्या प्रकृतीनां प्रवेशजा ॥ ४०३॥ गत्याश्रयेण नाट्यज्ञैः पादैरनुगतैस्तथा । परिक्रमेण रङ्गस्य गानेनार्थवशेन च ॥ ४०४॥ परिवर्ताः प्रयोक्तव्याः पादैरनुगतैरथ । ध्रुवा तत्र प्रयोक्तव्या देवताभिर्युता बुधैः ॥ ४०५॥ तत्र पाताः प्रयोक्तव्या एकविंशतिरेव च । त्र्! यश्रा वा चतुरश्रा वा ध्रुवा नाट्ये प्रयोगतः ॥ ४०६॥ त्रिकलं पादपतनं त्र्! यश्रायास्तु विधीयते । चतुष्कलं तु पतनं चतुरश्रागतं भवेत् ॥ ४०७॥ उत्तमे चतुरश्रा च त्र्! यश्रा चैव तु मध्यमे । त्र्! यश्रं नर्कुटकं चैव ह्यधमेषु प्रयोजयेत् ॥ ४०८॥ विधिः स्वस्थगतो ह्यैष भवेच्चारणपातने । सम्भ्रमोत्पातरोषेषु कलार्धकलमिष्यते ॥ ४०९॥ त्रिकलद्विकलैककलाश्चतुष्कला यत्र पादविन्यासाः । तत्र च साम्यं कार्यं भाण्डेन समं च गानेन ॥ ४१०॥ न ह्येककला द्विकला ध्रुवाविरामा भवन्ति गानविधौ । तस्मान् साम्यं कार्यं भाण्डेन समं च गानेन ॥ ४११॥ ये पूर्वोक्ता भावाः स्थिताश्रया वा दताश्रया वापि । तेषां पातनिपातं ज्ञात्वा सम्यग्बुधैः कार्यम् ॥ ४१२॥ अपटाक्षेपकृता चेदात्ययिका हर्षरागशोकाद्याः । विच्छेदस्तत्र समः कार्यस्तज्ञैः प्रवेशे तु ॥ ४१३॥ एवमेते बुधैर्ज्ञेयाः प्रयोगपरिवर्तकाः । अतः परं प्रवक्ष्यामि भाण्डग्रहविजल्पनम् ॥ ४१४॥ अभाण्डमेव गानस्य परिवर्तं प्रयोजयेत् । चतुर्थे परिवर्ते तु तस्य भाण्डग्रहो भवेत् ॥ ४१५॥ सन्निपातग्रहाः काश्चित्काश्चिद्वै तर्जनीग्रहाः । तथाऽऽकाशग्रहाः काश्चित् ध्रुवा गाने भवन्ति हि ॥ ४१६॥ ध्रुवायास्तु ग्रहो यस्मात्कलाकाललयान्वितः । स तु भाण्डेन योक्तव्यस्तज्ज्ञैर्गतिपरिक्रमे ॥ ४१७॥ शीर्षकोद्घतयोश्चैव प्रदेशिन्या ग्रहो भवेत् । विलम्बितास्थितायोगे सन्निपाते तृतीयके ॥ ४१८॥ नर्कुटस्याड्डितायां च प्रासादिक्यास्तथैव च । सन्निपातग्रहः कार्यो द्रुतायाश्चोच्चके ग्रहः ॥ ४१९॥ नैष्क्रामिक्यनुबन्धानां ग्रहे गानसमो भवेत् । नत्वसौ परिवर्तस्तु कायॐ गाने प्रयोक्तृभिः ॥ ४२०॥ नर्कुटस्यापि चत्वारो ग्रहाः कार्याः प्रयोक्तृभिः । सन्निपातश्च शम्या च तालश्चाकाशजस्तथा ॥ ४२१॥ सम्प्रमावेगहर्षेषु प्रवेशा ये भवन्ति हि । ग्रहो गानसमस्तत्र सोद्घात्यः सम्प्रकीर्तिताः ॥ ४२२॥ भूषणवासःपतने वैकल्ये विस्मृते परिश्रान्ते । दोषाच्छादनहेतोरुद्धात्यः सम्प्रयोज्यस्तु ॥ ४२३॥ एवं प्रयोक्तृभिः कार्यं ध्रुवाणां सम्प्रवेशनम् । यथास्थानाश्रयोपेतं यथानृत्तकृतं तथा ॥ ३२४॥ यथावर्णादृते चित्रं न शोभोत्पादनं भवेत् । एवमेव विना गानं नाट्यं रागं न गच्छति ॥ ४२५॥ पूर्वरङ्गविधाने तु कर्तव्यो रागजो विधिः । देवपूजाधिकारस्तु तत्र सम्परिकीर्तितः ॥ ४२६॥ ततश्च काव्यबन्धेषु नानाभावसमाश्रयम् । ग्रामद्वयं तु कर्तव्यं यथासाधारणाश्रयम् ॥ ४२७॥ मुखे तु मध्यमग्रामः षड्जः प्रतिमुखे भवेत् । साधारितस्तथा गर्भे विमर्शे चैव पञ्चमम् ॥ ४२८॥ कौशिकं च तथा कार्यं गानं निर्वहणे बुधैः । सन्निवृताश्रयं चैव रसभावसमन्वितम् ॥ ४२९॥ तथा रसकृता नित्यं ध्रुवाः प्रकरणारिताः । नक्षत्राणीव गगनं नाट्यमुद्योतयन्ति ताः ॥ ४३०॥ मागधी प्रथमा गीतिस्तथा चैवार्धमागधी । सम्भाविता तृतीया स्यात्पृथुला च तथा परा ॥ ४३१॥ त्रिनिवृत्या पदानां तु मागधी समुदाहृता । चित्रेर्धमागधी चैव द्विनिवृत्तपदाश्रया ॥ ४३२॥ वृत्तौ सम्भावितो प्रायो लघुवाद्याक्षरान्विता । पृथुला दक्षिणे तु स्यात् गुरुवाद्याक्षरान्विता ॥ ४३३॥ गानयोगे चतस्रस्तु योज्याः सर्वत्र गायनैः । यथाक्षरकृता ह्येताः प्रयोज्यास्ते ध्रुवास्वपि ॥ ४३४॥ पूर्णस्वरं चाऽथ विचित्रवर्णं त्रिस्थानशोभि त्रिलयं त्रिमार्गम् रक्तं समं श्लक्ष्णमलङ्कृतं च । सुखं प्रशस्तं मधुरं च गानम् ॥ ४३५॥ गीते प्रयत्नं प्रथमस्तु कार्यः शय्यां हि नाट्यस्य वदन्ति गीतम् गीतेऽपि वाद्येऽपि च सम्प्रयुक्ते । नाट्यप्रयोगो न विपत्तिमेति ॥ ४३६॥ एतदुक्तं मया सम्यग्ध्रुवाणां लक्षणं महत् । अत ऊर्ध्वं प्रवक्ष्यामि गातृवादकयोर्गुणान् ॥ ४३७॥ इति भरतीये नाट्यशास्त्रे ध्रुवाविधानो नाम द्वात्रिंशोऽध्यायः ।
% Text title            : shrIbharatamunipraNItaM nATyashAstram adhyAya 32
% File name             : natya32.itx
% itxtitle              : nATyashAstram adhyAyaH 32
% engtitle              : Natya Shastra Chapter 32
% Category              : natyashastra
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Sage Bharata
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Scans 1, 2, 3, English 1, 2, Videos 1, 2)  (Needs proofreading)
% Latest update         : May 31, 2025
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org