नाट्यशास्त्रम् अध्याय ३४

नाट्यशास्त्रम् अध्याय ३४

अथ चतुस्त्रिंशोऽध्यायः । ततवाद्यविधानं तु यन् मयाऽभिहितं पुरा । अवनद्धगतस्यापि तस्य वक्ष्यामि लक्षणम् ॥ १॥ यथोक्तं मुनिभिः पूर्वं स्वातिनारदपुष्करैः । सर्वलक्षणसंयुक्तं सर्वातोद्यविभूषितम् ॥ २॥ मृदङ्गानां समासेन लक्षणं पणवस्य च । दर्दरस्य च सङ्क्षेपाद्विधानं वाद्यमेव च ॥ ३॥ अनध्याये कदाचित्तु स्वातिर्महति दुर्दिने । जलाशयं जगामाथ सलिलानयनं प्रति ॥ ४॥ तस्मिञ्जलाशये यावत् प्रविष्टः पाकशासनः । धाराभिर्महतीभिस्तु पूरयन्निव मेदिनीम् ॥ ५॥ पतन्तीभिश्च धाराभिर्वायुवेगाज्जलाशये । पुष्करिण्यां पटुः शब्दः पत्राणामभवत्तदा ॥ ६॥ तेषां धारोद्भवं नादं निशम्य स महामुनिः । आश्चर्यमिति सम्प्राप्तमवधारितवान् स्वयम् ॥ ७॥ ज्येष्ठमध्यकनिष्ठानां पत्राणामवधार्य च । गम्भीरमधुरं हृद्यमजगामाश्रमं ततः ॥ ८॥ ध्यात्वा सृष्टिं मृदङ्गानां पुष्करानसृजत्ततः । पणवं दर्दरं चैव सहितो विश्वकर्मणा ॥ ९॥ देवानां दुन्दुभिं दृष्ट्वा चकार मुरजांस्ततः । आलिङ्ग्यश्चोर्ध्वकं चैव तथैवाङ्किकमेव च ॥ १०॥ चर्मणा चावनद्धांस्तु मृदङ्गान् दर्दरं तथा । तन्त्रीभिः पणवं चैवमूहापोहविशारदः ॥ ११॥ त्रयं चान्यान्यपि तथा काष्ठायसकृतान्यथ । झल्लरीपटहादीनि चर्मनद्धानि तानि च ॥ १२॥ आतोद्यसमवाये तु यानि योज्यानि वादकैः । अङ्गप्रत्यङ्गयोगेन गदतो मे निबोधत ॥ १३॥ विपञ्ची चैव चित्रा च दारवीष्वङ्गसञ्ज्ञिते । कच्छपीघोषकादीनि प्रत्यङ्गानि तथैव च ॥ १४॥ मृदङ्गा दर्दराश्चैव पणवाश्चाङ्गसञ्ज्ञिताः । झल्लरीपटहादीनि प्रत्यङ्गानि तथैव च ॥ १५॥ अङ्गलक्षणसंयुक्तो विज्ञेयो वंश एव हि । शाखस्तुण्डिकिनी चैव प्रत्यङ्गै परिकीर्तिते ॥ १६॥ नास्ति किञ्चिदनायोज्यमातोद्यं दशरूपके । रसभाव प्रयोगं तु ज्ञात्वा योज्यं विधानतः ॥ १७॥ उत्सवे चैव याने च नृपाणां मङ्गलेषु च । शुभकल्याणयोगे च विवाहकरणे तथा ॥ १८॥ उत्पाते सम्भ्रमे चैव सङ्ग्रामे पुत्रजन्मनि । ईदृशेषु हि कार्येषु सर्वातोद्यानि वादयेत् ॥ १९॥ स्वभावगृहवार्तायामल्पभाण्डं प्रयोजयेत् । उत्थानकार्यबन्धेषु सर्वातोद्यानि वादयेत् ॥ २०॥ अङ्गानां तु समत्वाच्च छिद्र प्रच्छादने तथा । विश्रामहेतोः शोभार्थं भाण्डवाद्यं विनिर्मितम् ॥ २१॥ तत्रावनद्धे वक्ष्यामि विधिं स्वरसमुत्थितम् । नानाकरणसंयुक्तं भार्गजातिविभूषितम् ॥ २२॥ यावन्ति चर्मनद्धानि ह्यातोद्यानि द्विजोत्तमाः । तानि त्रिपुष्कराद्यानि ह्यवनद्धमिति स्मृतम् ॥ २३॥ एतेषां तु पुनर्भेदाः शतसङ्ख्याः प्रकीर्तिताः । किन्तु त्रिपुष्करस्यास्य लक्षणं प्रोच्यते मया ॥ २४॥ शेषाणां कर्मबाहुल्यं यस्मादस्मिन्न दृश्यते । न स्वरा प्रहाराश्च नाक्षराणि न मार्जनाः ॥ २५॥ भेरीपटसजम्भाभिस्तथा दुन्दुभिडिण्डमैः । शैथिल्यादायतत्त्वाच्च स्वरेऽगाम्भेर्यमिष्यते ॥ २६॥ प्रायशस्तानि कार्याणि कालं कार्यं समीक्ष्य तु । किन्तु त्रिपुष्करस्यास्य श्रूयतां यो विथिः स्मृतः ॥ २७॥ वाय्वात्मको भवेच्छब्दः स चापि द्विविधो मतः । स्वरवांशैव विज्ञेयस्तथा चैवाभिधानवान् ॥ २८॥ तत्राभिधानवान् नाम नानाभाषासमाश्रयः । स्वरवानपि विज्ञेयो नानातोद्यसमाश्रयः ॥ २९॥ शारीर्यामेव वीणायां स्वराः सप्त प्रकीर्तिताः । तेभ्यो विनिःसृताश्चैवमातोद्येषु द्विजोत्तमाः ॥ ३०॥ पूर्वशरीरादुद्भुतास्ततो गच्छन्ति दारवीम् । ततः पुष्करजं चैवमनुयान्ति घनं पुनः ॥ ३१॥ तेषां वाक्करणैर्ज्ञेयाः प्रहारा वचनाश्रयाः । झण्मण्या चेति संयुक्ता वीणावाद्यप्रयोगिनः ॥ ३२॥ शारीर्यामथ वीणायां झण्टु जगदि यादि च । भवेद्वाक्करणं तत्र नानाकरणसंयुतम् ॥ ३३॥ यं यं गाता स्वरं गच्छेत्तामातोद्यैः प्रयोजयेत् । यतिपाणिसमायुक्तं गुरुलघ्वक्षरान्वितम् ॥ ३४॥ पौष्करस्य तु वाद्यस्य मृदङ्गपणवाश्रयम् । विधानं सम्प्रवक्ष्यामि दर्दरस्य तथैव च ॥ ३५॥ षोडशाक्षरसम्पन्नं चतुर्मार्गं तथैव च । विलेपनं षट्करणं त्रियति त्रिलयं तथा ॥ ३६॥ त्रिगतं त्रिप्रकारं च त्रिसंयोगं त्रिपाणिकम् । दशार्धपाणिप्रहतं त्रिप्रहारं त्रिमार्जनम् ॥ ३७॥ विंशत्यलङ्कारयुतं तथाष्टादशजातिकम् । एभिः प्रकारैः सम्पन्नं वाद्यं पुष्करजं भवेत् ॥ ३८॥ तत्र षोडशाक्षरमिति यदुक्तं तदनुव्याख्यास्यामः कखगघटठडढतथदधमरलह इति षोडशाक्षराणीह । नियतं पुष्करवाद्ये वाक्करणैः संविधेयानि ॥ ३९॥ चतुर्मागं नाम । आलिप्ताङ्कितगोमुखवितस्ताश्चत्वारो मार्गाः । द्विलेपं नाम । वमोर्ध्वकप्रलेपात् । षट्करणं नाम । रूपं कृतप्रतिकृतं प्रतिभेदो रूपशेषमोधः प्रतिशुल्का चेति । त्रियतिर्नाम । समा स्रोतोगता गोपुच्छा चेत्यन्वयात् । त्रिलयं नाम । द्रुतमध्यविलम्बितयोगात् । त्रिगतं नाम । तत्त्वमनुगतमोघश्चेति । त्रिप्रचारं नाम । समप्रचारो विषमप्रचारः समविषमप्रचारश्चेति । त्रिसंयोगं नाम । गुरुसंयोगो लघुसंयोगो गुरुलघुसंयोगश्चेति । त्रिपाणिकं नाम । समपाणिरवपाणिरुपरिपाणिश्चेति । पञ्चपाणिप्रहतं नाम । समपाण्यर्धसमपाणिरर्धार्धसमपाणिः पार्श्वपाणि प्रदेशिनी चेति । त्रिप्रहारं नाम । निगृहीतोऽर्धनिगृहीतो मुक्तश्चेति । त्रिमार्जनं नाम मायूर्यर्धमायूरी कार्मारवी चेति । विंशत्यलङ्काराः अष्टादशजाविश्च पदभेदे दर्शयिष्यामः ॥ ४०॥ एतावत् सूत्रम् । अतः पदभेदः । तत्र षोडशाक्षरं नाम । अभिव्यञ्जितानि पूर्वं यान्येतानि षोडशाद्यानि ॥ तान्यक्षराणि जानीत पुष्करेषु यथाक्रमम् । पणवे दर्वरे चैव मृदङ्गेषु तथैव च ॥ ४१॥ कखतथभास्तु दक्षिणमुखेऽत्र घघमहाश्च वामके नियताः । गदकारौ चैवोर्ध्वे दठडोण लाः स्युरालिङ्गे ॥ ४२॥ एतेषामक्षराणां स्वरसंयोगं व्यञ्जनसंयोगं च व्याख्यास्यामः । तत्र अ आ इ ई उ ए ओ अं इति स्वरा व्यञ्जनैः सह संयोगं गच्छन्ति । अकारेकारोकारैकारौकाराङ्कारा इति ककारे । यथा । ककिकुकेकोकमिति । इकारैकारौकारा इति खकारे । खिखेखो इति । उकारैकारौ गकारे । यथा गुगे इति । अकारेकारोकारौकारा इति घकारे । यथा घधिघुघो इति । अकाराकारेकारौकाराङ्कारा टकारे । यथा टटाटिटोटमिति । अकाराकारेकारैकारौकाराङ्कारा इति ठकारे । यथा ठठाठिठेठोठमिति । एकारौकारौ ढकारे । यथा ढेढो इति । अकाराकारैकारौकारा इति णकारे । यथा णणाणेणो इति । अकाराकारेकारैकारा इति तथयोः । यथा ततातिते यथाथिथे इति । अकारोकारैकारौकारा इति दकारे । यथा ददुदेदो इति । अकाराकारेकारौकाराङ्कारा इति घकारे । यथा घघाघिघे । आकारेकारैकारा इति रेफे । यथा ररारिरे इति । अकारेकारैकारा इति लकारे । यथा ललालिले इति । हकारमकारौ शुद्धौ ॥ ४३॥ ककारगकारघकारतकारधकादकाराणां रेफोऽनुबन्धः । यथा क्र ग्र ध्र त्र द्र घ्र । ककारस्य लकारोऽनुबन्धः । यथा क्ल क्ले क्लमिति । हकारस्य णकारोऽनुबन्धः । यथा ह्ण इति । तकारस्य थकारोऽनुबन्धः । यथा त्थ इति । दकारस्य धकारोऽनुबन्धः । यथा द्धं द्धा द्धे इति । एवमेतैः संयोगैर्द्विहस्तसंयुक्तान्यक्षराणि भवन्ति ॥ ४४॥ तत्रैत एव द्विपुष्करे । आङ्किकमृदङ्गे द्विपुष्करे समहस्तनिपातनाद्धकारः । तत्रैवाङ्गुलिप्रचलनाद्ध्रकारः । तत्रैवावष्टम्भात्तत्रैवार्धनिगृहीतात् स्थकारः । तत्रैव दक्षिणमुखे पार्ष्णिनिपीडिते ककारः । तत्रैवाङ्गुलिकुञ्चनात्कुकारः । ऊर्ध्वकवामकयोः । समहस्तनिपातनाद्धङ्कारः । प्रदेशिन्या चालिङ्गे क्रेङ्कारः ॥ ४५॥ पञ्चपाणिप्रहतमिति यदुक्तं समपाण्यवपाण्यर्धार्धपाणिपार्श्वपाणिप्रदेशिन्यश्चेति । त एते पञ्चपाणिप्रहता के निगृहीतार्धनिगृहीतयुक्ता यथायोग कार्याः । तत्र समपाणिप्रहतो मकारः स निगृहीतः । गकारधकारदकारपकारा अर्धपाणिप्रहता अर्धनिगृहीताः । ककारखकारटकारदकाराः पार्श्वपाणिप्रहता निगृहीताश्च । तकारथकारावर्धार्धपाणिहतावर्धनिगृहीतौ । प्रदेशिन्या हतां आलिङ्गे ढकारणकारेफवकारा युक्ताः । द्विहस्तप्रहता ध्रुदॐल्के इति । मुक्तपार्श्वे थिक्रा इत्यर्घपाणिहता निगृहीताः । एव्रमेतेष्वक्षरेषु प्रयोगवशेन कार्या प्रहाराः ॥ ४६॥ षोडशैतानि दृष्टानि वाद्यजान्यक्षराणि तु । अनेनैव विधानेन योज्यं र्वाक्करणं बुधैः ॥ ४७॥ चतुर्मार्गं यदुक्तं तमनुव्याख्यास्यामः अड्डितालिप्तमार्गे तु वितस्ता गोमुखी तथा । मार्गाश्चत्वार एवैते प्रहारकरणाश्रयाः ॥ ४८॥ तत्र किङ्कमृदङ्गप्रहारयुक्तोऽड्डितमार्गो वामोर्ध्वप्रहारयुस्त आलिप्तमार्गः । ऊर्ध्वकाङ्किके दक्षिणमुखे आलिप्तहस्तो वितस्तमार्गः । आलिङ्गककरणबहुलः सर्वपुष्करहतो गोमुखीमार्ग इति ॥ ४९॥ तत्राड्डित प्रहारजातम् । भटकटथिधधटघेधोधहमन्धि धन्धनधिधि इत्यड्डितामार्गः । धडः गुटुगुटमघेदोधिन्धदुधिदुर्धेधि किङ्काकिटुमेट-कितां किङ्केकितान्द---तसितां गुटुगेत्येवं ज्ञेयो वितस्त्यास्तु । शुद्धं सिद्धं मद्धिकुटघेघेमत्थिद्धिधखुधुणङ्घेधोटत्थिमट गोमुखीमार्गः ॥ ५०॥ कुर्याद्वितस्तिमागे थरव्रिवर्जितान् प्रहारांस्तु । उद्धतमार्गेण विना शेषाः कार्यास्तु गोमुख्याम् ॥ ५१॥ द्रो मांस्तु गुटुगुटुधेद्र थणैघटकेदोराडिम् एवं विवाद्यं विज्ञेयं वादकैस्तज्ज्ञैः । ठिणिखिठिणिहो डडडधो गोमुख्याम् ॥ ५२॥ ये त्वालिप्तसमुत्था सर्वमागैस्तु ते विधातव्या । ग्रहगो न लक्ष्यसत्त्वो नाट्यविधानं समासाद्य । ग्रहमोक्षणसन्धानैस्तु मृदङ्गानां ग्रहो भवति ॥ ५३॥ एतेषां चैव वक्ष्यामि दर्शनानि यथाक्रमम् । चतुर्णामपि मार्गाणामक्षरग्रहणं यथा ॥ ५४॥ दाघददथिमटां धीमठां दिथिथिक्लं थिक्लाथिन्ताङ्क्लाथिकटाम् । कटधिमटां खोखोघेटातड्डितावाद्यम् ॥ ५५॥ तन्त्रान्तिकिता धन्धन्द्र घटितयेटम् । यटथकिकेत्तवितस्तायाम् ॥ ५६॥ ध्राम्मां घुटूघेघेटाघटितकथिथिधोटामाम् । आलिप्तकसंयोगो कार्ये संवादने सम्यक् ॥ ५७॥ ध्रटमिथिघेटाङ्घेघेतमथिधोणाखमत्थिधक्लेन्ताम् । खोखोथाथा णाणाणाणा च गोमुख्याम् ॥ ५८॥ एतेषां पुष्कराणां त्रिविधः प्रचारः । समप्रचारो विषमप्रचारः समविषामप्रचार इति ॥ ५९॥ तत्र वामोर्ध्वकयोर्वामः सव्यो वै दक्षिणोर्ध्वके चापि कार्यः । समप्रचारे ह्यालिप्ते लिप्तवाद्यकरणे तु ॥ ६०॥ वामोर्ध्वकसव्यानां प्रहतो वामः करस्तु कर्तव्यः । सव्योर्ध्वकसंयोगात्प्रहतो हस्तप्रचारे तु ॥ ६१॥ स्वच्छन्दकः कराणां प्रहतं शेषेषु मार्गकरणेषु । अड्डितगोमुखयोगे समविषमो हस्तसञ्चारः ॥ ६२॥ श‍ृङ्गारहास्ययोगे वाद्यं योज्यं तथाऽड्डिते मार्गे । वीराद्भुतरौद्रा णां वितस्तमार्गेण वाद्यं तु ॥ ६३॥ करुणरसेऽपि हि वाद्यं योज्यं ह्यालिप्तकरणमार्गे तु । बीभत्सभयानकयोस्तथैव नित्यं हि गोमुख्या ॥ ६४॥ रससत्वभावयोगान् दृष्ट्वाभिनयं गतिप्रचारांश्च । वाद्यं नित्यं कार्यं यथाक्रमं वाद्ययोगज्ञैः ॥ ६५॥ एवं प्रहतविधानं कार्यं मार्गाश्रितं बुधैः सम्यक् । वक्ष्याम्यतश्च भूयो दर्दरपणवाश्रितं वाद्यम् ॥ ६६॥ अतिवादितमनुवाद्यं समवादितमुच्यते पणववाद्यम् । तत्रातिवादितं स्यान् मुरजानामग्रतो यत्तु ॥ ६७॥ यत्वनुगतं मृदङ्गैरनुवादितमुच्यते तु तद्वाद्यम् । समवादितं मृदङ्गैर्ज्ञेयं साम्येन यद्वाद्यम् ॥ ६८॥ कखगा ठठणा देह्वा णरला क्रुलिलन्ध्रणेति किरिकिह्ला । एते वर्णाः पणवातोद्यविधाने विधातव्याः ॥ ६९॥ धोधोणाधोकिहुलं प्रहुलं ह्णह्णिति रिणिति रिह्णथह्णे कन्थित्वाढेढेण्ढणां पणववाद्यम् । ण्होणिकिमिकिर्लैणोण इति पणववाद्यं तु ॥ ७०॥ तस्य प्रहतं कार्यं कनिष्ठिकानामिकाग्रकोणेन । नानाकरणविभागैः पणवे शिथिलाञ्चिते तज्ज्ञैः ॥ ७१॥ वादककनिष्ठिकाभ्यां शीघ्रकृताः करेऽथ नेणोहाः । शेषास्तु वादनकृताः स्मृताः प्रहारा बिविधाद्याः ॥ ७२॥ कोणानामिकवाद्यं मध्याङ्गुल्या हि वादनं कार्यम् । कोणानामिकवाद्यं शुद्धं प्रहतं भवेदेतत् ॥ ७३॥ भ्रान्तकयोगात् क्रिहुळमित्येतत् भ्रान्तवादनाग्रेण । रिभितकरणानुविद्धं तत्रामस्तत्र कारस्तु ॥ ७४॥ शीघ्रकरणानुविद्धैर्डकारस्त्वर्धहस्तसंयोगात् । स तु वादकेन वाद्ये धुर्येण विशेषतः कार्यः ॥ ७५॥ स्वञ्चितकच्छौ पणवौ कृत्वा धुर्यपरिवादकस्यां हि । रणणकिकिहिकिणिङ्क इति प्रहारा विधातव्याः ॥ ७६॥ अञ्चितकक्ष्ये पणवे रेफः सोऽर्धे तु हस्योर्ध्वे ग्रहे । कार्यो मयूरककरा सूक्ष्मौघास्तथा प्रहारा विधातव्याः ॥ ७७॥ कृत्वा च शिथिलकक्ष्यां कार्यास्तु कनिष्ठिकाप्रकोणेन । तेनैव चरे प्रेद्धो भागे इत्यञ्चितेनैव ॥ ७८॥ अञ्चितशिथिले पणवे कठणानिकिणिकिण्णिकृताः । प्रहारास्तु वैभ्रान्तककरणेन तथा स्वञ्चितकक्ष्ये च शिथिले च ॥ ७९॥ अञ्चितकक्ष्ये पणवे कखरटणकृता मताः प्रहारास्तु । धिन्ने इति प्रहाराः पणवे तु सदा शिथिलकक्ष्ये ॥ ८०॥ कखरटकृताः प्रहाराः सोच्छ्वासे हि पणवे विधातव्याः । शेषा भ्रान्तकयोगाः संयुक्ताः संविधातव्याः ॥ ८१॥ टङ्कारेण स्वनजं वाद्यं कक्ष्याञ्चिते तु सम्भवति । तेन नकारो युक्तो ह्ण इति च पणवे प्रहारः स्यात् ॥ ८२॥ तिर्यग्गृहीतवादनमुखवर्तित इष्यते तकारस्तु । तहुलं तहुलं क्रमशश्चैवं ह्येते प्रहारास्तु ॥ ८३॥ एवं पणवे वाद्यं विधिवत् सङ्क्षेपतो यथाऽभिहितम् । वक्ष्याम्यतः परमहं दर्दरवाद्याक्षराण्येव ॥ ८४॥ रेकॢतिकुत्खनोत्वनोधन्मोगोणेहधिण्णसंयुक्ताः । इति दर्दरे प्रहाराः कार्या मुक्ता निषण्णाश्च ॥ ८५॥ कार्यास्तत्र निषण्णा रग्रध्रह्णि इति च दक्षिणकरेण । वामेन गोमदोत्था न नखस्पृष्टः प्रकारोऽग्रे ॥ ८६॥ मुक्तौ तीत्रित्रिण भवेन्निपीडने करद्वयेनापि । धीमुक्तः प्रहतं स्यादनुस्वने ताडिते चैव ॥ ८७॥ स्यात् पीडिते च धिह्णेत्येतन्मुक्तं तथा विमुक्तेऽपि । शेषा भवन्ति मुक्तास्तन्का इति चैव निगृहीते ॥ ८८॥ शीघ्रकरणानुबन्धस्थितिरेव हि निःस्वनः स्खलितकं स्यात् । इति दर्दरे प्रहाराः समासतस्तत्र विज्ञेयाः ॥ ८९॥ एवं त्वसङ्करकृता प्रहारशुद्धिरिह कीर्तिता तज्ज्ञैः । दर्दरपणवमृदङ्गैर्मिश्रितवाद्यं प्रवक्ष्यामि ॥ ९०॥ तत्र व्यक्तीभावं वाद्ये गच्छन्ति मिश्रिताः केचित् । केचिद्युगपत्करणं केचित् पर्यायकरणं तु ॥ ९१॥ एकैकसम्प्रयुक्ता वर्णानुगतस्तथैव सम्पृक्ता । घOन्द्रे रेदोखोकोत्रिहुलं तत्कृता मृदङ्गेषु ॥ ९२॥ अथ दर्दरेऽपि धिन्धिङ्क्लेते पणवयोस्तु संयुक्ताः । डणके खोददोदे दिधिरे दिधिनि मिश्रास्तु ॥ ९३॥ आभ्यो येऽन्ये शेषास्ते मिश्रा एव नित्यशः कार्याः । पूर्वोऽपि च मिश्रत्वं व्रजन्ति सर्वे यथायोगम् ॥ ९४॥ अथ युगपत्करणानि तु हह्णह्णेकुकुनणन्ध्रलन्दोह्णम् । ग्रहुलं नह्णादो एवं योज्यास्तु पणवे हि ॥ ९५॥ धुर्यः कृतासु क्रमशः करणे परिवादनेन कर्तव्या । कोखोदेदोधोणह्णेति किणिकिणिति कृताश्च ॥ ९६॥ पणवानामनुबन्धे कार्यं धुक्दुह्णकेति वाद्यं तु । भूयः प्रतिकृतिभेदो मार्दङ्गिकदर्दरिभ्यां च ॥ ९७॥ यद्यत्कुर्यान्मुरजे प्रहारजातं गतिप्रचारेषु । अनुगतमक्षरवृत्तं तदेव वाक्यं तु पणवेऽपि ॥ ९८॥ न हि चित्रं कर्तव्यं गतिप्रचारेषु वादनं तज्ज्ञैः । समविषमं तत्र हि यद्वृक्ष्यं पादसञ्चारे ॥ ९९॥ उपरिकरणे यथेष्टं कर्तव्यस्तु पणवो मृदङ्गेषु । तत्र प्रहारकरणैर्मृदङ्गवाद्यं विधातव्यम् ॥ १००॥ प्रायेण सर्ववादेष्वादौ पणवग्रहः प्रयोक्तव्यः । वक्ष्याम्यहमतः परं तु लक्षणं करणजातस्य ॥ १०१॥ रूपं कृतप्रतिकृतं प्रतिभेदो रूपशेषमोघस्य । षष्ठी च प्रतिशुक्लेत्येवं ज्ञेयं करणजातम् ॥ १०२॥ तत्र रूपं नाम विभक्तकरणम् । यथा घङ्घङ्गेघं किटिमा किटिमा घटत्थि घटपत्थि । घदुगुरुकिटिकट कृह्णं दोघे दोघे क्ले ॥ १०३॥ इति रूपम् । कृतप्रतिकृतं नाम यत्रैकं करणं त्रिपुष्कर इत्युद्भावयति यथा दङ्खुखुणक्रमधिमदाण्णेटोटतितोटमत्थिमानक्रम् । गुरुखे किहुले दोह्णं दोस्रो दोधोण खे वाद्यम् ॥ १०४॥ प्रतिभेदो नाम युगपत्कृते करणे मृदङ्गानां यदुपरिकरणेन गच्छन्ति यत् । दाधा धाणिधा मटगतमधिं घटे घटे दोघे घट मत्थिणह्नको खो । एभिः करणविशेषैः प्रतिभेदो नाम विज्ञेयः ॥ १०५॥ इति वाद्यम् रूपशेषं नाम करणानामविशेषो यथा खुखुणं णणणणणां मढाघेव मथिटां घेटां घेदो । ये घेटमढिणष्णरवो इति वाद्य रूपशेषं तु ॥ १०६॥ प्रतिशुल्कं नामानुस्वारो मार्दङ्गिकदर्दरवादकानाम् । यथा । घटमथि कुणकिटि गखाखा कथिधिजाणणकोखोणाखा । कुटकटि कुणकिटि कटखे प्रतिशुल्काख्यं सदा करणम् ॥ १०७॥ ओघो नाम सर्वभाण्डविधेयो द्रुतपाणिलयो नद्योघवत् ओघो यथा घङ्किटिमथकिटिकिटिवे घदघुदेदेण धाण दाधानणोखो । घदुगुदुघुदुगुदुपदघेरेणिण एते तथौघे च ॥ १०८॥ करणानां समायोगः षड्विधः परिकीर्तितः । अनेनैव विधानेन योज्यं वाक्करणं बुधैः ॥ १०९॥ त्रियति नाम । समा स्रोतोगता गोपुच्छा चेति । लययतिपाणीनां त्रिविधः संयोगः । स च त्रिप्रकारो भवति । तद्यथा । राद्धं विद्धं शय्यागतं चेति ॥ ११०॥ त्रिलयं नाम । द्रुतो मध्यो विलम्बितश्चेति ॥ १११॥ त्रिपाणिकं नाम समपाणिरर्धपाणिरुपरिपाणिश्चेति ॥ ११२॥ समायतिर्द्रुतश्चैव लयो यत्र भवेदथ । तथैवोपरिपाणिश्च राद्धस्त्वेष विधिर्भवेत् ॥ ११३॥ स्रोतोगता यतिर्यत्र लयो मध्यस्तथैव च । समपाणिस्तथा चैव विद्धं वाद्यं तु तद्भवेत् ॥ ११४॥ अर्धपाणिस्तु यत्र स्यात्तथा चैव स्थितो लयः । यतिश्चैव तु गोपुच्छा वाद्य शय्यागतं तु तत् ॥ ११५॥ स्थिताल्लयात्प्रभृत्येषां प्रमाणं सम्प्रवर्तते । कार्यहानिं कलानां च शेषेष्वन्येषु पाणिषु ॥ ११६॥ यतयः पाणयश्चैव लया वै वाद्यसंश्रयाः । ययाकामं हि कर्तव्या नाट्यशक्तिमवेक्ष्य तु ॥ ११७॥ त्रिमार्जनं नाम । मायूरी ह्यधमायूरी तथा कार्मारवीति च । तिस्रस्तु मार्जना ज्ञेयाः पुष्करेषु स्वराश्रयाः ॥ ११८॥ गान्धारो वामके कार्यः षड्जो दक्षिणपुष्करे । ऊर्ध्वके पञ्चमश्चैव मायूर्यां तु स्वरा मताः ॥ ११९॥ वामके पुष्करे षड्ज ऋषभो दक्षिणे तथा । ऊर्ध्वके धैवतश्चैवमर्धमायूर्युदाहृताः ॥ १२०॥ ऋषभः पुष्करे वामे षड्जो दक्षिणपुष्करे । पञ्चमश्चोर्ध्वके कार्यः कार्मारव्याः स्वरास्त्वमी ॥ १२१॥ एतेषामनुवादी तु जातीनां यः स्वरो मतः । आलिङ्गमार्जनां प्राप्तो निषादः स विधीयते ॥ १२२॥ मायूरी मध्यमग्रामे षड्जे त्वर्धा तथैव च । कार्मारवी तु कर्तव्या साधारणसमाश्रया ॥ १२३॥ स्वराः स्थानस्थिता ये तु श्रुतिसाधारणाश्रयाः । त एव मार्जनकृताः शेषाः सञ्चारिणो मताः ॥ १२४॥ वामके चोर्ध्वके कार्या आहार्या लेपतः स्वराः । शैथिल्यादायतत्त्वाच्चावध्राकोटनयाऽपि च ॥ १२५॥ स्वराणां सम्भवः कार्यो मार्जनासु प्रयोक्तृभिः । मार्जना तु कृता कार्या वामकोर्ध्वकयोः सदा ॥ १२६॥ लक्षणं मृत्तिकायास्तु गदतो मे निबोधत । निश्शर्करा निस्सिकता निस्तृणा निस्तुषा तथा ॥ १२७॥ न पिच्छिला न विशदा न क्षारा न कटुस्तथा । नावदाता न कृष्टा च नाम्ला नैव च तिक्तका ॥ १२८॥ मृत्तिका लेपने शस्ता तया कार्या तु मार्जना । नदीकूलप्रदेशस्था श्यामा च मधुरा च या ॥ १२९॥ तोयापसरणश्लक्ष्णा तया कार्या तु मार्जना । बधिरा ह्यवदात्ता तु कृष्णा कुर्वीत न स्थिरा ॥ १३०॥ न तुषा न स्वरकरी श्यामा स्वरकरी भवेत् यवगोधूमचूर्णां वा तत्र दद्यात्प्रलेपने । एकस्तस्य तु दोषः स्यादेकस्वरकृतं भवेत् ॥ १३१॥ त्रिसंयोगं नाम । गुरुसञ्चयो लघुसञ्चयो गुरुलघुसञ्चयश्चेति ॥ १३२॥ तत्र गुरुसञ्चयो नाम । गुरुस्थितलयौधवृत्तो यथा । धन्तां केतां धन्द्रा ं! घेतं धन्धं तथैव केन्तान्धम् । दन्दन्देन्देन्द्रा घें!ताङ्खेन्ताखेन्तामिति च गुरु स्यात् ॥ १३३॥ लघुसञ्चयो नाम । गुरुलघुमध्यप्रवृत्तो यथा घटमटघटमथटमथटमधिद्धडगुडधडधत्कृलघु घटमथिघदुगुदुखघदुघङ्कृतो लघुलयश्च । इति संयोगौ ज्ञेयौ मृदङ्गवाद्ये प्रयोगज्ञैः ॥ १३४॥ गुरुलघुसञ्चयो नाम । गुरुलघुमद्यमप्रवृत्तो यथा । घटथिम्मथिथिं मथितं किटा घटधिं टत्थिमटके । इति संयोगो गुरुलघुप्लुतः स्यात् ॥ १३५॥ त्रिगतं नाम । तत्त्वमनुगतमोघं चेति अक्षरसदृशं वाद्यं स्फुटपदवर्णं तथैव वृत्तसमम् । सुविभक्तकरणयुक्तं तत्त्वे वाद्यं विधातव्यम् ॥ १३६॥ समपाण्यवपाणियुतं स्फुटप्रहारकरणानुगं चैव । गेयस्य च वाद्यस्य च भवेदवधाताय तदनुगतम् ॥ १३७॥ नैककरणाश्रयगतं ह्युपर्युपरिपाणिकं द्रुतलयं च । आविद्धकरणबहुलं योज्यं वाद्यं बुधैरेघेः ॥ १३८॥ सर्वस्यापि हि वाद्यस्य अष्टौ साम्यानि भवन्ति । तद्यथा अक्षरसममङ्गसमं ताललयत्वं यतिसमकं ग्रहसमकम् । न्यासापन्याससमं पाणिसमं चेति विज्ञेयम् ॥ १३९॥ यद्वृत्तं तु भवेद्गानं गुरुलघ्वक्षरान्वितम् । तद्वृत्तं तु भवेद्वाद्यं तदक्षरसमं भवेत् ॥ १४०॥ ध्रुवाणां ग्रहमोक्षेषु कलान्तरकलासु च । यदङ्गं क्रियते वाद्यं तदङ्गसममुच्यते ॥ १४१॥ यच्छरीरं भवेद्गानं कलातालप्रमाणजम् । तत्प्रमाणं तु तद्वाद्यं तद्वै तालसमं भवेत् ॥ १४२॥ स्थिते मध्ये द्रुते वापि लये गानं तु यद्भवेत् । तथा भवेत्तु तद्वाद्यं तद्वै लयसमं भवेत् ॥ १४३॥ समा स्रोतोगता चापि गोपुच्छा च यतिर्यथा । तथा भवेत्तु यद्वाद्यं तद्वै यतिसमं भवेत् ॥ १४४॥ ततावनद्धवंशानामेकश्रुतिकृतोऽपि च । ग्रहो गानेन सहितं तत्तु ग्रहसमं भवेत् ॥ १४५॥ न्यासापन्यासयोगस्तु स्वराणां तु भवेद्यथा । तद्वद्वाद्यं यदातोद्ये न्यासापन्यासजं तु तत् ॥ १४६॥ समपाण्यर्धपाणिस्थं तथैवोपरिपाणिकम् । गीतवाद्यानुगं वाद्य ज्ञेयं पाणिसमं तु तत् ॥ १४७॥ अष्टादशजातिकमिति यदुक्तं तदनुव्याख्यास्यामः । तद्यथा शुद्धा पुष्करकरणा विषमा विष्कम्भितैकरूपा च । पार्ष्णिसमा पर्यस्ता समविषमकृता च कीर्णा च ॥ १४८॥ पर्यवसानोच्चितिका संयुक्ता सम्प्लुता महारम्भा । विगतक्रमा विगलिता वञ्चितिका चैकवाद्या च ॥ १४९॥ एतासां जातीनां लक्षणनिदर्शनान्यभिव्याख्यास्यामः एकाक्षरकृतं वाद्यं यद्भवेत्सार्वमार्गिकम् । नित्यं करणयोगेन सा शुद्धा नामतो यथा ॥ १५०॥ धन्धन्द्रं द्रं क्लाखोखोहाणेति विहितवाक्या । सा शुद्धा विज्ञेया मध्यस्त्रीणां सदा जातिः ॥ १५१॥ स्वस्तिकहस्तविचारा सर्वमृदङ्गप्रहारसंयुक्ता । सा त्रिलयवाद्ययुक्ता पुष्करकरणा भवेज्जातिः ॥ १५२॥ घेन्ताङ्केन्ताङ्खेन्तां दीर्क्षकृतैरक्षरैः कृता या च । राज्ञां स्वभावगमने सा विषमा नामतो जातिः ॥ १५३॥ गुरुयुग्मं लघुयुग्मं तोटकं वाऽपि । नित्यं यत्र तु वाद्ये विष्कम्भा नाम सा जातिः ॥ १५४॥ वामोर्ध्वकप्रवृत्तादोघे क्षिप्तावकृष्टलययुक्ता । सा करुणा स प्राया जातिः स्यादेकरूपा तु ॥ १५५॥ थित्थं थिकट् थिन्धिकटं मटथिकरणैः सपार्ष्णिकृतैः । थेक्लेटाघेग्रथिता पार्ष्णिसमा सा भवेज्जातिः ॥ १५६॥ ताघेन्तान्तान्दोघेदोह्णामित्यक्षरैस्तु संयुक्ता । पर्यस्ता जातिरियं मध्यमपुरुषेषु कर्तव्या ॥ १५७॥ कुत्वोपरिपाणिकृतं वाद्यं यद्द्रुतलयं समारूढम् । पुनरेव समलयं स्यात् समविषमा सा तु विज्ञेया ॥ १५८॥ अवकीर्णं यद् द्विगुणैस्त्रिगुणैर्वा करणं मृदङ्गानाम् । पणवेषु दर्दरेष्वव्यवकीर्णा नाम सा जातिः ॥ १५९॥ पर्यवगच्छति पूर्वं यस्मिन् वै प्रस्तुतं करणजातम् । त्रिविघेऽपि तु लययोगे पर्यवसाना तु सा जातिः ॥ १६०॥ घेण्टान्दोह्णण्ण्णुणहामेभिः स्यात्त्वक्षरैर्हि सम्बद्धा । साम्यार्धे उच्चितिका जातिर्वाद्ये तु बोद्धव्या ॥ १६१॥ थङ्केटाङ्केटकिणामेभिर्या त्वक्षरैस्तु संयुक्ता । संयुक्तकृता जातिः सा सा चेटगतौ विधातव्या ॥ १६२॥ सर्वाङ्गुलिचलनकृता सर्वमृदङ्गप्रहारसंयुक्ता । भीतनभोयानगतौ सम्प्लुतजातौ विधातव्या ॥ १६३॥ अवपाणिकरणयुक्तं कृत्वादौ मध्यलयतुल्यम् । वाद्य द्रुतलयमन्ते जातिः स्यात्सा महारम्भा ॥ १६४॥ ऊर्ध्वाङ्कदक्षिणमुखे क्षिप्तप्रहता वितस्तमार्गा च । अङ्कोर्ध्वकप्रवृत्ता दक्षिणवामप्रहारजाता च ॥ १६५॥ प्रायेणोद्घतमार्गा वितस्तमार्गाश्रयेण दिव्यानाम् । धन्द्रा ं! धन्द्रा ं! प्राया जातिर्विगतवलभा नाम ॥ १६६॥ लघ्वक्षरभूयिष्ठा विचित्रकरणा च सर्वमागेषु । वाद्याऽविसर्पिकरणा विगलितनामा तु सा जातिः ॥ १६७॥ करणैर्बहुभिश्चितैः सर्वमृदङ्गसंहारसंयुक्ता । स्वाभाविकोत्तमगतौ वञ्चितिका सा तु विज्ञेया ॥ १६८॥ ध्रोध्रोध्रेध्रेधोधं एभिर्या त्वक्षरैश्च संयुक्ता । सा ह्येकवाद्यजानिर्वृत्तगतिविधानवत् कार्या ॥ १६९॥ एवमेतेन विधिना कर्तव्यं वादनं बुधैः । गतिप्रचारे गीते च दशरूपे विशेषतः ॥ १७०॥ सप्तरूपविधानेन छन्दकासारितेषु च । तत्त्वं चानुगतं चैव तद्धौधो वाद्यमिष्यते ॥ १७१॥ वाद्यं गुर्वक्षरकृतं तथाल्पाक्षरमेव च । गतिप्रचारे कर्तव्यं गाने सम्यगिहेच्छता ॥ १७२॥ तत्त्वं चानुगतं चापि ओघश्चापि कदाचन । राज्ञां ललितगामित्वाद्वाद्यं योज्यं स्वभावजम् ॥ १७३॥ तत्त्वं तु प्रथमे गाने द्वितीयेऽनुगतं भवेत् । तृतीये त्वोघसञ्ज्ञं तु वाद्यं गतिपरिक्रमे ॥ १७४॥ ध्रुवासु छन्दतश्चित्रं शेषाणां सम्प्रयोजयेत् । तथा स्थितावकृष्टायां वाद्यं त्वनुगतं भवेत् ॥ १७५॥ प्रावेशिकीनां कर्तव्यं तत्त्वं चानुगतं तथा । नैष्क्रामिक्यन्तरकृतं कार्यं त्रिलयवाहितम् ॥ १७६॥ द्रुते प्रासादिकीनां द्रुतं चोधं च वादयेत् । एवं ध्रुवाणां कर्तव्यं वाद्य प्रकरणान्वितम् ॥ १७७॥ मात्रांशकविकल्पस्तु ध्रुवापादेषु यो भवेत् । स तु भाण्डेन कर्तव्यस्तज्ज्ञैर्गतिपरिक्रमे ॥ १७८॥ एवं गतिप्रचारेषु कार्यं वाद्य प्रयोक्तृभिः । ताण्डवे सुकुमारे च वाद्य वक्ष्यामि तत्त्वतः ॥ १७९॥ अभाण्डमेकं गानस्य परिवर्तं प्रयोजयेत् । तस्यान्ते सन्निपाते च कार्यो भाण्डग्रहो बुधैः ॥ १८०॥ अथवा नृत्तशोभार्थमङ्गानां परिवर्तनम् । सङ्गीतस्य प्रकर्तव्यं लयस्य च निवर्तनम् ॥ १८१॥ यत्राभिनेयमङ्गे तु तत्र वाद्यं प्रयोजयेत् यत्र पाणिवशादङ्गं भूयो भूयो निवर्तते । स तत्रार्थोऽभिनेयस्तु शेषं नृत्तेन योजयेत् ॥ १८२॥ यद्वृत्तं तु पदं गाने तादृशं वाद्यमिष्यते । गीतवाद्यप्रमाणेन कुर्याच्चाङ्गविचेष्टितम् ॥ १८३॥ यथा गुर्वक्षरं चैव तथाल्पाक्षरमेव च । मुखे सोपोहने कार्यं प्रकृतेर्वर्णतस्तथा ॥ १८४॥ स्थिते शुद्धप्रहारं तु मध्येऽक्षरसमं तथा । कार्यं तु गीतके वाद्यं द्रुते चोपरिपाणिकम् ॥ १८५॥ समं रक्तं विभक्तं च तथा शुद्धप्रहारजम् । नृत्ताङ्गग्राहि च तथा वाद्यं कार्यं तु ताण्डवे ॥ १८६॥ सनृत्तेषु प्रयोगेषु तत्त्वं ह्यनुगतं तथा । अनृत्तेषु प्रयोगेषु तत्त्वमोघं क्रमेण तु ॥ १८७॥ स्थिते मध्ये द्रुते चापि यथा गानं तु गीयते । तथा नृत्ताङ्गहारेषु तेन चैव क्रमेण तु ॥ १८८॥ यो विधिर्गानवाद्यानां पदाक्षरलयान्विता । स तु नृत्ताङ्गहारेषु कर्तव्यो नाट्ययोक्तृभिः ॥ १८९॥ एतास्तु जातयः प्रोक्ता दश चाष्टौ च भाण्डजाः । अत ऊर्ध्वं प्रवक्ष्यामि प्रकारान् वाद्यसंश्रयान् ॥ १९०॥ तद्यथा । चित्रः समो विभक्तश्चिन्नश्छिन्नविद्धो विदो वाद्यसंश्रयोऽनुसृतः प्रतिविद्युतो दुर्गोऽवकीर्णोऽर्धावकीर्णः परिक्षिप्त एकरूपो नियमान्वितः साचीकृतः समलेकश्चित्रलेखः । सर्वसमवायः कृतो दृढ इति ॥ १९१॥ तत्र रिखितोजकृतश्चित्रो नानाकरणभूषितः । प्रसन्नकरणं चैव त्रिपाणिलयसम्भवः ॥ १९२॥ दर्दरपणवमृदङ्गैर्नानाकरणैः समनुयातः । तालाङ्गवेणुयुक्तः स तु विज्ञेयः समो नाम ॥ १९३॥ नात्यायतस्तथा स्यादिह सास्थानस्थितो विभक्तश्च । अक्षरपाणिलयेषु च विभक्तकरणे विभक्तस्तु ॥ १९४॥ वाद्यं द्रुतलयं यत्र सहसा विनिवर्तते । सर्वातोद्येषु भिन्नेषु प्रकारश्छिन्न एव सः ॥ १९५॥ अवपाणिमृदङ्गेषु पणवोपरिपाणिकः । यदा भवन्ति वाद्येषु छिन्नविद्धस्त्वसौ भवेत् ॥ १९६॥ शुद्धानुविद्धं यद्वाद्यं सर्वातोद्येषु दृश्यते । परस्परानुवेघेन सोऽनुविद्ध इति स्मृतः ॥ १९७॥ मृदङ्गकरणे वाद्यं पणवानुगतं च यत् । सूचीविद्धैर्विचित्रैस्तु करणैर्विद्ध उच्यते ॥ १९८॥ विशुद्धवाद्यप्रकृतिः समपाणिकृतस्तथा । स्वरूपानुगतश्चैव विज्ञेयो वाद्यसंश्रयः ॥ १९९॥ मुरजः पणवो वापि पणवो दर्दरोऽथवा । अनुवादि यदा वाद्ये भवेदनुसृतस्तु सः ॥ २००॥ अनुगम्यं यदातोद्यं गच्छेत्समलयं पुनः । श्रान्तवत्समवाद्येषु तदा स्यात्पर्तिविद्युतः ॥ २०१॥ वाद्ये प्रचारविषमः सर्वमार्गप्रबोधनः । अविभक्ताक्षरपदः स दुर्ग इति कीर्तितः ॥ २०२॥ समवृत्तौ तु मुरजाश्छाद्यन्ते पणवैर्यदि । नाना विचित्रैः करणैरवकीर्णः स उच्यते ॥ २०३॥ द्रुतं लयं समारभ्य पणवो दर्दरोऽपि वा । अवपाणौ यदा स्यातां तदात्वर्धावकीर्णकः ॥ २०४॥ पणवैश्छादितं यत्र वाद्यमल्पमृदङ्गजम् । सुविभक्ताक्षरपदं परिक्षिप्तः स उच्यते ॥ २०५॥ सर्वातोद्यानि यत्रैकं करणं भावयन्ति तु । समवृत्तपदान्येवमेकरूप उदाहृतः ॥ २०६॥ प्रशान्तनियमोपेतः स्फुटवाद्यसमन्वितः । उपयाति च गीतं यः स ज्ञेयो नियमान्वितः ॥ २०७॥ चित्रं हि करणं यत्र वाद्येनैकेन वाद्मते । वृत्ताङ्गहारानुकृतो ज्ञेयः साचीकृतस्तु सः ॥ २०८॥ कृत्वोपरिगतं वाद्यं पणवो दर्दरोऽपि वा । प्रयाति मुरजं यत्र समलेखः स कीर्तितः ॥ २०९॥ चित्रं बहुविधं वाद्यं मृदङ्गपणवादिभिः । क्रियते यत्र संरब्धैश्चित्रलेखः स उच्यते ॥ २१०॥ सर्वमार्गगतो यस्तु सर्वपाणिलयाश्रयः । विचित्रश्च विभक्तश्च तत्समं समवायितम् ॥ २११॥ यस्तु मध्यलयोपेतः समः सुविहिताक्षरः । गतिप्रचारे विहितः प्रकारो दृढ एव सः ॥ २१२॥ एवमेते प्रकारास्तु कर्तव्या वाद्यसंश्रयाः । गतिप्रचारे गीते वा रसभावानवेक्ष्य च ॥ २१३॥ प्रकारा जातयश्चैव सर्वमार्गेषु संस्थिताः । ये वै गतिप्रचारेषु शुद्धास्ते केवला मताः ॥ २१४॥ प्रयोगमिदानीं दक्ष्यामः । तत्रोपविष्टे प्राङ्मुखे रङ्गे कुतप एव विन्यासः कर्तव्यः । तत्र पूर्वोक्तयोर्नेपथ्यगृहद्वारयोर्मध्ये कुतप-विन्यासः कार्यः । तत्र रङ्गाभिमुखो मौरजिकस्तस्य पाणविक-दर्दरिकौ वामतः । एष प्रथममवनद्धकेन तस्य ततः कुतपविन्यास उक्तः । तत्रोत्तराभिमुखो गायकः । गायकस्य तु वामपार्श्वे वैणिकः । वैणिकस्य दक्षिणेन वंशवादकौ । गातुरभिमुखं गायिका । इति कुतपविन्यासः ॥ २१५॥ तत्र । प्रयोगेषु प्रणेतव्यो वेशस्थानवशानुगः । यथास्थानस्थितेष्वेषु वामकातोद्यकेषु च ॥ १२६॥ एवमचलाकम्पितास्खलितासन्नोपविष्टेषु मार्दङ्गिकदार्दरिकपाणविकेषु शिथिलाञ्चितवध्रस्तनितेषु यथाग्रामरागमार्जनालिप्तेषु मृदङ्गेषूरुद्वयनिपीडने तेषु निगृहीतार्थनिगृहीतमुक्तप्रकारकृतेषु दर्दरवादनविन्यस्तैर्देवतानामावाहनविसर्जनार्थं । प्रथममेव तावत्त्रिसाम कर्तव्यम् ॥ २१७॥ वामे चान्द्र मसं साम तत्प्रीणयति पन्नगान् । दक्षिणे जालजं साम तदृषीन् प्रीणयस्यथ ॥ २१८॥ उदीच्यामपि चाग्नेयं तद्बृहद्दैवतानि च । त्रिसाम कीर्तितं सम्यक् त्रिसामत्वाद्बुधैरथ ॥ २१९॥ त्रिप्रकारं त्रिगुणितं तथा चैवाड्डिताश्रयम् । त्रिकलं षट्कलं चैव त्रिसाम परिकीर्तितम् ॥ २२०॥ त्रिसामाक्षरपिण्डस्तु गुरुलघ्वक्षरान्वितः । यकारश्च मकारश्च त्रिकैस्त्रिगुणितं भवेत् ॥ २२१॥ समुदायस्तदपेक्षम् । त्रिचा दिङ्ग्ले झण्टुं प्रथमं साम । त्रिचा झण्टुं दिङ्ग्ले द्वितीयम् । त्रिचा झण्टुं झण्टुं तृतीयमिति । तदन्ते पूर्वरङ्गविधानमनुप्राप्य छन्दःसमेनाक्षरसमेन वा वाद्येन बहिर्गीत-विधानमनुवर्तितव्यम् । आसारितप्रयोगे च तत्त्वानुगतप्रायं वाद्यं विधातव्यम् । यत्र त्रिसाम स प्रत्याहाराय चासाववतीर्णकोटी तत्र वाद्यं प्रवर्तते । तत्रादौ तावद्वामोर्ध्वकप्रहारयुतं पश्चादालिङ्गनविमर्दनकरं गोपुच्छां च त्रिसामा विचित्रकरणयुतं मार्दङ्गिकसर्वभाण्डिकमपि वाद्यं पश्चात्प्रवर्तनीयम् । पूर्वं हि भाण्डवाद्येन सिद्धिरुत्पादनीया । स्त्रीबालमूर्खावकीर्णे च रङ्गे कुतूहलजननसमर्थवाद्यमुपपन्नं भवति ॥ २२२॥ अपि च । आचार्याः सममिच्छन्ति परुच्छेदं तु पण्डिताः । स्त्रियो मधुरमिच्छन्ति विकृष्टमितरे जनाः ॥ २२३॥ तस्य चान्ते ताण्डवप्रयोगमधिकृत्य नर्तक्या अवतरणकाले लघुवर्णसञ्चयमङ्किकेऽङ्गुलिप्रचलनप्रायं वाद्यं योज्यम् । गीतकसन्निपाते च लास्यामनुवाद्यम् । तेन नृत्ताङ्गहारानुगतं करणवाद्यं प्रयोज्यम् । आलिप्तमार्गेण जातिकरणान्वितमुत्थापने वाद्यं प्रयोक्तव्यम् । ततः परं परिवर्तनं चातुर्भागिकं शुद्धजात्या-श्रयं चतुर्थकारप्रवेशेषु वाद्यमङ्गुलिप्रचलनप्रायमिति । नान्दीशुष्कावकृष्टासु करणाश्रितं वाद्यं योज्यम् । रङ्गद्वारे प्ररोचनाया जर्जरे त्रिगते चार्यां चाड्डितमार्गाश्रितं सन्निपातग्रहं प्रयोक्तव्यम् । महाचार्यां वितस्तिमागाश्रितं प्रदेशिनीग्रहम् । एवं तावत्पूर्वरङ्गे भाण्डवाद्यमुक्तम् । नायकानां तु स्वस्थगतिप्रचारं वक्ष्यामः । तत्र घन्द्रा द्रां! द्रां! ं! इति देवतानाम् । घेन्ताङ्केन्तां --- कृणकिटिप्रायं विप्राणाम् । व्यञ्जकप्रायं मध्यमानाम् ॥ २२४॥ एवं स्वस्थावस्थागतिप्रचारे विधीयते वाद्यम् । द्विकलाश्च तथैककलाश्चतुष्कलाश्चैव पादविन्यासाः ॥ २२५॥ तत्र तु साम्यं कार्यं भाण्डे च समं च गानेन । पुनश्चावस्थाकृतं वाद्यं वक्ष्यामि त्वरितगमने ॥ २२६॥ धन्धङ्घेघेटं इत्येवं वाद्यं प्रयोक्तव्यम् । रथविषमादिगतमङ्गुलिप्रचलनकृतं विहितम् ॥ २२७॥ तत्रैव पूर्वं सम्यग्लिखितं गतिप्रचारे तु । पुनरन्यावस्थायां वाविधानं प्रवक्ष्यामि ॥ २२८॥ त्वरितगमनेषु भावा ये पूर्वोक्ता गतिप्रचारेषु । ध्रङ्घेर्घेर्घेप्रायं तत्र तु वाद्यं प्रयोक्तव्यम् ॥ २२९॥ नौरथविमाननेपथ्यानिलाकाशजेऽङ्गुलीचलनात् । कार्यं हि तच्चतुष्केऽप्यन्योन्यसमाश्रितं वाद्यमिति ॥ २३०॥ दुःखार्दितव्याधितेष्टजनवियोगविभवनाशवधबन्धः । व्रतनियमोपवासादियुक्तेष्वालिप्तमागबन्धो विधातव्यः ॥ २३१॥ दत्यदानवयक्षराक्षसपन्नगादीनां धन्द्रा धं!द्रा धं!कुताम् । घेघेटाप्रायं खञ्जविकलपङ्गुवामनादीनाम् ॥ २३२॥ टघटाघेप्रायं चेटकुसत्वादीनां थोकटखुखणेत्यादिकम् । यतिपाशुपतशाक्यादीनां धहुधहुघेघेप्रायम् ॥ २३३॥ ओपस्थापक निर्मुण्डवर्षवरादीनां घेटाङ्घोटाम्भाण्टाण्ण्णाणाप्रायम् वृद्धश्रोत्रियकञ्चुकिस्थूलादीनां खOन्ध्रोघोखोखो इति प्रायम् । गजवाजिखरोष्ट्ररथविमानयानेषु वङ्किटिप्रायम् ॥ २३४॥ सर्वत्रोत्तममध्यमाधमेषु पुरुषेष्विस्थं रसभावानभिसमीक्ष्य वाद्यं प्रयोक्तव्यम् । एवं तावत्पुरुषवाद्यम् ॥ २३६॥ स्त्रीणां पुनरभिव्याख्यास्यामः । तत्रोत्तमस्त्रीणां मध्यामां च टोस्वधधिदोघेण्टमधिके इति प्रायम् । अथ राजस्त्रीणां धङ्कि-ह्णमथिथिदोह्लकखुखुप्रायम् । धङ्कितिकिथिघटमटमटमथिथे इति ब्राह्मणीनाम् । अथ मध्यमस्त्रीणां वेश्याशिल्पकारीणां किटिण्णाणं थङ्कथिङ्घटमथिहुणकिटिकिटिप्रायम् । टमथिकुण केडखुखिखि प्रायं गीतं स्त्रीणाम् । एवं तावत्सामान्यतोऽभिहितं स्त्रीणाम् । अवस्थान्तरितानां तु त एव पौरुषा वाद्यविशेषा भवन्ति । सामान्यतोऽभिनये भयशोक-क्रौञ्छादयो हि भावा आसां समुत्पद्यन्ते । आसामपि रसभावाभिनयापेक्षं भार्गाश्रितं वाद्य भवति ॥ २३६॥ अपि च जातिमार्गप्रचारैस्तु करणैरक्षरैस्तथा । वादयेद्यस्त्वसङ्कीर्णं स श्रेष्ठो वादको मतः ॥ २३७॥ अथान्तरवाद्यानि । अनुबन्धो विप्रहारितं सिद्धिर्ग्रहणं परिच्छिन्नमिति ॥ २३८॥ तत्रानुबन्धसञ्ज्ञमन्तरवाद्यं यथा धोणाधोक्लघे इति । पाठ्यविरामे विप्रहारितं यथा घन्द्रा खॐ!खोणा इति ॥ २३९॥ सिद्धिरपि । ऐश्वर्ये विस्मृते शान्ते वस्त्राभरणसंयमे । सिद्धिर्वादयितव्या तु नानाकरणसंश्रया ॥ २४०॥ सा च सिद्धिर्यथा समार्गकरणाश्रया कार्या विचित्रकरणा पञ्चकला । अवस्थान्तरे पुनरेवमेव कृता भवति ॥ २४१॥ अपि साध्यविरामे वाद्यं परिषत्साधनकृते विरामे च । वस्त्राभरणनिपाते प्रकुर्यादभ्यञ्जने काले ॥ २४२॥ अथ परिच्छिन्नं सार्वभाण्डिकम् । ध्रुवायो ग्रहोपशमने गम्भीरधीरप्रहारमुद्घतं यथारसं च षट्कलम् । तत्रोत्तमानां वितस्त-मार्गाश्रितं द्रं द्रं क्लेघेके इति ॥ २४३॥ अथोत्तमस्त्रीणामड्डितावाद्याश्रयणम् । खो खो खा इति । अधमानां खञ्जनर्कुटकस्थम् । यथा टेङ्कखाकिटिकिटिना इति ॥ २४४॥ अथप्रासादिकीप्रावेशिक्याक्षेपिक्यवकृष्टासु । तत्र प्रासादिकीप्रावेशिक्योः समपाणौ विभक्तकरणं वाद्यम् । द्रुतायामुपरिपाणिर्विचित्रकरणं स्थितावकृष्टायामर्थसन्निपातकृतमिति । यथा धोण्णेधोधो इति ॥ २४५॥ एवमेतत्प्रयोक्तव्यं वाद्यं गतिपरिक्रमे । प्रासादिक्यां ध्रुवायां च त्वन्तरायां तथैव च ॥ २४६॥ अभाण्डमेकं गीतं तु परिवर्तं प्रयोजयेत् । सन्निपातावसानेषु भाण्डवाद्यग्रहो भवेत् ॥ २४७॥ अथ द्रुतविलम्बितायां यथा । तलखो तलखो तलखो इति । अथाड्डितायां यथा । धोणखोखोणके---कुखुणाणाणा खोदें क्लखॐके इति ॥ २४८॥ अथोद्धात्यम् । सम्भ्रमावेगहर्षार्थे विस्मयोत्साहज्ञोकजे । ग्रहे गानस्य यद्वाद्यमुद्घात्यं सम्प्रकीर्तितम् ॥ २४९॥ मोक्षमिदानीं वक्ष्यामः । तद्यथा । खेन्नान्तिकिठिदत्तकित्तकिकिदोत्तगोगोगघेदोघेटाघेघेरादो इति । यथाड्डितायाम् । घटमथिघङ्घङ्खोखोणखोखोणखोखो चेणं डक्कणिष्कषणुड्डप्प इति । अथ नर्कुटखञ्जयोः । योधन्द्रा धं!द्रा तं!किताङ्गुटुगुटु घे इति । अवस्थितायाम् । घङ्घङ्घेटम्मटघेघेत्थिमटाङ्कटत्थिमटत्थिकटकिटीथिटी इति । अथावकृष्टायाम् । घटमटत्थिरथिगुटुघेट इति ॥ २५०॥ एवमेते ग्रहा मोक्षा ध्रुवाणां गदिता मया । निष्क्रामे च प्रवेशे च त्वाक्षेपिक्यन्तरासु च ॥ २५१॥ त्वं तालकलाज्ञाने मार्दङ्गिकेन प्रयतितव्यम् । भवति चात्र । अतालज्ञमकालज्ञमशास्त्रज्ञं च वादकम् । चर्मघातकमित्येवं प्रवदन्ति मनीषिणः ॥ २५२॥ अनेनैवविधानेन कार्यं वाद्यं प्रयत्नतः अघमानां नर्कुटखञ्जषेदात् प्रयुक्तं च वर्णान्तरिका । अतःपरं प्रवक्ष्यामि त्वातोद्यानां तु लक्षणम् ॥ २५३॥ त्रिधा कृतिर्मृदङ्गानां हारीतकयवाश्रया । तथा गोपुच्छरूपा च भवन्त्येषां च रूपतः ॥ २५४॥ हरीतका कृतिस्त्वङ्को यवमध्यस्तथोर्ध्वगः । आलिङ्गश्चैव गोपुच्छः आकृत्या सम्प्रकीर्तितः ॥ २५५॥ तालत्रयं तथार्धं च मृदङ्गोऽङ्किक इष्यते । मुखं तस्य च कर्तव्यं द्वादशाङ्गुलयोजितम् ॥ २५६॥ ऊर्ध्वकोऽपि तथा कार्यश्चतुस्तालप्रमाणतः । अङ्गुलानि मुखं तस्य कर्तव्यं तु चतुर्दश ॥ २५७॥ आलिङ्गश्चैव कर्तव्यस्तालत्रयमथापि च । मुखं तस्याङ्गुलानि स्युरष्टादेव समासतः ॥ २५८॥ दैर्घ्येण पणवश्चैव कर्तव्यः षोडशाङ्गुलः । कृशमध्याङ्गुलान्यष्टौ पञ्चाङ्गुलमुखस्तथा ॥ २५९॥ ओष्ठावस्य तु कर्तव्यौ तज्ज्ञैरध्यर्धमङ्गुलम् । मध्यं च सुषिरं तस्य चत्वार्येवाङ्गुलानि च ॥ २६०॥ दर्दरश्च घटाकारो नवाङ्गुलमुखस्तथा । विधानं चास्य कर्तव्यं घटस्य सदृशं बुधैः ॥ २६१॥ द्वादशाङ्गुलविस्तीर्णं पीनोष्ठस्य समासतः । अतः परं प्रवक्ष्यामि चर्मलक्षणमुत्तमम् ॥ २६२॥ न ज्वरोपहतं चर्म न च काकमुखाहतम् । नापि दोषहतं क्लिन्नं न च घूमाग्निदूषितम् ॥ २६३॥ एभिर्दोषैर्विनिर्मुक्तं चर्म निर्वर्त्यते गवाम् । शुद्धपल्लवसङ्काशं हिमकुन्देन्दुपाण्डुरम् ॥ २६४॥ अत्यामिषविहीनं तु क्लिनं वा चर्म कर्मणि । विदित्वैव सुवर्णानि चर्माण्याहृत्य बुद्धिमान् ॥ २६५॥ शीतोदके निशामेकां स्थापयित्वा समुद्धरत् । वध्रैः सुललितैर्दात्रैर्गोमयैरक्तमार्जितैः ॥ २६६॥ चन्द्र कैस्तनुभिः पश्चात् मृदङ्गान् योजयेद् बुधः । पुष्पावस्तर्त ततः कुर्यात् त्रिवर्ति चन्द्र काश्रयाम् ॥ २६७॥ कक्ष्याख्यं वै परिकरं ग्रीवाख्यं स्वास्तिकं तथा । त्रिशतं च प्रकुर्वीत पुष्करे ह्याक्षिकानि तु ॥ २६८॥ दश तत्र हि वध्रास्तु प्रक्षेप्या वर्तिसंश्रयाः । द्वे हित्वा त्वाक्षिके वध्र तृतीये सम्प्रवेशयेत् ॥ २६९॥ सर्वेष्वेवं प्रयोगोऽयमाक्षिकेषु विधीयते । तन्त्रीभिः पणवं नह्येत् सदृढाभिः समन्ततः ॥ २७०॥ वातपुष्करिकां चैव योजयेत्तनुयर्मणा । एवं मृदङ्गपणवाः कर्तव्या दर्दरास्तथा ॥ २७१॥ नवे मृदङ्गे दातव्यं रोहणं सततं बुधैः । गव्यं घृतं च तैलं च तिलपिष्टं तथैव च ॥ २७२॥ तथा ह्येतेन विधिना त्वाङ्गिकालिङ्गकोर्ध्वकान् । देवताभ्यर्चनं कृत्वा ततः स्थाप्या महीतले ॥ २७३॥ चित्रायामथवा हस्ते शुक्लपक्षे शुभेऽहनि । उपाध्यायः शुचिर्विद्वान् कुलीनो रोगवर्जितः ॥ २७४॥ मतिमान् गीतितत्त्वज्ञो मधुरोऽविकलेऽन्द्रि यः । सोपवासोऽल्पकेशश्च शुल्कवासा दृढव्रतः ॥ २७५॥ मण्डलत्रयमालिप्य गोमयेन सुगन्धिना । ब्रह्माणं शङ्करं विष्णुं त्रिषु तेषु प्रकल्पयेत् ॥ २७६॥ आलिङ्गं स्थापयेत्पूर्वं कृते ब्राह्मेऽथ मण्डले । ऊर्ध्वकं तु द्वितीयेऽस्मिन् रुद्र नाम्नि निधापयेत् ॥ २७७॥ तिर्यगुत्सङ्गिकं सम्यग्वैष्णवे मण्डले क्षिपेत् । बलिपुष्पोपहारैस्तु पूजयेत्पुष्करत्रयम् ॥ २७७॥ पायसं घृतमघ्वक्तं चन्दनं कुसुमानि च । शुक्लानि चैव वासांसि दत्वा लिङ्गे स्वयम्भुवः ॥ २७९॥ त्र्! यम्बकाय प्रदातव्यः सगणायोर्ध्वके बलिः । स्वस्तिकैर्लाजिकापुष्परूपपिण्डाष्टकैः सह ॥ २८०॥ उन्मत्तकरवीरार्कपुष्पैरन्यैश्च भूषितः । बलिः कार्यः प्रयत्नेन रक्तकौदुम्बरैः सह ॥ २८१॥ वैष्णवे मण्डले स्थाप्यः सर्वबीजगतोऽङ्किकः । स्रग्वस्त्रालेपनैः प्रीतैश्चरुभिश्च सपायसैः ॥ २८२॥ वाचयित्वा द्विजैः स्वस्तिं रत्वा पूर्वं च दक्षिणाम् । पूजयित्वादिगन्धर्वान् पश्चाद्वाद्यं समाचरेत् ॥ २८३॥ दैवतानि च वक्ष्यामि येषां ते च भवन्ति हि । वज्रेक्षणः शङ्कुकर्णो ग्रहश्चापि तथा महान् ॥ २८४॥ एतास्तु देवता विप्राः पुष्करेषु प्रकीर्तिताः । मृण्मयत्वान् मृदङ्गास्तु भाण्डं भ्रमयतीति च ॥ २८५॥ मुरजास्तूर्ध्वकरणादातोद्यं तोदनादपि भाण्डस्यादौ प्रणीतोऽत्र पणवश्च विधीयते । द्वारं शब्दं दारयति तस्माद्भवति दर्दरः ॥ २८६॥ सृष्ट्वा मृदङ्गाम् पणवं दर्दरं च महामुनिः । मेघैश्च स्वरसंयोगं मृदङ्गानामथासृजत् ॥ २८७॥ विद्युज्जिह्वो भवेद्वामे मेघः स तु महास्वनः । ऐरावतो महामेघस्तथा चैवोर्ध्वके भवेत् ॥ २८८॥ आलिङ्गके तडिद्मांश्च नाम्ना चैव बलाहकः । दक्षिणे पुष्करो मेघः पुष्करो वामयोजितः ॥ २८९॥ मृदङ्गश्चैव नाम्ना तु ऊर्ध्वके नन्द्यथथोच्यते । अङ्किकः सिद्धिरित्येवमालिङ्गश्चैव पिङ्गलः ॥ २९०॥ भूतप्रियो बलिस्तेभ्यो दातव्यः सिद्धिमिच्छता । अपूजयित्वा ह्येतान् वै नैव प्रेक्षां प्रयोजयेत् ॥ २९१॥ करीषस्य तु सङ्घाते मृदङ्गं स्थापयेद् बुधः । सुसभ्या तानचलितास्तथा च पतिता पुनः ॥ २९२॥ आतोद्यपणवैश्चैव नर्तकोपनतास्तथा । शान्तिकर्म प्रयुञ्जीत विधिदृष्टेन कर्मणा ॥ २९३॥ चत्वारः पणवाः कार्याः दशरूपविधौ पुनः । आतोद्यान्यपि तान्येव नानावस्थासु वादयेत् ॥ २९४॥ नाटके सप्रकरणे भाणके प्रहसने तथा मृदङ्गं पणवं चैव दर्दरं चैव वादयेत् । एवमेतद्बुधैर्ज्ञेयं मृदङ्गानां तु लक्षणम् ॥ २९५॥ गतिवाद्यतालपाठ्यग्रहमोक्षविशारदोऽथ लघुहस्तः । छिद्रा च्छेदविधिज्ञः सिद्धस्थाने ध्रुवाकुशलः ॥ २९६॥ कलरिभितमधुरहस्तः सुनिविष्टो रक्तमार्जनो बलवान् । अवहितशरीरबुद्धिर्मृदङ्गवादी गुणैरेतैः ॥ २९७॥ आलेपनप्रमाणज्ञश्चतुर्मार्गकृतश्रमः । प्रतिग्राही च सिद्धीनामङ्गदोषविवर्जितः ॥ २९८॥ स्वभ्यस्तकरणः सामे गीतज्ञो गुणितग्रहः । सुसङ्गीतप्रयोगज्ञो मृदङ्गी तु भवेद्गुणैः ॥ २९९॥ भ्रान्तोर्ध्वहस्तः कालज्ञश्छिद्रा वरणपण्डितः । अभ्यस्तकरणश्चैव भवेत्पाणविको गुणैः ॥ ३००॥ निश्चलो निपुणः शीघ्रो लघुहस्ती विधानवित् । वादनान्तरवादी च दर्दरी तु प्रशस्यते ॥ ३०१॥ एतत्सर्वं नाट्ययोगं समीक्ष्य प्रोक्तं वाद्यं सर्वलोकानुभावात् । नोक्तं यच्चेदागमाद्वस्तुबुध्या । सद्भिः कार्यं मार्गजातीः समीक्ष्य ॥ ३०२॥ स्फुटप्रहारं विशदं विभक्तं रक्तं विकृष्टं करलेपनं च । त्रिमार्जनापूरितरागगम्यं । मृदङ्गवाद्यं गुणतो वदन्ति ॥ ३०३॥ वाद्ये तु यत्नः प्रथमं तु कार्यः शय्या हि नाट्यस्य वदन्ति वाद्यम् । वाद्ये च गीते च हि सु प्रयुक्ते । नाट्यप्रयोगे न विपत्तिमेति ॥ ३०४॥ इति भरतीये नाट्यशास्त्रे पुष्करवाद्यो नामाध्यायश्चतुस्त्रिंशः
% Text title            : shrIbharatamunipraNItaM nATyashAstram adhyAya 34
% File name             : natya34.itx
% itxtitle              : nATyashAstram adhyAyaH 34
% engtitle              : Natya Shastra Chapter 34
% Category              : natyashastra
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Author                : Sage Bharata
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (Scans 1, 2, 3, English 1, 2, Videos 1, 2)  (Needs proofreading)
% Latest update         : May 31, 2025
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : http://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org