नाट्यशास्त्रम् अध्यायः ३५
॥ श्रीरस्तु ॥
भरतमुनिप्रणीतं नाट्यशास्त्रम्
अथ पञ्चत्रिंशोऽध्यायः ।
विन्यासं भूमिकानां च सम्प्रवक्ष्यामि नाटके ।
यादृशो यस्य कर्तव्यो विन्यासो भूमिकास्वथ ॥ १॥
गतिवागङ्गचेष्टाभिः सत्त्वशीलस्वभावतः ।
परीक्ष्य पात्रं तज्ज्ञस्तु युञ्ज्याद् भूमिनिवेशने ॥ २॥
तस्मिन्नन्विष्य हि गुणवान् कार्या पात्रसमाश्रया ।
न खेदजननं बुद्धेराचार्यस्य भविष्यति ॥ ३॥
आचार्यः पात्रजांश्चैव गुणाञ्ज्ञात्वा स्वभावजान् ।
ततः कुर्याद् यथायोगं नृणां भूमिनिवेशनम् ॥ ४॥
अङ्गप्रत्यङ्गसंयुक्तमहीनाङ्गं वयोन्वितम् ।
न स्थूलं न कृशं चैव न दीर्घं न च मन्थरम् ॥ ५॥
श्लिष्टाङ्गं द्युतिमन्तं च सुस्वरं प्रियदर्शनम् ।
एतैर्गुणैश्च संयुक्तं देवभूमिषु योजयेत् ॥ ६॥
स्थूलं प्रांशुं बृहद्देहं मेघगम्भीरनिस्वनम् ।
रौद्रस्वभावनेत्रं च स्वभावभ्रुकुटीमुखम् ॥ ७॥
रक्षोदानवदैत्यानां भूमिकासु प्रयोजयेत् ।
पुरुषाणां प्रयोगस्तु तथाङ्गक्रिययान्वितः ॥ ८॥
सुनेत्रसुभ्रुवः स्वङ्गाः सुललाटाः सुनासिकाः ।
स्वोष्ठाः सुगण्डाः सुमुखाः सुकण्ठाः सुशिरोधराः ॥ ९॥
स्वङ्गप्रत्यङ्गसंयुक्ता न दीर्घा न च मन्थराः ।
न स्थूला न कृशाश्चैव स्वभावेन व्यवस्थिताः ॥ १०॥
सुशीला ज्ञानवन्तश्च तथा च प्रियदर्शनाः ।
कुमारराजभूमौ तु संयोज्याश्च नरोत्तमाः ॥ ११॥
अङ्गैरविकलैर्धीरं स्फुटं वसनकर्मणि ।
न दीर्घं नैव च स्थूलमूहापोहविचक्षणम् ॥ १२॥
अदीनं च प्रगल्-भं च प्रत्युत्पन्नविनिश्चयम् ।
सेनापतेरमात्यानां भूमिकासु प्रयोजयेत् ॥ १३॥
पिङ्गाक्षं घोणनासं च नेत्रमुच्चमथापि वा ।
कञ्चुकिश्रोत्रियादीनां भूमिकासु नियोजयेत् ॥ १४॥
एवमन्येष्वपि तथा नाट्यधर्मविभागतः ।
देशवेषानुरूपेण पात्रं योज्यं स्वभूमिषु ॥ १५॥
मन्थरं वामनं कुब्जं विकृतं विकृताननम् ।
विष्टब्धनेत्रं काणाक्षं स्थूलं चिपिटनासिकम् ॥ १६॥
दुर्जनं दुस्वभावं च विकृताचारमेव च ।
दासभूमौ प्रयुञ्जीत बुधो दासाङ्गसम्भवम् ॥ १७॥
प्रकृत्याऽतिकृशं क्षामं तपःश्रान्तेषु योजयेत् ।
तथा च पुरुषं स्थूलमुपरोधेषु योजयेत् ॥ १८॥
यदि वा नेदृशाः सन्ति प्रकृत्या पुरुषा द्विजाः ।
आचार्यबुद्ध्या योज्यास्तु भावचेष्टास्वभावतः ॥ १९॥
या यस्य सदृशी चेष्टा ह्युत्तमाधममध्यमा ।
स तथाऽऽचार्ययोगेन नियम्या भावभाविनी ॥ २०॥
अतः परं प्रवक्ष्यामि भरतानां विकल्पनम् ।
भरताश्रयाश्च भरतो विदूषकः सौरिकस्तथा नान्दी ।
नन्दी ससूत्रधारो नाट्यरसो नायकश्चैव ॥ २१॥
मुकुटाभरणविकल्पौ विज्ञेयो माल्यवस्तुविविधैश्च ।
कारककुशीलवाद्या विज्ञेया नामतश्चैव ॥ २२॥
धुर्यवदेको यस्मादुद्धारोऽनेकभूमिकायुक्तः ।
भाण्डग्रहोपकरणैनाट्यं भरतो भवेत् तस्मात् ॥ २३॥
लोकाहृदाश्रयकृता सर्वप्रकृतिप्रचारसंयुक्ता ।
नानाश्रयां प्रकुरुते तथा च नारी तु सर्वत्र ॥ २४॥
प्रत्युत्पन्नप्रतिभो नर्मकृतो नर्मगर्भनिर्भेदः ।
छेदविदूषितवचनो विदूषको नाम विज्ञेयः ॥ २५॥
तूर्यतिस्तु नरः सर्वातोद्यप्रवादने कुशलः ।
तूरपरिग्रहयुक्तो विज्ञेयस्तौरिको नाम ॥ २६॥
नटनृति धात्वर्थोऽयं भूतं नाटयति लोकवृत्तान्तम् ।
रसभावसत्वयुक्तं यस्मात् तस्मान्नटो भवति ॥ २७॥
स्तुत्यभिवादनकृतैर्मधुरैर्वाक्यैः सुमङ्गलाचारैः ।
सर्व स्तौति हि लोकं यस्मात् तस्माद्भवेद्वादी ॥ २८॥
भावेभ्यो बहुधाऽस्मिन् रसा वदति नाट्ययोगेषु ।
प्राकृतसंस्कृतपाठ्यो नन्दी नामेति स ज्ञेयः ॥ २९॥
गीतस्य च वाद्यस्य च पाठ्यस्य च नैकभावविहितस्य ।
शिष्टोपदेशयोगात् सूत्रज्ञः सूत्रधारस्तु ॥ ३०॥
यस्मात् यथोपदिष्टान् रसांश्च भावांश्च
सत्वसंयुक्तान् ।
भूमिविकल्पैर्नयति च नाट्यकरः कीर्तितस्तस्मात् ॥ ३१॥
चतुरातोद्यविधानं सर्वस्य तु शास्त्रखे दविहितस्य ।
नाट्यस्यान्तं गच्छति तस्माद्वै नायकोऽभिहितः ॥ ३२॥
नानाप्रकृतिसमुत्थं करोति यः शीर्षकं मुकुटयोगे ।
विविधैर्वेषविशेषैः स च कुटकारस्तु विज्ञेयः ॥ ३३॥
भाण्डकवाद्यज्ञा या लयतालज्ञा रसानुविद्धा च ।
सर्वाङ्गसुन्दरी वै कर्तव्या नाटकीया तु ॥ ३४॥
यस्त्वाभरणं कुर्याद् बहुविधविहितं स चाभरणः ।
यश्चोपकरणयोगात् स तेन नाम्नाऽभिधातव्यः ॥ ३५॥
यो वै माल्यं कुरुते पङ्चविधं माल्याकृत् स विज्ञेयः ।
यश्चापि वेषयोगं कुरुते स च वेषकारी तु ॥ ३६॥
चित्रज्ञश्चित्रकरो वस्त्रस्य रञ्जानात्तथा रजकः ।
जत्वश्मलोहकाष्ठैर्द्रव्यकरैः कारुकश्चैव ॥ ३७॥
नानातोद्यविधाने प्रयोगयुक्तः प्रवादने कुशलः ।
अतोद्येऽप्यतिकुशलो यस्मात् स कुशलवो ज्ञेयः ॥ ३८॥
यद्यत् समाश्रयन्ते शिल्पं वा कर्म वा प्रयोगं वा ।
तनैवोपगतगुणा विज्ञेया नामतः पुरुषाः ॥ ३९॥
एवं तु नाटकविधौ जातिर्नटसंश्रया बुधैर्ज्ञेया ।
नाट्योपकरणयुक्ता नानाशिल्पप्रसक्ता च ॥ ४०॥
उक्तोऽत्र भूमिकान्यासः प्रयोक्तारश्च योगतः ।
आदिष्टं नाट्यशास्त्रं च मुनयः किमिहोच्यताम् ॥ ४१॥
इति भरतीये नाट्यशास्त्रे भूमिकाविकल्पाध्यायः पञ्चत्रिंशः ॥ ३५॥
Encoded by Haresh BakShi hareshbakShi@hotmail.com