पाणिनीय शिक्षा
अथ शिक्षां प्रवक्ष्यामि पाणिनीयं मतं यथा ।
शास्त्रानुपूर्वं तद्विदाद्यथोक्तं लोकवेदयोः ॥ १॥
प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः ।
पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम् ॥ २॥
त्रिषष्टिश्चतुःषटिर्वा वर्णाः शम्भुमतेमताः ।
प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयम्भुवा ॥ ३॥
स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः ।
यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ॥ ४॥
अनुस्वारो विसर्गश्च ꣳक-पौ चापि पराश्रितौ ।
दुःस्पृष्टो चापि विज्ञेयो ॡकारो प्लुत एव सः ॥ ५॥ ॥१॥
आत्मा बुद्ध्या समेत्यार्थान्मनो युङ्क्ते विवक्षया ।
मनः कायाग्निमाहन्ति सः प्रेरयति मारुतम् ॥ ६॥
मारुस्तूरसिचरन्मन्द्रं जनयति स्वरम् ।
प्रातःसवनयोगं तं छन्दो गायत्रमाश्रितम् ॥ ७॥
कण्ठे माध्यन्दिनयुगं मध्यमं त्रैष्टुभानुगम् ।
तारं तार्तीयसवनं शीर्षण्यं जागतानुगतम् ॥ ८॥
सोदीर्णो मूर्ध्न्यभिहतो वक्रमापद्य मारुतः ।
वर्णाञ्जनयते तेषां विभागः पञ्चधा स्मृतः ॥ ९॥
स्वरतः कालतः स्थानात्प्रयत्नादनुप्रदानतः ।
इति वर्णविदः प्राहुर्निपुणं तन्निबोधत ॥ १०॥ ॥२॥
उदातानुदात्तश्च स्वरितश्च स्वरास्त्रयः ।
ह्रस्वो दीर्घः प्लुत इति कालतो नियमा अचि ॥ ११॥
उदात्ते निषादगान्धारावनुदात्त ऋषभधैवतौ ।
स्वरित्प्रभवा ह्येते षड्जमध्यमपञ्चमाः ॥ १२॥
अष्टौ स्थानानि वर्णानामुर: कण्ठः शिरस्तथा ।
जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥ १३॥
ओभावश्च विवृत्तिश्च शषसा रेफ एव च ।
जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥ १४॥
ययोभावप्रसमुकारादिपरं पदम् ।
स्वरान्तं तादृशं विद्यादन्यद्व्यक्तमूष्मणः ॥ १५॥ ॥३॥
हकारं पञ्चमैर्युक्तमन्स्थाभिश्च संयुतम् ।
औरस्यं तं विजानीयात्कठ्यमाहुरसंयुतम् ॥ १६॥
कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू ।
स्युर्मूर्धन्या ऋटुरषा दन्त्या ळ्सितुलसाः स्मृताः ॥ १७॥
जिह्वामूले तु कुः प्रोक्तो दन्त्योष्ठो वः स्मृतो बुधैः ।
एऐ तु कण्ठतालव्या ओऔ तु कण्ठोष्ठजौ स्मृतौ ॥ १८॥
अर्धमात्रा तु कण्ठ्या स्यादेकारैकारयोर्भवेत् ।
ओकारौकारयोर्मात्रा तयोर्विवृतसंवृतम् ॥ १९॥
संवृतं मात्रिकं ज्ञेयं विवृतं तु द्विमात्रिकम् ।
घोषा वा संऋताः सर्वे अघोषा विवृतः स्मृताः ॥ २०॥ ॥४॥
स्वराणामूष्मणां चैव विवृतं करणं स्मृतम् ।
तेभ्योऽपि विवृतावेङौ ताभ्यामैचो तथैव च ॥ २१॥
अनुस्वार यमानां च नासिका स्थानमुच्यते ।
अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ॥ २२॥
अलाबुवीणानिर्घोषो दन्तमूल्यस्वराननु ।
अनुस्वारस्तु कर्तव्यो नित्यम् होः शषसेषु च ॥ २३॥
अनुस्वारे विवृत्यां तु विरामे चाक्षरद्वये ।
द्विरोष्ठ्यौ तु विगृह्णीयाद्यत्रोकारवकारयोः ॥ २४॥
व्याघ्री यथा हरेत्पुत्रान्दन्ताभ्यां न तु पीडयेत् ।
भीता पतनभेदाभ्यां तद्वद्वर्णान्प्रयोजयेत् ॥ २५॥ ॥५॥
यथा सौराष्ट्रिका नारी तक्रꣳ इत्यभिभाषते ।
एवम् रङ्गाः प्रयोक्तव्याः खे अराꣳ इव खेदया ॥ २६॥
रङ्गवर्णं प्रयुञ्जीरन्नो ग्रसेत्पूर्वमक्षरम् ।
दीर्घस्वरं प्रयुञ्जीयात्पश्चान्नासिक्यमाचरेत् ॥ २७॥
हृदये चैकमात्रस्त्वर्धमात्रस्तु मूर्धनि ।
नासिकायां तथार्धं च रङ्गस्यैवं द्विमात्रता ॥ २८॥
हृदयादुत्करे तिष्ठन्कांस्येन समनुस्वरम् ।
मार्दवं च द्विमात्रं च जघन्वाꣳ इति निदर्शनम् ॥ २९॥
मध्ये तु कम्पयेत्कम्पमुभौ पार्श्वौ समौ भवेत् ।
सरङ्गं कम्पयेत्कम्पं रथीवेति निदर्शनम् ॥ ३०॥
एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च पीडिताः ।
सम्यग्वर्णप्रयोगेन ब्रह्मलोके महीयते ॥ ३१॥ ॥६॥
गीती शीघ्री शिरःकम्पी तथा लिखितपाथकः ।
अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः ॥ ३२॥
माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः ।
धैर्यं लयसमर्थं च षडेते पाठका गुणाः ॥ ३३॥
शङ्कितं भीतमुत्कृष्टमव्यक्तमनुनासिकम् ।
काकस्वरं शिरसि गतं तथ स्थानविवर्जितम् ॥ ३४॥
उपांशु दष्टं त्वरितं निरस्तं विलम्बितं गद्गदितं प्रगीतम् ।
निष्पीडितं ग्रस्तपदाक्षरं च वदेन्न न दीनं न तु सानुनास्यम् ॥ ३५॥
प्रातः पठेन्नित्यमुरःस्थितेन स्वरेण शार्दूलरुतोपमेन ।
मध्यन्दिने कण्ठगतेन चैव चक्राह्वसङ्कूजितसन्निभेन ॥ ३६॥
तारं तु विद्यात्सवनं तृतीयं शिरोगतं तच्च सदा प्रयोज्यम् ।
मयूरहंसान्यमृतस्वराणां तुल्येन नादेन शिरःस्थितेन ॥ ३७॥ ॥७॥
अचोऽस्पृष्टा गणस्त्वीषन्नमस्पृष्टा शलः स्मृताः ।
शेषाः स्पृष्टा हलः प्रोक्तानिबोचानुप्रदानतः ॥ ३८॥
ञमोनुनासिका नह्रो नादिनो हझषः स्मृताः ।
ईषन्नादा यणो जश्च श्वासिनस्तु खफादयः ॥ ३९॥
ईषत्छ्वासांश्चरो विद्याद्गोर्धामैतत्प्रचक्षते ।
दाक्षीपुत्रः पाणिनिना येनेदं व्यापितं भुवः ॥ ४०॥
छन्दः पादौ तु वेदस्य हस्तः कल्पोऽथ पठ्यते ।
ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ॥ ४१॥
शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।
तस्मात्साङ्गमधीत्येव ब्रह्मलोके महीयते ॥ ४२॥ ॥८॥
उदात्तमाख्याति वृषोऽङ्गुलीनां प्रदेशिनीमूलनिविष्टमूर्धा ।
उपान्तमध्ये स्वरितं धृतं च कनिष्ठिकायामनुदात्तमेव ॥ ४३॥
उदात्तं प्रदेशिनीं विद्यात्प्रचयो मध्यतोङ्गुलीम् ।
निहतं तु कनिष्ठिक्यां स्वरितोपकनिष्ठिकाम् ॥ ४४॥
अन्तोदात्तमाद्युदत्तमुदात्तमनुदातं नीचस्वरितम् ।
मध्योदात्तं स्वरितं द्व्युदात्तं त्र्युदात्तमिति नवपदशय्या ॥ ४५॥
अग्निः बोमः प्रवो वीर्यं हविषं स्वर्बृहस्पतिरिन्द्राबृहस्पती ।
अग्निरित्यन्तोदात्तं सोम इत्याद्युदत्तं प्रेत्युदात्तं दीर्घं नीचस्वरितम् ॥ ४६॥
हविषां मध्योदात्तंस्वरिति स्वरितं बृहस्पतिरिति ।
द्व्युदात्तमिन्द्राबृहस्पती इति त्रुदात्तम् ॥ ४७॥
अनुदात्तो हृदि ज्ञेयो मूर्ध्न्युदात्त उदाहृतः ।
स्वरितः कर्णमूलीयः सर्वास्ये प्रचयः स्मृतः ॥ ४८॥ ॥९॥
चाषस्तु वदते मारां द्विमात्रो चैव वायसः ।
शिखी रौति त्रिमात्रस्तु नकुलस्त्वर्धमात्रकः ॥ ४९॥
कुतीर्थादागतं दग्धमपवर्णं च भक्षितम् ।
न तस्य पठे मोक्षोऽस्ति पापार्हरिव किल्बिषात् ॥ ५०॥
सुतिर्थदागतं व्यक्तं स्वाम्नाय्यं सुव्यवस्थितम् ।
सुस्वरेण सुवक्रेण प्रयुक्तं ब्रह्म राजते ॥ ५१॥
मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तदर्थमाह ।
स वग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोऽपराधात् ॥ ५२॥
अनक्षरं हतायुष्यं विस्वरं व्याधिपीडितम् ।
अक्षता शस्त्ररूपेण वज्रं पतति मस्तके ॥ ५३॥
हस्तहीनं तु योऽधीते स्वरवर्णविवर्जितम् ।
ऋग्यजुःसामभिर्दग्धो वियोनिमधिगच्छति ॥ ५४॥
हस्तेन वेदं योऽधीते स्वरवर्णाथसंयुतम् ।
ऋग्यजुःसामभिः पूतो ब्रह्मलोके महीयते ॥ ५५॥ ॥१०॥
शङ्करः शङ्करीं प्रादाद्दाक्षीपुत्रायधीमते ।
वाङ्मयेभ्यः समाहृत्य देवीं वाचमिति स्थितिः ॥ ५६॥
येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।
कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥ ५७॥
येन धौता गिरः पुंसां विमलैः शब्दवारिभिः ।
तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥ ५८॥
अज्ञानान्धस्य लोकस्य ज्ञानाञ्जनशलाकया ।
चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः ॥ ५९॥
त्रिनयनमभिमुखनिःसृतामिमां
य इह पठेत्प्रयतश्च सदा द्विजः ।
स भवति धनधान्यपशुपुत्रकीर्तिमा-
नतुलं च सुखं समश्नुते दिवीति दिवीति ॥ ६०॥ ॥ ११॥
अथ शिक्षामात्मोदात्तश्च हकारं स्वराणां यथा
गीत्यचोऽस्पृष्टोदात्तं चाषस्तु शङ्कर एकादश ॥
॥ इति वेदाङ्गनासिका अथवा पाणिनीयशिक्षा समाप्ता ॥
Encoded and proofread by Pramod Kulkarni auddhav at gmail.com