भर्तृहरिप्रणीतं पुरुषार्थदशकम्

भर्तृहरिप्रणीतं पुरुषार्थदशकम्

तस्मादनन्तमजरं परमं विकासि तच्चित्त ! चिन्तय किमेभिरसद्विकल्पैः । यस्यानुषङ्गिण इमे भुवनाधिपत्य- भोगादयः कृपणलोकमता भवन्ति ॥ १॥ पातालमाविशसि चापि नभौ विलङ्घ्य दिङ्मण्डलं भ्रमसि मानस।! चापलेन । भ्रान्त्यापि जातु [विमलं] कथमात्मनीनं न ब्रह्म संस्मरसि निर्वृतिमेषि येन ॥ २॥ यूयं वयं वयं यूयम् इत्यासीन्मतिरावयोः किं जातमधुना येन यूयं यूयं वयं वयम् ॥ ३॥ महीशय्या शय्या विततमुपधानं भुजलता वितानस् त्वाकाशो व्यजनमनुकूलोऽयमनिलः । स्फुरन् दीपश् चन्द्रो विरतिवनितासङ्गम् उदितः सुखं शान्तः शेते तनुतरविभूतिर् नृप इव ॥ ४॥ किं वेदै स्मृतिभिः पुराणवचनैः शास्त्रैर्मद्वाविस्तरैः स्वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः । मुक्त्वैक्षकं भवदुःखभाररचनाविध्वंसकालानल- स्वात्मानन्दपदप्रवेशकथनाः शेते वणिग्वृत्तिभिः ॥ ५॥ आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीर् अर्थाः सङ्कल्पकल्पा घनसमयतटिद्विभ्रमा भोगपूगाः । कण्ठाश्लेषोपगूढं तदपि च न चिरं यत् प्रियाभिः प्रणीतं ब्रह्मण्यासक्तचित्ता भवत भवभयाम्भोधिपारं तरीतुम् ॥ ६॥ यदासीदज्ञानं स्मरतिमिरसंस्कारजनितं तदा दृष्टं नारीमयमिदमशेषं जगदपि । इदानीमस्माकं पटुतरविवेकाञ्जनजुषां समीभूता दृष्टिस् त्रिभुवनमपि ब्रह्म मनुते ॥ ७॥ किं कन्दर्प ! वृथा कदर्थयसि मां कोदण्डटङ्कारितै रे रे कोकिल ! कोमलं कलरवं किं वाभिधन् स्वादुना । मुग्धे ! स्निग्ध [विदग्ध] मुग्धमधुरच्छायैः कटाक्षैरलं चेतश् चुम्बति चन्द्रचूडचरणध्यानामृतं सम्प्रति ॥ ८॥ प्रशान्तशास्त्रार्थविचारचापलं निवृत्तनानारसकाव्यकौतुकम् । निरस्तनिश्शेषविकल्पविप्लवं प्रपत्तुमन्विच्छति शूलिनं मनः ॥ ९॥ मातर्मेदिनि तात मारुत सखे तेजः सुबन्धो जल ! भ्रातर्व्योम निबद्ध एष भवतामन्त्यं प्रणामाञ्जलिः । युष्मत्सङ्गवशोपजातसुकृतोद्रेकस्फुरन्निर्मलं ज्ञानापास्तसमस्तमोहमहिमा लीये परब्रह्मणि ॥ १०॥ इति पुरुषार्थप्रकरणम् । इत्याचार्यभर्तृहरिप्रणीतं पुरुषार्थदशकं समाप्तम् ॥ Encoded and proofread by Sunder Hattangadi
% Text title            : puruShArthadashakam by bhartRihari
% File name             : puruShArthadashakambhartRihari.itx
% itxtitle              : puruShArthadashakam (bhartRiharipraNItam)
% engtitle              : puruShArthadashakam by bhartRihari
% Category              : major_works, dashaka, bhartrihari
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : Bhartrihari
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Latest update         : March 31, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org