॥ साङ्ख्यकारिकापरमार्थटीका ॥

श्रीरस्तु । सुवर्णसप्ततिशास्त्रम् । पूर्वखण्डः । कारिका १ ॥ दुःखत्रयाभिघाताज्जिज्ञासा तदभिघातके हेतौ । दृष्टे सापार्था चेन्नैकान्तात्यन्ततोऽभावात् ॥ १ ॥ ॥ छ्: त्रिविधदुःखाभिघाताज्जिज्ञासा तदभिघातके हेतौ । दृष्टेऽपार्था [चेत्] न, [हेतो]रनैकान्तिकानात्यन्तिकत्वात् ॥ अस्या आर्याया उपोद्घात उच्यते । पुरा किल महर्षिराकाशजातः (ब्रह्मसुतः ?) स्वाभाविकधर्मज्ञानवैराग्यैश्वर्यचतुर्गुणात्मकः कपिलो नाम बभूव । अन्धतमसि मज्जज्जगदिदमवलोक्य [अस्य] महाकारुण्यमुदपादि अहो खलु जगद् [इदम्] अन्धे तमसि वर्तत इति । [एवं] लोकं विचिन्तयन् एकं ब्राह्मणमासुरिसगोत्रं वर्षसहस्रयाजिनमद्राक्षीत् । निगूढात्मा तमुपेत्य वाचमेवमुवाच भो आसुरे रमसे गृहस्थधर्मेण इति । इमां वाचमुक्त्वा अनन्तः प्रतिजगाम । भूयोऽपि वर्षसहस्रे पूर्णे प्रत्यागम्य तथैवाभ्युवाच । एवमुक्ते ब्राह्मणो मुनिं प्रत्युवाच सत्यं भगवन् रमे गृहस्थधर्मेण इति । तदा महर्षिः श्रुत्वैतत् पुनर्निरगात् । स पश्चाद्भूय अभ्युपेत्य [तामेव] वाचमभ्युवाच । ब्राह्मणस्तं प्रत्याह एवमेवेति । महर्षिस्तु अपृच्छत् । उत्सहसे शुद्धं ब्रह्मचर्यं वस्तुं न वा इति । ब्राह्मण आह उत्सहे तथा वस्तुमिति । अथ गृहस्थधर्ममपहाय प्रव्रज्याचर्यामाचरन् कपिलशिष्यो बभूव । पर आह । कस्माद्धेतोरस्य ब्राह्मणस्य जिज्ञासा समुत्पन्ना । उत्तरमाह । त्रिविधदुःखाभिघातात् । किं पुनस्त्रिविधं दुःखम् । (१) आध्यात्मिकम् (२) आधिभौतिकम् (३) आधिदैविकम् । [तत्र] आध्यात्मिकं यद् वातपित्तश्लेष्मणां वैषम्यात् प्रवर्तते व्याधिदुःखम् । यथोक्तं चिकित्सा[तन्त्रे] । ᳚नाभेरधो वातस्थानमुच्यते । हृदयादधः पित्तस्थानमुच्यते । हृदयादूर्ध्वं सर्वं श्लेष्मसम्बन्धि । वातमुत्कटं सत् श्लेष्मपित्ते अभिभूय वातरोगमुत्पादयति । पित्तश्लेष्मणी अप्येवम् ॥᳚ इदमुच्यते शारीरं दुःखम् । मानसं दुःखं- प्रियविप्रयोगः अप्रियसंयोगः प्रार्थितालाभः एतत्त्रिविधं मानसं दुःखम् । ईदृशं दुःखमाध्यात्मिकं दुःखमभिधीयते । आधिभौतिकं तु यन्मर्त्यपशुपक्ष्युरगतटसेतुभेदादिना प्रवर्तते दुःखम् । [इद]माधिभौतिकं दुःखमुच्यते । आधिदैविकं यत् शीतातपवातवर्षाशन्यादिर्नानाविधो मर्मभेदी । [इद]माधिदैविकं दुःखमभिधीयते । [एतैः] त्रिभिर्दुःखैरभिघातात् [१२४५, च्। २] समुत्पन्ना जिज्ञासा दुःखाभिघातके हेतौ । पर आह । एतद्दुःखत्रयाभिघातको [द्विविधो]ऽयं हेतुः विस्पष्टं प्रत्यक्षः । प्रथमः, अष्टाङ्गायुर्वेदोक्तः, शारीरदुःखस्याभिघातकः । द्वितीयः, प्रियाः षड् विषया मानसदुःखस्याभिघातकाः । इमौ हेतू प्रत्यक्षावेव । कथं पुनर्जिज्ञासा । समाधीयते । नायमर्थो युज्यते । द्विविधदोषसत्त्वात् । जिज्ञासा न युक्तिविरुद्धा । स द्विविधो दोषश्च [हेतोः] (१) अनैकान्तिकता (२) अनात्यन्तिकता चेति ॥ १॥ कारिका २ पर आह । यदि अष्टाङ्गायुर्वेदादिकं दोषद्वययुक्तत्वान् न हेतुरलं दुःखाभिघाताय । चतुर्षु वेदेषु तु हेत्वन्तरमस्ति । अयं हेतुरैकान्तिकमात्यन्तिकञ्च फलं प्रापयति । अतो भवतो जिज्ञासा अपार्था । उक्तं हि वेदे । अपाम सोमममृता अभूमागन्म ज्योतिरविदाम देवान् । किं नूनमस्मान् कृणवदरातिः किमु धूर्तिरमृत मर्त्यस्य ॥ इति । उत्तरमाह । ॥ दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः । तद्विपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् ॥ २ ॥ ॥ छ्: दृष्टवदानुश्रविकः अविशुद्धिक्षयातिशययुक्तः । एतद्विविधहेतुविपरीतः श्रेयान् व्यक्ताव्यक्तज्ञविज्ञानात् ॥ दृष्टो हेतुरायुर्वेदोक्तः अनैकान्तिकानात्यन्तिक[रूप]दोषयुक्तः । आनुश्रविको हेतुः उपदेशश्रवणलब्धः ब्रह्मण आरभ्य [कपिल]महर्षिपर्यन्तम् । अतश्चत्वारो वेदा आनुश्रविका उच्यन्ते । इमे वेदा अपि द्विधा दुष्टाः यथा आयुर्वेदो दृष्टः । किञ्च पुनर्दोषत्रययुक्तः । (१) अविशुद्धिः । यथोक्तं वेदे हे पशो तव पिता माता बन्धवः सर्वेऽपि त्वामनुमन्यताम् । इदं शरीरं त्यक्त्वा दिवि जन्म लप्स्यसे ॥ इति । यथोक्तमश्वमेधे । षट् शतानि निहन्यन्ते पशूनाम् । षट्शतपशवसत्रिभिरूनाः । [यदि ततोऽपि] ऊनाः, तदा न दिवि जन्म प्रापयन्ति आनन्दादिपञ्चवृत्त्यर्थम् । यद्यनृतं ब्रूयान्मनुष्यः, देआ महर्षयश्चाहुर्नैतत्पापमिति । एवमादिपापमानुश्रविके हेतावस्ति । तस्मादविशुद्धः । (२) क्षयः । यथोक्तं वेदे । कालेन समतीतानि कालो हि दुरतिक्रमः ॥ इति । यदायं धर्मः क्षीयते तदा दाता स्वर्गान्निवर्तते । अतः क्षययुक्तः । (३) अतिशयः यथा आढ्यमवलोक्य दरिद्रः खिद्यते । सुरूपं वीक्ष्य कुरूपः प्राज्ञञ्च दृष्ट्वा मूर्खः खिद्यते । तथा स्वर्गेऽपि उत्तमवर्गं दृष्ट्वा हीनवर्गः खिद्यते । तस्मादतिशययुक्तः । एते त्रयः, पूर्व[मुक्तौ] द्वौ, ताभ्यां सह पञ्च दोषाः इति वेदो न [दुःखाभिघाताय] हेतुः । पर आह । यथा चेत्को हेतुः श्रेयान् । उत्तरमाह । एतद्विविधहेतुविपरीतः श्रेयानिति । यौ द्वौ हेतू आयुर्वेदोक्तो वेदोक्तश्च । (१) ऐकान्तिकः (२) आत्यन्तिकः (३) विशुद्धः (४) अक्षयः (५) समानः इति । तस्मात् पूर्वद्वयादुत्कृष्टः । पर आह । अयं हेतुः कुतो लभ्यते । उत्तरमाह । व्यक्ताव्यक्तज्ञविज्ञानादिति । व्यक्तम्, महानहङ्कारः पञ्च तन्मात्राणि पञ्च [कर्मे]न्द्रियाणि पञ्च बुद्धीन्द्रियाणि मनः पञ्च महाभूतानि च । एतानि सप्त व्यक्तमित्याख्यायन्ते । प्रकृतिकृतत्वात् । अव्यक्तं प्रधानं मूलकारणम् । ज्ञः पुरुषः । एतत्पञ्चविंशतितत्त्वप्रमेयज्ञानां न वृद्धिः न क्षयः दुःखत्रयादैकान्तिकमोक्षश्च भवति । यथोक्ता मोक्षे गाथा । पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे वसेत् । जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥ २ ॥ इति कारिका ३ पर आह । कथं मूलप्रकृतिविकृतिपुरुषाणां प्रविभागः । उत्तरमाह । ॥ मूलप्रकृतिरविकृतिः महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारो न प्रकृतिर्न विकृतिः पुरुषः ॥ ३ ॥ ॥ छ्: मूलप्रकृतिरविकृतिः महदाद्याः प्रकृतयो विकृतयश्च । षोडशको विकार एव पुरुषो न प्रकृतिः विकृतिर्वा ॥ मूलप्रकृतिः सर्वजननी । अन्यस्मादनुत्पत्तेर्मूलप्रकृतिरिति व्यपदिश्यते । मूलप्रकृतिर्महदादीनां जनकत्वान्मूलेति नाम लभते । अविकृतिः अन्यस्मादनुत्पत्तेः । महानहङ्कारः पञ्च तन्मात्राणि, एतानि सप्त प्रकृतयो विकृतयश्च । महान् मूलप्रकृतित उत्पन्न इति विकृतिः । पञ्च तन्मात्राणि जनयतीति प्रकृतिः । पञ्च तन्मात्राणि अहङ्कारादुत्पन्नानि इति विकृतयः । महाभूतानि इन्द्रियाणि च उत्पादयन्तीति प्रकृतयः । [तत्र] शब्दतन्मात्रमाकाशं श्रोत्रेन्द्रियञ्च जनयतीति प्रकृतिः यावद्गन्धतन्मात्रं पृथिवीं घ्राणेन्द्रियञ्च जनयतीति । एवं सप्तापि प्रकृतयो विकृतयश्च । षोडशको विकार एवेति । आकाशादिपञ्चमहाभूतानि श्रोत्रादिपञ्च[बुद्धी]न्द्रियाणि जिह्वादिपञ्चकर्मेन्द्रियाणि मनश्च इतीमे षोडश धर्मा अन्यस्मादेवोत्पन्नत्वाद् अन्यानुत्पादकत्वाच्च विकार एव । पुरुषो न प्रकृतिर्विकृतिर्वेति । पुरुषोऽत्र आत्मा उच्यते । ज्ञानात्मकत्वात् । स आत्मा नोत्पादको नान्यस्मादुत्पन्नः । पूर्वत्रयाद्भिन्न इति न प्रकृतिर्न विकृतिः ॥ ३॥ कारिका ४ पर आह । इमे [व्यक्ताव्यक्तज्ञाः] त्रयः पदार्थाः केन प्रमाणेन ज्ञाप्यन्ते । लोके प्रमाणं हि [प्रमेय]ज्ञापनसमर्थम् । यथा तुलाहस्तादीनि दीर्घं ह्रस्वं गुरु लघु वा ज्ञापयन्ति । उत्तरमाह । ॥ दृष्टमनुमानमाप्तवचनञ्च सर्वप्रमाणसिद्धत्वात् । त्रिविधं प्रमाणमिष्टं प्रमेयसिद्धिः प्रमाणाद्धि ॥ ४ ॥ ॥ छ्: दृष्टमनुमानमाप्तवचनञ्च सर्वप्रमेयानि ज्ञापयन्ति । अतः प्रमाणं त्रिविधमिष्टं प्रमेयसिद्धिः प्रमाणात् [हि] ॥ अस्मिन् शास्त्रे त्रिविधं प्रमाणं स्थापितम् । (१) दृष्टम् (२) अनुमानम् (३) आप्तवचनञ्चेति । दृष्टं प्रमाणम् इन्द्रियविषयाभ्यामुत्पन्नं [यद्] एतज्ज्ञानप्रकाशितमव्यभिचारि असन्दिग्धञ्च; इदमुच्यते दृष्टं प्रमाणम् । अनुमानं प्रमाणं दृष्टपूर्वकम् । तत्त्रिविधं (१) पूर्ववत् (२) शेषवत् (३) सामान्यतो दृष्टमिति । योऽयमर्थः प्रत्यक्षानुमानप्रमाणाभ्यां नाधिगम्यते । आप्तवचनेन पुनरयमधिगम्यते । यथा स्वर्गः उत्तरावती (?) । [अयमर्थः] प्रत्यक्षानुमानाभ्यां नाधिगम्यते । आप्तवचनेन पुनरधिगम्यते । आप्तवचनं यथोक्तं गाथायाम् । आगमो ह्याप्तवचनमाप्तं दोषक्षया[द्विदुः] । क्षीणदोषोऽनृतं वाक्यं न ब्रूयाद्धेत्वसम्भवात् ॥ इति । सर्वप्रमेयानि ज्ञापयन्ति इति । यदवशिष्टं प्रमाणमवशिष्टं प्रमेयञ्च; [एतत्सर्वम्] अस्मात् त्रिविधात् प्रमानान्न बहिर्भवति । उपमानादि षट्प्रमाणानामाप्तवचनेऽन्तर्भावात् । प्रमेयसिद्धिः प्रमाणाद्धीति । प्रमेयैः पञ्चविंशतिपदार्थैः सर्वसङ्ग्रहात् । सिद्धिः एतत्पञ्चविंशति[पदार्थ]वित्तिः । कथं ते प्रमेयमिति नाम लभन्ते । प्रमाणस्य गोचरत्वात्, प्रमेयमिति सिद्ध्यति । प्रत्यक्षानुमानाप्तवचनैः संक्षेपेण सिद्धास्त्रयः [व्यक्ताव्यक्तज्ञाः पदार्थाः] पञ्चविंशतिधा तु विस्तृताः ॥ ४॥ कारिका ५ पर आह । उक्तानि त्रिविधप्रमाणानि । किं प्रमाणलक्षणम् । उत्तरमाह । ॥ प्रतिविषयाध्यवसायो दृष्टं त्रिविधमनुमानमाख्यातम् । तल्लिङ्गलिङ्गिपूर्वकमाप्तश्रुतिराप्तवचनन्तु ॥ ५ ॥ ॥ छ्: प्रतिविषयाध्यवसायो दृष्टमनुमानं त्रिविधं ज्ञातम् । लिङ्गलिङ्गिपूर्वकम्; आप्तश्रुतिराप्तवचनमुच्यते ॥ प्रतिविषयाध्यवसायो दृष्टमिति । श्रोत्रं शब्देऽध्यवसायं जनयति । यावद् घ्राणं गन्धेऽध्यवसायः जनयति । अध्यवसायकमेव, न तु ज्ञापकम्; इदमुच्यते दृष्टं प्रमाणम् । अनुमानं त्रिविधं ज्ञातमिति । (१) पूर्ववत् (२) शेषवत् (३) सामान्यतो दृष्टमिति । एतत्त्रिविधं ज्ञानं दृष्टप्रमाणहेतुकमिति त्रिविधस्य प्रमेयस्य त्रिविधस्याध्वनश्च विभेदनक्षमम्, इदमनुमानमुच्यते । यथा कश्चित् कृष्णमेघं दृष्ट्वा जानीयाद् वृष्टिरवश्यं [भविष्यति] इति । यथा नद्यां पूर्णं नूतनं पङ्किलं जलं दृष्ट्वा जानीयादवश्यमुपरि वृष्टिरभूदिति । यथा वा पाटलिपुरे आम्रतरुं पुष्पितं दृष्ट्वा कोशलदेशेऽप्येवमिति जानीयात् । लिङ्गलिङ्गिपूर्वकमिति । लिङ्गं लिङ्गिना संयुक्तं न वियुक्तम् । लिङ्गदर्शनादनुमितिः साध्यते । आप्तश्रुतिराप्तवचनमुच्यते इति । यथा ब्रह्मणा मनुना च उक्ताश्चत्वारो वेदा धर्मशास्त्रञ्च ॥ ५॥ कारिका ६ पर आह । त्रिविधमनुमानमुक्तम् । [तत्र] केन प्रमाणेन कस्य प्रमेयस्य सिद्धिर्बुध्यते । उत्तरमाह । ॥ सामान्यतस्तु दृष्टादतीन्द्रियाणां प्रतीतिरनुमानात् । तस्मादपि चासिद्धं परोक्षमाप्तागमात्सिद्धम् ॥ ६ ॥ ॥ छ्: सामान्यतो दृष्टानुमानादतीन्द्रियाणि प्रमेयानि सिध्यन्ति । अनुमानादप्रकाशितञ्चेत् तदाप्तागमाद् दृष्टम् ॥ सामान्यतो दृष्टेति । यदिदमनुमानप्रमाणे सामान्यतो दृष्टं प्रमाणमुक्तम् । [यौ] प्रकृतिपुरुषौ, इमौ विषयावतीन्द्रियत्वात्सामान्यतो दृष्टं प्रमाणं साधयति । महदादिकार्याणि (१) सुखं (२) दुःखं (३) मोहश्चेति त्रिगुणयुक्तानि । इमे कार्यगुणाः । विना प्रधानगुणान् कार्यगुणा न सिद्ध्यन्ति । अतः कार्यगुणेन प्रधानमनुमीयते । तस्मात्प्रकृतिः सामान्यतो दृष्टानुमानेन सिद्धा । पुरुषेण एकान्ततो वर्तितव्यम् । महदादिविकाराणां परार्थत्वात् । अतः पुरुषोऽपि सामान्यतो दृष्टानुमानेन सिद्धः । यदि दृष्टानुमानाभ्यां कश्चिदर्थोऽसिद्धः । तदा [तदुत्थ]ज्ञानबहिर्भूतत्वाद् आप्तवचनेनाध्यवसीयते । यथा शक्रो देवेन्द्र उत्तरावती [?] इत्यादि ॥ ६॥ कारिका ७ पर आह । प्रकृतिपुरुषौ न स्तः । अदृष्टत्वात् । यथा अनीश्वरस्य द्वे शिरसी त्रयो बाहवः । समाधीयते । वस्तुतः सतामर्थानामष्टविधा अनुपलब्धयः । का अष्टविधाः । आर्यया प्रदर्शयति । ॥ अतिदूरात्सामीप्यादिन्द्रियघातान्मनोऽनवस्थानात् । सौक्ष्म्याद्व्यवधानादभिभवात्समानाभिहाराच्च ॥ ७ ॥ ॥ छ्: ठे समे। लोके वस्तुतः सतां वस्तुनामतिदूरादनुपलब्धिः । यथा तीरान्तरपतितानामनुपलब्धिः । सामीप्यादनुपलब्धिः । यथा अक्षिगतस्य वस्तुन अग्रहः । इन्द्रियघातादनुपलब्धिः । यथा बधिरान्धौ शब्दरूपे नोपलभेते । मनोऽनवस्थानादनुपलब्धिः । यथा अन्यालम्बनचित्तः [पुरोवर्तिनं] विषयं नोपलभते । सौक्ष्म्यादनुपलब्धिः । यथ धूमोष्मत्रुटिनीहार[परमाणवः] गगनगताः सूक्ष्मा नोपलभ्यन्ते । व्यवधानादनुपलब्धिः । यथा कुड्येन व्यवहितं वस्तु नोपलभ्यते । अभिभवादनुपलब्धिः । यथा सूर्योद्गमे नक्षत्रं चन्द्रश्च न प्रकाशते । समानाभिहारादनुपलब्धिः । यथा माषराशिगतं माषधान्यं समजातीयं, दुर्ज्ञानम् । एवमष्टधा सतां वस्तुनामनुपलब्धिः । असतामपि वस्तुनां चतुर्धा अनुपलब्धिः । (१) प्रागभावादनुपलब्धिः । यथा मृदा भाजनं [यदा] न कृतम्, तदा भाजनं नोपलभ्यते । (२) प्रध्वंसाभावादनुपलब्धिः । यथा घटो ध्वस्तो न पुनरुपलभ्यते । (३) इतरेतराभावादनुपलब्धिः । यथा गवि अश्व[त्वं] न दृश्यते, अश्वे गो[त्वं] न दृश्यते । (४) अत्यन्ताभावादनुपलब्धिः । यथा अनीश्वरस्य द्वे शिरसी त्रयो बाहवः । एवं द्वादशविधाः सतामसताञ्चानुपलब्धयः । तस्माद् यदुक्तं भवता प्रकृतिपुरुषौ न स्तः, अनुपलब्धत्वाद् इति । एतन्न युज्यते ॥ ७॥ कारिका ८ पर आह । यदि प्रकृतिपुरुषौ नोपलभ्येत । द्वादशानां मध्ये केन नोपलभ्येते । समाधीयते । एकस्मात्कारणान्नोपलभ्येते । किमेकं कारणम् । आर्यया प्रदर्शयति । ॥ सौक्ष्म्यात्तदनुपलब्धिर्नाभावात्कार्यतस्तदुपलब्धिः । महदादि तच्च कार्यं प्रकृतिविरूपं सरूपञ्च ॥ ८ ॥ ॥ छ्: प्रकृतिः सौक्ष्म्यान्नोपलभ्यते, न कारणमुपलब्धमसद् इति । महदादि तस्य कार्यं प्रकृतिविरूपं सरूपञ्च ॥ प्रकृतिः सौक्ष्म्यान्नोपलभ्यते, न कारणमुपलब्धमसदिति । इति । प्रधानं सदेव नोपलभ्यते । सौक्ष्म्याद् यथा धूमादि[परमाणवः] सौक्ष्म्यान्नोपलभ्यन्ते । तथा प्रधानमपि । न तु द्वितीयं शिरः तृतीयो बाहुरिवात्यन्तमसत्त्वान्नोपलभ्यते । पर आह । यदि नोपलभ्यते । कथं तर्हि ज्ञायते अस्तीति । उच्यते । कार्यं प्रतीत्य स्वकारणं दृश्यते । कार्यं प्रधानकृतमिति सामान्यतो दृष्टानुमानात्प्रधानमस्तीति ज्ञायते । पर आह । किं तत्कार्यम् । उच्यते । महदादि तस्य कार्यम् । प्रधानान्महानुत्पद्यते । महत अहङ्कारः । अहङ्कारात्पञ्चतन्मात्राणि । पञ्चतन्मात्रेभ्यः षोडश [विकारा] उत्पद्यन्ते । महदादि कार्यं त्रिगुणं दृश्यते । अतः प्रधानं त्रिगुणमिति ज्ञायते । प्रकृतिविरूपं सरूपञ्चेति । कार्यं द्विविधं (१) प्रकृतिविरूपं (२) प्रकृतिसरूपञ्चेति । यथा एकस्य द्वौ सुतावुत्पन्नौ । एकः पितृसरूपः अपरस्तु [पितृ]विरूपः । [एवं] एतत्कारणकं कार्यं प्रकृतिसरूपं विरूपञ्च । इति पश्चाद्विस्तरेण वक्ष्यते । ईदृशं कार्यमस्मिन् शास्त्रे ॥ ८॥ कारिका ९ अत्र पृच्छामः । यदि शिष्या नियोज्याः, किं प्रधानादौ [कार्यं] सत्, उतासत् आहोस्वित् सच्चासच्च । कथमेवम् । आचार्याणां प्रतिपत्तिवैषम्यात् । केचिदाचार्या वदन्ति मृत्पिण्डादौ घटादि कार्यमस्ति । इति । वैशेषिका वदन्ति कार्यं प्रागसत् पश्चात् संभवति । इति । शाक्यैः पुनरुक्तं मृत्पिण्डे घटो नैवास्ति न च नास्ति । इति । एभिस्त्रिभि[स्त्रेधा] उक्तत्वात् । समाधीयते । प्रथमं शाक्यमतं खण्डयामः । पश्चाद्वैशेषिक[मतं] खण्डयामः । यदाहुः शाक्याः न सन् न चासन्निति । तन्न युज्यते । स्वभावतो विरोधात् । यदि न सन्निति । तदा सिद्धोऽसन्निति । यदि न चासन् इति । तदा सिद्धः सन्निति । अयं संश्चासंश्चेति न सिद्ध्यति । एकत्र मिथो विरोधात् । यथाह कश्चित्, अयं पुरुषो मृतो जीवति चेति । एतद्वचनं मिथो विरुद्धमिति न साधीयः । शाक्यवचनमप्येवम् । (त्रिपिटक उक्तम् । अयं कल्पो न युक्तः । कुतः । शाक्यानामेतद्वादासंभवात् । यदा ते वदन्ति न सन्निति । [तदा] नासद्वादः । [यदा] वदन्ति न चासन्निति । [तदा] न सद्वादः । सदसद्वादमुक्तत्वात् खण्डनं न सिद्धम् ।) अधुना वैशेषिकमतं खण्डयामः । वैशेषिका भ्रान्ताः । अस्मन्मते तु कारणे कार्यं नियतमिति पञ्चकारणानि प्रदर्शयति । कानि पञ्चकारणानि । ॥ असदकरणादुपादानग्रहणात्सर्वसंभवाभावात् । शक्तस्य शक्यग्रहणात् कारणभावाच्च सत्कार्यम् ॥ ९ ॥ ॥ छ्: असदकरणाद् अवश्यमुपादानग्रहणात् सर्वसंभवाभावात् । शक्तस्य शक्यकरणात् कारणमनुसृत्य कार्यभावात् सत्कार्यमुच्यते ॥ (१) असदकरणादिति । लोके हि असतः करणं न सिद्ध्यति । यथा सिकताभ्यस्तैलम् । सतः करणं शक्यते । यथा तिलपीडनेन तैलोद्गमः । यदि कार्यमत्र नास्ति । ततो नोद्भवेत् । पश्यामः खलु महदादि प्रधानाज्जातम् । अतो ज्ञायते प्रधाने महदाद्यस्तीति । (२) अवश्यमुपादानग्रहणादिति । यदि कश्चित्कार्यं प्रार्थयते । अवश्यं तस्मिन्निमित्तमुपादत्ते यथा कश्चिन्मन्यते श्वो मम गृहे ब्राह्मणा भोक्तारः । अतोऽद्य पयो गृह्णामीति । यदि पयसि दधि न स्यात् । कुतो न जलं गृह्णाति । कार्यार्थिना उपादानग्रहणाज्ज्ञायते प्रधाने महानस्तीति । (३) सर्वसंभवादिति । यदि कारणे कार्यं नास्ति । तदा सर्वं सर्वमुत्पादयेत् । तृणपाषणवालुकादीनि सुवर्णरजतादीन्युत्पादयेयुः । एतत्कार्यासंभवाज्ज्ञायते हेतौ कार्यमस्तीति । (४) शक्तस्य शक्यकरणादिति । यथा कुलालः सज्जोपकरणो मृत्पिण्डात् [शक्यं] घटशरावादि रचयति । न तु तृणवृक्षादिभ्यो घटं शरावं वा । इति प्रधानं शक्तः करोति महदादि । अतः प्रधाने महदाद्यस्तीति ज्ञायते । (५) कारणमनुसृत्य कार्यभावादिति । यज्जातीयं कारणं कार्यमपि एवंजातीयकम् । यथा यवाङ्कुरोऽवश्यं यवजातिमनुसरति । यद्यसत्कार्यम् । तदावश्यं कार्यं कारणविरूपं स्यात् । तथा सति यवान्माषाद्यङ्कुरः सिद्ध्येत् । एवमसंभवाज्ज्ञायते सत्कार्यम् । वैशेषिकादयो वदन्ति कारणे कार्यं नास्तीति । एतन्न युज्यते । अतो ज्ञायते कारणे कार्यं नियतमिति ॥ ९॥ कारिका १० अन्तराप्रश्नं परिसमाप्य पूर्वोक्तार्थः पुनः प्रस्तूयते प्रकृतिविरूपमिति । वैरूप्यं नवविधम् । ॥ हेतुमदनित्यमव्यापि सक्रियमनेकमाश्रितं लिङ्गम् । सावयवं परतन्त्रं व्यक्तं विपरीतमव्यक्तम् ॥ १० ॥ ॥ छ्: हेतुमदनित्यमनेकमव्यापि सक्रियं लिङ्गम् । सावयवमाश्रितं परतन्त्रं व्यक्तम् [एवं] प्रकृतिविभिन्नम् ॥ (१) हेतुमदिति । महदादि पञ्चभूतपर्यन्तं सर्वं हेतुमत् । [तथा हि] प्रधानं महतो हेतुः । महानहङ्कारस्य हेतुः । अहङ्कारः पञ्चतन्मात्राणां हेतुः । पञ्चतन्मात्राणि इन्द्रियादिषोडशतत्त्वानां हेतवः । प्रधानन्तु न तथा । हेतुतोऽनुत्पन्नत्वात् । अत उक्तं विरूपमिति । (२) अनित्यमिति । महदादि प्रधानादुत्पन्नम् । उत्पन्नत्वाद् इदमनित्यम् । अनित्यं द्विविधम् (१) अचिरकालावस्थाय्यनित्यं (२) क्षणिकानित्यमिति । यावत्परस्परविरोधिप्रत्ययो नागतः तावत्कालं [विद्यमानं] अचिरकालावस्थायि यथा पर्वतारण्यादि, अग्निभयेऽनागते सति तदल्पकालं तिष्ठति अग्निभये आगते तु पञ्चमहाभूतादि पञ्चतन्मात्रेषु लीयते । पञ्चतन्मात्राणि अहङ्कारे लीयन्ते । अहङ्कारो महति लीयते । महान् प्रधाने लीयते । अत इदं महदाद्यनित्यम् । न तथा प्रधानम् । नित्यत्वादलीनत्वाच्च । (३) अनेकमिति । महदादि अनेकम् । प्रतिपुरुषं वैषम्यात् । अहङ्कारोऽप्येवम् । प्रधानन्त्वेकमेव बहुपुरुषेषु साधारणत्वात् । (४) अव्यापीति । प्रधानपुरुषौ सर्वत्र पृथिव्यामन्तरिक्षे दिवि च व्याप्नुतः । महदादि कार्यन्तु न तथा । असर्वगतत्वात् । तस्मात्प्रकृतिविभिन्नम् । (५) सक्रियमिति । महदादिकार्यं संसारमुत्पिपादयिषुः त्रयोदशविधकरणैः सूक्ष्मशरीरं संसारयति संसारे, विकासयति संकोचयति गमयति आगमयति च । न तथा प्रधानम् । संकोचविकासासंभवात् । (६) लिङ्गमिति । महदादिविकारः प्रधानं प्रति निवृत्तश्चेत् तदा नोपलभ्यते । इदं लिङ्गमाख्यायते । यथा पञ्चमहाभूतादि पञ्चतन्मात्रेषु लयं प्राप्नोति । पुनर्महाभूतादि नोपलभामहे । यावन्महान् प्रधाने लीयते । महानपि नोपलभ्यते । न तथा प्रधानम् । लयप्राप्त्यभावात् । (७) सावयवमिति । महदादि सर्वं सावयवम् । अवयवानां भेदात् । न तथा प्रधानमिति । नित्यत्वाद् अवयवानामभावाच्च । (८) आश्रितमिति । यन् महान् प्रधानमाश्रितः । अहङ्कारो महान्तमाश्रितः । पञ्चतन्मात्राणि अहङ्कारमाश्रितानि । पञ्चमहाभूतादिषोडशकः सर्वः पञ्चतन्मात्राण्याश्रितः । न तथा प्रधानम् । अन्येनानुत्पन्नत्वात् । (९) परतन्त्रमिति । महदादेः प्रधानादुत्पन्नस्य कार्यस्यास्वतन्त्रत्वात् । यथा पितरि जीवति पुत्रो न स्वतन्त्रः । न तथा प्रधानम् । कारणस्य परतन्त्रत्वाभावात् । अनेन नवविधेन कारणेन व्यक्ताव्यक्तयोर्वैषम्याद् विरूपमित्युक्तम् ॥ १०॥ कारिका ११ वैरूप्यमभिधाय सारूप्यमिदानीमुच्यते । प्रकृतिसरूपमित्यार्यया प्रदर्शयति । ॥ त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि । व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥ ११ ॥ ॥ छ्: त्रिगुणमविवेकि ॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥। । [एवं] प्रधानं व्यक्तञ्च सरूपम्, पुमान् सारूप्यवैरूप्यविपरीतः ॥ सारूप्यं षड्विधम् । [तत्र] प्रथमं त्रिगुणमिति । व्यक्तं त्रिगुणम् । व्यक्तमिति यदुत महानहङ्कारो यावत्पञ्चमहाभूतानि । एतत्त्रयोदशविधं सर्वं सत्त्वरजस्तमोरूपत्रिगुणम् । व्यक्तस्य त्रिगुणत्वाद् अव्यक्तं त्रिगुणमिति ज्ञायते । कार्यस्य कारणाव्यतिरिक्तत्वात् । यथा कृष्णतन्तुभ्यः कृष्णपटः । कार्यकारणयोः सरूपत्वाद् व्यक्तं त्रिगुणं ज्ञायते । व्यक्तस्य च प्रधानकृतत्वात् प्रधानं त्रिगुणम् इति व्यक्ताव्यक्तयोः सारूप्यमुक्तम् । (२) अविवेकीति । व्यक्तं गुणा इति विवेक्तुं न पार्यते । यथा गौरश्वश्वानेकात्मकौ । न तथा गुणा व्यक्तञ्च । प्रधानं त्रितुणमप्येवं समानमविवेकि इति व्यक्तमव्यक्तञ्च सरूपम् । (३) विषय इत इ। महदादि व्यक्तं पुरुषस्योपभोग्यत्वाद् विषय इत्युच्यते । प्रधानमपि तथा । पुरुषस्योपभोग्यत्वात् । (४) सामान्यमिति । महदादि व्यक्तं सर्वपुरुषाणां साधारणोपयोगि । यथा एकस्या दास्या बहवः प्रभवः सन्ति । [सर्वेषां] साधारण्येन नियोज्यत्वात् । तथा प्रधानमपि सर्वपुरुषाणां साधारणोपयोगि । तस्मादुक्तं सरूपमिति । (५) अचेतनमिति । महदादि व्यक्तं सुखदुःखमोहभेदान्न विजानाति । ज्ञानस्य पुरुषमात्रलब्धत्वात् । पुरुषव्यतिरिक्ता धर्मा अचेतनाः । तथा प्रधानमपि । व्यक्तमव्यक्तञ्च सममचेतनम् । तयोर्भावः सरूपः । (६) प्रसवधर्मि [एवं] प्रधानं व्यक्तञ्च सरूपमिति । महानहङ्कारं प्रसूते । अहङ्कारः पञ्चतन्मात्राणि प्रसूते । यावत्पञ्चमहाभूतानि । प्रधानं महान्तं प्रसूते इति व्यक्ताव्यक्तयोः सारूप्यम् । पुमान् सारूप्यवैरूप्यविपरीत इति । व्यक्ताव्यक्तयोः षड्विधं सारूप्यमस्ति । पुरुषस्य नैतत्सारूप्यमस्ति । तस्मात्सारूप्यविपरीतः वैरूप्यविपरीतश्चेति । व्यक्ताव्यक्तयोर्नवविधं वैरूप्य[मुक्त]म् । तत्राष्टविधविपरीतः पुमान् । त उक्तं वैरूप्यविपरीत इति । पुरुषाणामनेकत्वान्न प्रधानसारूप्यम् ॥ ११॥ कारिका १२ पर आह । व्यक्तमव्यक्तञ्च त्रिगुणमुक्तम् । इमे त्रयो गुणाः किमात्मकाः । आर्यया उत्तरयति । ॥ प्रीत्यप्रीतिविषादात्मकाः प्रकाशप्रवृत्तिनियमार्थाः । अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च गुणाः ॥ १२ ॥ ॥ छ्: प्रीत्यप्रीति ॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥॥। । ॥॥॥॥॥॥॥॥॥॥॥॥ मिथुनवृत्तयश्च त्रिगुणधर्माः ॥ प्रीत्यप्रीतिविषादात्मका इति । सत्त्वं रजस्तम इतीमे त्रयो गुणाः । प्रीतिः सत्त्वस्यात्मा । रजसोऽप्रीतिरात्मा । तमसो विषाद आत्मा । इति त्रयः स्वभावा दृश्यन्ते । प्रकाशप्रवृत्तिनियमार्था इति । किं कुर्वन्ति इमे त्रयो गुणाः । आद्यः प्रकाशं प्रभां कर्तुं समर्थः । मध्यमस्तु जननं प्रवृत्तिं कर्तुं समर्थः । अन्तिमः नियमं बन्धं कर्तुं समर्थः । इदं त्रिगुणान्वयं कार्यम् । अन्योन्याभिभवाश्रयजननमिथुनवृत्तयश्च त्रिगुणधर्मा इति । के धर्मास्त्रिगुणस्य । तेषां धर्माः पञ्चविधाः । (१) अन्योन्याभिभवेति । सत्त्वमुत्कटञ्चेद् रजस्तमसी अभिभवति । यथा महान् सूर्यरश्मिश्चन्द्रनक्षत्रादीनभिभवति । रज उत्कटञ्चेत् सत्त्वतमसी अभिभवति । यथा प्रकाशमानः सूर्यरश्मिः नक्षत्राणि चन्द्रञ्चाभिभवति । तम उत्कटञ्चेद् रजस्सत्त्वे अभिभवति । यथा सूर्यस्य महता प्रकाशेन नक्षत्राणां चन्द्रस्य च प्रकाशो न दृश्यते । (२) अन्योन्याश्रयेति । इमे गुणाः परस्पराश्रयाः सर्वकार्यकरणसमर्थाः । यथा त्रिदण्डी परस्पराश्रया कुण्डिकादीनवष्टभ्नाति । (३) अन्योन्यजननेति । कदाचित्सत्त्वं रजस्तमसी जनयति । कदाचिद् रजस्सत्त्वतमसी जनयति । कदाचित्तमो रजस्सत्त्वे जनयति । यथा त्रयः पुरुषाः परस्परमाश्रयन्यो युगपदेकमर्थं कुर्वन्ति । तथा महदादिस्था गुणाः परस्परमाश्रयन्तः संहत्य जननमरणे कुर्वन्ति । (४) अन्योन्यमिथुनेति । सत्त्वं कदाचिद्रजसा मिथुनं, कदाचित् तमसा मिथुनम् । रजः कदाचित्सत्त्वेन मिथुनं, कदाचित् तमसा मिथुनम् । एवं तमोऽपि कदाचित्सत्त्वेन मिथुनं, कदाचिद्रजसा मिथुनम् । यथोक्ता गाथा व्यासमहर्षिणा । रजसो मिथुनं सत्त्वं सत्त्वस्य मिथुनं रजः । उभयोः सत्त्वरजसोर्मिथुनं तम उच्यते ॥ इति । (५) अन्योन्यवृत्तीति । इमे त्रयो गुणाः अन्योन्यमर्थं कुर्वन्ति । यथा राजकुलस्त्री सुप्रियरूपशीला । अयं सत्त्वगुण उच्यते । एतत्सत्त्वपरिणतं रूपं भर्तुर्बन्धोश्च प्रीतिं करोति । इदं स्वार्थकरणमुच्यते । [सैव] सर्वासां सपत्नीनां शोकं जनयति । इदमन्यार्थकरणमुच्यते । अन्येषां विषादमपि जनयति । यथा दास्यादयः सदा तत्परिचर्याखिन्ना मोचनमलभमाना विषादाविष्टचित्ता भवन्ति । इदमुच्यते अन्यार्थजननम् । इदमेव सत्त्वगुणस्य स्वपरार्थकरणमुच्यते । रजः स्वपरार्थं जनयति । यथा कश्चिच्चोरो राजकुलस्त्रियं बध्नाति । तदा राजवंश्योऽश्वारूढो दण्डं गृहीत्वा आगम्य परित्रायते । राजवंश्यो रजःपरिणतः । राजवंश्यो भयगोचरोऽपि स्त्रियः अहं मोचनं लप्स्ये इत्यानन्दं जनयति । इदमन्यार्थजननम् । अन्ये चोरा राजदर्शनात् स्थाणुवन्न चलन्ति । इदमुच्यतेऽन्येषां मोहजननम् । रजः स्वपरार्थं जनयतीत्युक्तम् । तमः स्वपरार्थं जनयति । यथा महान् घनः कृष्णमेघः विद्युदादीनारभते । मेघस्तमःपरिणतः । सर्वे कृषीवला धान्योपजीविनो मोदन्ते । इदमुच्यतेऽन्यार्थजननम् । मोहमपि जनयति । यथा काचिद्युवतिः भर्तृवियुक्ता इमं मेघं विद्युतञ्च दृष्ट्वा खिद्यते भर्ता न प्रतिनिवृत्त इति । स्त्रियो मोहं जनयति [मेघ] इतीदमुच्यते स्वार्थजननम् । शोकमपि जनयति । यथा वणिजः पथि वर्तमानाः संक्लिन्ना भारवहनासमर्था खिन्नहृदया भवन्ति । इदमुच्यतेऽन्यार्थजननम् । एवं पञ्चविधास्त्रिगुणान्वया धर्माः ॥ १२॥ कारिका १३ किञ्चास्ति गुणानां लक्षणम् । ॥ सत्त्वं लघु प्रकाशकमिष्टमुपष्टम्भकं चलञ्च रजः । गुरु वरणकमेव तमः प्रदीपवच्चार्थतो वृत्तिः ॥ १३ ॥ ॥ छ्: सत्त्वं लघुप्रकाशकलक्षणमिष्टं रज उपष्टम्भकचललक्षणमिष्टम् । तमो गुरुवरणकलक्षणमिष्टं, प्रदीपवद्विरुद्धसंयोगः ॥ सत्त्वं लघुप्रकाशकलक्षणमिष्टमिति । लघु सूक्ष्मम् । प्रकाशकं प्रदीपकम् । तत् सत्त्वमाख्यातम् । सत्त्वमुत्कटञ्चेत् सर्वाणीन्द्रियाणि लघूनि मृदूनि विषयग्रहणसमर्थानि भवन्ति । तदा मन्तव्यं सत्त्वमुत्कटमिति । रज उपष्टम्भकचललक्षणमिष्टमिति । उपष्टम्भकमुन्मनः अन्याविगणयितृ । यथा मत्तगजः कलहः मृगयमाणः द्विषन्तं गजमागतं स्थगयते । रज उत्कटञ्चेत् तदा मनुष्यः सदा कलहं मृगयते । सदा चलचित्त एकत्रावस्थानासमर्थश्च भवति । तदा मन्तव्यं रजोगुण उत्कट इति । तमो गुरुवरणकलक्षणमिति । तमोगुणो यद्युत्कटः, [तदा] सर्वशरीरं गुरु । इन्द्रियाणि [तमो]वृतत्वाद् विषयग्रहणासमर्थानि । तदा मन्तव्यं तमो गुण उत्कट वर्तते । पर आह । यदि गुणाः परस्परविरुद्धाः । [तथापि] एकपुरुषतन्त्रस्यास्वतन्त्रत्वाद् युगपदेकां वृत्तिं लभन्ते । यथा प्रदीपार्थं मिथो विरुद्धानां संयोगः । प्रदीपार्थं हि त्रयः पदार्था [मिथो विरुद्धा अपि] संयुज्यन्ते । तैलवर्तिकयोर्विरुद्धः अग्निः । तैलमपि अग्निवर्तिकयोर्विरुद्धम् । एवमपि मिथो विरुद्धाः पदार्थाः पुरुषार्थं वृत्तिं कुर्वन्ति । तथा त्रयो गुणा अपि विरुद्धस्वभावत्वेऽपि वृत्तिं कुर्वन्ति ॥ १३॥ कारिका १४ पर आह । षट् सारूप्याणि पूर्वमुक्तानि । [तत्र] एकविधमुपलब्धं मया । अवशिष्टानि पञ्च नोपलब्धानि । त्रैगुण्यं साधितम् । अवशिष्टानि पञ्चापि साधयितव्यानि । आर्ययोत्तरमाह । ॥ अविवेक्यादिः सिद्धस्त्रैगुण्यात्तद्विपर्ययाभावात् । कारणगुणात्मकत्वात्कार्यस्याव्यक्तमपि सिद्धम् ॥ १४ ॥ ॥ छ्: अविवेक्यादिः सिद्धो गुणाद्विपर्ययाभावात् । कार्यगुणः कारणगुणमनुसरति [अतः] अव्यक्तं सिद्धम् ॥ अविवेक्यादिः सिद्ध इति । अविवेक्यादयः पञ्च धर्मा यथापूर्वमुक्ता व्यक्ते सिद्धाः प्रधानेऽपि सिध्यन्ति । ततः सिद्धत्वात्कार्यस्य । गुणादिपर्ययाभावादिति । अमी अविवेक्यादयः पञ्चधर्मा व्यक्ते सिद्धत्वात् प्रधानेऽवश्यं सन्तीति ज्ञायते । कथमेवम् । त्रैगुण्यात् । अपृथक्स्थायि त्रैगुण्यञ्चेत् । [तदा] मिथोऽविवेकीति ज्ञायते । यद्यविवेकि, तदा विषय इति ज्ञेयम् । यदि विषय इत्युच्यते । तदा सामान्यं ज्ञेयम् । यदि सामान्यं स्वीक्रियते, ततः अचेतनं ज्ञायते । यदि विषयः, यदि सामान्यम्, यदि चाचेतनम् । ततः प्रसवधर्मि ज्ञायते । यदि ज्ञायते इमे षड् धर्मा व्यक्ते सन्तीति । तदा ते षड् धर्माः प्रधानेऽपि सन्तीति ज्ञायते । कथमेवं ज्ञायते । विपर्ययेऽभावात् । मूलप्रकृतिर्विवर्जितञ्चेत् तदा कार्यं षड्धर्म न स्यात् । यथा तन्तुतिरस्कृत[श्चेत्], तदा नास्ति पटो व्यतिरिक्तः । यत्रैव पटवस्तत्रैव तन्तवः । तन्तुपटौ ह्यविविक्तौ । कार्यं कारणाधीनम् । कार्यकारणे च न विविक्ते । कार्यगुणः कारणगुणमनुसरति [अतो]ऽव्यक्तं सिद्धमिति । लोकेऽस्मिन् सर्वे कार्यगुणा नियमेन कारणगुणमनुसरन्ति । यथा कृष्णतन्तुकृतः पटः । स हि नियमेन तन्तुकार्ष्ण्यमनुसरति । तथा व्यक्ताद्यपि त्रैगुण्यात् पञ्चधर्म सिद्धम् । कार्यस्य षड्धर्मत्वाज्ज्ञायतेऽव्यक्तेऽपि षड्धर्माः सन्तीति ॥ १४॥ कारिका १५ पर आह । लोके यदि वस्तु नोपलभ्यते । तदा तद्वस्तु असदिष्यते । यथा द्वितीयः शिरः । तथा प्रकृतिरपि नोपलभ्यते । कथं ज्ञायते सास्तीति । उच्यते । हिमवतो भारस्तत्परिमाणञ्च न ज्ञायते । नहि वक्तुं शक्यते परिमाणं नास्तीति । तथा प्रकृतिरपि । केन हेतुना ज्ञातुं शक्यते अस्तीति । ॥ भेदानां परिमाणात् समन्वयाच्छक्तितः प्रवृत्तेश्च । कारणकार्यविभागादविभागाद्वैश्वरूप्यस्य ॥ १५ ॥ ॥ छ्: भिन्नजातीनां सपरिमाणत्वात् समस्वभावत्वात् शक्ति[तः] प्रवृत्तेश्च । कारणकार्यविभागाद् वैश्वरूप्यस्याविभागात् ॥ अस्ति प्रधानम् । कथं ज्ञायते । भिन्नजातीनां सपरिमाणत्वादिति । लोकेऽस्मिन् यद्वस्तु सकर्तृकम् । तद्वस्तु परिमाणपरिच्छिन्नम् । यथा कुलालः सपरिमाणान्मृत्पिण्डात् परिच्छिन्नपरिमाणं घटं कुरुते । अयं घटो यदि निष्कारणः । [तदा] घटः परिच्छिन्नपरिमाणो न स्यात् । घटश्च नोत्पन्नः स्यात् । दृश्यते तु घटः परिच्छिन्नपरिमाणः । तस्माज्ज्ञायते सकारणमिति । यथा तन्तुनिष्पन्नं पटादिकम् । तथा सर्वपदार्थोऽपि । एषु धर्मेषु (= तत्त्वेषु) महदादि व्यक्तमपि परिच्छिन्नपरिमाणम् । किं [तत्] परिच्छिन्नं परिमाणम् । महानेकः, एकोऽहङ्कारः, पञ्च तन्मात्राणि, एकादशेन्द्रियाणि, पञ्च महाभूतानि । [एवं] व्यक्तमिदं सपरिमाणं दृष्टमस्माभिः । इति सामान्यतो दृष्टानुमानेन ज्ञायते प्रधानमवश्यमस्तीति । यदि प्रधानमसत्, व्यक्तमिदमपरिच्छिन्नपरिमाणं स्यात् । किञ्च पुनरसद्भवेत् । समस्वभावत्वादिति । यथा चन्दनखण्डः । तत्खण्डेषु बहुष्वपि चन्दनस्वभावोऽन्तत एकः । तथा व्यक्तमपि । महदादिषु विभिन्नेषु त्रैगुण्यस्वभाव एकः । तेषामेकस्वभावत्वाज्ज्ञायते तत् सर्वं सकारणमिति । अतो ज्ञायते प्रधानमस्तीति । शक्ति[तः] प्रवृत्तेश्चेति । यो यत्र शक्तो भवति । स तत्र प्रवर्तते । यथा कुलालो घटघटिका[करण]शक्तो घटघटिकयोः प्रवर्तते । न पटादौ प्रवर्तते । इयं घटिका उत्पद्यमाना शक्तिमाश्रित्य सिध्यति । सा च शक्तिर्नियमेन साश्रया यदुत कुलालाश्रया । तथा व्यक्तमपि । व्यक्तस्यास्ति प्रवृत्तिः । इयं प्रवृत्तिः शक्त्या सिद्ध्यति । सा च शक्तिः साश्रया । तदाश्रयः प्रधानम् । शक्ति[तः] प्रवृत्तेः ज्ञायते प्रधानमस्तीति । कारणकार्यविभागादिति । लोके कारणकार्यविभागश्च दृश्यते । यथा मृत्पिण्डः कारणम् । घटादिकं कार्यम् । अयं घटो जलतैलादिधारणे समर्थः । न तु मृत्पिण्डः । अयं कारणकार्यविभागः । तन्तुपटावप्येवम् । तथा महदादि व्यक्तमवश्यं कार्यम् । एतत्कार्यं दृष्ट्वा जानीमो व्यतिरिक्तं कारणं विरूपमस्तीति । तस्मादस्ति प्रधानम् । वैश्वरूप्यस्याविभागादिति । किञ्चास्ति कारणान्तरम् अस्ति प्रधानं वस्तुत इति ज्ञापयितुम् । वैश्वरूप्यस्येति । त्रिविधो हि लोको यदुत पृथिवी अन्तरिक्षं द्यौरिति । प्रलयकाले सर्वो लोकोऽविभक्तः । पञ्चमहाभूतानि एकादशेन्द्रियाणि पञ्चतन्मात्रेषु विलीय अविभक्तानि । यावन्महान् प्रधाने विलीय अविभक्तः । इदं व्यक्तमिदं प्रधानमिति [विविच्य] न वक्तुं शक्यते । प्रलयकाले व्यक्तस्याभावात्प्रधानमपि अविद्यमानं भवेत् । प्रधानं यदि नास्ति । संसारोऽपि न भवेत् । नैतद्युज्यते । यतस्त्रिविधलोकस्य पुनस्सर्गसमर्थं प्रधानमस्ति । अतो जानीमः प्रधानमस्तीति । [एवं] पञ्चहेतुभ्यः प्रधानं स्थापितम् ॥ १५॥ कारिका १६ पर आह । यदि प्रधानमस्ति । [तथापि] न व्यक्तं जनयितुं शक्नोति । निस्सहायत्वात् । यथा एकः पुरुषः पुत्रं जनयितुं न शक्नोति । एकस्तन्तुर्न पटं जनयितुं शक्नोति । तथा प्रधानमपि । आर्ययोत्तरमाह । ॥ कारणमस्त्यव्यक्तं प्रवर्तते त्रिगुणतः समुदयाच्च । परिणामतः सलिलवत् प्रतिप्रतिगुणाश्रयविशेषात् ॥ १६ ॥ ॥ छ्: अव्यक्तं व्यक्तजननकारणम्, त्रयो गुणाः समुदिता व्यक्तं जनयन्ति । परिणामतः सलिलवत् प्रतिप्रतिगुणविशेषात् ॥ अव्यक्तं व्यक्तजननकारणमिति । प्रधानं त्रिगुणयुक्तत्वाद् व्यक्तं जनयितुं शक्नोतीत्यर्थः । प्रधानस्येमे गुणा न सन्ति [चेत्] । तदा भवदुक्तं सत्यं स्यात् । यदि सन्ति त्रयो गुणाः, [तदा] संयोगाभावाद् व्यक्तं जनयितुं न शक्नोतीत्येतन्न युज्येत । त्रयो गुणास्समुदिता व्यक्तं जनयन्ति इति । यथा बहवस्तन्तवः समुदिताः पटं जनयन्ति । तथा त्रयो गुणा अपि परस्पराश्रितत्वाद् व्यक्तं जनयन्ति । पर आह । लोके जननं द्विविधम् । (१) परिणामजं, यथा दुग्धादिजं दध्यादि । (२) अपरिणामजं, यथा मातापितृजः पुत्रः । प्रधानजं व्यक्तं कस्य कारणजस्य सम्बन्धि इष्यते । उत्तरमाह । परिणामतः दुग्धदधिवत् । प्रधानं व्यक्तं परिणमति । यदेव व्यक्तं तदेव प्रधानम् । अतो न भिन्नजातीयजमिह स्वीक्रियते । पर आह । यद्येकं कारणं, न बहुविधं कार्यं जनयितुं शक्नुयात् । एष्वर्थेषु प्रधानमेकञ्चेत् कथं त्रिविधं लोकं जनयेत् । दिवि जाता[श्चे]त्तदा सुखिनः । मनुष्यजातास्तु दुःखिनः । तिर्यग्जातास्तु मूढा इति । यद्येकस्मात्कारणाज्जायते । कथं त्रिधा वर्गो लभ्यते । समाधीयते । सलिलवत् प्रतिप्रतिगुणविशेषात् । दिव्यमादावेकरसं जलं प्राप्नोति मेदिनीम् । नानारसं परिणमति पृथक् पृथग्भाजनविशेषात् ॥ यदि सुवर्णभाजने वर्तते । तद्रसोऽतिमधुरः । यदि पृथिवीं प्राप्नोति । पृथिवीगन्धमनुसृत्य रसो नाना भवति, न समः । तथा त्रिविधो लोकोऽपि [न समः] । एकस्मात्प्रधानादुत्पन्नस्य [अपि] त्रिगुणवैषम्यात् । दिवि सत्त्वं विशालम् । अतो देवाः सदा सुखमनुभवन्ति । मनुष्येषु रजो विशालम् । अतो मनुष्याः बहु दुःखमनुभवन्ति । तिर्यग्गतेषु तमो विशालम् । अतस्तिर्यगादयः सदा मूढाः । आसु गतिषु सर्वत्र गुणाः सदा संयुक्ताः । औत्कट्यानौत्कट्याभ्यां तथा विशेषः । एवमेकं प्रधानं त्रीन् लोकाञ्जनयति । त्रिगुणवैषम्यात्तु तारतम्यम् ॥ १६॥ कारिका १७ प्रधानमवसितम् । अथेदानीं पुरुषं व्याख्यास्यामः । पुरुषः प्रधानवत्सूक्ष्मः । कथं जानीमः पुरुषोऽस्तीति प्रकाशयितुमिमामार्यामाह । ॥ सङ्घातपरार्थत्वात् त्रिगुणादिविपर्ययादधिष्ठानात् । पुरुषोऽस्ति भोक्तृभावात्कैवल्यार्थं प्रवृत्तेश्च ॥ १७ ॥ ॥ छ्: सङ्घातपरार्थत्वात् त्रिगुणविपर्ययादधिष्ठानात् । भोक्तृभावात्कैवल्या[र्थं प्रवृत्ते]श्च इतीमे पञ्च हेतवः साधयन्ति पुरुषोऽस्तीति ॥ (१) सङ्घातपरार्थत्वादिति । यथा व्यक्ताव्यक्तज्ञ[विज्ञाना]न् मोक्षो लभ्यते तथा प्रथमार्यायामुक्तम् । किञ्च प्रधानव्यक्तसाधनानि पञ्च हेतवः सम्यक् प्रतिपादिताः । अथ पुरुषोऽतिसूक्ष्मः साधयितव्यः । अस्ति पुरुषः सङ्घातपरार्थत्वात् । लोके हि वयं पश्यामः सर्वः सङ्घातः परार्थ इति । यथा शयनासनादयः सङ्घाता न स्वार्थाः अवश्यं परार्थाः कल्पिताः । अस्त्यन्य उपभोजकः । तदर्था गृहादिसङ्घाताश्चैवम् । तथा महदाद्यपि । पञ्चभूतसङ्घातो देह आख्यायते । अयं देहो न स्वार्थः । [किन्तु] एकान्ततः परार्थोऽध्यवसीयते । पुरुष एव परः । अतो जानीमोऽस्ति पुरुष इति । (२) त्रिगुणविपर्ययादिति । प्रधानव्यक्तयोः षड्विधं सारूप्यमुक्तं पूर्वमार्यायाम् । [यथा] त्रिगुणमविवेकि विषयः सामान्यमचेतनं प्रसवधर्मि । व्यक्तं तथा प्रधानं तद्विपरीतस्तथा च पुमान् ॥ इति ॥ एतत्षट्कविपर्ययादुच्यतेऽस्ति पुरुष इति । (३) अधिष्ठानादिति । यदि देहमिमं पुरुषोऽधितिष्ठति । तदा देहश्चेष्टते । यदि नास्ति देहस्याधिष्ठाता पुरुषः । तदा न चेष्टते । यथोक्तं षष्टिवर्गतन्त्रे । पुरुषाधिष्ठितं प्रधानं व्यक्तं जनयति । इति । तस्माज्जानीमोऽस्ति पुरुष इति । (४) भोक्तृभावादिति । यथा लोके षड्रसं पानं भोजनं च दृष्ट्वा ज्ञायते अस्त्यन्यो भोक्तेति । तथा महदादि दृष्ट्वा ज्ञायतेऽवश्यमन्येन भोक्त्रा भवितव्यं यस्य भोजन[मिद]म् । तस्माज्जानीमोऽस्ति पुरुष इति । (५) कैवल्या[र्थं प्रवृत्ते]श्चेति । यदि देहमात्रमस्ति । आर्यजनोपदिष्टो मोक्षोपायो निरर्थक एव स्यात् । यथा पुरा कश्चिदृषिर्ब्राह्मणानुपगम्यैवमुवाच । सर्वे [यूयं] वेदधनाः सर्वे च सोमपायिनः । सर्वे दृष्टात्मजमुखा भिक्षुधर्ममथेच्छथ ॥ इति । यदि देहमात्रमस्ति । किमर्थमिदं [वचनम्] । अतो जानीमो देहव्यतिरिक्त आत्मा स्वभावतोऽस्तीति । यदि नास्त्यन्य आत्मा, देहमात्रमस्ति । तदा मातापित्राचार्याणां पूज्यानां मरणानन्तरमुत्सृष्टादेहा यदि दह्यन्ते खन्यन्ते वा, एवं पर्युपास्यन्ते । तदा पापं लभ्येत । न पुण्यगुणः स्यात् । एतदर्थं जानीमोऽस्त्यन्य आत्मेति । किञ्चास्ति आप्तवचनम् । मज्जास्थिनी रज्जुस्थूणौ भवतः, रक्तमांसे मृत्पांसू भवतः । अशुच्यनित्यं दुःखं [शरीरं] प्रभुरात्मा एतत्सम्बन्धवर्जितः ॥ त्यज धर्ममधर्मं वापि त्याज्यं तुच्छसत्यकम् । त्यागभावोऽपि त्यक्तव्यः विशुद्धाः केवलैशिता ॥ इति । यद्यात्मा नास्ति । कैवल्यं न वर्तेत । अस्मादाप्तागमात्पुरुषो नियतमस्तीति जानीमः । इमान् पञ्चहेतूनाश्रित्य पुरुषास्तित्वं साधितम् ॥ १७॥ कारिका १८ पर आह । पुरुषः किं बहुशरीरेषु संहत्यैको लक्ष्यते [उत] प्रतिशरीरमेकः पुरुषः । यद्युच्यते कथमेवं संशय इति । आचार्याणां मिथो विरुद्धवादित्वात् । कश्चिदाह । एकः पुरुषः सर्वशरीराणि व्याप्नोति । मणिग्रथनसूत्रवत् । मणयो बहवः सूत्रमेकम् । यथा च विष्णुरेकः स्त्रीषष्टिसहस्रैः सममेकस्मिन् समये रमते । तथा पुरुषोऽप्येकः सर्वशरीराणि व्याप्नोति । इति । अन्यः कश्चिदाचार्यः पुनराह । प्रतिशरीरं भिन्न आत्मास्तीति । तस्मान्मम संशयो जातः । समाधीयते । बहवः पुरुषाः । प्रतिशरीरं पृथक् पृथक् पुरुषोऽस्ति । कथमेवं ज्ञायते । आर्यया विवृणोति । ॥ जन्ममरणकरणानां प्रतिनियमादयुगपत्प्रवृत्तेश्च । पुरुषबहुत्वं सिद्धं त्रैगुण्यविपर्ययाच्चैव ॥ १८ ॥ ॥ छ्: जन्ममरणकरणानां प्रतिनियमादयुगपद्वृत्तिकरणाच्च । त्रैगुण्यविभेदात्पुरुषबहुत्वं सिद्धम् ॥ जन्ममरणकरणानां प्रतिनियमादिति । यदि पुरुष एकः । तदा एकस्मिन् जायमाने सर्वे जायेरन् । सर्वत्र सर्वाः स्त्रियो गर्भिण्यः स्युः प्रसववत्यः स्युः पुत्रवत्यः स्युः पुत्रीवत्यश्च स्युः । नैवं भवन्ति युगपदेकस्मिन् समये प्रतिप्रतिविलक्षणाः [सत्यः] । तस्माज्जानीमो बहवः पुरुषा इति । किञ्च [यदि] पुरुष एकः, एकस्मिन् म्रियमाणे सर्वेऽपि म्रियेरन् । एतदर्थासम्भवाज्ज्ञायते नैकः पुरुष इति । किञ्च करणानां प्रतिनियमात् । यद्येकः पुरुषः, एकस्मिन् बधिरे सर्वेऽपि बधिराः स्युः । सर्वेऽपि अन्धमूककाणादयश्च स्युरेकस्मिन् समये । तथात्वासम्भवाज्ज्ञायते बहवः पुरुषा इति । किञ्च त्रैगुण्यविभेदात् । यदि पुरुष एकः, त्रैगुण्यमविलक्षणं स्यात् । यथा एको ब्राह्मणस्त्रीन् पुत्रान् जनयति । एको मेधावी सुखी च । द्वितीयः कोपनो दुःखी च । तृतीयस्तामसो मूढश्च । यद्येकः पुरुष एकस्मिन् सात्त्विके सर्वे समं सात्त्विकाः [स्युः] । दुःखिनि मूढे चैवम् । [अतो यद्] उक्तं भवता पुरुष एको मणिग्रथन[सूत्र]वद् विष्णुवच्चेति । नैतद्युज्यते । तस्मात् हेतुपञ्चकेन जानीमो बहवः पुरुषा इति ॥ १८॥ कारिका १९ पर आह । ममात्र संशयः । [कि]मयं पुरुषः कर्ता वा अकर्ता वेति । यद्युच्यते कथमयं संशय इति । लोकव्यवहारात् । लोको हि वदति पुरुषो गच्छति पुरुष आगच्छति पुरुषः कर्तेति । साङ्ख्या वदन्ति पुरुष अकर्तेति । वैशेषिका वदन्ति पुरुषः कर्तेति । तस्मान्मम संशयः । समाधीयते । पुरुषः अकर्तेति । कथं ज्ञायते । आर्यया विवृणोति । ॥ तस्माच्च विपर्यासात् सिद्धं साक्षित्वमस्य पुरुषस्य । कैवल्यं माध्यस्थ्यं द्रष्टृत्वमकर्तृभावश्च ॥ १९ ॥ ॥ छ्: व्यक्ताव्यक्तविपर्यासात् पुरुषस्य साक्षित्वं सिद्धम् । कैवल्यं माध्यस्थ्यं द्रष्टृ[त्व]मकर्तृ[भाव]श्च ॥ व्यक्ताव्यक्तविपर्यासादिति । पूर्वस्मिन्नार्याद्वय उक्तं पुरुषः प्रधानाद्भिन्नः व्यक्तादतिरिक्तश्चेति । तदुभयलक्षणविपर्यासात्, उभयवैषम्यात् । त्रयो गुणाः कर्तारः । तत्त्रिगुणविभिन्नत्वाद् अकर्तेति । पर आह । किं प्रयोजनमनेन इति । उच्यते । साक्षित्वस्य स्थापनात् । पुरुषस्य साक्षित्वं सिद्धम् । पुरुषस्य ज्ञातृत्वात् । नावशिष्टानि तत्त्वानि तथा । कैवल्यमिति । प्रकृतिविकाराभ्यां भेदे सति पुरुषस्य परिशुद्धत्वात् कैवल्यम् । माध्यस्थ्यमिति । त्रिगुणभिन्नत्वाद् गुणानां च संकोचविकासवैषम्यान् माध्यस्थ्यमिष्यते [पुरुषस्य] । यथैकः परिव्राजकः केवल एकत्र स्थितो गतागतमन्यं नानुसरति [किन्तु] केवलं पश्यति । तथा त्रयो गुणाः संकोचविकासजननमरणसमर्थाः । केवलमेकः पुरुषः पश्यति तथाव्यापारान् । तस्मान्माध्यस्थ्यमिष्यते । प्रकृतिविकारभिन्नत्वात् पुरुषस्य सचेतनत्वाद् द्रष्टृत्वमुच्यते । तद्व्यापारत्वाद्द्रष्टेत्युच्यते न कर्तेति । अतो गुणाः कुर्वन्ति इत्ययमर्थः सिद्धः । अस्ति पुरुषः । स चानेकोऽकर्ता इत्ययमर्थोऽपि सिद्धः ॥ १९॥ कारिका २० पर आह । यद्यकर्ता पुरुषः, कोऽध्यवसायं करोति धर्मं चरिष्यामीति । अनिष्टं परिहरिष्यामि प्रणिधानं वा साधयिष्यामीति कोऽध्यवसायं करोति । यदि त्रयो गुणाः कुर्वन्ति तमध्यवसायम् । एषां सचेतनत्वं भवेत् । [नेदमिष्टम्] गुणानामचेतनत्वस्य प्रागुपन्यासात् । यदि पुरुषोऽध्यवसायं करोति । तदा पुरुषः कर्ता सिद्ध्येत् । [न चैतदिष्टम्] पुरुषस्याकर्तृत्वस्य प्रागुपन्यासात् । तस्मादुभयथा दोषो भवति । आर्ययोत्तरमाह । ॥ तस्मात्तत्संयोगादचेतनं चेतनावदिव लिङ्गम् । गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः ॥ २० ॥ ॥ छ्: त्रयो गुणाः पुरुषसंयोगादचेतनाश्चेतनावन्त इव [भवन्ति] । त्रिगुणकर्तृत्वादुदासीनः कर्तेव [भवति] ॥ त्रयो गुणाः पुरुषसंयोगादिति । इमे गुणा अचेतनाः कुर्वन्ति । पुरुषः सचेतनो न करोति । अनयोर्द्वयोः संयोगाद्गुणाश्चेतनावन्त इव [भवन्ति] । यथा दग्धो घटोऽग्निना संयुक्त उष्णः, सलिलेन संयुक्तः शीतः । तथा त्रयो गुणाश्चेतनावता संयुक्ताश्चेतनावन्त इव कुर्वन्त्यध्यवसायम् । अत उक्तमचेतनाश्चेतनावन्त इवेति । [यद्] उक्तं भवता लोकव्यवहारात् पुरुषः कर्ता इति । तमर्थं समादध्मः । त्रिगुणकर्तृत्वादुदासीनः कर्तेव [भवती]ति । तत्संयोगादकर्ता कर्तेत्युच्यते । यथा कश्चिद्ब्राह्मणो भ्रमाच्चोरसंघमध्यं प्रविष्टः । चोरे हन्तुं गृहीते सोऽपि सह हन्तुं गृहीतः । चोरेण सह गमनात् चोरनाम लभ्यते । तथा पुरुषोऽपि कर्त्रानुबद्धः लोकव्यवहारेणोच्यते पुरुषः कर्तेति ॥ २०॥ कारिका २१ पर आह । प्रकृतिपुरुषौ केन हेतुना संयुक्तौ । आर्यया उत्तरमाह । ॥ पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य । पङ्ग्वन्धवदुभयोरपि संयोगस्तत्कृतः सर्गः ॥ २१ ॥ ॥ छ्: पुरुषस्त्रिगुणदर्शनार्थी, प्रधानञ्च कैवल्यार्थम् । पङ्ग्वन्धवत्संयुक्तौ, इत्यर्थवशाल्लोकसर्गः ॥ पुरुषस्त्रिगुणदर्शनार्थीति । पुरुष एवं मन्यते अहं त्रिगुणं प्रधानं द्रक्ष्यामीति । अतः पुरुषः प्रधानेन संयुज्यते । प्रधानं कैवल्यार्थमिति । [प्रधानमेवं मन्यते] अयं तपस्वी पुरुषः केवलः ज्ञानदर्शनशक्तिमान् । तस्य कैवल्यं प्रापयिष्यामीति । तदर्थं प्रधानपुरुषौ संयुज्येते । यथा राजा पुरुषेण संयुज्यते इमं पुरुषं नियोक्ष्य इति । स पुरुषोऽपि राज्ञा संयुज्यते । राजा मे वृत्तिं दास्यतीति । अतो राजपुरुषयोः संयोगोऽर्थवशात्सिद्धः । तथा प्रधानपुरुषयोः संयुक्तत्वमपि । पुरुषस्य दर्शनार्थं प्रधानस्य कैवल्यार्थं पङ्ग्वन्धवत्संयोगः । अत्र दृष्टान्तः । पुरा किल वणिक्सार्थ उज्जयिनीं प्रस्थितः चौरैरभिहतः पृथक् विश्लिष्टो जगाम । [तदा] एको जात्यन्धः एको जातिपङ्गुश्च सर्वजनोत्सृष्टावास्ताम् । अन्धः समन्ताच्चङ्क्रममाणः आसीनेन पङ्गुना दृष्टः । पङ्गुरपृच्छत् । कस्त्वमिति । अन्धः प्रत्यवदत् । अहं जात्यन्धः न जानामि येन समन्ताच्चङ्क्रमे । त्वं पुनः कः । पङ्गुः प्रत्यवदत् । अहं जातिपङ्गुः मार्गदर्शनमात्रक्षमः असमर्थो गन्तुमिति । [जात्यन्धोऽवदत्] तस्मान्मम स्कन्ध उपविश । अहं मार्गं नेतुं शक्नोमि । त्वं मम पन्थानं दर्शय । इति । एवं द्वौ पुरुषौ मिथःसंयोगेन [स्वा]धिष्ठानदेशमभ्यगच्छताम् । तयोः संयोगोऽर्थवशात् सिद्धः । गत्वा च तौ [स्वा]धिष्ठानदेशं पृथक् पृथग् व्ययुज्येताम् । तथा पुरुषः प्रधानदर्शनकाल एव मोक्षं लभते । प्रधानमपि पुरुषस्य कैवल्यं कृत्वा पृथङ्निवर्तते । अर्थवशाल्लोकसर्ग इति । पुरुषः अन्यदर्शनार्थं प्रधानं कैवल्यार्थं संयुज्येते । अयं संयोगः लोकं सृजति । यथा स्त्रीपुरुषोभयसंयोगात्पुत्रः संभवति । तथा प्रधानपुरुषसंयोगो महदादि सृजति ॥ २१॥ कारिका २२ पर आह । संयोगो लोकं सृजतीत्युक्तम् । अयं सर्गः पुनः कीदृशः । आर्ययोत्तरमाह । ॥ प्रकृतेर्महान् ततोऽहङ्कारस्तस्माद्गणश्च षोडशकः । तस्मादपि षोडशकात्पञ्चभ्यः पञ्चभूतानि ॥ २२ ॥ ॥ छ्: प्रकृतेः क्रमेण जायते महान्, [ततः] अहङ्कारः [ततः] षोडशकः । षोडशके सन्ति पञ्च [तन्मात्राणि], तेभ्यः पञ्चभूतानि जायन्ते ॥ प्रकृतेः क्रमेण जायत इति । प्रकृतिरिति प्रधानं वा ब्रह्म वा बहुधात्मकं वाख्यायते । यदि क्रमेण जायते । तदा प्रकृतेर्मूलत्वान्नास्ति [अन्यद्] यतो जायेत । प्रकृतेर्महान् प्रथममुत्पद्यते । महानिति बुद्धिर्वा संवित्तिर्वा विभुर्वा मतिर्वा प्रज्ञा वाख्यायते । यत्र महान् तत्र मतिः । अतो महान् मतिरित्याख्यां लभते । ततो महतोऽहङ्कारो जायते । अहङ्कार इति भूतादिर्वा वैकृतो वा तैजसो वाख्यायते । ततोऽहङ्कारात् षोडशक उत्पद्यते । षोडशक इति पञ्चतन्मात्राणि पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि मन इन्द्रियञ्च । पञ्चतन्मात्राणि शब्दस्पर्शरूपरसगन्धाः, इमे पञ्चतन्मात्रात्मकाः तन्मात्रशक्तयो वा । श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानि पञ्च ज्ञानेन्द्रियाणि । वाक्पाणिपादोपस्थपायवः पञ्च कर्मेन्द्रियाणि । अयं षोडशकः अहङ्कारादुत्पद्यते । अत उक्तं महान् [ततः] अहङ्कारः [ततः] षोडशक इति । अथ षोडशके सन्ति पञ्च[तन्मात्राणि] तेभ्यः पञ्चभूतानि जायन्ते । [तत्र] शब्दतन्मात्रादाकाशमहाभूतमुत्पद्यते । स्पर्शतन्मात्राद्वायुमहाभूतमुत्पद्यते । रूपतन्मात्रात्तेजोमहाभूतमुत्पद्यते । रसतन्मात्राद् अम्भमहाभूतमुत्पद्यते । गन्धतन्मात्रात्पृथिवीमहाभूतमुत्पद्यते । प्रकृतिविकृतिपुरुषान् त्रीन् धर्मान् दृष्टा मोक्षो लभ्यते इत्यवोचम् ॥ २२॥ कारिका २३ पर आह । प्रकृतेर्महानुत्पद्यत इत्युक्तम् । महान् किंलक्षणकः । आर्ययोत्तरमाह । ॥ अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् । सात्त्विकमेतद्रूपं तामसमस्माद्विपर्यस्तम् ॥ २३ ॥ ॥ छ्: अध्यवसायो महानुच्यते धर्मो ज्ञानं विराग ऐश्वर्यम् । सात्त्विकं रूपम्, अस्माद्विपर्यस्तं तामसम् ॥ अध्यवसायो महानुच्यत इति । को नामाध्यवसायः । यदुतायं स्थाणुः अयं पुरुष इति । ईदृशी बुद्धिरध्यवसाय उच्यते । अध्यवसाय एव महानुच्यते । अयं महानष्टाङ्गः । चत्वारि अङ्गानि सात्त्विकानि । चत्वारि तामसानि । सात्त्विकानि अङ्गानि यदुत धर्मो ज्ञानं विराग ऐश्वर्यञ्चेति । धर्मः किंलक्षणः । यमनियमाः । [तत्र] यमाः पञ्च । (१) अद्वेषः, (२) आचार्यसत्कारः, (३) अन्तर्बहिश्शौचम्, (४) अन्नपाननिग्रहः (५) अप्रमादः । नियमा अपि पञ्च । (१) अहिंसा, (२) अस्तेयम्, (३) सत्यवचनम्, (४) ब्रह्मचर्यम्, (५) अशाठ्यम् । [इमानि] दशविधानि साधनानि । अतो धर्म उच्यते । किं नाम ज्ञानम् । बाह्यं ज्ञानमाभ्यन्तरं ज्ञानमिति ज्ञानं द्विविधम् । ब्रह्मज्ञानं षड् वेदाङ्गानि । (१) शिक्षा, (२) व्याकरणम्, (३) कल्पः, (४) ज्योतिषम्, (५) छन्दः, (६) निरुक्तम् । एतानि षड् विद्यास्थानानि बाह्यमुच्यते । आभ्यन्तरज्ञानं त्रिगुणपुरुषान्तरोपलब्धिः । बाह्यज्ञानेन लौकिकं लभ्यते । आभ्यन्तरज्ञानेन मोक्षो लभ्यते । किं वैराग्यम् । बाह्यमाभ्यन्तरञ्चेति वैराग्यं द्विविधम् । बाह्यमिति । धनानामर्जनरक्षणक्षयकाले क्लेशान् दृष्ट्वा रक्षणासक्तिहिंसे द्विविधदोषौ च दृष्ट्वा तद्दर्शननिमित्तं विरक्तो गृहात्प्रव्रजति । एवं विरक्तो न लभते मोक्षम् । तद्वैराग्यं बाह्यज्ञानेन लभ्यते । आभ्यन्तरवैराग्यमिति । विज्ञातपुरुषगुणभेदत्वात्प्रव्रजितुमिच्छति । आभ्यन्तरज्ञानपूर्वकं [यद्] वैराग्यं लभ्यते । तद्वैराग्यान् मोक्षं लभते । बाह्यवैराग्येण पुनः संसारे वर्तते । आभ्यन्तरवैराग्येण मोक्षं लभते । ऐश्वर्यमिति । ऐश्वर्यमष्टविधम् । (१) अणिमा अत्यन्तशून्यवदवस्थितिः । (२) लघिमा अत्यन्तं मनोवत्सिद्धिः । (३) [महिमा] आकाशवद् अत्यन्तविभुत्वम् । (४) प्राप्तिः यथेष्टलाभः (५) [इशित्वं] त्रयाणां लोकानां मौलेश्वरत्वम् । (६) [प्राकाम्यं] यथेच्छं युगपद्विषयोपभोगक्षमत्वम् । (७) [वशित्वं] अपारतन्त्र्यबन्धः, त्रिलोकसत्त्वानामात्मानुसारेणाज्ञाकरणे प्रेरणम् । (८) यथाकामावस्थायित्वं, यदुत यथाकालं यथादेशं यथाचित्तं च वृत्तिलाभः । एते चत्वारो धर्माः सात्त्विकलक्षणाः । सत्त्वमुत्कटं चेद् रजस्तमसी अभिभवति । अस्मिन् समये पुरुषः सत्त्वबहुलत्वाद् धर्मादीन् चतुरो गुणान् लभते । इदं सात्त्विकरूपम् । अस्माद्विपर्यस्तं तामसमिति । धर्मादिचतूरूपविपर्यस्ताः (१) अधर्मः (२) अज्ञानं (३) संरागित्वम् (४) अनैश्वर्यम् । इमे चत्वारो धर्मास्तामसलक्षणाः । एवं चत्वारि सात्त्विकानि चत्वारि तामसानि अङ्गानि यदि महता संयुज्यन्ते । तदा महानष्टाङ्गः । विकारकालेऽयं पूर्वजश्च ॥ २३॥ [इति] सुवर्णसप्ततिशा[स्त्रे] पूर्वखण्डः ॥ कारिका २४ [अथ] सुवर्णसप्ततिशा[स्त्रे] मध्यमखण्डः । पर आह महानुक्तः अहङ्कारलक्षणं किम् । आर्ययोत्तरमाह । ॥ अभिमानोऽहङ्कारस्तस्माद्द्विविधः प्रवर्तते सर्गः । ऐन्द्रिय एकादशकस्तन्मात्रपञ्चकश्चैव ॥ २४ ॥ ॥ छ्: अहङ्कारोऽभिमानः तस्माद्द्विविधः सर्गः [प्रवर्तते] । (१) एकादशक ऐन्द्रियः (२) तन्मात्रपञ्चको महाभूतपञ्चकश्च ॥ अहङ्कारोऽभिमान इति । अहङ्कारस्य किं लक्षणम् । यन् मम शब्दः मम स्पर्शः मम रूपं मम रसः मम गन्धं मम पुण्यगुणः प्रिय इत्येवमभिमानोऽहङ्कार आख्यायते । तस्माद्द्विविधः सर्गः [प्रवर्तते] इति । तस्मादहङ्काराद्द्विविधो विकारः प्रवर्तते । को द्विविधः । (१) एकादशक ऐन्द्रियः (२) तन्मात्रपञ्चको महाभूतपञ्चकश्च । एकादशेन्द्रियाणां पञ्चतन्मात्राणां नामानि प्रागुक्तानि ॥ २४॥ कारिका २५ अहङ्कारलक्षणमुक्तम् । अहङ्कारस्त्रिविधः । को धर्मः प्रत्येकमुत्पद्यते । आर्ययोत्तरमाह । ॥ सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् । भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् ॥ २५ ॥ ॥ छ्: एकादशकः सात्त्विको वैकृतादहङ्कारात्प्रवर्तते । भूतादेस्तामसस्तन्मात्रः प्रवर्तते तैजसादुभयं प्रवर्तते ॥ एकादशकः सात्त्विको वैकृतादहङ्कारात्प्रवर्तत इति । बुद्धौ सत्त्वमुत्कटञ्चेत्, तदा अहङ्कारं जनयति । रजस्तमसी अभिभवति । सोऽहङ्कारः सात्त्विकः । आर्या वैकृतं नाम [तं] वदन्ति । अयं वैकृतोऽहङ्कार एकादशेन्द्रियाण्युत्पादयति । कथं ज्ञायते । तानि सत्त्वबहुलानि लघुप्रकाशविशुद्धानि स्वविषयग्रहणसमर्थानि । अतस्तान्येकादश सात्त्विकानि इत्युच्यन्ते । भूतादेस्तामसस्तन्मात्रः प्रवर्तत इति । महति तम उत्कटञ्चेत्, तदा अहङ्कारमुत्पादयति । सत्त्वरजसी अभिभवति । अयमहङ्कारस्तामसः । अत आर्या भूतादिं नाम [तं] वदन्ति । अयमहङ्कारः पञ्चतन्मात्राण्युत्पादयति । अतः पञ्चतन्मात्राणि पञ्चमहाभूतानि च सर्वाणि तामसजातीयानि । तैजसादुभयं प्रवर्तते । इति । महति रज उत्कटञ्चेत्, तदा अहङ्कारं जनयति । सत्त्वतमसी अभिभवति । सोऽहङ्कारो राजसः । अत आर्याः [तस्य] तैजसमिति नाम व्यवस्थापयन्ति । अयमहङ्कार उभयमुत्पादयति । एकादशेन्द्रियाणि पञ्चतन्मात्रादीनि चोत्पादयति । सात्विकवैकृतिकोऽहङ्कार इन्द्रियाणामुत्पादकस्तैजसमहङ्कारं सहायं गृह्णाति । कथमेवम् । तैजसः सक्रियत्वेन विकृतः । सात्त्विकः निष्क्रियत्वेन विकृतः । [अतः] अहङ्कारो यदा एकादशेन्द्रियाण्युत्पादयति । अवश्यं तैजसमहङ्कारं सहायं गृह्णाति । भूताद्यहङ्कारो यदा पञ्चतन्मात्राणि पञ्चमहाभूतानि चोत्पादयति । अवश्यं तैजसमहङ्कारं सहायं गृह्णाति । कथमेवम् । तामसाहङ्कारस्य निष्क्रियत्वात् तैजसस्य सक्रियत्वात् । एवं तैजसोऽहङ्कार एकादशेन्द्रियाण्युत्पादयति पञ्चतन्मात्राणि चोत्पादयति । अत उक्तं तैजसादुभयं प्रवर्तत इति ॥ २५॥ कारिका २६ पर आह । सात्त्विक एकादशेन्द्रियाण्युत्पादयतीत्युक्तम् । कान्येकादशेन्द्रियाणि । आर्ययोत्तरमाह । ॥ बुद्धीन्द्रियाणि श्रोत्रत्वक्चक्षूरसननासिकाख्यानि । वाक्पाणिपादपायूपस्थान् कर्मेन्द्रियाण्याहुः ॥ २६ ॥ ॥ छ्: श्रोत्रं त्वक् चक्षूरसनं नासिका, इमानि पञ्च बुद्धीन्द्रियाण्याख्यानि । वाक् पाणिः पादः पायुरुपस्थः [इमानि] पञ्च कर्मेन्द्रिया[ख्यानि ] ॥ श्रोत्रं त्वक् चक्षूरसनं नासिका, इमानि पञ्च बुद्धीन्द्रियाख्यानि इति । कथमुच्यते [बुद्धी]न्द्रियमिति । तानि पञ्च शब्दरूपादिग्रहणसमर्थत्वाद् बुद्धीन्द्रियाणि नाम उच्यन्ते । वाक् पाणिः पादः पायुरुपस्थः [इमानि] पञ्च कर्मेन्द्रिया[ख्यानि] इति । कथमुच्यते कर्मेन्द्रियमिति । भाषणादिवृत्तीरिमानि पञ्च कुर्वन्ति । तस्मात्पूर्वाचार्यैः पञ्च कर्मेन्द्रियाणीति नाम व्यवस्थापितम् । पर आह । एषां दशेन्द्रियाणां कीदृश्यः स्ववृत्तयो भवन्ति । श्रोत्रेन्द्रियं शब्दतन्मात्रादुत्पन्नमाकाशमहाभूतसजातीयम् । अतः केवलं शब्दं गृह्णाति । त्वगिन्द्रियं स्पर्शतन्मात्रादुत्पन्नं वायुमहाभूतसजातीयम् । अतः केवलं स्पर्शं गृह्णाति । चक्षुरिन्द्रियं रूपतन्मात्रादुत्पन्नं तेजोमहाभूतसजातीयम् । अतः केवलं रूपं गृह्णाति । रसनेन्द्रियं रसतन्मात्रादुत्पन्नमम्भमहाभूतसजातीयम् । अतः केवलं रसं गृह्णाति । नासिकेन्द्रियं गन्धतन्मात्रादुत्पन्नं पृथिवीमहाभूतसजातीयम् । अतः केवलं गन्धं गृह्णाति । [एवं] पञ्चकर्मेन्द्रियाणां पञ्च वृत्तयः सन्ति । वागिन्द्रियं बुद्धीन्द्रियसंयुक्तं नामपदव्यञ्जनानि वक्तुं शक्नोति । पाणीन्द्रियं बुद्धीन्द्रियसंयुक्तमादानधारणादिकर्माणि सुष्ठु कर्तुं शक्नोति । पादेन्द्रियं बुद्धीन्द्रियसंयुक्तं समनिम्नोन्नतमार्गे क्रमितुं शक्नोति । उपस्थेन्द्रियं बुद्धीन्द्रियसंयुक्तमानन्दयति पुत्रञ्च जनयति । पाय्विन्द्रियं बुद्धीन्द्रियसंयुक्तं पुरीषं मलञ्चोत्सृजति । एतदर्थं दशेन्द्रियाण्युच्यन्ते ॥ २६॥ कारिका २७ पर आह । कीदृशं मन इन्द्रियम् । आर्ययोत्तरमाह । ॥ उभयात्मकमत्र मनः संकल्पकमिन्द्रियञ्च साधर्म्यात् । गुणपरिणामविशेषान्नानात्वं ग्राह्यभेदाच्च ॥ २७ ॥ ॥ छ्: संकल्पकं मन इन्द्रियमुभयविधमुच्यते । गुणपरिणामविशेषाद्बाह्यभेदाच्च नानात्वम् ॥ संकल्पकं मन इन्द्रियमुभयविधमुच्यत इति । मन इन्द्रियमुभयविधं संकल्पात्मकम् । कथमेवम् । इदं मन इन्द्रियं यदा बुद्धीन्द्रियेण संयुक्तं, तदा बुद्धीन्द्रियमित्याख्यायते यदा कर्मेन्द्रियेण संयुक्तं तदा कर्मेन्द्रियमित्याख्यायते । कस्मात् । यस्माद् इदं मन इन्द्रियं बुद्धीन्द्रियवृतिं संकल्पयति । कर्मेन्द्रियवृत्तिं च संकल्पयति । यथा एकः पुरुषः कदाचित्कर्मकर उच्यते । कदाचित्प्रवक्ता । एवं मन इन्द्रियमपि । इदं मनः कथमिन्द्रियमुच्यते । [तद्धि] दशेन्द्रियसधर्म । दशेन्द्रियाणि वैकृतादहङ्कारादुत्पद्यन्ते । एवं मन इन्द्रियमपि । दशेन्द्रियसमवृत्ति च । यद् दशेन्द्रियाणि कुर्वन्ति, [तत्] मन इन्द्रियमपि समं करोति । तस्मादिन्द्रियमिति नाम लभते । पर आह । इन्द्रियाणां वृत्तयः प्रत्येकं विलक्षणाः, मन-इन्द्रियस्य प्रतिनियता वा न वा । उच्यते । यः संकल्पः सैव तस्य वृत्तिः । तद्यथा, कश्चित्पुरुषः कुत्रचित्प्रदेशे धनमन्नं वास्तीति शृण्वन् मनसि वदति अहं तत्र गत्वा अन्नं ततो लाभञ्च लप्स्ये इति । एतादृशसंकल्पो मन इन्द्रियस्य प्रतिनियता वृत्तिः । उत्पत्तिसाम्याद्वृत्तिसाम्यात् संकल्पवृत्तिप्रतिनियमाच्च तदिन्द्रियमित्याख्यायते । तस्मादिन्द्रियान्येकादशविधान्येव । पर आह । इन्द्रियाणामेकादशानामेषां कः कर्ता । यद्युच्यते कथमयं संशय इति । आचार्याणां प्रतिपत्तिवैषम्यात् । केचिदाहुः । पुरुषकृतानीति । केचिदाहुः । ईश्वरकृतानीति । केचिदाहुः । [स्व]भावकृतानीति । एवमादिप्रतिपत्तयः प्रत्येकं विषमाः । अतो मम शङ्का जाता । एषु इन्द्रियविषयेषु एकादशविधानि [इन्द्रियाणि] नियमेन सचेतनात्प्रवर्तन्ते । कथमेवं ज्ञायते । इमान्येकादशेन्द्रियाणि एकादशविषयग्रहणसमर्थानि । प्रधानमहदहङ्काराणामचेतनत्वात्तत्सामर्थ्यं न युज्यते । लोकायतशास्त्र उक्तम् । [येन] शुक्लीकृता हंसाः शुकाश्च हरितीकृताः । मयूराश्चित्रिता [येन] स नो वृत्तिं विधास्यति ॥ इति । इदं लोकायतिकवचनम् । अतो ममेदानीं संशयः कस्मादेकादश [इन्द्रियाणि] प्रवर्तन्ते । उच्यते । अस्मिन् शास्त्रे न पुरुषः कर्ता । नापीश्वरः कर्ता । [स्व]भावो नामातिरिक्तो धर्मो नास्ति । तस्माद्भवतोक्तः [पुरुषादिः] नैकादशेन्द्रियाणि जनयति । पर आह । तथा चेत् को धर्मो जनकः । उत्तरमाह । गुणपरिणामविशेषाद्बाह्यभेदाच्च नानात्वम् । त्रयो गुणा अहङ्कारस्थाः पुरुषार्थवशादेकादशेन्द्रियाणि परिणमन्ति । कः पुरुषार्थः । इमे एकादश बाह्यविषया बहवः विषमाश्च । यद्येकमिन्द्रियं प्रवर्तते । न सर्व[विषय]ग्रहणसमर्थं स्यात् । तस्मात्प्रवर्तन्ते एकादशेन्द्रियाणि प्रतिनियतं च विषयान् गृह्णाति । अत एकादशेन्द्रियाणि विभक्तानि नाना च । अथ भवान् वदति अचेतनो न बहून् जनयितुं शक्त इति । नैतद्युज्यते । अचेतनस्य बहुशक्तिदर्शनात् । वक्ष्यति ह्यस्मिन् शास्त्रे । वत्सविवृद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ इति । छ्: वत्सविवृद्धिनिमित्तं अज्ञगौः क्षीरं प्रवर्तते । पुरुषविमोक्षनिमित्तं अज्ञं तथा इन्द्रियं प्रवर्तते ॥ अतस्त्रयो गुणा अचेतना एकादशेन्द्रियाणि जनयितुं शक्ताः । पर आह । जानीम एकादशेन्द्रियाणि अहङ्कारादुत्पन्नानीति । एषामेकादशेन्द्रियाणां विभिन्नः स्थाननिक्षेपः केन कृतः । चक्षुरुच्चैः स्थितं विप्रकृष्टरूपालोकनक्षमम् । श्रोत्रं प्रत्येकमेकस्मिन् पार्श्वे [स्थितं] दूरशब्दश्रवणम् । घ्राणमेकत्र निविष्टं प्राप्यगन्धं गृह्णाति । रसनं मुखमध्यनिविष्टमागतं रसं गृह्णाति । त्वगिन्द्रियमन्तर्बहिर्निविष्ट सर्वं स्पर्शाज्जानाति । वाक् मुखमध्यनिविष्टा नामपदव्यञ्जनान्युच्चारयति । पाणी वामदक्षिणयोस्स्थितावादानधारणसमर्थौ । पादौ नीचावयवसंनिविष्टावूर्ध्वमधः क्रामतः । मिथुनेन्द्रियमन्यदर्शनपरिहारार्थं गुह्यप्रदेशे निविष्टमुत्सर्गानन्दजननसमर्थम् । मन इन्द्रियमनियतप्रदेशं संकल्पवृत्तिं करोति । तेषामिन्द्रियाणां स्थाननिक्षेपः केन कृतः । किं पुरुषकृतः । ईश्वरकृतः । किं वा [स्व]भावेनातिरिक्तकारणेन कृतः । समाधीयते । अस्मिन् शास्त्रे पुरुषोऽपि न कारणमुच्यते । ईश्वरोऽपि न कारणम् । प्रधानं मुख्यं कारणम् । प्रधानं त्रिगुणानहङ्कारञ्च सृजति । अहङ्कारश्च पुरुषार्थमनुसृत्य प्रवर्तते । एभिः त्रिभिर्गुणैः इन्द्रियाणि स्थाने निक्षिप्तानि । अत उक्तं गुणपरिणामविशेषाद्बाह्यभेदाच्च नानात्वमिति । संनिकृष्टविप्रकृष्टवृत्तीनामिन्द्रियाणां द्वावर्थौ, (१) हेयपरिहारः (२) शरीरसंरक्षणम् इति । हेयपरिहार इति । विप्रकृष्टदर्शनं विप्रकृष्टश्रवणं हेयपरिहाराय । शरीरसंरक्षणमिति । [अष्टेन्द्रियाणि] अष्टाविषयानिनिद्रियदेशं प्राप्तानुपलभन्ते स्वशरीरसंवर्धनपालनाय ॥ २७॥ कारिका २८ पर आह । एतान्येकादशेन्द्रियाणि कां वृत्तिं कुर्वन्ति । आर्ययोत्तरमाह । ॥ रूपादिषु पञ्चानामालोचनमात्रमिष्यते वृत्तिः । वचनादानविहरणोत्सर्गानन्दास्तु पञ्चानाम् ॥ २८ ॥ ॥ छ्: रूपादिविषयालोचनमात्रं पञ्चबुद्धीन्द्रियाणां वृत्तिः । वचनादानविहरणानन्दोत्सर्गाः पञ्चकर्मेन्द्रियाणां वृत्तिः ॥ रूपादिविषयालोचनमात्रं पञ्चबुद्धीन्द्रियाणां वृत्तिरिति । चक्षूरूपं केवलमालोचयति । इयमेव चक्षुषो वृत्तिः । केवलमालोचयति न तु संकल्पयति धारयति आददाति वा । तथावशिष्टानामपीन्द्रियाणाम् । पृथक् पृथक् स्वविषये प्रकाशमात्रं तेषां वृत्तिः । बुद्धीन्द्रियं विषयप्रकाशनसमर्थम् । कर्मेन्द्रियमुपभोग्यादानक्षमम् । बुद्धीन्द्रियवृत्तिरुक्ता । अथोच्यते कर्मेन्द्रियवृत्तिः । [वचनेत्यादि] । वचनं भाषणं वागिन्द्रियगोचरः । आदानं पाणिगोचरः । विहरणं क्रमणं पादगोचरः । आनन्दः पुत्रोत्पत्तिश्च उपस्थगोचरः । उत्सर्गः विसर्गः पायुगोचरः । इति कर्मेन्द्रियवृत्तय उक्ताः ॥ २८॥ कारिका २९ अथ वक्ष्यन्ते महदहङ्कारमनसां वृत्तयः । ॥ स्वालक्षण्या वृत्तिः त्रयस्य सैषा भवत्यसामान्या । सामान्यकरणवृत्तिः प्राणाद्या वायवः पञ्च ॥ २९ ॥ ॥ छ्: त्रयस्य स्वलक्षणं वृत्तिः, त्रयोदशानामसामान्या । इन्द्रियाणां सामान्यवृतिः प्राणाद्याः पञ्च वायवः ॥ महतो वृत्तिरध्यवसायः । अभिमानमहङ्कारस्य लक्षणम् । तल्लक्षणमेवाहङ्कारस्य वृत्तिः । संकल्पो मनसो लक्षणम् । तल्लक्षणमेव मनसो वृत्तिः । त्रयोदशानामसामान्येति । दशेन्द्रियाणां पृथक् पृथक् लक्षणानि कृतानि । अत[स्त्रयोदशाना]मसामान्या वृत्तिरुक्ता । इन्द्रियाणां सामान्यवृतिः प्राणाद्याः पञ्च वायव इति । यद्युच्यतेऽसामान्यवृत्तित्वम् । सुतरां ज्ञायते सामान्यवृत्त्या भवितव्यमिति । असामान्यवृत्तिर्यथा नॄणां प्रत्येकमेका स्त्री । सामान्यवृत्तिर्यथा बहुपुरुषाणामेका साधारणी दासी । [इन्द्रियाणां] का साधारणी वृत्तिः । यत् पञ्चविधा वायवः । (१) प्राण (२) अपान (३) उदान (४) व्यान (५) समानाः । एते पञ्च वायवः सर्वेन्द्रियाणां सामान्यवृत्तिः । प्राणवायुरिति । मुखनासिकमस्य मार्गः । बाह्यविषयग्रहणमस्य वृत्तिः यदुत अहं तिष्ठामि अहं गच्छामि इति । अयमेव तद्व्यापारः । पर आह । अयं प्राणः कतमस्येन्द्रियस्य व्यापारः । उच्यते । त्रयोदशेन्द्रियाणामयं साधारणो व्यापारः । यथा पञ्जरे शुकः । शुकचलनात् पञ्जरं चलति । तथा इन्द्रियाण्यपि । प्राणवायुचलनात् त्रयोदशेन्द्रियाणि सर्वाणि चलन्ति । तस्मात्तत्त्रयोदशेन्द्रियाणां साधारणो व्यापारः । अपानवायुरिति । भयकर्म दृष्ट्वा सद्यस्ततोऽपसरति । अयं वायुर्बहुलश्चेत्, तदा पुरुषोऽवलीनो भवति । उदानवायुरिति । [अनेन] पुरुषः पर्वतमारुरुक्षति । [मन्यते च] अहमुत्कृष्टो नान्य एवमिति । अहमेतत्करणसमर्थ इति । अयं वायुर्बहुलश्चेत्, तदा पुरुष उद्धतो भवति । यदहमुत्कृष्ट अहमाढ्य इत्यादि । इयमुदानस्य वृत्तिः । व्यानवायुश्शरीरं व्याप्नोति । अन्ते च शरीरं मुञ्चति । अयं वायुर्यदि बहुलः, तदा पुरुषो नान्यं हित्वा रमते । अयं वायुर्यदि किञ्चित् किञ्चित् मुञ्चति । [तदा] अङ्गानि मृतवद्भवन्ति । अत्यन्तमोचनञ्चेत् ततो मरणम् । समानवायुर्हृद्देशे तिष्ठति । [आहार] समानयनसमर्थः । सैव तस्य वृत्तिः । अयं वायुर्यदि बहुलः । पुरुषो लुब्धो भवति । धनं मृगयति । सहचरीञ्च मृगयते । इमाः पञ्चप्राणवृत्तयस्त्रयोदशेन्द्रियकृताः ॥ २९॥ कारिका ३० त्रयोदशेन्द्रियाणामेषामसामान्या [सामान्या] च वृत्तिरुक्ता । इदानीं युगपद्वृत्तिः क्रमशो वृत्तिश्च वक्ष्यते । आर्यया तामाह । ॥ युगपच्चतुष्टयस्य हि वृत्तिः क्रमशश्च तस्य निर्दिष्टा । दृष्टे तथाप्यदृष्टे त्रयस्य तत्पूर्विका वृत्तिः ॥ ३० ॥ ॥ छ्: बुद्ध्यहङ्कारमनसामिन्द्रियस्य च युगपत्क्रमशो वा वृत्तिः । दृष्टादृष्टविषययोस्त्रयस्य वृत्तिरिन्द्रियपूर्विका ॥ बुद्ध्यहङ्कारमनसामिन्द्रियस्य च युगपत्क्रमशो वा वृत्तिरिति । रूपदर्शने युगपन्महदहङ्कारमनश्चक्षुरिन्द्रियाणि सह प्रवृत्तानि एकं प्रमेयं गृह्णन्ति । यथा चक्षुस्तथावशिष्टानीन्द्रियाण्यपि । युगपच्चत्वारि सह प्रवर्तन्ते । एकं प्रमेयं समं गृह्णन्ति । क्रमशो वृत्तिः, यथा कश्चित् पथि गच्छन् हठादुन्नतं वस्तु किञ्चित् दृष्ट्वा तदा उत्पन्नसंशयो भवति । स्थाणुर्वा पुरुषो वा इति । यदि शकुनिसमवायं पश्यति वेणुवलयं वा हरिणं वा समीपे पश्यति । तदा बुध्यते । अयं स्थाणुरिति । यदि चलं वस्त्रं पश्यति, यदि वाकुञ्चनं प्रसारणञ्च पश्यति । तदा बुध्यते अयं पुरुष इति । एवं बुद्ध्यहङ्कारमन.इन्द्रियाणां क्रमशो वृत्तिः । यथा चक्षुर्दर्शनम् । तथा श्रोत्रादीनीन्द्रियाण्यपि क्रमिकानि ज्ञेयानि । दृष्टादृष्टविषययोस्त्रयस्य वृत्तिरिन्द्रियपूर्विकेति । दृष्टे धर्मे त्रयस्येन्द्रियाश्रया क्रमशो वृत्तिरुक्ता । इदानीमदृष्टेऽपि धर्मे त्रयस्येन्द्रियाश्रया वृत्तिर्वक्ष्यते । यथोक्तं गाथायाम् । युगावसानसमये भविष्यति यथा जनः । कुदुष्ट्याचारतो बुद्धधर्मसंघापवादकः । विकरिष्यति दुष्टः सन् पितृज्ञातिसुहृज्जनान् । चतस्त्रो दुर्गतीर्गत्वा नयिष्यति परानिह ॥ यथानागते तथातीतेऽपि श्रोत्रेन्द्रियाश्रया क्रमशो वृत्तिर्धर्मत्रयस्य । एवं त्रिविधधर्मो बाह्येन्द्रियपूर्वकः प्रवर्तते ॥ ३०॥ कारिका ३१ पर आह । त्रयोदशेमानि करणानि अचेतनानि यदि पुरुषेण ईश्वरेण वा नाधिष्ठितानि । कथं पृथक् पृथग् गृह्णन्ति स्वविषयम् । आर्ययोत्तरमाह । ॥ स्वां स्वां प्रतिपद्यन्ते परस्पराकूतहेतुकां वृत्तिम् । पुरुषार्थ एव हेतुर्न केनचित्कार्यते करणम् ॥ ३१ ॥ ॥ छ्: त्रयोदशकमन्येन विना स्वां वृत्तिं कुरुते । पुरुषार्थ [एव] हेतुर्नान्येन कार्यते करणम् ॥ त्रयोदशकमन्येन विना स्वां वृत्तिं कुर्त इति । शास्त्रेऽस्मिन् ईश्वरः पुरुषश्च न कर्तेत्युक्तं प्राक् । अतस्त्रयोदश करणानि यथास्वविषयं स्वयं कुर्वन्ति नान्येन । यथा कश्चिद्ब्राह्मणो ब्रह्मचारी शृणोति कुत्रचित्प्रदेशे वेदाचार्योऽध्यापयति यथेष्टमधीयानाम् । इति । [अध्यवस्यति] अहमवश्यं तत्र गत्वा अध्येष्ये इति । अयमेव महत्कृतोऽध्यवसायः । अहङ्कारो महदाकूतमुपलभ्य एवं मन्यते । सर्वे ब्राह्मणा विद्यमानान्युपकरणानि संचिन्वते । अहं सर्वं नीत्वा गमिष्यामि तत्र गत्वा [मम] हृदयं मा शिथिलं भवतु । इति । मनोऽहङ्काराकूतमुपलभ्येमं संकल्पं करोति । प्रथमं कं वेदमध्येष्ये । किं सामवेदमध्येष्ये । किं वा यजुर्वेदम् इति । बाह्येन्द्रियाणां मनस्संकल्पपरिज्ञाने चक्षुर्मार्गमवलोकयति । श्रोत्रमन्यवचनं शृणोति । करः कुण्डिकां धत्ते । पादः पन्थानं क्रामति । इति पृथक् पृथक् [स्वां] वृत्तिं कुर्वन्ति । यथा चोराधिपः आज्ञां करोति । निर्गमने प्रवेशे धावने स्थितौ च सर्वत्रावश्यं मां शृणुध्वमिति । सर्वोऽयं चोरसङ्घोऽनुसरत्याज्ञाम् । तथा इमानि इन्द्रियाण्यपि । बुद्धिश्चोराधिपोपमा । अवशिष्टानीन्द्रियाणि चोरसङ्घोपमानि बुद्ध्याकूतज्ञानात् पृथक् पृथक् स्वां वृत्तिं कुर्वन्ति । पर आह । इमानि त्रयोदश करणानि प्रति प्रति पुरोवर्तिविषयान् गृह्णन्ति । किमिदं स्वार्थम् । उत परार्थम् । उत्तरमाह । पुरुषार्थ [एव] हेतुर्नान्येन कार्यते करणम् इति । अयमर्थः प्रागुक्तः । पुरुषार्थस्य कार्यत्वात् गुणाः सृजन्तीन्द्रियाणि [यानि] पुरुषार्थं विषयान् प्रकाशयन्ति आहरन्ति धारयन्ति च । यद्युच्यते भवता इमानीन्द्रियाण्यचेतनानि कथं प्रवर्तन्ते । उच्यते । एषामिन्द्रियाणां नास्त्यन्य ईश्वरः [य]स्तन्मध्यमागम्याधितिष्ठेत्तत्प्रवृत्युपदेशाय । केवलं पुरुषः प्रकृत्या युज्यमानः प्रवृत्त्युत्थापनायैवं मन्यते मम कैवल्यार्थं त्वया प्रकाशयितव्यम् । इति । एतत्पुरुषार्थहेतोस्त्रयो गुणा इन्द्रियाणि सृजन्ति । [तानि च] स्वस्ववृत्तिं पुरुषार्थवशात्कुर्वन्ति । अतः पुरुषार्थं विना नास्त्यन्यः व्यतिरिक्तः प्रवर्तकः ॥ ३१॥ कारिका ३२ पर आह । चतुर्विंशति[तत्त्वेषु] कति नाम तत्त्वानि करणानि । आर्ययोत्तरमाह । ॥ करणं त्रयोदशविधं तदाहरणधारणप्रकाशकरम् । कार्यञ्च तस्य दशधाऽऽहार्यं धार्यं प्रकाश्यञ्च ॥ ३२ ॥ ॥ छ्: करणसंख्या त्रयोदश, [इमानि] आहरणधारणप्रकाशकराणि । तेषां कार्यं दशविधमाहार्यं धार्यं प्रकाश्यञ्च ॥ करणसंख्या त्रयोदशेति । अस्मिन् शास्त्रे तत्र तत्रोक्तानि करणानि त्रयोदशैव नियतानि । पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि बुद्ध्यहङ्कारमनांसि इति । एतानि त्रयोदश किं कार्यं कुर्वन्ति । आहरणधारणप्रकाशकाराणि । तेषां कार्यं दशविधम् । शब्दादयः पञ्चविषयाः वचनादयः पञ्चवृत्तयः, एतानि दश तत्कार्याणि । [किञ्च] तत्कार्यं त्रिविधम् । (१) आहार्यम् (२) प्रकाश्यम् (३) धार्यमिति । तत्र त्रिभिराहृतं पञ्चज्ञानकरणैः प्रकाशितं पञ्चकर्मकरणानि धारयन्ति इत्येतत्कार्यत्रयस्य हेतोस्त्रयोदशेन्द्रियाणि व्यवस्थापितानि । अत उक्तमाहार्यं धार्यं प्रकाश्यमिति ॥ ३२॥ कारिका ३३ पर आह । कतीन्द्रियाणि त्रिकालविषयान् गृह्णन्ति । कतीन्द्रियाणि वर्तमानविषयान् गृह्णन्ति । आर्ययोत्तरमाह । ॥ अन्तःकरणं त्रिविधं दशधा बाह्यं त्रयस्य विषयाख्यम् । साम्प्रतकालं बाह्यं त्रिकालमाभ्यन्तरं करणम् ॥ ३३ ॥ ॥ छ्: अन्तःकरणं त्रिविधं, दशबाह्यकरणानि त्रयस्य विषयाः । बाह्यं करणं साम्प्रतविषयं गृह्णाति, आभ्यन्तरं त्रिकालविषयं गृह्णाति ॥ अन्तःकरणं त्रिविधमिति । बुद्ध्यहङ्कारमनांसि त्रिविधानि । एतानि अन्तःकरणाख्यानि । बाह्यविषयाग्रहणाद् अन्तरित्याख्या स्थापिता । पुरुषार्थोपायसाधनसमर्थत्वात्करणमित्युच्यते । दशबाह्यकरणानि त्रयस्य विषया इति । दशबाह्यकरणानि पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि बाह्यविषयान् गृह्णन्ति । अतो बाह्यकरणमित्याख्यायन्ते । त्रयस्य विषया इति । [त्रयस्य] बुद्ध्यहङ्कारमन.इन्द्रियाणाम् । दश करणानि तद्विषया इष्यन्ते । यथा राजा प्रजा नियोजयति । तथैव त्रीणीन्द्रियाणि दशकरणानि कारयन्ति । बाह्यं करणं साम्प्रतविषयं गृह्णाति । इमानि दशविधेन्द्रियाणि वर्तमानविषयगोचराणि । कथं ज्ञायते । श्रोत्रेन्द्रियं साम्प्रतकालमेव शब्दं गृह्णाति । [इतर]कालद्वयेऽश्रवणात् । यथा श्रोत्रेन्द्रियम् । यावद् घ्राणेन्द्रियमप्येवम् । वागिन्द्रियं वर्तमाननामपदव्यञ्जनानि भाषते । अतीतानागतानि तु न भाषते । यथा वागिन्द्रियम् । तथावशिष्टानि चत्वार्यपि । आभ्यन्तरं त्रिकालविषयं गृह्णाति । इति । बुद्ध्यहङ्कारमनांसि त्रिविधानि त्रिकालविषयान् गृह्णन्ति । बुद्धिः साम्प्रतघटशरावादीन् गृह्णाति । अतीतमपि गृह्णाति । यथा पुरा मान्धाता [नाम] राजा बभूव । अनागतमपि गृह्णाति । यथा जनानां नाशो भविष्यतीत्युच्यते । तथाहङ्कारोऽपि त्रिकालविषयान् मदीयमिति मन्यते । एवं मन.इन्द्रियमपि त्रिकालविषयान् संकल्पयति । अनागतं प्रार्थयते । अतीतं स्मरति च । अत उक्तं आभ्यन्तरं त्रिकालविषयं गृह्णाति इति ॥ ३३॥ कारिका ३४ पर आह । कतीन्द्रियाणि सविशेषं विषयं गृह्णन्ति । कतीन्द्रियाणि निर्विशेषं विषयं गृह्णन्ति । आर्ययोत्तरमाह । ॥ बुद्धीन्द्रियाणि तेषां पञ्च विशेषाविशेषविषयाणि । वाग्भवति शब्दविषया शेषाण्यपि पञ्चविषयाणि ॥ ३४ ॥ ॥ छ्: त्रयोदशमध्ये बुद्धीन्द्रियाणि विशेषाविशेषविषयान् गृह्णन्ति । वाक् शब्दमात्रविषया शेषाणां चतुर्णां पञ्चापि विषयाः ॥ त्रयोदशमध्ये बुद्धीन्द्रियाणि विशेषाविशेषविषयान् गृह्णन्ति इति । एषां त्रयोदशकरणानां मध्ये पञ्चबुद्धीन्द्रियाणि सविशेषनिर्विशेषविषयान् गृह्णन्ति । सविशेषास्त्रिगुणमयाः । निर्विशेषाः केवलैकगुणाः । यथा स्वर्गे पञ्चविषयाः शब्दस्पर्शरूपरसगन्धाख्याः । एते पञ्चविषया निर्विशेषाः । समसत्त्वात्मकत्वात् । एते पञ्चविषया अरजस्तमस्काः । मनुष्यगतौ पञ्चविषयाः सविशेषाः सत्त्वरजस्तमोयोगसिद्धाः । तस्माद्देवानां बुद्धीन्द्रियाणि निर्विशेषविषयान् गृह्णन्ति । मनुष्याणां बुद्धीन्द्रियाणि तु सत्त्वरजस्तमोरूपविशेषवद्विषयान् गृह्णन्ति । तस्मा[दुक्तं] बुद्धीन्द्रियाणि विशेषाविशेषविषयान् गृह्णन्ति । इति । वाक् शब्दमात्रविषयेति । देववाक् मनुष्यवाक् च शब्दमात्रविषया नामपदव्यञ्जनानि भाषते । शेषाणां चतुर्णां पञ्चापि विषया इति । पाणीन्द्रियं पञ्चविषयात्मकं पञ्चा[त्मक]विषयान् गृह्णाति । तद्यथा पाणिर्घटं गृह्णाति । यथा पाणिः, तथा शेषाण्यपीन्द्रियाणि । एवं चत्वारीन्द्रियाणि पञ्चविषयसंस्थानानि पञ्चा[त्मक]विषयान् गृह्णन्ति ॥ ३४॥ कारिका ३५ अथेन्द्रियाणां लक्षणान्तरमार्ययाह । ॥ सान्तःकरणा बुद्धिः सर्वं विषयमवगाहते यस्मात् । तस्मात्त्रिविधं करणं द्वारि द्वाराणि शेषाणि ॥ ३५ ॥ ॥ छ्: बुद्धिः सान्तःकरणा सर्वं विषयमवगाहते । तस्मात्त्रिविधं करणं द्वारि इन्द्रियाणि सर्वाणि द्वाराणि ॥ बुद्धिः सान्तःकरणा सर्वं विषयमवगाहते । इति । बुद्धेरहङ्कारेण मन.इन्द्रियेण सदा योगाद् उक्तं बुद्धिः सान्तःकरणेति । त्रिलोकान् विषयान् त्रिकालान् विषयांश्चावगाहते । अत उक्तं सर्वं विषयमवगाहत इति । तस्मात्त्रिविधं करणं द्वारि । इति । बुद्ध्यादि त्रिविधं करण[मात्मानं] द्वाराणामधिपं करोति । यदि बुद्ध्यादि त्रिविधं करणं सुयुक्तं चक्षुरिन्द्रिये वर्तते । [तदा] तच्चक्षुरिन्द्रियं रूपं प्रकाशयति न शेषाणीन्द्रियाणि । इमानि त्रीणि [करणानि] एकेन्द्रियसमवायात् त्रिलोकविषयान् त्रिकाल[विषयां]श्चावगाहन्ते । तस्मादुच्यते इमानि त्रीणि [करणानि] दशकरणान्यधितिष्ठन्ति इति । शेषाणि इन्द्रियाणि सर्वाणि द्वाराणि इति । यदुत पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि । त्रि[करणा]नुसारित्वाद् विवृतानि संवृतानि वा भवन्ति । यदि त्रिकं चक्षुषि वर्तते । तदा चक्षुर्द्वारं विवृतं पुरोवर्तिविषयमवगाहते । शेषाणि द्वाराणि तु संवृतानि विषयं नावबुद्ध्यन्ते । अन्यानुसारित्वात् केवलं द्वाराणि न वस्तुतः करणानि । एवं दशेन्द्रियाणि त्रिविधकरणेन संयुक्तानि सर्वान् त्रिलोकविषयानवगाहन्ते ॥ ३५॥ कारिका ३६ किञ्चार्यामाह । ॥ एते प्रदीपकल्पाः परस्परविलक्षणा गुणविशेषाः । कृत्स्नं पुरुषस्यार्थं प्रकाश्य बुद्धौ प्रयच्छन्ति ॥ ३६ ॥ ॥ छ्: करणानि प्रदीपकल्पानि गुणमनुसृत्य परस्परविलक्षणानि । त्रिलोकविषयान् प्रकाश्य पुरुषार्थं बुद्धौ प्रयच्छन्ति ॥ करणानि प्रदीपकल्पानीति । यदुत पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि अहङ्कारो मन.इन्द्रियञ्च । यथा प्रदीप एकत्रावस्थितः पदार्थान् समं प्रकाशयति । एवं करणानि त्रीलोकविषयान् प्रकाशयति । अत उक्तं प्रदीपकल्पानीति । गुणमनुसृत्य परस्परविलक्षणानीति । परस्परविधर्माणि । श्रोत्रं शब्दं गृह्णाति न रूपम् । चक्षुस्तु रूपं गृह्णाति न शब्दम् । यावन्नासिका केवलं गन्धं गृह्णाति न रसम् । ज्ञानेन्द्रियेषु इन्द्रियं प्रतिविषयं नियतं विलक्षणञ्च । अत उक्तं परस्परविलक्षणानीति । कर्मेन्द्रियमप्येवम् । वाक् केवलं भाषणं व्यवहरति । न शेषां वृत्तिं करोति । यावद्बुद्धिः केवलमध्यवसायं करोति । अहङ्कारः केवलमभिमानं करोति । मनः केवलं संकल्पं करोति । अतोऽप्युक्तं परस्परविलक्षणानीति । तद्वैलक्षण्यं कथम् । त्रीन् गुणाननुत्सृत्याहङ्कारो विषमः प्रवर्तते । अत अहङ्कारः पञ्चतन्मात्राणि इन्द्रियाणि च सर्वाणि विषमाणि सृजति । त्रिलोकविषयान् प्रकाश्य पुरुषार्थं बुद्धौ प्रयच्छन्तीति । इमानि द्वादशेन्द्रियाणी लोकविषयान् प्रकाश्य सर्वान् बुद्धौ प्रयच्छन्ति । यथा राष्ट्रे सर्वेऽमात्यजना देशधनानि संगृह्य राष्ट्रपालाय प्रयच्छन्ति । एवं विषया द्वादशेन्द्रियैर्बुद्धौ प्रदीयन्ते । अतो बुद्धः पुरुषं [विषयान्] प्रदर्शयति । अत उक्तं पुरुषार्थं बुद्धौ प्रयच्छन्तीति ॥ ३६॥ कारिका ३७ पर आह । कस्मादिन्द्रियाणि विषयान् प्रकाश्य न स्वयं पुरुषाय प्रदर्शयन्ति । आर्ययोत्तरमाह । ॥ सर्वं प्रत्युपभोगं यस्मात्पुरुषस्य साधयति बुद्धिः । सैव च विशिनष्टि ततः प्रधानपुरुषान्तरं सूक्ष्मम् ॥ ३७ ॥ ॥ छ्: पुरुषस्य सर्वं प्रत्युपभोगं यस्माद् बुद्धिः साधयति । किञ्च पश्चात्काले प्रधानपुरुषयोः सूक्ष्ममन्तरं दर्शयति ॥ पुरुषस्य सर्वं प्रत्युपभोगं यस्माद्बुद्धिः साधयति इति । पुरुषस्योपभोगः सर्वत्र न समः । यदि वा मनुष्यगतौ यदि वा देवगतौ यदि वा तिर्यग्गतौ दशविषयोपभोगो यावदष्टैश्वर्योपभोगं [न समः] । ज्ञानेन्द्रियकर्मेन्द्रियदशबाह्यकरणानि इमान् विषयान् प्रकाश्य बुद्धावर्पयन्ति । बुद्धिः पुरुषेऽर्पयितुं स्वीकरोति । तेन पुरुष उपभोगं लभते । अनेन च हेतुना बुद्धिः क्रमशः पुरुषं यथेष्टमुपभोक्तारमैश्वर्यसुखस्य लाभिनं च करोति यावत्प्रज्ञा नोत्पद्यते । किञ्च पश्चात्काले प्रधानपुरुषयोः सूक्ष्ममन्तरं दर्शयति । इति । पश्चात्कालः प्राज्ञप्रादुर्भावकालः । प्रधानपुरुषौ विविक्तावितीमं विवेकमनभ्यस्ताचायचर्या जना न पश्यन्ति । अत उक्तं सूक्ष्ममिति । सा च विवेके द्वारमिति त्रयोदशके बुद्धिरेव पुरुषं दर्शयति । दर्शनं किंलक्षणम् । यदुत प्रधानपुरुषौ भिन्नौ, त्रयो गुणा भिन्नाः, बुद्धिर्भिन्ना, अहङ्कारो भिन्नः, एकादशेन्द्रियाणि भिन्नानि, पञ्चतन्मात्राणि भिन्नानि, पञ्चमहाभूतानि भिन्नानि शरीरं भिन्नमिति दर्शनम् । एवमादिभेदबुद्धिः पुरुषस्य ज्ञानमुत्पादयति । तस्मात्पुरुषो मोक्षं लभते । यथोक्तं प्राक् । पञ्चविंशतितत्त्वज्ञो यत्र तत्राश्रमे वसेत् । जटी मुण्डी शिखी वापि मुच्यते नात्र संशयः ॥ इति । तस्मात्केवलं बुद्धिरेका पुरुषस्य वस्तुतः करणम् ॥ ३७॥ कारिका ३८ पर आह । पूर्वमार्यायामुक्तमिन्द्रियाणि विशेषाविशेषविषयान् गृह्णन्ति इति । के [ते] विशेषाविशेषाः । आर्ययोत्तरमाह । ॥ तन्मात्राण्यविशेषास्तेभ्यो भूतानि पञ्च पञ्चभ्यः । एते स्मृता विशेषाः शान्ता घोराश्च मूढाश्च ॥ ३८ ॥ ॥ छ्: पञ्चतन्मात्राण्यविशेषाः तेभ्य उत्पन्नानि पञ्चभूतानि । भौतिकविषयाः सविशेषा यदुत शान्ता घोरा मूढाश्च ॥ पञ्चतन्मात्राण्यविशेषा इति । भवानाह स्म । के विशेषाविशेषा इति । अधुना समाधास्यते । अहङ्कारादुत्पद्यन्ते पञ्चतन्मात्राणि सूक्ष्माणि शान्तानि सत्त्वलक्षणानि च । एतान्येव देवानां विषया अविशेषाश्च । देवानां शोकमोहाभावात् । तेभ्य उत्पन्नानि पञ्चमहाभूतानि । भौतिकविषयाः सविशेषा इति । शब्दतन्मात्रादाकाशमुत्पन्नम् । यावद् गन्धतन्मात्रात्पृथिवी उत्पन्ना । इमानि पञ्चभूतानि सविशेषाणि । इमे विशेषाः किंलक्षणाः । (१) शान्ताः (२) घोराः (३) मूढाश्च । तानि पञ्चमहाभूतानि मनुष्यविषयाः । आकाशमहाभूतस्य कानि त्रीणि लक्षणानि । यथा कश्चिन्महान् धनिकः गर्भगृहमन्तः प्रविश्य पञ्चकामसुखान्यनुभुङ्क्ते । कदाचिदुन्नतं प्रासादमारुह्य सुदूरमकाशमहाभूतं पश्यति । [तेन] आकाशेन सुखमनुभवतीत्यतः शान्तम् । अथवा उन्नते प्रासादे निविष्टः आकाशशीतवातेन स्पृश्यते । तदा आकाशं दुःखजनकम् । अथवा पुनः कश्चिन् महत्यध्वनि चरन् केवलमाकाशं पश्यति । न ग्रामसमुदायं पश्यति । विश्रान्तिस्थानञ्च नास्ति । तदा मोहजनकम् । तथा शेषाणि महाभूतान्यपि । एवं देवानां पञ्चतन्मात्राणि विषया एकान्तशान्ता इत्यविशेषाः । मनुष्या महाभूतविषयाः । महाभूतानि च त्रिगुणवन्ति । तस्मात्सविशेषाणि ॥ ३८॥ कारिका ३९ पर आह । विशेषा यथाविभागमुक्ताः । किमिम एव विशेषाः किं वा पुनरन्ये विशेषाः सन्ति । समाधीयते । पुनरन्ये विशेषास्सन्ति । यथाहार्या । ॥ सूक्ष्मा मातापितृजाः सह प्रभूतैस्त्रिधा विशेषाः स्युः । सूक्ष्मास्तेषां नियता मातापितृजा निवर्तन्ते ॥ ३९ ॥ ॥ छ्: सूक्ष्मा मातापितृजाः प्रभूता [इति] त्रिविधा विशेषाः । त्रिषु सूक्ष्मा नियताः शेषा निवर्तन्ते ॥ सूक्ष्मा मातापितृजाः प्रभूता [इति] त्रिविधा विशेषा इति । सर्वाणि त्रिषु लोकेषु आदौ सूक्ष्मशरीराणि केवलतन्मात्रकान्युत्पन्नानि । तानि सूक्ष्मशरीराणि गर्भाशयं प्रविशन्ति । शुक्रशोणितसंयोगः सूक्ष्मशरीरं वर्धयति । षड्विधा अन्नपानरसा आप्यायिताः स्थूलशरीरस्योपचयं वृद्धिञ्च पुष्णन्ति । मातुः पुत्रस्य चान्नपानमार्गै संयुक्तौ । अतः [स्थूलशरीरं] पोषितं वर्धते । यथा वृक्षो मूले जलद्वारयुक्तत्वाद् आप्याययन् वर्धते । एवमयमन्नपानरसः तद्गमनमार्गेणान्तः प्रविश्य स्थूलशरीरं वर्धयति । यादृशं सूक्ष्मशरीरस्य प्रमाणं, स्थूलशरीरस्यापि तादृशम् । सूक्ष्मशरीरमाभ्यन्तरमुच्यते । स्थूलशरीरं बाह्यमुच्यते । सूक्ष्मशरीरेऽस्मिन् पाणिपादशिरोमुखोदरपृष्ठं मनुष्यलक्षणं पूर्णं भवति । यथा वदन्ति महर्षयश्चतुर्वेदेषु । स्थूलशरीरं षडाश्रयम् । रक्तमांसस्नायूनि त्रिविधा मातृजाः । शुक्रमज्जस्थीनि त्रिविधाः पितृजाः । एते षड् देहाश्रया [इति] । बाह्येन स्थूलशरीरेणाभ्यन्तरं सूक्ष्मशरीरं वर्ध्यते । अस्याभ्यन्तरसूक्ष्मशरीरस्य स्थूलशरीरेणोपचितस्य गर्भाशयान्निर्गमकाले निर्गते च बाह्यपञ्चमहाभूतानि तद्विहृतिस्थानानि भवन्ति । यथा राजपुत्रस्य अन्ये नानाप्रासादकक्षं गृहं कुर्वन्ति । इदं स्थानं विहरणयोग्यं, इदं स्थानं भोजनयोग्यं, इदं स्थानं स्वापयोग्यमिति । तथा प्रधानमपि सूक्ष्मस्थूलशरीरयोराश्रयस्थानकरणाय पञ्चमहाभूतानि सृजति । (१) आकाशमहाभूतमवकाशने सृजति । (२) पृथिवीमहाभूतं विहरणे सृजति । (३) अब् महाभूतं शुद्धौ सृजति । (४) तेजोमहाभूतमाहारपचने सृजति । (५) वायुमहाभूतं व्यूहने सृजति । एवं त्रिविधा विशेषाः (१) सूक्ष्माः (२) मातापितृजाः (३) शान्तघोरमूढात्मकप्रभूतानि । इमे त्रयोऽन्ये विशेषा उच्यन्ते । पर आह । एषु त्रिषु विशेषेषु कति नित्याः कत्यनित्याः । उत्तरमाह । त्रिषु सूक्ष्मा नियताः शेषा निवर्तन्ते । इति । एषां त्रयाणां मध्ये पञ्चतन्मात्राणि दृष्टानि । सूक्ष्मा विशेषा आद्यशरीरजनका नियताश्च । यदा स्थूलशरीरं निवर्तते, सूक्ष्मशरीरञ्च यद्यधर्मयुक्तम् । तदा चत्वारि जन्मान्युपादत्ते । (१) चतुष्पात् (२) पक्षी (३) उरगः (४) तिर्यग् इति । यदि धर्मयुक्तम् । तदा चत्वारि जन्मान्युपादत्ते । (१) ब्रह्मा (२) देवः (३) प्रजापतिः (४) मनुष्य इति । एवं सूक्ष्मशरीरं तु नियतं सत् संसरत्यष्टसु स्थानेषु । यावत् ज्ञानवैराग्ये नोत्पन्ने स्तः । ज्ञानवैराग्ये यद्युत्पन्ने । तदा एतच्छरीरमुक्तो मुच्यते । अत उक्तं सूक्ष्मा विशेषा नित्या इति । शेषाः स्थूलविशेषा निवर्तमाना अनित्या इत्युच्यन्ते । मरणकाले सूक्ष्मशरीरं स्थूलशरीरमुत्सृजति । एतत् स्थूलशरीरं मातापितृजातं यदि वा पक्षिभिः खाद्यते यदि वा पूतिकं शीर्यते यदि वाग्निना दह्यते । मूढस्य सूक्ष्मशरीरं संसारे संसरति ॥ ३९॥ कारिका ४० पर आह । भवतोक्तं मातापितृ[जं] शरीरं निवर्तत इति । किं पुनं शरीरं संसरति संसारे । आर्ययोत्तरमाह । ॥ पूर्वोत्पन्नमसक्तं नियतं महदादिसूक्ष्मपर्यन्तम् । संसरति निरुपभोगं भावैरधिवासितं लिङ्गम् ॥ ४० ॥ ॥ छ्: पूर्वोत्पन्नं शरीरमसक्तं [नियतं] महदहङ्कारपञ्चतन्मात्रकम् । संसरति निर्विषयोपभोगं भावैरधिवासितं लिङ्गम् ॥ पूर्वोत्पन्नं शरीरमसक्तमिति । पुरा प्रधानं प्रवर्तमानं सत् लोकमसृजत् । सूक्ष्मशरीरं प्रथममजायत । प्रधानाद्बुद्धिरजायत । बुद्धेरहङ्कारोऽजायत । अहङ्कारात्पञ्चतन्मात्राण्यजायन्त । एतानि सप्त सूक्ष्मशरीरमित्युच्यते । सूक्ष्मशरीरलक्षणं कीदृशम् । ब्रह्मरूपसदृशम् । विषयाननुभूय पश्चादेतच्छरीरं मोक्षमाप्नोति । असक्तमिति । यथोक्तमाचार्यैः । एतत्सूक्ष्मशरीरं तिर्यङ्मनुष्यदेवगतिषु स्थितमपि, पर्वतपाषाणभित्त्यादिना न प्रतिहन्तुं शक्यते । सूक्ष्मत्वात् ॥ इति । न च विक्रियते । यावत् प्रज्ञा नोत्पद्यते [तावत्] सदा न वियुज्यते । इदं नियतमाख्यायते । महदहङ्कारपञ्चतन्मात्रकमिति । एतच्छरीरं कतिभिस्तत्त्वैः सिद्ध्यति । सप्तविधसूक्ष्मतत्त्वैः । षोडशविधस्थूलतत्त्वपर्यन्तैः इदं शरीरं किं करोति । संसरति, निर्विषयोपभोगम् । तत्सूक्ष्मशरीरमेकादशेन्द्रियसंयुक्तं कदाचित् चतुर्षु जन्मसु प्रविष्टं त्रीन् लोकान् संसरति । निर्विषयोपभोगमिति । यद्येकादशेन्द्रियासंयुक्तम् । यदि मातापितृजातस्थूलशरीररहितम् । [तदा] विषयोपभोगशक्तिर्नास्ति । भावैरधिवासितं लिङ्गमिति । सूक्ष्मशरीरस्य भावाः त्रिविधाः । [तैः] भावैरधिवासितम् । इमे त्रयो भावाः पश्चाद्वक्ष्यन्ते । (१) सांसिद्धिकभावः (२) प्राकृतिकभावः (३) वैकृतभाव इति भावास्त्रिविधाः । एभिस्त्रिभिर्भावैरधिवासितं सूक्ष्मशरीरम् । लिङ्गमिति । अनार्यैरदृष्टत्वात् । तत्सूक्ष्मशरीरं संसरति संसारे ॥ ४० कारिका ४१ पर आह । एभिः त्रयोदशेन्द्रियैः संसारे संसरणायालम् । किं मिथ्यासूक्ष्मशरीरेण । आर्ययोत्तरमाह । ॥ चित्रं यथाश्रयमृते स्थाण्वादिभ्यो विना यथा छाया । तद्वद्विनाऽविशेषैस्तिष्ठति न निराश्रयं लिङ्गम् ॥ ४१ ॥ ॥ छ्: यथा चित्रं भित्तिमृते न, स्थाण्वादिभ्यो विना न छाया । [तद्वत्] पञ्चतन्मात्रशरीरवियुक्तञ्चेत्, त्रयोदशकं निराश्रयं तिष्ठति ॥ यथा चित्रं भित्तिमृते न, स्थाण्वादिभ्यो विना न छाया इति । लोकेऽस्मिन् आधाराधेयौ द्वौ धर्मौ संयुक्तौ दृष्टौ न वियुक्तौ । यथा चित्ररूपं भित्त्याश्रयम् । भित्तिं विहाय पृथङ् न तिष्ठति । तस्मात्सूक्ष्मशरीरं विहाय त्रयोदशकं न स्थातुं क्षमते । किञ्च स्थाणुं विना छाया निराश्रया । अग्निविरहे प्रकाशो नास्ति । जलविरहे शैत्यं नास्ति । वायुविरहे स्पर्शो नास्ति । आकाशं विना नेर्यापथः सिद्ध्यति । एवं सूक्ष्मशरीरं विना स्थूललिङ्गं निराश्रयमुपरमते न तिष्ठति । तस्मादुक्तं पञ्चतन्मात्रशरीरवियुक्तञ्चेत्, त्रयोदशकं निराश्रयं तिष्ठतीति ॥ ४१॥ कारिका ४२ पर आह । इदं सूक्ष्मशरीरं त्रयोदशकेन सह किमर्थं संसारे संसरति । आर्ययोत्तरमाह । ॥ पुरुषार्थहेतुकमिदं निमित्तनैमित्तिकप्रसङ्गेन । प्रकृतेर्विभुत्वयोगान्नटवद्व्यवतिष्ठते लिङ्गम् ॥ ४२ ॥ ॥ छ्: पुरुषार्थहेतुकं निमित्तनैमित्तिकहेतोः । प्रकृतेर्विभुत्वशक्त्यनुसारात् नटवत्प्रवर्तते लिङ्गम् ॥ पुरुषार्थहेतुकमिति । पुरुषार्थस्य कर्तव्यत्वात् प्रधानं विक्रियते । [पुरुषा]र्थो द्विविधः । (१) शब्दाद्युपलब्धिविषयः (२) गुणपुरुषान्तरदर्शनमन्तिमः । ब्रह्मपदादिषु पुरुषाः शब्दादिविषयैः संयुज्यन्ते । संयुक्ताः पश्चाद्विमुच्यन्ते । अतः प्रधानं सूक्ष्मशरीरं विकरोति । इदं सूक्ष्मशरीरं किंनिमित्तं संसरति । निमित्तनैमित्तिकहेतोः । निमित्तं यदुत धर्मादीनि अष्टविधानि पश्चाद्वक्ष्यन्ते । आर्यामेवाह । धर्मेण गमनमूर्ध्वं गमनमधस्ताद्भवत्यधर्मेण । ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ॥ इमानि निमित्तनैमित्तिकानि पुनः किंनिमित्तं सिद्ध्यन्ति । प्रकृतेर्विभुत्वशक्त्यनुसारादिति । यथा [कश्चित्] राष्ट्रपालः स्वराष्ट्रे अर्थानुसारात् [कार्यं] करोति । तथा प्रधानमपि देवमनुष्यतिर्यगादिसर्गं करोति । अत उक्तं नटवत्प्रवर्तते लिङ्गमिति । यथा नटः कदाचिद्देवरूपो दृश्यते । कदाचिद्राजरूपो दृश्यते । कदाचिन्नागपिशाचादिरूपो विचित्रो विभिन्नश्च दृश्यते । सूक्ष्मशरीरमप्येवं त्रयोदशकेन संयुक्तं कदाचिद्गजाश्वादिकुक्षिं प्रविश्य गजाश्वाद्यात्मना परिणमते । कदाचिन्मनुष्यदेवादिकुक्षिं प्रविश्य मनुष्यदेवात्मना परिणमते । अत उक्तं प्रकृतेर्विभुत्वशक्त्यनुसारान्नटवत्प्रवर्तते लिङ्गमिति ॥ ४२॥ कारिका ४३ पर आह । उक्तं प्राक् त्रिविधैर्भावैरधैवासितानि त्रयोदशेन्द्रियाणि संसारे संसरन्ति । इति । के [ते] त्रिविधा भावाः । आर्ययोत्तरमाह । ॥ सांसिद्धिकाश्च भावाः प्राकृतिका वैकृताश्च धर्माद्याः । दृष्टाः करणाश्रयिणः कार्याश्रयिणश्च कललाद्याः ॥ ४३ ॥ ॥ छ्: सांसिद्धिकाः प्राकृतिका वैकृता [इति] त्रयो भावाः । दृष्टा अन्तःकरणाश्रयिणः सूक्ष्माश्रयिणश्च कललाद्याः ॥ सांसिद्धिकाः प्राकृतिका वैकृता [इति] त्रयो भावा इति । सर्वभावा भावाख्यास्त्रिविधाश्च भवन्ति । (१) सांसिद्धिकाः (२) प्राकृतिकाः (३) वैकृता इति । सांसिद्धिका यथा कपिलमुनेरादौ सहजाश्चत्वारो गुणाः । (१) धर्म (२) ज्ञान (३) विराग (४) ऐश्वर्याणीति । इमे चतुर्विधा गुणाः सांसिद्धिकाः । अतस्ते चत्वारो गुनाः सांसिद्धिकभावाश्रयिणः । के प्राकृतिकाः । प्राकृतिका इति । यथोक्तं वेदे । पुरा [किल] ब्रह्मणश्चत्वारः पुत्राः समजायन्त । (१) सन्क (२) सनन्दन (३) सनातन (४) सनत्कुमारनामानः । एषां चतुर्णां पुत्राणां सम्पूर्णकरणकार्याणां शरीरवतां षोडशवर्षे चत्वारो भावा अकस्मात्सिद्धा धर्मज्ञानविरागैश्वर्याख्या अकस्मान्निधिदर्शनलाभवत् [इति] । एते चत्वारो भावा न निमित्तलब्धाः । अतः प्राकृतिका इत्युच्यन्ते । वैकृता भावा इति । विकृतिर्नामाचार्यमूर्तिः । आचार्यमूर्तिनिमित्तात् शिष्याः सगौरवं सभक्तिं चोपगम्य श्रुत्वा ज्ञानं लभन्ते । ज्ञानाद्वैराग्यं लभन्ते । वैराग्याद्धर्मं लभन्ते । धर्मादष्टविधमैश्वर्यं लभन्ते । इमे शिष्यगुणाश्चत्वार आचार्यमूर्तिलब्धत्वाद्वैकृता उच्यन्ते । एभिश्चतुर्भिर्गुणैरधिवासितं महदादि अन्तःकरणं संसरति संसारे । एते चत्वारो गुणाः प्रतिपक्षैः सह अष्टविधाः । इमेऽष्टधर्माः किमाश्रित्य वर्तन्ते । उत्तरमाह । दृष्टा अन्तःकरणाश्रयिणः सूक्ष्माश्रयिणश्च कललाद्या इति । अन्तःकरणं यन्महदादि । समहानष्टभावयुक्तः । चत्वारो महदाश्रयिणो वर्तन्ते । यथोक्तं प्राक् । अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् । सात्त्विकमेतद्रूपं ताममसमस्माद्विपर्यस्तम् ॥ इति । इमेऽष्टविधा अन्तःकरणाश्रयिणः सिद्धाः । तेऽष्टभावाश्चार्यजनैर्दिव्यचक्षुषा दृष्टाः । अत उक्तं दृष्टा इति । सूक्ष्माश्रयिणश्च कललाद्या इति । यदष्टविधशरीराणि (१) कलल (२) बुद्बुद (३) पेशी (४) घन[मांस] (५) गर्भ (६) कुमार (७) यौवन (८) स्थाविराख्यानि । इमान्यष्टविधानि चतुर्भिरन्नरसैर्वृद्धिं लभन्ते । (१) मातृनिमित्ताः षड्रसाश्चत्वारि शरीराणि वर्धयन्ति । (२) क्षीररसाद् गर्भशरीरं वर्धते । (३) स्तन्यपानात् कौमारशरीरं वर्धते । (४) अवशिष्टाहारनिमित्तोर रसोऽन्तिमे द्वे शरीरे वर्धयति । एतदष्टविधं शरीरं सूक्ष्मशरीरमाश्रित्य सिद्ध्यति । इमे षोडश पदार्था अन्तःकरणमधिवासयन्ति । सूक्ष्मशरीरञ्च संसरति संसारे ॥ ४३॥ कारिका ४४ पर आह । निमित्तनैमित्तिकहेतोर्नटवत्प्रवर्तते लिङ्गमिति प्रागुक्तम् । [तत्र] किं निमित्तं किं नैमित्तिकम् । उत्तरमाह । ॥ धर्मेण गमनमूर्ध्वं गमनमधस्ताद्भवत्यधर्मेण । ज्ञानेन चापवर्गो विपर्ययादिष्यते बन्धः ॥ ४४ ॥ ॥ छ्: धर्मेण गमनमूर्ध्वमधर्मेण गमनमधस्तात् । ज्ञानोद्वेगाभ्यामपवर्गः तद्विपर्ययश्चेत्तदा बन्धः ॥ लोके यदि मनुष्यो यमनियमादि धर्मं करोति । तेन धर्मेण जन्मोपादानकाले सूक्ष्मशरीरमूर्ध्वं गत्वा अष्टसु स्थानेषु उत्पद्यते । (१) ब्राह्मणम् (२) प्राजापत्यम् (३) ऐन्द्रम् (४) गान्धर्वम् (५) याक्षम् (६) राक्षसम् (७) यामम् (८) पैशाचम् इत्यष्टस्थानेषु जन्म लभते । यदि तद्दशविधधर्मविपरीतमधर्मं करोति । जन्मोपादानकाले अधो गत्वा पञ्चसु स्थानेषु उत्पद्यते । (१) चतुष्पात् (२) पतग (३) उरग (४) तिर्यक् (५) स्थावरेषु पञ्चसु स्थानेषु अधर्मेणोत्पद्यते । ज्ञानोद्वेगाभ्यामपवर्ग इति । सूक्ष्मशरीरेण ज्ञानं लभते ज्ञानेन वैराग्यं लभते । वैराग्येण सूक्ष्मशरीरं त्यजति । पुरुषकैवल्यादपवर्ग इत्याख्यायते । तद्विपर्ययश्चेत्तदा बन्ध इति । ज्ञानविपरीतमज्ञानम् । यथा पुरुषो वदति अहं अनुकम्प्यः अहं प्रियः मम प्रियमिति । अहङ्कारा[देवं] मन्यते अहमिति । इदमुच्यतेऽज्ञानम् । इदमज्ञानं स्वशरीरं बध्नाति । तेन मनुष्यदेवतिर्यक्षु वर्तते । बन्धस्त्रिविधः (१) प्रकृतिबन्धः (२) विकृतिबन्धः (३) दक्षिणाबन्ध इति । एते त्रयः प्रश्चाद्वक्ष्यन्ते । अत उक्तं निमित्तनैमित्तिकेति । धर्मो निमित्तमाख्यायते । ऊर्ध्वगमनं नैमित्तिकम् । अधर्मो निमित्तम् । अधोगमनं नैमित्तिकम् । ज्ञानोद्वेगौ निमित्तम् । अपवर्गो नैमित्तिकः । अज्ञानोद्वेगौ निमित्तम् । बन्धो नैमित्तिकः । [इति] चत्वारि निमित्तानि चत्वारि नैमित्तिकानि उक्तानि ॥ ४४॥ कारिका ४५ किञ्च चत्वारि निमित्तानि चत्वारि नैमित्तिकानि सन्ति । [तान्य]धुना वक्ष्यति । ॥ वैराग्यात्प्रकृतिलयः संसारो राजसाद्भवति रागात् । ऐश्वर्यादविघातो विपर्ययात्तद्विपर्यासः ॥ ४५ ॥ ॥ छ्: वैराग्यात्प्रकृतिलयः राजसाद्रागात्संसारः । ऐश्वर्यादविघातः तद्विपर्ययाद्विघातोऽस्ति ॥ वैराग्यात्प्रकृतिलय इति । [यथा] कश्चिद्ब्राह्मणः प्रव्रजितो मार्गमधीयान एकादशेन्द्रियाणि निगृह्णाति । एकादशविषयान् दूरतः परिहरति । यमनियमादिदशधर्मान् संरक्षति । तदा उद्वेगं लभते । उद्वेगाद्वैराग्यम् । पञ्चविंशतितत्त्वज्ञानं तु नास्ति । तस्मान्नास्त्यपवर्गः । अयं म्रियमाणः केवलमष्टसु प्रकृतिषु लीयते । अष्ट प्रकृतयो यदुत प्रकृतेर्बुद्धिरहङ्कारः पञ्चतन्मात्राणि । अष्टसु प्रकृतिषु स्थितः अनवाप्तमोक्षो मुक्त इति मन्यते । पश्चात्संसरणकाले त्रिषु लोकेषु स्थूलशरीरं पुनरुत्पादत्ते । अत उक्तं वैराग्यात्प्रकृतिलय इति । अयमुच्यते प्रकृतिबन्ध इति । राजसाद्रागात्संसार इति । राजसो राग इति । यथा कश्चिन्मन्यते । अयं महादानमाचरामि, महायज्ञं देवकार्यं करोमि, सोमरसं पिबामि, परलोके सुखमनुभविष्यामि इति । अनेन राजसरागेण ब्रह्मस्थानादितिर्यग्जातिपर्यन्ते संसारे जन्मोपादत्ते । अयमुच्यते दक्षिणाबन्ध इति । ऐश्वर्यादविघात इति । ऐश्वर्यं सत्त्वजातीयमष्टाङ्गमणिमालघिमादि । अनेनैश्वर्येण ब्रह्मादिस्थानं यत्राष्टविधाविघातो भवति । इमनयष्टैश्वर्याणि बुद्ध्या संयोगाद् विकृतिबन्ध इत्युच्यन्ते । तद्विपर्ययाद्विघातोऽस्ति इति । यदैश्वर्यविपरीतं तदनैश्वर्यम् । अनैश्वर्येण सर्वत्र विघातः । अयं विघातोऽपि विकृतिबन्धः । अस्य तामसधर्मत्वात् । इत्यस्यामार्यायां चत्वारि निमित्तनैमित्तिकान्युक्तानि । वैराग्यं निमित्तम् । प्रकृतिलयो नैमित्तिकः । राजसरागो निमित्तम् । संसारो नैमित्तिकः । ऐश्वर्यं निमित्तम् । अविघातो नैमित्तिकः । अनैश्वर्यं निमित्तम् । विघातो नैमित्तिकः । एवमष्टनिमित्तानि अष्टनैमित्तिकानि इतीमे षोडशसर्गा उक्ताः ॥ ४५॥ कारिका ४६ पर आह । इमे षोडशनिमित्तनैमित्तकसर्गाः किमात्मकाः । आर्ययोत्तरमाह । ॥ एष प्रत्ययसर्गो विपर्ययाशक्तितुष्टिसिद्ध्याख्याः । गुणवैषम्यविमर्देन तस्य भेदास्तु पञ्चाशत् ॥ ४६ ॥ ॥ छ्: सर्गो बुद्धिनिमित्तात्मकः, विपर्ययाशक्तितुष्टिसिद्धयः । गुणवैषम्यविमर्शेन बुद्धिसर्गस्य पञ्चाशद्भेदाः ॥ सर्गो बुद्धिनिमित्तात्मक इति । सर्ग इति षोडशको वा अष्टविधानि नैमित्तिकानि वा । यदि षोडशविधः, [तदा] अष्ट निमित्तानि अष्ट नैमित्तिकानि च बुद्ध्यात्मकानि । अष्टविधानि वा [इति पक्षे] अष्ट नैमित्तिकानि सर्गाख्यानि । अष्ट निमित्तानि तदात्मकानि । अत उक्तं षोडशविधः सर्गो बुद्धिनिमित्तात्मक इति । यथा प्रागार्योक्ता । अध्यवसायो बुद्धिर्धर्मो ज्ञानं विराग ऐश्वर्यम् । सात्त्विकमेतद्रूपं तामसमस्त्माद्विपर्यस्तम् ॥ इति । विपर्ययाशक्तितुष्टिसिद्धय इति । ते षोडशसर्गभेदाश्चतुर्धा भिन्नाः । (१) विपर्यय (२) अशक्ति (३) तुष्टि (४) सिद्धय इति । यथा कश्चिद्ब्राह्मणश्चतुर्भिः शिष्यैः सह महतो राष्ट्रपालात् स्वधाम प्रतिनिववृते । पथि गच्छन् सूर्येऽनुदिते तच्छिष्यः कश्चित्तदावोचदाचार्यम् । आचार्य मार्गमध्ये यत्किञ्चित्वस्तु पश्यामि । न जाने अयं स्थाणुर्वा पुरुषो वा इति । [एवं] अस्य शिष्यस्य स्थाणौ संशयोऽजायत । आचार्यो द्वितीयं शिष्यमवोचत् । गत्वा विमृश्य विलोकय पुरुषो वा स्थाणुर्वा इति । अयमाचार्यवचनेन ततो दूरादेव व्यलोकयत् । न तत्समीपं गन्तुं समर्थोऽभूत् । तदा अवददाचार्यम् । आचार्य तत्समीपं गन्तुं न शक्नोमि इति । अस्य द्वितीयपुरुषस्याशक्तिः । अथावोचत्तृतीयं शिष्यम् । त्वं प्रकामं विलोकय निश्चिनुहि किमेतद् इति । विलोक्याचार्यमवोचत् । आचार्य किं प्रयोजनमेतद्व्यवलोकनेन । सूर्य उदिते महान् सार्थवाहः प्रादुर्भवेत् । अनुसरामः इति अस्य तृतीयपुरुषस्य स्थाणुपुरुषाविवेकेऽपि तुष्टिर्जाता । अथावोचच्चतुर्थं शिष्यम् । तं गत्वा विलोकय इति । अयं विशुद्धचक्षुरिन्द्रियत्वाद् वेत्ररज्जुवलयमपश्यत् । ऊर्ध्वञ्च शकुनिसमवायोऽसीत् । गत्वा तन्मूलं पस्पर्श । प्रतिनिवृत्त्याचार्यमब्रवीत् आचार्य अयं स्थाणुः [इति] । अयं चतुर्थः पुरुषो हि सिद्धिमलभत । तस्मात् षोडशसर्गभेदाश्चतुर्धा भिन्नाः । गुणवैषम्यविमर्शेनेति । गुणास्त्रिविधाः सत्त्वं रजस्तम इति । इमे त्रयोऽन्योन्यं विरुद्धः । सत्त्वमुत्कटञ्चेद् रजस्तमसी अभिभवति । यथा सूर्यतेजो नक्षत्रवह्न्यादिकमभिभवति । रजस्युत्कटेऽप्येवम् । यदि विमृश्यते त्रिगुणवैषम्यादि, [तदा] बुद्धिसर्गाः पञ्चाशद्भिन्नाः ॥ ४६॥ कारिका ४७ पञ्चाशद्भेदानिदानीं वक्ष्यति । ॥ पञ्च विपर्ययभेदा भवन्त्यशक्तिश्च करणवैकल्यात् । अष्टाविंशतिभेदा तुष्टिर्नवधाऽष्टधा सिद्धिः ॥ ४७ ॥ ॥ छ्: विपर्ययस्य पञ्च भेदा भवन्ति अशक्तेरष्टाविंशतिः । करणवैकल्यात् तुष्टेर्नव सिद्धेरष्टभेदाः ॥ विपर्ययस्य पञ्च भेदा भवन्तीति । विपर्ययः पूर्वमुक्तः । अधुना पञ्च भेदा उच्यन्ते । (१) तमः (२) मोहः (३) महामोहः (४) तामिस्रः (५) अन्धतामिस्र इति ॥ ४७॥ कारिका ४८ अधुनाशक्तिमनुक्त्वा पूर्वं पञ्चविपर्ययभेदान् प्रकाशयति । ॥ भेदस्तमसोऽष्टविधो मोहस्य च दशविधो महामोहः । तामिस्रोऽष्टादशधा तथा भवन्त्यन्धतामिस्रः ॥ ४८ ॥ ॥ छ्: उक्तास्तमसोऽष्टभेदा मोहस्याष्टौ महामोहस्य दश । तामिस्त्रस्याष्टादश अन्धतामिस्रस्यापि तथा ॥ उक्तास्तमसोऽष्टभेदा इति । यदि पुरुषोऽज्ञानेन विरक्तः प्रधानबुद्ध्यहङ्कारपञ्चतन्मात्राख्येषु अष्टसु प्रकृतिषु लीयते । अयं पुरुषोऽलब्धमोक्षो[ऽपि] लब्धमतिं करोति । अष्टविधबन्धादर्शित्वात् । अत उच्यते अष्टविधा दृष्टिस्तम इति । अविद्यायास्तम इति नामान्तरम् । मोहस्याष्टाविति । अष्टविधमैश्वर्यं प्रागुक्तम् । तत्रोत्पन्नरागबन्धा देवादयो मोक्षं न लभन्ते । ऐश्वर्यासङ्गेन संसारे संसरणाद् उक्तो मोहस्याष्टविधभेदः । अष्टावाद्याः प्रकृतिबन्ध इत्याख्यायन्ते । अष्टावन्तिमा विकृतिबन्ध इत्याख्यायन्ते । महामोहस्य दशेति । पञ्चतन्मात्राणि सत्त्वलक्षणानि देवानां विषयाः । इमे पञ्च विषयाः पञ्चमहाभूतैः संयुक्ताः त्रिगुणलक्षणा [भवन्ति] । एषु दशविषयेषु ब्रह्ममनुष्यतिर्यगादय एतान् विहाय बहिरन्यो विशिष्टविषयो नास्ति इत्युत्पन्नरागबन्धाः । तदासङ्गेन सामान्यतो ज्ञानमोक्षधर्मरहिता विषयसक्ता न मोक्षं प्रार्थयन्ते । अतो महामोह इति नाम । तामिस्रस्याष्टादशेति । अष्टविधैश्वर्ये दशविधविषये न निवर्तमाने दरिद्र इमां चिन्तां करोति । दरिद्रोऽस्मि, ऐश्वर्यं विषयाः सर्वेऽपि क्षीणा इति । इमां वृत्तिं संकल्पयतोऽष्टादशदुःखान्युद्भवन्ति । इमानि दुःखानि तामिस्र इत्याख्यायन्ते । अन्धतामिस्रस्यापि अष्टादशेति । यथा प्रागुक्तमष्टविधमैश्वर्यं दशविधो विषय इति । एभिरष्टादशभिः सम्पन्नो मनुष्यो मरणसमय एवं चिन्तां करोति । अहमष्टविधमैश्वर्यं दशविषयांश्च त्यजामि । नरकपाला मां बध्वा यमराजभवनं नयेयुरिति । अनया चिन्तया संजातदुःखः, न च साङ्ख्यमतं श्रोतुं समर्थः । अतोऽन्धतामिस्र इत्याख्या [दुःखस्यास्य] । एवं तम [आदि] पञ्चभेदानां द्विषष्टिभेदा भवन्ति ॥ ४८॥ कारिका ४९ अधुनाशक्तिभेदानाह । ॥ एकादशेन्द्रियवधा सह बुद्धिवधैरशक्तिरुद्दिष्टा । सप्तदश वधा बुद्धेर्विपर्ययात्तुष्टिसिद्धीनाम् ॥ ४९ ॥ ॥ छ्: एकादशेन्द्रियवधा बुद्धिवधा अशक्तिराख्याता । बुद्धिवधाः सप्तदश तुष्टिसिद्धिविपर्ययात् ॥ एकादशेन्द्रियवधा इति । बधिरत्वान्धत्वाजिघ्रत्वजिह्वादुष्टत्वकुष्ठत्वोन्मादमूकत्ववक्रत्वपङ्गुत्ववन्ध्यत्वोदावर्ताः । एते एकादशेन्द्रियवधाः । कथमशक्तिरित्युच्यते । श्रवणासामर्थ्याद् यावन्मोक्षं लब्धुमक्षमः । यथा बधिरः पुरुषः- अन्यैकव्याधिनापि योज्यताम्- कल्याणमित्रं वदति । अहं दुःखितः किं करवाणि इति । कल्याणमित्र आह । साङ्ख्यज्ञानं परिगृहीष्व, दुःखक्षयं दुःखपारञ्च गत्वा मोक्षं प्राप्स्यसि इति । [स] प्रतिवदति । नाहं साङ्ख्यज्ञानं स्वीकर्तुमलम् । गुरुवचनं न शृणोमि इति । अश्रुत्वा [गुरु]वचनं कुतो ज्ञानमुत्पद्येत । यथा बधिरः तथा अन्धादयोऽपीन्द्रियवधान्न ज्ञानमधिगन्तुं समर्थाः । न च मोक्षमाप्तुमलम् । बुद्धिवधा अशक्तिराख्याता । बुद्धिवधाः सप्तदशेति । पश्चाद्वक्ष्यते । सुवर्णसप्ततिशास्त्रे मध्यमखण्डः । कारिका ५० अथ सुवर्णसप्ततिशास्त्रेऽन्तिमखण्डः । तुष्टिसिद्धिविपर्ययादिति । नवविधतुष्टीनामष्टविधसिद्धीनां विपर्ययः । एतत्सप्तदशानां विपर्ययो बुद्धिवध इत्याख्यायते । एकादशेन्द्रियवधाः सप्तदशबुद्धिवधाश्चेतीमेऽष्टाविंशति[रशक्तिभेदाः] ॥ ४९॥ नव तुष्टिभेदाः कथम् । आर्यया विवृण्वन्नाह । ॥ आध्यात्मिक्यश्चतस्रः प्रकृत्युपादानकालभाग्याख्याः । बाह्या विषयोपरमात्पञ्च नव च तुष्टयोऽभिहिताः ॥ ५० ॥ ॥ छ्: आध्यात्मिक्यश्चतस्रस्तुष्टयः प्रकृत्युपादानकालभाग्यानि । बाह्यास्तुष्टयः पञ्च विषयोपरमादाहत्य नव ॥ आध्यात्मिक्यश्चतस्रस्चतुष्टयः प्रकृत्युपादानकालभाग्यानीति । आध्यात्मिक्य इति [याः] बुद्ध्यहङ्कारमनांस्यधिकृत्य चतस्त्रस्तुष्टयः प्रवर्तन्ते । (१) प्रकृत्या तुष्टिः (२) उपादानान्वेषणया तुष्टिः (३) कालेन तुष्टिः (४) भाग्यलाभेन तुष्टिश्चेति । चतसृणां तुष्टीनां प्रदर्शनाय एवं दृष्टान्तः क्रियते । यथा ब्राह्मणा गृहं त्यक्त्वा प्रव्रजिताः । [तत्रैकं] कश्चित्पुरुषः पृच्छति । किं बुद्ध्वा प्रव्रजितोऽसि इति । अयं प्रतिवदति । जानाम्येषां त्रयाणां लोकाणां प्रधानं तथ्यं कारणम् । अतः प्रव्रजितोऽस्मि इति । स ब्राह्मणः केवलं जानाति प्रधानं कारणमिति । न जानाति नित्यमनित्यं वा सचेतनमचेतनं वा सगुणं निर्गुणं वा व्याप्यव्यापि वा इति । किन्तु जानाति अस्तीति कारणञ्चेति । अतस्तुष्टिर्जायते । स न भवति मुक्तः । इयं तुष्टिः प्रकृत्या जाता । अथ द्वितीयं ब्राह्मणं पृच्छति । किं ज्ञात्वा प्रव्रजितोऽसीति । स प्रतिवदति । अहं विजानामि प्रधानं लोककारणमिति । मोक्षकारणमुपादानमिति च ज्ञातवानस्मि । प्रधानं तथ्यं कारणमिति [ज्ञाने] सत्यपि यद्युपादानं नास्ति । मोक्षो न सिध्यति । तस्मादुपादानं स्वीकरोमि । उपादानं सर्वप्रव्रजितानुष्ठानपद्ध्यत्यनुकरणम् । [तच्च] उपकरणं चतुर्विधम् । त्रिदण्डकुण्डिकाकषायमङ्गलानि । (१) भस्मकोशिका (२) रुद्राक्षमणिः (३) त्रितन्तुवेष्टितकायत्वं (४) मन्त्रपठनं (५) जटाग्रे कुशवल्लीस्थापनमिति । एतानि पञ्च शिक्षापचर्योपकरणानि अशुद्धिमपनयन्तीति मङ्गलमित्युच्यन्ते । प्राक् सिद्धैः त्रिभिः सहाष्टोपकरणानि । एभ्यो मोक्षं लप्स्ये इत्यनेन प्रव्रजितोऽहमिति । तस्माद्वितीया तुष्टिरुपादानाख्या । अनया तुष्ट्या न मोक्षं लभते । केवलं जानाति प्रधानं कारणमिति । नाधिकम् । अथ तृतीयं ब्राह्मणं पृच्छति । किं ज्ञात्वा प्रव्रजितोऽसीति । स प्रत्याह । प्रधानं चत्वार्युपादानानि किं कर्तुं समर्थानि । जानामि उपादानं विनापि [कालेन] मोक्षं लप्स्ये इति प्रव्रज्यामिच्छामि । इति । अयं तृतीयो न मुक्तो भवति । कस्मात् । पञ्चविंशतिपदार्थाज्ञानात् । इयं तृतीया तुष्टिः कालतुष्ट्याख्या । अथ पृच्छति चतुर्थं ब्राह्मणम् । किं ज्ञात्वा प्रव्रजितोऽसीति । स प्रत्याह । प्रधानमुपादानं कालो वा किं कर्तुं समर्थः । यदि भाग्यलाभहीनः । अहं ज्ञातवान् भाग्यलाभात् मोक्षं लप्स्य इति । अतः प्रव्रजितोऽस्मि । इति । अयं चतुर्थोऽपि न मुच्यते । ज्ञानाभावात् । इयं चतुर्थी तुष्टिर्भाग्यलाभतुष्ट्याख्या । एताश्चतस्रस्तुष्टयो नैमित्तिकाः सिद्धाः । बाह्यास्तुष्टयः पञ्चविषयोपरमादाहत्य नवेति । बाह्यास्तुष्टयः पञ्चविधा भवन्ति । पञ्चविषयाणां दूरत उपरमात् [अर्जनरक्षणक्षयातृप्तिहिंसादोषान् दृष्ट्वा] । यथा एकः पुरुषः पञ्च ब्राह्मणपरिव्राजकान् दृष्ट्वा क्रमोणोपगम्य पृच्छति । आदौ प्रथमं ब्राह्मणं पृच्छति । किं ज्ञात्वा प्रव्रजितोऽसीति । स प्रत्याह । लोके पञ्च विषयाः सन्ति । तद्विषर्यार्जनार्थं वृत्तयः- यदि वा कृषिः यदि वा पाशुपाल्यं यदि वा राजसेवा यदि वा वाणिज्यम्- सर्वा[स्ता] दुष्कराः । ताश्चतस्रो वृत्तीर्विहाय यदि वा चौर्यं क्रियताम् । इयं [अपि] विषयार्जनवृत्तिर्नियमेन दुष्करा । स्वपरपीडनात् । एता वृत्ती[र्दुष्करा] दृष्ट्वा प्रव्रज्यामिच्छामि । अयं पञ्चमो ब्राह्मणो न मुक्तो भवति । अतत्त्वज्ञत्वात् । अथ द्वितीयं ब्राह्मणं पृच्छति । किं ज्ञात्वा प्रव्रजितोऽसीति । स प्रत्याह । अहं जानामि पञ्चविषया अन्वेषणेन लभ्यन्ते पूर्ववत्कृष्याद्युपायैः । विषयान् लब्ध्वा रक्षणं दुष्करम् । कस्मात् । पञ्चगृहचर्यामिथो विरुद्धाः । विषयरक्षणेनात्मा परश्चोपहन्यते । रक्षणदुःखदर्शित्वात् विषयोपरतः प्रव्रजितोऽहमिति । अस्य षष्ठस्यापि न मोक्षोऽस्ति । अतत्त्वज्ञत्वात् । अथ तृतीयं पृच्छति । किं ज्ञात्वा प्रव्रजितोऽसीति । स प्रत्याह । अहमलब्धमन्वेष्टुमार्जयितुञ्च क्षमः । आर्जयित्वा रक्षामि अक्षयाय । इमे पञ्च विषयाः स्वोपभोगात् स्वभावतः क्षीयन्ते । क्षयकाले महद्दुःहमुत्पद्यते । एषां क्षीणविषयाणामवद्यदर्शित्वात्प्रव्रज्यामिच्छामि । इति । अयमपि न मोक्षं लभते । अतत्त्वज्ञत्वात् । अथ चतुर्थं पृच्छति । किं ज्ञात्वा प्रव्रजितोऽसीति । स प्रत्याह । अहमलब्धमन्वेष्टुं शक्त आर्जयामि । अर्जयित्वा च रक्षामि । क्षीणेऽपि पुनरार्जयामि । तथा चेत् कृतः प्रव्रजितः । पञ्चेन्द्रियाणि न तृप्तानि । उत्तरोत्तरमुत्कृष्टान्वेषित्वात् । एषामिन्द्रियाणां दोषं पश्यामि । अतः प्रव्रज्यामिच्छामि । इति । अस्याष्टमस्यापि न मोक्षोऽस्ति । अतत्त्वज्ञत्वात् । अथ पञ्चमं पृच्छति । किं ज्ञात्वा प्रव्रजितोऽसीति । स प्रत्याह । अहमलब्धलाभायान्वेष्टुं क्षमः लब्ध्वा रक्षाम्यक्षयाय । उपभुज्य पुनरार्जयितुञ्च क्षमः । यद्युत्कृष्टमिच्छामि । अहं [त]दपि लब्धुं क्षमः । तथा चेत्कुतः प्रव्रजितः । विषया[र्जन]वृत्तिचतुष्टयेनान्यो हिंस्यते । यदि हिंसको न [भवामि] इयं वृत्तिर्न सिद्ध्यति । कृषिकृत्चेत् वृक्षान् छिन्द्याम् । योद्धा चेत्, तदा जनान् हन्याम् । यदि वान्यधनापहर्ता । तदान्यान् वध्याम् । यदि वा [वणिक्] स्ववाचा मिथ्या ब्रूयाम् । इति सर्वे दोषा लोके विषयेण सहोद्यन्ति । अहमेतद्दोषं ज्ञात्वा प्रव्रज्यामिच्छामि । अस्य नवमस्यापि न भवति मोक्षः । बाह्य[विषयो]द्वेगात्तत्त्वज्ञानानभ्यासात् । अत उच्यते प्रथममाध्यात्मिक्यश्चतस्रः ततः पञ्च बाह्या इत्याहत्य नव तुष्टय इति । आसां नवानां तुष्टीनां महर्षिणा नव नामानि स्थापितानि । विषयमलशोधकत्वात् नव तुष्टयः सलिलाख्यया उच्यन्ते । (१) अम्भः (२) सलिलम् (३) ओघः (४) वृष्टिः (५) तारम् (६) सुतारम् (७) सुनेत्रम् (८) सुमरीचम् (९) उत्तमाम्भसिकमिति । एतन्ननवतुष्टिविपरीता नवाशक्तय आख्यायन्ते यत् अनम्भः यावदनुत्तमाम्भसिकमिति ॥ ५०॥ कारिका ५१ पर आह । इमे त्रयो धर्माः सिद्ध्या सह विरुद्धाः । को धर्मः सिद्धिरित्याख्यायते । आर्ययोत्तरमाह । ॥ ऊहः शब्दोऽध्ययनं दुःखविघातत्रयं सुहृत्प्राप्तिः । दानञ्च सिद्धयोऽष्टौ सिद्धेः पूर्वोऽङ्कुशस्त्रिविधः ॥ ५१ ॥ ॥ छ्: ऊहः श्रवणमध्ययनं दुःखविघातत्रयं सुहृत्प्राप्तिः । दाननिमित्तं सिद्धयोऽष्टौ पूर्वे त्रयः सिद्धेरङ्कुशाः ॥ ऊहः श्रवणमध्ययनं ॥॥ दाननिमित्तं सिद्धयोष्टाविति । आभिरष्टविधशक्तिभिः षड्गतयः सिद्ध्यन्ति । यथा कश्चिद्ब्राह्मणः प्रव्रजितः मार्गमधीयान इमां चिन्तां करोति । का वृत्तिरुत्तमा । किं वस्तु सत्यम् । किमत्यन्तं पार्यन्तिकम् । किं कृत्वा ज्ञानं भवति । प्रकाशिनीं सिद्धिञ्च लभते । इत्येवं कृतोहः ज्ञानं लभते । प्रधानं भिन्नं बुद्धिर्भिन्ना, अहङ्कारो भिन्नः, पञ्चतन्मात्राणि भिन्नानि, एकादशेन्द्रियाणि भिन्नानि, पञ्चमहाभूतानि भिन्नानि, परमात्मा भिन्न [इति] । (१) पञ्चमहाभूतेषु दोषमवलोकयति । दोषं दृष्ट्वा उद्वेग उत्पद्यते । तदा पञ्चमहाभूतानि त्यजति । [इद]मूहपदमाख्यायते । (२) एकादशेन्द्रियेषु दोषमवलोकयति । दोषं दृष्ट्वा उद्वेग उत्पद्यते । तदैकादशेन्द्रियाणि त्यजति । इदं धृतिपदमित्याख्यायते । (३) एतज्ज्ञानविनियोगेन पञ्चतन्मात्रेषु दोषमवलोकयति । दोषं दृष्ट्वा उद्वेग उत्पद्यते । तदा तन्मात्राणि त्यजति । [इद]मुपगतसमपदमित्याख्यायते । (४) अहङ्कारेऽष्टैश्वर्येषु च दोषमवलोकयति । दोषं दृष्ट्वा उद्वेग उत्पद्यते । तदा अहङ्कारादींस्त्यजति । [इदं] प्राप्तिपदमित्याख्यायते । (५) बुद्धौ दोषमवलोकयति । दोषं दृष्ट्वा उद्वेग उत्पद्यते । बुद्धित्यागं लभते । [इदं] निवृत्तिपदमित्याख्यायते । (६) प्रधाने दोषमवलोकयति । दोषं दृष्ट्वा उद्वेग उत्पद्यते । तदा प्रधानं त्यजति । एतत्कैवल्यपदमित्युच्यते । स ब्राह्मणोऽनेनोहेन मोक्षं लभते । इयं सिद्धिरूहेन लब्दत्वादूहसिद्धिरित्याख्यायते । ऊहसिद्धिरुक्ता । अथ श्रवणसिद्धिः कथ्यते । यथा कश्चिद्ब्राह्मणः शब्दमधीयानमन्यं शृणोति । यत्प्रधानं भिन्नं बुद्धिर्भिन्ना यावत्परमात्मा भिन्न इति । इममध्ययनशब्दं शृण्वन् पञ्चविंशतिपदार्थान् बुद्धवान् । तदा ऊहपदं प्रविष्टः पञ्चभूतानि त्यजति । धृतिपदं प्रविष्ट एकादशेन्द्रियाणि त्यजति । उपगतसमपदं प्रविष्टः पञ्च तन्मात्राणि त्यजति । प्राप्तिपदं प्रविष्टः अहङ्कारादींस्त्यजति । निवृत्तिपदं प्रविष्टो बुद्धिं त्यजति । कैवल्यपदं प्रविष्टः प्रधानं त्यजति । अयं मोक्ष इत्याख्यायते । श्रवणसिद्धिरुक्ता । अथाध्ययनसिद्धिः । अष्ट बुद्ध्यङ्गानि सिद्धिप्रापकाणि सन्ति । यथा कश्चिद्ब्राह्मणो गुरुकुलं गच्छति । (१) प्रीत्या शुश्रूषते । (२) सश्रद्धं तत्त्वं शृणोति । (३) गृह्णाति । (४) स्मृत्वा धारयति । (५) पदार्थान् जानाति । (६) ऊहते । (७) अपोहति । (८) यथाभूतमभिनिविशते । इमान्यष्ट बुद्ध्यङ्गानीत्युच्यन्ते । एभिर्बुद्ध्यङ्गैः पञ्चविंशतितत्त्वान्युपलभते । षड्गतीः प्रविश्य मोक्षं लभते । [अथ] दुःखविघातत्रयसिद्धिः । (१) आभ्यन्तरदुःखविघातः । यथा कश्चिद्ब्राह्मण आभ्यन्तरदुःखेन शिरोव्याध्यादिनाभिहतो वैद्यं गत्वा लब्धव्याध्युपशमो [भवति] । अनेनाभ्यन्तरदुःखेन जिज्ञासा उदेति । एतद्दुःखनिमित्तनिरोधज्ञानान्वेषणार्थं सिद्धगुरुकुलं व्रजति । अष्टसु बुद्ध्यङ्गेषु प्रवर्तते । पञ्चविंशतितत्त्वान्युपलभते । षड्गत्यवलोकनप्रवेशान्मोक्षं लभते । इयं सिद्धिराभ्यन्तरदुःखेन भवति । यथा शारीरं दुःखम् । तथा मानसं दुःखमपि । (२) बाह्यदुःखविघातः । यथा कश्चिद्ब्राह्मणो बाह्यदुःखेनाभिहतो भवति । यदुत मर्त्यपशुपक्षिणां वृक्षशिलादिपर्यन्तानामभिघातदुःखम् । [तत्] क्षन्तुमशक्नुवन् दुःखनिमित्तनिरोधजिज्ञासायां प्रवर्तते । गुरुकुलं गच्छति । अष्टबुद्ध्यङ्गान्यभ्यस्यति । पञ्चविंशतितत्त्वान्युपलभते । षड्गत्यवलोकनप्रवेशान्मोक्षमाप्नोति । इयं सिद्धिर्बाह्यदुःखेन लभ्यते । (३) आधिदैविकदुःख[विघातः] । यथा कश्चिद्ब्राह्मण आधिदैविकेन दुःखेन शीतातपवर्षादिनाभिहतो भवति । तत्सोढुमशक्नुवन् गुरुं व्रजति । अष्टबुद्ध्यङ्गानि प्रार्थयते । पञ्चविंशतितत्त्वान्युपलभते । षड्गत्यवलोकनानि प्रविशति । अतो मोक्षं लभते । (७) सुहृत्प्राप्तिरिति । अष्टभिर्बुद्ध्यङ्गैरप्राप्तं ज्ञानं केवलं कल्याणमित्रात्प्राप्नोति । प्राप्ते पार्यन्तिके ज्ञाने मोक्षं लभते । (८) दाननिमित्तसिद्धिः । यथा कश्चिद्ब्राह्मणो जनद्विष्टो जानात्यन्यं द्विषन्तम् । तस्मात्प्रव्रजति । प्रव्रजितमाचार्यः सतीर्थ्या अपि द्विषन्ति । न ज्ञानं ददति । स्वयं ज्ञात्वा [स्वा]ल्पभाग्यतां ग्रामान्तं गच्छति वस्तुम् । स्वयञ्च वदति अयं प्रदेशो ब्राह्मणरहितः । [अत्र] वर्षावासं वसामीति । गत्वोषितो बहु लभते भिक्षाम् । स शिष्टं सुहृद्भ्यो बन्धुभ्यो गोपालाङ्गनापर्यन्तेभ्यः प्रत्यर्पयति । अस्मिन् ग्रामे सर्वेऽपि जना स्निग्धा भवन्ति । वर्षावासं परिसमीप्सोर्जनाः सर्वेऽपि त्रिदण्डममत्रं वस्त्राण्यन्यानि च ददति । [ततः] शक्रोत्सवः संनिहितः । तदा जनान् ददति । को मया सह एनमुत्सवं द्रष्टुं मम महाजनपदमागमिष्यति । यदि जिगमिषथ, [यूयं] सर्वे जना मह्यं यत्किञ्चिद्दत्वा गच्छत इति । तत्र गत्वा गुरुकुलं प्रयाति । उत्कृष्टं वस्तु समृद्धृत्याचार्यं सत्करोति । अवशिष्टानि क्रमेण सहाध्यायिभ्यः संविभजति । आचार्यः सुहृज्जनाः सर्वेऽपि स्निग्धा भवन्ति । तदा गुरुर्ज्ञानं ददाति । अनेन ज्ञानेन पार्यन्तिकं ज्ञानं प्राप्नोति । तदा मोक्षं च लभते । इयं ज्ञानलब्धा सिद्धिः । आसामष्टसिद्धीनां प्राचीनैर्महर्षिभिर्नामान्तराणि स्थापितानि । (१) स्वतारसिद्धिः (२) सुतारसिद्धिः (३) तारतारसिद्धिः (४) प्रमोदतारसिद्धिः (५) प्रमुदिततारसिद्धिः (६) मोहनतारसिद्धिः (७) रम्यकतारसिद्धिः (८) सदाप्रमुदिततारसिद्धिः इति । आसामष्टासिद्धिनां विपरीताश्चेत्, तदाशक्तय आख्यायन्ते यदुत अताराशक्तिः यावदसदाप्रमुदिताशक्तिः । एवमेकादशेन्द्रियपातादिशक्तयः सप्तदशबुद्धिवधादशक्तयश्च अष्टाविंशतिरशक्तयो भवन्ति । इमे विपर्ययाशक्तितुष्टिसिद्धिभेदाः पञ्चाशत्पदार्था उक्ताः । पूर्वे त्रयः सिद्धेरङ्कुशा इति । यथा मत्तो गजोऽङ्कुशनियन्त्रितो न यथेच्छस्वातन्त्रमाप्नोति । एवं पञ्चविपर्ययैरष्टाविंशत्यशक्तिभिर्नवतुष्टिभिर्नियन्त्रितो लोको न तत्त्वज्ञानमधिगच्छति । यदि तत्त्वज्ञानं जहाति तदाष्ट सिद्धयो न भवन्ति । अत उक्तं पूर्वे त्रयः सिद्धेरङ्कुशा इति । अतः विपर्ययाशक्तितुष्टीस्त्यक्ता अष्टविधसिद्धीर्यन्तेनाभ्यस्येत् ॥ ५१॥ कारिका ५२ पर आह भावैरधिवासितं लिङ्गम् । अतः संसरति संसारे इति पूर्वमुक्तम् । लिङ्गं द्विविधम् । (१) सूक्ष्मं लिङ्गम्, आदावुत्पन्नम् । (२) मातापितृजं शरीरमेकादशेन्द्रियाणि च । उभयं संयुक्तमष्टभिर्भावैरधिवासितम्, अतः संसरति संसारे । अत्र संशयं किं पूर्वमुत्पद्यते । किं लिङ्गं पूर्वम्, किं वा भावाः पूर्वमिति । आर्ययोत्तरमाह । ॥ न विना भावैर्लिङ्गं न विना लिङ्गेन भावनिर्वृत्तिः । लिङ्गाख्यो भावाख्यस्तस्माद्भवति द्विधा सर्गः ॥ ५२ ॥ ॥ छ्: विना भावैर्न विभक्तं लिङ्गं विना सूक्ष्मलिङ्गेन न भावाः । लिङ्गाख्यो भावाख्यस्तस्मात्सर्गो द्विविधः ॥ विना भावैर्न विभक्तं लिङ्गमिति । यदि भावा न सन्ति । लिङ्गं न सिद्ध्येत् । यथौष्ण्यं विना नाग्निः सिद्ध्यति । विना सूक्ष्मलिङ्गेन न भावा इति । भावा लिङ्गविरहिताश्चेत्, न सिद्ध्यन्ति । यथाग्निं विना औष्ण्यं न सिद्ध्यति । इमावुभौ धर्मौ परस्परापेक्षौ अनलौष्ण्यवत् । तौ च धर्मौ युगपदुद्भवतः यथा गोः शृङ्गद्वयम् । लिङ्गाख्यो भावाख्यस्तस्मात्सर्गो द्विविध इति । प्रकृतिविकारस्य द्वे आख्ये स्तः । (१) लिङ्गाख्यः सर्गः (२) भावाख्यः सर्ग इति । संसारस्य सर्गादावेव द्वैविध्यं सम्पन्नम् ॥ पर आह । अस्य सरस्य किं द्वैविध्यमेवास्ति किं वा पुनरस्त्यन्याख्यः [सर्ग] इति । समाधीयते ॥ प्राचीनमहर्षिभिर्नामान्तराणि स्थापितानि । (१) स्वतारमिति । अयं पुरुषोऽतिमात्रं स्वोहतीक्ष्णः केवलं प्रज्ञां लब्ध्वा मोक्षं साधयति । न परोपदेशेन । अतो वदन्ति स्वतारसिद्धिरिति । स्वोहमात्रेण लब्ध्वा न परेण इति स्वतारम् । सैव प्रज्ञा । प्रज्ञा हि ऐहिकान्मोचयित्वा आमुष्मिकं प्रापयति । अतः पराक्रान्तकाल इति व्यपदिशन्ति । तदा हि मोक्षो नाम । मोक्ष एव सिद्धिरित्याख्यायते । हेतुस्तारमुच्यते । फलं सिद्धिरुच्यते । इमां तारसिद्धिं स्वोहेन लब्धत्वात् स्वतारसिद्धिरिति वदन्ति । पश्चात्सप्त तारसिद्धय अभिन्ना नामान्तरमात्रेण विषमाः । (२) सुतारसिद्धिरिति । आत्मना परेण [च] लब्धप्रज्ञो मोक्षं साधयति । अयं पुरुषः समृद्धेन्द्रियः किञ्चिदवरः परोपदेशेन [लब्ध]बहुस्वार्थो मोक्षमाप्तुं शक्नोति । अतः सुतारसिद्धिरिति व्यपदिशन्ति । (३) तारतारसिद्धिरिति । एकान्ततः परोपदेशेन लब्धत्वात्तारेति । [अयं] समृद्धेन्द्रियः ततोऽपि अवरः । (४) प्रमोदतारसिद्धिरिति । अयं पुरुष आभ्यन्तरदुःखेन शिरोव्याध्यादिनाभिहतो गुरुं व्रजति । चिकित्सां प्रार्थयते । तात्कालिकीमाभ्यन्तरदुःखनिवृत्तिं लभते । इयमेकविधप्रमोदाय भवति । [अथ] चिन्तयति । इदं निवृत्तिमात्रं, नात्यन्तिकनिवृत्तिरिति । यदा कैवल्यं, तदा तु आत्यन्तिकनिवृत्तिरिति ज्ञानात् सांख्याचार्यं व्रजति । प्रज्ञां शिक्षते । मोक्षसिद्धिं प्रार्थयते । परमं प्रमोदमाप्नोति । अस्मादुभयविधप्रमोद[लाभा]त् प्रमोदतारसिद्धिरित्याख्या भवति । (५) प्रमुदिततारसिद्धिरिति । अयं पुरुष आभ्यन्तरबाह्योभयविधदुःखाभिहतः [चिकित्सा]चार्यं गत्वा दुःखद्वयस्य चिकित्सां प्रार्थयते । यतो दुःखद्वयस्य तात्कालिकी शान्तिः तदैवोभयविधप्रमोदो भवति । नेयमात्यन्तिकी निवृत्तिरिति ज्ञात्वा तारसिद्धिं शिक्षितुमाचार्यं प्रार्थयते । [सिद्धि]लाभात्प्रमोदः प्रमुदिताख्यामुपादत्ते । (६) मोहन[तारसिद्धि]रिति । अयं पुरुषः (१) आभ्यन्तरदुःखं शिरोव्याध्यादि । (२) बाह्यदुःखमसिगदादि (३) दैवदुःखं वातवर्षशीतातपादि । एतत्सर्वदुःखत्रयाभिभूतः आचार्यं गत्वा चिकित्सां प्रार्थयते । तच्चिकित्सा यतो विशिष्यते । [ततो] मोहनमिति व्यपदिश्यते । [इयं] नात्यन्तिकनिवृत्तिरिति ज्ञात्वा आचार्यमुपगम्य शिक्षाभ्यासात्तारसिद्धिं लभते । अस्मान्मोहनतारसिद्धिरित्याख्या भवति । (७) रम्यकतारसिद्धिरिति । [अयं पुरुष] आचार्यानुकम्पाप्रीतिभ्यां तां तारसिद्धिं शिक्षते । आचार्यात्तामाख्यामुपादत्ते । (८) सदाप्रमुदितसिद्धिरिति । अयं पुरुषः सर्वद्विष्टो धनवस्त्रदानं प्रतिगृह्णाति । [तानि] दत्वा सर्वेषां स्निग्धो भवति । सर्वेऽपि तस्य सिद्धिं कर्तुमभिलषन्ति । अतः सदाप्रमुदिततारसिद्धिरिति वदन्ति ॥ इन्द्रियवधादशक्तय एकादश बुद्धिवशादशक्तयः सप्तदश चाहत्याशक्तयोऽष्टाविंशतिः । पञ्चविपर्ययैर्नवतुष्टिभिरष्टसिद्धिभिः सह पञ्चाशदन्तत उक्ता इति सिद्धम् ॥ पूर्वे त्रयः सिद्धेरङ्कुशा इति पञ्चविपर्यया अष्टाविंशत्यशक्तयो नवतुष्टयश्च । इमे [पूर्वे] अन्तिमाष्टसिद्धिगजस्याङ्कुशाः । अष्टविधाः [सिद्धयः] मोक्षं साधयितुमर्हन्ति । त्रिविधा[ङ्कुशेन] तु न शक्नुवन्ति । यथा मत्तगजः स्वातन्त्रार्होऽङ्कुशेन न यथेच्छं स्वातन्त्र्यं प्रयाति । तथाष्टसिद्धयोऽपि । अवश्यं तत्त्वज्ञानेनाष्टसिद्धयो लभ्यन्ते । त्रिविधाङ्कुशेन तत्त्वज्ञानं न लभ्यते । अतोऽवश्यं पूर्वं त्रिविधं त्यक्त्वा अन्तिमाष्टसिद्धीर्यत्नेनाभ्यसेत् । पर आह । अथ प्रथमं पूर्वपदार्थं पश्चात् पौर्वापर्यं पृच्छामि । भावैरधिवासितं लिङ्गम्, अतः संसरति संसारे इति पुरस्तादुक्तम् । भावा अष्टावेव यदुत चत्वारो धर्माश्चत्वारोऽधर्माः । चत्वारो धर्मा (१) धर्मः (२) ज्ञानम् (३) विरागः (४) ऐश्वर्यञ्चेति । एषां चतुर्णां धर्माणां विपरीता एव चत्वारोऽधर्माः । [इमे]ऽष्टौ भावा इत्याख्यायन्ते । पूर्वैश्चतुर्भिः धर्मैरधिवासितं देवगतिं प्राप्नोति । अन्तिमैश्चतुर्भिरधर्मैरधिवासितं मर्त्यपशुगतिद्वयं प्राप्नोति । अधिवासितं लिङ्ग[मित्यत्र] लिङ्गं द्विविधम् । प्रधानबुद्ध्यहङ्कारपञ्चतन्मात्राणि सूक्ष्मलिङ्गमित्याख्यायन्ते । पञ्चतन्मात्रेभ्य उत्पन्नमेकादशेन्द्रियसंयुक्तं सत् उद्धितं स्थूललिङ्गमित्याख्यायते । एषामष्टविधभावानामधिवासितलिङ्गद्वयस्य च किं पूर्वमुत्पद्यते । किमष्टभावाः किं पूर्वं किं वा लिङ्गद्वयं पूर्वमिति । समाधीयते । [अत्र] द्वे व्याख्याने स्तः । अष्टभावानां लिङ्गस्य च नास्ति पूर्वापरभावः । अवश्यं संयुक्तानि युगपदुत्पद्यन्ते । यथाग्नौष्ण्ये न वियोगं लभेते । यथा वा गोः शृङ्गे द्वेऽवश्यं युगपत्प्रादुर्भवतः । तथाऽष्ट भावा लिङ्गञ्च । यदा प्रधानबुद्ध्यहङ्कारपञ्चतन्मात्र[रूप]सूक्ष्मलिङ्गमस्ति । तदावश्यमष्टसु भावेषु चतुर्विधाः सन्ति । यदि न सन्ति चत्वारो धर्माः तदा चत्वारो[ऽधर्माः] सन्ति । इति धर्माधर्माः [सूक्ष्मलिङ्गात्] नियमेन न वियोगं लभन्ते । तथा मातापितृजातं स्थूलशरीरमपि । एवं लिङ्गशरीरमपि अष्टभावेन नियमेन न वियोगं लभते ॥ कारिका ५३ अस्ति भौतिकाख्यस्तृतीयः सर्गः । यथाहार्या । ॥ अष्टविकल्पो दैवस्तैर्यग्योनश्च पञ्चधा भवति । मानुष्यकश्चैकविधः समासतो भौतिकः सर्गः ॥ ५३ ॥ ॥ छ्: दैवगतिरष्टविकल्पा तैर्यग्गतिः पञ्चविकल्पा । मानुष्यकगतिरेकसर्ग एव [इति] समासतो भौतिकः सर्ग उच्यते ॥ दैवगतिरष्टविकल्पेति । (१) ब्राह्मः सर्गः (२) प्राजापत्यः सर्ग (३) ऐन्द्रः सर्गः (४) गान्धर्वः सर्गः (५) आसुरः सर्गः (६) याक्षः सर्गः (७) राक्षसः सर्गः (८) पैशाचः सर्गः इति । तैर्यग्गतिः पञ्चविकल्पेति । (१) चातुष्पादः सर्गः (२) पातगः सर्गः (३) औरगः सर्गः (४) तैर्यञ्चः सर्गः (५) स्थावरः सर्ग इति । मानुष्यकगतिरेकसर्ग एवेति । मनुष्यगतेरेकजातिमात्रत्वात् । भौतिकस्त्रिविध उक्तो यदुत देवतिर्यङ्मनुष्यत्रयलिङ्गभावास्त्रय इति ॥ ५३॥ कारिका ५४ पर आह । त्रिषु लोकेषु कुत्र किमुत्कटमुपलभ्यते । आर्ययोत्तरमाह । ॥ ऊर्ध्वं सत्त्वविशालस्तमोविशालश्च मूलतः सर्गः । मध्ये रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ॥ ५४ ॥ ॥ छ्: ऊर्ध्वं सत्त्वविशालः मूलतः सर्गस्तमोविशालः । मध्यसर्गो रजोविशालो ब्रह्मादिस्तम्बपर्यन्तः ॥ ऊर्ध्वं सत्त्वविशाल इति । ब्राह्मसर्गस्थानादौ सत्त्वमतिविशालम् । अत्रापि रजस्तमसी स्तः सत्त्वेनाभिभूते । अतो ब्रह्मादयो देवा बह्वानन्दमनुभवन्ति । मूलतः सर्गस्तमोविशाल इति । यत् तिर्यक्पक्षिस्तम्बादिस्थावरसर्गपर्यन्तः । अत्र तमो विशालम् । अत्रापि रजस्सत्त्वे स्तः तमसाभिभूते । अतस्तिर्यगादयो मोहबहुलाः । मूलतः सर्ग इति । त्रिषु सर्गेषु तेषां [तिर्यगादीनां] अत्यन्तमधमत्वान्मूलत इत्युक्तम् । मध्यसर्गो रजोविशाल इति । मानुषसर्गे रजो विशालम् । सत्त्वतमसी अपि स्तः । रजोबहुलत्वादभिभूतसत्त्वतमस्कत्वाच्च मनुष्येषु शोकदुःखे बहुले । मनुष्यगतेर्मध्येति नाम । तिसृषु गतिषु मध्यवर्तित्वात् । अन्तिमः सर्गः कथं स्तम्ब इत्युच्यते । यदोषधिवनस्पतिपर्वतपाषाणादयः, एभिस्त्रयाणां लोकानामवष्टब्धत्वात् स्तम्बनामा उच्यते । एवं लिङ्गसर्गः भावसर्गो भौतिकसर्गश्च सर्वथोक्तः । त्रिविधोऽयं सर्गः प्रधानकृत इत्यतः प्रधानकार्यमवसितम् । यदुत लोकं सृष्ट्वा मोक्षं प्राप्नोतीति ॥ ५४॥ कारिका ५५ पर आह । त्रिषु लोकेषु मनुष्यदेवतिर्यक्षु कः सुखं दुःखञ्चानुभवति । किं प्रधानमनुभवति किं वा बुद्ध्यहङ्कारपञ्चतन्मात्राणि यावदेकादशेन्द्रियाणि अनुभवन्ति किं वायं पुरुषोऽनुभवति । आर्ययोत्तरमाह । ॥ अत्र जरामरणकृतं दुःखं प्राप्नोति चेतनः पुरुषः । लिङस्याविनिवृत्तेस्तस्माद् दुःखं समासेन ॥ ५५ ॥ ॥ छ्: अत्र जरामरणदुःखं केवलं चेतनः पुरुषः प्राप्नोति । लिङ्गस्याविनिवृत्तौ तस्मात्समासेनोक्तमिदं दुःखम् ॥ अत्र जरामरणदुःखं केवलं चेतनः पुरुषः प्राप्नोतीति । त्रिषु लोकेषु दुःखमस्ति जराकृतम् । वलितत्वक्, पलितं, श्वासमोकः, यष्ट्यवलम्बनं, बन्धुमित्रैर्लघ्वीकरणम्, एवमादिदुःखानि सर्वाणि जरानिमित्तानि । मरणदुःखमिति । [यथा] कश्चित्पुरुषः लब्धैष्टैश्वर्यो यदि वा पञ्चसूक्ष्मविषयानुपलभते । यदि वा स्थूलविषयानुपलभते । स मरणमुपगतो यमेन गृह्यते । अत्र मरणदुःखाख्यं दुःखमनुभवति । किञ्च सन्ति त्रीणि दुःखान्यवान्तरकालीनानि । इमानि दुःखानि चेतनः पुरुषोऽनुभवति । प्रधानं स्थूलशरीरञ्च नानुभवतः । अचेतनत्वात् । अत उक्तं पुरुषस्य दुःखं, न प्रधानादीनामिति । पर आह । कियत्कालं पुरुष इमानि दुःखान्यनुभवति । उत्तरमाह । लिङ्गस्याविनिवृत्तौ तस्मात्समासेनोक्तमिदं दुःखमिति । [यदा] महदादिलिङ्गं सूक्ष्मशरीरदुःखं न निवर्तते । इदं स्थूलशरीरं लोके संसरति न निवर्तते । एतादृशकालमध्ये पुरुषो दुःखमनुभवति । यदा सूक्ष्मस्थूललिङ्गं निवर्तते । तदा पुरुषो मुच्यते । यदा मुच्यते । तदा एतादृशदुःखानि नान्ततोऽनुभवति । यदा न निवर्तते सूक्ष्मस्थूललिङ्गम् । तदा न दुःखान्मोक्षमाप्नोति [पुरुषः] । तस्मात्समासेनोक्तं सूक्ष्मलिङ्गं स्थूललिङ्गञ्च दुःखमिति ॥ ५५॥ Encoded and proofread by Dhaval Patel drdhaval2785 at gmail.com
% Text title            : sAMkhyakArikAparamArthaTIkA.inf
% File name             : sAMkhyakArikAparamArthaTIkA.itx
% itxtitle              : sANkhyakArikAparamArthaTIkA
% engtitle              : sAMkhyakArikAparamArthaTIkA
% Category              : major_works
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Texttype              : pramukha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Dhaval Patel drdhaval2785 at gmail.com
% Proofread by          : Dhaval Patel drdhaval2785 at gmail.com
% Latest update         : September 15, 2014
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP