अभिज्ञानशाकुन्तलम्
अथ अभिज्ञानशाकुंतलम् ।
प्रथमोऽङ्कः ।
या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री
ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् ।
यां आहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥ १॥
(नान्द्यन्ते)
सूत्रधारः -- (नेपथ्याभिमुखमवलोक्य)
आर्ये यदि नेपथ्यविधानमवसि अमितस्तावदागम्यताम् ।
(प्रविश्य)
नटी - आर्यपुत्र इयमस्मि ।
सूत्रधारः -- आर्य अभिरूपभूयिष्ठा परिषदियम् । अद्य खलु
कालिदासग्रथितवस्तुना नवेनाभिज्ञानशकुंतलाख्येन
नाटकेनोपस्थातव्यमस्माभिः । तत्प्रतिपात्रमाधीयतां यत्नः ।
नटी -- सुविहितप्रयोगतयायार्यस्य न किमपि परिहास्यते ।
सूत्रधारः -- आर्ये कथयामि ते भूतार्थम् ।
आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् ।
बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः ॥ २॥
नटी -- आर्य एवमेतत् । अनन्तरकरणीयमार्य आज्ञापयतु ।
सूत्रधारः -- किमन्यदस्याः परिषदः श्रुतिप्रसादनतः । तदिममेव
तावदचिरप्रवृत्तमुपभोगक्षमं ग्रीष्मसमयमधिकृत्य गीयताम् ।
सम्प्रति हि -
सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाताः ।
प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ॥ ३॥
नटी -- तथा ।
(इति गायति)
ईषदीषच्चुम्बितानि भ्रमरैः सुकुमारकेसरशिखानि ।
अवतंसयन्ति दममानाः प्रमदाः शिरीषकुसुमानि ॥ ४॥
सूत्रधारः -- आर्य साधु गीतम् । अहो
रागबद्धचित्तवृत्तिरालिखित इव सर्वतो रङ्गः ।
तदिदानीं कतमत्प्रकरणमाश्रित्यैनमाराधयामः ।
नटी -- नन्वार्यमिश्रैः प्रथममेवाज्ञप्तमभिज्ञानशकुंतलं
नामापूर्वं नाटकं प्रयोगे अधिक्रियतामिति ।
सूत्रधारः -- आर्ये सम्यगनुबोधितोऽस्मि । अस्मिन्क्षणे विस्मृतं खलु
मया तत् । कुतः ।
तवास्मि गीतरागेण हारिणा प्रसभं हृतः ।
एष राजेव दुष्यन्तः सारङ्गेणतिरंहसा ॥ ५॥
(इति निष्क्रान्तौ)
(प्रस्तावना)
(ततः प्रविशति मृगानुसारी सशरचापहस्तो राजा रथेन सूतश्च
)
सूतः -- (राजानं मृगं चावलोक्य) आयुष्मन् ।
कृष्णसारे ददश्चक्षुस्त्वयि चाधिज्यकार्मुके ।
मृगानुसारिणं साक्षात्पश्यामीव पिनाकिनम् ॥ ६॥
राजाः -- सूत दूरममुना सारङ्गेण वयमाकृष्टाः । अयं
पुनरिदानीमपि ग्रीवाभङ्गभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः
पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् ।
दर्भैण्रर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा
पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्याम् प्रयाति ॥ ७॥
(सविस्मयम्)
तदेष कथमनुपतत एव मे प्रयत्नप्रेक्षणीयः संवृत्तः ।
सूतः -- आयुष्मन् उद्घातिनी भूमिरिति मया रश्मिसंयमनाद्रथस्य
मन्दीकृतो वेगः । तेन मृग एष विप्रकृष्टान्तरः संवृत्तः ।
सम्प्रति समदेशवर्तिनस्ते न दुरासदो भविष्यति ।
राजाः -- तेन हि मुच्यन्तामभीषवः ।
सूतः -- यदाज्ञापयत्यायुष्मान् ।
(रथवेगं निरूप्य)
आयुष्मन्पश्य पश्य ।
मुक्तेषु रश्मिषु निरायतपूर्वकाया
निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः ।
आत्मौद्धतैरपि रजोभिरलङ्घनीया
धावन्त्यमी मृगजवाक्षमयेव रथ्याः ॥ ८॥
राजाः -- सत्यम् । अतीत्य हरितो हरींश्च वर्तन्ते वाजिनः । तथा
हि ।
यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां
यदर्धे विछिन्नं भवति कृतसंधानमिव तत् ।
प्रकृत्या यद्वक्त्रं तदपि समरेखं नयनयोर्न
मे दूरे किञ्चित्क्षणमपि न पार्श्वे रथज्जवात् ॥ ९॥
सूत पश्यैनं व्यापद्यमानम् ।
(इति शरसंधानं नाटयति)
(नेपथ्ये)
भो भो राजन् आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः ।
सूतः -- (आकर्ण्यावलोक्य च)
आयुष्मनस्य खलु ते बाणपातवर्तिनः कृष्टसारस्यान्तरे तपस्विन
उपस्थिताः ।
राजाः -- (ससम्भ्रमम्)
तेन हि प्रगृह्यन्तां वाजिनः ।
सूतः -- तथा ।
(इति रथं स्थापयति)
(ततः प्रविशत्यात्मनातृतीयो वैखानसः)
वैखानसः -- (हस्तमुद्यम्य)
राजन् आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः ।
न खलु न खलु बाणः संनिपात्योऽयमस्मिन्मृदुनि
मृगशरीरे पुष्पराशाविवाग्निः ।
क्व बत हरिणकानां जीवितं चातिलोलं क्व च
निशितनिपाता वज्रसाराः शरास्ते ॥ १०॥
तत्साधुकृतसंधानं प्रतिसंहर सायकम् ।
आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि ॥ ११॥
राजाः -- एष प्रतिसम्हृतः ।
(इति यथोक्तं करोति)
वैखानसः -- सदृशमेतत् पुरुवंशप्रदीपस्य भवतः ।
जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव ।
पुत्रमेवङ्गुणोपेतं चक्रवर्तिनमाप्नुहि ॥ १२॥
इतरौ -- (बाहू उद्यम्य) सर्वथा चक्रवर्तिनं पुत्रमाप्नुहि ।
राजाः -- (सप्रणामम्)
प्रतिगृहीतं ब्राह्मणवचनम् ।
वैखानसः -- राजन् समिदाहरणाय प्रस्थिता वयम् । एष खलु
कण्वस्य कुलपतेरनुमालिनीतीरमाश्रमो दृश्यते । न
चेदन्यकार्यातिपातः प्रविश्य प्रतिगृह्यतामातिथेयः सत्कारः । अपि
च ।
रम्यास्तपोधनानां प्रतिहतविघ्नाः क्रियाः समवलोक्य ।
ज्ञास्यसि कियद्भुजो मे रक्षति मौर्वीकिणाङ्क इति ॥ १३॥
राजाः -- अपि संनिहितोऽत्र कुलपतिः ।
वैखानसः -- इदानीमेव दुहितरं शकुंतलामतिथिसत्काराय
नियुज्य दैवं अस्याः प्रतिकूलं शमयितुं सोमतीर्थं गतः ।
राजाः -- भवतु । तामेव पश्यामि । सा खलु विदितभक्तिं मां
महर्षेः करिष्यति ।
वैखानसः -- साधयामस्तावत् ।
(इति सशिष्यो निष्क्रान्तः)
राजाः -- सूत चोदयाश्वान् पुण्याश्रमदर्शनेन तावदात्मानं
पुनीमहे ।
सूतः -- यदाज्ञापयत्यायुष्मन् ।
(इति भूयो रथवेगं निरूपयति)
राजाः -- (समन्तादवलोक्य)
सूत अकथितोऽपि ज्ञायत एव यथायमाश्रमाभोगस्तपोवनस्येति ।
सूतः -- कथमिव ।
राजाः -- किं न पश्यति भवान् । इह हि
नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः
प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः ।
विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते
मृगास्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥ १४॥
<कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूला
<भिन्नो रागः किसलयरुचामाज्यधूमोद्गमेन ।
<एते चार्वागुपवनभुवि च्छिन्नदर्भान्कुरायां
<नष्टांशका हरिणशिशवो मन्दमन्दं चरन्ति ।
सूतः -- सर्वमुपपन्नम् ।
राजाः -- (स्तोकमन्तरं गत्वा)
तपोवननिवासिनामुपरोधो मा भूत् । एतावत्येव रथं स्थापय
यावदवतरामि ।
सूतः -- धृताः प्रग्रहाः । अवतरत्वायुष्मान् ।
राजाः -- (अवतीर्य)
सूत विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम । इदं
तावद्गृह्यताम् ।
(इति सूतस्याभरणानि धनुश्चोपनीयार्पयति)
सूत यावदाश्रमवासिनः प्रत्यवेक्ष्याहमुपावर्ते
तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः ।
सूतः -- तथा ।
(इति निष्क्रान्तः)
राजाः -- (परिक्रम्यावलोक्य च)
इदमाश्रमद्वारम् । यावत्प्रविशामि ।
(प्रविश्य । निमित्तं सूचयन्)
शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहस्य ।
अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥ १५॥
(नेपथ्ये)
इत इतः सख्यौ ।
राजाः -- (कर्णं दत्त्वा)
अये दक्षिणेन वृक्षवाटिकामालाप इव श्रूयते । यावदत्र गच्छामि ।
(परिक्रम्यावलोक्य च)
अये एतास्तपस्विकन्यकाः स्वप्रमाणानुरूपैः सेचनघटैर्बालपादपेभ्यः
पयो दातुइत एवाभिवर्तन्ते ।
(निपुणं निरूप्य)
अहो मधुरमासां दर्शनम् ।
शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य ।
दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥ १६॥
यावदिमां छायामाश्रित्य प्रतिपालयामि ।
(इति विलोकयन् स्थितः)
(ततः प्रविश्यति यथोक्तव्यापारा सह सखीभ्यां शकुंतल)
शकुंतला -- इत इतः सख्यौ ।
अनसूया -- हला शकुन्तले त्वत्तोऽपि तातकाश्यपस्याश्रमवृक्षकाः
प्रियतरा इति तर्कयामि । येन नवमालिकाकुसुमपेलवापि
त्वमेतेषामालवालपूरणे नियुक्ता ।
शकुंतला -- न केवलं तातनियोग एव । अस्ति मे सोदरस्नेहोऽप्येतेषु ।
(इति वृक्षसेचनं रूपयति)
राजाः -- कथमियं सा कण्वदुहिता । असाधुदर्शी खलु
तत्रभवान्काश्यपो य इमामाश्रमधर्मे नियुङ्क्ते ।
इदं किलाव्याजमनोहरं वपुस्तपःक्षमं साधयितुं य इच्छति ।
ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेतुमृषिर्व्यवस्यति ॥
१७ ॥
भवतु । पादपान्तर्हित एव विश्रब्धं तावदेनां पश्यामि ।
(इति तथा करोति)
शकुंतला -- सखि अनसूये अतिपिनद्धेन वल्कलेन प्रियंवदया
नियन्त्रिताऽस्मि । शिथिलय तावदेतत् ।
अनसूया -- तथा ।
(इति शिथिलयति)
प्रियंवदा -- (सहासम्)
अत्र पयोधरविस्तारयितृ आत्मनो यौवनं उपालभस्व । मां किं
उपालभसे ।
राजाः -- काममननुरूपमस्य वपुषो वल्कलं न
पुनरलंकारश्रियं न पुष्यति । कुतः ।
सरसिजमनुविद्धं शैवलेनापि रम्यं
मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी
किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ १८॥
शकुंतला -- (अग्रतोऽवलोक्य)
एष वातीरितपल्लवाङ्गुलीभिस्त्वरयतीव मां केसरवृक्षकः ।
यावदेनं सम्भावयामि ।
(इति परिक्रामति)
प्रियंवदा -- हला शकुन्तले अत्रैव तावन्मुहूर्तं तिष्ठ
यावत्वयोपगतया लतासनाथ इवायं केसरवृक्षकः प्रतिभाति ।
शकुंतला -- अतः खलु प्रियंवदासि त्वम् ।
राजाः -- प्रियमपि तथ्यमाह शकुंतलां प्रियंवदा । अस्याः खलु
अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू ।
कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥ १९॥
अनसूया -- हला शकुन्तले इयं स्वयम्वरवधूः सहकारस्य त्वया
कृतनामधेया वनज्योत्स्नेति नवमालिका ।
एनां विस्मृताऽसि ।
शकुंतला -- तदात्मानमपि विस्मरिष्यामि ।
(लतामुपेत्यावलोक्य च)
हला रमणीये खलु काल एतस्य लतापादपमिथुनस्य व्यतिकरः
संवृत्तः । नवकुसुमयौवना वनज्योत्स्ना स्निग्धपल्लवतयोपभोगक्षमः
सहकारः ।
(इति पश्यन्ती तिष्ठति)
प्रियंवदा -- अनसूये जानासि किं शकुंतला वनज्योत्स्नामतिमात्रं
पश्यतीति ।
अनसूया -- न खलु विभावयामि । कथय ।
प्रियंवदा -- यथा वनज्योत्स्नानुरूपेण पादपेन संगता अपि
नामैवमहमप्यात्मनोनुरूपं वरं लभेयेति ।
शकुंतला -- एष नूनं तवात्मगतो मनोरथः ।
(इति कलशमावर्जयति)
राजाः -- अपि नाम कुलपतेरियमसवर्णक्षेत्रसम्भवा स्यात् । अथवा
कृतं संदेहेन ।
असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः ।
सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरण प्रवृत्तयः ॥ २०॥
तथापि तत्त्वत एनामुपलस्ये ।
शकुंतला -- (ससम्भ्रमम्)
अम्भो । सलिलसेकसम्भ्रमोद्गतो नवमालिकामुज्झित्वा वदनं मे
मधुकरोभिवर्तते ।
(इति भ्रमरबाधां रूपयति)
राजाः -- (सस्पृहम्)
चलपाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं
रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः ।
करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरम्
वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती ॥ २१॥
शकुंतला -- न एष धृष्टो विरमति । अन्यतो गमिष्यामि ।
कथमितोऽप्यागच्छति । हला परित्रायेथां मामनेन दुर्विनीतेन
मधुकरेणाभिभूयमानाम् ।
उभे -- (सस्मितम्) के आवां परित्रातुम् । दुष्यंतमाक्रन्द ।
राजरक्षितव्यानि तपोवनानि नाम ।
राजाः -- अवसरोऽयमात्मानं प्रकाशयितुम् । न भेतव्यं न
भेतव्यम् -।
(इत्यर्धोक्ते स्वगतम्)
राजभावस्त्वभिज्ञातो भवेत् । भवतु एवं तावदभिधास्ये ।
शकुंतला -- (पदान्तरे स्थित्वा । सदृष्टिक्षेपम्)
कथमितोऽपि मामनुसरति ।
राजाः -- (सत्वरमुपसृत्य)
आः
कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम्
अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ॥ २२॥
(सर्वा राजानं दृष्टा किंचिदिव सम्भ्रान्ताः)
अनसूया -- आर्य न खलु किमप्यत्याहितम् । इयं नौ प्रियसखी
मधुकरेणाभिभूयमाना कातरीभूता ।
(इति शकुंतलां दर्शयति)
राजाः -- (शकुंतलाभिमुखो भूत्वा)
अपि तपो वर्धते ।
(शकुंतला साध्वसादवचना तिष्ठति)
अनसूया -- इदानीमतिथिविशेषलाभेन । हला शकुन्तले
गच्छोटजम् । फलमिश्रमर्घमुपहर । इदं पादोदकं भविष्यति।
राजाः -- भवतीनां सूनृतयैव गिराकृतमातिथ्यम् ।
प्रियंवदा -- तेन ह्यस्यां प्रछायशीतलायां सप्तपर्णवेदिकायां
मुहूर्तमुपविश्य परिश्रमविनोदं करोत्वार्यः ।
राजाः -- नूनं यूयमप्यनेन कर्मणा परिश्रान्ताः ।
अनसूया -- हला शकुन्तले उचितं नः पर्युपासनमतिथीनाम् ।
अत्रोपविशामः ।
(इति सर्वा उपविशन्ति)
शकुंतला -- (आत्मगतम्)
किं नु खल्विमं प्रेक्ष्य तपोवनविरोधिनो विकारस्य गमनीयास्मि
संवृत्ता ।
राजाः -- (सर्वा विलोक्य)
अहो समवयोरूपरमणीयं भवतीनां सौहार्दम् ।
प्रियंवदा -- (जनान्तिकम्)
अनसूये को नु खल्वेष चतुरगम्भीराकृतिर्मधुरं
प्रियमालपन्प्रभाववानिव लक्ष्यते ।
अनसूया -- सखि ममाप्यस्ति कौतूहलम् । पृच्छामि तावदेनम् ।
(प्रकाशम्)
आर्यस्य मधुरालापजनितो विश्रम्भो मां मन्त्रयते कतम आर्येण
राजर्षिवंशोऽलंक्रियते कतमो वा विरहपर्युत्सुकजनः कुतो देशः
किन्निमित्तं वा सुकुमारतरोऽपि तपोवनगमनपरिश्रमस्यात्मा
पदमुपनीतः ।
शकुंतला -- (आत्मगतम्)
हृदय मोत्ताम्य । एषा त्वया चिन्तितान्यनसूया मन्त्रयते ।
राजाः -- (आत्मगतम्)
कथमिदानीं आत्मानं निवेदयामि कथं वात्मापहारं करोमि । भवतु ।
एवं तावदेनां वक्ष्ये ।
(प्रकाशम्)
भवति यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः
सोहमविघ्नक्रियौपलम्भाय धर्मारण्यमिदं आयातः ।
(शकुंतला शृङ्गारलज्जां रूपयति)
अनसूया -- (उभयोराकारं विदित्वा । जनान्तिकम्)
हला शकुन्तले यद्यत्राद्य तातः संनिहितो भवेत् ।
शकुंतला -- ततः किं भवेत् ।
सख्यौ -- इमं जीवितसर्वस्वेनाप्यतिथिविशेषं कृतार्थं
करिष्यति ।
शकुंतला -- युवामपेतम् । किमपि हृदये कृत्वा मत्रयेथे । न
युवयोर्वचनं श्रोष्यामि ।
राजाः -- वयमपि तावद्भवत्योः सखीगतं किमपि पृच्छामः ।
सख्यौ -- आर्य अनुग्रह इवेयमभ्यर्थना ।
राजाः -- भगवान्काश्यपः शाश्वते ब्रह्मणि स्थित इति प्रकाशः ।
इयं च वः सखी तदात्मजेति कथमेतत् ।
अनसूया -- शृणोत्वार्यः । अस्ति कोऽपि कौशिक इति गोत्रनामधेयो
महाप्रभावो राजर्षिः ।
राजाः -- अस्ति । श्रूयते ।
अनसूया -- तमावयोः प्रियसख्याः प्रभवमवगच्छ । उज्झितायाः
शरीरसंवर्धनादिभिस्तातकाश्यपोऽस्याः पिता ।
राजाः -- उज्झितशब्देन जनितं मे कौतूहलम् ।
आमूलाच्छ्ह्रोतुमिच्छामि ।
अनसूया -- शृणोत्व् आर्यः । गौतमीतीरे पुरा किल तस्य
राजर्षेरुग्रे तपसि वर्तमानस्य किमपि जातशङ्कैर्देवैर्मेनका
नामाप्सराः प्रेषिता नियमविघ्नकारिणी ।
राजाः -- अस्त्येतदन्यसमाधिभीरुत्वं देवानाम् ।
अनसूया -- ततो वसंतोदारसमये तस्या उन्मादयितृ रूपं प्रेक्ष्य -
(इत्यर्धोक्ते लज्जया विरमति)
राजाः -- परस्ताज्ज्ञायत एव । सर्वथाप्सरःसम्भवैषा ।
अनसूया -- अथ किम् ।
राजाः -- उपपद्यते ।
मानुषीषु कथं वा स्यादस्य रूपस्य सम्भवः ।
न प्रभातरलं ज्योतिरुदेति वसुधातलात् ॥ २३॥
(शकुंतलाऽधोमुखी तिष्ठति)
राजाः -- (आत्मगतम्)
लब्धावकाशो मे मनोरथः । किं तु सख्या परिहासोदाहृतां
वरप्रार्थनां श्रुत्वा धृतद्वैधीभावकातरं मे मनः ।
प्रियंवदा -- (सस्मितं शकुंतलां विलोक्य नायकाभिमुखी भूत्वा)
पुनरपि वक्तुकाम इवार्यः ।
(शकुंतला सखीमङ्गुल्या तर्जयति)
राजाः -- सम्यगुपलक्षितं भवत्या । अस्ति नः
सच्चरितश्रवणलोभादन्यदपि प्रष्टव्यम् ।
प्रियंवदा -- अलं विचार्य । अनियन्त्रणानुयोगस्तपस्विजनो नाम ।
राजाः -- इति सखीं ते ज्ञातुमिच्छामि ।
वैखानसं किमनया व्रतमाप्रदानाद् -
व्यापाररोधि मदनस्य निषेवितव्यम् ।
अत्यन्तमात्मसदृशेक्षणवल्लभाभिराहो
निवत्स्यति समं हरिणाङ्गनाभि ॥ २४॥
प्रियंवदा -- आर्य धर्मचरणेऽपि परवशोऽयं जनः । गुरोः
पुनरस्या अनुरूपवरप्रदाने संकल्पः ।
राजाः -- (आत्मगतम्)
न दुरवापेयं खलु प्रार्थना ।
भव हृदय साभिलाषं सम्प्रति संदेहनिर्णयो जातः ।
आशङ्कसे यदग्निं तदिदं स्पर्शक्षमं रत्नम् ॥ २५॥
शकुंतला -- (सरोषमिव)
अनसूये गमिष्याम्यहम् ।
अनसूया -- किन्निमित्तम् ।
शकुंतला -- इमामसम्बद्धप्रलापिनीं प्रियंवदां आर्यायै गौतम्यै
निवेदयिष्यामि ।
अनसूया -- सखि न युक्तमकृतसत्कारमतिथिविशेषं विसृज्य
स्वछन्दतो गमनम् ।
(शकुंतला न किंचिदुक्त्वा प्रस्थितैव)
राजाः -- (ग्रहीतुमिच्छन्निगृह्यात्मानम् । आत्मगतम्)
अहो चेष्टाप्रतिरूपिका कामिजनमनोवृत्तिः । अहं हि
अनुयास्यन्मुनितनयां सहसा विनयेन वारितप्रसरः ।
स्थानादनुच्चलन्नपि गत्वेव पुनः प्रतिनिवृत्तः ॥ २६॥
प्रियंवदा -- (शकुंतलां निरुध्य)
हला न ते युक्तं गन्तुम् ।
शकुंतला -- (सभ्रूभङ्गम्)
किन्निमित्तम् ।
प्रियंवदा -- वृक्षसेचने द्वे धारयसि मे । एहि तावत् । आत्मानं
मोचयित्वा ततो गमिष्यसि ।
(इति बलादेनां निवर्तयति)
राजाः -- भद्रे वृक्षसेचनादेव परिश्रान्तामत्रभवतीं लक्षये ।
तथा ह्यस्याः
स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणादद्यपि स्तनवेपथुं
जनयति श्वासः प्रमाणाधिकः ।
बद्धं कर्णशिरीषरोधि वदने धर्माम्भसां जालकं
बन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः ॥ २७॥
तदहमेनान्नृणां करोमि ।
(इत्यङ्गुलीयं दातुमिच्छति)
(उभे नाममुद्राक्षराण्यनुवाच्य परस्परमवलोकयतः)
राजाः -- अलमस्मानन्यथा सम्भाव्य । राज्ञः परिग्रहोयमिति
राजपुरुष मामवगच्छत ।
प्रियंवदा -- तेन हि नार्हत्यङ्गुलीयकमङ्गुलीवियोगम् । आर्यस्य
वचनेनानृणेदानीमेषा ।
(किञ्चिद्विहस्य)
हला शकुन्तले मोचितास्यनुकम्पिनार्येण । अथवा महाराजेन ।
गच्छेदानीम् ।
शकुंतला -- (आत्मगतम्)
यद्यात्मनः प्रभविष्यामि ।
(प्रकाशम्)
का त्वं विस्रष्टव्यस्य रोद्धव्यस्य वा ।
राजाः -- (शकुंतलां विलोक्य । आत्मगतम्)
किं नु खलु यथा वयमस्यामेवमियमप्यस्मान्प्रति स्यात् । अथवा
लब्धावकाशा मे प्रार्थना । कुतः ।
वाचं न मिश्रयति यद्यपि मद्वचोभिः
कर्णं ददात्यभिमुखं मयि भाषमाणे ।
कामं न तिष्ठति मदाननसम्मुखीना
भूयिष्ठमन्यविषया न तु दृष्टिरस्याः ॥ २८॥
(नेपथ्ये)
भो भोस्तपस्विनः सन्निहितास्तपोवनसत्त्वरक्षायै भवत । प्रत्यासन्नः
किल मृगयाविहारी पार्थिवो दुष्यन्तः ।
तुरगखुरहतस्तथा हि रेणुर्विटपविषक्तजलार्द्रवल्कलेषु ।
पतति परिणतारुणप्रकाशः शलभसमूह इवाश्रमद्रुमेषु ॥ २९॥
अपि च ।
तीव्राघातप्रतिहततरुस्कन्धलग्नैकदन्तः
पादाकृष्टव्रततिवलयासङ्गसंजातपाशः ।
मूर्तो विघ्नस्तपस इव नो भिन्नसारङ्गयूथो
धर्मारण्यं प्रविशति गजः स्यन्दनालोकभीतः ॥ ३०॥
(सर्वाः कर्णं दत्त्वा किंचिदिव सम्भ्रान्ताः)
राजाः -- (आत्मगतम्)
अहो धिक् पौरा अस्मदन्वेषिणस्तपोवनुपरुन्धन्ति । भवतु ।
प्रतिगमिष्यामस्तावत् ।
सख्यौ -- आर्य अनेनारण्यकवृत्तान्तेन पर्याकुलाः स्मः । अनुजानीहि
न उटजगमनाय ।
राजाः -- (ससम्भ्रमम्)
गच्छन्तु भवत्यः । वयमप्याश्रमपीडा यथा न भवति तथा
प्रयतिष्यामहे ।
(सर्वे उत्तिष्ठन्ति)
सख्यौ -- आर्य असम्भावितातिथिसत्कारं भूयोऽपि प्रेक्षणनिमित्तं
लज्जामहे आर्यं विज्ञापयितुम् ।
राजाः -- मा मैवम् । दर्शनेनैव भवतीनां पुरस्कृतोऽस्मि ।
शकुंतला -- अनसूये अभिनवकुशसूच्या परिक्षतं मे चरणं
कुरबकशाखापरिलग्नं च वल्कलम् । तावत्परिपालयत मां
यावदेतन्मोचयामि ।
(शकुंतला राजानमवलोकयन्ती सव्याजं विलम्ब्य सह सखीभ्यां
निष्क्रान्ता)
राजाः -- मन्दौत्सुक्योऽस्मि नगरगमनं प्रति ।
यावदनुयात्रिकान्समेत्य नातिदूरे तपोवनस्य निवेशयेयम् । न खलु
शक्नोमि शकुंतलाव्यापारादात्मानं निवर्तयितुम् । मम हि
गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः ।
चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ॥ ३१॥
(इति निष्क्रान्ताः सर्वे)
(इति प्रथमोऽङ्कः ।)
द्वितीयोऽङ्कः ।
(ततः प्रविशति विषण्णो विदूषकः)
विदूषकः -- (निःश्वस्य)
भो दिष्टम् । एतस्य मृगयाशीलस्य राज्ञो वयस्यभावेन निर्विण्णोऽस्मि ।
अयं मृगोऽयं वहारोऽयं शार्दूल इति मध्याह्नेऽपि
ग्रीष्मविरलपादपच्छायासु वनराजिष्वाहिण्ड्यते अटवीतोऽटवी ।
पत्रसङ्करकषायाणि कदुष्णानि गिरिनदीजलानि पीयन्ते । अनियतवेलं
शूल्यमांसभूयिष्ठ आहारो भुज्यते । तुरगानुधावनकण्डितसन्धे
रात्रावपि निकामं शयितव्यं नास्ति । ततो महत्येव प्रत्यूषे
दास्याःपुत्रैः शकुनिलुब्धकैर्वनग्रहणकोलाहलेन प्रतिबोधितोऽस्मि ।
इयतेदानीमपि पीडा न निष्क्रामति । ततो गण्डस्योपरि पिण्डकः
संवृत्तः । ह्यः किलास्मास्ववहीनेषु तत्रभवता
मृगानुसारेणाश्रमपदं प्रविष्टस्य तापसकन्यका शकुन्तला
ममाधन्यतया दर्शिता । साम्प्रतं नगरगमनाय मनः कथामपि न
करोति । अद्यापि तस्य तामेव चिन्तयतोऽक्ष्णोः प्रभातमासीत् । का गतिः ।
यावत्तं कृताचारपरिक्रमं पश्यामि ।
(इति परिक्रम्यावलोक्य च)
एष बाणासनहस्ताभिर्यवनीभिर्वनपुष्पमालाधारिणीभिः परिवृत
इत एवागच्छति प्रियवयस्यः । भवतु । अङ्गभङ्गविकल इव भूत्वा
स्थास्यामि । यद्येवमपि नाम विश्रमं लभेय ।
(इति दण्डकाष्ठमवलम्ब्य स्थितः)
(ततः प्रविशति यथानिर्दिष्टपरिवारो राजा)
राजा --
कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनाश्वासि ।
अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ॥ १॥
(स्मितं कृत्वा)
एवमात्माभिप्रायसम्भावितेष्टजनचित्तवृत्तिः प्रार्थयिता विडम्ब्यते ।
स्निग्धं वीक्षितमन्यतोऽपि नयने यत्प्रेरयन्त्या तया
यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव ।
मा गा इत्युपरुद्धया यदपि सा सासूयमुक्ता सखी
सर्वं तत्किल मत्परायणमहो कामी स्वतां पश्यति ॥ २॥
विदूषकः -- (तथा स्थित एव)
भो वयस्य न मे हस्तपादं प्रसरति तद्वाङ्मात्रेण जापयिष्यामि ।
जयतु जयतु भवान् ।
राजा -- कुतोऽयं गात्रोपघातः ।
विदूषकः -- कुतः किल स्वयमक्ष्याकुलीकृत्याश्रुकारणं पृच्छसि ।
राजा -- न खल्वावगच्छामि ।
विदूषकः -- भो वयस्य यद्वेतसः कुब्जलीलां विडम्बयति तत्किमात्मनः
प्रभावेण ननु नदीवेगस्य ।
राजा -- नदीवेगस्तत्र कारणम् ।
विदूषकः -- ममापि भवान् ।
राजा -- कथमिव ।
विदूषकः -- एवं राजकार्याण्युज्झित्वैतादृश आकुलप्रदेशे
वनचरवृत्तिना त्वया भवितव्यम् । यत्सत्यं प्रत्यहं
श्वापदसमुत्सारणैः सङ्क्षोभितसन्धिबन्धानां मम
गात्राणामनीशोऽस्मि संवृत्तः । तत्प्रसीद मे । एकाहमपि
तावद्विश्रम्यताम् ।
राजा -- (स्वगतम्)
अयं चैवमाह । ममापि काश्यपसुतामनुस्मृत्य मृगयाविक्लवं चेतः ।
कुतः ।
न नमयितुमधिज्यमस्मि शक्तो धनुरिदमाहितसायकं मृगेषु ।
सहवसतिमुपेत्य यैः प्रियायाः कृत इव मुग्धविलोकितोपदेशः ॥ ३॥
विदूषकः -- (राज्ञो मुखं विलोक्य)
अत्रभवान्किमपि हृदये कृत्वा मन्त्रयते । अरण्ये मया रुदितमासीत् ।
राजा -- (सस्मितम्)
किमन्यत् । अनतिक्रमणीयं मे सुहृद्वाक्यमिति स्थितोऽस्मि ।
विदूषकः -- चिरं जीव ।
(इति गन्तुमिच्छति)
राजा -- वयस्य तिष्ठ । सावशेषं मे वचः ।
विदूषकः -- आज्ञापयतु भवान् ।
राजा -- विश्रान्तेन भवता ममाप्येकस्मिन्ननायासे कर्मणि सहायेन
भवितव्यम् ।
विदूषकः -- किं मोदकखादिकायाम् । तेन ह्ययं सुगृहीतः क्षणः ।
राजा -- यत्र वक्ष्यामि । कः कोऽत्र भोः ।
(प्रविश्य)
दौवारिकः -- (प्रणम्य)
आज्ञापयतु भर्त्ता ।
राजा -- रैवतक सेनापतिस्तावदाहूयताम् ।
दौवारिकः -- तथा ।
(इति निष्क्रम्य सेनापतिना सह पुनः प्रविश्य)
एष आज्ञावचनोत्कण्ठो भर्तेतोदत्तदृष्टिरेव तिष्ठति ।
उपसर्पत्वार्यः ।
सेनापतिः -- (राजानमवलोक्य)
दृष्टदोषापि स्वामिनि मृगया केवलं गुण एव संवृत्ता । तथा हि
देवः
अनवरतधनुर्ज्यास्फालनक्रूरपूर्वं
रविकिरणसहिष्णु स्वेदलेशैरभिन्नम् ।
अपचितमपि गात्रं व्यायतत्वादलक्ष्यं
गिरिचर इव नागः प्राणसारं बिभर्ति ॥ ४॥
(उपेत्य)
जयतु जयतु स्वामी । गृहीतश्वापदमरण्यम् । किमन्यत्रावस्थीयते ।
राजा -- मन्दोत्साहः कृतोऽस्मि मृगयापवादिना माधव्येन ।
सेनापतिः -- (जनान्तिकम्)
सखे स्थिरप्रतिबन्धो भव । अहं
तावत्स्वामिनश्चित्तवृत्तिमनुवर्तिष्ये ।
(प्रकाशम्)
प्रलपत्वेष वैधेयः । ननु प्रभुरेव निदर्शनम् ।
मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः
सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः ।
उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले
मिथ्यैव व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः ॥ ५॥
विदूषकः -- अपेहि रे उत्साहहेतुक । अत्रभवान्प्रकृतिमापन्नः । त्वं
तावदटवीतोऽटवीमाहिण्डमानो नरनासिकालोलुपस्य जीर्णर्क्षस्य कस्यापि
मुखे पतिष्यसि ।
राजा -- भद्र सेनापते आश्रमसन्निकृष्टे स्थिताः स्मः । अतस्ते
वचो नाभिनन्दामि । अद्य तावत् ।
गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं
छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु ।
विश्रब्धं क्रियतां वराहततिभिर्मुस्ताक्षतिः पल्वले
विश्रामं लभतामिदं च शिथितलज्याबन्धमस्मद्धनुः ॥ ६॥
सेनापतिः -- यत्प्रभविष्णवे रोचते ।
राजा -- तेन हि निवर्तय पूर्वगतान्वनग्राहिणः । यथा न मे
सैनिकास्तपोवनमुपरुन्धन्ति तथा निषेद्धव्याः । पश्य ।
शमप्रधानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेजः ।
स्पर्शानुकूला इव सूर्यकान्तास्तदन्यतेजोऽभिभवाद्वमन्ति ॥ ७॥
सेनापतिः -- यदाज्ञापयति स्वामी ।
विदूषकः -- ध्वंसतां ते उत्साहवृत्तान्तः ।
(निष्क्रान्तः सेनापतिः)
राजा -- (परिजनं विलोक्य)
अपनयन्तु भवत्यो मृगयावेशम् । रैवतक त्वमपि स्वं नियोगमशून्यं
कुरु ।
परिजनः -- यद्देव आज्ञापयति ।
(इति निष्क्रान्तः)
विदूषकः -- कृतं भवता निर्मक्षिकम् ।
साम्प्रतमेतस्मिन्पादपच्छायाविरचितवितानसनाथे शिलातले निषीदतु
भवान्यावदहमपि सुखासीनो भवामि ।
राजा -- गच्छाग्रतः ।
विदूषकः -- एतु भवान् ।
(इत्युभौ परिक्रम्यौपविष्टौ)
राजा -- माधव्य अनवाप्तचक्षुःफलोऽसि । येन त्वया दर्शनीयं न
दृष्टम् ।
विदूषकः -- ननु भवानग्रतो मे वर्तते ।
राजा -- सर्वः कान्तमात्मीयं पश्यति । अहं तु तां
एवाश्रमललामभूतां शकुन्तलामधिकृत्य ब्रवीमि ।
विदूषकः -- (स्वगतम्)भवतु । अस्यावसरं न दास्ये ।
(प्रकाशम्)
भो वयस्य ते तापसकन्यकाभ्यर्थनीया दृश्यते ।
राजा -- सखे न परिहार्ये वस्तुनि पौरवाणां मनः प्रवर्तते ।
सुरयुवतिसम्भवं किल मुनेरपत्यं तदुज्झिताधिगतम् ।
अर्कस्योपरि शिथिलं च्युतमिव नवमालिकाकुसुमम् ॥ ८॥
विदूषकः -- (विहस्य)
यथा कस्यापि पिण्डखर्जूरैरुद्वेजितस्य तिण्ड्यां
(तिन्तिण्यां)
अभिलाषो भवेत्तथा स्त्रीरत्नपरिभोगिणः भवत इयमभ्यर्थना ।
राजा -- न तावदेनां पश्यसि येनैवमवादीः ।
विदूषकः -- तत्खलु रमणीयं यद्भवतोऽपि विस्मयमुत्पादयति ।
राजा -- वयस्य किं बहुना ।
चित्रे निवेश्य परिकल्पितसत्त्वयोगा
रूपोच्चयेन मनसा विधिना कृता नु ।
स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे
धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः ॥ ९॥
विदूषकः -- यद्येवं प्रत्यादेश इदानीं रूपवतीनाम् ।
राजा -- इदं च मे मनसि वर्तते ।
अनाघ्रातं पुष्पं किसलयमलूनं कररुहैरनाविद्धं
रत्नं मधु नवमनास्वादितरसम् ।
अखण्डं पुण्यानां फलमिव च तद्रूपमनघं न जाने
भोक्तारं कमिह समुपस्थास्यति विधिः ॥ १०॥
विदूषकः -- तेन हि लघु परित्रायतामेनां भवान् । मा कस्यापि
तपस्विन इङ्गुदीतैलचिक्कणशीर्षस्य हस्ते पतिष्यति ।
राजा -- परवती खलु तत्रभवती । न च सन्निहितोऽत्र गुरुजनः ।
विदूषकः -- अथ भवन्तमन्तरेण कीदृशस्तस्या दृष्टिरागः ।
राजा -- निसर्गादेवाप्रगल्भस्तपस्विकन्याजनः । तथापि तु
अभिमुखे मयि संहृतमीक्षितं हसितमन्यनिमित्तकृतोदयम् ।
विनयवारितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः ॥ ११॥
विदूषकः -- न खलु दृष्टमात्रस्य तवाङ्कं समारोहति ।
राजा -- मिथः प्रस्थाने पुनः शालीनतयापि काममाविष्कृतो
भावस्तत्रभवत्या । तथा हि ।
दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी
स्थिता कतिचिदेव पदानि गत्वा ।
आसीद्विवृत्तवदना च विमोचयन्ती
शाखासु वल्कलमसक्तमपि द्रुमाणाम् ॥ १२॥
विदूषकः -- तेन हि गृहीतपाथेयो भव । कृतं त्वयोपवनं
तपोवनमिति पश्यामि ।
राजा -- सखे तपस्विभिः कैश्चित्परिज्ञातोऽस्मि । चिन्तय
तावत्केनापदेशेन पुनराश्रमपदं गच्छामः ।
विदूषकः -- कोऽपरोऽपदेशो युष्माकं राज्ञाम् ।
नीवारषष्ठभागमस्माकमुपहरन्त्विति ।
राजा -- मूर्ख अन्यमेव भागधेयमेते तपस्विनो निर्वपन्ति यो
रत्नराशीनपि विहायाभिनन्द्यते । पश्य ।
यदुत्तिष्ठति वर्णेभ्यो नृपाणां क्षयि तत्फलम् ।
तपःषड्भागमक्षय्यं ददत्यारण्यका हि नः ॥ १३॥
(नेपथ्ये)
हन्त सिद्धार्थौ स्वः ।
राजा -- (कर्णं दत्त्वा)
अये धीरप्रशान्तस्वरैस्तपस्विभिर्भवितव्यम् ।
(प्रविश्य)
दौवारिकः -- जयतु जयतु भर्ता । एतौ द्वौ ऋषिकुमारौ
प्रतीहारभूमिमुपस्थितौ ।
राजा -- तेन ह्यविलम्बितं प्रवेशय तौ ।
दौवारिकः -- एष प्रवेशयामि ।
(इति निष्क्रम्य ऋषिकुमाराभ्यां सह प्रविश्य)
(उभौ राजानं विलोकयतः)
प्रथमः -- अहो दीप्तिमतोऽपि विश्वसनीयतास्य वपुषः । अथवा
उपपन्नमेतदस्मिन् ऋषिभ्यो नातिभिन्ने राजनि । कुतः ।
अध्याक्रान्ता वसतिरमुनाप्याश्रमे सर्वभोग्ये
रक्षायोगादयमपि तपः प्रत्यहं सञ्चिनोति ।
अस्यापि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः
पुण्यःशब्दो मुनिरिति मुहुः केवलं राजपूर्वः ॥ १४॥
द्वितीयः -- गौतम अयं स बलभित्सखो दुष्यन्तः ।
प्रथमः -- अथ किम् ।
द्वितीयः -- तेन हि
नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्रीमेकः
कृत्स्नां नगरपरिघप्रांशुबाहुर्भुनक्ति ।
आशंसन्ते समितिषु सुरा बद्धवैरा हि दैत्यैरस्याधिज्ये
धनुषि विजयं पौरुहूते च वज्रे ॥ १५॥
उभौ -- (उपगम्य)
विजयस्व राजन् ।
राजा -- (आसनादुत्थाय)
अभिवादये भवन्तौ ।
उभौ -- स्वस्ति भवते ।
(इति फलान्युपहरतः)
राजा -- (सप्रणामं परिगृह्य)
आज्ञापयितुमिच्छामि ।
उभौ -- विदितो भवानाश्रमसदामिहस्थः । तेन भवन्तं प्रार्थयन्ते ।
राजा -- किमाज्ञापयन्ति ।
उभौ -- तत्रभवतः कण्वस्य महर्षेरसान्निध्याद्रक्षांसि न
इष्टिविघ्नमुत्पादयन्ति । तत्कतिपयरात्रं सारथिद्वितीयेन भवता
सनाथीक्रियतामाश्रम इति ।
राजा -- अनुगृहीतोऽस्मि ।
विदूषकः -- (अपवार्य)
एषेदानीमनुकूला तेऽभ्यर्थना ।
राजा -- (स्मितं कृत्वा)
रैवतक मद्वचनादुच्यतां सारथिः । सबाणासनं रथमुपस्थापयेति ।
दौवारिकः -- यद्देव आज्ञापयति ।
(इति निष्क्रान्तः)
उभौ -- (सहर्षम्)
अनुकारिणि पूर्वेषां युक्तरूपमिदं त्वयि ।
आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः ॥ १६॥
राजा -- (सप्रणामम्)
गच्छतां पुरो भवन्तौ । अहमप्यनुपदमागत एव ।
उभौ -- विजयस्व
(इति निष्क्रान्तौ)
राजा -- माधव्य अप्यस्ति शकुन्तलादर्शने कुतूहलम् ।
विदूषकः -- प्रथमं सपरिवाहमासीत् । इदानीं
राक्षसवृत्तान्तेन बिन्दुरपि नावशेषितः ।
राजा -- मा भैषीः । ननु मत्समीपे वर्तिष्यसे ।
विदूषकः -- एष राक्षसाद्रक्षितोऽस्मि ।
(प्रविश्य)
दौवारिकः -- सज्जो रथो भर्तुर्विजयप्रस्थानमपेक्षते । एष
पुनर्नगराद्देवीनामाज्ञप्तिहरः करभक आगतः ।
राजा -- (सादरम्)
किमम्बाभिः प्रेषितः ।
दौवारिकः -- अथ किम् ।
राजा -- ननु प्रवेश्यताम् ।
दौवारिकः -- तथा ।
(इति निष्क्रम्य करभकेण सह प्रविश्य)
एष भर्ता । उपसर्प ।
करभकः -- जयतु जयतु भर्ता । देव्याज्ञापयति । आगामिनि
चतुर्थदिवसे प्रवृत्तपारणो मे उपवासो भविष्यति । तत्र
दीर्घायुषावश्यं सम्भावनीयेति ।
राजा -- इतस्तपस्विकार्यम् । इतो गुरुजनाज्ञा ।
द्वयमप्यनतिक्रमणीयम् । किमत्र प्रतिविधेयम् ।
विदूषकः -- त्रिशङ्कुरिवान्तरा तिष्ठ ।
राजा -- सत्यमाकुलीभूतोऽस्मि ।
कृत्ययोर्भिन्नदेशत्वाद् द्वैधीभवति मे मनः ।
पुरः प्रतिहतं शैले स्रोतः स्रोतोवहो यथा ॥ १७॥
(विचिन्त्य)
सखे त्वमम्बया पुत्र इति प्रतिगृहीतः । अतो भवानितः प्रतिनिवृत्य
तपस्विकार्यव्यग्रमानसं मामावेद्य तत्रभवतीनां
पुत्रकृत्यमनुष्ठातुमर्हति ।
विदूषकः -- न खलु मां रक्षोभीरुकं गणयसि ।
राजा -- (सस्मितम्)
कथमेतद्भवति सम्भाव्यते ।
विदूषकः -- यथा राजानुजेन गन्तव्यं तथा गच्छामि ।
राजा -- ननु तपोवनोपरोधः परिहरणीय इति
सर्वानानुयात्रिकांस्त्वयैव सह प्रस्थापयामि ।
विदूषकः -- (सगर्वम्)
तेन हि युवराजोऽस्मीदानीं संवृत्तः ।
राजा -- (स्वगतम्)
चपलोऽयं बटुः । कदाचिदस्मत्प्रार्थनामन्तःपुरेभ्यः कथयेत् ।
भवतु । एनमेवं वक्ष्ये ।
(विदूषकं हस्ते गृहीत्वा । प्रकाशम्)
वयस्य ऋषिगौरवादाश्रमं गच्छामि । न खलु सत्यमेव
तापसकन्यकायां ममाभिलाषः । पश्य ।
क्व वयं क्व परोक्षमन्मथो मृगशावैः सममेधितो जनः ।
परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वचः ॥ १८॥
विदूषकः -- अथ किम् ।
(इति निष्क्रान्ताः सर्वे)
(इति द्वितीयोऽङ्कः ।)
तृतीयोऽङ्कः ।
(ततः प्रविशति कुशानादाय यजमानशिष्यः)
शिष्यः -- अहो महानुभावः पार्थिवो दुष्यन्तः । यत्प्रविष्टमात्र
एवाश्रमं तत्रभवति निरुपद्रवाणि नः कर्माणि संवृत्तानि ।
का कथा बाणसन्धाने ज्याशब्देनैव दूरतः ।
हुङ्कारेणेव धनुषः स हि विघ्नानपोहति ॥ १॥
यावदिमान्वेदिसंस्तरणार्थं दर्भानृत्विग्भ्य उपहरामि ।
(परिक्रम्यावलोक्य च । आकाशे)
प्रियंवदे कस्येदमुशीरानुलेपनं मृणालवन्ति च नलिनीपत्राणि
नीयन्ते ।
(श्रुतिमभिनीय)
किं ब्रवीषि । आतपलङ्घनाद्बलवदस्वस्था शकुन्तला तस्याः
शरीरनिर्वापणायेति । तर्हि यत्नादुपचर्यताम् । सा खलु भगवतः
कण्वस्य कुलपतेरुच्छ्वसितम् । अहमपि तावद्वैतानिकं शान्त्युदकमस्यै
गैतमीहस्ते विसर्जयिष्यामि ।
(इति निष्क्रान्तः)
विष्कम्भकः ।
(ततः प्रविशति कामयमानावस्थो राजा)
राजा -- (सचिन्तं निःश्वस्य)
जाने तपसो वीर्यं सा बाला परवतीति मे विदितम् ।
अलमस्मि ततो हृदयं तथापि नेदं निवर्तयितुम् ॥ २॥
(मदनबाधां निरूप्य)
भगवन्कुसुमायुध त्वया चन्द्रमसा च
विश्वसनीयाभ्यामतिसन्धीयते कामिजनसार्थः । कुतः ।
तव कुसुमशरत्वं शीतरश्मित्वमिन्दोर्द्वयमिदमयथार्थं
दृश्यते मद्विधेषु ।
विसृजति हिमगर्भैंरग्निमिन्दुर्मयूखैस्त्वमपि
कुसुमबाणान्वज्रसारीकरोषि ॥ ३॥
अथवा ।
(अद्यापि नूनं हरकोपवह्निनस्त्वयि ज्वलत्यौर्व इवाम्बुराशौ ।
(त्वमन्यथा मन्मथ मद्विधानां भस्मावशेषः
(कथमित्थमुष्णः ॥
अनिशमपि मकरकेतुर्मनसो रुजमावहन्नभिमतो मे ।
यदि मदिरायतनयनां तामधिकृत्य प्रहरतीति ॥ ४॥
(सखेदं परिक्रम्य)
क्व नु खलु संस्थिते कर्मणि सदस्यैरनुज्ञातः खिन्नमात्मानं
विनोदयामि ।
(निःश्वस्य)
किं नु खलु मे प्रियादर्शनादृते शरणमन्यत् । यावदेनामन्विष्यामि ।
(सूर्यमवलोक्य)
इमामुग्रातपवेलां प्रायेण लतावलयवत्सु मालिनीतीरेषु ससखीजना
शकुन्तला गमयति । तत्रैव तावद्गच्छामि ।
(परिक्रम्य संस्पर्शं रूपयित्वा)
अहो प्रवातसुभगोऽयमुद्देशः ।
शक्यमरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् ।
अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः ॥ ५॥
(परिक्रम्यावलोक्य च)
अस्मिन्वेतसपरिक्षिप्ते लतामण्डपे सन्निहितया शकुन्तलया भवितव्यम् ।
तथा हि ।
अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् ।
द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यतेऽभिनवा ॥ ६॥
यावद्विटपान्तरेणावलोकयामि ।
(परिक्रम्य तथा कृत्वा । सहर्षम्)
अये लब्धं नेत्रनिर्वाणम् । एषा मे मनोरथप्रियतमा सकुसुमास्तरणं
शिलापट्टमधिशयाना सखीभ्यामन्वास्यते । भवतु । श्रोष्याम्यासां
विश्रम्भकथितानि ।
(इति विलोकयन्स्थितः)
(ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला)
सख्यौ -- (उपवीज्य । सस्नेहम्)
हला शकुन्तले अपि सुखयति ते नलिनीपत्रवातः ।
शकुन्तला -- किं वीजयतो मां सख्यौ ।
(सख्यौ विषादं नाटयित्वा परस्परमवलोकयतः)
राजा -- बलवदस्वस्थशरीरा शकुन्तला दृश्यते ।
(सवितर्कम्)
तत्किमयमातपदोषः स्यादुत यथा मे मनसि वर्तते ।
(साभिलाषं निर्वर्ण्य)
अथवा कृतं सन्देहेन ।
स्तनन्यस्तोशीरं प्रशिथिलमृणालैकवलयं
प्रियायाः साबाधं किमपि कमनीयं वपुरिदम् ।
समस्तापः कामं मनसिजनिदाघप्रसरयोर्न
तु ग्रीष्मस्यैवं सुभगमपराद्धं युवतिषु ॥ ७॥
प्रियंवदा -- (जनान्तिकम्)
अनसूये तस्य राजर्षेः प्रथमदर्शनारभ्य पर्युत्सुकेव शकुन्तला ।
किं नु खल्वस्यास्तन्निमित्तोऽयमातङ्को भवेत् ।
अनसूया -- सखि ममापीदृश्याशङ्का हृदयस्य । भवतु । प्रक्ष्यामि
तावदेनाम् ।
(प्रकाशम्)
सखि प्रष्टव्यासि किमपि । बलवान्खलु ते सन्तापः ।
शकुन्तला -- (पूर्वार्धेन शयनादुत्थाय)
हला किं वक्तुकामासि ।
अनसूया -- हला शकुन्तले अनभ्यन्तरे खल्वावां मदनगतस्य
वृत्तान्तस्य । किं तु यादृशीतिहासनिबन्धेषु
कामयमानानामवस्था श्रूयते तादृशीं तव पश्यामि । कथय
किन्निमित्तं ते सन्तापः । विकारं खलु परमार्थतोऽज्ञात्वाऽनारम्भः
प्रतीकारस्य ।
राजा -- अनसूयामप्यनुगतो मदीयस्तर्कः । न हि स्वाभिप्रायेण मे
दर्शनम् ।
शकुन्तला -- (आत्मगतम्)
बलवान्खलु मेऽभिनिवेशः । इदानीमपि सहसैतयोर्न शक्नोमि
निवेदयितुम् ।
प्रियंवदा -- सखि शकुन्तले सुष्ठु एषा भणति । किमात्मन
आतङ्कमुपेक्षसे । अनुदिवसं खलु परिहीयसेऽङ्गैः । केवलं लावण्यमयी
छाया त्वां न मुञ्चति ।
राजा -- अवितथमाह प्रियंवदा । तथा हि
क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं
मध्यः क्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरा ।
शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते
पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी ॥ ८॥
शकुन्तला -- सखि कस्य वान्यस्य कथयिष्यामि ।
किन्त्वायासयित्रीदानीं वां भविष्यामि ।
उभे -- अत एव खलु निर्बन्धः । स्निग्धजनसंविभक्तं हि दुःखं
सह्यवेदनं भवति ।
राजा -- पृष्टा जनेन समदुःखसुखेन बाला
नेयं न वक्ष्यति मनोगतमाधिहेतुम् ।
दृष्टो विवृत्य बहुशोऽप्यनया सतृष्णमत्रान्तरे
श्रवणकातरतां गतोऽस्मि ॥ ९॥
शकुन्तला -- सखि यतःप्रभृति मम दर्शनपथमागतः स
तपोवनरक्षिता राजर्षिः ।
(इत्यर्धोक्ते लज्जां नाटयति)
उभे -- कथयतु प्रियसखी ।
शकुन्तला -- तत आरभ्य तद्गतेनाभिलाषेणैतदवस्थास्मि
संवृत्ता ।
राजा -- (सहर्षम्)
श्रुतं श्रोतव्यम् ।
स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः ।
दिवस इवाभ्रश्यामस्तपात्यये जीवलोकस्य ॥ १०॥
शकुन्तला -- तद्यदि वामनुमतं तथा वर्तेथां यथा तस्य
राजर्षेरनुकम्पनीया भवामि । अन्यथावश्यं सिञ्चत मे तिलोदकम् ।
राजा -- संशयच्छेदि वचनम् ।
प्रियंवदा -- (जनान्तिकम्)
अनसूये दूरगतमन्मथाऽक्षमेयं कालहरणस्य । यस्मिन्बद्धभावैषा
स ललामभूतः पौरवाणाम् । तद्युक्तमस्या अभिलाषोऽभिनन्दितुम् ।
अनसूया -- तथा यथा भणसि ।
प्रियंवदा -- (प्रकाशम्)
सखि दिष्ट्यानुरूपस्तेऽभिनिवेशः । सागरमुज्झित्वा कुत्र वा
महानद्यवतरति । क इदानीं सहकारमन्तरेणातिमुक्तलतां पल्लवितां
सहते ।
राजा -- किमत्र चित्रं यदि विशाखे शशाङ्कलेखामनुवर्तेते ।
अनसूया -- कः पुनरुपायो भवेद्येनाविलम्बितं निभृतं च सख्या
मनोरथं सम्पादयावः ।
प्रियंवदा -- निभृतमिति चिन्तनीयं भवेत् । शीघ्रमिति सुकरम् ।
अनसूया -- कथमिव ।
प्रियंवदा -- ननु स राजर्षिरस्यां स्निग्धदृष्ट्या
सूचिताभिलाष एतान्दिवसान्प्रजागरकृशो लक्ष्यते ।
राजा -- सत्यमित्थम्भूत एवास्मि । तथा हि
इदमशिशिरैरन्तस्तापाद्विवर्णमणीकृतं
निशि निशि भुजन्यस्तापाङ्गप्रसारिभिरश्रुभिः ।
अनभिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात्कनकवलयं
स्रस्तं स्रस्तं मया प्रतिसार्यते ॥ ११॥
प्रियंवदा -- (विचिन्त्य)
हला मदनलेखोऽस्य क्रियतां तं सुमनोगोपितं कृत्वा
देवप्रसादस्यापदेशेन तस्य हस्तं प्रापयिष्यामि ।
अनसूया -- रोचते मे सुकुमारः प्रयोगः किं वा शकुन्तला भणति ।
शकुन्तला -- किं नियोगो वां विकल्प्यते ।
प्रियंवदा -- तेन ह्यात्मन उपन्यासपूर्वं चिन्तय तावत्किमपि
ललितपदबन्धनम् ।
शकुन्तला -- हला चिन्तयाम्यहम् । अवधीरणाभीरुकं पुनर्वेपते
मे हृदयम् ।
राजा -- (सहर्षम्)
अयं स ते तिष्ठति सङ्गमोत्सुको
विशङ्कसे भीरु यतोऽवधीरणाम् ।
लभेत वा प्रार्थयिता न वा श्रियं
श्रिया दुरापः कथमीप्सितो भवेत् ॥ १२॥
सख्यौ -- अयि आत्मगुणावमानिनि क इदानीं शरीरनिर्वापयित्रीं
शारदीं ज्योत्स्नां पटान्तेन वारयति ।
शकुन्तला -- (सस्मितम्)
नियोजितेदानीमस्मि ।
(इत्युपविष्टा चिन्तयति)
राजा -- स्थाने खलु विस्मृतनिमेषेण चक्षुषा प्रियामवलोकयामि ।
यतः
उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः ।
कण्टकितेन प्रथयति मय्यनुरागं कपोलेन ॥ १३॥
शकुन्तला -- हला चिन्तितं मया गीतवस्तु । असन्निहितानि
पुनर्लेखनसाधनानि ।
प्रियंवदा -- एतस्मिञ्शुकोदरसुकुमारे नलिनीपत्रे नखैर्निक्षिप्तवर्णं
कुरु ।
शकुन्तला -- (यथोक्तं रूपयित्वा)
हला शृणुतमिदानीं सङ्गतार्थं न वेति ।
उभे -- अवहिते स्वः ।
शकुन्तला -- (वाचयति)
तव न जाने हृदयं मम पुनः कामो दिवाऽपि रात्रावपि ।
निर्घृण तपति बलीयस्त्वयि वृत्तमनोरथाया अङ्गानि ॥ १४॥
राजा -- (सहसोपसृत्य)
तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव ।
ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः ॥ १५॥
सख्यौ -- (विलोक्य सहर्षमुत्थाय)
स्वागतमविलम्बिनो मनोरथस्य ।
(शकुन्तलाऽभ्युत्थातुमिच्छति)
राजा -- अलमलमायासेन ।
सन्दष्टकुसुमशयनान्याशुक्लान्तबिसभङ्गसुरभीणि ।
गुरुपरितापानि न ते गात्राण्युपचारमर्हन्ति ॥ १६॥
अनसूया -- इतः शिलातलैकदेशमलङ्करोतु वयस्यः ।
(राजोपविशति । शकुन्तला सलज्जा तिष्ठति)
प्रियंवदा -- द्वयोरपि युवयोरन्योन्यानुरागः प्रत्यक्षः । सखीस्नेहः
पुनर्मां पुनरुक्तवादिनीं करोति ।
राजा -- भद्रे नैतत्परिहार्यम् । विवक्षितं ह्यनुक्तमनुतापं जनयति ।
प्रियंवदा -- आपन्नस्य विषयनिवासिनो जनस्यार्तिहरेण राज्ञा
भवितव्यमित्येष वो धर्मः ।
राजा -- नास्मात्परम् ।
प्रियंवदा -- तेन हीयमावयोः प्रियसखी त्वामुद्दिश्येदमवस्थान्तरं
भगवता मदनेनारोपिता । तदर्हस्यभ्युपपत्त्या जीवितमस्या
अवलम्बितुम् ।
राजा -- भद्रे साधारणोऽयं प्रणयः । सर्वथानुगृहीतोऽस्मि ।
शकुन्तला -- (प्रियंवदामवलोक्य)
हला किमन्तःपुरविरहपर्युत्सुकस्य राजर्षेरुपरोधेन ।
राजा -- सुन्दरि
इदमनन्यपरायणमन्यथा हृदयसन्निहिते हृदयं मम ।
यदि समर्थयसे मदिरेक्षणे मदनबाणहतोऽस्मि हतः पुनः ॥ १७॥
अनसूया -- वयस्य बहुवल्लभा राजानः श्रूयन्ते । यथा नौ
प्रियसखी बन्धुजनशोचनीया न भवति तथा निर्वाहय ।
राजा -- भद्रे किं बहुना
परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे ।
समुद्ररसना चोर्वी सखी च युवयोरियम् ॥ १८॥
उभे -- निर्वृते स्वः ।
प्रियंवदा -- (सदृष्टिक्षेपम्)
अनसूये एष इतोदत्तदृष्टिरुत्सुको मृगपोतको मातरमन्विष्यति । एहि ।
संयोजयाव एनम् ।
(इत्युभे प्रस्थिते)
शकुन्तला -- हला अशरणास्मि । अन्यतरा युवयोरागच्छतु ।
उभे -- पृथिव्या यः शरणं स तव समीपे वर्तते ।
(इति निष्क्रान्ते)
शकुन्तला -- कथं गते एव ।
राजा -- अलमावेगेन । नन्वयमाराधयिता जनस्तव समीपे वर्तते ।
किं शीतलैः क्लमविनोदिभिरार्द्रवातान्सञ्चारयामि
नलिनीदलतालवृन्तैः ।
अङ्के निधाय करभोरु यथासुखं ते संवाहयामि चरणावुत पद्मताम्रौ ॥ १९॥
शकुन्तला -- न माननीयेष्वात्मानमपराधयिष्ये ।
(इत्युत्थाय गन्तुमिच्छति)
राजा -- सुन्दरि अनिर्वाणो दिवसः इयं च ते शरीरावस्था ।
उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् ।
कथमातपे गमिष्यसि परिबाधापेलवैरङ्गैः ॥ २०॥
(इति बलादेनां निवर्तयति)
शकुन्तला -- पौरव रक्ष विनयम् । मदनसन्तप्तापि न खल्वात्मनः
प्रभवामि ।
राजा -- भीरु अलं गुरूजनभयेन । दृष्ट्वा ते विदितधर्मा
तत्रभवान्नात्र दोषं ग्रहीष्यति कुलपतिः । पश्य ।
गान्धर्वेण विवाहेन बह्व्यो राजर्षिकन्यकाः ।
श्रूयन्ते परिणीतास्ताः पितृभिश्चाभिनन्दिताः ॥ २१॥
शकुन्तला -- मुञ्च तावन्माम् । भूयोऽपि सखीजनमनुमानयिष्ये ।
राजा -- भवतु । मोक्ष्यामि ।
शकुन्तला -- कदा ।
राजा --
अपरिक्षतकोमलस्य यावत्कुसुमस्येव नवस्य षट्पदेन ।
अधरस्य पिपासता मया ते सदयं सुन्दरि गृह्यते रसोऽस्य ॥ २२॥
(इति मुखमस्याः समुन्नमयितुमिच्छति । शकुन्तला परिहरति नाट्येन)
(नेपथ्ये)
चक्रवाकवधुके आमन्त्रयस्व सहचरम् । उपस्थिता रजनी ।
शकुन्तला -- (ससम्भ्रमम्)
पौरव असंशयं मम शरीरवृत्तान्तोपलम्भायार्या गौतमीत
एवागच्छति । तद्विटपान्तरितो भव ।
राजा -- तथा ।
(इत्यात्मानमावृत्य तिष्ठति)
(ततः प्रविशति पात्रहस्ता गौतमी सख्यौ च)
सख्यौ -- इत इत आर्या गौतमी ।
गौतमी -- (शकुन्तलामुपेत्य)
जाते अपि लघुसन्तापानि तेऽङ्गानि ।
शकुन्तला -- आर्ये अस्ति मे विशेषः ।
गौतमी -- अनेन दर्भोदकेन निराबाधमेव ते शरीरं भविष्यति ।
(शिरसि शकुतलामभ्युक्ष्य)
वत्से परिणतो दिवसः । एहि उटजमेव गच्छामः ।
(इति प्रस्थिताः)
शकुन्तला -- (आत्मगतम्)
हृदय प्रथममेव सुखोपनते मनोरथे कातरभावं न मुञ्चसि ।
सानुशयविघटितस्य कथं ते साम्प्रतं सन्तापः ।
(पदान्तरे स्थित्वा । प्रकाशम्)
लतावलय सन्तापहारक आमन्त्रये त्वां भूयोऽपि परिभोगाय ।
(इति दुःखेन निष्क्रान्ता शकुन्तला सहेतराभिः)
राजा (पूर्वस्थानमुपेत्य । सनिःश्वासम्)
अहो विघ्नवत्यः प्रार्थितार्थसिद्धयः । मया हि
मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् ।
मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ॥ २३॥
क्व नु खलु सम्प्रति गच्छामि । अथवा इहैव प्रियापरिभुक्तमुक्ते
लतावलये मुहूर्तं स्थास्यामि ।
(सर्वतोऽवलोक्य)
तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायामियं
क्लान्तो मन्मथलेख एष नलिनीपत्रे नखैरर्पितः ।
हस्ताद्भ्रष्टमिदं बिसाभरणमित्यासज्यमानेक्षणो
निर्गन्तुं सहसा न वेतसगृहाच्छक्नोमि शून्यादपि ॥ २४॥
(आकाशे)
राजन्
सायन्तने सवनकर्मणि सम्प्रवृत्ते
वेदिं हुताशनवतीं परितः प्रयस्ताः ।
छायाश्चरन्ति बहुधा भयमादधानाः
सन्ध्यापयोदकपिशाः पिशिताशनानाम् ॥ २५॥
राजा -- अयमहमागच्छामि ।
(इति निष्क्रान्तः)
(इति तृतीयोऽङ्कः ।)
चतुर्थोऽङ्कः ।
(ततः प्रविशतः कुसुमावचयं नाटयन्त्यौ सख्यौ ।)
अनसूया -- हला प्रियंवदे यद्यपि गान्धर्वेण विधिना निर्वृत्तकल्याणा
शकुन्तलाऽनुरूपभर्तृगामिनी संवृत्तेति निर्वृतं मे हृदयं
तथाप्येतावच्चिन्तनीयम् ।
प्रियंवदा -- कथमिव ।
अनसूया -- अद्य स राजर्षिरिष्टिं परिसमाप्यर्षिभिर्विसर्जित आत्मनो
नगरं प्रविश्यान्तःपुरसमागत इतोगतं वृत्तान्तं स्मरति वा न वेति ।
प्रियंवदा -- विस्रब्धा भव । न तादृशा आकृतिविशेषा
गुणविरोधिनो भवन्ति । तात इदानीमिमं वृत्तान्तं श्रुत्वा न जाने किं
प्रतिपत्स्यत इति ।
अनसूया -- यथाहं पश्यामि तथा तस्यानुमतं भवेत् ।
प्रियंवदा -- कथमिव ।
अनसूया -- गुणवते कन्यका प्रतिपादनीयेत्ययं तावत्प्रथमः
सङ्कल्पः । तं यदि दैवमेव सम्पादयति नन्वप्रयासेन कृतार्थो
गुरुजनः ।
प्रियंवदा -- (पुष्पभाजनं विलोक्य)
सखि अवचितानि बलिकर्मपर्याप्तानि कुसुमानि ।
अनसूया -- ननु सख्याः शकुन्तलायाः सौभाग्यदेवतार्चनीया ।
प्रियंवदा -- युज्यते ।
(इति तदेव कर्माभिनयतः)
(नेपथ्ये)
अयमहं भोः ।
अनसूया -- (कर्णं दत्त्वा)
सखि अतिथीनामिव निवेदितम् ।
प्रियंवदा -- ननूटजसन्निहिता शकुन्तला ।
अनसुया -- अद्य पुनर्हृदयेनासन्निहिता । अलमेतावद्भिः कुसुमैः ।
(इति प्रस्थिते)
(नेपथ्ये)
आः
अतिथिपरिभाविनि
विचिन्तयन्ती यमनन्यमानसा तपोधनं वेत्सि न मामुपस्थितम् ।
स्मरिष्यति त्वां न स बोधितोऽपि सन्कथां प्रमत्तः प्रथमं कृतामिव ॥ १॥
प्रियंवदा -- हा धिक् हा धिक् । अप्रियमेव संवृत्तम् । कस्मिन्नपि
पूजार्हेऽपराद्धा शून्यहृदया शकुन्तला ।
(पुरोऽवलोक्य)
न खलु यस्मिन्कस्मिन्नपि । एष दुर्वासाः सुलभकोपो महर्षिः । तथा
शप्त्वा वेगबलोत्फुल्लया दुर्वारया गत्या प्रतिनिवृत्तः ।
अनसूया -- कोऽन्यो हुतवहाद्दग्धुं प्रभवति । गच्छ । पादयोः
प्रणम्य निवर्तयैनं यावदहमर्घोदकमुपकल्पयामि ।
प्रियंवदा -- तथा
(इति निष्क्रान्ता)
अनसूया -- (पदान्तरे स्खलितं निरूप्य)
अहो आवेगस्खलितया गत्या प्रभ्रष्टं ममाग्रहस्तात्पुष्पभाजनम् ।
(इति पुष्पोच्चयं रूपयति)
(प्रविश्य)
प्रियंवदा -- सखि प्रकृतिवक्रः स कस्यानुनयं प्रतिगृह्णाति ।
किमपि पुनः सानुक्रोशः कृतः ।
अनसूया -- (सस्मितम्)
तस्मिन्बह्वेतदपि । कथय ।
प्रियंवदा -- यदा निवर्तितुं नेच्छति तदा विज्ञापितो मया ।
भगवन् प्रथम इति प्रेक्ष्याविज्ञाततपःप्रभावस्य दुहितृजनस्य
भगवतैकोऽपराधो मर्षयितव्य इति ।
अनसूया -- ततस्ततः ।
प्रियंवदा -- ततो न मे वचनमन्यथा भवितुमर्हति किं
त्वभिज्ञानाभरणदर्शनेन शापो निवर्तिष्यत इति मन्त्रयमाण
एवान्तर्हितः ।
अनसूया -- शक्यमिदानीमाश्वसितुम् । अस्ति तेन राजर्षिणा
सम्प्रस्थितेन स्वनामधेयाङ्कितमङ्गुलीयकं स्मरणीयमिति स्वयं
पिनद्धम् । तस्मिन्स्वाधीनोपाया शकुन्तला भविष्यति ।
प्रियंवदा -- सखि एहि । देवकार्यं तावदस्या निर्वर्तयावः ।
(इति परिक्रामतः)
प्रियंवदा -- (विलोक्य)
अनसूये पश्य तावत् । वामहस्तोपहितवदनाऽऽलिखितेव प्रियसखी ।
भर्तृगतया चिन्तयात्मानमपि नैषा विभावयति । किं
पुनरागन्तुकम् ।
अनसूया -- प्रियंवदे द्वयोरेव नौ मुखे एष वृत्तान्तस्तिष्ठतु ।
रक्षितव्या खलु प्रकृतिपेलवा प्रियसखी ।
प्रियंवदा -- को नामोष्णोदकेन नवमालिकां सिञ्चति ।
(इति निष्क्रान्ते)
विष्कम्भकः ।
(ततः प्रविशति सुप्तोत्थितः शिष्यः)
शिष्यः -- वेलोपलक्षणार्थमादिष्टोऽस्मि तत्रभवता
प्रवासादुपावृत्तेन काश्यपेन । प्रकाशं निर्गतस्तावदवलोकयामि
कियदवशिष्टं रजन्या इति ।
(परिक्रम्यावलोक्य च)
हन्त प्रभातम् । तथा हि ।
यात्येकतोऽस्तशिखरं पतिरोषधीनामाविष्कृतारुणपुरःसर
एकतोऽर्कः ।
तेजोद्वयस्य युगपद्व्यसनोदयाभ्यां लोको नियम्यत इवात्मदशान्तरेषु ॥
२॥
अपि च ।
अन्तर्हिते शशिनि सैव कुमुद्वती मे
दृष्टिं न नन्दयति संस्मरणीयशोभा ।
इष्टप्रवासजनितान्यबलाजनस्य
दुःखानि नूनमतिमात्रसुदुःसहानि ॥ ३॥
(प्रविश्यापटीक्षेपेण)
अनसूया -- यद्यपि नाम विषयपराङ्मुखस्य जनस्यैतन्न विदितं
तथापि तेन राज्ञा शकुन्तलायामनार्यमाचरितम् ।
शिष्यः -- यावदुपस्थितां होमवेलां गुरवे निवेदयामि ।
(इति निष्क्रान्तः)
अनसूया -- प्रतिबुद्धापि किं करिष्यामि । न म उचितेष्वपि
निजकरणीयेषु हस्तपादं प्रसरति । काम इदानीं सकामो भवतु
येनासत्यसन्धे जने शुद्धहृदया सखी पदं कारिता । अथवा
दुर्वासःशाप एष विकारयति । अन्यथा कथं स राजर्षिस्तादृशानि
मन्त्रयित्वैतावतः कालस्य लेखमात्रमपि न विसृजति ।
तदितोऽभिज्ञानमङ्गुलीयकं तस्य विसृजावः । दुःखशीले तपस्विजने
कोऽभ्यर्थ्यताम् । ननु सखीगामी दोष
इति व्यवसितापि न पारयामि प्रवासप्रतिनिवृत्तस्य तातकाश्यपस्य
दुष्यन्तपरिणीतामापन्नसत्त्वां शकुन्तलां निवेदयितुम् ।
इत्थङ्गतेऽस्माभिः किं करणीयम् ।
(प्रविश्य)
प्रियंवदा -- (सहर्षम्)
सखि त्वरस्व त्वरस्व शकुन्तलायाः प्रस्थानकौतुकं निवर्तयितुम् ।
अनसूया -- सखि कथमेतत् ।
प्रियंवदा -- शृणु । इदानीं सुखशयितपृच्छिका
शकुन्तलासकाशं गतास्मि ।
अनसूया -- ततस्ततः ।
प्रियंवदा -- तावदेनां लज्जावनतमुखीं परिष्वज्य
तातकाश्यपेनैवमभिनन्दितम् । दिष्ट्या धूमाकुलितदृष्टेरपि
यजमानस्य पावक एवाहुतिः पतिता । वत्से सुशिष्यपरिदत्ता
विद्येवाशोचनीयासि संवृत्ता । अद्यैव ऋषिरक्षितां त्वां भर्तुः
सकाशं विसर्जयामीति ।
अनसूया -- अथ केन सूचितस्तातकाश्यपस्य वृत्तान्तः ।
प्रियंवदा -- अग्निशरणं प्रविष्टस्य शरीरं विना छन्दोमय्या
वाण्या ।
अनसूया -- (सविस्मयम्)कथमिव ।
प्रियंवदा -- (संस्कृतमाश्रित्य)
दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः ।
अवेहि तनयां ब्रह्मन्नग्निगर्भां शमीमिव ॥ ४॥
अनसूया -- (प्रियंवदामाश्लिष्य)
सखि प्रियं मे । किं त्वद्यैव शकुन्तला नीयत इत्युत्कण्ठासाधारणं
परितोषमनुभवामि ।
प्रियंवदा -- सखि आवां तावदुत्कण्ठां विनोदयिष्यावः । सा
तपस्विनी निर्वृता भवतु ।
अनसूया -- तेन ह्येतस्मिंश्चूतशाखावलम्बिते नालिकेरसमुद्गक
एतन्निमित्तमेव कालान्तरक्षमा निक्षिप्ता मया केसरमालिका । तदिमां
हस्तसन्निहितां कुरु । यावदहमपि तस्यै मृगरोचनां तीर्थमृत्तिकां
दूर्वाकिसलयानीति मङ्गलसमालम्भनानि विरचयामि ।
प्रियंवदा -- तथा क्रियताम् ।
(अनसूया निष्क्रान्ता । प्रियंवदा नाट्येन सुमनसो गृह्णाति)
(नेपथ्ये)
गौतमि आदिश्यन्तां शार्ङ्गरवमिश्राः शकुन्तलानयनाय ।
प्रियंवदा -- (कर्णं दत्त्वा)
अनसूये त्वरस्व त्वरस्व । एते खलु हस्तिनापुरगामिन ऋषयः
शब्दाय्यन्ते ।
(प्रविश्य समालम्भनहस्ता)
अनसूया -- सखि एहि । गच्छावः ।
(इति परिक्रामतः)
प्रियंवदा -- (विलोक्य)
एषा सूर्योदय एव शिखामज्जिता प्रतीष्टनीवारहस्ताभिः
स्वस्तिवाचनिकाभिस्तापसीभिरभिनन्द्यमाना शकुन्तला तिष्ठति ।
उपसर्पाव एनाम् ।
(इत्युपसर्पतः)
(ततः प्रविशति यथोद्दिष्टव्यापारा आसनस्था शकुन्तला)
तापसीनामन्यतमा -- (शकुन्तलां प्रति)
जाते भर्तुर्बहुमानसूचकं महादेवीशब्दं लभस्व ।
द्वितीया -- वत्से वीरप्रसविनी भव ।
तृतीया -- वत्से भर्तुर्बहुमता भव ।
(इत्याशिषो दत्त्वा गौतमीवर्जं निष्क्रान्ताः)
सख्यौ -- (उपसृत्य)
सखि सुखमज्जनं ते भवतु ।
शकुन्तला -- स्वागतं मे सख्योः । इतो निषीदतम् ।
उभे (मङ्गलपात्राण्यादाय । उपविश्य)
हला सज्जा भव । यावत्ते मङ्गलसमालम्भनं विरचयावः ।
शकुन्तला -- इदमपि बहु मन्तव्यम् । दुर्लभमिदानीं मे
सखीमण्डनं भविष्यति ।
(इति बाष्पं विसृजति)
उभे -- सखि उचितं न ते मङ्गलकाले रोदितुम् ।
(इत्यश्रूणि प्रमृज्य नाट्येन प्रसाधयतः)
प्रियंवदा -- आभरणोचितं रूपमाश्रमसुलभैः
प्रसाधनैर्विप्रकार्यते ।
(प्रविश्योपायनहस्तावृषिकुमारकौ)
उभौ -- इदमलङ्करणम् । अलङ्क्रियतामत्रभवती ।
(सर्वा विलोक्य विस्मिताः)
गौतमी -- वत्स नारद कुत एतत् ।
प्रथमः -- तातकाश्यपप्रभावात् ।
गौतमी -- किं मानसी सिद्धिः ।
द्वितीयः -- न खलु । श्रूयताम् । तत्रभवता वयमाज्ञप्ताः
शकुन्तलाहेतोर्वनस्पतिभ्यः कुसुमान्याहरतेति ।
तत इदानीं
क्षौमं केनचिदिन्दुपाण्डु तरुणा माङ्गल्यमाविष्कृतं
निष्ठ्यूतश्चरणोपभोगसुलभो लाक्षारसः केनचित् ।
अन्येभ्यो वनदेवताकरतलैरापर्वभागोत्थितै-
र्दत्तान्याभरणानि तत्किसलयोद्भेदप्रतिद्वन्द्विभिः ॥ ५॥
प्रियंवदा -- (शकुन्तलां विलोक्य)
हला अनयाभ्युपपत्त्या सूचिता ते भर्तुर्गेहेऽनुभवितव्या राजलक्ष्मीः ।
(शकुन्तला व्रीडां रूपयति)
प्रथम -- गौतम एह्येहि । अभिषेकोत्तीर्णाय काश्यपाय
वनस्पतिसेवां निवेदयावः ।
द्वितीयः -- तथा ।
(इति निष्क्रान्तौ)
सख्यौ -- अये अनुपयुक्तभूषणोऽयं जनः ।
चित्रकर्मपरिचयेनाङ्गेषु त आभरणविनियोगं कुर्वः ।
शकुन्तला -- जाने वां नैपुण्यम् ।
(उभे नाट्येनालङ्कुरुतः)
(ततः प्रविशति स्नानोत्तीर्णः काश्यपः)।
काश्यपः -- यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया
कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् ।
वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः
पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर्नवैः ॥ ६॥
(इति परिक्रामति)
सख्यौ -- हला शकुन्तले अवसितमण्डनासि । परिधत्स्व साम्प्रतं
क्षौमयुगलम् ।
(शकुन्तलोत्थाय परिधत्ते)
गौतमी -- जाते एष ते आनन्दपरिवाहिणा चक्षुषा परिष्वजमान
इव गुरुरुपस्थितः । आचारं तावत्प्रतिपद्यस्व ।
शकुन्तला -- (सव्रीडम्)
तात वन्दे ।
काश्यपः -- वत्से ।
ययातेरिव शर्मिष्ठा भर्तुर्बहुमता भव ।
सुतं त्वमपि संराजं सेव पूरुमवाप्नुहि ॥ ७॥
गौतमी -- भगवान् वरः खल्वेषः । नाशीः ।
काश्यपः -- वत्से इतः सद्यो हुतानग्नीन्प्रदक्षिणीकुरुष्व ।
(सर्वे परिक्रामन्ति)
काश्यपः -- (ऋक्छन्दसाऽऽशास्ते)
अमी वेदिं परितः कॢप्तधिष्ण्याः
समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः ।
अपघ्नन्तो दुरितं हव्यगन्धैर्वैतानास्त्वां
वह्नयः पावयन्तु ॥ ८॥
प्रतिष्ठस्वेदानीम् ।
(सदृष्टिक्षेपम्)
क्व ते शार्ङ्गरवमिश्राः ।
(प्रविश्य)
शिष्यः -- भगवन् इमे स्मः ।
काश्यपः -- भगिन्यास्ते मार्गमादेशय ।
शार्ङ्गरवः -- इत इतो भवती ।
(सर्वे परिक्रामन्ति)
काश्यपः -- भो भोः सन्निहितास्तपोवनतरवः ।
पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या
नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् ।
आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः
सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥ ९॥
(कोकिलरवं सूचयित्वा)
अनुमतगमना शकुन्तला तरुभिरियं वनवासबन्धुभिः ।
परिभृतविरुतं कलं यथा प्रतिवचनीकृतमेभिरीदृशम् ॥ १०॥
(आकाशे)
रम्यान्तरः कमलिनीहरितैः
सरोभिश्छायाद्रुमैर्नियमितार्कमयूखतापः ।
भूयात्कुशेशयरजोमृदुरेणुरस्याः शान्तानुकूलपवनश्च शिवश्च
पन्थाः ॥ ११॥
(सर्वे सविस्मयमाकर्णयन्ति)
गौतमी -- जाते ज्ञातिजनस्निग्धाभिरनुज्ञातगमनासि
तपोवनदेवताभिः । प्रणम भगवतीः ।
शकुन्तला -- (सप्रणामं परिक्रम्य । जनान्तिकम्)
हला प्रियंवदे आर्यपुत्रदर्शनोत्सुकाया अप्याश्रमपदं परित्यजन्त्या
दुःखेन मे चरणौ पुरतः प्रवर्तेते ।
प्रियंवदा -- न केवलं तपोवनविरहकातरा सख्येव ।
त्वयोपस्थितवियोगस्य तपोवनस्यापि तावत्समवस्था दृश्यते ।
उद्गलितदर्भकवला मृग्यः परित्यक्तनर्तना मयूराः ।
अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः ॥ १२॥
शकुन्तला -- (स्मृत्वा)
तात लताभगिनीं वनज्योत्स्नां तावदामन्त्रयिष्ये ।
काश्यपः -- अवैमि ते तस्यां सोदर्यस्नेहम् । इयं तावद्दक्षिणेन ।
शकुन्तला -- (उपेत्य लतामालिङ्ग्य)
वनज्योत्स्ने चूतसङ्गतापि मां प्रत्यालिङ्गेतोगताभिः शाखाबाहुभिः ।
अद्यप्रभृति दूरपरिवर्तिनी ते खलु भविष्यामि ।
काश्यपः --
सङ्कल्पितं प्रथममेव मया तवार्थे
भर्तारमात्मसदृशं सुकृतैर्गता त्वम् ।
चूतेन संश्रितवती नवमालिकेयमस्यामहं
त्वयि च सम्प्रति वीतचिन्तः ॥ १३॥
इतः पन्थानं प्रतिपद्यस्व ।
शकुन्तला -- (सख्यौ प्रति)
हला एषा द्वयोर्युवयोर्हस्ते निक्षेपः ।
सख्यौ -- अयं जनः कस्य हस्ते समर्पितः ।
(इति बाष्पं विहरतः)
काश्यपः -- अनसूये अलं रुदित्वा । ननु भवतीभ्यामेव
स्थिरीकर्तव्या शकुन्तला ।
(सर्वे परिक्रामन्ति)
शकुन्तला -- तात एषोटजपर्यन्तचारिणी गर्भमन्थरा
मृगवधूर्यदाऽनघप्रसवा भवति तदा मह्यं कमपि
प्रियनिवेदयितृकं विसर्जयिष्यथ ।
काश्यपः -- नेदं विस्मरिष्यामः ।
शकुन्तला -- (गतिभङ्गं रूपयित्वा)
को नु खल्वेष निवसने मे सज्जते ।
(इति परावर्तते)
काश्यपः -- वत्से,
यस्य त्वया व्रणविरोपणमिङ्गुदीनां
तैलं न्यषिच्यत मुखे कुशसूचिविद्धे ।
श्यामाकमुष्टिपरिवर्धितको जहाति
सोऽयं न पुत्रकृतकः पदवीं मृगस्ते ॥ १४॥
शकुन्तला -- वत्स किं सहवासपरित्यागिनीं मामनुसरसि ।
अचिरप्रसूतया जनन्या विना वर्धित एव । इदानीमपि मया विरहितं
त्वां तातश्चिन्तयिष्यति । निवर्तस्व तावत् ।
(इति रुदती प्रस्थिता)
काश्यपः --
उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं
बाष्पं कुरु स्थिरतया विरतानुबन्धम् ।
अस्मिन्नलक्षितनतोन्नतभूमिभागे
मार्गे पदानि खलु ते विषमीभवन्ति ॥ १५॥
शार्ङ्गरवः -- भवगान् । ओदकान्तं स्निग्धो जनोऽनुगन्तव्य इति
श्रूयते । तदिदं सरस्तीरम् । अत्र सन्दिश्य प्रतिगन्तुमर्हति ।
काश्यपः -- तेन हीमां क्षीरवृक्षच्छायामाश्रयामः ।
(सर्वे परिक्रम्य स्थिताः)
काश्यपः -- (आत्मगतम्)
किं नु खलु तत्रभवतो दुष्यन्तस्य युक्तरूपमस्माभिः सन्देष्टव्यम् ।
(इति चिन्तयति)
शकुन्तला -- (जनान्तिकम्)
हला पश्य । नलिनीपत्रान्तरितमपि सहचरमपश्यन्त्यातुरा
चक्रवाक्यारटति दुष्करमहं करोमीति ।
अनसूया -- सखि मैवं मन्त्रयस्व ।
एषापि प्रियेण विना गमयति रजनीं विषाददीर्घतराम् ।
गुर्वपि विरहदुःखमाशाबन्धः साहयति ॥ १६॥
काश्यपः -- शार्ङ्गरव इति त्वया मद्वचनात्स राजा शकुन्तलां
पुरस्कृत्य वक्तव्यः ।
शार्ङ्गरवः -- आज्ञापयतु भगवान् ।
काश्यपः -- अस्मान्साधु विचिन्त्य संयमधनानुच्चैः कुलं
चात्मनस्त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम् ।
सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया
भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः ॥ १७॥
शार्ङ्गरवः -- गृहीतः सन्देशः ।
काश्यपः -- वत्से त्वमिदानीमनुशासनीयासि । वनौकसोऽपि सन्तो
लौकिकज्ञा वयम् ।
शार्ङ्गरवः -- न खलु धीमतां कश्चिदविषयो नाम ।
काश्यपः -- सा त्वमितः पतिकुलं प्राप्य --
शुश्रूषस्व गुरून्कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्तृर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥ १८॥
अनसुया -- कथं वा गौतमी मन्यते ।
गौतमी -- एतावान्वधूजनस्योपदेशः । जाते एतत्खलु सर्वमवधारय ।
काश्यपः -- वत्से परिष्वजस्व मां सखीजनं च ।
शकुन्तला -- तात इत एव किं प्रियंवदानुसूये सख्यौ निवर्तिष्येते ।
काश्यपः -- वत्से इमे अपि प्रदेये । न युक्तमनयोस्तत्र गन्तुम् । त्वया
सह गौतमी यास्यति ।
शकुन्तला -- (पितरमाश्लिष्य)
कथमिदानीं तातस्याङ्कात्परिभ्रष्टा मलयतटोन्मूलिता चन्दनलतेव
देशान्तरे जीवितं धारयिष्यामि ।
काश्यपः -- वत्से किमेवं कातरासि ।
अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे
विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षणमाकुला ।
तनयमचिरात्प्राचीवार्कं प्रसूय च पावनं
मम विरहजां न त्वं वत्से शुचं गणयिष्यसि ॥ १९॥
(शकुन्तला पितुः पादयोः पतति)
काश्यपः -- यदिच्छामि ते तदस्तु ।
शकुन्तला -- (सख्यावुपेत्य)
हला द्वे अपि मां सममेव परिष्वजेथाम् ।
सख्यौ -- (तथा कृत्वा)
सखि यदि नाम स राजा प्रत्यभिज्ञानमन्थरो
भवेत्ततस्तस्मायिदमात्मनामधेयाङ्कितमङ्गुलीयकं दर्शय ।
शकुन्तला -- अनेन सन्देहेन वामाकम्पितास्मि ।
सख्यौ -- मा भैषीः । अतिस्नेहः पापशङ्की ।
शार्ङ्गरवः -- युगान्तरमारूढः सविता । त्वरतामत्रभवती ।
शकुन्तला -- (आश्रमाभिमुखी स्थित्वा)
तात कदा नु भूयस्तपोवनं प्रेक्षिष्ये ।
काश्यपः -- श्रूयताम् ।
भूत्वा चिराय चतुरन्तमहीसपत्नी
दौष्यन्तिमप्रतिरथं तनयं निवेश्य ।
भर्त्रा तदर्पितकुटुम्बभरेण सार्धं
शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन् ॥ २०॥
गौतमी -- जाते परिहीयते गमनवेला । निवर्तय पितरम् । अथवा
चिरेणापि पुनः पुनरेषैवं मन्त्रयिष्यते । निवर्ततां भवान् ।
काश्यपः -- वत्से उपरुध्यते तपोऽनुष्ठानम् ।
शकुन्तला -- (भूयः पितरमाश्लिष्य)तपश्चरणपीडितं
तातशरीरम् । तन्मातिमात्रं मम कृत उत्कण्ठस्व ।
काश्यपः -- (सनिःश्वासम्)
शममेष्यति मम शोकः कथं नु वत्से त्वया रचितपूर्वम् ।
उटजद्वारविरूढं नीवारबलिं विलोकयतः ॥ २१॥
गच्छ । शिवास्ते पन्थानः सन्तु ।
(निष्क्रान्ता शकुन्तला सहयायिनश्च)
सख्यौ -- (शकुन्तलां विलोक्य)
हा धिक् हा धिक् । अन्तर्हिता शकुन्तला वनराज्या ।
काश्यपः -- (सनिःश्वासम्)
अनसूये गतवती वां सहचारिणी । निगृह्य शोकमनुगच्छतं मां
प्रस्थितम् ।
उभे -- तात शकुन्तलाविरहितं शून्यमिव तपोवनं कथं प्रविशावः ।
काश्यपः -- स्नेहवृत्तिरेवन्दर्शिनी ।
(सविमर्शं परिक्रम्य)
हन्त भोः शकुन्तलां पतिकुलं विसृज्य लब्धमिदानीं स्वास्थ्यम् ।
कुतः ।
अर्थो हि कन्या परकीय एव तामद्य सम्प्रेष्य परिग्रहीतुः ।
जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा ॥ २२॥
(इति निष्क्रान्ताः सर्वे)
(इति चतुर्थोऽङ्कः ।)
पञ्चमोऽङ्कः ।
(ततः प्रविशत्यासनस्थो राजा विदूषकश्च)
विदूषकः -- (कर्णं दत्त्वा)
भो वयस्य सङ्गीतशालान्तरेऽवधानं देहि । कलविशुद्धाया गीतेः
स्वरसंयोगः श्रूयते । जाने तत्रभवती हंसपदिका वर्णपरिचयं
करोतीति ।
राजा -- तूष्णीं भव । यावदाकर्णयामि ।
(आकाशे गीयते)
अभिनवमधुलोलुपस्त्वं तथा परिचुम्ब्य चूतमञ्जरीम् ।
कमलवसतिमात्रनिर्वृतो मधुकर विस्मृतोऽस्येनां कथम् ॥ १॥
राजा -- अहो रागपरिवाहिणी गीतिः ।
विदूषकः -- किं तावद्गीत्या अवगतोऽक्षरार्थः ।
राजा -- (स्मितं कृत्वा)
सकृत्कृतप्रणयोऽयं जनः । तदस्या देवीं वसुमतीमन्तरेण
महदुपालम्भनं गतोऽस्मि । सखे माधव्य मद्वचनादुच्यतां
हंसपदिका । निपुणमुपालब्धाः स्म इति ।
विदूषकः -- यद्भवानाज्ञापयति ।
(उत्थाय)
भो वयस्य गृहीतस्य तया परकीयैर्हस्तैः शिखण्डके
ताड्यमानस्याप्सरसा वीतरागस्येव नास्तीदानीं मे मोक्षः ।
राजा -- गच्छ । नागरिकवृत्त्या संज्ञापयैनाम् ।
विदूषकः -- का गतिः । (इति निष्क्रान्ताः)
राजा -- (आत्मगतम्)
किं नु खलु गीतमेवंविधार्थमाकर्ण्येष्टजनविरहादृतेऽपि
बलवदुत्कण्ठितोऽस्मि । अथवा ।
रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान्पर्युत्सुको भवति
यत्सुखितोऽपि जन्तुः ।
तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थिराणि
जननान्तरसौहृदानि ॥ २॥
(इति पर्याकुलस्तिष्ठति)
(ततः प्रविशति कञ्चुकी)
कञ्चुकी -- अहो नु खल्वीदृशीमवस्थां प्रतिपन्नोऽस्मि ।
आचार इत्यवहितेन मया गृहीता
या वेत्रयष्टिरवरोधगृहेषु राज्ञः ।
काले गते बहुतिथे मम सैव जाता
प्रस्थानविक्लवगतेरवलम्बनार्था ॥ ३॥
भोः कामं धर्मकार्यमनतिपात्यं देवस्य । तथापीदानीमेव
धर्मासनादुत्थिताय पुनरुपरोधकारि कण्वशिष्यागमनमस्मै नोत्सहे
निवेदयितुम् । अथवाऽविश्रमोऽयं लोकतन्त्राधिकारः । कुतः ।
भानुः सकृद्युक्ततुरङ्ग एव रात्रिन्दिवं गन्धवहः प्रयाति ।
शेषः सदैवाहितभूमिभारः षष्ठांशवृत्तेरपि धर्म एषः ॥
४॥
यावन्नियोगमनुतिष्ठामि ।
(परिक्रम्यावलोक्य च)
एष देवः
प्रजाः प्रजाः स्वा इव तन्त्रयित्वा
निषेवते श्रान्तमना विविक्तम् ।
यूथानि सञ्चार्य रविप्रतप्तः
शीतं दिवा स्थानमिव द्विपेन्द्रः ॥ ५॥
(उपगम्य)
जयतु जयतु देवः । एते खलु हिमगिरेरुपत्यकारण्यवासिनः
काश्यपसन्देशमादाय सस्त्रीकास्तपस्विनः सम्प्राप्ताः । श्रुत्वा देवः
प्रमाणम् ।
राजा -- (सादरम्)
किं काश्यपसन्देशहारिणः ।
कञ्चुकी -- अथ किम् ।
राजा -- तेन हि मद्वचनाद्विज्ञाप्यतामुपाध्यायः सोमरातः ।
अमूनाश्रमवासिनः श्रौतेन विधिना सत्कृत्य स्वयमेव
प्रवेशयितुमर्हसीति । अहमप्यत्र तपस्विदर्शनोचिते प्रदेशे स्थितः
प्रतिपालयामि ।
कञ्चुकी -- यदाज्ञापयति देवः ।
(इति निष्क्रान्तः)
राजा -- (उत्थाय)
वेत्रवति अग्निशरणमार्गमादेशय ।
प्रतीहारी -- इत इतो देवः ।
राजा -- (परिक्रामति । अधिकारखेदं निरूप्य)
सर्वः प्रार्थितमर्थमधिगम्य सुखी सम्पद्यते जन्तुः । राज्ञां तु
चरितार्थता दुःखोत्तरैव ।
औत्सुक्यमात्रमवसाययति प्रतिष्ठा
क्लिश्नाति लब्धपरिपालनवृत्तिरेव ।
नातिश्रमापनयनाय यथा श्रमाय
राज्यं स्वहस्तधृतदण्डमिवातपत्रम् ॥ ६॥
(नेपथ्ये)
वैतालिकौ -- विजयतां देवः ।
प्रथमः --
स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः
प्रतिदिनमथवा ते वृत्तिरेवंविधैव ।
अनुभवति हि मूर्ध्ना पदपस्तीव्रमुष्णं
शमयति परितापं छायया संश्रितानाम् ॥ ७॥
द्वितीयः --
नियमयसि विमार्गप्रस्थितानात्तदण्डः
प्रशमयसि विवादं कल्पसे रक्षणाय ।
अतनुषु विभवेषु ज्ञातयः सन्तु नाम
त्वयि तु परिसमाप्तं बन्धुकृत्यं प्रजानाम् ॥ ८॥
राजा -- एते क्लान्तमनसः पुनर्नवीकृताः स्मः ।
(इति परिक्रामति)
प्रतीहारी -- एष अभिनवसम्मार्जनसश्रीकः
सन्निहितहोमधेनुरग्निशरणालिन्दः । आरोहतु देवः ।
राजा -- (आरुह्य परिजनांसावलम्बी तिष्ठति)
वेत्रवति किमुद्दिश्य भगवता काश्यपेन मत्सकाशमृषयः प्रेषिताः
स्युः ।
किं तावद्व्रतिनामुपोढतपसां विघ्नैस्तपो दूषितं
धर्मारण्यचरेषु केनचिदुत प्राणिष्वसच्चेष्टितम् ।
आहोस्वित्प्रसवो ममापचरितैर्विष्टम्भितो
वीरुधामित्यारूढबहुप्रतर्कमपरिच्छेदाकुलं मे मनः ॥ ९॥
प्रतीहारी -- सुचरितनन्दिन ऋषयो देवं सभाजयितुमागता इति
तर्कयामि ।
(ततः प्रविशन्ति गौतमीसहिताः शकुन्तलां पुरस्कृत्य मुनयः ।
पुरश्चैषां कञ्चुकी पुरोहितश्च)
कञ्चुकी -- इत इतो भवन्तः ।
शार्ङ्गरवः -- शारद्वत ।
महाभागः कामं नरपतिरभिन्नस्थितिरसौ
न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते ।
तथापीदं शश्वत्परिचितविविक्तेन मनसा
जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव ॥ १०॥
शारद्वतः -- स्थाने भवान्पुरप्रवेशादित्थम्भूतः संवृत्तः ।
अहमपि
अभ्यक्तमपि स्नातः शुचिरशुचिमिव प्रबुद्ध इव सुप्तम् ।
बद्धमिव स्वैरगतिर्जनमिह सुखसङ्गिनमवैमि ॥ ११॥
शकुन्तला -- (निमित्तं सूचयित्वा)
अहो किं मे वामेतरन्नयनं विस्फुरति ।
गौतमी -- जाते प्रतिहतममङ्गलम् । सुखानि ते भर्तृकुलदेवता
वितरन्तु ।
(इति परिक्रामति)
पुरोहितः -- (राजानं निर्दिश्य)
भो भोस्तपस्विनः असावत्रभवान्वर्णाश्रमाणां रक्षिता प्रागेव
मुक्तासनो वः प्रतिपालयति । पश्यतैनम् ।
शार्ङ्गरवः -- भो महाब्राह्मण काममेतदभिनन्दनीयं तथापि
वयमत्र मध्यस्थाः । कुतः
भवन्ति नम्रास्तरवः फलागमैर्नवाम्बुभिर्दूरविलम्बिनो घनाः ।
अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणां
॥ १२॥
प्रतीहारी -- देव प्रसन्नमुखवर्णा दृश्यन्ते । जानामि
विश्रब्धकार्या ऋषयः ।
राजा -- (शकुन्तलां दृष्ट्वा)
अथात्रभवती
का स्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या ।
मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम् ॥ १३॥
प्रतीहारी -- देव कुतूहलगर्भः प्रहितो न मे तर्कः प्रसरति । ननु
दर्शनीया पुनरस्या आकृतिर्लक्ष्यते ।
राजा -- भवतु । अनिर्वर्णनीयं परकलत्रम् ।
शकुन्तला -- (हस्तमुरसि कृत्वा । आत्मगतम्)
हृदय किमेवं वेपसे । आर्यपुत्रस्य भावमवधार्य धीरं तावद्भव ।
पुरोहितः -- (पुरो गत्वा)
एते विधिवदर्चितास्तपस्विनः । कश्चिदेषामुपाध्यायसन्देशः । तं
देवः श्रोतुमर्हति ।
राजा -- अवहितोऽस्मि ।
ऋषयः -- (हस्तानुद्यम्य)
विजयस्व राजन् ।
राजा -- सर्वानभिवादये ।
ऋषयः -- इष्टेन युज्यस्व ।
राजा -- अपि निर्विघ्नतपसो मुनयः ।
ऋषयः --
कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि ।
तमस्तपति घर्मांशौ कथमाविर्भविष्यति ॥ १४॥
राजा -- अर्थवान्खलु मे राजशब्दः । अथ भगवान्लोकानुग्रहाय
कुशली काश्यपः ।
शार्ङ्गरवः -- स्वाधीनकुशलाः सिद्धिमन्तः । स
भवन्तमनामयप्रश्नपूर्वकमिदमाह ।
राजा -- किमाज्ञापयति भगवान् ।
शार्ङ्गरवः -- यन्मिथःसमयादिमां मदीयां दुहितरं
भवानुपायंस्त तन्मया प्रीतिमता युवयोरनुज्ञातम् । कुतः
त्वमर्हतां प्राग्रसरः स्मृतोऽसि नः
शकुन्तला मूर्तिमती च सत्क्रिया ।
समानयंस्तुल्यगुणं वधूवरं
चिरस्य वाच्यं न गतः प्रजापतिः ॥ १५॥
तदिदानीमापन्नसत्त्वेयं प्रतिगृह्यतां सहधर्माचरणायेति ।
गौतमी -- आर्य किमपि वक्तुकामास्मि । न मे वचनावसरोऽस्ति ।
कथमिति ।
नापेक्षितो गुरुजनोऽनया त्वया पृष्टो न बन्धुजनः ।
एकैकस्मिन्नेव चरिते भणामि किमेकैकम् ॥ १६॥
शकुन्तला -- (आत्मगतम्)
किं नु खल्वार्यपुत्रो भणति ।
राजा -- किमिदमुपन्यस्तम् ।
शकुन्तला -- (आत्मगतम्)
पावकः खलु वचनोपन्यासः ।
शार्ङ्गरवः -- कथमिदं नाम । भवन्त एव सुतरां
लोकवृत्तान्तनिष्णाताः ।
सतीमपि ज्ञातिकुलैकसंश्रयां
जनोऽन्यथा भर्तृमतीं विशङ्कते ।
अतः समीपे परिणेतुरिष्यते
प्रियाऽप्रिया वा प्रमदा स्वबन्धुभिः ॥ १७॥
राजा -- किमत्रभवती मया परिणीतपूर्वा ।
शकुन्तला -- (सविषादं आत्मगतम्)
हृदय साम्प्रतं ते आशङ्का ।
शार्ङ्गरवः --
किं कृतकार्यद्वेषो धर्मं प्रति विमुखता कृतावज्ञा ।
राजा -- कुतोऽयमसत्कल्पनाप्रश्नः ।
शार्ङ्गरवः --
मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु ॥ १८॥
राजा -- विशेषेणाधिक्षिप्तोऽस्मि ।
गौतमी -- जाते मुहूर्तं मा लज्जस्व । अपनेष्यामि
तावत्तेऽवगुण्ठनम् । ततस्त्वां भर्ताभिज्ञास्यति ।
(इति यथोक्तं करोति)
राजा -- (शकुन्तलां निर्वर्ण्य । आत्मगतम्)
इदमुपनतमेवं रूपमक्लिष्टकान्ति
प्रथमपरिगृहीतं स्यान्न वेत्यव्यवस्यन् ।
भ्रमर इव विभाते कुन्दमन्तस्तुषारं
न च खलु परिभोक्तुं नापि शक्नोमि हातुम् ॥ १९॥
(इति विचारयन्स्थितः)
प्रतीहारी -- (स्वगतम्)
अहो धर्मापेक्षिता भर्तुः । ईदृशं नाम सुखोपनतं रूपं दृष्ट्वा
कोऽन्यो विचारयति ।
शार्ङ्गरवः -- भो राजन् किमिति जोषमास्यते ।
राजा -- भोस्तपोधनाः चिन्तयन्नपि न खलु स्वीकरणमत्रभवत्याः
स्मरामि । तत्कथमिमामभिव्यक्तसत्त्वलक्षणां प्रत्यात्मानं
क्षेत्रिणमाशङ्कमानः प्रतिपत्स्ये ।
शकुन्तला -- (अपवार्य)
आर्यस्य परिणय एव सन्देहः । कुत इदानीं मे दूराधिरोहिण्याशा ।
शार्ङ्गरवः-- मा तावत् ।
कृताभिमर्शामनुमन्यमानः सुतां त्वया नाम मुनिर्विमान्यः ।
मुष्टं प्रतिग्राहयता स्वमर्थं पात्रीकृतो दस्युरिवासि येन ॥ २०॥
शारद्वतः -- शार्ङ्गरव विरम त्वमिदानीम् । शकुन्तले
वक्तव्यमुक्तमस्माभिः । सोऽयमत्रभवानेवमाह ।
दीयतामस्मै प्रत्ययप्रतिवचनम् ।
शकुन्तला -- (अपवार्य)
इदमवस्थान्तरं गते तादृशेऽनुरागे किं वा स्मारितेन । आत्मेदानीं
मे शोचनीय इति व्यवसितमेतत् ।
(प्रकाशम्)
आर्यपुत्र -
(इत्यर्धोक्ते)
संशयित इदानीं परिणये नैष समुदाचारः ।
पौरव युक्तं नाम ते तथा पुराश्रमपदे स्वभावोत्तानहृदयमिमं
जनं समयपूर्वं प्रतार्य साम्प्रतमीदृशैरक्षरैः प्रत्याख्यातुम् ।
राजा -- (कर्णौ विधाय)
शान्तं पापम् ।
व्यपदेशमाविलयितुं किमीहसे जनमिमं च पातयितुम् ।
कूलङ्कषेव सिन्धुः प्रसन्नमम्भस्तटतरुं च ॥ २१॥
शकुन्तला -- भवतु । यदि परमार्थतः परपरिग्रहशङ्किना
त्वयैवं प्रवृत्तं तदभिज्ञानेनानेन तवाशङ्कामपनेष्यामि ।
राजा -- उदारः कल्पः ।
शकुन्तला -- (मुद्रास्थानं परामृश्य)
हा धिक् हा धिक् । अङ्गुलीयकशून्या मेऽङ्गुलिः ।
(इति सविषादं गौतमीमवेक्षते)
गौतमी -- नूनं ते शक्रावताराभ्यन्तरे शचीतीर्थसलिलं
वन्दमानायाः प्रभ्रष्टमङ्गुलीयकम् ।
राजा -- (सस्मितम्)
इदं तत्प्रत्युत्पन्नमति स्त्रैणमिति यदुच्यते ।
शकुन्तला -- अत्र तावद्विधिना दर्शितं प्रभुत्वम् । अपरं ते
कथयिष्यामि ।
राजा -- श्रोतव्यमिदानीं संवृत्तम् ।
शकुन्तला -- नन्वेकस्मिन्दिवसे नवमालिकामण्डपे
नलिनीपत्रभाजनगतमुदकं तव हस्ते सन्निहितमासीत् ।
राजा -- शृणुमस्तावत् ।
शकुन्तला -- तत्क्षणे स मे पुत्रकृतको दीर्घापाङ्गो नाम मृगपोतक
उपस्थितः । त्वयायं तावत्प्रथमं पिबत्वित्यनुकम्पिनोपच्छन्दित उदकेन ।
न पुनस्तेऽपरिचयाद्धस्ताभ्यासमुपगतः । पश्चात्तस्मिन्नेव मया
गृहीते सलिलेऽनेन कृतः प्रणयः । तदा त्वमित्थं प्रहसितोऽसि ।
सर्वः सगन्धेषु विश्वसिति । द्वावप्यत्रारण्यकाविति ।
राजा --
एवमादिभिरात्मकार्यनिर्वर्तिनीनामनृतमयवाङ्मधुभिराकृष्यन्ते
विषयिणः ।
गौतमी -- महाभाग नार्हस्येवं मन्त्रयितुम् ।
तपोवनसंवर्धितोऽनभिज्ञोऽयं जनः कैतवस्य ।
राजा -- तापसवृद्धे ।
स्त्रीणामशिक्षितपटुत्वममानुषीषु
सन्दृश्यते किमुत याः प्रतिबोधवत्यः ।
प्रागन्तरिक्षगमनास्त्वमपत्यजातमन्यैर्द्विजैः
परभृताः खलु पोषयन्ति ॥ २२॥
शकुन्तला -- (सरोषम्)
अनार्य आत्मनो हृदयानुमानेन प्रेक्षसे । क इदानीमन्यो
धर्मकञ्चुकप्रवेशिनस्तृणच्छन्नकूपोपमस्य तवानुकृतिं
प्रतिपत्स्यते ।
राजा -- (आत्मगतम्)
सन्दिग्धबुद्धिं मां कुर्वन्नकैतव इवास्याः कोपो लक्ष्यते । तथा ह्यनया
मय्येव विस्मरणदारुणचित्तवृत्तौ
वृत्तं रहः प्रणयमप्रतिपद्यमाने ।
भेदाद्भ्रुवोः कुटिलयोरतिलोहिताक्ष्या
भग्नं शरासनमिवातिरुषा स्मरस्य ॥ २३॥
(प्रकाशम्)
भद्रे प्रथितं दुष्यन्तस्य चरितम् । तथापीदं न दृश्यते ।
शकुन्तला -- सुष्ठु तावदत्र स्वच्छन्दचारिणी कृतास्मि
याहमस्य पुरुवंशप्रत्ययेन मुखमधोर्हृदयविषस्य
हस्ताभ्यासमुपगता ।
शार्ङ्गरवः -- इत्थमात्मकृतं चापलं दहति ।
अतः परीक्ष्य कर्तव्यं विशेषात्सङ्गतं रहः ।
अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम् ॥ २४॥
राजा -- अयि भोः किमत्रभवतीप्रत्ययादेवास्मान्संयुतदोषाक्षरैः
क्षिणुथ ।
शार्ङ्गरवः --(सासूयम्)
श्रुतं भवद्भिरधरोत्तरम् ।
आ जन्मनः शाठ्यमशिक्षितो यस्तस्याप्रमाणं वचनं जनस्य ।
परातिसन्धानमधीयते यैर्विद्येति ते सन्तु किलाप्तवाचः ॥ २५॥
राजा -- भोः सत्यवादिन् अभ्युपगतं तावदस्माभिरेवम् । किं
पुनरिमामतिसन्धाय लभ्यते ।
शार्ङ्गरवः -- विनिपातः ।
राजा -- विनिपातः पौरवैः प्रार्थ्यत इति न श्रद्धेयमेतत् ।
शारद्वतः-- शार्ङ्गरव किमुत्तरेण । अनुष्ठितो गुरोः सन्देशः ।
प्रतिनिवर्तामहे वयम् ।
(राजानं प्रति)
तदेषा भवतः कान्ता त्यज वैनां गृहाण वा ।
उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी ॥ २६॥
गौतमि गच्छाग्रतः ।
(इति प्रस्थिताः)
शकुन्तला -- कथमनेन कितवेन विप्रलब्धास्मि । यूयमपि मां
परित्यजथ ।
(इत्यनुप्रतिष्ठते)
गौतमी -- (स्थित्वा)
वत्स शार्ङ्गरव अनुगच्छतीयं खलु नः करुणपरिदेविनी शकुन्तला ।
प्रत्यादेशपरुषे भर्तरि किं वा मे पुत्रिका करोतु ।
शार्ङ्गरवः -- (सरोषं निवृत्य)
किं पुरोभागे स्वातन्त्र्यमवलम्बसे ।
(शकुन्तला भीता वेपते)
शार्ङ्गरवः -- शकुन्तले ।
यदि यथा वदति क्षितिपस्तथा त्वमसि किं पितुरुत्कुलया त्वया ।
अथ तु वेत्सि शुचि व्रतमात्मनः पतिकुले तव दास्यमपि क्षमम् ॥ २७॥
तिष्ठ । साधयामो वयम् ।
राजा -- भोस्तपस्विन् किमत्रभवतीं विप्रलभसे ।
कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव ।
वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः ॥ २८॥
शार्ङ्गरवः -- यदा तु पूर्ववृत्तमन्यसङ्गाद्विस्मृतो भवांस्तदा
कथमधर्मभीरुः ।
राजा -- भवन्तमेवात्र गुरुलाघवं पृच्छामि ।
मूढः स्यामहमेषा वा वदेन्मिथ्येति संशये ।
दारत्यागी भवाम्याहो परस्त्रीस्पर्शपांसुलः ॥ २९॥
पुरोहितः -- (विचार्य)
यदि तावदेवं क्रियताम् ।
राजा -- अनुशास्तु मां भवान् ।
पुरोहितः -- अत्रभवती तावदाप्रसवादस्मद्गृहे तिष्ठतु । कुत
इदमुच्यत इति चेत् । त्वं साधुभिरादिष्टपूर्वः प्रथममेव
चक्रवर्तिनं पुत्रं जनयिष्यसीति । स चेन्मुनिदौहित्रस्तल्लक्षणोपपन्नो
भविष्यति अभिनन्द्य शुद्धान्तमेनां प्रवेशयिष्यसि । विपर्यये तु
पितुरस्याः समीपनयनमवस्थितमेव ।
राजा -- यथा गुरुभ्यो रोचते ।
पुरोहितः -- वत्से अनुगच्छ माम् ।
शकुन्तला -- भगवति वसुधे देहि मे विवरम् ।
(इति रुदती प्रस्थिता । निष्क्रान्ता सह पुरोधसा तपस्विभिश्च)
(राजा शापव्यवहितस्मृतिः शकुन्तलागतमेव चिन्तयति)
(नेपथ्ये)
आश्चर्यमाश्चर्यम् ।
राजा -- (आकर्ण्य)
किं नु खलु स्यात् ।
(प्रविश्य)
पुरोहितः -- (सविस्मयम्)
देव अद्भुतं खलु संवृत्तम् ।
राजा -- किमिव ।
पुरोहितः -- देव परावृत्तेषु कण्वशिष्येषु -
सा निन्दन्ती स्वानि भाग्यानि बाला बाहूत्क्षेपं क्रन्दितुं च प्रवृत्ता ।
राजा -- किं च ।
पुरोहितः --
स्त्रीसंस्थानं चाप्सरस्तीर्थमारादुत्क्षिप्यैनां ज्योतिरेकं जगाम ॥ ३०॥
(सर्वे विस्मयं रूपयन्ति)
राजा -- भगवन् प्रागपि सोऽस्माभिरर्थः प्रत्यादिष्ट एव । किं
वृथा तर्केणान्विष्यते । विश्राम्यतु भवान् ।
पुरोहित -- (विलोक्य)
विजयस्व ।
(इति निष्क्रान्तः)
राजा -- वेत्रवति पर्याकुलोऽस्मि । शयनभूमिमार्गमादेशय ।
प्रतीहारी -- इत इतो देवः ।
(इति प्रस्थिता)
राजा --
कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् ।
बलवत्तु दूयमानं प्रत्याययतीव मां हृदयम् ॥ ३१॥
(इति निष्क्रान्ताः सर्वे)
(इति पञ्चमोऽङ्कः ।)
षष्ठोऽङ्कः ।
(ततः प्रविशति नागरिकः श्यालः पश्चाद्बद्धं पुरुषमादाय
रक्षिणौ च)
रक्षिणौ -- (पुरुषं ताडयित्वा)
अरे कुम्भीरक कथय कुत्र त्वयेतन्मणिबन्धनोत्कीर्णनामधेयं
राजकीयमङ्गुलीयकं समासादितम् ।
पुरुषः -- (भीतिनाटितकेन)
प्रसीदन्तु भावमिश्राः । नाहमीदृशकर्मकारी ।
प्रथमः -- किं शोभनो ब्राह्मण इति कृत्वा
(कलयित्वा)
राज्ञा प्रतिग्रहो दत्तः ।
पुरुषः -- शृणुतेदानीम् । अहं शक्रावताराभ्यन्तरवासी
धीवरः ।
द्वितियः --पाटच्चर किमस्माभिर्जातिः पृष्टा ।
श्यालः -- सूचक कथयतु सर्वननुक्रमेण । मैनमन्तरा
प्रतिबध्नीतम् ।
उभौ -- यदावुत्त आज्ञापयति । कथय ।
पुरुषः -- अहं जालोद्गालादिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरणं
करोमि ।
श्यालः -- (विहस्य)
विशुद्ध इदानीमाजीवः ।
पुरुषः -- भर्तः मा एवं भण ।
सहजं किल यद्विनिन्दितं न खलु तत्कर्म विवर्जनीयम् ।
पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव श्रोत्रियः ॥ १॥
श्यालः -- ततस्ततः ।
पुरुषः -- एकस्मिन्दिवसे खण्डशो रोहितमत्स्यो मया कल्पितः ।
यावत्तस्योदराभ्यन्तरे प्रेक्षे तावदिदं रत्नभासुरमङ्गुलीयकं
दृष्टम् । पश्चादहमस्य विक्रयाय दर्शयन्गृहीतो भावमिश्रैः ।
मारयत वा मुञ्चत वा । अयमस्यागमवृत्तान्तः ।
श्यालः -- जानुक विस्रगन्धी गोधादी मत्स्यबन्ध एव निःसंशयम् ।
अङ्गुलीयकदर्शनमस्य विमर्शयितव्यम् । राजकुलमेव गच्छामः ।
रक्षिणौ -- तथा । गच्छ अरे ग्रन्थिभेदक ।
(सर्वे परिक्रामन्ति)
श्यालः -- सूचक इमं गोपुरद्वारेऽप्रमत्तौ प्रतिपालयतं
यावदिदमङ्गुलीयकं यथागमनं भर्ते निवेद्य ततः शासनं प्रतीष्य
निष्क्रामामि ।
उभौ -- प्रविशत्वावुत्तः स्वामिप्रसादाय ।
(इति निष्क्रान्तः श्यालः)
प्रथमः -- जानुक चिरायते खल्वावुत्तः ।
द्वितीयः -- नन्ववसरोपसर्पणीया राजानः ।
प्रथमः -- जानुक स्फुरतो मम हस्तावस्य वधस्य सुमनसः पिनद्धुम् ।
(इति पुरुषं निर्दिशति)
पुरुषः -- नार्हति भावोऽकारणमारणो भवितुम् ।
द्वितीयः -- (विलोक्य)
एष नौ स्वामी पत्रहस्तो राजशासनं प्रतीष्येतोमुखो दृश्यते ।
गृध्रबलिर्भविष्यसि शुनो मुखं वा द्रक्ष्यासि ।
(प्रविश्य)
श्यालः -- सूचक मुच्यतामेष जालोपजीवी । उपपन्नः
खल्वस्याङ्गुलीयकस्यागमः ।
सूचकः -- यथावुत्तो भणति । एष यमसदनं प्रविश्य
प्रतिनिवृत्तः ।
(इति पुरुषं परिमुक्तबन्धनं करोति)
पुरुषः -- (श्यालं प्रणम्य)
भर्तः अथ कीदृशो म आजीवः ।
श्यालः -- एष भर्त्राङ्गुलीयकमूल्यसम्मितः प्रसादोऽपि दापितः ।
(इति पुरुषाय स्वं प्रयच्छति)
पुरुषः -- (सप्रणामं प्रतिगृह्य)
भर्तः अनुगृहीतोऽस्मि ।
सूचकः -- एष नामानुग्रहो यच्छूलादवतार्य हस्तिस्कन्धे
प्रतिष्ठापितः ।
जानुक -- आवुत्त पारितोषिकं कथयति तेनाङ्गुलीयकेन भर्तुः
सम्मतेन भवितव्यमिति ।
श्यालः -- न तस्मिन्महार्हं रत्नं भर्तुर्बहुमतमिति तर्कयामि । तस्य
दर्शनेन भर्त्राऽभिमतो जनः स्मृतः । मुहूर्तं प्रकृतिगम्भीरोऽपि
पर्यश्रुनयन आसीत् ।
सूचकः -- सेवितं नामावुत्तेन ।
जानुकः -- ननु भण । अस्य कृते मात्स्यिकभर्तुरिति ।
(इति पुरुषमसूयया पश्यति)
पुरुषः -- भट्टारक इतोऽर्धं युष्माकं सुमनोमूल्यं भवतु ।
जानुकः -- एतावद्युज्यते ।
श्यालः -- धीवर महत्तरस्त्वं प्रियवयस्यक इदानीं मे संवृत्तः ।
कादम्बरीसाक्षिकमस्माकं प्रथमसौहृदमिष्यते । तच्छौण्डिकापणमेव
गच्छामः ।
(इति निष्क्रान्ताः सर्वे)
प्रवेशकः ।
(ततः प्रविशत्याकाशयानेन सानुमती नामाप्सराः)
सानुमती -- निर्वर्तितं मया
पर्यायनिर्वर्तनीयमप्सरस्तीर्थसांनिध्यं
यावत्साधुजनस्यभिषेककाल इति साम्प्रतमस्य राजर्षेरुदन्तं
प्रत्यक्षीकरिष्यामि । मेनकासम्बन्धेन शरीरभूता मे शकुंतला ।
तया च दुहितृनिमित्तमादिष्टपूर्वास्मि ।
(समन्तादवलोक्य)
किं नु खलु ऋतूत्सवेऽपि निरुत्सवारम्भमिव राजकुलं दृश्यते । अस्ति
मे विभवः प्रणिधानेन सर्वं परिज्ञातुम् । किं तु सख्या आदरो मया
मानयितव्यः । भवतु । अनयोरेवोद्यानपालिकयोस्तिरस्करिणीप्रतिच्छन्ना
पार्श्ववर्तिनी भूत्वोपलप्स्ये ।
(इति नाट्येनावतीर्य स्थिता)
(ततः प्रविशति चूताङ्कुरमवलोकयन्ती चेटी । अपरा च
पृष्ठतस्तस्याः)
प्रथमा --
आताम्रहरितपाण्डुर जीवितसर्वं वसन्तमासस्य (योः) ।
दृष्टोऽसि चूतकोरक ऋतुमङ्गल त्वां प्रसादयामि ॥ २॥
द्वितीया -- परभृतिके किमेकाकिनी मन्त्रयसे ।
प्रथमा -- मधुकरिके चूतकलिकां दृष्ट्त्वोन्मत्ता परभृतिका
भवति ।
द्वितीया -- (सहर्षं त्वरयोपगम्य)
कथमुपस्थितो मधुमासः ।
प्रथमा -- मधुकरिके तवेदानीं काल एष मदविभ्रमगीतानाम् ।
द्वितीया -- सखि अवलम्बस्व मां यावदग्रपादस्थिता भूत्वा
चूतकलिकां गृहीत्वा कामदेवार्चनं करोमि ।
प्रथमा -- यदि ममापि खल्वर्धमर्चनफलस्य ।
द्वितीया -- अकथितेऽप्येतत्सम्पद्यते यत एकमेव नौ जीवीतं
द्विधास्थितं शरीरम् ।
(सखीमवलम्ब्य स्थिता चूताङ्कुरं गृह्णाति)
अये अप्रतिबुद्धोऽपि चूतप्रसवोऽत्र बन्धनभङ्गसुरभिर्भवति ।
(इति कपोतहस्तकं कृत्वा)
त्वमसि मया चूताङ्कुर दत्तः कामाय गृहीतधनुषे ।
पथिकजनयुवतिलक्ष्यः पञ्चाभ्यधिकः शरो भव ॥ ३॥
(इति चूताङ्कुरं क्षिपति)
(प्रविश्यापटीक्षेपेण कुपितः) ।
कञ्चुकी -- मा तावदनात्मज्ञे । देवेन प्रतिषिद्धे वसन्तोत्सवे
त्वमाम्रकलिकाभङ्गं किमारभसे ।
उभे -- (भीते)
प्रसीदत्वार्यः । अगृहीतार्थे आवाम् ।
कञ्चुकी -- न किल श्रुतं युवाभ्यां यद्वासन्तिकैस्तरुभिरपि देवस्य
शासनं प्रमाणीकृतं तदाश्रयिभिः पत्रिभिश्च । तथा हि
चूतानां चिरनिर्गतापि कलिका बध्नाति न स्वं रजः
सन्नद्धं यदपि स्थितं कुरबकं तत्कोरकावस्थया ।
कण्ठेषु स्खलितं गतेऽपि शिशिरे पुंस्कोकिलानां रुतं
शङ्के संहरति स्मरोऽपि चकितस्तूणार्धकृष्टं शरम् ॥ ४॥
सनुमती -- नास्ति संदेहः । महाप्रभावो राजर्षिः ।
प्रथमा -- आर्य कति दिवसान्यावयोर्मित्रावसुना राष्ट्रियेण
भट्टिनीपादमूलं प्रेषितयोः । अत्र च नौ प्रमदवनस्य पालनकर्म
समर्पितम् । तदागन्तुकतयाऽश्रुतपूर्व आवाभ्यामेष वृत्तान्तः ।
कञ्चुकी -- भवतु । न पुनरेवं प्रवर्तितव्यम् ।
उभे -- आर्य कौतूहलं नौ । यद्यनेन जनेन श्रोतव्यं कथयत्वार्यः
किन्निमित्तं भर्त्रा वसन्तोत्सवः प्रतिषिद्धः ।
सानुमती -- उत्सवप्रियाः खलु मनुष्याः । गुरुणा कारणेन
भवितव्यम् ।
कञ्चुकी -- बहुलीभूतमेतत्किं न कथ्यते । किमत्रभवत्योः कर्णपथं
नायातं शकुंतलाप्रत्यादेशकौलीनम् ।
उभे -- श्रुतं राष्ट्रियमुखाद्यावदङ्गुलीयकदर्शनम् ।
कञ्चुकी -- तेन ह्यल्पं कथयितव्यम् । यदैव खलु
स्वाङ्गुलीयकदर्शनादनुस्मृतं देवेन सत्यमूढपूर्वा मे तत्रभवती
रहसि शकुंतला मोहात्प्रत्यादिष्टेति तदाप्रभृत्येव
पश्चात्तापमुपगतो देवः । तथा हि
रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते
शय्याप्रान्तविवर्तनैर्विगमयत्युन्निद्र एव क्षपाः ।
दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा गोत्रेषु
स्खलितस्तदा भवति च व्रीडाविलक्षश्चिरम् ॥ ५॥
सानुमती -- प्रियं मे ।
कञ्चुकी -- अस्मात्प्रभवतो वैमनस्यादुत्सवः प्रत्याख्यातः ।
उभे -- युज्यते ।
(नेपथ्ये)
एतु एतु भवान् ।
कञ्चुकी -- (कर्णं दत्त्वा)
अये । इत एवाभिवर्तते देवः । स्वकर्मानुष्ठीयताम् ।
उभे -- तथा ।
(इति निष्क्रान्ते)
(ततः प्रविशति पश्चात्तापसदृशवेषो राजा विदूषकः
प्रतीहारी च ।)
कञ्चुकी -- (राजानमवलोक्य)
अहो सर्वास्ववस्थासु रमणीयत्वमाकृतिविशेषाणाम् । एवमुत्सुकोऽपि
प्रियदर्शनो देवः । तथा हि
प्रत्यादिष्टविशेषमण्डनविधिर्वामप्रकोष्ठार्पितं
बिभ्रत्काञ्चनमेकमेव वलयं श्वासोपरक्ताधरः ।
चिन्ताजागरणप्रतान्तनयनस्तेजोगुणादात्मनः
संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते ॥ ६॥
सानुमती -- (राजानं दृष्ट्वा)
स्थाने खलु प्रत्यादेशविमानिताऽप्यस्य कृते शकुंतला क्लाम्यति ।
राजाः -- (ध्यानमन्दं परिक्रम्य)
प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानमपि सुप्तम् ।
अनुशयदुःखायेदं हतहृदयं सम्प्रति विबुद्धम् ॥ ७॥
सानुमती -- नन्वीदृशानि तपस्विन्या भागधेयानि ।
विदूषकः -- (अपवार्य)
लङ्घित एष भूयोऽपि शकुंतलाव्याधिना । न जाने कथं
चिकित्सितव्यो भविष्यतीति ।
कञ्चुकी -- (उपगम्य)
जयतु जयतु देवः । महाराज प्रत्यवेक्षिताः प्रमदवनभूमयः
यथाकाममध्यास्तां विनोदस्थानानि महाराजः ।
राजाः -- वेत्रवति मद्वचनादमात्यमार्यपिशुनं ब्रूहि ।
चिरप्रबोधान्न सम्भावितमस्माभिरद्य धर्मासनमध्यासितुम् ।
यत्प्रत्यवेक्षितं पौरकार्यमार्येण तत्पत्रमारोप्य दीयतामिति ।
प्रतीहारी -- यद्देव आज्ञापयति ।
(इति निष्क्रान्ता)
राजाः -- वातायन त्वमपि स्वं नियोगमशून्यं कुरु ।
कञ्चुकी -- यदाज्ञापयति देवः ।
(इति निष्क्रान्तः)
विदूषकः -- कृतं भवता निर्मक्षिकम् । साम्प्रतं
शिशिरातपच्छेदरमणीयेऽस्मिन्प्रमदवनोद्देश आत्मानं रमयिष्यसि ।
राजाः -- वयस्य यदुच्यते रन्ध्रोपनिपातिनोऽनर्था इति तद्व्यभिचारि
वचः । कुतः
मुनिसुताप्रणयस्मृतिरोधिना मम च मुक्तमिदं तमसा मनः ।
मनसिजेन सखे प्रहरिष्यता धनुषि चूतशरश्च निवेशितः ॥ ८॥
विदूषकः -- तिष्ठ तावत् । अनेन दण्डकाष्ठेन कन्दर्पबाणं
नाशयिष्यामि ।
(इति दण्डकाष्ठमुद्यम्य चूताङ्कुरं पातयितुमिच्छति)
राजाः -- (सस्मितम्)
भवतु । दृष्टं ब्रह्मवर्चसम् । सखे क्वोपविष्टः प्रियायाः
किंचिदनुकारिणीषु लतासु दृष्टिं विलोभयामि ।
विषूषक -- नन्वासन्नपरिचारिका चतुरिका भवता संदिष्टा ।
माधवीमण्डप इमां वेलामतिवाहयिष्ये । तत्र मे चित्रफलकगतां
स्वहस्तलिखितां तत्रभवत्याः शकुंतलायाः प्रतिकृतिमानयेति ।
राजाः -- ईदृशं हृदयविनोदनस्थानम् । तत्तमेव मार्गमादेशय ।
विदूषकः -- इत इतो भवान् ।
(उभौ परिक्रमतः । सानुमत्यनुगच्छति)
विदूषकः -- एष मणिशिलापट्टकसनाथो माधवीमण्डप
उपहाररमणीयतया निःसंशयं स्वागतेनेव नौ प्रतीच्छति ।
तत्प्रविश्य निषीदतु भवान् ।
(उभौ प्रवेशं कृत्वोपविष्टौ)
सानुमती -- लतासंश्रिता द्रक्ष्यामि तावत्सख्याः प्रतिकृतम् ।
ततस्तस्यै भर्तुर्बहुमुखमनुरागं निवेदयिष्यामि ।
(इति तथा कृत्वा स्थिता)
राजाः -- सखे सर्वमिदानीं स्मरामि शकुंतलायाः
प्रथमवृत्तान्तम् । कथितवानस्मि भवते च । स
भवान्प्रत्यादेशवेलायां मत्समीपगतो नासीत् । पूर्वमपि न त्वया
कदाचित्संकीर्तितं तत्रभवत्या नाम । कच्चिदहमिव विस्मृतवानसि
त्वम् ।
विदूषकः -- न विस्मरामि । किं तु सर्वं कथयित्वावसाने पुनस्त्वया
परिहासविजल्प एष न भूतार्थ इत्याख्यातम् । मयापि
मृत्पिण्डबुद्धिना तथैव गृहीतम् । अथवा भवितव्यता खलु
बलवती ।
सानुमती -- एवं न्विदम् ।
राजाः -- (ध्यात्वा)
सखे त्रायस्व माम् ।
विदूषकः -- भोः किमेतत् । अनुपपन्नं खल्वीदृशं त्वयि । कदापि
सत्पुरुषाः शोकवास्तव्या न भवन्ति । ननु प्रवातेऽपि निष्कम्पा
गिरयः ।
राजाः -- वयस्य निराकरणविक्लवायाः प्रियायाः समवस्थामनुस्मृत्य
बलवदशरणोऽस्मि । सा हि
इतः प्रत्यादेशात्स्वजनमनुगन्तुं व्यवसिता
स्थिता तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे ।
पुनर्दृष्टिं बाष्पप्रसरकलुषामर्पितवती मयि
क्रूरे यत्तत्सविषमिव शल्यं दहति माम् ॥ ९॥
सानुमती -- अहो । ईदृशी स्वकार्यपरता । अस्य संतापेनाहं रमे ।
विदूषकः -- भोः अस्ति मे तर्कः केनापि तत्रभवत्याकाशचारिणा
नीतेति ।
राजाः -- कः पतिदेवतामन्यः परामर्ष्टुमुत्सहेत । मेनका किल
सख्यास्ते जन्मप्रतिष्ठेति श्रुतवानस्मि । तत्सहचारिणीभिः सखी ते
हृतेति मे हृदयमाशङ्कते ।
सानुमती -- सम्मोहः खलु विस्मयनीयो न प्रतिबोधः ।
विदूषकः -- यद्येवमस्ति खलु समागमः कालेन तत्रभवत्या ।
राजाः -- कथमिव ।
विदूषकः -- न खलु मातापितरौ भर्तृवियोगदुःखितां दुहितरं
चिरं द्रष्टुं पारयतः ।
राजाः -- वयस्य ।
स्वप्नो नु माया नु मतिभ्रमो नु क्लिष्टं नु तावत्फलमेव पुण्यम् ।
असन्निवृत्त्यै तदतीतमेते मनोरथा नाम तटप्रपाताः ॥ १०॥
विदूषकः -- मैवम् । नन्वङ्गुलीयकमेव निदर्शनमवश्यं
भाव्यचिन्तनीयः समागमो भवतीति ।
राजाः -- (अङ्गुलीयकं विलोक्य)
अये इदं तावदसुलभस्थानभ्रंशि शोचनीयम् ।
तव सुचरितमङ्गुलीय नूनं प्रतनु ममेव विभाव्यते फलेन ।
अरुणनखमनोहरासु तस्याश्च्युतमसि लब्धपदं यदङ्गुलीषु ॥ ११॥
सानुमती -- यद्यन्यहस्तगतं भवेत्सत्यमेव शोचनीयं भवेत् ।
विदूषकः -- भोः इयं नाममुद्रा केनोध्दातेन तत्रभवत्या
हस्ताभ्यासं प्रापिता ।
सानुमती -- ममापि कौतूहलेनाकारित एषः ।
राजाः -- श्रूयताम् । स्वनगराय प्रस्थितं मां प्रिया
सबाष्पमाह कियच्चिरेणार्यपुत्रः प्रतिपत्तिं दास्यतीति ।
विदूषकः -- ततस्ततः ।
राजाः -- पश्चादिमां मुद्रां तदङ्गुलौ निवेशयता मया
प्रत्यभिहिता ।
एकैकमत्र दिवसे दिवसे मदीयं नामाक्षरं गणय गच्छसि यावदन्तम् ।
तावत्प्रिये मदवरोधगृहप्रवेशं नेता जनस्तव समीपमुपैष्यतीति
॥ १२॥
तच्च दारुणात्मना मया मोहान्नानुष्ठितम् ।
सानुमती -- रमणीयः खल्ववधिर्विधिना विसंवादितः ।
विदूषकः -- अथ कथं धीवरकल्पितस्य रोहितमत्स्यस्योदराभ्यन्तर
आसीत् ।
राजाः -- शचीतीर्थं वन्दमानायाः सख्यास्ते
हस्ताद्गङ्गास्रोतसि परिभ्रष्टम् ।
विदूषकः -- युज्यते ।
सानुमती -- अत एव तपस्विन्याः शकुंतलाया अधर्मभीरोरस्य
राजर्षेः परिणये संदेह आसीत् ।
अथ वेदृशोऽनुरागोऽभिज्ञानमपेक्षते । कथमिवैतत् ।
राजाः -- उपालप्स्ये तावदिदमङ्गुलीयकम् ।
विदूषकः -- (आत्मगतम्)
गृहीतोऽनेन पन्था उन्मत्तानाम् ।
राजाः -- कथं नु तं बन्धुरकोमलाङ्गुलिं करं विहायासि
निमग्नमम्भसि । अथवा ।
अचेतनं नाम गुणं न लक्षयेन्मयैव कस्मादवधीरिता प्रिया ॥ १३॥
विदूषकः -- (आत्मगतम्)
कथं बुभुक्षया खादितव्योऽस्मि ।
राजाः -- प्रिये
अकारणपरित्यागानुशयतप्तहृदयस्तावदनुकम्प्यतामयं जनः
पुनर्दर्शनेन ।
(प्रविश्यापटीक्षेपेण चित्रफलकहस्ता)
चतुरिका -- इयं चित्रगता भट्टिनी ।
(इति चित्रफलकं दर्शयति)
विदूषकः -- (विलोक्य)
साधु वयस्य । मधुरावस्थानदर्शनीयो भावानुप्रवेशः । स्खलतीव
मे दृष्टिर्निम्नोन्नतप्रदेशेषु ।
सानुमती -- अहो एषा राजर्षेर्निपुणता । जाने सख्यग्रतो मे वर्तत
इति ।
राजाः --
यद्यत्साधु न चित्रे स्यात्क्रियते तत्तदन्यथा ।
तथापि तस्या लावण्यं रेखया किञ्चिदन्वितम् ॥ १४॥
सानुमती -- सदृशमेतत्पश्चात्तापगुरोः स्नेहस्यानवलेपस्य च ।
विदूषकः -- भोः इदानीं तिस्रस्तत्रभवत्यो दृश्यन्ते । सर्वाश्च
दर्शनीयाः । कतमाऽत्र तत्रभवती शकुंतला ।
सानुमती -- अनभिज्ञः खल्वीदृशस्य रूपस्य मोघदृष्टिरयं जनः ।
राजाः -- त्वं तावत्कतमां तर्कयसि ।
विदूषकः -- तर्कयामि यैषा शिथिलबन्धनोद्वान्तकुसुमेन
केशान्तेनोद्भिन्नस्वेदबिन्दुना वदनेन विशेषतोऽपसृताभ्यां
बाहुभ्यामवसेकस्निग्धतरुणपल्लवस्य चूतपादपस्य पार्श्व
इषत्परिश्रान्तेवालिखिता सा शकुंतला । इतरे सख्याविति ।
राजाः -- निपुणो भवान् । अस्त्यत्र मे भावचिह्नम् ।
स्विन्नाङ्गुलिविनिवेशो रेखाप्रान्तेषु दृश्यते मलिनः ।
अश्रु च कपोलपतितं दृश्यमिदं वर्णिकोच्छ्वासात् ॥ १५॥
चतुरिके अर्धलिखितमेतद्विनोदस्थानम् । गच्छ । वर्तिकां तावदानय ।
चतुरिका -- आर्य माधव्य अवलम्बस्व चित्रफलकं यावदागच्छामि ।
राजाः -- अहमेवैतदवलम्बे ।
(इति यथोक्तं करोति)
(निष्क्रान्ता चेटि)
राजाः -- (निःश्वस्य)
साक्षात्प्रियामुपगतामपहाय पूर्वं चित्रार्पितां पुनरिमां बहु
मन्यमानः ।
स्त्रोतोवहां पथि निकामजलामतीत्य जातः सखे
प्रणयवान्मृगतृष्णिकायाम् ॥ १६॥
विदूषकः -- (आत्मगतम्)
एषोऽत्रभवान्नदीमतिक्रम्य मृगतृष्णिकां सङ्क्रान्तः ।
(प्रकाशम्)
भोः अपरं किमत्र लेखितव्यम् ।
सानुमति -- यो यः प्रदेशः सख्या मेऽभिरूपस्तं तमालेखितुकामो
भवेत् ।
राजाः -- श्रूयताम् ।
कार्या सैकतलीनहंसमिथुना स्रोतोवहा मालिनी
पादास्तामभितो निषण्णहरिणा गौरीगुरोः पावनाः ।
शाखालम्बितवल्कलस्य च तरोर्निर्मातुमिच्छाम्यधः
शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् ॥ १७॥
विदूषकः -- (आत्मगतम्)
यथाहं पश्यामि पूरितव्यमनेन चित्रफलकं लम्बकूर्चानां
तापसानां कदम्बैः ।
राजाः -- वयस्य अन्यश्च । शकुंतलायाः प्रसाधनमभिप्रेतमत्र
विस्मृतमस्माभिः ।
विदूषकः -- किमिव ।
सानुमती -- वनवासस्य सौकुमार्यस्य विनयस्य च यत्सदृशं
भविष्यति ।
राजाः --
कृतं न कर्णार्पितबन्धनं सखे शिरीषमागण्डविलम्बिकेसरम् ।
न वा शरच्चन्द्रमरीचिकोमलं मृणालसूत्रं रचित स्तनान्तरे ॥
१८ ॥
विदूषकः -- भोः किं नु तत्रभवती
रक्तकुवलयपल्लवशोभिनाऽग्रहस्तेन मुखमावार्य चकितचकितेव
स्थिता ।
(सावधानं निरूप्य दृष्ट्वा)
आः एष दास्याःपुत्रः कुसुमरसपाटच्चरस्तत्रभवत्या
वदनकमलमभिलङ्घते मधुकरः ।
राजाः -- ननु वार्यतामेष धृष्टः ।
विदूषकः -- भवानेवाविनीतानां शासिताऽस्य वारणे
प्रभविष्यति ।
राजाः -- युज्यते । अयि भोः कुसुमलताप्रियातिथे किमत्र
परिपतनखेदमनुभवसि ।
एषा कुसुमनिषण्णा तृषितापि सती भवन्तमनुरक्ता
प्रतिपालयति मधुकरी न खलु मधु विना त्वया पिबति ॥ १९॥
सानुमती -- अद्याभिजातं खल्वेष वारितः ।
विदूषकः -- प्रतिषिद्धापि वामैषा जातिः ।
राजाः -- एवं भो न मे शासने तिष्ठसि । श्रूयतां तर्हि सम्प्रति ।
अक्लिष्टबालतरुपल्लवलोभनीयं पीतं मया सदयमेव रतोत्सवेषु ।
बिम्बाधरं स्पृशसि चेद्भ्रमर प्रियायास्त्वां कारयामि
कमलोदरबन्धनस्थम् ॥ २०॥
विदूषकः -- एवं तीक्ष्णदण्डस्य किं न भेष्यति ।
(प्रहस्य । आत्मगतम्)
एष तावदुन्मत्तः । अहमप्येतस्य सङ्गेनेदृशवर्ण इव संवृत्तः ।
(प्रकाशम्)
भोः चित्रं खल्वेतत् ।
राजाः -- कथं चित्रम् ।
सानुमती -- अहमपीदानीमवगतार्था । किं
पुनर्यथालिखितानुभाव्येषः ।
राजाः -- वयस्य किमिदमनुष्ठितं पौरोभाग्यम् ।
दर्शनसुखमनुभवतः साक्षादिव तन्मयेन हृदयेन ।
स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता ॥ २१॥
(इति बाष्पं विहरति)
सानुमती -- पूर्वापरविरोध्यपूर्व एष विरहमार्गः ।
राजाः -- वयस्य कथमेवमविश्रान्तदुःखमनुभवामि ।
प्रजागरात्खिलीभूतस्तस्याः स्वप्ने समागमः ।
बाष्पस्तु न ददात्येनां द्रष्टुं चित्रगतामपि ॥ २२॥
सानुमती -- सर्वथा प्रमार्जितं त्वया प्रत्यादेशदुःखं
शकुंतलायाः ।
(प्रविश्य)
चतुरिका -- जयतु भर्ता । वर्तिकाकरण्डकं गृहीत्वेतोमुखं
प्रस्थितास्मि ।
राजाः -- किं च ।
चतुरिका -- स मे हस्तादन्तरा तरलिकाद्वितीयया देव्या
वसुमत्याहमेवार्यपुत्रस्योपनेष्यामीति सबलात्कारं गृहीतः ।
विदूषकः -- दिष्ट्या त्वं मुक्ता ।
चतुरिका -- यावद्देव्या विटपलग्नमुत्तरीयं तरलिका मोचयति
तावन्मया निर्वाहित आत्मा ।
राजाः -- वयस्य उपस्थिता देवी बहुमानगर्विता च । भवानिमां
प्रतिकृतिं रक्षतु ।
विदूषकः -- आत्मानमिति भण ।
(चित्रफलकमादायोत्थाय च)
यदि भवानन्तःपुरकूटवागुरातो मोक्ष्यते तदा मां मेघप्रतिच्छन्दे
प्रासादे शब्दायय ।
(इति द्रुतपदं निष्क्रान्तः)
सानुमती -- अन्यसंक्रान्तहृदयोऽपि प्रथमसम्भावनामपेक्षते ।
अतिशिथिलसौहार्द इदानीमेषः ।
(प्रविश्य पत्रहस्ता)
प्रतीहारी -- जयतु जयतु देवः ।
राजाः -- वेत्रवति न खल्वन्तरा दृष्टा त्वया देवी ।
प्रतीहारी -- अथ किम् । पत्रहस्तां मां प्रेक्ष्य प्रतिनिवृत्ता ।
राजाः -- कार्यज्ञा कार्योपरोधं मे परिहरति ।
प्रतीहारी -- देव अमात्यो विज्ञापयति ।
अर्थजातस्य गणनाबहुलतयैकमेव पौरकार्यमवेक्षितं तद्देवः
पत्रारूढं प्रत्यक्षीकरोत्विति ।
राजाः -- इतः पत्रं दर्शय ।
(प्रतिहार्युपनयति)
राजाः -- (अनुवाच्य)
कथम् । समुद्रव्यवहारी सार्थवाहो धनमित्रो नाम नौव्यसने विपन्नः ।
अनपत्यश्च किल तपस्वी । राजगामी तस्यार्थसंचय
इत्येतदमात्येन लिखितम् । कष्टं खल्वनपत्यता । वेत्रवति
बहुधनत्वाद्बहुपत्नीकेन तत्रभवता भवितव्यम् । विचार्यतां यदि
काचिदापन्नसत्त्वा तस्य भार्यासु स्यात् ।
प्रतीहारी -- देव इदानीमेव साकेतकस्य श्रेष्ठिनो दुहिता
निर्वृत्तपुंसवना जायास्य श्रूयते ।
राजाः -- ननु गर्भः पित्र्यं रिक्थमर्हति । गच्छ । एवममात्यं
ब्रूहि ।
प्रतीहारी -- यद्देव आज्ञापयति ।
(इति प्रस्थिता)
राजाः -- एहि तावत् ।
प्रतीहारी -- इयमस्मि ।
राजाः -- किमनेन संततिरस्ति नास्तीति ।
येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना ।
स स पापादृते तासां दुष्यन्त इति घुष्यताम् ॥ २३॥
प्रतीहारी -- एवं नाम घोषयितव्यम् ।
(निष्क्रम्य । पुनः प्रविष्य)
काले प्रवृष्टमिवाभिनन्दितं देवस्य शासनम् ।
राजाः -- (दीर्घमुष्णं च निःश्वस्य)
एवं भोः संततिछेदनिरवलम्बानां कुलानां मूलपुरुषावसाने
सम्पदः परमुपतिष्ठन्ते । ममाप्यन्ते पुरुवंशश्रिय एष एव
वृत्तान्तः ।
प्रतीहारी -- प्रतिहतममङ्गलम् ।
राजाः -- धिङ्मामुपस्थितश्रेयोवमानिनम् ।
सानुमती -- असंशयं सखीमेव हृदये कृत्वा निन्दितोऽनेनात्मा ।
राजाः --
संरोपितेऽप्यात्मनि धर्मपत्नी त्यक्ता मया नाम कुलप्रतिष्ठा ।
कल्पिष्यमाणा महते फलाय वसुंधरा काल इवोप्तबीजा ॥ २४॥
सानुमती -- अपरिच्छिन्नेदानीं ते संततिर्भविष्यति ।
चतुरिका -- (जनान्तिकम्)
अये अनेन सार्थवाहवृत्तान्तेन द्विगुणोद्वेगो भर्ता । एनमाश्वासयितुं
मेघप्रतिच्छन्दादार्यं माधव्यं गृहीत्वागच्छ ।
प्रतीहारी -- सुष्ठु भणसि ।
(इति निष्क्रान्ता)
राजाः -- अहो दुष्यन्तस्य संशयमारूढाः पिण्डभाजः । कुतः ।
अस्मात्परं बत यथाश्रुति सम्भृतानि को नः कुले निवपनानि
नियच्छतीति ।
नूनं प्रसूतिविकलेन मया प्रसिक्तं धौताश्रुशेषमुदकं पितरः
पिबन्ति ॥ २५॥
(इति मोहमुपगतः)
चतुरिका -- (ससम्भ्रममवलोक्य)
समाश्वसितु समाश्वसितु भर्ता ।
सानुमती -- हा धिक् हा धिक् । सति खलु दीपे
व्यवधानदोषेणैषोऽन्धकारदोषमनुभवति । अहमिदानीमेव
निर्वृतं करोमि ।
अथ वा श्रुतं मया शकुंतलां समाश्वासयन्त्या महेन्द्रजनन्या
मुखाद्यज्ञभागोत्सुका देवा एव तथानुष्ठास्यन्ति यथाचिरेण
धर्मपत्नीं भर्ताभिनन्दिष्यतीति । तद्युक्तमेतं कालं
प्रतिपालयितुम् । यावदनेन वृत्तान्तेन प्रियसखीं समाश्वासयामि ।
(इत्युद्भ्रान्तकेन निष्क्रान्ता)
(नेपथ्ये)
अब्रह्मण्यम् ।
राजाः -- (प्रत्यागतः । कर्णं दत्त्वा)
अये माधव्यस्येवार्तस्वरः । कः कोऽत्र भोः ।
(प्रविश्य)
प्रतीहारी -- (ससम्भ्रमम्)
परित्रायतां देवः संशयगतं वयस्यम् ।
राजाः -- केनात्तगन्धो माणवकः ।
प्रतीहारी -- अदृष्टरूपेण केनापि सत्त्वेनातिक्रम्य
मेघप्रतिच्छन्दस्य प्रासादस्याग्रभूमिमारोपितः ।
राजाः -- (उत्थाय)
मा तावत् । ममापि सत्त्वैरभिभूयन्ते गृहाः । अथ वा ।
अहन्यहन्यात्मन एव तावज्ज्ञातुं प्रमादस्खलितं न शक्यम् ।
प्रजासु कः के पथा प्रयातीत्यशेषतो वेदितुमस्ति शक्तिः ॥ २६॥
(नेपथ्ये)
भो वयस्य अविहा अविहा ।
राजाः -- (गतिभेदेन परिक्रामन्)
सखे न भेतव्यम् ।
(नेपथ्ये)
(पुनस्तदेव पठित्वा)
कथं न भेष्यामि । एष मां कोऽपि प्रत्यवनतशिरोधरमिक्षुमिव
त्रिभङ्गं करोति ।
राजाः -- (सदृष्टिक्षेपम्)
धनुस्तावत् ।
(प्रविश्य शार्ङ्गहस्ता)
यवनी -- भर्तः एतध्दस्तावापसहितं शरासनम् ।
(राजा सशरं धनुरादत्ते)
(नेपथ्ये)
एष त्वामभिनवकण्ठशोणितार्थी शार्दूलः पशुमिव हन्मि
चेष्टमानम् ।
आर्तानां भयमपनेतुमात्तधन्वा दुष्यन्तस्तव शरणं
भवत्विदानीम् ॥ २७॥
राजाः -- (सरोषम्)
कथं मामेवोद्दिशति । तिष्ठ कुणपाशन । त्वमिदानीं न भविष्यसि ।
(शार्ङ्गमारोप्य)
वेत्रवति सोपानमार्गमादेशय ।
प्रतिहारी -- इत इतो देवः ।
(सर्वे सत्वरमुपसर्पन्ति)
राजाः -- (समन्ताद्विलोक्य)
शून्यं खल्विदम् ।
(नेपथ्ये)
अविहा । अविहा । अहं अत्रभवन्तं पश्यामि । त्वं मां न पश्यसि ।
बिडालगृहीतो मूषक इव निराशोऽस्मि जीविते संवृत्तः ।
राजाः -- भोस्तिरस्करिणीगर्वित मदीयमस्त्रं त्वां द्रक्ष्यति । एष
तमिषुं संदधे ।
यो हनिष्यति वध्यं त्वां रक्ष्यं रक्षिष्यति द्विजम् ।
हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः ॥ २८॥
(इत्यस्त्रं संधत्ते)
(ततः प्रविशति विदूषकमुत्सृज्य मातलिः)
मातलिः --
कृता शरव्यं हरिणा तवासुराः शरासनं तेषु विकृष्यतामिदम् ।
प्रसादसौम्यानि सतां सुहृज्जने पतन्ति चक्षूंषि न दारुणाः शराः
॥ २९॥
राजाः -- (ससम्भ्रममस्त्रमुपसंहरन्)
अये मातलिः । स्वागतं महेन्द्रसारथे ।
(प्रविश्य)
विदूषकः -- अहं येनेष्टिपशुमारं मारितः सोऽनेन
स्वागतेनाभिनद्यते ।
मातलिः -- (सस्मितम्)
आयुष्मन्श्रूयतां यदर्थमस्मि हरिणा भवत्सकाशं प्रेषितः ।
राजाः -- अवहितोऽस्मि ।
मातलिः -- अस्ति कालनेमिप्रसूतिर्दुर्जयो नाम दानवगणः ।
राजाः -- अस्ति । श्रुतपूर्वं मया नारदात् ।
मातलिः --
सख्युस्ते स किल शतक्रतोरजय्य स्तस्य त्वं रणशिरसि स्मृतो निहन्ता ।
उच्छेत्तुं प्रभवति यन्न सप्तसप्तिस्तन्नैशं तिमिरमपाकरोति चन्द्रः
॥ ३०॥
स भवानात्तशस्त्र एव इदानीमैन्द्ररथमारुह्य विजयाय
प्रतिष्ठताम् ।
राजाः -- अनुगृहीतोऽहमनया मघवतः सम्भावनया । अथ
माधव्यं प्रति भवता किमेवं प्रयुक्तम् ।
मातलिः -- तदपि कथ्यते । किञ्चिन्निमित्तादपि
मनःसंतापादायुष्मान्मया विक्लवो दृष्टः ।
पश्चात्कोपयितुमायुष्मन्तं तथा कृतवानस्मि । कुतः ।
ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां कुरुते ।
प्रायः स्वं महिमानं क्षोभात्प्रतिपद्यते हि जनः ॥ ३१॥
राजाः -- (जनान्तिकम्)
वयस्य अनतिक्रमणीया दिवस्पतेराज्ञा । तदत्र परिगतार्थं कृत्वा
मद्वचनादमात्यपिशुनं ब्रूहि ।
त्वन्मतिः केवला तावत् परिपालयतु प्रजाः ।
अधिज्यमिदमन्यस्मिन्कर्मणि व्यापृतं धनुः ॥ ३२॥
इति ।
विदूषकः -- यद्भवानाज्ञापयति ।
(इति निष्क्रान्तः)
मातलिः -- आयुष्मान्रथमारोहतु ।
(राजा रथारोहणं नाट्यति)
(निष्क्रान्ताः सर्वे)
(इति षष्ठो अङ्कः ।)
सप्तमोऽङ्कः ।
(ततः प्रविशत्याकाशयानेन रथाधिरूढो राजा मातलिश्च)
राजाः -- मातले अनुष्ठितनिदेशोऽपि मघवतः
सत्क्रियाविशेषादनुपयुक्तमिवात्मानं समर्थये ।
मातलिः -- (सस्मितम्)
आयुष्मन् उभयमप्यपरितोषं समर्थये ।
प्रथमोपकृतं मरुत्वतः प्रतिपत्त्या लघु मन्यते भवान् ।
गणयत्यवदानविस्मितो भवतः सोऽपि न सत्क्रियागुणान् ॥ १॥
राजाः -- मातले मा मैवम् । स खलु
मनोरथानामप्यभूमिर्विसर्जनावसरसत्कारः । मम हि दिवौकसां
समक्षमर्धासनोपवेशितस्य ।
अन्तर्गतप्रार्थनमन्तिकस्थं जयन्तमुद्वीक्ष्य कृतस्मितेन ।
आमृष्टवक्षोहरिचन्दनाङ्का मन्दारमाला हरिणा पिनद्धा ॥ २॥
मातलिः -- किमिव नामायुष्मानमरेश्वरान्नार्हति । पश्य ।
सुखपरस्य हरेरुभयैः कृतं त्रिदिवमुद्धृतदानवकण्टकम् ।
तव शरैरधुना नतपर्वभिः पुरुषकेसरिणश्च पुरा नखैः ॥ ३॥
राजाः -- अत्र खलु शतक्रतोरेव महिमा स्तुत्यः ।
सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः ।
सम्भावनागुणमवेहि तमीश्वराणाम् ।
किं वाऽभविष्यदरुणस्तमसां विभेत्ता
तं चेत्सहस्रकिरणो धुरि नाकरिष्यत् ॥ ४॥
मातलिः -- सदृशं तवैतत् ।
(स्तोकमन्तरमतीत्य)
आयुष्मन् इतः पश्य नाकपृष्ठप्रतिष्ठितस्य सौभाग्यमात्मयशसः ।
विच्छित्तिशेषैः सुरसुन्दरीणां वर्णैरमी कल्पलतांशुकेषु ।
विचिन्त्य गीतक्षममर्थजातं दिवौकसस्त्वच्चरितं लिखन्ति ॥ ५॥
राजाः -- मातले असुरसम्प्रहारोत्सुकेन पूर्वेद्युर्दिवमधिरोहता मया
न लक्षितः स्वर्गमार्गः । कतमस्मिन्मरुतां पथि वर्तामहे ।
मातलिः --
त्रिस्रोतसं वहति यो गगनप्रतिष्ठां ज्योतींषि वर्तयति च
प्रविभक्तरश्मिः ।
तस्य द्वितीयहरिविक्रमनिस्तमस्कं वायोरिमं परिवहस्य वदन्ति मार्गम्
॥ ६॥
राजाः -- मातले अतः खलु सबाह्यान्तःकरणो ममान्तरात्मा प्रसीदति ।
(रथाङ्गमवलोक्य)
मेघपदवीमवतीर्णौ स्वः ।
मातलिः -- कथमवगम्यते ।
राजाः -- अयमरविवरेभ्यश्चातकैर्निष्पतद्भिर्हरिभिरचिरभासां
तेजसा चानुलिप्तैः ।
गतमुपरि घनानां वारिगर्भोदराणां
पिशुनयति रथस्ते शीकरक्लिन्ननेमिः ॥ ७॥
मातलिः -- क्षणादायुष्मान्स्वाधिकारभूमौ वर्तिष्यते ।
राजाः -- (अधोऽवलोक्य)
मातले वेगावतरणादाश्चर्यदर्शनः संलक्ष्यते मनुष्यलोकः । तथा
हि ।
शैलानामवरोहतीव शिखरादुन्मज्जतां मेदिनी ।
पर्णाभ्यन्तरलीनतां विजहति स्कन्धोदयात्पादपाः ।
संतानैस्तनुभावनष्टसलिला व्यक्तिं भजन्त्यापगाः ।
केनाप्युत्क्षिपतेव पश्य भुवनं मत्पार्श्वमानीयते ॥ ८॥
मातलिः -- साधु दृष्टम् ।
(सबहुमानमवलोक्य)
अहो उदाररमणीया पृथिवी ।
राजाः -- मातले कतमोऽयं पूर्वापरसमुद्रावगाढः
कनकरसनिस्यन्दी सांध्य इव मेघपरिघः सानुमानालोक्यते ।
मातलि -- आयुष्मन् एष खलु हेमकूटो नाम
किम्पुरुषपर्वतस्तपःसंसिद्धिक्षेत्रम् । पश्य ।
स्वायम्भुवान्मरीचेर्यः प्रबभूव प्रजापतिः ।
सुरासुरगुरुः सोऽत्र सपत्नीकस्तपस्यति ॥ ९॥
राजाः -- तेन ह्यनतिक्रमणीयानि श्रेयांसि । प्रदक्षिणीकृत्य
भगवन्तं गन्तुमिच्छामि ।
मातलिः -- प्रथमः कल्पः ।
(नाट्येनावतीर्णौ)
राजाः -- (सविस्मयम्)
उपोढशब्दा न रथाङ्गनेमयः प्रवर्तमानं न च दृश्यते रजः ।
अभूतलस्पर्शनतयाऽनिरुद्धतस्तवावतीर्णोऽपि रथो न लक्ष्यते ॥ १०॥
मातलिः -- एतावानेव शतक्रतोरायुष्मतश्च विशेषः ।
राजाः -- मातले कतमस्मिन्प्रदेशे मारीचाश्रमः ।
मातलिः -- (हस्तेन दर्शयन्)
वल्मीकार्धनिमग्नमूर्तिरुरसा संदष्टसर्पत्वचा
कण्ठे जीर्णलताप्रतानवलयेनात्यर्थसम्पीडितः ।
अंसव्यापि शकुन्तनीडनिचितं बिभ्रज्जटामण्डलं
यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः ॥ ११॥
राजाः -- नमस्ते कष्टतपसे ।
मातलिः -- (संयतप्रग्रहं रथं कृत्वा)
एतौ अदितिपरिवर्धितमन्दारवृक्षं प्रजापतेराश्रमं प्रविष्टौ स्वः ।
राजाः -- स्वर्गादधिकतरं निर्वृतिस्थानम्
अमृतहृदमिवावगाढोऽस्मि ।
मातलिः -- (रथं स्थापयित्वा)
अवतरत्वायुष्मान् ।
राजाः -- (अवतीर्य)
मातले भवान्कथमिदानीम् ।
मातलिः -- संयन्त्रितो मया रथः । वयमप्यवतरामः ।
(तथा कृत्वा)
इत आयुष्मन् ।
(परिक्रम्य)
दृश्यन्तामत्रभवतामृषीणां तपोवनभूमयः ।
राजाः -- ननु विस्मयादवलोकयामि ।
प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने
तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया ।
ध्यानं रत्नशिलातलेषु विबुधस्त्रीसन्निधौ संयमो
यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥ १२॥
मातलिः -- उत्सर्पिणी खलु महतां प्रार्थना ।
(परिक्रम्य । आकाशे)
अये वृद्धशाकल्य किमनुतिष्ठति भगवान्मारीचः । किं ब्रवीषि ।
दाक्षायण्या प्रतिव्रतार्धमधिकृत्य पृष्टस्तस्यै
महर्षिपत्नीसहितायै कथयतीति ।
राजाः -- (कर्णं दत्त्वा)
अये प्रतिपाल्यावसरः खलु प्रस्तावः ।
मातलिः -- (राजानमवलोक्य)
अस्मिन्नशोकवृक्षमूले तावदास्तामायुष्मान् यावत्त्वामिन्द्रगुरवे
निवेदयितुमन्तरान्वेषी भवामि ।
राजाः -- यथा भवान्मन्यते ।
(इति स्थितः)
मातलिः -- आयुष्मन् साधयाम्यहम् ।
(इति निष्क्रान्तः)
राजाः -- (निमित्तं सूचयित्वा)
मनोरथाय नाशंसे किं बाहो स्पन्दसे वृथा ।
पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते ॥ १३॥
(नेपथ्ये)
मा खलु चापलं कुरु । कथं गत एवात्मनः प्रकृतिम् ।
राजाः -- (कर्णं दत्त्वा)
अभूमिरियमविनयस्य । को नु खल्वेष निषिध्यते ।
(शब्दानुसारेणावलोक्य । सविस्मयम्)
अये को नु खल्वयमनुबध्यमानस्तपस्विनीभ्यामबालसत्त्वो बालः ।
अर्धपीतस्तनं मातुरामर्दक्लिष्टकेसरम् ।
प्रक्रीडितुं सिंहशिशुं बलात्कारेण कर्षति ॥ १४॥
(ततः प्रविशति यथानिर्दिष्टकर्मा तपस्विनीभ्यां बालः)
बालः -- जृम्भस्व सिंह दन्तांस्ते गणयिष्ये ।
प्रथमा -- अविनीत किं नोऽपत्यनिर्विशेषाणि सत्त्वानि विप्रकरोषि ।
हन्त वर्धते ते संरम्भः । स्थाने खलु ऋषिजनेन सर्वदमन इति
कृतनामधेयोऽसि ।
राजाः -- किं नु खलु बालेऽस्मिन्नौरस इव पुत्रे स्निह्यति मे मनः ।
नूनमनपत्यता मां वत्सलयति ।
द्वितीया -- एषा खलु केसरिणी त्वां लङ्घयति यद्यस्याः पुत्रकं न
मुञ्चसि ।
बालः -- (सस्मितम्)
अहो बलीयः खलु भीतोऽस्मि ।
(इत्यधरं दर्शयति)
राजाः --
महतस्तेजसो बीजं बालोऽयं प्रतिभाति मे ।
स्फुलिङ्गावस्थया वह्निरेधापेक्ष इव स्थितः ॥ १५॥
प्रथमा -- वत्स एनं बालमृगेन्द्रं मुञ्च । अपरं ते क्रीडनकं
दास्यामि ।
बालः -- कुत्र । देह्येतत् ।
(इति हस्तं प्रसारयति)
राजाः -- कथं चक्रवर्तिलक्षणमप्यनेन धार्यते । तथा ह्यस्य ।
प्रलोभ्यवस्तुप्रणयप्रसारितो विभाति जालग्रथिताङ्गुलिः करः ।
अलक्ष्यपत्रान्तरमिद्धरागया नवोषसा भिन्नमिवैकपङ्कजम् ॥ १६॥
द्वितीया -- सुव्रते न शक्य एष वाचामात्रेण विरमयितुम् । गच्छ
त्वम् । मदीय उटजे मार्कण्डेयस्यर्षिकुमारस्य वर्णचित्रितो
मृत्तिकामयूरस्तिष्ठति । तमस्योपहर ।
प्रथमा -- तथा ।
(इति निष्क्रान्ता)
बालः -- अनेनैव तावत्क्रीडिष्यामि ।
(इति तापसीं विलोक्य हसति)
राजाः -- स्पृहयामि खलु दुर्ललितायस्मै ।
आलक्ष्यदन्तमुकुलाननिमित्तहासैरव्यक्तवर्णरमणीयवचःप्रवृत्तीन् ।
अङ्काश्रयप्रणयिनस्तनयान्वहन्तो धन्यास्तदङ्गरजसा मलिनीभवन्ति ॥
१७ ॥
तापसी -- भवतु । न मामयं गणयति ।
(पार्श्वमवलोक्य)
कोऽत्र ऋषिकुमाराणाम् ।
(राजानमवलोक्य)
भद्रमुख एहि तावत् । मोचयानेन दुर्मोचहस्तग्रहेण डिम्भलीलया
बाध्यमानं बालमृगेन्द्रम् । (-दुर्मोक-)
राजाः -- (उपगम्य । सस्मितम्)
अयि भो महर्षिपुत्र ।
एवमाश्रमविरुद्धवृत्तिना संयमः किमिति जन्मतस्त्वया ।
सत्त्वसंश्रय सुखोऽपि दूष्यते कृष्णसर्पशिशुनेव चन्दनः ॥ १८
॥
तापसी -- भद्रमुख न खल्वयमृषिकुमारः ।
राजाः -- आकारसदृशं चेष्टितमेवास्य कथयति ।
स्थानप्रत्ययात्तु वयमेवन्तर्किणः ।
(यथाभ्यर्थितमनुतिष्ठन्बालस्पर्शमुपलभ्य । आत्मगतम्)
अनेन कस्यापि कुलाङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् ।
कां निर्वृतिं चेतसि तस्य कुर्याद्यस्यायमङ्कात्कृतिनः प्ररूढः ॥ १९
॥
तापसी -- (उभौ निर्वर्ण्य)
आश्चर्यमाश्चर्यम् ।
राजाः -- आर्ये किमिव ।
तापसी -- अस्य बालकस्य तेऽपि संवादिन्याकृतिरिति विस्मिताऽस्मि ।
अपरिचितस्यापि तेऽप्रतिलोमः संवृत्त इति ।
राजाः -- (बालकमुपलालयन्)
न चेन्मुनिकुमारोऽयमथ को स्य व्यपदेशः ।
तापसी -- पुरुवंशः ।
राजाः -- (आत्मगतम्)
कथमेकान्वयो मम । अतः खलु मदनुकारिणमेनमत्रभवती मन्यते ।
अस्त्येतत्पौरवाणामन्त्यं कुलव्रतम् ।
भवनेषु रसाधिकेषु पूर्वं क्षितिरक्षार्थमुशन्ति ये निवासम् ।
नियतैकव्रतियतानि पश्चात्तरुमूलानि गृहीभवन्ति तेषाम् ॥ २०॥
(प्रकाशम्)
न पुनरात्मगत्या मानुषाणामेष विषयः ।
तापसी -- यथा भद्रमुखो भणति । अप्सरःसम्बन्धेनास्य जनन्यत्र
देवगुरोस्तपोवने प्रसूता ।
राजाः -- (अपवार्य)
हन्त द्वितीयमिदमाशाजननम् ।
(प्रकाशम्)
अथ सा तत्रभवती किमाख्यस्य राजर्षेः पत्नी ।
तापसी -- कस्तस्य धर्मदारपरित्यागिनो नाम संकीर्तयितुं
चिन्तयिष्यति ।
राजाः -- (स्वगतम्)
इयं खलु कथा मामेव लक्ष्यीकरोति । यदि तावदस्य शिशोर्मातरं
नामतः पृच्छामि । अथ वाऽनार्यः परदारव्यवहारः ।
(प्रविष्य मृन्मयूरहस्ता)
तापसी -- सर्वदमन शकुंतलावण्यं प्रेक्षस्व ।
बालः -- (सदृष्टिक्षेपम्)
कुत्र वा मम माता ।
उभे -- नामसादृश्येन वञ्चितो मातृवत्सलः ।
द्वितीया -- वत्स अस्य मृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि ।
राजाः -- (आत्मगतम्)
किं वा शकुन्तलेत्यस्या मातुराख्या । सन्ति पुनर्नामधेयसादृश्यानि ।
अपि नाम मृगतृष्णिकेव
नाममात्रप्रस्तावो मे विषादाय कल्पते ।
बालः -- मातः रोचते म एष भद्रमयूरः ।
(इति क्रीडनकमादत्ते)
प्रथमा -- (विलोक्य । सोद्वेगम्)
अहो रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते ।
राजाः -- अलमावेगेन । नन्विदमस्य सिंहशावविमर्दात्परिभ्रष्टम् ।
(इत्यादातुमिच्छति)
उभे -- मा खल्वेतदवलम्ब्य कथम् । गृहीतमनेन ।
(इति विस्मयादुरोनिहितहस्ते परस्परमवलोकयतः)
राजाः -- किमर्थं प्रतिषिद्धाः स्मः ।
प्रथमा -- शृणोतु महाराजः । एषाऽपराजिता नामौषधिरस्य
जातकर्मसमये भगवता मारीचेन दत्ता । एतां किल
मातापितरावात्मानं च वर्जयित्वाऽपरो भूमिपतितां न गृह्णाति ।
राजाः -- अथ गृह्णाति ।
प्रथमा -- ततस्तं सर्पो भूत्वा दशति ।
राजाः -- भवतीभ्यां कदाचिदस्याः प्रत्यक्षीकृता विक्रिया ।
उभे -- अनेकशः ।
राजाः -- (सहर्षम् । आत्मगतम्)
कथमिव सम्पूर्णमपि मे मनोरथं नाभिनन्दामि ।
(इति बालं परिष्वजते)
द्वितीया -- सुव्रते एहि । इमं वृत्तान्तं नियमव्यापृतायै
शकुंतलायै निवेदयावः ।
(इति निष्क्रान्ते)
बालः -- मुञ्च माम् । यावन्मातुः सकाशं गमिष्यामि ।
राजाः -- पुत्रक मया सहैव मातरमभिनन्दिष्यसि ।
बालः -- मम खलु तातो दुष्यन्तः । न त्वम् ।
राजाः -- (सस्मितम्)
एष विवाद एव प्रत्याययति ।
(ततः प्रविशत्येकवेणीधरा शकुंतला)
शकुंतला -- विकारकालेऽपि प्रकृतिस्थां सर्वदमनस्यौषधिं
श्रुत्वा न मे आशाऽऽसीदात्मनो भागधेयेषु । अथ वा यथा
सानुमत्याऽऽख्यातं तथा सम्भाव्यत एतत् ।
राजाः -- (शकुंतलां विलोक्य)
अये सेयमत्रभवती शकुंतला यैषा
वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः ।
अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहव्रतं बिभर्ति ॥ २१॥
शकुंतला -- (पश्चात्तापविवर्णं राजानं दृष्ट्वा)
न खल्वार्यपुत्र इव । ततः क एष इदानीं कृतरक्षामङ्गलं
दारकं मे गात्रसंसर्गेण दूषयति ।
बालः -- (मातरमुपेत्य)
मातः एष कोऽपि पुरुषो मां पुत्र इत्यालिङ्गति ।
राजाः -- प्रिये क्रौर्यमपि मे त्वयि प्रयुक्तमनुकूलपरिणामं संवृत्तं
यदहमिदानीं त्वया प्रत्यभिज्ञातमात्मानं पश्यामि ।
शकुंतला -- (आत्मगतम्)
हृदय समाश्वसिहि समाश्वसिहि ।
परित्यक्तमत्सरेणानुकम्पितास्मि दैवेन । आर्यपुत्रः खल्वेषः ।
राजाः -- प्रिये ।
स्मृतिभिन्नमोहतमसो दिष्ट्या प्रमुखे स्थितासि मे सुमुखि ।
उपरागान्ते शशिनः समुपगता रोहिणी योगम् ॥ २२॥
शकुंतला -- जयतु जयत्वार्यपुत्रः ।
(इत्यर्धोक्ते बाष्पकण्ठी विरमति)
राजाः -- सुन्दरि ।
बाष्पेण प्रतिषिद्धेऽपि जयशब्दे जितं मया ।
यत्ते दृष्टमसंस्कारपाटलोष्ठपुटं मुखम् ॥ २३॥
बालः -- मातः क एषः ।
शकुंतला -- वत्स ते भागधेयानि पृच्छ ।
राजाः -- (शकुंतलायाः पादयोः प्रणिपत्य)
सुतनु हृदयात्प्रत्यादेशव्यलीकमपैतु ते
किमपि मनसः सम्मोहो मे तदा बलवानभूत् ।
प्रबलतमसामेवम्प्रायाः शुभेषु हि वृत्तयः
स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया ॥ २४॥
शकुंतला -- उत्तिष्ठत्वार्यपुत्रः । नूनं मे सुचरितप्रतिबन्धकं
पुराकृतं तेषु दिवसेषु परिणामाभिमुखमासीद्येन
सानुक्रोशोऽप्यार्यपुत्रो मयि विरसः संवृत्तः ।
(राजोत्तिष्ठति)
शकुंतला -- अथ कथमार्यपुत्रेण स्मृतो दुःखभाग्ययं जनः ।
राजाः -- उद्धृतविषादशल्यः कथयिष्यामि ।
मोहान्मया सुतनु पूर्वमुपेक्षितस्ते
यो बद्धबिन्दुरधरं परिबाधमानः ।
तं तावदाकुटिलपक्ष्मविलग्नमद्य
बाष्पं प्रमृज्य विगतानुशयो भवेयम् ॥ २५॥
(इति यथोक्तमनुतिष्ठति)
शकुंतला -- (नाममुद्रां दृष्ट्वा)
आर्यपुत्र इदं तदङ्गुलीयकम् ।
राजाः -- अस्मादङ्गुलीयोपलम्भात्खलु स्मृतिरुपलब्धा ।
शकुंतला -- विषमं कृतमनेन यत्तदाऽऽर्यपुत्रस्य प्रत्ययकाले
दुर्लभमासीत् ।
राजाः -- तेन हि ऋतुसमवायचिह्नं प्रतिपद्यतां लता कुसुमम् ।
शकुंतला -- नास्य विश्वसिमि । आर्यपुत्र एवैतद्धारयतु ।
(ततः प्रविशति मातलिः)
मातलिः -- दिष्ट्या धर्मपत्नीसमागमेन पुत्रमुखदर्शनेन
चायुष्मान्वर्धते ।
राजाः -- अभूत्सम्पादितस्वादुफलो मे मनोरथः । मातले न खलु
विदितोऽयमाखण्डलेन वृत्तान्तः स्यात् ।
मातलिः -- (सस्मितम्)
किमीश्वराणां परोक्षम् । एत्वायुष्मान् । भगवान्मारीचस्ते दर्शनं
वितरति ।
राजाः -- शकुन्तले अवलम्ब्यतां पुत्रः । त्वां पुरस्कृत्य भगवन्तं
द्रष्टुमिच्छामि ।
शकुंतला -- जिह्रेम्यार्यपुत्रेण सह गुरुसमीपं गन्तुम् ।
राजाः -- अप्याचरितव्यमभ्युदयकालेषु । एह्येहि ।
(सर्वे परिक्रामन्ति)
(ततः प्रविशत्यदित्या सार्धमासनस्थो मारीचः)
मारीचः -- (राजानमवलोक्य)
दाक्षायणि ।
पुत्रस्य ते रणशिरस्ययमग्रयायी
दुष्यन्त इत्यभिहितो भुवनस्य भर्ता ।
चापेन यस्य विनिवर्तितकर्म जातं
तत्कोटिमत्कुलिशमाभरणं मघोनः ॥ २६॥
अदितिः -- सम्भावनीयानुभावाऽस्याकृतिः ।
मातलिः -- आयुष्मन् एतौ पुत्रप्रीतिपिशुनेन चक्षुषा दिवौकसां
पितरावायुष्मन्तमवलोकयतः । तावुपसर्प ।
राजाः -- मातले ।
प्राहुर्द्वादशधा स्थितस्य मुनयो यत्तेजसः कारणं
भर्तारं भुवनत्रयस्य सुषुवे यद्यज्ञभागेश्वरम् ।
यस्मिन्नात्मभवः परोऽपि पुरुषश्चक्रे भवायास्पदं
द्वन्द्वं दक्षमरीचिसम्भवमिदं तत्स्रष्टुरेकान्तरम् ॥ २७॥
मातलिः -- अथ किम् ।
राजाः -- (उपगम्य)
उभाभ्यामपि वासवनियोज्यो दुष्यन्तः प्रणमति ।
मारीच -- वत्स चिरं जीव । पृथिवीं पालय ।
अदितिः -- वत्स अप्रतिरथो भव ।
शकुंतला -- दारकसहिता वां पादवदनं करोमि ।
मारीचः -- वत्से ।
आखण्डलसमो भर्ता जयन्तप्रतिमः सुतः ।
आशीरन्या न ते योग्या पौलोमीसदृशी भव ॥ २८॥
अदितिः -- जाते भर्तुर्बहुमता भव । अयं च दीर्घायुर्वत्सक
उभयकुलनन्दनो भवतु । उपविशत ।
(सर्वे प्रजापतिमभित उपविशन्ति)
मारीचः -- (एकैकं निर्दिंशन्)
दिष्ट्या शकुंतला साध्वी सदपत्यमिदं भवान् ।
श्रद्धा वित्तं विधिश्चेति त्रितयं तत्समागतम् ॥ २९॥
राजाः -- भगवन् । प्रागभिप्रेतसिद्धिः । पश्चाद्दर्शनम् ।
अतोऽपूर्वः खलु वोऽनुग्रहः । कुतः ।
उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक्तदनन्तरं पयः ।
निमित्तनैमित्तिकयोरयं क्रमस्तव प्रसादस्य पुरस्तु सम्पदः ॥ ३०॥
मातलिः -- एवं विधातारः प्रसीदन्ति ।
राजाः -- भगवन् इमामाज्ञाकरीं वो गान्धर्वेण विवाहविधिनोपयम्य
कस्यचित्कालस्य बन्धुभिरानीतां
स्मृतिशैथिल्यात्प्रत्यादिशन्नपराद्धोऽस्मि तत्रभवतो
युष्मत्सगोत्रस्य कण्वस्य । पश्चादङ्गुलीयकदर्शनादूढपूर्वां
तद्दुहितरमवगतोऽहम् । तच्चित्रमिव मे प्रतिभाति ।
यथा गजो नेति समक्षरूपे तस्मिन्नपक्रामति संशयः स्यात् ।
पदानि दृष्ट्वा तु भवेत्प्रतीतिस्तथाविधो मे मनसो विकारः ॥ ३१॥
मारीचः -- वत्स अलमात्मापराधशङ्कया । सम्मोहोऽपि
त्वय्यनुपपन्नः । श्रूयताम् ।
राजाः -- अवहितोऽस्मि ।
मारीचः -- यदैवाप्सरस्तीर्थावतरणात्प्रत्यक्षवैक्लव्यां
शकुंतलामादाय मेनका दाक्षायणीमुपगता तदैव
ध्यानादवगतोऽस्मि दुर्वाससः शापादियं तपस्विनी
सहधर्मचारिणीत्वया प्रत्यादिष्टा नान्यथेति । स
चायमङ्गुलीयकदर्शनावसानः ।
राजाः -- (सोच्छ्वासम्)
एष वचनीयान्मुक्तोऽस्मि ।
शकुंतला -- (स्वगतम्)
दिष्ट्याऽकारणप्रत्यादेशी नार्यपुत्रः । न पुनः शप्तमात्मानं
स्मरामि । अथ वा प्राप्तो मया स हि शापो विरहशून्यहृदयया न
विदितः । अतः सखीभ्यां संदिष्टास्मि भर्तुरङ्गुलीयकं
दर्शयितव्यमिति ।
मारीचः -- वत्से चरितार्थासि । तदिदानीं सहधर्मचारिणं प्रति
न त्वया मन्युः कार्यः । पश्य ।
शापादसि प्रतिहता स्मृतिरोधरूक्षे
भर्तर्यपेततमसि प्रभुता तवैव ।
छाया न मूर्छति मलोपहतप्रसादे
शुद्धे तु दर्पणतले सुलभावकाशा ॥ ३२॥
राजाः -- यथाह भगवान् ।
मारीचः -- वत्स कच्चिदभिनन्दितस्त्वया
विधिवदस्माभिरनुष्ठितजातकर्मा पुत्र एष शाकुन्तलेयः ।
राजाः -- भगवन् अत्र खलु मे वंशप्रतिष्ठा ।
(इति बालं हस्तेन गृह्णाति)
मारीचः -- तथाभाविनमेनं चक्रवर्तिनमवगच्छतु भवान् ।
पश्य ।
रथेनानुद्धातस्तिमितगतिना तीर्णजलधिः
पुरा सप्तद्वीपां जयति वसुधामप्रतिरथः ।
इहायं सत्त्वानां प्रसभदमनात्सर्वदमनः
पुनर्यास्यत्याख्यां भरत इति लोकस्य भरणात् ॥ ३३॥
राजाः -- भगवता कृतसंस्कारे सर्वमस्मिन्वयमाशास्महे ।
अदितिः -- भगवन् अस्या दुहितृमनोरथसम्पत्तेः कण्वोऽपि
तावत्च्छ्रुतविस्तारः क्रियताम् । दुहितृवत्सला मेनकेहैवोपचरन्ती
तिष्ठति ।
शकुंतला -- (आत्मगतम्)
मनोरथः खलु मे भणितो भगवत्या ।
मारीचः -- तपःप्रभवात्प्रत्यक्षं सर्वमेव तत्रभवतः ।
राजाः -- अतः खलु मम नातिक्रुद्धो मुनिः ।
मारीचः -- तथाप्यसौ प्रियमस्माभिः प्रष्टव्यः । कः कोऽत्र भोः ।
(प्रविश्य)
शिष्यः -- भगवन् अयमस्मि ।
मारीचः -- गालव इदानीमेव विहायसा गत्वा मम
वचनात्तत्रभवते कण्वाय प्रियमावेदय यथा पुत्रवती शकुंतला
तच्छापनिवृत्तौ स्मृतिमता दुष्यन्तेन प्रतिगृहीतेति ।
शिष्यः -- यदाज्ञापयति भगवान् ।
(इति निष्क्रान्तः)
मारीचः -- वत्स त्वमपि स्वापत्यदारसहितः सख्युराखण्डलस्य
रथमारुह्य ते राजधानीं प्रतिष्ठस्व ।
राजाः -- यदाज्ञापयति भगवान् ।
मारीचः -- अपि च ।
तव भवतु बिडौजाः प्राज्यवृष्टिः प्रजासु
त्वमपि विततयज्ञो वज्रिणं प्रीणयस्व ।
युगशतपरिवर्तानेवमन्योन्यकृत्यैर्नयतमु-
भयलोकानुग्रहश्लाघनीयैः ॥ ३४॥
राजाः -- भगवन् यथाशक्ति श्रेयसे यतिष्ये ।
मारीचः -- वत्स किं ते भूयः प्रियमुपकरोमि ।
राजाः -- अतः परमपि प्रियमस्ति । यदीह भगवान्प्रियं कर्तुमिच्छति
तर्हीदमस्तु ।
(भरतवाक्यम्)
प्रवर्ततां प्रकृतिहिताय पार्थिवः
सरस्वती श्रुतमहतां महीयताम् ।
ममापि च क्षपयतु नीललोहितः
पुनर्भवं परिगतशक्तिरात्मभूः ॥ ३५॥
(निष्क्रान्ताः सर्वे)
(इति सप्तमोऽङ्कः ।)
समाप्तमिदमभिज्ञानशकुंतलं नाम नाटकम् ।
The AbhijnAnazAkuntalam of KAlidAsa
ed. by M.R. Kale
Bombay 1898 (ninth ed. 1961)
Input by Muneo Tokunaga
Input finished on July 26N 1999.
Proofread by Shrirang Nene, Ilya Comet