स्वात्मसाक्षात्कारः
॥ स्वात्मसाक्षात्कारोपदेशप्रकरणम् ॥
(सर्वज्ञानोत्तरवृत्तौ)
अथान्यं सम्प्रवक्ष्यामि उपायं तत्त्वतो गुह ।
अग्राह्यस्यापि सूक्ष्मस्य सर्वगस्य तु निष्कलम् ॥ १॥
येन विज्ञायते सम्यक् यं ज्ञात्वा तु शिवो भवेत् ।
न कस्य चिन्मयाख्यातं तद्विज्ञानं श्रुणुष्व मे ॥ २॥
गुरुपारम्परायातमदृष्टं सर्वादिभिः ।
भवबन्धविमोक्षार्थं परमं सर्वतोमुखम् ॥ ३॥
योऽसौ सर्वगतो देवः सर्वात्मा सर्वतोमुखः ।
सर्वतत्त्वमयोऽचिन्त्यः सर्वस्योपरि संस्थितः ॥ ४॥
सर्वतत्त्वव्यतीतश्च वाङ्मनोनामवर्जितः ।
सोऽहमेवमुपासीत निर्विकल्पेन चेतसा ॥ ५॥
यदेव निष्कलं ज्ञानं शाश्वतं ध्रुवमव्ययम् ।
निर्विकल्पमनिर्देश्यं हेतुदृष्टान्तवर्जितम् ॥ ६॥
अलिङ्गमक्षरं शान्तं विषयातीतगोचरम् ।
अविर्भाव्यमसन्देहं तदहं नात्र संशयः ॥ ७॥
अहमेव परो देवः सर्वमन्त्रमयः शिवः ।
सर्वमन्त्रव्यतीतश्च सृष्टिसंहारवर्जितः ॥ ८॥
मया व्याप्तमिदं सर्वं दृश्यादृश्यं चराचरम् ।
अहमेव जगन्नाथो मत्तः सर्वं प्रकाशते ॥ ९॥
अनेकाकारसंभिन्नं विश्वं भुवनसञ्चयम् ।
शिवाद्यवनिपर्यन्तं तत्सर्वं मयि संस्थितम् ॥ १०॥
यच्चकिञ्चिज्जगत्यस्मिन् दृश्यते श्रूयतेऽपि वा ।
बहिरन्तर्विभागेन तत्सर्वं व्यापितं मया ॥ ११॥
अहमात्मा शिवोह्यन्यः परमात्मेति यः स्मृतः ।
एवमुपासयेन्मोहान्न शिवत्वमाप्नुयात् ॥ १२॥
शिवोऽन्यस्त्वहमेवान्यः पृथग्भावं विवर्जयेत् ।
यश्शिवः सोऽहमेवेति अद्वैतं भावयेत्सदा ॥ १३॥
अद्वैतभावनायुक्तः सर्वत्रात्मनि संस्थितः ।
सर्वगं सर्वदेहस्थं पश्यते नात्र संशयः ॥ १४॥
एवमेकात्मभावेन संस्थितस्य तु योगिनः ।
सर्वज्ञत्वं प्रवर्तेत विकल्परहितस्य च ॥ १५॥
योऽसौ सर्वेषु शास्त्रेषु पठ्यते ह्यज ईश्वरः ।
अकायो निर्गुणो ह्यात्मा सोऽहमस्मि न संशयः ॥ १६॥
अविज्ञातः पशुः सो हि सृष्टिधर्मसमाश्रितः ।
विज्ञातः शाश्वतः शुद्धः स शिवो नात्र संशयः ॥ १७॥
तस्मादात्मा सदा वेद्यः सुविचार्यः विचक्षणैः ।
परापरविभागेन स्थूलसूक्ष्मविभागशः ॥ १८॥
परः परमनिर्वाण अपरः सृष्टिभेदतः ।
स्थूलो मन्त्रमयः प्रोक्तः सूक्ष्मो ध्यानैकसंस्थितः ॥ १९॥
अथवा बहुशोऽनेन किमुक्तेन षडानन ।
वाग्विकल्पविशेषेण मनः संमोहकारिणा ॥ २०॥
सर्वे धर्मात्मनः सन्ति यद्येवं परिकल्पयेत् ।
तत्तद्भवत्यसन्देहात् सदा तद्भावभावतः ॥ २१॥
इत्येवमात्मविज्ञानं कथितं तु समासतः ।
ज्ञात्वैवात्ममयं सर्वमात्मानं पर्युपासयेत् ॥ २२॥
न तत्र देवा वेदा वा यज्ञा वा बहुदक्षिणाः ।
आत्मविज्ञानमाश्रित्य विमलं सर्वतोमुखम् ॥ २३॥
संसारार्णवमग्नानां भूतानां शरणार्थिनाम् ।
नान्यः शरणदः कश्चिदात्मज्ञानादृतेः क्वचित् ॥ २४॥
आत्मानं परमो भूत्वा यो विजानाति तत्त्वतः ।
स मुच्यते त्वयत्नेन सर्वावस्थां गतोऽपि सन् ॥ २५॥
आत्मलाभात्परोलाभः क्वचिदन्यो न विद्यते ।
तदात्मानमुपासीत योऽयमात्मा परस्तु सः ॥ २६॥
न प्राणो नैव चापानो विशिष्टकरणस्तथा ।
सर्वज्ञं तु तमात्मानं परिपूर्णं सदा स्मरेत् ॥ २७॥
न चैवाभ्यन्तरे बाह्ये नातिदूरे समीपतः ।
स निष्कले परे स्थाने तत्र चित्तं निवेशयेत् ॥ २८॥
तिर्यगूर्ध्वमधश्चैव बहिरन्तश्च नित्यशः ।
सर्वशून्यं तमाभासमात्मानं भावयेत्सदा ॥ २९॥
नैव शून्यं न चाशून्यमशून्यं शून्यमेव च ।
पक्षपातविनिर्मुक्तमात्मानं पर्युपासयेत् ॥ ३०॥
निरामयं निराधारं वर्णरूपविवर्जितम् ।
निरञ्जनं गुणातीतमात्मानं पर्युपासयेत् ॥ ३१॥
निराश्रयं निरालम्बमप्रमेयमनूपमम् ।
स्वभावविमलं नित्यमात्मानं पर्युपासयेत् ॥ ३२॥
संन्यस्य सर्वकर्माणि निःस्पृहः सङ्गवर्जितः ।
भावयेदात्मनात्मानमात्मन्येवात्मनि स्थितम् ॥ ३३॥
स देशजातिसम्बन्धान्वर्णाश्रमसमन्वितान् ।
भावानेतान् परित्यज्य स्वरूपं भावयेद्बुधः ॥ ३४॥
मन्त्रोऽयं देवता ह्येषा इदं ध्यानमिदं तपः ।
सर्वभावान् परित्यज्य ह्यात्मभावं तु भावयेत् ॥ ३५॥
अभावे भावमाश्रित्य भावं कुर्यान्निराश्रयम् ।
आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ॥ ३६॥
नैव चिन्त्यं न चाचिन्त्यं न चिन्त्यं चिन्त्यमेव च ।
पक्षपातविनिर्मुक्तमात्मानं पर्युपासयेत् ॥ ३७॥
अचिन्त्यं चिन्तयेन्नित्यं कृत्वा चित्तं निराश्रयम् ।
निस्तत्त्वे निष्कली भूते विन्दत्यात्मनि यत्सुखम् ॥ ३८॥
निर्विकल्पमचिन्त्यं च हेतुदृष्टान्तवर्जितम् ।
तत्सुखं परमं प्रोक्तमात्यन्तिकमनौपमम् ॥ ३९॥
निरस्यविषयासङ्गं मनोवृत्तिं विवर्जयेत् ।
यदा यात्युन्मनी भावं तदा तत्परमं सुखम् ॥ ४०॥
सर्वदिग्देशकालेषु योगाभ्यासो विधीयते ।
सर्ववर्णाश्रमाणां च ज्ञानभेदो न विद्यते ॥ ४१॥
गवामनेकवर्णानां क्षीरस्याप्येकवर्णता ।
क्षीरवत्पश्यते ज्ञानमलिङ्गवस्तु गवां समाः ॥ ४२॥
यस्मात्सर्वगतं ब्रह्म व्यापकं सर्वतोमुखम्।
तस्माद्ब्रह्मणि संस्थाने दिग्देशान्न विचारयेत् ॥ ४३॥
नैव तस्य कृतेनार्थो न कार्यो न विधिः स्मृतः ।
न लिङ्गं नाश्रमाचारः परमात्मनि संस्थितः ॥ ४४॥
गच्छन् तिष्ठन् स्वपन् जाग्रन् भुञ्जानोऽपि पिबन्नपि ।
सर्वदा सर्वकालेषु वातशीतातपेषु च॥ ४५॥
भयदारिद्र्यरोगेषु मन्द्यविज्वरकादिषु ।
आत्मन्यवस्थितः शान्त आत्मतृप्तस्तु निष्कलः ॥ ४६॥
नागतोऽहं गतो वापि नागमिष्येन गच्छता ।
न भूतो न भविष्यामि प्रकृत्यस्थिरधर्मणी ॥ ४७॥
प्राकृतानि तु कर्माणि प्रकृतिः कर्मसम्भवा ।
नाहं किञ्चित्करोमीति युक्तं मन्येत तत्त्ववित् ॥ ४८॥
नैव प्रकृतिबन्धोऽस्ति मुक्त इत्यभिधीयते ।
न चैव प्राकृतैर्दोषैर्लिप्यते तु कदाचन ॥ ४९॥
निर्नाश्य तमसोरूपं दीपो यद्वत् प्रकाशते ।
आभात्येवं परो ह्यात्मा त्यक्त्वा अज्ञानजं तमः ॥ ५०॥
स्नेहक्षयाद्यथा दीपो बलान्निर्वाणमिच्छति ।
तथात्मभावनायुक्तः स्वात्मन्येवावतिष्ठते ॥ ५१॥
घटसंवृतमाकाशं नीयमाने यथा घटे ।
घटो नयति नाकाशं तद्वज्जीवो नभोपमः ॥ ५२॥
भिन्ने कुम्भे यथाकाशमाकाशत्वं प्रतिपद्यते ।
विभिन्ने प्राकृते देहे तथात्मा परमात्मनि ॥ ५३॥
इत्येवमधिकारेण सर्वज्ञेनाधिकारिणा ।
सर्वबन्धाद्विनिर्मुक्तः सर्वज्ञः सर्वगो भवेत् ॥ ५४॥
तदागमान् परिहृत्य सर्वान्
शुद्धं गृहीत्वात्मसमाधियोगम् ।
अस्मात्परं नान्यदिहास्ति किञ्चित्
ज्ञात्वैव सन्त्यज्य मनोविकल्पम् ॥ ५५॥
विज्ञानमेवं समुपास्य विद्वान्
विशत्यकामं सततं नियुक्तः ।
सर्वत्रगामी भवतीह मुक्तः
तद्धर्मधर्मी बहिरन्तःसंस्थः ॥ ५६॥
सर्वज्ञतातृप्तिरनादिबोधः
स्वतन्त्रता नित्यमलुप्तशक्तिः ।
अनन्तशक्तिश्च निरामयात्मा
विशुद्धदेहः स शिवत्वमेति ॥ ५७॥
न दीक्षा न तु संस्कारो न मुद्रा न च मण्डलम् ।
न जपो नार्चनं स्नानं न होमो नैवसाधनम् ॥ ५८॥
धर्माधर्मफलौ न स्तः नैव पिण्डोदकक्रिया ।
नियमादि न तस्यास्ति नोपवासो विधीयते ॥ ५९॥
प्रवृत्तिश्च निवृत्तिश्च ब्रह्मचर्यव्रतानि च ।
अग्निप्रवेशनं नास्ति पतनं भृगुनोदके ॥ ६०॥
शिवज्ञानामृतं पीत्वा विचरस्व यथा सुखम् ।
शिववच्छाश्वतः शुद्धः सृष्टिधर्मविवर्जितः ॥ ६१॥
सत्यं सत्यं पुनः सत्यं त्रिसत्यं समयः कृतः ।
अतः परतरं नास्ति विज्ञेयं कुत्रचित् गुह ॥ ६२॥
इति श्रीमत्सर्वज्ञानोत्तरे स्वात्मसाक्षात्कारोपदेशप्रकरणम् ॥
पाठभेद: पाठभेदाः -
न जपो नार्चनं स्नानं न होमो नैव साधनम् ।
धर्माधर्मफलं नास्ति न पिण्डोदकक्रिया ॥ ५८॥
नियमानि न तस्यास्ति नोपवासो विधीयते ।
प्रवृत्तिं न निवृत्तिश्च ब्रह्मचर्यव्रतानि च ॥ ५९॥
अग्निः प्रवेशनं नास्ति पतनं भृगुनोदके ।
शिवज्ञानामृतं पीत्वा विचरस्व यथासुखम् ॥ ६०॥
शिववच्छाश्वतः शुद्धः सृष्टिधर्मविवर्जितः ।
सत्यं सत्यं पुनः सत्यं त्रिसत्यं स्मयः कृतः ॥ ६१॥
अतः परतरं नास्ति विज्ञेयं कुत्रचिद्गुह ।
विमलयति सर्वभावान् विमलात्मा विमलबुद्धि दृढधीः ॥ ६२॥
सर्वं विमलं पश्यति विमलो विमलेन भावेन ।
जाग्र जाग्र जाग्र स्वप्नं तथा जाग्रसुषुप्तिकम् ॥ ६३॥
जाग्र तुर्यं कालपरमतीतं परदर्शनम् ।
विश्वाग्रस्ये प्रशान्तश्च शिवदर्शनमेव च ॥ ६४॥
सायुज्यमितिभेदेन चोर्ध्वमेकादशस्मृतः ॥ ६५॥
From
http://shodhganga.inflibnet.ac.in/handle/10603/1354
Encoded and proofread by Sunder Hattangadi