श्रीविचारदीपकः
(श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितः)
श्रीरमापतये नमः ।
॥ मङ्गलं ॥
फणीन्द्रभोगामलतल्पशायिने
दुरन्तदुर्ज्ञेयविचित्रमायिने ।
समस्तसत्त्वैकहृदब्जयायिने
नमोऽस्तु मेशाय विमोक्षदायिने ॥ १॥
स्वच्छास्त्रतैलश्च विरागवर्तिक-
श्चेतः सुपात्रश्च गुरूक्तिपावकः ।
निर्वातहृद्गेहगतः प्रकाशयेत्
सर्वेप्सितं वस्तुविचारदीपकः ॥ २॥
कलौ हि योगो न जपस्तपो व्रतं
न चापि यागो न सुरार्चनं तथा ।
प्रयाति सिद्धिं दुरितप्रभावत-
स्ततो विचारैकपरायणो भवेत् ॥ ३॥
आहारनिद्रादि समं शरीरिषु
वैशेष्यमेकं हि नरे विचारणम् ।
तेनोज्झितः पक्षिपशूपमः स्मृत-
स्तस्माद्विचारैकपरायणो भवेत् ॥ ४॥
विचारहीनस्य वनेऽपि बन्धनं
भवेदवश्यं भरतादिवद्यतः ।
गृहेऽपि मुक्तो जनकादिवद्भवे-
त्ततो विचारैकपरायणो भवेत् ॥ ५॥
पठन्तु शास्त्राणि यजन्तु वाध्वरै-
रटन्तु तीर्थानि तपन्तु तापकैः ।
विदन्ति नात्मानमृते विचारणं
ततो विचारैकपरायणो भवेत् ॥ ६॥
तस्य खरूपं तु समासतः स्फुटं
शास्त्रान्तरादत्र विकृष्य यत्नतः ।
सन्दर्श्यते शिष्यगुरुप्रसङ्गतो
युक्त्या कयापीह हि बोध्यते वुधैः ॥ ७॥
दृष्ट्वा जराजन्मविपत्तिसङ्कुलं
सर्व जगच्चांवुतरङ्गभङ्गुरम् ।
भीतः समागम्य जनोज्झितं स्थलं
कश्चिन्मुमुक्षुः समचिन्तयत्त्विदम् ॥ ८॥
अहो विचित्राः खलु मोहशक्तयः
प्रचोदितो याभिरहं निरन्तरम् ।
जनुर्जरादुःखनिपीडितोऽपि नो
कदापि पश्यामि हितं यदात्मनः ॥ ९॥
बाल्यं मया केलिकलाकलापकै-
र्नीतं च नारीनिरतेन यौवनम् ।
वृद्धोऽधुना किं नु करोमि साधनं
मुक्तेर्वृथा मे खलु जीवितं गतम् ॥ १०॥
निद्राव्यवायाशनतत्परोऽभवं
नित्यं विवेकापगतो यथा पशुः ।
नात्मानमन्तःस्थमपि व्यलोकयं
सर्वं वृथा मे खलु जीवितं गतम् ॥ ११॥
भवापहो नैव सतां समागमः
कृतः श्रुता नापि कथाघहारिणी ।
हरेर्न तीर्थानि गतानि वै मया
वृथाखिलं मे खलु जीवितं गतम् ॥ १२॥
चतुर्भुजश्चक्रगदायुधः प्रभु-
र्निरञ्जनः सर्वभवार्तिभञ्जनः ।
स्मृतः कदापीह मया न माधवो
वृथाखिलं मे खलु जीवितं गतम् ॥ १३॥
इहाङ्गनातातसुतादिबान्धवैः
समागमोऽयं मम किन्निबन्धनः ।
सदाऽचलो वांवुतरङ्गचञ्चलो
हितावहो मे किमुताहितावहः ॥ १४॥
इमे च दारात्मजसेवकादयः
समाश्रिता मामथ कर्म वा निजम् ।
गतिस्तथैषां ननु का भविष्यति
मयि प्रयाते परलोकमन्ततः ॥ १५॥
पापैरनेकैस्तु यदर्थमादरा-
द्वित्तं समानीय करोम्यहं व्ययम् ।
ते बान्धवा वै मम दुःखभागिनः
किंवा भविष्यन्ति गतस्य रौरवम् ॥ १६॥
सायं समेत्यैकतरुं विहङ्गमाः
प्रातः प्रयान्तीह दिशं निजां निजाम् ।
त्यक्त्वा यथान्योन्यमगं च तं तथा
सर्वे समायान्ति च यान्ति बान्धवाः ॥ १७॥
यथा कपोतोऽन्नकणाभिवाञ्छया
शिचं विशन्नेति दुरन्तबन्धनम् ।
कुटुम्बजाले विषयाशयाविशं
तथा विमुच्येय कथं जगत्पते ॥ १८॥
इयं च मुक्तालिलसत्पयोधरा
कणन्मणिव्रातनितम्बमण्डला ।
विभाति रम्या ललनाऽविचारतो
विचारदृष्ट्या तु कुमांसपुत्रिका ॥ १९॥
एषा तु बद्ध्वालकदामभिर्दृढं
कृष्ट्वा च हावाञ्चितलोलवीक्षणैः ।
मामङ्गना नर्तयतीह सन्ततं
नाद्यापि लज्जे कपितुल्यतां गतः ॥ २०॥
सूनुर्मयायं परिपूज्य देवता
लब्धः प्रयत्नेन च वर्द्धितोऽधुना ।
मामेव मूढः परिशिक्षितः स्त्रिया
द्वेष्टीत्यहो भाग्यविपर्ययो हि मे ॥ २१॥
अनेकयत्नैः समुपार्ज्य सर्वतः
सदाप्तिरक्षाक्षतिदुःखदं धनम् ।
व्ययं कुकार्येषु करोम्यहो पदं
स्वकं स्वकीयेन करेण हन्यते ॥ २२॥
जले स्थले योऽपि च शैलमस्तके
सदैव पुष्णाति जगच्चराचरम् ।
स मेऽशनं दास्यति विश्वपालको
न किं किमर्थं तु गतोऽस्मि दीनताम् ॥ २३॥
लब्ध्वापि देवेप्सितमानुषं वपु-
र्नीतं समस्तं गृहकृत्यकल्पनैः ।
चिन्तामणिं हस्तगतं विहाय वै
क्रीतं मया काचदलं कुबुद्धिना ॥ २४॥
इदं सदाऽभ्यङ्गसुतैलवासितं
वराङ्गनालिङ्गनलालितं मुहुः ।
हितान्नपानौषधिवर्धितं वपुः
कृतघ्नमन्ते न समं मयैष्यति ॥ २५॥
मलीमसेऽनात्मनि नाशशालिनि
शुचित्वमात्मत्वमवैमि नित्यताम् ।
अनाद्यविद्यातिमिरावृतेक्षणः
किमञ्जनं तस्य भवेन्निवर्तकम् ॥ २६॥
क्षणं क्षणं दीपशिखोपमां दधत्
सरन्ध्रकुम्भास्रवदंवुसन्निभम् ।
प्रयात्यशेषं तु ममायुरुत्तमं
न सेक्षणोऽपीह विलोकयाम्यहो ॥ २७॥
गता मदीयाः पितरो यमालयं
प्रयान्ति चान्येपि दिनन्दिनं प्रति ।
अहं तु पश्यन्नपि तानहो शठ-
स्तथापि मन्ये स्थितिमात्मनो ध्रुवाम् ॥ २८॥
एते च जिह्वेक्षणनासिकादय-
श्चौरास्तु शश्वन्मम देहवासिनः ।
लुम्पन्ति सर्वात्मधनं प्रमाथिनो
नाद्याप्यवेक्षे मम पश्यताज्ञताम् ॥ २९॥
पतङ्गमीनेभमृगालयो लयं
प्रयान्ति पञ्चेन्द्रियपञ्चगोचरैः ।
मया तु तत्पञ्चकमेव सेव्यते
गतिर्न जाने मम का भविष्यति ॥ ३०॥
यथाऽहितुण्डे पतितोऽपि मेडकः
समीहतेऽत्तुं मशकानचेतनः ।
तथान्तकास्यान्तरितः समन्तत-
स्तथापि काङ्क्षे विषयानहो जडः ॥ ३१॥
सितं शिरः सम्पतिता रदावली
मुखं वलिव्रातवृतं च चक्षुषी ।
गतप्रभे मे शिथिलायते वपु-
स्तथापि चेतो युवतिं स्मरत्यहो ॥ ३२॥
अधःशिरस्केन दुरन्तसङ्कटे
मया यदम्बाजठरे विनिश्चितम् ।
स्मरामि नाद्यापि तदुद्धताशयो
मुरारिमाया हि किलातिदुस्तरा ॥ ३३॥
करोमि दुष्कर्म सदा प्रयत्नतः
फलं तु वाञ्छामि सुखं सुकर्मणः ।
करञ्जमारोप्य तु केन भुज्यते
फलं रसालस्य बतेयमज्ञता ॥ ३४॥
कोऽहं कथं केन कुतः समुद्गतो
यास्यामि चेतः क्व शरीरसङ्क्षये ।
किं मेस्ति चेहागमने प्रयोजनं
वासोऽत्र मे स्यात्कति वासराणि वा ॥ ३५॥
इत्थं सुधीः शुद्धधिया निरन्तरङ्ग
सञ्चिन्तयन्नप्यगमन्न निश्चयम् ।
खिन्नान्तरङ्गस्तु ततः समित्करो
गत्वाभ्युवाचात्मविदांवरं गुरुम् ॥ ३६॥
शिष्य उवाच ।
भवार्णवे जन्मजरातिमिङ्गिले
तृषाऽनले मोहविवर्तसङ्कुले ।
निमज्जतो मे किमु तारकं दृढं
वदार्तबन्धो मयि चेदनुग्रहः ॥ ३७॥
गुरुरुवाच ।
संसारदुष्पारमहोदधौ नृणां
तुम्बीवदेवोर्ध्वमधश्च मज्जताम् ।
गोविन्दपादाम्बुरुहैकचिन्तनं
पोतं वदन्तीह दृढं विपश्चितः ॥ ३८॥
शिष्य उवाच ।
इहैव सन्त्यज्य गृहं सबान्धवं
धनं शरीरं च गतस्य देहिनः ।
भवेदमुत्रास्य सहायकस्तु कः
सुहृद्वदेतद्वद वेदविद्विभो ॥ ३९॥
गुरुरुवाच ।
वधूर्जनित्री जनकः सहोदरः
सुतो धनं मित्रममुत्र गच्छता ।
समेति साकं न सहायकोऽपि को
विना स्वधर्मेण नरेण वै क्वचित् ॥ ४०॥
शिष्य उवाच ।
धर्मस्य मार्गा बहवो महर्षिभिः
सन्दर्शिता भुक्तिविमुक्तिसिद्धये ।
कस्तेषु गम्यस्तु मयात्मशुद्धये
निःशेषधर्मैकरहस्यविद्गुरो ॥ ४१॥
गुरुरुवाच ।
वाचा च चित्तेन च कर्मणापि यत्
सम्पालनं नित्यमवेक्ष्य शास्त्रतः ।
सत्यस्य तद्धर्ममिहोत्तमं बुधाः
प्राहुस्ततस्तं हि समाश्रयाचिरम् ॥ ४२॥
शिष्य उवाच ।
इदं जगच्चित्रचरित्रचित्रितं
विनिर्मितं केन कथं कुतस्तथा ।
मृषाऽमृषा वापि ततो विलक्षणं
भवेदथानादि किमादिमन्मुने ॥ ४३॥
गुरुरुवाच ।
यः सर्वगः सर्वविदक्षरः प्रभु-
र्मयाधिपस्तन्तुरिवोर्णनाभितः ।
तस्मादनिर्वाच्यमिदं प्रजायते
वेगात्मना चेदमनाद्युदाहृतम् ॥ ४४॥
(वेगशब्दोऽत्र प्रवाहवाचकः, प्रवाहजवयोरपीत्यमरः, अमरकोशः)
शिष्य उवाच ।
स्वकीयमुद्दिश्य किलेतरस्य वा
प्रयोजनं किन्तु विनाप्रयोजनम् ।
विनिर्मिमीते जगदेतदीश्वरो
वदैतदज्ञानतमोनभोमणे ॥ ४५॥
गुरुरुवाच ।
सदाप्तकामस्य तु नात्महेतवे
न चेतरस्यापि न चाप्यहेतुका ।
जगत्क्रिया क्रीडनमेव केवलं
विभोर्वदतींह तु वेदवादिनः ॥ ४६॥
शिष्य उवाच ।
निशाकरेन्द्रार्कयमानलानिला
घराघराधारनदीनदीश्वराः ।
भयेन कस्याखिलशक्तिधारिणः
सदैव भीता नियतिं त्यजन्ति नो ॥ ४७॥
गुरुरुवाच ।
यमीश्वराणां परमं महेश्वरं
तथोद्यतं वज्रमपि श्रुतिर्जगौ ।
भयेन तस्याखिलमेव कम्पते
यथेह राज्ञोऽनुचरादिकं जगत् ॥ ४८॥
जडानि कर्माणि पृथक् पृथग्जनैः
कृतानि चित्राणि सदा समन्ततः ।
विबुद्ध्य कालेन तु कोऽखिलार्थवित्
फलं दयालुर्भगवन् प्रयच्छति ॥ ४९॥
गुरुरुवाच ।
येनेश्यते सर्वमिहान्तरात्मना
लोकेश्वरा यस्य निदेशकारिणः ।
तेनाखिलं कर्मफलं प्रसूयते
वर्षांवुना सस्यमिवाविरोधतः ॥ ५०॥
शिष्य उवाच ।
दिवाकरो दाहकरो निशाकर-
स्तडिद्गणश्चोडुगणस्तथानिशम् ।
विभाति कस्यामितदीप्तिदीपितो
ब्रवीतु मे संशयशैलदेवराट् ॥ ५१॥
न यत्र सूर्यो न निशाकरस्तथा
न चापि विद्युज्ज्वलनः प्रकाशते ।
श्रुतौ स्वयञ्ज्योतिरुदीरितश्च यो
विभाति तस्याखिलमेव तेजसा ॥ ५२॥
शिष्य उवाच ।
सदेवनागासुरसिद्धमानवं
जगत्समग्रं प्रलये लयोन्मुखम् ।
विलीयते कस्य तनावनाशिनो
जगत्पतेर्ब्रूहि विपश्चिताम्पते ॥ ५३॥
गुरुरुवाच ।
यस्योदरेऽनन्ततनोर्महात्मनो
ब्रह्माण्डलक्षाणि परिस्फुरन्त्यलम् ।
खद्योतका भान्ति यथा नभोंऽगणे
तस्मिन्निदं याति लयं लयेऽखिलम् ॥ ५४॥
शिष्य उवाच ।
इहास्ति देवः खलु कस्तु पूज्यतां
गतः कथं तस्य भवेच्च पूजनम् ।
सुपूजितेनापि च तेन किं फलं
भवेदिहामुत्र वदाशु मे विभो ॥ ५५॥
गुरुरुवाच ।
यः सर्वगोऽव्यक्तवपुः स्वसंस्थिति-
र्यन्मूर्तयो ब्रह्ममहेशमाधवाः ।
सर्वेश्वरं वेदवचांसि यं जगु-
र्देवाधिदेवं तमवेहि सन्मते ॥ ५६॥
गुरुरुवाच ।
न पुष्पमालाभिरसौ न चन्दनै-
र्न धूपदीपादिनिवेदनैरपि ।
प्रयाति तोषं तु मनोंऽवुजार्पणात्
ततोऽचिरं मोक्षफलं प्रयच्छति ॥ ५७॥
शिष्य उवाच ।
स्थलं निवासस्य गुरो क्व विद्यते
सदैव देवस्य कथं च गम्यते ।
कथं भवेत्तस्य च दर्शनं द्रुतं
ब्रवीतु मे तत्त्वदृशां मणिर्भवान् ॥ ५८॥
गुरुरुवाच ।
तस्य स्थलं भूमिगतं न चाम्बरे
पातालगं वापि सदा हृदम्बुजे ।
जानीहि तद्वासमुपेत्य चेतसा
पश्यन्ति तं दिव्यदृशस्तु योगिनः ॥ ५९॥
शिष्य उवाच ।
अहं शरीरं किमुतेन्द्रियाणि वा
मनोऽथवा प्राणगणोऽथवा मतिः ।
अथो किमेषां तु समुच्चयोऽस्मि किं
ततः पृथग्वात्मविदां शिरोमणे ॥ ६०॥
गुरुरुवाच ।
शरीरमेतन्न तथेन्द्रियाण्यपि
मनोऽपि नो प्राणगणोऽपि नो मतिः ।
न चापि धीमन्नसि तत्समुच्चय-
स्ततोऽन्यमात्मानमवेहि साक्षिणम् ॥ ६१॥
शिष्य उवाच ।
विचेष्टते केन मनः प्रचोदितं
करोति केनासुगणो गमागमौ ।
वपुस्तथेदं ननु केन नीयते
हृदि प्रविष्टेन गुरुर्ब्रवीतु मे ॥ ६२॥
गुरुरुवाच ।
कर्णस्य कर्णं मनसो मनःश्रुति-
र्वाचं च वाचो यमसोरसुं जगौ ।
तेनानिशं यन्त्रमिवान्तरात्मना
सम्प्रेरितं सर्वमिदं प्रवर्तते ॥ ६३॥
शिष्य उवाच ।
कर्तृत्वभोक्तृत्वमुखं किमात्मनः
किं धर्मजालं मनसोऽथवा मतेः ।
किंवेन्द्रियाणां किमुतासुगं भवे-
देतद्दयालो वद मे विनिश्चितम् ॥ ६४॥
गुरुरुवाच ।
कर्त्ता तु नात्मा न मनो न शेमुषी
नैवेन्द्रियाणीह न चासवस्तथा ।
नाहङ्कृतिर्नापि वपुर्विवेकिनः
कर्त्तारमेषां तु समुच्चयं विदुः ॥ ६५॥
शिष्य उवाच ।
निबद्ध्यतेऽयं किल केन हेतुना
तथैव केनेह जनो विमुच्यते ।
बन्धश्च मोक्षश्च किमात्मकः स्मृतः
कृपार्द्रदृष्टे वद मे समासतः ॥ ६६॥
गुरुरुवाच ।
निबद्ध्यतेऽयं विषयानुरागतो
विरागतस्तेषु विमुच्यते द्रुतम् ।
स्वभावतः संस्खलनं हि बन्धनं
पुनः स्थितिस्तत्र विमुक्तिरुच्यते ॥ ६७॥
शिष्य उवाच ।
जीवो विभुर्वाणुरुतापि मध्यमो
नानाऽथवैकः किमु मध्यसङ्ख्यकः ।
नित्योऽथवा किं प्रलये विनश्यति
सर्वं तदेतत्कृपया वदाशु मे ॥ ६८॥
गुरुरुवाच ।
नाणुः समस्तावयवानुगो यतो
नो मध्यमोऽयं परिणामवर्जनात् ।
आकाशवत्सर्वगतो हि गीयते
तस्मात्त्वमेनं विभुमेव निश्चिनु ॥ ६९॥
शिष्य उवाच ।
रविर्यथैको निखिलाक्षिभासक-
स्तथाऽयमात्माखिलदेहदीपकः ।
उपाधिभेदाच्च भवेद्व्यवस्थितिः
प्रमाणहीना तु तृतीयकल्पना ॥ ७०॥
गुरुरुवाच ।
समस्तवस्त्वेकविनाशसाक्षिणो
भवेद्विनाशो न कदापि केनचित् ।
लये भवेच्चेद्वद कस्तदाश्रय-
स्ततस्त्विमं नित्यमवेहि देहिनम् ॥ ७१॥
शिष्य उवाच ।
स्वरूपमीशस्य तु किं विनिश्चितं
तथास्य जीवस्य च किं वपुर्भवेत् ।
कियत्तयोरस्ति तथैव चान्तरं
ब्रवीतु मे तत्त्वविदां वरो भवान् ॥ ७२॥
गुरुरुवाच ।
मायायुतं ब्रह्म महेश्वरं वुधा
जीवं समेतं च वदन्त्यविद्यया ।
नैवान्तरं किञ्चिदुपाधिमन्तरा
सम्यग्विचारेण तयोऽस्तु लभ्यते ॥ ७३॥
शिष्य उवाच ।
कथं महाम्भोधितरङ्गतुल्ययो-
र्विरुद्धधर्मास्पदयोः परस्परम् ।
भवेदिहैक्यं परमेशजीवयो-
र्वदैतदात्मानुभवाद्भवार्तिहन् ॥ ७४॥
गुरुरुवाच ।
यथाब्धिता चापि तरङ्गता तयो-
र्विहाय नीरैक्यमिहोपलक्ष्यते ।
अपास्य जीवेश्वरभावमीक्ष्यते
तथा चिदानन्दमयं विचक्षणैः ॥ ७५॥
शिष्य उवाच ।
बहूनुपायानवदन्निहर्षयो
विशुद्धयेंऽतःकरणस्य निश्चितान् ।
भवेत्तु तेषामचिरं विशोधको
महामते कस्तमुपादिशाशु मे ॥ ७६॥
गुरुरुवाच ।
न तीर्थयात्राभिरिदं न चाध्वरै-
स्तपोभिरुग्रैर्न जपैर्व्रतैरपि ।
तथा विशुद्ध्यत्यचिरं यथा हरे-
रनन्यचेतःस्मरणेन नित्यशः ॥ ७७॥
शिष्य उवाच ।
अनेकशास्त्राणि पुरर्षिपुङ्गवैः
कृतानि सर्वाणि च युक्तिमन्ति वै ।
प्रमाणता तेषु तु कस्य सम्भवे -
दशेषशास्त्रार्थविचारसारवित् ॥ ७८॥
गुरुरुवाच ।
यद्यद्धि वेदानुगतं सयुक्तिकं
तत्तत्तु बालोक्तमपीह गृह्यते ।
तद्बाह्यमप्यम्बुजजन्मनोदितं
प्रामाण्यमायाति वचो न कर्हिचित् ॥ ७९॥
शिष्य उवाच ।
उपासनाज्ञानमुतापि कर्म वा
भवेद्दृढं किन्नु विमोक्षसाधनम् ।
अथो किमेतानि समुच्चितानि वा
किमन्यदप्यस्ति तदाप्तिकारणम् ॥ ८०॥
गुरुरुवाच ।
नोपासना नैव च कर्म कारणं
मोक्षस्य नैवापि समुच्चयस्तयोः ।
ज्ञानं वदन्तीह तु तस्य साधनं
नान्योऽस्ति पन्था भवरोगशान्तये ॥ ८१॥
शिष्य उवाच ।
उपासनायाश्च तथैव कर्मणो
भवेद्विबोधस्य च किन्नु साधनम् ।
स्वरूपमेषां च किमस्ति निश्चितं
पृथक् पृथग्ब्रूहि विभो समासतः ॥ ८२॥
गुरुरुवाच ।
श्रद्धा मनःस्थैर्यमुपासनस्य वै
स्वास्तिक्यवित्ताधिकतादिकर्मणः ।
ज्ञानस्य वैराग्यविवेचनादिकं
विज्ञा वदन्तीह तु साधनं पृथक् ॥ ८३॥
गुरुरुवाच ।
दानाग्निहोत्रादि तु कर्मणस्तथो-
पास्तेश्च चेतोर्पणमिष्टवस्तुनि ।
ब्रह्मात्मनोरैक्यविनिश्चयं बुधाः
प्राहुर्विबोधस्य च लक्षणं पृथक् ॥ ८४॥
शिष्य उवाच ।
कस्येह वृक्षस्य फले सुखासुखे
शाखाश्च कास्तस्य मता महामते ।
बीजं च मूलं च पदानि कानि किं
सङ्क्षेपतो ब्रूहि पृथक पृथग्गुरो ॥ ८५॥
गुरुरुवाच ।
योऽनेकजन्मार्जितवासनापदः
सङ्कल्पमूलोऽनुभवैकबीजकः ।
धर्मेतरोत्तुङ्गलतोपशोभितः
कर्मद्रुमस्तस्य फले सुखासुखे ॥ ८६॥
शिष्य उवाच ।
कथं नु निर्मूलनमस्य चाचिरं
भवेद्गुरो कर्मतरोरशेषतः ।
निरूढपादस्य च भीतिदायिनो
दयानिधे तद्वद मे विनिश्चितम् ॥ ८७॥
गुरुरुवाच ।
वैराग्यमेवास्य दृढं दृढाशयाः
शस्त्रं वदन्तीह विवेकसंशितम् ।
तेनैनमुन्मूलय बोधवीर्यतो
नान्यत्तु तत्साधनमस्ति वै क्वचित् ॥ ८८॥
शिष्य उवाच ।
सुखाय लोको यतते निरन्तरं
सुखं च दुःखेन सदैव मिश्रितम् ।
अमिश्रितं यन्नु तदाप्यते कथं
तदर्थिनं मे वद वेदविद्गुरो ॥ ८९॥
गुरुरुवाच ।
यस्यैतदानन्दमहोदधेर्लवं
सर्वं भवेन्निर्वृतमाश्रितं जगत् ।
यत्र स्थितो वेत्ति न दुःखमण्वपि
तत्प्राप्यतेऽकामहतात्मवेदिना ॥ ९०॥
शिष्य उवाच ।
तथैव दुःखापगमाय जन्तवः
सदा यतन्ते स तु नैव सिद्ध्यति ।
पदं नु किञ्चाखिलदुःखवर्जितं
भवेद्भवांस्तत्कृपया ब्रवीतु मे ॥ ९१॥
गुरुरुवाच ।
महेन्द्रलोकं भुवनं स्वयम्भुवो
रमेशधामापि नगं पिनाकिनः ।
प्रयातु पातालमपि प्रमुच्यते
न दुःखलेशात्तु विनात्मसंस्थितिम् ॥ ९२॥
शिष्य उवाच ।
ज्ञानोदयानन्तरमस्य देहिनः
कर्त्तव्यमस्तीह न किञ्चनापि वा ।
चेदस्ति किं तत्कृपया ब्रवीतु मे
सम्यग्भवानागमगोऽप्यगोचरः ॥ ९३॥
गुरुरुवाच ।
ज्ञानामृतातृसमतेर्विवेकिनो
नैवास्ति किञ्चित्करणीयतां गतम् ।
यद्यस्ति तद्वृत्तिनिरोधनं सदा
नान्यत्कदापीति वदन्ति सूरयः ॥ ९४॥
शिष्य उवाच ।
इमा ध्वजाग्राग्निशिखातडित्प्रभा
नदीरयाश्वत्थदलालिचञ्चलाः ।
कथं निरुद्धा ननु चित्तवृत्तयो
भवन्ति तन्मे वद योगिनां पते ॥ ९५॥
गुरुरुवाच ।
यथा प्रमत्ता वनदन्तिनः क्वचित्
प्रयत्युपायेन विना न निग्रहम् ।
तथैव योगेन विना न वृत्तयो
निरोधनं यान्ति ततस्तमभ्यसेत् ॥ ९६॥
शिष्य उवाच ।
किं लक्षणं तस्य वदन्ति योगिनो
योगस्य चाङ्गानि कियन्ति सन्ति वै ।
निर्विघ्नमायाति कथं च सिद्धतां
योगीन्द्र मे ब्रूहि समासतः स्फुटम् ॥ ९७॥
गुरुरुवाच ।
सन्त्यज्य सङ्कल्पविकल्पजालकं
यत्र स्थितिं याति मनोऽतरात्मनि ।
योगं तमष्टाङ्गमवेहि स ध्रुवं
वैराग्यतोऽभ्यासबलाच्च सिद्ध्यति ॥ ९८॥
शिष्य उवाच ।
किं पौरुषेणाभिमतं स्वकर्मणा
पूर्वार्जितेनोत जनैरवाप्यते ।
वस्त्वेतयोः किञ्च बलिष्ठमुच्यते
सर्वार्थविद्ब्रूहि यदेव निश्चितम् ॥ ९९॥
गुरुरुवाच ।
नैकेन पुंसा तनयः क्वचिद्यथा
नैवैकया वाङ्गनयापि जन्यते ।
संयोगमेवात्र तथैव कारणं
विद्धि त्वमाद्यं च बलिष्ठमेतयोः ॥ १००॥
शिष्य उवाच ।
सर्वत्रगं वेदवचोभिरुच्यते
ब्रह्मोपलादौ तु कथं न लक्ष्यते ।
अस्मच्छरीरेषु यथैतदञ्जसा
सर्वज्ञ मे ब्रूहि विबोधवृद्धये ॥ १०१॥
गुरुरुवाच ।
सामान्यतः सर्वगतापि भानुभा
यद्वद्विशेषेण विभाति दर्पणे ।
ब्रह्मापि सर्वत्रगतं मतौ स्फुटं
तद्वद्विभातीत्यनुभूयते बुधैः ॥ १०२॥
शिष्य उवाच ।
परिव्रजन्नेव जनो विमुच्यते
गृहेपि तिष्ठन्किमु वा दयोदधे ।
तयोश्च किं तत्र विमोक्षकारणं
वदैतदाम्नायवचोऽनुरोधतः ॥ १०३॥
गुरुरुवाच ।
विशेषतो न्यस्तगृहो विमुच्यते
क्वचिद्गृहस्थोऽपि च पूर्वयत्नतः ।
न चेह कश्चिन्नियमोऽस्ति पक्षिणोऽ-
भवन्मृगाश्चापि यतो विवेकिनः ॥ १०४॥
गुरुरुवाच ।
शवोपमं देहमिमं विलोकय-
न्नटेदिमां यस्तु धरां गतस्पृहः ।
असक्तचेताः समदर्शनः क्षमी
शुचिर्दयालुः स विमुच्यते यतिः ॥ १०५॥
गुरुरुवाच ।
यथाप्तितुष्टोऽनृतरागवर्जितः
स्वधर्मनिष्ठोऽतिथिपूजकः शुचिः ।
जितेन्द्रियो वृद्धजनानुगः क्षमी
विचारशीलश्च गृहेपि मुच्यते ॥ १०६॥
शिष्य उवाच ।
शमं गतो मेऽखिलसंशयज्वरो
भवन्मुखाम्भोजवचोमृतद्रवैः ।
वनेऽथवा किं सदने विहारिणा
मया कथं स्थेयमिहाधुना गुरो ॥ १०७॥
गुरुरुवाच ।
शरीरतः कर्म समारचन् बहि-
र्गतान्तरासक्तिरमित्रमित्रयोः ।
समः सतां सेतुमलङ्घयँस्तत-
स्तपोवने वा सदने रमस्व भोः ॥ १०८॥
गुरुरुवाच ।
मनोभ्रमं विश्वमिदं चराचरं
विलोकयन्नात्मरतिर्गतैषणः ।
विनिर्ममो मानमदादिवर्जित-
स्तपोवने वा सदने रमस्व भोः ॥ १०९॥
गुरुरुवाच ।
अहं हरिः सर्वमिदं च तन्मयं
ततोऽन्यदासीन्न भविष्यति क्वचित् ।
इमं दृढं निश्चयमन्तरास्थित-
स्तपोवने वा सदने रमस्व भोः ॥ ११०॥
ततः समभ्यर्च्य गुरुं मुहुर्मुहुः
प्रणम्य चैवामुदिताशयोऽगमत् ।
सुखेप्सुरेकान्तनिकेतनं ततो
जगाम सन्त्यक्ततनुः परं पदम् ॥ १११॥
इमं मुमुक्षुः सुमुमुक्षुमोक्षदं
विचारयेद्यस्तु विचारदीपकम् ।
समाहितः सोऽस्तसमस्तसंशयः
पुनर्भवं याति न याति तत्पदम् ॥ ११२॥
विचारदीपकः सोऽयं मनोविष्ण्वालयेऽर्पितः ।
ब्रह्मानन्दाभिधानेन यतिना हरितुष्टये ॥ ११३॥
श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितः
श्रीविचारदीपकःं सम्पूर्णः ।
हरिः ॐ ॥
Encoded and proofread by Tanvir Chowdhury