यतिराज सप्ततिः

यतिराज सप्ततिः

श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्य वर्योमे सन्निधत्तां सदा हृदि ॥ कमप्याध्यं गुरुं वन्दे कमलागृहमेधिनम् । प्रवक्ता छन्दसां वक्ता पञ्चरात्रस्य यः स्वयम् ॥ १॥ सहधर्मचरीं शौरेः संमन्त्रितजगध्दिताम् । अनुग्रहमयीं वन्दे नित्यमज्ञातनिग्रहाम् ॥ २॥ वन्दे वैकुण्ठसेनान्यं देवं सूत्रवतीसखम् । यद्वेत्रशिखरस्पन्दे विश्वमेतद् व्यवस्थितम् ॥ ३॥ यस्य सारस्वतस्रोतो वकुलामोदवासितम् । var सारस्वतं स्रोतो श्रुतीनां विश्रमायालं शठारिं तमुपास्महे ॥ ४॥ नाथेन मुनिना तेन भवेयं नाथवाहनम् । var मुनिनाथेन यस्य नैगमिकं तत्त्वं हस्तामलकतां गतम् ॥ ५॥ नमस्याम्यरविन्दाक्षं नाथभावे व्यवस्थितम् । शुध्दसत्वमयं शौरेरवतारमिवापरम् ॥ ६॥ अनुज्झितक्षमायोगमपुण्यजनबाधकम् । अस्पृष्टमदिरागं तं रामं तुर्यमुपास्महे ॥ ७॥ var अस्पृष्टमदिरा गन्धं विगाहे यामुनं तीर्थं साधु वृन्दावने स्थितम् । निरस्तजिह्मगस्पर्शे यत्र कृष्णः कृतादरः ॥ ८॥ दया निघ्नं यतीन्द्रस्य देशिकं पूर्णमाश्रये। येन विश्वसृजो विष्णोरपूर्यत मनोरथः ॥ ९॥ प्रणामं लक्ष्मणमुनिः प्रतिगृह्णातु मामकम् । प्रसाधयति यत्सूक्तिः स्वाधीन पतिकां श्रुतिम् ॥ १०॥ उपवीतिनमूर्ध्वपुण्ड्रवन्तं त्रिजगत्पुण्यफलं त्रिदण्डहस्तम् । शरणागतसार्थवाहमीडे शिखया शेखरिणं पतिं यतीनाम् ॥ ११॥ प्रथयन् विमतेषु तीक्ष्णभावं प्रभुरस्मत्परिरक्षणे यतीन्द्रः । अपृथक्प्रतिपन्न यन्मयत्वैः ववृधे पञ्चभिरायुधैर्मुरारेः ॥ १२॥ शमितोदयशङ्करादिगर्वः स्वबलादुध्दृतयादवप्रकाशः । अवरोपितवान् श्रुतेरपार्थान् ननु रामावरजः स एष भूयः ॥ १३॥ var एव अबहुश्रुतसंभवं श्रुतीनां जरतीनामयथायथ प्रचारम् । विनिवर्तयितुं यतीश्वरोक्तिः विदधे ताः स्थिरनीतिपञ्जरस्थाः ॥ १४॥ अमुना तपनातिशायि भूम्ना यतिराजेन निबध्दनायकश्रीः । महती गुरुपङ्क्तिहारयष्टिः विबुधानां हृदयङ्गमा विभाति ॥ १५॥ अलूनपक्षस्य यति क्षमाभृतो विभाति वंशे हरितत्वमक्षतम् । यदुद्भवाः शुध्दसुवृत्तशीतलाः भवन्ति मुक्तावलिभूषणं भुवः ॥ १६॥ अनपाय विष्णुपदसंश्रयं भजे कलया कयाऽपि कलयाऽप्यनुज्झितम् । अकलङ्कयोगमजडाशयोदयं var अकलङ्कयोगमजडाशयोदितं यतिराजचन्द्रमुपराग दूरगम् ॥ १७॥ अभिगम्य सम्यगनघाः सुमेधसो यति चक्रवर्तिपदपद्मपत्तनम् । हरिभक्तदास्यरसिकाः परस्परं क्रयैक्रयार्हदशया समिन्धते ॥ १८॥ परुषातिवादपरिवादपैशुन- प्रभृति प्रभूतपतनीयपङ्किला । स्वदते ममाध्य सुभगा सरस्वती यतिराजकीर्त्तिकतकैर्विशोधिता ॥ १९॥ अनुकल्पभूतमुरभित्पदं सतां अजहत्त्रिवर्गमपवर्गवैभवम् । चलचित्तवृत्तिविनिवर्त्तनौषधं शरणं यतीन्द्रचरणं वृणीमहे ॥ २०॥ श्वसितावधूतपरवातिवैभवाः निगमान्तनीतिजलधेस्तलस्पृशः । प्रतिपादयन्ति गतिमापवर्गिकीं यतिसार्वभौमपदसात्कृताशयाः ॥ २१॥ मूले निविश्य महतां निगमद्रुमाणां मुष्णन् प्रतारकभयं धृतनैकदण्डः । रङ्गेश भक्तजनमानसराजहंसो रामानुजः शरणमस्तु मुनिः स्वयं नः ॥ २२॥ सन्मन्त्रवित् क्षिपति संयमिनां नरेन्द्रः संसारजिह्मगमुखैः समुपस्थितं नः । विष्वक्ततं विषयलोभविषं निजाभिः गाढानुभावगरुडध्वजभावनाभिः ॥ २३॥ नाथः स एष यमिनां नखरश्मिजालैः अन्त निलीनमपनीय तमो मदीयम् । विज्ञानचित्रमनघं लिखतीव चित्ते व्याख्यानकेलिरसिकेन कराम्बुजेन ॥ २४॥ उद्गृह्णतीमुपनिषत्सु निगूढमर्थं चित्ते निवेशयितुमल्पधियां स्वयं नः । पश्येम लख़्श्मण् मुनेः प्रतिपन्नहस्तां उन्निद्रपद्मसुभगामुपदेशमुद्राम् ॥ २५॥ var तत्त्व आकर्षणानि निगमान्तसरस्वतीनां उच्चाटनानि बहिरन्तरुपप्लवानाम् । पथ्यानि घोरभवसंज्वरपीडितानां हृध्यानि भान्ति यतिराजमुनेर्वचांसि ॥ २६॥ शीतस्वभावसुभगानुभवः शिखावान् दोषावमर्दनियतोन्नतिरोषधीशः । तापानुबन्धशमनस्तपनः प्रजानां रामानुजो जयति संवलितत्रिधामा ॥ २७॥ जयति सकलविद्यावाहिनी जन्मशैलो जनिपथपरिवृत्तिश्रान्तविश्रान्तिशाखी । निखिलकुमति माया शर्वरी बालसूर्यो निगमजलधिवेला पूर्णचन्द्रो यतीन्द्रः ॥ २८॥ मुनिबहुमतसारा मुक्तिनिश्रेणिकेयं सहृदयहृदयानां शाश्वती दिष्टसिध्दिः । शमितदुरितगन्धा संयमीन्द्रस्य सूक्तिः var शमितविमतखेदा परिचितगहना नः प्रस्नुवीत प्रसादम् ॥ २९॥ भवमरुपरिखिन्नस्फीतपानीयसिन्धुः var सिद्धिः दुरितरहितजिह्वा दुग्धकुल्या सकुल्या । श्रुतिनयनसनाभिः शोभते लक्ष्मणोक्तिः नरकमथनसेवास्वादनाडिंधमा नः ॥ ३०॥ हरिपदमकरन्दस्यन्दिनः संश्रितानां अनुगतबहुशाखास्तापमुन्मूलयन्ति ॥ शमितदुरितगन्धाः संयमीन्द्रप्रबन्धाः कथकजनमनीषा कल्पना कल्पवृक्षाः ॥ ३१॥ नानाभूतैर्जगति समयैर्नर्मलीलां विधित्सोः अन्त्यं वर्णं प्रथयति विभोरादिमव्यूहभेदे । var भेदैः विश्वं त्रातुं विषयनियतं व्यञ्जितानुग्रहः सन् विष्वक्सेनो यतिपतिरभूद्वेत्रसारस्त्रिदण्डः ॥ ३२॥ लक्ष्यं बुध्दे रसिकरसनालास्यलीलानिदानं शुध्दास्वादं किमपि जगति श्रोत्रदिव्यौषधं नः । लक्ष्यालक्ष्यैः सितजलधिवद्भाति तात्पर्यरत्नैः लक्ष्मीकान्त स्फटिकमुकुरो लक्ष्मणार्योपदेशः ॥ ३३॥ स्थितिमवधीरयन्त्यतिमनोरथसिध्दिमतीं यतिपतिसंप्रदायनिरपायधनोपचिताः । मधुकरमौलिदघ्नमददन्तुरदन्तिघटा- करटकटाहवाहि घनशीकरशीभरिताम् ॥ ३४॥ var शीफरिताम् निरुपधि रङ्गवृत्ति रसिकानभिताण्डवयन् निगमविमर्शकेलिरसिकैर्निभृतैर्विधृतः । var निरतैः गुणपरिणद्धसूक्ति दृढकोणविघट्टनया रटति दिशा मुखेषु यतिराजयशः पटहः ॥ ३५॥ इदं प्रथमसंभवत्कुमति जालकूलङ्गषाः मृषा मतविषानलज्वलितजीवजीवातवः । क्षरन्त्यमृतमक्षरं यति पुरन्दरस्योक्तयः चिरन्तनसरस्वति चिकुरबन्धसैरन्ध्रिकाः ॥ ३६॥ सुधाशनसुदुर्ग्रह श्रुतिसमष्टिमुष्टिन्ध्यः कथाहवमसौ गतान् कपटसौगतान् खण्डयन् । मुनिर्मनसि लक्ष्मणो मुदम्दञ्चयत्यञ्जसा मुकुन्द गुणमौक्तिकप्रकरशुक्तिभिः सूक्तिभिः ॥ ३७॥ कपर्दिमतकर्दमं कपिलकल्पनावागुरां दुरत्ययमतीत्य तद्द्रुहिणतन्त्रयन्त्रोदरम् । कुदृष्टि कुहनामुखे निपततः परबृह्मणः करग्रहविचक्षणो जयति लक्ष्मणोऽयं मुनिः ॥ ३८॥ कणादपरिपाटिभिः कपिलकल्पनानाटकैः कुमारिलकुभाषितैर्गुरुनिबन्धनग्रन्थिभिः । तथागतकथाशतैस्तदनुसारि जल्पैरपि प्रतारितमिदं जगत् प्रगुणितं यतीन्द्रोक्तिभिः ॥ ३९॥ कथाकलहकौतुकग्रहग्रृहीतकौतस्कुत- प्रथा जलधि संप्लवग्रसनकुम्भसम्भूतयः । जयन्ति सुधियो यतिक्षितिभृदन्तिकोपासना- var यतिक्षितिभृदन्तिकोपासनप्रभाव प्रभावपरिपक्त्रिम प्रमिति भारती संपदः ॥ ४०॥ यतीश्वरसरस्वती सुरभिताशयानां सतां वहामि चरणाम्बुजं प्रणति शालिना मौलिना । तदन्यमतदुर्मदज्वलितचेतसां वादिनां शिरस्सु निहितं मया पदमदक्षिणं लक्ष्यताम् ॥ ४१॥ भजस्व यतिभूपतेरनिदमादिदुर्वासना कदध्व परिवर्तनश्रमनिवर्तनीं वर्तनीम् । लभस्य हृदय स्वयं रथपदायुधानुग्रह- द्रुतप्रहृति निस्तृटद्दुरितदुर्वृतिं निर्वृतिम् ॥ ४२॥ कुमतिविहितग्रन्थग्रन्थिप्रभूतमतान्तर- ग्रहिलमनसः पश्यन्त्यल्पां यतीश्वरभारतीम् । विकटमुरभिद्वक्षः पीठी परिष्करणोचितः कुलगिरितुलारोहे भावी कियानिव कौस्तुभः ॥ ४३॥ स्थविरनिगमस्तोमस्थेयां यतीश्वरभारतीं कुमतिफणितिक्षोभक्षीबाः क्षिपन्तु भजन्तु वा । रसपरिमलश्लाघा घोषस्फुटत्पुटभेदनं लवणवणिजः कर्पूरार्घं किमित्यभिमन्वते ॥ ४४॥ var कर्पूरोद्धं वहति महिलामाध्यो वेधास्त्रयी मुखरैर्मुखैः वरतनुतया वामो भागः शिवस्य विवर्तते । तदपि परमं तत्त्वं गोपीजनस्य वशंवदं मदनकदनैर्न क्लिश्यन्ते यतीश्वरसंश्रयाः ॥ ४५॥ निगमपथिकच्छाया शाखी निराशमहानिधिः महितविविधच्छात्रश्रेणी मनोरथसारथिः । त्रिभुवनतमःप्रत्यूषोऽयं त्रिविद्यशिखामणिः प्रथयति यतिक्ष्माभृत्पारावरीमविपर्ययाम् ॥ ४६॥ जडमति मुधा दन्तादन्तिव्यथौषधसिध्दयः प्रमितिनिधयः प्रज्ञाशालि प्रपालनयष्टयः । श्रुतिसुरभयः शुध्दानन्दाभिवर्षुकवारिदाः यमगति कथा विच्छेदिन्यो यतीश्वरसूक्तयः ॥ ४७॥ प्रतिकलमिह प्रत्यक्तत्वावलोकनदीपिकाः यतिपरिबृढग्रन्थाश्चिन्तां निरन्तरयन्ति नः । अकलुषपरज्ञानौत्सुक्यक्षुधातुरदुर्दशा- var अकलुषपरिज्ञान परिणत फल प्रत्यासीदत् फलेग्रहि सुग्रहाः ॥ ४८॥ मुकुन्दाङ्घ्रिश्रध्दा कुमुदवनचन्द्रातपनिभाः मुमुक्षामाक्षोभ्यां ददति मुनिवृन्दारकगिरः । स्वसिध्दान्तध्वान्तस्थिरकुतुकदुर्वादिपरिषद्- दिवाभीतप्रेक्षा दिनकरसमुत्थानपरुषाः ॥ ४९॥ निराबाधा बोधायनभणिति निष्यन्दसुभगाः var फणिति, भणित विशुद्धोपन्यासव्यतिभिदुरशारीरकनयाः । अकुण्ठैः कल्पन्ते यतिपतिनिबन्धा निजमुखैः अनिद्राणप्रज्ञारसधमनि वेधाय सुधियाम् ॥ ५०॥ विकल्पाटोपेन श्रुतिपथमशेषं विघटयन् यदृच्छानिर्दिष्टे यति नृपति शब्दे विरमति । वितण्डाहंकुर्वत्प्रतिकथकवेतण्डपृतना- वियातव्यापारव्यतिमथनसंरम्भकलहः ॥ ५१॥ प्रतिष्ठा तर्काणां प्रतिपदमृचां धाम यजुषां परिष्कारः साम्नां परिपणमथर्वाङ्गिरसयोः । प्रदीपस्तत्वानां प्रतिकृतिरसौ तापसगिरां प्रसत्तिम् संवित्तेः प्रदिशति यतीशानफणितिः ॥ ५२॥ var प्रदिशतु हतावध्ये हृध्ये हरिचरणपङ्केरुहयुगे निबध्नन्त्यैकान्त्यं किमपि यति भूभृत्फणितयः । शुनासीरस्कन्धद्रुहिणहरहेरम्बहुतभुक्- प्रभेशादि क्षुद्रप्रणति परिहारप्रतिभुवः ॥ ५३॥ यथाभूत स्वार्था यति नृपतिसूक्तिर्विजयते सुधा संदोहाब्धिः सुचरितविपक्तिः श्रुतिमताम् । कथा दृप्यत्कौतस्कुतकलहकोलाहलहत- त्रिवेदी निर्वेदप्रशमनविनोदप्रणयीनी ॥ ५४॥ श्रुतिश्रेणीचूडापदबहुमते लक्ष्मणमते स्वपक्षस्थान् दोषान् वितथमतिरारोपयति यः । स्वहस्तेनोत्क्षिप्तैः स खलु निजगात्रेषु बहुलं गलद्भिर्जम्बालैर्गगनतलमालिम्पति जडः ॥ ५५॥ निरालोके लोके निरुपधि परस्नेहभरितो यति क्ष्माभृद्दीपो यदि न किल जाज्वल्यत इह । अहंकारध्वान्तं विजहति कथंकारमनघाः कुतर्क व्यालौघं कुमति मतपाताळकुहरम् ॥ ५६॥ यति क्षमाभृद्धृष्टं मतमिह नवीनं तदपि किं ततः प्रागेवान्यद्वद तदपि किं वर्णनिकषे । निशाम्यन्तां यद्वा निजमतितिरस्कारविगमात् var निजमत निरातङ्काष्टङ्कद्रमिडगुहदेव प्रभृतयः ॥ ५७॥ सुधासारं श्रीमध्यतिवर भुवः श्रोत्रकुहरे निषिञ्चन्ति न्यञ्चन्निगमगरिमाणः फणितयः । यदास्वादाभ्यासप्रचयमहिमोल्लासितधियां सदास्वाध्यं काले तदमृतमनन्तं सुमनसाम् ॥ ५८॥ यति क्षोणीभर्तुर्यदिदमनिदं भोगजनता- शिरः श्रेणीजुष्टं तदिह दृढबन्धं प्रभवति । var मनसि दृढबद्धं प्रभवतु अविद्यारण्यानी कुहरविहरन्मामकमनः- प्रमाद्यन्मातङ्गप्रथमनिगलं पादयुगलम् ॥ ५९॥ सवित्री मुक्तानां सकलजगदेनः प्रशमनी गरीयोभिस्तीर्त्थैरुपचितरसा यामुनमुखैः । निरुच्छेदा निम्नेतरमपि समाप्लावयति मां var दुरुच्छेदा यदृच्छा विख़्शेपाद् यतिपतिदया दिव्यतटिनी ॥ ६०॥ चिन्ताशेषदुरर्थदन्तुरवचः कन्था शतग्रन्थिलाः सिध्दान्ता न समिन्धते यतिवरग्रन्थानुसंधायिनि । मुक्ता शुक्तिविशुध्दसिध्दतटिनी चूडालचूडापदः किं कुल्यां कलयेत खण्डपरशुर्मण्डूकमञ्जूषिकाम् ॥ ६१॥ वन्दे तं यमिनां धुरन्धरमहं मानान्धकारद्रुहा पन्थानं परिपन्थिनां निजदृशा रुन्धानमिन्धानया । दत्तं येन दया सुधाम्बुनिधिना पीत्वा विशुध्दं पयः काले नः करिशैलकृष्णजलदः काङ्क्षाधिकं वर्षति ॥ ६२॥ काषायेण गृहीतपीतवसनादण्डैस्त्रभिर्मण्डिता सा मूर्तिर्मुरमर्दनस्य जयति त्रय्यन्तसंरक्षिणी । यत् प्रख्यापिततीर्थवर्धितधियामभ्यस्यतां यद्गुणान् आसिन्धोरनिदं प्रदेशनियता कीर्तिः प्रजागर्ति नः ॥ ६३॥ लिप्से लक्ष्मणयोगिनः पदयुगं रथ्या परागच्छटा रक्षारोपणधन्यसूरिपरिषत्सीमन्तसीमान्तिकम् । भिक्षा पर्यटनक्षणेषु बिभरांचक्रे गळत्किल्बिषा यद्विन्यासमिषेण पत्रमकरीमुद्रां समुद्राम्बरा ॥ ६४॥ var पद्ममकरीमुद्रां नाना तन्त्रविलोभितेन मनसा निर्णीतदुर्नीतिभिः कष्टं कुत्सितदृष्टिभिर्यतिपतेरादेशवैदेशिकैः । व्यासो हासपदी कृतः परिहृतः प्राचेतसश्चेतसः क्लुप्तः केलिशुकः शुकः स च मुधा बाधाय बोधायनः ॥ ६५॥var मुधाबोधाय अर्थ्या तिष्ठति मामिका मतिरसावाजन्मराजन्वती पत्या संयमिनामनेन जगतामत्याहितच्छेदिना । यत्सारस्वतदुग्धसागरसुधा सिद्धौषधास्वादिनां प्रस्वापाय न बोभवीति भगवन्माया महायामिनी ॥ ६६॥ शुध्दादेशवशंददीकृतयतिक्षोणीशवाणीशता- प्रत्यादिष्टबहिर्गतिः श्रुतिशिरः प्रसादमासीदति । दुग्धोदन्वदपत्यसन्निधि सदा सामोददामोदर- श्लक्ष्णालोकेन दौर्ललित्य ललितोन्मेषा मनीषा मम ॥ ६७॥ आस्तां नाम यतीन्द्रपध्दति जुषामाजानशुध्दा मतिः तच्चा व्याजविदग्धमुग्धमधुरं सारस्वतं शाश्वतम् । को वा चक्षुरुदञ्चयेदपि पुरः साटोपतर्कच्छटा शस्त्राशस्त्रिविहारसंभृतरणास्वास्देषु वादेषु नः ॥ ६८॥ पर्याप्तं पर्यचैषं कणचरणकथामाक्षपादं शिशिक्षे मीमांसा मांसलात्मा समजनिषि मुहुः सांख्ययोगौ समाख्यम् । इत्थं तैस्तैर्यतीन्द्रत्रुटितबहुमृषा तन्त्रकान्तारपान्थैः अन्तर्मोहक्षपान्धैरहह किमिह नश्चिन्तनीयं तनीयः ॥ ६९॥ गाथा ताथागतानां गलति गमनिका कापिली क्वाऽपि लीना var गाधा क्षीणा काणादवाणी द्रुहिणहरगिरः सौरभं नारभन्ते । क्षामा कौमारिलोक्तिर्जगति गुरुमतं गौरवात् दूरवान्तं का शङ्का शङ्करादेर्भजति यतिपतौ भद्रवेदीं त्रिवेदीम् ॥ ७०॥ विष्वग्व्यापिन्यगाधे यतिनृपति यशः संपदेकार्णवेऽस्मिन् श्रध्दा शुध्दावगाहैः शुभमतिभिरसौ वेङ्कटेशोऽभिषिक्तः । प्रज्ञादौर्जन्यगर्जत्प्रतिकथकवचस्तूलवातूलवृत्या सप्तत्या सारवत्या समतनुत सतां प्रीतिमेतां समेताम् ॥ ७१॥ आशामतङ्गजगणानविषह्य वेगान् पादे यतिक्षितिभृतः प्रसभं निरुन्धन् । कार्यः कथाहव कुतूहलिभिः परेषां कर्णे स एष कवितार्किक् सिंहनादः ॥ ७२॥ उपशमितकुदृष्टिविप्लवानाम् उपनिषदामुपचारदीपिकेयम् । कबलितभगवद्विभूतियुग्मां दिषतु मतिं यतिराजसप्ततिर्नः ॥ ७३॥ करतलामलकीकृतसत्पथाः var सत्कथाः श्रुतिवतंसितसूनृतसूक्तयः । दिवसतारकयन्ति समत्सरान् यतिपुरन्दरसप्ततिसादराः ॥ ७४॥ कवितार्किक सिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥ yatirAja Saptati (790 to 863) Several true devotees of the Lord with a high degree of AchArya-Bhakti, have given expression to the sentiment that in the several works that go to make up the 4000 divya-prabandham there is none to equal rAmAnuja Nootrandadi sung in praise of rAmAnuja, the great shrIvaiShNava AchArya. In the same manner one can assert that out of the stotras of vedAnta deshika, yatirAja saptati, the Stotra in praise of the same great AchArya, stands unrivalled. This is not saying anything derogatory to the other stotras, nahi nindA-nyAya. yati-rAja saptati breathes deshika’s Bhakti, often an infatuation, towards rAmAnuja whom he takes a pleasure in referring to as yatirAja -- King among sannyAsins. According to deshika, sexual thoughts may beset brahmA, shiva and even nArAyaNa, but never a votary of yatIshvara (834). Lord varadarAja, the black cloud perched on the Elephant Hill (karI-shaila) is able to shower more than the desired benefits on His devotees only because of His having drunk deep from the Ocean of Nectar that is yatirAja’s dayA (851). yatirAja is an incarnation of the Lord's Five Weapons (801), and/or of vishvakShena, the Commander-in-Chief of the Lord’s Army in vaikunta (821), and/or of the Lord Himself (852). Curiously neither Amudanar in his rAmAnuja Nootrandadi, nor deshika in yatirAja saptati refers to rAmAnuja being sheShAvatAra (incarnation of adisheSha) as popularly believed by all. One may read and re-read yatirAja saptati any number of times : he will not be able to make up his mind whether deshika’s fascination is for yatirAja, the Person, or for his works, or for the siddhAnta evolved and postulated in those works. That vedAnta deshika was first drawn towards yatirAja because of his works is seen from the first shloka in his praise in this work (799). deshika’s eulogy of the works in shloka 822 can be taken as typical of his great esteem and admiration. The reason is that only rAmAnuja’s works truly reflect (as in a mirror), lakShmI-kAnta (Consort of shrI) as He really is, whereas in other systems He is seen distorted, if He is seen at all. shloka 805 also postulates that the tattva known as hari can be seen whole and entire (akShatam) only in yatirAja’s SiddhAnta. A study of rAmanuja’s works under a proper AchArya will preserve our purity and prevent us from straying into faulty systems of thought (815). All the greatness and glory that deshika achieved in his life are attributed to his association with the system promulgated by yatirAja (862) and to the blessings showered on him by great AchAryas immersed in yatirAja’s yasas (renown) (860). Encoded and proofread by Pallasena Narayanaswami ppnswami at gmail.com
% Text title            : yatirAjasaptatiH
% File name             : yatirAjasaptatiH.itx
% itxtitle              : yatirAjasaptatiH (vedAnta deshikavirachitA)
% engtitle              : yatirAjasaptatiH
% Category              : major_works, vedAnta-deshika, vedanta
% Location              : doc_z_misc_major_works
% Sublocation           : major_works
% Author                : vedAntadeshika
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Source                : Stotras of Vedanta Desika
% Indexextra            : (Scans 1, Text with comments)
% Latest update         : October 2, 2017, October 6, 2018
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org