कविकण्ठाभरणम्
वल्मीकजन्मनि मुनौ कृतसन्निधा (ना)
जिह्वाङ्गणात् समवतीर्य पुरा विधातुः ।
अग्रासनं कविषु या विततार तस्मै
सा भारती विजयतां सुचिरं धरण्याम् ॥ १॥
नो कालिदासपदवीमनुधावतीयं
वाणी ममेति कवितां न परित्यजामि ।
नासौ पुरन्दरपुरीगणिकोपमेति
को वा जहाति दयितां परिणीय लोके ॥ २॥
कर्णामृतत्वमुपयाति निशम्यमाना
वाणीव या मृगदृशामनुभूयमाना ।
तृष्णां च वर्धयति वक्त्रसुधेव तासां
तामामव(न)न्ति कवितां रसिकावतंसाः ॥ ३॥
काठिन्यजन्मसदनं न सदा शिलेव
तूस्य राशिरिव नापि सुखेन भेद्या ।
अन्तर्निगुम्भितरसा कठिनापि मृद्वी
या कामिनीस्तनतटीव हि सैव वाणी ॥ ४॥
कान्ता यथा हृदयहारिणमेव कान्तं
वाणी स्वयं कवयितारमसौ वृणीते ।
कृष्टा बलाद्यदि भवेन्न कदापि तेन
भुङ्क्तेऽखिलानपि यथारसमात्मभोगान् ॥ ५॥
दुःखानि चाप्ततमबन्धुवियोगजानि
वाक्यैः सुधारसमयैः परिमार्ष्टि कान्ता ।
तस्या वियोगजनितानि (च) दुःसहानि
दूरीकरोतु नितरां कवितावधूटी१॥ ६॥
मन्दानिलेन शिशिरेण हि वीज्यमाना
बालारुणस्य किरणैः परिचुम्बूयमाना ।
वाणी पतत्रिनिचयैरपि गीयमाना
डोलाविहारमयते हृदये कवीनाम् ॥ ७॥
जिह्वाङ्गणेष्वनृतमेव सदा कवीनां
नृत्यं समाकलयतीति हि ये भणन्ति
कुर्वन्तु ते ननु निजामचिरेण जिह्वां
जह्नूद्भवासलिलसङ्गमतः पवित्राम् ॥ ८॥
गीतेन मञ्जुमुरलीमुखसम्भवेन
चित्रेण भावपरिगुम्भनबन्धुरेण ।
माध्वीरसेन कवनेन च दीयमान-
मानन्दसारमवगच्छति तद्रसज्ञः ॥ ९॥
ये केचिदर्थगुरुतामविचिन्त्य वाचां
प्रासैकदत्तधिषणाः कवयो लिखन्ति ।
तेषां कृती रसिकरञ्जकतां न याति
भूषाञ्चिता विवसना हरिणेक्षणेव ॥ १०॥
स्यात्सन्ततं कवयितुर्यदि सिच्यमाना
वाणी रसैरघरितामरलोकपानैः ।
प्रासैर्विनापि हृदयङ्गमतामुपैति
नारोपितं गुणमभीत्सति रम्यता हि ॥ ११॥
आराममन्दमरुताभिगतश्च सौधः
पूर्णेन शीतरुचिना रुचिरा त्रियामा ।
माधुर्यगर्भकविता रसिका च कान्ता
येषां भवन्ति पुरुषा ननु ते हि धन्याः ॥ १२॥
ये केचिदत्र कवयः शतशः पदानां
विच्छेदनेन परितोषमवाप्नुवन्ति ।
एते सरस्वति सरोरुहकोमलानि
कृन्तन्ति निष्करुणमेव तवाङ्गकानि ॥ १३॥
का त्वं मृगाक्षि, वचसामधिदेवताहं
मातश्चिराय रुदती ननु कुत्र यासि ।
भोजादिमाश्रयलयात् दिवमुत्पतामि
मामैवमम्ब, कथमत्र हि मादृशानाम् ॥ १४॥
बालेन भारति मया मितदृष्टिनापि
पादाम्बुजे तव मद समर्पितैषा ।
कारुण्यवारिनिधिवीचिभिराहता ते
जीयाच्चिरं जगति मे कविकण्ठभूषा ॥ १५॥
॥ इति कृष्णकविविरचितं कविकण्ठाभरणं समाप्तम् ॥
Encoded and proofread by Sunder Hattangadi