श्रीकृष्णकविविरचितं मनोगर्हणम्
कृच्छ्रेणेयमुपार्जिता सुमनसां विद्यानवद्याप्यसौ
वाणी चाधिगता कवीन्द्रहृदयानन्दैकसन्दायिनी ।
सङ्गीतादिषु च प्रवृत्तिरनधेष्वासादिता केषुचित्
जानीमो न वयं कदा खलु मनो जायेत ते निर्वृतिः ॥ १॥
शास्त्रं सम्यगधीतमत्र भवता पञ्चेषुणोदीरितं
प्राप्तस्तत्परिशीलनाय सुचिरं वासश्च योषान्तिके ।
तत्पादाब्जतलाहतिप्रभृतयो मोदाय च प्राभवन्
जानीमो न वयं कदा खलु मनो निर्वृत्ततामेष्यसि ॥ २॥
निर्लज्जं कवितासतीमुपनतां विक्रीय भूमीभुजा-
मास्थानेष्वितरत्र चापि नितरामालम्ब्य सेवादिकम् ।
वाणिज्यं प्रतिपद्य किञ्चिदपि चोपात्तं यथार्हं धनं
जानीमो न वयं कदा खलु मनो निर्वृत्ततामेष्यसि ॥ ३॥
पुन्नाम्नो नरकात् पितॄनिह मम त्रातेति पुत्रोऽप्यसौ
यागाद्यैरपि कर्मभिः कथमपि प्राप्तश्चिरात्पावनैः ।
यातः संसृतिधूर्वहत्वमपि च श्रान्तं नितान्तं वपुः
जानीमो न वयं कदा खलु मनो निर्वृत्ततामेष्यसि ॥ ४॥
युक्तं ते प्रबलेषु तेषु सुचिरं पञ्चेन्द्रियेष्वग्रतः
प्रस्थानं रथिनो बलादनुपसंहार्येषु वाजिष्विव ।
विश्रान्तिं गतवन्ति तानि तु भवन्मित्राणि किं वा वृथा-
धावस्तत्र धरातले न हि मनो जायेत ते निर्वृतिः ॥ ५॥
॥ इति कृष्णकविकृतं मनोगर्हणम् ॥
Encoded and proofread by Sunder Hattangadi