ब्रह्मादिभिः कृतं सूर्यस्तोत्रम् १०

ब्रह्मादिभिः कृतं सूर्यस्तोत्रम् १०

ज्ञात्वा च परमात्मानं सर्व एव पृथक् पृथक् । दिव्याभिः स्तुतिभिर्देवः स्तुतोऽऽस्माभिस्तदेश्वरः ॥ ८॥ ब्रह्मादय ऊचुः । आदिदेवोऽसि देवानामैश्वर्याच्च त्वमीश्वरः । आदिकर्त्ताऽसि भूतानां देवदेवो दिवाकरः ॥ ९॥ जीवनः सर्वभूतानां देवगन्धर्वरक्षसाम् । मुनिकिन्नरसिद्धानां तथैवोरगपक्षिणाम् ॥ १०॥ त्वं ब्रह्मा त्वं महादेवस्त्वं विष्णुस्त्वं प्रजापतिः । वायुरिन्द्रश्च सोमश्च विवस्वान्वरुणस्तथा ॥ ११॥ त्वं कालः सुष्टिकर्त्ता च हर्ता भर्ता तथा प्रभुः । सरितः सागराः शैला विद्युदिन्द्रधनूंषि च ॥ १२॥ प्रलयः प्रभवश्चैव व्यक्ताव्यक्तः सनातनः । ईश्वरात्परतो विद्या विद्यायाः परतः शिवः ॥ १३॥ शिवात्परतरो देवस्त्वमेव परमेश्वरः । सर्वतः पाणिपादान्तः सर्वतोऽक्षिशिरोमुखः ॥ १४॥ सहस्रांशुः सहस्रास्यः सहस्रचरणेक्षणः । भूतादिर्भूर्भुवःस्वश्च महः सत्यं तपो जनः ॥ १५॥ प्रदीप्तं दीपनं दिव्यं सर्वलोकप्रकाशकम् । दुर्निरीक्षं सुरेन्द्राणां यद्रूपं तस्य ते नमः ॥ १६॥ सुरसिद्धगणैर्जुष्टं भृग्वत्रिपुलहादिभिः । स्तुतं परममव्यक्तं यद्रूपं तस्य ते नमः ॥ १७॥ वेद्यं वेदविदां नित्यं सर्वज्ञानसमन्वितम् । सर्वदेवातिदेवस्य यद्रूपं तस्य ते नमः ॥ १८॥ विश्वकृद्विश्वभूतं च वैश्वानरसुरार्चितम् । विश्वस्थितमचिन्त्यं च यद्रूपं तस्य ते नमः ॥ १९॥ परं यज्ञात् परं वेदात् परं लोकात् परं दिवः । परमात्मेत्यभिख्यातं यद्रूपं तस्य ते नमः ॥ २०॥ अविज्ञेयमनालक्ष्यमध्यानगतमव्ययम् । अनादिनिधनं चैव यद्रूपं तस्य ते नमः ॥ २१॥ नमो नमः कारणकारणाय नमो नमः पापविमोचनाय । नमो नमस्ते दितिजार्दनाय नमो नमो रोगविमोचनाय ॥ २२॥ नमो नमः सर्ववरप्रदाय नमो नमः सर्वसुखप्रदाय । नमो नमः सर्वधनप्रदाय नमो नमः सर्वमतिप्रदाय ॥ २३॥ स्तुतः स भगवानेवं तैजसं रूपमास्थितः । उवाच वाचा कल्याण्या को वरो वः प्रदीयताम् ॥ २४॥ इति ब्रह्मपुराणे त्रयस्त्रिंशाध्यायान्तर्गतं ब्रह्मादिभिः कृतं सूर्यस्तोत्रं समाप्तम् । ब्रह्मपुराण । अध्याय ३३/९-२३॥ brahmapurANa . adhyAya 33/9-23.. Proofread by PSA Easwaran
% Text title            : Brahmadibhih Kritam Surya Stotram 10
% File name             : brahmAdibhiHkRRitaMsUryastotram10.itx
% itxtitle              : sUryastotram 10 (brahmAdibhiHkRitaM brahmapurANAntargatam Adidevo.asi devAnAmaishvaryAchcha tvamIshvaraH)
% engtitle              : brahmAdibhiHkRRitaM sUryastotram 10
% Category              : navagraha, brahmapurANa, stotra
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : brahmapurANa | adhyAya 33/9-23||
% Indexextra            : (Scans 1, 2, 3, 4)
% Latest update         : October 1, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org