ब्रह्मविष्णुरुद्रकृतं सूर्यस्तोत्रम् १३

ब्रह्मविष्णुरुद्रकृतं सूर्यस्तोत्रम् १३

(ब्रह्मविष्णुरुद्रा ऊचुः) आदिदेवोऽसि देवानामीश्वराणां त्वमीश्वरः । आदिकर्तासि भूतानां देवदेव सनातन ॥ ११॥ जीवनं सर्वसत्त्वानां देवगन्धर्वरक्षसाम् । मुनिकिन्नरसिद्धानां तथैवोरगपक्षिणाम् ॥ १२॥ त्वं ब्रह्मा त्वं महादेवस्त्वं विष्णुस्त्वं प्रजापतिः । वायुरिन्द्रश्च सोमश्च विवस्वान्वरुणस्तथा ॥ १३॥ त्वं कालः सृष्टिकर्ता च हर्ता त्राता प्रभुस्तथा । सरितः सागराः शैला विद्युदिन्द्रधनूंषि च । प्रलयः प्रभवश्चैव व्यक्ताव्यक्तः सनातनः ॥ १४॥ ईश्वरात्परतो विद्या विद्यायाः परतः शिवः । शिवात्परतरो देवस्त्वमेव परमेश्वर ॥ १५॥ सर्वतः पाणिपादस्त्वं सर्वतोऽक्षिशिरोमुखः । सहस्रांशुस्त्वं तु देव सहस्रकिरणस्तथा ॥ १६॥ भूरादिभूर्भुवः स्वश्च महर्जनस्तपस्तथा । प्रदीप्तं दीप्तिमन्नित्यं सर्वलोकप्रकाशकम् । दुर्निरीक्ष्यं सुरेन्द्राणां यद्रूपं तस्य ते नमः ॥ १७॥ सुरसिद्धगणैर्जुष्टं भृग्वत्रिपुलहादिभिः । शुभं परममव्यग्रं यद्रूपं तस्य ते नमः ॥ १८॥ पञ्चातीतस्थितं तद्वै दशैकादश एव च । अर्धमासमतिक्रम्य स्थितं तत्सूर्यमण्डले । तस्मै रूपाय ते देव प्रणताः सर्वदेवताः ॥ १९॥ विश्वकृद्विश्वभूतं च विश्वानरसुरार्चितम् । विश्वस्थितमचिन्त्यं च यद्रूपं तस्य ते नमः ॥ २०॥ परं यज्ञात्परं देवात्परं लोकात्परं दिवः । दुरतिक्रमेति यः ख्यातस्तस्मादपि परं परात् । परमात्मेति विख्यातं यद्रूपं तस्य ते नमः ॥ २१॥ अविज्ञेयमचित्यं च अध्यात्मगतमव्ययम् । अनादिनिधनं देवं यद्रूपं तस्य ते नमः ॥ २२॥ नमो नमः कारणकारणाय नमो नमः पापविनाशनाय । नमो नमो वन्दितवन्दनाय नमो नमो रोगविनाशनाय ॥ २३॥ नमो नमः सर्ववरप्रदाय नमो नमः सर्वबलप्रदाय । नमो नमो ज्ञाननिधे सदैव नमो नमः पञ्चदशात्मकाय ॥ २४॥ इति भविष्यपुराणे ब्राह्मे पर्वणि त्रयोविंशाधिकशततमाध्यायान्तर्गतं ब्रह्मविष्णुरुद्रादिकृतं सूर्यस्तोत्रं समाप्तम् । भविष्यपुराण । ब्राह्मपर्व । अध्याय १२३/११-२४॥ bhaviShyapurANa . brAhmaparva . adhyAya 123/11-24.. Proofread by PSA Easwaran
% Text title            : Brahmavishnurudrakritam Surya Stotram 13
% File name             : brahmaviShNurudrakRRitaMsUryastotram13.itx
% itxtitle              : sUryastotram 13 (brahmaviShNurudrakRitaM bhaviShyapurANAntargatam Adidevo.asi devAnAmIshvarANAM tvamIshvaraH Adidevo.asi devAnAmIshvarANAM tvamIshvaraH)
% engtitle              : brahmaviShNurudrakRRitaM sUryastotram 13
% Category              : navagraha, bhaviShyapurANa, stotra
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran
% Description/comments  : bhaviShyapurANa | brAhmaparva | adhyAya 123/11-24||
% Indexextra            : (Scans 1, 2, 3, 4, 5, Hindi)
% Latest update         : October 7, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org