पुराणोक्तनवग्रहमन्त्रजपप्रयोगः

पुराणोक्तनवग्रहमन्त्रजपप्रयोगः

सूर्यः - ॐ ग्रहाणामादिरादित्यो लोकरक्षणकारकः । विषमस्थानसम्भूतां पीडां हरतु ते रविः ॥ १॥ चन्द्रः - ॐ रोहिणीशः सुधामूर्तिः सुधागात्रः सुधाशनः । विषमस्थानसम्भूतां पीडां हरतु ते विधुः ॥ २॥ भौमः - ॐ भूमिपुत्रो महातेजा जगतां भयकृत्सदा । वृष्टिकृद् वृष्टिहर्ता च पीडां हरतु ते कुजः ॥ ३॥ बुधः - ॐ उत्पातरूपो जगतां चन्द्रपुत्रो महाद्युतिः । सूर्यप्रियकरो विद्वान् पीडां हरतु ते बुधः ॥ ४॥ बृहस्पतिः - ॐ देवमन्त्री विशालाक्षः सदा लोकहिते रतः । अनेकशिष्यसम्पूर्णः पीडां हरतु ते गुरुः ॥ ५॥ भृगुः - ॐ दैत्यमन्त्री गुरुस्तेषां प्राणदश्च महामतिः । प्रभुस्ताराग्रहाणाञ्च पीडां हरतु ते भृगुः ॥ ६॥ शनिः - ॐ सूर्यपुत्रो दीर्घदेहो विशालाक्षः शिवप्रियः । मन्दचारः प्रसन्नात्मा पीडां हरतु ते शनिः ॥ ७॥ राहुः - ॐ महाशिरा महावक्त्रो दीर्घदंष्ट्रो महाबलः । अतनुश्चोर्ध्वकेशश्च पीडां हरतु ते तमः ॥ ८॥ केतुः - ॐ अनेकरूपवर्णैश्च शतशोऽथ सहस्रशः । उत्पातरूपो जगतां पीडां हरतु मे शिखी ॥ ९॥ मुन्था - मुन्थेश्वरस्य मन्त्र एव मुन्थाया मन्त्रः ॥ १०॥ रवेः सप्तसहस्राणि चन्द्रस्यैकादशैव तु । कुजे दशसहस्राणि बुधे चतुःसहस्रकम् ॥ एकोनविंशतिर्जीवे शुक्रे षोडश एव च । त्रयोविंशति मन्दस्य राहुरष्टादश स्मृतः । केतोः सप्तसहस्राणि इत्येते जपसङ्ख्यया ॥ इति पुराणोक्तनवग्रहमन्त्रजपप्रयोगः सम्पूर्णः । Proofread by Paresh Panditrao
% Text title            : Puranokta Navagraha Mantra Japa Prayogah
% File name             : navagrahamantrajapaprayogaHpurANokta.itx
% itxtitle              : navagrahamantrajapaprayogaH (purANokta)
% engtitle              : navagrahamantrajapaprayogaH purANokta
% Category              : navagraha, mantra
% Location              : doc_z_misc_navagraha
% Sublocation           : navagraha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Paresh Panditrao
% Description/comments  : Same as navagrahapIDAharastotram with additional information
% Indexextra            : (Scan,
% Latest update         : December 16, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org